कुमारभुजङ्गप्रयातस्तोत्रम्
(शिवरहस्यान्तर्गते ईशाख्ये)
देवा ऊचुः ।
मुखे वारणेन्द्रं नखेचार्धचन्द्रं
मुखे पूर्णचन्द्रं कृपासान्द्रनेत्रम् ।
कृतस्तुत्युपेन्द्रं पदाब्जाननेन्द्रं
भजामोऽस्ततन्द्रं कथङ्कारमेतम् ॥ ३०॥
नमामोऽभ्रगङ्गातरङ्गाङ्गसङ्गं
सशृङ्गारमोङ्कारपाथोजभृङ्गम् ।
शिवोत्सङ्गसङ्गं शिवस्यान्तरङ्गं
किरातीगणोल्लासिवल्लीभुजङ्गम् ॥ ३१॥
करे शक्तिमन्तं हरे भक्तिमन्तं
शरे जन्मवन्तं हरित्पावनं तं
उदारेऽवनन्तं सदारं वसन्तं
सदोङ्कारमन्तर्भजामो गुहं तम् ॥ ३२॥
शरच्चन्द्रषट्कस्फुरद्वक्त्रबिम्बं
प्रबालप्रवालप्रभामण्डलस्थम् ।
रुचा धूतमित्रं कृपाशीतनेत्रं
भजामः सदा देवसेनाकलत्रम् ॥ ३३॥
विधे स्वागतं किं हरे मङ्गलं किं
सखेदानुषङ्गं कुतो दृश्यतेऽङ्गम् ।
क्व वैरी समानीयतां मे शताङ्गम् ।
क्रुधैवं वदन्तं भजामो गुहं तम् ॥ ३४॥
क्व शूरः क्व वा तारकः सिह्मवक्त्रः
क्व वेत्यट्टहासप्रभिन्नाण्डभित्ति ।
हठान्नीलकण्ठेन्द्रकण्ठाधिरूढं
भजामो मुदा रक्षितारं कुमारम् ॥ ३५॥
भवद्गर्भदासर्भकान् दीनबन्धो
ह्यव प्रेमयुक्तान् हिनः क्षिप्रमंहः । (?)
न चेत्तेऽपकीर्तिः अतः स्वामिनं स्वं
भजामो धुनीमो भवामोऽद्य भक्ताः ॥ ३६॥
द्विषड्बाहुदण्डं द्विषट्चारुगण्डं
द्विषट्कर्णषण्डं त्रिषण्णेत्रतुण्डम् ।
हतक्रौञ्चगोत्रं धृतब्रह्मसूत्रं
भवप्रीतिपात्रं भजामः सुगात्रम् ॥ ३७॥
प्रसीद प्रसीद प्रभो तारकारे
प्रसीद प्रसीद भवामो निरीहाः ।
प्रपन्ना विपन्नाः पुरा तार खिन्नाः
भवामोऽद्य भिन्नास्त्वया दुःखनुन्नाः ॥ ३८॥
किमर्थं सुरार्थं कृता नानुकम्पा
निलिम्पाः पुरा तारदुःखाभिकम्पाः ।
भवत्पादमोद प्रभावाद्धि सौधे
वसामो विशामः प्रमोदोरुसिन्धुम् ॥ ३९॥
उरोन्यस्तहारं शिरोन्यस्तहीरं
दयासिन्धुपूरं शिवज्ञानसारम् ।
पराभूततारं भवाम्भोधिपारं
सुरा जालसौरं भजामः कुमारम् ॥ ४०॥
गुरूणां गुरुं देवसेनासमेतं
परेषां परं केकियानेन यान्तम् ।
कटाक्षार्धपातं कुरुष्वाद्य भद्रं
ओङ्कारमुद्रं भजामोऽस्तनिद्रम् ॥ ४१॥
शताङ्गं विहङ्गं कृतारातिभङ्गं
सुधीचित्ररङ्गं महापापभङ्गम् ।
कुजे प्रेमभाजं भुजे सर्पराजं
समाजाधिपं त्वां भजामो नताजम् ॥ ४२॥
नमस्ते नमस्ते शिवप्रेममूर्ते
नमस्ते नमस्ते त्रयीगीतकीर्ते ।
नमस्ते नमस्ते हृतत्रैदशार्ते
नमस्ते नमस्ते सुराभीष्टपूर्ते ॥ ४३॥
सुराणां पुरस्ताद्यदि त्वत्पदाब्जं
समस्तापदस्ता निरस्ता भवेयुः ।
करस्था विमुक्तिर्हृदिस्था सुभक्तिः
शिवस्थेशभक्तिर्भवेत्सत्यमेतत् ॥ ४४॥
क्वचिद्भूतसङ्गं क्वचित्प्रेतसङ्गं
क्वचिद्व्याधिसङ्गं क्वचिद्धातुसङ्गम् ।
क्वचित्क्षुद्र पुङ्खानुपुङ्खप्रसङ्गं
समुच्चाटयन्तं भजामो गुहं तम् ॥ ४५॥
भवानेव पाता भवानेव नेता
भवानेव दाता भवान् दुःखहर्ता ।
इति त्वत्कटाक्षं प्रतीक्ष्याऽऽवसाम
सहस्वापराधं कृपापारसिन्धो ॥ ४६॥
न मन्यामहे त्वत्पदाब्जात्सुधन्यं
नचान्यं भजामो न चान्यं नमामः ।
त्वया पालनीया वयं पालकत्वं
समस्तं सुराणां तवास्ते व हस्ते ॥ ४७॥
त्वमेवास्य कर्ता त्वमेवास्य धर्ता
त्वमेवास्य भर्ता त्वदन्यं न यामः ।
भवाम्भोधिमग्ना दयाम्भोनिधे नः
समुद्धर्तुमर्हस्यतोऽप्यर्हणीयः ॥ ४८॥
बलारे किरीटं गृहाणाच्युतेमं
गृहाणातपत्रं विधे हारजलम् ।
इति प्रौढवाचं वदन्तं निवेशं
जनन्या विशन्तं भजामोऽनुयामः ॥ ४९॥
भवत्पादतोऽन्यन्नहि प्रार्थयामः
भवे भक्तितोऽन्यत् क्वचिन्नार्थयामः ।
त्वया शिक्षणीया उतारक्षणीया
त्वयोपेक्षणीया न वा मोक्षणीया ॥ ५०॥
पिता त्वं गुरुस्त्वं च माता च नित्यं
क्षुधार्ता भवर्तिप्रपन्नाः स्म दीनाः ।
कटाक्षावलोकेऽप्युपेक्षा यदिस्या-
द्गतिः का सुराणां विभो भूसुराणाम् ॥ ५१॥
(फलम्)
भुजङ्गं पठन् यः कुमारस्य नित्यं-
स भुक्तः समुक्तः स वै मुक्तियुक्तः ।
सुपुत्रैः कलत्रैश्च मित्रैश्च युक्तो
लभेत श्रियं चारु भाग्यैर्वरैश्च ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते देवैः कृतं कुमारभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः २३ (भुजङ्गकथनम्) शिवसमागमः । ३०-५२ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 23 (bhujangakathanam) shivasamAgamaH . 30-52 ..
Notes:
Kumāra/Skanda कुमार/स्कन्द is eulogized by the Deva-s देवाः as He won the battle against Tārakāsura तारकासुर that resulted in his annihilation, thus getting them liberated from the perpetual atrocities being committed by him.
The Stotram स्तोत्रम् is composed in Bhujaṅgaprayāta Candaḥ भुजङ्गप्रयात छन्दः.
Proofread by Ruma Dewan