गणेश्वरकृतं सुब्रह्मण्यस्तवः

गणेश्वरकृतं सुब्रह्मण्यस्तवः

(शिवरहस्यान्तर्गते ईशाख्ये) गणेश्वर उवाच । श्रीमच्चन्द्रकलाधरात्मजमजं श्रृङ्गारशोभाकृतिं गौरीपीनघनस्तनामितपयः सारज्ञमज्ञासनम् । अम्भोजप्रभवाभिमानजलदोदञ्चत्प्रचण्डानिलं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १७८॥ कारावासनिवासखिन्नविधिहृत्कञ्जात भानुं पुन- स्तद्वक्त्राब्जचतुष्टयस्तुतिमहाकल्याणशीलं विभुम् । क्रौञ्चारिं पितृपादवन्दितपदं षाण्मातुरं शाङ्करिं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १७९॥ ओङ्कारार्थ समर्थनार्थकवचोभूषाविशेषान्वितं पाथोजाभषडाननं शिखिकुलाधीशोरुतुङ्गध्वजम् । स्कन्दं सुन्दरकुन्ददन्तमनघं शम्भोर्गुरुं शाश्वतं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८०॥ शर्वाणीप्रणवोपदेश चतुरश्रीकण्ठकण्ठीरव- श्रोतारं रजनीशुभाङ्कविलसत्सिंहामसनस्थं गुहम् । वल्लीपीनपयोधरेक्षणपरं स्वर्णाहिराजाकृतिं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८१॥ ब्रह्माण्डैकसहस्रकाष्टभरणप्राचुर्यधैर्यस्फुर- त्कोपाटोपदुरापपापघटिताहङ्कारशूरान्तकम् । सेनान्यं सुरमान्यमुन्नभुजं चिन्ताब्धिकुम्भोद्भवं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८२॥ मार्ताण्डायुतभासमानमणिभृल्लावण्यतारुण्यजि- त्तत्कारुण्यशरण्यपञ्चकमयप्रोद्यत्फणाशालिनम् । दिव्याङ्गं भवभङ्गसङ्गतकृपा तुङ्गोत्तरङ्गालयं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८३॥ सेवातत्परमानवार्पितबृहत्कूश्माण्डपादावनी- तूलस्थूलमरीचिसर्षपसमग्रोपायनं मायिनम् । नानावाद्यमृदङ्गशङ्खपटली घोषाङ्कपूजान्वितं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८४॥ पुत्रस्नेहविमोहवर्धितशिवावक्षोजकुम्भस्रव- न्नीरापूरकुमारपूर्वविलसद्धारातटीवासिनम् । विष्णुब्रह्मसुरासुरार्चितमणिस्वर्णोज्ज्वलत्पादुकं सुब्रह्मण्यमगण्यपुण्यचरितं वन्दे परं देशिकम् ॥ १८५॥ देवं शक्तिधरं कुमारमतुलं दिव्यावतारं वटुं भावातीतमतीतसंसृतिमनः पद्माग्रसद्मप्रियम् । भक्त्या ये प्रणमन्ति ते गतभयाः कारुण्यभाजः सदा भुक्त्वा भोगसुखं त्वदीयकृपया मुक्ता भवन्ति ध्रुवम् ॥ १८६॥ ॥ इति शिवरहस्यान्तर्गते गणेश्वरकृतं सुब्रह्मण्यस्तवः सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३८ । १५६-१८६ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 38 . 156-186 .. Notes: Gaṇeśvara गणेश्वर eulogize Subrahmaṇya सुब्रह्मण्य towards the conclusion of the discourse of The ŚivaRahasyam शिवरहस्यम्. Proofread by Ruma Dewan
% Text title            : Ganeshvarakritam Subrahmanya Stava
% File name             : gaNeshvarakRRitaMsubrahmaNyastavaH.itx
% itxtitle              : subrahmaNyastavaH (gaNeshvarakRitaH shivarahasyAntargataH)
% engtitle              : gaNeshvarakRRitaM subrahmaNyastavaH
% Category              : subrahmanya, shivarahasya, stava
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 38 | 156-186 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org