कुमारतन्त्रम्

कुमारतन्त्रम्

ॐ सुब्रह्मण्याय नमः ।

अनुक्रमणिका

१. प्रथमः पटलः - कौशिकप्रश्ने तन्त्रावतारक्रम । २. द्वितीयः पाटलः - मन्त्रोद्धार विधिः । ३. तृतीयः पटलः - शौचाचमनविधिः । ४. चतुर्थः पटलः - स्नानानुष्ठानविधिः । ५. पञ्चमः पटलः - नित्यपूजाविधिः । ६. षष्ठः पटलः - नैवेद्यविधिः । ७. सप्तमः पटलः - अग्निकार्यविधिः । ८. अष्टमः पटलः - नित्योत्सवविधिः । ९. नवमः पटलः - कुण्डलक्षण । १०. दशमः पटलः - मण्डल विधिः । ११. एकादशः पटलः - दीक्षाविधिः । १२. द्वादशः पटलः - स्नपनविधिः । १३. त्रयोदशः पटलः - स्कन्दोत्सवविधिः । १४. चतुर्दशः पटलः - प्रायश्चित्तविधिः । १५. पञ्चदशः पटलः - जीर्णोद्धारविधिः । १६. षोडशः पटलः - वास्तुहोमविधिः । १७. सप्तदशः पटलः - शान्तिहोमविधिः । १८. अष्टादशः पटलः - दिशाहोमविधिः । १९. एकोनविंशः पटलः - मूर्तिहोमविधिः । २०. विंशः पटलः - पञ्चगव्यविधिः । २१. एकविंशः पटल - पञ्चामृतविधिः । २२. द्वाविंशः पटलः - बालस्थापनविधिः । २३. त्रयोविंशः पटलः - सम्प्रोक्षणविधिः । २४. चतुर्विंशः पटलः - प्रतिमालक्षणविधिः । २५. पञ्चविंशः पटलः - शूलस्थापनविधिः । २६. षड्विंशः पटलः - अचलस्थापनविधिः । २७. सप्तविंशः पटलः - चलबेरप्रतिष्ठाविधिः । २८. अष्टाविंशः पटलः - शक्त्यस्त्रस्थापनविधिः । २९. एकोनत्रिंशः पटलः - गर्भन्यासविधिः । ३०. त्रिंशः पटलः - आद्येष्टकाविधिः । ३१. एकत्रिंशः पटलः - प्रासादलक्षणविधिः । ३२. द्वात्रिंशः पटलः - मूर्ध्नेष्टिकाविधिः । ३३. त्रयस्त्रिंशः पटलः - प्राकारलक्षणविधिः । ३४. चतुस्त्रिंशः पटलः - परिवारविधिः । ३५. पञ्चत्रिंशः पटलः - करणलक्षणविधिः । ३६. षट्त्रिंशः पटलः - पादुकाप्रोक्षणविधिः । ३७. सप्तत्रिंशः पटलः - आत्मार्थयजनविधिः । ३८. अष्टत्रिंशः पटलः - तैलाभ्यङ्गविधिः । ३९. एकोनचत्वारिंशः पटलः - मासपूजाविधिः । ४०. चत्वारिंशत्पटलः - अङ्कुरार्पणविधिः । ४१. एकचत्वारिंशत्पटलः - महावल्लीदेवसेनास्थापनविधिः । ४२. द्विचत्वारिंशत्पटलः - सुमित्रस्थापनविधिः । ४३. त्रिचत्वारिंशत्पटलः - गजस्थापनविधिः । ४४. चतुश्चत्वारिंशत्पटलः - रथप्रतिष्ठाविधिः । ४५. पञ्चचत्वारिंशत्पटलः - महाभिषेकविधिः । ४६. षट्चत्वारिंशत्पटलः - स्कन्दकलान्यासविधिः । ४७. सप्तचत्वारिंशत्पटलः - मातृकान्यासविधिः । ४८. अष्टचत्वारिंशत्पटलः - सुब्रह्मण्यकवचविधिः । ४९. एकोनपञ्चाशत्पटलः - प्रदक्षिणनमस्कारविधिः । ५०. पञ्चाशत्पटलः - आचार्यलक्षणविधिः । ५१. एकपञ्चाशत्पटलः - सायरक्षाविधिः ।

आमुखं

निजशक्तिभित्तिनिर्मित- निखिलजगज्जालचित्रनिकुरुम्बः । स जयति शिवः परात्मा निखिलागमसारसर्वस्वम् ॥ अयि भोः विपश्चिदपश्चिमाः आगमाभिज्ञाः सज्जनाः । विज्ञातमेव हि भवतां यत्किल परमकारुणिको विश्ववन्द्यः सकलकल्याणगुणगणैकनिलयो भगवान् पशुपतिः लोकाननुजिघृक्षुः स्वयं प्रश्नोत्तरैर्वाक्यैः तन्त्रापराभिधमागमं समवतारयत्, यच्च कल्पभेदेन प्रवाहानादिविधया अविच्छेदेनानुवर्तमानं, प्राचीनार्वाचीनतन्त्रज्ञपरम्परया सातिशयं परिपोषितं, प्रतिसंस्कृतं, प्रचारितं, प्रसारितं सत् चरीवर्ति इति । आगतं पञ्चवक्त्रात्तु गतं च गिरिजानने । मतं च वासुदेवस्य तस्मादागममुच्यते ॥ गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः । प्रश्नोत्तरपदैर्वाक्यैः तन्त्रं समवतारयत् ॥ इति महास्वच्छन्दतन्त्रे आगमनिरुक्तिपूर्वकं तन्त्रागमयोरनर्थान्तरमभ्यधायि । ``आसमन्तात् गमयति अभेदेन विमृशति पारमेशं स्वरूपमिति कृत्वा परशक्तिरेवागमः, तत्प्रतिपादकस्तु शब्दसन्दर्भः तदुपायत्वात् शास्त्रस्य,'' इति स्वच्छन्दोद्योते आगमपदस्य अर्थं विवृण्वन्, ईश्वरस्वरूपप्रतिपादकशब्दराशिरिति प्रकटीकृतम् । ``आगच्छन्ति बुद्धिमारोहन्ति यस्मात् अभ्युदयनिःश्रेयसोपायाः स आगमः'' इति वाचस्पतिमिश्राः तत्त्ववैशारद्यामवोचन् । इदमागमशास्त्रं नित्यमनादि, वेदमूलत्वात् । न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्येवादौ व्यवस्थिता ॥ इति वैय्याकरणतल्लजभर्तृहरिणा आगमानां प्रवाहानादित्वप्रतिपादनेन नित्यत्वमनुमोदितम् । ``तानि पूर्वागमेषु विच्छिन्नेषु अन्येषु प्रणेतृषु आगमान्तरानुसन्धाने बीजवदवतिष्ठन्ते । तान्येव बीजान्यासाद्य पुनः प्रणेतृभिरागमा निबध्यन्ते इति प्रवाहानादित्वं सिद्धमिति नागमा अप्रमाणम्'' इति वाक्यपदीयटीकाकाराः ग्रन्थकाराशयं विशदीचक्रुः । पञ्चवक्त्रोद्गतत्वोक्त्या आगमस्य नित्यतायाः न क्षतिः । श्रीकण्ठाचार्यैः शास्त्रयोनित्वाधिकरणे वेदानां ईश्वरप्रणीतत्वेऽपि नित्यत्वस्याविरुद्धता सुष्ठु उपपादिता । तद्दत्रापि । ``प्रलये वेदानां परमेश्वरबुद्धिगोचर तयैवानुवृत्तिः, सर्गादौ तु तेषां परश्रवणगो चरतया वैखरीवृत्तिविशिष्टत्वेन परमेश्वरप्रणीतत्वं इत्युभयमप्यविरोधेनोपपद्यते'' इति शिवार्कमणिदीपिकाकाराः अप्पय्यदीक्षिताः असन्दिग्धमभ्यवदन् ॥ मैवं, ``तत्पूर्वपूर्वक्रममनुसरता शम्भुना निर्मितास्ताः साक्षादेव प्रमाणं स हि भवति ततो नैव कस्यापि हानिः'' इति नयमणिमालाकारवचनं श्रीकण्ठाशयं विशदयद्विजृम्भते । ``अहमेव पशूनामधिपतिरसानीति तस्मात् रुद्रः पशूनामधिपतिः'' इति त्रिपुरभेदनशुल्करूपेण स्वयंवृतपशुपतिकस्य, अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् । आदिकर्ता कविःसाक्षाच्छूलपाणिरिति श्रुतिः ॥ सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः । अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते । ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः ॥ इत्याद्यार्षेयवचनानुमोदितस्य वेद-वेदाङ्ग -तदुपबृंहणसमस्तविद्यात्मकस्य जगदवनैकजागरूकस्य परमेश्वरस्य सद्योजातवामदेवाघोरतत्पुरुषेशान-मुखपञ्चकनिर्गलितकामिक-योगज-कारण-प्रसृत-अजित-दीप्त- अंशुमत्सुप्र-भेद-विजय-निःश्वास-स्वायम्भुव-अनल-वीर-रौरव मुकुट-विमल-चन्द्रज्ञान-बिम्ब-प्रोद्गीत-ललित-सिद्ध-सन्तान- किरण-वातुल-सूक्ष्म-सहस्र-सर्वोत्तर पारमेश्वराभिधानां ज्ञानविज्ञानात्मकैहिकामुष्मिकाभ्युदयनि श्रेयसोयपाय- वर्णनपरसदाशिवाभिन्नविभिन्नदेवतोद्देश्यसाङ्गोपाङ्गपूजा क्रियाविधिप्रयोगप्रकाशकात्मकागमप्रभेदानां प्रामाण्ये, को वा सचेताःसन्देग्धि । सदाशिवसमुदीरितानां अष्टाविंशत्यागमभेदानां स्वरूपं कामिके तन्त्रान्तरेषु च विस्तरेण प्रतिपादितम् । श्रीमदभिनवगुप्ताचार्यैस्तन्त्रालोके शैवागमस्याष्टाविंशतिप्रभेदत्वमुल्लिखितम्- ``दशाष्टादश वस्वष्टभिन्नं यच्छासनं विभोः'' इति ॥ सर्वतन्त्रस्वतन्त्रैः श्रीमदप्पय्यदीक्षितैः शिवार्चनचन्द्रिकायां- स्त्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा । कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥ अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥ इत्यादिना शैवागमस्याष्टाविंशतिविधा विवृता । श्रीमद्भिः भास्कराचार्यैः सौभाग्यभास्करे त्रिपुरसुन्दरीवर्णन-व्याजेन कामिकप्रभेदानामागमानां नामनिर्देशः कृतः- कामिकं पादकमलं योगजं गुल्फयोर्युगम् । पादद्वयाङ्गुलीरूपे कारणप्रसृताह्वये ॥ अजिता जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः । पृष्ठभागेंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥ विजयं जठरं प्राहुः निःश्वासं हृदयात्मकम् । स्वायम्भुवं स्तनद्वन्द्वं अनलं लोचनत्रयम् ॥ वीरागमः कण्ठदेशो रुरुतन्त्रं श्रुतिद्वयम् । मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥ चन्द्रो ज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम् । प्रोद्गीततन्त्रं रसना ललितं गण्डयोर्युगम् ॥ सिद्ध ललाटफलकं सन्तानं कुण्डलद्वयम् । किरणं रत्नभूषा स्यात् वातुलं वसनात्मकम् ॥ अङ्गोपाङ्गानि रोमाणि तन्त्राण्यन्यानि कृत्स्नशः । एवं तन्त्रात्मकं रूपं महादेव्या विचिन्तयेत् ॥ इति अष्टाविंशत्यागमान्यतमललितागमान्तर्गतं प्रकृतं कौमारं तन्त्रम् । ललितागमस्य ``ललितं ललितात्तरं कोमार'' मिति त्रया भेदाः उक्ताः । ईश्वरः स्वविद्यागुरोः कुमारस्य पूजा क्रियाविधिप्रतिपादकं तन्त्रं साञ्जलिबन्धं पृष्टवते कौशिकायोपदिदेश । तन्त्रेऽस्मिन् उक्तम्- ईश्वर उवाच- यत्त्वया चोदितं तन्त्रं तत्प्रवक्ष्यामि कौशिक । कुमारतन्त्रमधुना नित्यं नैमित्तिकं ततः ॥ इति कामिके आगमोत्पत्तौ, उत्तरकामिके गोत्रनिर्णयपटले, कारणे प्रश्नपटले च कुमारतन्त्रोल्लेखः कृतः । ``मन्त्रभेदा भवेदत्र क्रियाभेदो न विद्यते । अष्टाविंशतितन्त्रेष्वप्यनुक्तं सङ्ग्रहेद्बुधः'' ॥ इति प्रश्नपटलान्त्यवचनात् ज्ञायते कुमारपूजाक्रियाविधिप्रतिपादकेष्वागमान्तरेष्वनुक्ता विशेषविधय एवात्र सङ्गृहीताः इति । तन्त्रमिदं प्रश्नमन्त्रोद्धारशौचाचमनस्नानानुष्ठान- नित्यपूजानैवेद्याग्निकार्यनित्योत्सवकुण्डलक्षणमण्डलगुहदीक्षा- स्नपनस्कन्दोत्सव- प्रायश्चित्ताद्येकपञ्चाशत्पटलविभक्तं कुमारस्य पूजा क्रियाविधिमुपदिशति । इदञ्च तन्त्रं ग्रन्थलिप्यां मुद्रितपूर्वमपि इदानीं अप्राप्यं वर्तते । ग्रन्थलिपिमुद्रणात औत्तराणां तान्त्रिकाणां अप्रवेशं पर्यालोच्य,देवनागरीलिप्यां मुद्रणाय प्रयत्न आदृतः । तन्त्रमिदं प्राचीनं तालपत्रलिखितं ग्रन्थलिप्यां एकं कागजलिखितं आन्ध्रलिप्यां एकं, ग्रन्थलिप्यां मुद्रितं एकं इति आहत्य ग्रन्थत्रयेण संवाद्य संशोध्य अपेक्षितपाठभेदपुरस्सरं देवनागरीलिप्यां मुद्रितं भवत्समक्षमुपहारीकृतम् । जीर्णालयोद्धरणधर्मतोऽपि गरीयसि अत्र विलुप्तप्रबन्धपुनरुज्जीवने श्रमसाध्ये व्यवसाये प्रवृत्तानां वार्धवयमप्यनादृत्य अविरतोद्यमानां दाक्षिणात्यार्चकसङ्घसञ्चालकानां श्रीस्वामिनाथशिवाचार्याणां महीयानयं संरभः आगमिकानां अभिज्ञानां प्रशंसापात्रतामावहति । कोशसंवादे, संशोधने, पाठभेदनिर्णये च सोत्सुकं दत्तावधानाः मम सुहृदः श्रीमत्परमेश्वरनामानः आगमिकैः नूनं बहुमानार्हाः । अत्यन्तजागरूकतयैतद्ग्रन्थसम्पादने कृतपरिश्रमाणां श्रीकन्दस्वामिशिवाचार्याणामाद्योऽयमुद्योगः स्तुत्यो विद्वदादरणीयश्च । इदं ग्रन्थरत्नं तत्र तत्र अपेक्षितानां मन्त्रभागानां विवरणपुरस्सरं, आगमान्तरसंवादसहितं प्रयोगविशेषाणां विवेचनपूर्वकं मुद्रालक्ष्यनिर्देशेन साकं सम्मुद्र्य प्रकाशयितव्यमिति सङ्कल्पितमासीत् । किन्तु श्रेयांसि बहुविध्नानि इति रीत्या पदे पदे विध्नवाहुल्यात् आगमिकानामाकाङ्क्षापूर्ति मनसि निधाय प्रकाशने अविलम्ब आदृतः । यथासङ्कल्पितं चेदं तन्त्रं प्रकाशमेष्यतीति विश्वसिमि । इत्थं विद्वज्जनविधेयः के। वि। शेषाद्रिनाथशर्मा साहित्य -आयुर्वेदशिरोमणिः साहित्याचार्यः ३१-१-१९७५ संस्कृतकल शाला, मद्रपुरी ।

ॐ शिवाभ्यां नमः । ॥ अथ कुमारतन्त्रम् ॥

१. प्रथमः पटलः - कौशिकप्रश्ने तन्त्रावतारक्रम

