स्कन्दसहस्रनामावलिः
(शिवरहस्यव्युत्पन्नम्)
ॐ सुब्रह्मण्याय । सुरेशानाय । सुरारिकुलनाशनाय । ब्रह्मण्यो । ब्रह्मविदे । ब्रह्माय । ब्रह्मविद्यागुरवे । गुरवे । ईशानगुरवे । अव्यक्ताय । व्यक्तरूपाय । सनातनाय । प्रधानपुरुषाय । कर्त्रे । कर्मणे । कार्याय । कारणाय । श्रीकुमाराय । अधिष्ठानाय । भोक्त्रे । भोगाय । केवलाय । अनादिनिधनाय । साक्षिणे । नियताय । नियमाय । यमाय । वाक्पतये । वाक्प्रदाय । वाग्मिने । वाच्याय । वक्त्रे । वाचकाय । पितामहगुरवे । लोकगुरवे । तत्त्वार्थबोधकाय । वेदान्ताय । वेदगुह्याय । वेदशास्त्रप्रभेदकाय । सर्वविद्यात्मकाय । शान्ताय । चतुष्षष्टिकलागुरवे । मन्त्रार्थाय । मन्त्रमूर्तये । मन्त्रतन्त्रप्रवर्तकाय । मन्त्रिणे । मन्त्राय । मन्त्रबीजाय । महामन्त्रोपदेशकाय । महोत्साहाय । महाशक्तये । महाशक्तिधराय । प्रभवे । जगत्स्रष्ट्रे । जगत्पात्रे । जगन्मूर्तये । जगन्मयाय । जगदादये । अनादये । जगद्बीजाय । जगद्गुरवे । ज्योतिर्मयाय । प्रशान्तात्मने । सच्चिदानन्दविग्रहाय । सुखमूर्तये । सुखकराय । सुखिने । सुखवराकृतये । ज्ञात्रे । ज्ञानाय । ज्ञेयरूपाय । ज्ञप्त्रे । ज्ञानफलाय । बुधाय । विष्णवे । जिष्णवे । ग्रसिष्णवे । प्रभविष्णवे । सहिष्णुजाय । तितिष्णवे । अजिराय । भूष्णवे । वर्धिष्णवे । शान्तविग्रहाय । ऋजवे । सुगृह्याय । सुलभाय । दुर्लभाय । लोभवर्जिताय । अभिज्ञाय । ज्ञाय । यज्ञात्मने । शिवज्ञानप्रदाय । गुहाय । हृदयादये । अरहङ्कराय । भूतादये । भूतभाविताय । भूताय । भव्याय । भवसुताय । भूतभव्यभवत्प्रभवे । देवसेनापतये । नेत्रे । कुमाराय । देवनायकाय । तारकारये । महावीराय । शूरपद्मशिरोहराय । अनेककोटिब्रह्माण्डपरिपूर्णाय । असुरान्तकाय । स्फुटाट्टहासकृत्तारतारकासुरनाशनाय । महाक्रोधाय । महोत्साहाय । महाबलपराक्रमाय । महाबुद्धये । महासिद्धये । महामायाय । महाभुजाय । रणभीमाय । शत्रुहराय । धीराय । दान्ताय । गुणोत्तराय । महाधनवे । महाबाणाय । महादेवप्रियात्मजाय । महाभुजाय । महापादाय । महातन्त्राय । महाद्युतये । महर्द्धये । महनीयाङ्गाय । मयूरवरवाहनाय । मयूरबर्हातपत्राय । मयूरनटनप्रियाय । महानुभावाय । अमेयश्रिये । अमेयात्मने । महाप्रभवे । सगुणाय । दुर्गुणद्वेषिणे । निर्गुणाय । निर्मलाय । अमलाय । चञ्चलाय । विमलाय । कान्ताय । कमलापतिपूजिताय । कालाय । कमलपत्राक्षाय । कलिकल्मषनाशनाय । महारणाय । महायोधाय । महाबुद्धिप्रदायकाय । महारथाय । महाभागाय । महाभीष्टफलप्रदाय । चन्द्रचूडाङ्गभूभागविहारणविशारदाय । चन्द्रपीडाकराम्भोजपरिमृष्टभुजावलये । ईशाननयनानन्दकन्दाय । लावण्यशेवधये । लम्बोदरसहक्रीडालम्पटाय । शरसम्भवाय । अमरीनयनालोकचकोरीपूर्णचन्द्रमसे । सर्वाङ्गसुन्दराय । श्रीशाय । श्रीकराय । श्रीप्रदाय । शिवाय । वल्लीसेनापतये । वीराय । जपाशोणग्रतालुकाय । षड्जमध्यमगान्धारतन्त्रिने । सुमधुरस्वराय । मेघगम्भीरनिर्घोषाय । प्रियवाचे । प्रीतनिर्जराय । स्मितवक्त्राय । उत्पलाक्षाय । चारुगम्भीरवीक्षणाय । कर्णान्तदीर्घनयनाय । कर्णभूषणभूषिताय । सुकुण्डलाय । चारुगण्डाय । कम्बुग्रीवाय । महाहनवे । पीनाङ्गाय । गूढजत्रवे । पीनवृत्तभुजावलये । रत्नाङ्गाय । रत्नकेयूरकङ्कणाय । रत्नभूषिताय । व्याकीर्णकलसद्वामप्रकोष्ठवलयोज्ज्वलाय । रेखाङ्कुशध्वजच्छत्रपाणिपद्ममहायुधाय (छत्राङ्कुशपताकाब्जरेखारञ्जितसत्कराय) । सुरलोकाभयकरबालारुणकरावलये । अङ्गुलीयकरत्नांशुद्विगुणोद्यन्नखाङ्कुराय । पीनवक्षाय । महाहाराय । नवरत्नविभूषिताय नमः । २०० ॥
ॐ हिरण्यगर्भाय । हेमाङ्गाय । हिरण्यकवचाय । हराय । हिरण्मयशिरस्त्राणाय । हिरण्याक्षाय । हिरण्यदाय । हिरण्यनाभाय । त्रिवलीललितोदरसुन्दराय । सुवर्णसूत्रविलसद्विशङ्कटकटीतटाय । पीताम्बरधराय । मुक्तासरोद्भासितमध्यमाय । नवरत्नावलिप्रोद्यन्मेखलोऽङ्गुलिभूषणाय । पीवरोरवे । सुवृत्तोद्यत्सुजानवे । सुप्रगुल्फकाय । शङ्खचक्राब्जकुलिशध्वजरेखालसत्पदाय । सुरेन्द्रमकुटप्रोद्यन्मणीरञ्जितपादुकाय । पूज्याङ्घ्रये । चारुनखराय । सुरालिनतपादुकाय । पार्वतीपाणिकमलपरिमृष्टाङ्गसुन्दराय । मत्तमातङ्गगमनाय । मान्याय । मान्यगुणाकराय । क्रौञ्चदैत्यमहोद्दामवक्षःस्थलविदारणाय । सुगमाय । दुर्गमाय । दुर्गाय । दुरारोहाय । अरिदुःसहाय । सुभगाय । सुमुखाय । सूर्याय । सूर्यमण्डलमध्यगाय । सृष्टिकर्त्रे । उपसंहर्त्रे । कृपासंरक्षिताखिलाय । जगत्स्रष्ट्रे । जगद्भर्त्रे । जगत्संहारकारकाय । स्थावराय । जङ्गमाय । जेत्रे । विजयाय । विजयप्रदाय । जयशीलाय । जितारातये । जितमानाय । जितासुराय । जितकामाय । जितक्रोधाय । जितमोहमदाय । यूने । कामदाय । कामभृते । कामिने । कामिकाद्यागमप्रियाय । जितकल्पाय । कलिध्वंसिने । कल्हारकुसुमप्रियाय । रामाय । रमयित्रे । रम्याय । रमणीजनवल्लभाय । रसज्ञाय । रसमूर्तये । रस्याय । नवरसात्मकाय । रतात्मने (रसात्मने) । रसिकात्मने । रासक्रीडापराय । रतये । कोटिसूर्यप्रकाशाभाय । सोमसूर्याग्निलोचनाय । कालाभिज्ञाय । कलारूपाय । कलावते । सकलप्रभवे । बिन्दुनादकलामूर्तये । कालातीताय । क्षराक्षराय । मात्रास्वराकृतये । एकमात्राय । द्विमात्रकाय । त्रिमात्रकाय । चतुर्मात्राय । मात्रतीताय । अतिमात्रकाय । व्यञ्जनात्मने । वियुक्तात्मने । युक्ताय । मुक्तिप्रदाय । गुरवे । विसर्जनीयाय । अनुस्वाराय । सर्ववर्णतनवे । महते । अकारात्मने । उकारात्मने । मकारात्मने । त्रिवर्णकाय । ओङ्काराय । वषट्काराय । स्वाहाकाराय । स्वधाकृतये । अकृतये । भवनाय । हव्याय । होत्रे । अध्वर्यवे । महाहवये । ब्रह्मणे । उद्गात्रे । सदस्याय । बर्हिषे । इध्माय । समिधे । चरवे । गव्याय । पशवे । पुरोडाशाय । आमिक्षाय । वाजिवाहनाय । पवनाय । पावनाय । पूताय । पवमानाय । पराकृतये । पवित्राय । परिधये । पूर्णपात्राय । पूर्णमनोरथाय । विशोधनाय । पशुपतये । पशुपाशविमोकाय । पाकयज्ञाय । महायज्ञाय । यज्ञाय । यज्ञपतये । यजुषे । यज्ञाङ्गाय । यज्ञाय । इज्याय । यज्वने । यज्ञफलप्रदाय । यज्ञाङ्गभुवे । यज्ञभूमये । यज्ञश्रिये । यज्ञवाहनाय । याज्ञिकाय । यज्ञविध्वंसिने । यज्ञेशाय । यज्ञरक्षकाय । सहस्रबाहवे । विश्वात्मने । सहस्राक्षाय । सहस्रपादे । सहस्रवदनाय । नित्याय । सहस्रात्मने । विराजे । स्वराजे । सहस्रशीर्ष्णे । विश्वाय । तेजाय । प्राज्ञाय । आत्मवते । अणवे । बृहते । कृशाय । स्थूलाय । दीर्घाय । ह्रस्वाय । लघवे । गुरवे । सूक्ष्माय । सूक्ष्मतराय । अनन्ताय । विश्वरूपाय । निरञ्जनाय । अमृतेशाय । अमृताहाराय । अमृतदात्रे । अमृताङ्गवते । अहोरूपाय । त्रियाम्णे । सन्ध्यारूपो । दिनात्मकाय । मुहूर्ताय । घटिकारूपाय । यमरूपाय । यमात्मकाय । पूर्वाह्णरूपाय । मध्याह्नरूपाय । सायाह्नरूपकाय । अपराह्णय । अतिनिपुणाय । सवनात्मने । प्रजाकराय नमः । ४०० ॥
ॐ वेद्याय । वेदयित्रे । वैद्याय । वेदद्रष्ट्रे । विदांवराय । विनयाय । सत्यसन्धाय । विद्वते । विद्वज्जनप्रियाय । विश्वगोप्त्रे । विश्वभोक्त्रे । विश्वकृते । विश्वभेषजाय । विश्वम्भराय । विश्वपतये । विश्वेशाय । विश्वतोमुखाय । विश्वसाक्षिने । विश्वहन्त्रे । वीराय । विश्वम्भराधिपाय । वीरबाहवे । वीरहन्त्रे । वीराग्र्याय । वीरसैनिकाय । वीरवादप्रियाय । शूराय । शूरसेनाय । सुराधिपाय । शूरपद्मासुरद्वेषिने । तारकासुरभञ्जनाय । ताराधिपाय । तारहाराय । शूरहन्त्रे । सुरार्चिताय । शरवते । शरसम्भूताय । शक्ताय । शरवणोद्भवाय । शाम्भवाय । शङ्कराय । शम्भवे । साधवे । साधुजनप्रियाय । सारङ्गाय । सागराय । सर्वाय । शर्वाय । शर्वप्रियाय । स्वराजे । गङ्गाधराय । अतिगम्भीराय । गभीरहृदयाय । अनघाय । अमोघघोषाय । विक्रम्याय । शम्भवे । शक्रप्रपूजिताय । चक्रपाणये । चक्रपतये । दिक्चक्रान्तमहीपतये । सार्वभौमाय । सुरपतये । सर्वलोकाभिरक्षकाय । चिद्रूपाय । सत्यसङ्कल्पाय । सत्याय । सत्यवतां वराय । सत्यप्रियाय । सत्यपतये । सत्यलोकजनप्रियाय । भूताय । भव्याय । भूतनाथाय । भावाभावविवर्जिताय । भूतादये । भूतमध्यस्थाय । भूतविप्लवकारकाय । भूतिभूषितसर्वाङ्गाय । भूताधिष्ठानकोऽव्ययाय । बीजरूपाय । गुणानिधये । तेजोराशये । अकल्मषाय । कल्मषघ्नाय । कल्यहीनाय । कारुण्यामृतवारिधये । कल्याणमूर्तये । कल्याणाचलकार्मुकसम्भवाय । कामात्मने । कामदाय । कान्ताय । कामक्रोधविवर्जिताय । गोप्त्रे । गोपायित्रे । गुप्तये । गुणातीताय । गुणाश्रयाय । सत्वमूर्तये । रजोमूर्तये । तमोमूर्तये । चिदात्मकाय । देवसेनापतये । दिव्यमहिम्ने । महिमाकराय । प्रकाशकृताय । पापघ्नाय । पवनाय । पावनाय । अनलाय । कैलासनिलयाय । कान्ताय । कनकाचलसन्निभाय । विद्रुमाय । वेदमूर्तये । व्याकृतये । कृतिरक्षकाय । इन्द्रोपेन्द्रादिवन्द्याङ्घ्रये । उरुजङ्घाय । उरुक्रमाय । विक्रान्ताय । विजयाक्रान्ताय । विजयिने । विनयप्रियाय । अविनीतजनध्वंसिने । सर्वापगुणवर्जिताय । शेषाचलैकनिलयाय । वल्लीवाञ्छितविभ्रमाय । शाम्भवाय । शम्भुतनयाय । शङ्कराङ्गविभूषणाय । स्वयम्भुवे । स्ववशाय । स्वस्थाय । पुष्कराय । पुरभिद्भवाय । मनवे । मानवगोप्त्रे । स्थविष्ठाय । स्थविराय । यूने । बालाय । शिशवे । नित्ययूने । नित्यकौमारवते । महते । अग्राह्यरूपाय । ग्राह्याय । सुग्राह्याय । सुन्दराकृतये । प्रमर्दनाय । प्रभूतश्रिये । लोहिताक्षाय । अरिमर्दनाय । त्रिधाम्ने । त्रिककुब्भव्याय । लोकनिलयाय । लयाय । शर्मदाय । शर्मवते । शर्मिणे । शरण्याय । शरणालयाय । स्थाणवे । स्थिरतराय । स्थेयाय । स्थिरश्रिये । स्थिरविक्रमाय । स्थिरप्रतिज्ञाय । स्थिरधिये । विश्वरेतसे । प्रजोद्भवाय । अव्ययाय । प्रत्ययाय । प्रष्ठाय । सर्वज्ञाय । सर्वदर्शनाय । सर्ववागीश्वराय । सिद्धाय । शिवयोगाय (शिवयोगिने) । शिवप्रियाय । मनस्विने । मानदाय । मान्याय । जैगीषव्यगुरवे । बुधाय । समात्मने । समदर्शिने । सम्मताय । समदर्शनाय । भस्मत्रिपुण्ड्रकषड्भालाय । रुद्राक्षकरकङ्कणाय । शिवलिङ्गार्चनप्रीताय । षडक्षरजपादराय । शुचये । शुचिमनसे । शुद्धाय । शुचिकीर्तये । शुचिश्रवसे । रौद्रकर्मणे नमः । ६०० ॥
ॐ महाकर्मणे । रुद्रांशाय । रुद्रसम्भवाय । अनेकमूर्ध्ने । विश्वात्मने । अनेकबाहवे । अरिन्दमाय । वीरबाहवे । गणाध्यक्षाय । विष्वक्सेनाय । वितर्दनाय । सर्वदाय । सर्वगाय । सर्वाय । सर्ववेदान्तगोचराय । कवये । पुराणाय । शास्त्रे । सुब्रह्मण्यालयाय । हरये । भ्राजिष्णवे । विष्णुविनुताय । कृष्णकेशाय । कृशोदराय । भोजनाय । भाजनाय । भोक्त्रे । विश्वभोक्त्रे । विशां पतये । विश्वयोनये । विशालाक्षाय । विरागाय । वीरसेविताय । पुष्याय । पुरुयशसे । पूज्याय । पुरुकीर्तये । पुनर्वसवे । सुरेन्द्राय । सर्वलोकेन्द्राय । महेन्द्रोपेन्द्रवन्दिताय । विश्ववेद्याय । विश्वपतये । विश्वभुजे । विश्वभेषजाय । मधवे । मधुरसङ्गीताय । माधवाय । शुचये । ऊष्मलाय । शुक्लाय । शुभ्रगुणाय । शुक्राय । शोकहर्त्रे । शुचिस्मिताय । महेष्वासाय । विगुप्ताय । महीभर्त्रे । महीपतये । मरीचिर्दमनाय । मायिने । मातङ्गगतये । उद्रुताय । हंसाय । सुपर्णाय । सुमनसे । भुजङ्गाभभुजावलये । पद्मनाभाय । पशुपतये । पापघ्नाय । पापपारगाय । पण्डिताय । परवीरघ्नाय । स्कन्धाय । सेनापतये । महते । अर्षणाय । दुष्टशास्त्रे । दुर्धर्षाय । युद्धहर्षणाय । विश्वात्मने । सुविधेयात्मने । विश्वप्रख्यातविक्रमाय । सन्मार्गदर्शकाय । मार्गरक्षकाय । मार्गपालकाय । अनिरुद्धाय । अनिरुद्धश्रियाय । आदित्याय । दैत्यमर्दनाय । अनिमेषाय । निमेषाय । त्रिजङ्गद्ग्रामणये । गुणिने । संवृतात्मने । निवृत्तात्मने । सर्वात्मने । अमितविक्रमाय । अर्चिष्मते । अच्युतप्रीताय । पाशभृते । पावकाय । मरुते । सोमाय । सौम्याय । सोमनुताय । सोमयुजे । सोमभूषणाय । सर्वसामप्रियाय । सामाय । सर्वयज्ञस्तुताय । गुरवे । उपशान्तये । उमासूनवे । उत्फुल्लमुखपङ्कजाय । अमृत्यवे । असुरारातये । मूर्ताय । मृत्युभयोज्झिताय । मन्दारकुसुमापीडाय । मदनान्तकवल्लभाय । माल्यवते । मदनाकाराय । मालतीकुसुमप्रियाय । सुप्रसादाय । सुराध्यक्षाय । सुमुखाय । सुमहायशसे । वृषपर्वणे । विरूपाक्षाय । वृषसेनाय । वृषोदराय । मुक्ताय । अमुक्तगतये । भोक्त्रे । मुकुन्दाय । मुद्गराय । मुनये । श्रुतवते । श्रुतशास्त्राय । श्रुतिगम्याय । श्रुतिस्तुताय । वर्धमानाय । वनरतये । वानप्रस्थनिषेविताय । वाग्विदाय । वावदूकात्मने । वासुदेवाय । वरप्रदाय । महेश्वराय । महेशष्वासाय । शक्तिहस्ताय । त्रिशूलधृते । ओजसे । तेजसे । तेजस्विने । प्रतापिने । सुप्रतापवते । ऋद्धये । समृद्धये । संसिद्धये । सुसिद्धये । सिद्धसेविताय । अमृतांशवे । अमृतपाय । अमृताय । अमृतप्रदाय । चन्द्रमसे । चन्द्रवदनाय । चण्डाय । चन्द्रसुशीतलाय । मतिमते । नीतिमते । नीतये । कीर्तिमते । कीर्तिवर्धनाय । औषधाय । औषधीनाथाय । प्रतीपाय । भवमोचनाय । भास्कराय । भास्करतराय । भानवे । पाशविमोचनाय । चतुर्युगव्यवस्थात्रे । युगधर्मप्रवर्तकाय । अयुगाय । मिथुनाय । योगाय । योगज्ञाय । योगपारगाय । महाशनाय । महादात्रे । महाघोरपराक्रमाय । युगान्तकृते । युगावर्ताय । दृश्यादृश्यस्वरूपवते । सहस्रजिते । सहस्रात्मने । सहस्रायुधमण्डिताय नमः । ८०० ॥
ॐ अनन्तशूरसंहर्त्रे । सुप्रतिष्ठाय । सुशाङ्कराय । अक्रोधाय । क्रोधहन्त्रे । शत्रुक्रोधविवर्धनाय । विश्वमूर्तये । विश्वबाहवे । विश्वदृषे । विश्वतोमुखाय । विश्वपाय । विश्वनेत्रे । द्यावाभूम्योर्विवर्धनाय । अपां निधये । अकर्त्रे । अन्नदाय । विनयोज्जवलाय । षाण्मातुराय । अम्बुजभवाय । प्राणदाय । प्राणवर्धनाय । स्कन्दाय । स्कन्दधराय । धुर्याय । धैर्याय । धैर्यविवर्धनाय । जितारातये । धनाध्यक्षाय । वैद्यनाथाय । अनसूयकाय । देवदेवाय । बृहद्भानवे । स्वभानवे । पद्मवल्लभाय । अकुलाय । कुलनेत्रे । कुलेष्टाय । कुलेश्वराय । कुलाचलसुतासूनवे । असुहृदे । असुरार्दनाय । निधये । निधिपतये । पद्माय । शङ्खाय । निधिपतिर्पतये । शतानन्दाय । शतावर्ताय । शतायवे । शतायुधाय । पद्मासनाय । पद्मनेत्राय । पद्माऽङ्घ्रये । पद्मसंस्थिताय । कारणात्मने । कार्यात्मने । कामात्मने । कामवर्धनाय । त्रिशरीराय । शरीरिने । शरीरारोग्यवर्धनाय । जाग्रदे । प्रपञ्चाधिपतये । विश्वलोकेश्वराय । ईश्वराय । सुषुप्तिस्थाय । भीमसेनाय । महासेनाय । तुरीयकाय । स्वापनाय । स्वःपतये । लीनाय । विश्वमूर्तये । विलोचनाय । वीरायुधाय । वीरवेषाय । वीरायुधकरोज्ज्वलाय । सर्वलक्षणसम्पन्नाय । लक्ष्मीवते । सर्वलक्षणाय । समयज्ञाय । यज्ञसेनाय । समाधये । सामवल्लभाय । अमलाय । मान्यसुप्रीताय । वल्लभाय । भल्लवाय । बलाय । अहेतवे । हेतुमते । हेतवे । हेतिधृते । हर्तुराश्रयाय । विक्षराय । रोहिताय । रक्ताय । विरक्ताय । विजनप्रियाय । महीधराय । मातरिश्वने । माङ्गल्याय । मकरालयाय । मध्याय । शतादये । अक्षोभ्याय । रक्षोदारणविक्रमाय । गुहाय । गुहाशयाय । गोप्त्रे । गुहेशाय । गुणवर्धनाय । निरुद्योगाय । महोद्योगाय । निरीहाय । निर्णयाय । मधवे । महावेगाय । महाक्रोधाय । महाप्राणाय । महेश्वराय । अमृताशिने । अमृताहाराय । मितभाषिणे । मितार्थविदे । अक्षोभ्याय । क्षोभकृते । क्षेमाय । क्षेमवते । क्षोभनाशनाय । रुद्राय । रुद्रप्रियाय । मत्ताय । मत्तकेकिवहाय । पराय । धर्माधर्मविदां श्रेष्ठाय । वैकुण्ठाय । वासवप्रियाय । परधिने (परिधिने) । अपराक्रान्ताय । परितुष्टाय । परासुहृदे । रञ्जनाय । रणगाय । रुष्टाय । रमणाय । रात्रिवर्धनाय । विरजाय । विक्रमाय । विद्वते । वीरभद्रप्रियाय । क्रतवे । विनायकानुजाय । धात्रे । नन्दप्रियसखाय । वटवे । सर्वशक्तिमतां श्रेष्ठाय । सर्वदैत्यभयङ्कराय । शत्रुघ्नाय । सर्वलोकेशाय । शत्रुश्लाघिने । पराक्रमाय । शिशिराय । वर्षकाय । ग्रीष्माय । वसन्ताय । माधवाय । मधवे । वसन्तकेलिनिरताय । वनकेलिविशारदाय । पुष्पधूलीपरिचिताय । वनपल्लवशेखराय । जलकेलीपरिवृताय । जह्नुकन्योपलालिताय । गाङ्गेयाय । गीतकुशलाय । गङ्गापूरविहारणाय । गङ्गाधराय । गणपतये । गणायुत(गणयूथ)समावृताय । विश्रामाय । विक्रमाय । उद्धूताय । विश्वभुजे । विश्वदक्षिणाय । विश्वगय । विश्वधृते । अघोराय । विश्वरक्षणतत्पराय । विनतानन्दकारिणे । पार्वतीप्राणनन्दनाय । विशाखाय । षण्मुखाय । शास्त्रे । कार्तिकेयाय । वरप्रदाय । ९९६ ॥
॥ इति शिवरहस्यान्तर्गते स्कन्दसहस्रनामावलिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३८ । ३-१३८ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 38 . 3-138 ..
Notes:
SkandaSahasranāmāvaliḥ स्कन्दसहस्रनामावलिः is derived from the SkandaSahasranāmaStotram स्कन्दसहस्रनामस्तोत्रम् that can be accessed from one of the links given below.
The count apparently comes to be less than 1000.
Proofread by Ruma Dewan