कैलासशिखरे रम्ये भूतसन्धैर्निषेविते । सिद्धगन्धर्वसङ्गीते विचित्रकुसुमोज्ज्वले ॥ १.१॥ देवर्षियक्षगन्धर्वदिव्यस्त्रीगणसेविते । तत्रासीनं महादेवं स्फुरति स्फाटिके स्थले ॥ १.२॥ देवं त्रिलोचनं नत्वा प्राञ्जलिः कौशिको मुनिः । प्रसीद देवदेवेश प्रसीद वृषभध्वज ॥ १.३॥ प्रसीद परमेशान भव सर्वज्ञ शङ्कर । (परमेशान भर्ग) प्रसीद मे विरूपाक्ष प्रसीद वृषसञ्चर ॥ १.४॥ प्रसीद मन्मथाराते कालकाल प्रसीद मे । प्रसीद गौरीरमण गङ्गाधर महेश्वर ॥ १.५॥ प्रसीद विश्वदेवेश प्रसीद स्कन्दवत्सल । स्तुत्वैवं परया भक्त्या पर्यपृच्छन् महातपाः ॥ १.६॥ कुमारतन्त्रं भगवन् श्रोतुं कौतूहलं हि मे । कारणाख्यं महातन्त्रं ग्रन्थकोटिप्रविस्तरम् ॥ १.७॥ बह्मणे यत् पुरा प्रोक्तं त्वया सर्वविदा मुदा । तस्मिंस्तन्त्रे समाख्यातं कौमारं तन्त्रमीश्वरम् ॥ १.८॥ तत् तन्त्रमखिलं देव विस्तरेण वद प्रभो । ईश्वर उवाच- यत् त्वया चोदितं तन्त्रं तत् प्रवक्ष्यामि कौशिक ॥ १.९॥ कुमारतन्त्रमधुना नित्यं नैमित्तिकं ततः। काम्यं च त्रिविधं प्रोक्तं राजराष्ट्राभिवृद्धये ॥ १.१०॥ तन्त्रसङ्करदोषेण राजराष्ट्रं विनश्यति । तस्मात् कुमारतन्त्रोक्तमार्गेणैव गुहं यजेत् ॥ १.११॥ मन्त्रोद्धारविधिं पूर्वं शौचमाचमनं ततः । स्नानानुष्ठानमार्गं च सुब्रह्मण्यार्चनाविधिम् ॥ १.१२॥ नैवेद्यं चाग्निकार्यं च नित्योत्सवविधिं ततः । कुण्डानां लक्षणं चैव मण्डलस्य तु लक्षणम् ॥ १.१३॥ गुहदीक्षाविधानं च स्नापनानां तु लक्षणम् । (स्नपनस्य च लक्षणम्) स्कन्दोत्सवविधिं चैव प्रायश्चित्तविधानकम् ॥ १.१४॥ जीर्णोद्धारविधिं चैव वास्तुहोमक्रमं ततः । शान्तिहोमविधानं च दिशाहोमविधिं पुनः ॥ १.१५॥ मूर्तिहोमविधानं च पञ्चगव्यविधिं ततः । पञ्चामृतविधिं चैव बालस्थापनमार्गकम् ॥ १.१६॥ सम्प्रोक्षणविधिं चैव प्रतिमालक्षणं ततः । दारुशूलप्रतिष्ठां च सर्वबेरप्रतिष्ठिकाम् ॥ १.१७॥ चलबेरप्रतिष्ठां च गुहास्त्रस्य प्रतिष्ठिकाम् । गर्भन्यासविधानं च तथैव प्रथमेष्टिकाम् ॥ १.१८॥ प्रासादलक्षणं चैव ततो मूर्ध्नेष्टिकाविधिम् । प्राकारलक्षणं चैव परिवारविधिं ततः ॥ १.१९॥ लक्षणं कारणानां तु पादुकाप्रोक्षणं ततः । आत्मार्थयजनं चैव तैलाभ्यङ्गविधिं ततः ॥ १.२०॥ मासपूजाविधिं पश्चादङ्कुरार्पणमार्गकम् । महावल्लीदेवसेनास्थापनस्य विधिं ततः ॥ १.२१॥ सुमित्रस्थापनं चैव गजस्थापनमार्गकम् । रथप्रतिष्ठिकां चैवाप्यभिषेकविधिं ततः ॥ १.२२॥ ततः स्कन्दकलान्यासं श्रीसुब्रह्मण्यमातृकाम् । श्रीसुब्रह्मण्यकवचं प्रदक्षिणनमस्क्रियाम् ॥ १.२३॥ आचार्यलक्षणं चैव सायं रक्षाविधिं ततः । शय्यागृहप्रवेशं च प्रवक्ष्यामि यथाक्रमम् ॥ १.२४॥ मन्त्रभेदो भवेदत्र क्रियाभेदो न विद्यते । अष्टाविंशतितन्त्रेष्वप्यनुक्तं सङ्ग्रहेद् बुधः ॥ १.२५॥ इति श्री कुमारतन्त्रे कौशिकप्रश्ने तन्त्रावतारक्रमो नाम प्रथमः पटलः ।

२. द्वितीयः पटलः - मन्त्रोद्धारविधिः

ईश्वर उवाच- मन्त्रोद्धारं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत । स्थले मनोरमे शुद्धे चक्रं कृत्वा लिपिं तथा ॥ २.१॥ अर्चयित्वा यथान्यायं रक्तचन्दनपुष्पकैः । येनेष्टमागमत् तेषां तच्छृणुष्व महामुने ॥ २.२॥ (यथेष्टमगमद्देवाः) अकारादिविसर्गान्तमवर्गमिति चोदितम् । ककारादिक्षकारान्तं पञ्चपञ्चाक्षराणि तु ॥ २.३॥ अकारादिक्षकारान्तमष्टवर्गाः प्रकीर्तिताः । See the note at the end अष्टवर्गद्वितीयं तु स्कन्दबीजमिदं परम् ॥ २.४॥ षष्ठानलसमोपेतं बिन्दुनादसमायुतम् । मूलमन्त्रमिदं ज्ञेयं सर्वकामार्थसिद्धिदम् ॥ २.५॥ अयं मूलमन्त्रः - ॐ स्रूं स्कन्दाय नमः । (१) अष्टवर्गद्वितीयं च षष्ठस्वरयुतं पुनः । चतुर्दशस्वरं तस्य बिन्दुनादसमायुतम् ॥ २.६॥ सुब्रह्मण्यचतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् । ॐ सूं सौं सुब्रह्मण्याय नमः । (२) द्विवर्गप्रथमं चैव षष्ठानलसमायुतम् ॥ २.७॥ कवर्गप्रथमं चैव पञ्चमस्वरसंयुतम् । कुमारमन्त्रमित्थं स्याद् बिन्दुनादविभूषितम् ॥ २.८॥ ॐ क्रूं कुं कुमाराय नमः । (३) अष्टवर्गद्वितीयं तु पञ्चमस्वरसंयुतम् । स्वामिन् गुहाय मन्त्रान्ते नमोऽन्तं प्रणवादिकम् ॥ २.९॥ बिन्दुनादसमायुक्तं सर्वकामार्थसिद्धिदम् । ॐ सुं स्वामिन् गुहाय नमः । (४) सप्तवर्गस्य पञ्चार्णं चतुर्थस्वरसंयुतम् ॥ २.१०॥ शरवणभवबीजं स्याद् बिन्दुनादसमायुतम् । (शरवणभवस्य) स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ॥ २.११॥ ॐ शी शं शरवणभवाय नमः । (५) अष्टवर्गतृतीयं तु अग्निमायासमायुतम् । तस्य वर्गादिमं चैव बिन्दुनादसमायुतम् ॥ २.१२॥ इदं बीजं विजानीयात् षण्मुखाय नमोऽन्तकम् । ॐ ह्रीं षं षण्मुखाय नमः । (६) अथ पञ्च ब्रह्मबीजानि- सकारं प्रथमं बिन्दुः सद्योजातस्य बीजकम् ॥ २.१३॥ ॐ सं सद्योजाताय नमः । (७) तृतीयस्वरसंयुक्तं वामदेवमुदाहृतम् । ॐ सिं वामदेवाय नमः । (८) पञ्चमस्वरसंयुक्तमघोरं ब्रह्मबीजकम् ॥ २.१४॥ ॐ सुं अघोराय नमः । (९) एकादशस्वरोपेतं पुरुषं परिपठ्यते । ॐ सें तत्पुरुषाय नमः । (१०) त्रयोदशस्वरोपेतमीशानं पञ्चमं विन्दुः ॥ २.१५॥ ॐ सों ईशानाय नमः । (११) इति पञ्च ब्रह्मबीजानि । अथ षडङ्गमन्त्राः- अक्षि २ वेद ४ रसा ६ दित्य १२ मनु १४ षोडशभिः १६ स्वरैः ॐ सां हृदयाय नमः; ॐ सीं शिरसे स्वाहा; ॐ सूं शिखायै वषट्; ॐ सैं कवचाय हुं; ॐ सौं नेत्रत्रयाय वौषट्; ॐ सः अस्त्राय फट् । इति षडङ्गमन्त्राः । (१२) हृदयाद्यस्त्रपर्यन्तं षडङ्गं परिकीर्तितम् ॥ २.१६॥ ॐ सां सीं सूं सैं सौं सः बीजाद्यन्तं च विद्यां च नमोऽन्तं च नमो यजेत् । अथ महावल्लीबीजमन्त्रः-- सप्तवर्गचतुर्थं च (त्व) अग्निमायासमन्वितम् ॥ २.१७॥ बिन्दुनादसमायुक्तं महावल्ल्यास्तु बीजकम् । ॐ व्रीं महावल्ल्यै नमः । (१३) अष्टवर्गतृतीयं च (त्व) अग्निमायासमावृतम् ॥ २.१८॥ बिन्दुनादसमायुक्तं देवसेनासुबीजकम् । ॐ देवसेनायै नमः । (१४) अथ षण्मूर्तिमन्त्राः- सुब्रह्मण्यः कुमारश्च हरसूनुः सुराग्रजः ॥ २.१९॥ सेनापतिः सुरेशश्च षण्मूर्तिरिह कथ्यते । स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ॥ २.२०॥ षण्मूर्तीनां हि कथितं साम्प्रतं तु समासतः । ॐ सुं सुब्रह्मण्याय नमः; ॐ कुं कुमाराय नमः; ॐ हं हरसूनवे नमः; ॐ सुं सुराग्रजाय नमः; ॐ सें सेनापतये नमः; ॐ सुं सुरेशाय नमः ॥ इति मूर्तिमन्त्राः । (१५) जगद्भूश्च वचद्भूश्च विश्वभूरुद्रभूस्ततः ॥ २.२१॥ ब्रह्मभूश्च भुवोभूश्च श्रुतौ षण्मूर्तयः पुनः । ॐ जगद्भुवे नमः; ॐ वचद्भुवे नमः; ॐ विश्वभुवे नमः; ॐ रुद्रभुवे नमः; ॐ ब्रह्मभुवे नमः; ॐ भुवनभुवे नमः ॥ इति षण्मूर्तिमन्त्राः । (१६) अथ परिवाराष्टकमन्त्राः - गजाग्नी च यमश्चैव रक्षो वारुणवायवः ॥ २.२२॥ सोमः सुमित्रो वसुमान् परिवाराः प्रकीर्तिताः । स्वनामाद्यक्षरेणैव बिन्दुनादसमायुताः ॥ २.२३॥ ॐ गं गजेन्द्राय नमः; ॐ अं अग्नये नमः; ॐ यं यमाय नमः; ॐ नं निरृतये नमः; ॐ वं वरुणाय नमः; ॐ यं वायवे नमः; ॐ सं सोमाय नमः; ॐ सुं सुमित्राय नमः; इति परिवारदेवतामन्त्राः । (१७) अथ मयूरबीजम्- षष्ठवर्गान्तिमं बीजं मायानलसमायुतम् । बिन्दुनादसमायुक्तं मायूरं बीजमुच्यते ॥ २.२४॥ ॐ म्रीं मयूराय नमः । इति मयूरमन्त्रः । (१८) अथ शक्तिबीजम्- सप्तवर्गान्तिमं बीजं मायाग्निसमबिन्दुकम् । शक्तिबीजमिदं प्रोक्तं सर्वकामार्थसिद्धिदम् ॥ २.२५॥ ॐ श्रीं शक्तये नमः । इति शक्तिमन्त्रः । (१९) अथ नवशक्तिबीजमन्त्राः- शकुनी रेवती पूता महापूता निशीथिनी । मालिनी श्यामला बुद्ध्या नवमी विश्वतोमुखी ॥ २.२६॥ (श्यामला बुद्धा) स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् । ॐ शं शकुन्यै नमः; ॐ रं रेवत्यै नमः; ॐ यं पूतायै नमः; ॐ मं महापूतायै नमः; ॐ नं निशीथिन्यै नमः; ॐ मं मालिन्यै नमः; ॐ शं श्यामलायै नमः; ॐ बं बुद्धयै नमः; ॐ वं विश्वतोमुख्यै नमः ॥ इति नवशक्तिमन्त्राः । (२०) अथ पञ्चायुधमन्त्रः शक्तिश्चैव धनुश्चैव शरश्चाक्षः कमण्डलुः ॥ २.२७॥ पञ्चायुधमिदं प्रोक्तं स्वनामप्रणवादिकम् । ॐ शं शक्तये नमः । ॐ धं धनुषे नमः । ॐ शं शराय नमः । ॐ अं अक्षाय नमः । ॐ कं कमण्डलवे नमः ॥ इति पञ्चायुधमन्त्रः । (२१) अथाष्टमूर्तिमन्त्रः- कार्तिकेयो विशाखश्च गुहश्चैवासुरान्तकः ॥ २.२८॥ सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा । शक्तिपाणिरिति ख्याता एते चैवाष्टमूर्तिपाः ॥ २.२९॥ ॐ अस्य श्री स्कन्दषडक्षरी महामन्त्रस्य । शक्तिः ऋषिः । देवीगायत्री छन्दः । श्री षण्मुखो देवता । वं बीजम् । भं शक्तिः । मं कीलकम् । मम इष्टसिद्ध्यर्थे जपे विनियोगः ॥ यन्त्रः - षट्कोणन्तु प्रणवमभितो मा चमार्याणमिश्रे । षड्वर्णं स्याद्वसुयुगदले बिन्दुनादं कलार्णम् ॥ काम्यं त्रिंशद्विदशदलयुतं मन्त्रवर्णैष्षडङ्गम् । श्रीमच्चक्रं शरवणभवस्येष्टसिद्धिप्रदायि ॥ न्यासः - ॐ वं हृदयाय नमः । ॐ चं शिरसे स्वाहा । ॐ भुं शिखायै वषट् । ॐ वें कवचाय हुम् । ॐ नं नेत्रेभ्यो वौषट् । ॐ मं अस्त्राय फट् । ध्यानम् - नौम्यादित्य प्रदीप्तं द्विदशनयनकं षण्मुखं मन्दहासम् । वामाङ्गे सुस्थितायास्सरसिरुहधृताऽलिङ्गितायाः प्रियायाः । उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटादिशूल- ह्रादिन्युद्दीप्तशक्तीष्वसनघनगदा कुक्कुटाब्जेषु हस्तम् ॥ षडक्षरमन्त्रः । वचद्भुवे नमः । अयभिष्टकाम्यमन्त्रः । ॐ वं वरदसेनान्ये बाहुलेयवचद्भुवे स्कन्द स्कन्दसुब्रह्मण्याय नमः । स्वामिन् गुहाय हुं फट् ॥ स्कन्दगायत्री - ॐ कार्तिकेयाय विद्महे शक्तिहस्ताय धीमहि । तन्नः स्कन्दः प्रचोदयात् ॥ ॐ सुब्रह्मण्यमहामन्त्रस्य । त्रिपुरान्तक ऋषिः । अनुष्टप् छन्दः । सुब्रह्मण्यो देवता । भोगमोक्षार्थे जपे विनियोगः । ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा । ॐ क्लीं शिखायै वषट् । ॐ सुं कवचाय हुम् । ॐ वं नेत्रेभ्यो वौषट् । ॐ यं अस्त्राय फट् ॥ मन्त्रः - ॐ श्रीं ह्रीं क्लीं सुं वं यं सर्वलोकं मे वशमानय षण्मुखाय मयूरवाहनाय सर्वराजभयविनाशनाय सर्वदेवसेनापतये सर्वशत्रुं नाशय नाशय सुब्रह्मण्याय स्वाहा । ॐ सं गं विं यं क्षौं स्कन्देश्वराय नमः । षडक्षरमः - ॐ शरवणभव ह्रीम् । कार्तिकेय यन्त्रः । षट्कोणन्तु प्रणव । न्यासः । तन्मन्त्रेण । ध्यानम् । सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि- र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ॐ सुं सुब्रह्मण्याय स्वाहा । ॐ कार्तिकेय पार्वतीनन्दन स्कन्द वरद वरद सर्वजनं मे वशमानय स्वाहा। ॐ सौं सूं सुब्रह्मण्याय शक्तिहस्ताय ऋग्यजुस्सामाथर्वणाय असुरकुलमर्दनाय योगाय योगाधिपतये शान्ताय शान्तरूपिणे शिवाय शिवनन्दनाय षष्ठीप्रियाय सर्वज्ञानहृदयाय षण्मुखाय श्रीं श्रीं ह्रीं क्षं गुह रवि कं कालाय कालरूपिणे सुरराजाय सुब्रह्मण्याय नमः । ॐ नमो भगवते महापुरुषाय मयूरवाहनाय गौरीपुत्राय ईशात्मजाय स्कन्दस्वामिने कुमाराय तारकारये षण्मुखाय द्वादशनेत्राय द्वादशभुजाय द्वादशात्मकाय शक्तिहस्ताय सुब्रह्मण्याय ॐ नमः ॥ मालामन्त्रः । माला मन्त्रं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत । पूर्वपश्चिमसूत्रैकं दक्षिणोत्तरमेव हि ॥ २.३०॥ वायव्यादग्निभागान्तं युग्मसूत्रं प्रसारयेत् । नैरृत्यादीशभागान्तं सूत्रमेवं प्रसारयेत् ॥ २.३१॥ बिन्दुद्वादशकं भ्राम्य रक्तसूत्रेण साधकः । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २.३२॥ कर्णिकायां न्यसेन्मन्त्रं मूलमन्त्रं प्रधानकम् । प्रणवं विन्यसेत्पूर्वे ह्याग्नेय्यां तु नकारकम् ॥ २.३३॥ मोकारं याम्यदेशे तु भकारं नैरृते दले । वारुणे तु गकारं स्याद्वायव्ये तु वकारकम् ॥ २.३४॥ तेकारं सौम्यदिग्भागे ऐशान्यां सविसर्गतः । एवं प्रदक्षिणे नैव विन्यसेदक्षराणि तु ॥ २.३५॥ अष्टवर्ग द्वितीयन्तु पञ्चमस्वरसंयुतम् । सुब्रह्मण्याय तत्पश्चात् शक्तिहस्ताय तत्परम् ॥ २.३६॥ तारकारिं चतुर्थ्यन्तं तथा शरवणोद्भवम् । तस्याधो ऋग्यजुस्सामाथर्वणाय पदं पुनः ॥ २.३७॥ देवद्वयपदं देवसेनापति चतुर्थकम् । अकारश्च सुकारश्च रकारश्च कुलस्तथा ॥ २.३८॥ मर्दनाय पदं दिव्यं संहिताय पदं तथा । अन्तरिक्षाय तत्पश्चाद्योगाधिपतये पुनः ॥ २.३९॥ ततः कुरु कुरु पदं पश्चाच्चटचटाख्यकम् । ईशानन्ताय शान्ताय शान्तरूपीचतुर्थकम् ॥ २.४०॥ षष्ठीप्रियाय तस्यान्ते चतुर्थ्यन्तं शिवाननम् । वचद्भुवेति च पुनः सर्वज्ञानपदं तथा ॥ २.४१॥ हृदयाय पदं पश्चात् षण्मुखाय ततः परम् । दीपाय दीपकर्त्रे च श्रीं ह्रीं क्षं क्रुं ततः परम् ॥ २.४२॥ कुमाराय पदं पश्चात् कालाय पदमित्यपि । कालरूपं चतुर्थ्यन्तं सुरराजाय तत्परम् ॥ २.४३॥ नमो वर्णाश्च चत्वारश्चत्वारिंशच्छताधिकम् । एतच्चक्रं समालिख्य चैतान् वर्णांश्च लिख्य च ॥ २.४४॥ यः प्रीणयेन्महासेनं सर्वान् कामानवाप्नुयात् । अङ्गारके षष्ठियुक्ते कृष्णपक्षसमन्विते ॥ २.४५॥ शतं सहस्रमयुतं फलमाप्नोत्यसंशयः । विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ॥ २.४६॥ जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् । मालामन्त्रं गुहस्यैतत्सर्वसिद्धिप्रदायकम् ॥ २.४७॥ शारदातिलके- तारः खङ्गीश्वरक्रमो निस्वरेणान्तरन्ततः । भुवनैस्सप्तवर्णास्स्युस्सुब्रह्मण्यात्मको मनुः । वह्निबीजेन षट्त्रिंशद्युक्तेनाङ्गक्रिया मता ॥ २.४८॥ ध्यानम् - सिन्दूरारुणमिन्दुकान्तिवदनं इति । लक्षमेकं जपेन्मन्त्रं साद्ध्येन हविषाततः ॥ २.४९॥ दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् । धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ॥ २.५०॥ पूजयेद्विधिना देवमुपचारैर्यथोचितम् । केसरेष्वङ्गपूजास्यात् पत्रमद्ध्ये गतानिमान् ॥ २.५१॥ जयन्तमग्निकेशान्तं कृत्तिकापुत्रसंज्ञकम् । हेमशूलविशालक्षवज्रधारान्यजेत् क्रमात् ॥ २.५२॥ पूर्वादि दिग्दग्दलाग्रेषु देवसेनापतिं पुनः । विद्यां मेधां ततो वज्र कोणस्थं शक्तिकुक्कुटौ ॥ २.५३॥ मयूरं द्विपमभ्यर्च्य बाह्ये लोकेश्वरान्यजेत् । अस्त्राणि तेषामन्ते स्युस्सुब्रह्मण्यार्चनेरिता ॥ २.५४॥ दृक्सङ्ख्यान् भक्ष्यभोज्याद्यैः षष्ठ्यां सम्प्रीणयेद्विभुम् । पूजयेद्देवता भक्त्या कुमारान् ब्रह्मचारिणः ॥ २.५५॥ सन्तानं विजयं वीर्यं रक्षामायुः श्रियं यशः । प्रदद्यात् साधकस्याशु सुब्रह्मण्यस्सुरार्चितः ॥ २.५६॥ ॐ वचद्भुवे नमः । ॥ इति शारदातिलके ॥ नारायणीये- तारं वचन्नाभिजले शिवयोनियुते ततः । मन्त्रदेवो गुहश्शक्तिः कुक्कुटाब्जाभयान्दधत् ॥ २.५७॥ रक्तो रक्तांशुको मुक्ता प्रचुराकल्पभूषितः । कलाङ्गन्यासवत्तेन कर्णिकायां यजेदमुम् ॥ २.५८॥ तारं वचदिति- ॐ वचद्भुवे नमः । ॥ इति मालामन्त्रः ॥ अथ षडक्षरन्यासः- मूर्ध्यास्ये हृदये नाभौ गुह्ये पादद्वये न्यसेत् । ॐ वं हृदयाय नमः; ॐ चं शिरसे स्वाहा । ॐ भुं शिखायै वषट्; ॐ वें कवचाय हुम् । ॐ नं नेत्रत्रयाय वौषट्; ॐ मः अस्त्राय फट् । इति षडक्षरन्यासः । अस्य श्री वचद्भूमहामन्त्रस्य सनत्कुमार ऋषिः ब्रह्माविश्वामित्रो वा, गायत्री छन्दः उष्णिग्वा, गुहो देवता । अक्षरलक्षजपे विनियोगः । प्रथमावृत्तौ ॥ पुरश्चरणमङ्गैः ॥ द्वतीयावृत्तौ ॥ जयन्ताय नमः; अग्निकेशाय नमः; कृत्तिकापुत्राय नमः; भूतपतये नमः; सेनान्ये नमः; गुहाय नमः; हिरण्यशूलाय नमः; विशालाक्षाय नमः ॥ तृतीयावृत्तौ ॥ पत्रेषु - देवसेना पतये नमः; विद्यायै नमः; मेधायै नमः; वज्राय नमः; शक्तये नमः; कुक्कुटाय नमः । मयूराय नमः । द्विपाय नमः; इति पूर्वादिदिक्षु आग्नेयादिकोणेषु च ॥ चतुर्थावृत्तौ ॥ पुनः इन्द्राय नमः इत्याद्यष्टदिक्पालान् ॥ पञ्चमावृत्तौ ॥ वज्राय नमः ॥ इत्यादिदशायुधानि ॥ मयूरगायत्री - शुक्लापाङ्गाय विद्महे पक्षिराजाय धीमहि । तन्नोमयूरः प्रचोदयात् ॥ गजगायत्री - श्वेतवर्णाय विद्महे वक्रतुण्डाय धीमहि । तन्नोगजः प्रचोदयात् ॥ स्कन्दमन्त्रास्समाख्याता मूर्तिध्यानान्यथ श‍ृणु ॥ २.५९॥ अथ षोडशमूर्तिध्यानभेदाः- ज्ञानशक्तिधरः स्कन्दो देवसेनापतिस्तथा । सुब्रह्मण्यो गजारूढः शरकाननसम्भवः ॥ २.६०॥ कार्तिकेयः कुमारश्च षण्मुखस्तारकान्तकः । सेनानीर्ब्रह्मशास्ता च वल्लीकल्याणसुन्दरः ॥ २.६१॥ बालश्च क्रौञ्चभेत्ता च शिखिवाहन एव च । एतानि स्वामिनामानि षोडश प्रत्यहं नरः ॥ २.६२॥ यः पठेत्सर्वपापेभ्योः स मुच्येत महामुने । एतेषां प्रतिरूपाणां ध्यानभेदमथोच्यते ॥ २.६३॥ (१) अथ शक्तिधरस्वामिध्यानम् - एकास्यं द्विभुजं वामे वज्रं दक्षिणजे करे । इच्छाज्ञानक्रियाशक्तिरूपं शक्तिधरं भजे ॥ २.६४॥ (२) स्कन्दस्वामिध्यानम् - कल्पद्रुमं प्रणमतां कमलारुणाभं स्कन्दं भुजद्वयमनामयमेकवक्त्रम् । कात्यायनीसुतमहं कटिबद्धदाम कौपीनदण्डधरदक्षिणहस्तमीडे ॥ (३) सेनापतिध्यानम् - नौम्यादित्यप्रदीप्तं द्विदशनयनकं षण्मुखं मन्दहासं वामाङ्के सुस्थितायास्सरसिरुहधृतालिङ्गितायाः प्रियायाः । उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटादिशूल- ह्रादिन्युद्दीप्तशक्तीष्वसनवनगदाकुक्कुटाब्जेषु हस्तम् ॥ (४) सुब्रह्मण्यस्वामिध्यानम्- सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि- र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं (रक्ताङ्गरागांशुकं) सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ अन्यच्च- एकवक्त्रं द्विदोर्दण्डं कटिबद्धाभयान्वितम् । तरुणारुणसङ्काशं सुब्रह्मण्यमुपास्महे ॥ (५) गजवाहनस्वामिध्यानम्- एकाननं द्विनयनं वरकुक्कुटौ च वामद्वये निशितशक्त्यभयद्वयं च । बिभ्राणमीश्वरसुतं तपनायुताभं नित्यं नमामि गजवाहनमिष्टसिद्ध्यै ॥ (६) शरवणभवस्वामिध्यानम्- शक्तिं घण्टां ध्वजसरसिजे कुक्कुटं पाशदण्डौ टङ्कं बाणं वरदमभयदं कार्मुकं चोद्वहन्तम् । पीतं सौम्यं द्विदशनयनं देवसङघैरुपास्यं सद्भिः पूज्यं शरवणभवं षण्मुखं भावयामि ॥ (७) कार्तिकेयस्वामिध्यानम्- वरदकुलिशखेटं वामहस्तत्रये च दधतमभयशक्तिं खण्डमन्यत्त्रये च । तरुणरविसमाभं साधुभिः पूज्यमानं कमलवदनषट्कं कार्तिकेयं नमामि ॥ (८) कुमारस्वामिध्यानम्- सव्यद्वये निशितशक्त्यसिमादधानं वामद्वयेऽभिमतकुक्कुटखेटकं त्वाम् । (खेटकं च) वल्लीपतिं विबुधलोचनपूर्णचन्द्रं कल्याणदाननिरतं कलये कुमारम् ॥ (९) षण्मुखस्वामिध्यानम्- वन्दे सिन्दूरकान्तिं शरविपिनभवं श्रीमयूराधिरूढं षड्वक्त्रं देवसैन्यं मधुरिपुतनयावल्लभं द्वादशाक्षम् । शक्तिं बाणं कृपाणं ध्वजमपि च गदां चाभयं सव्यहस्तैः चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥ (१०) तारकारिस्वामिध्यानं वरदमङ्कुशध्वजे च कटकौ चापवज्र- मभयपाशचक्रखड्गमुसलशक्तिमन्वहम् । द्विदशपाणिभिर्दधानमरुणकोटिसन्निभं भजत तारकारिमत्र भवविनाशकारणम् ॥ (११) सेनापतिस्वामिध्यानम्- अभयमसिरथाङ्गं चाङ्कुशं शक्तिशूलं वरदकुलिशपाशं पद्मदण्डौ गदां च । दधतमुभयपक्षद्वादशायामहस्तै- र्द्विदशकमलनेत्रं देवसेनान्यमीडे ॥ (१२) ब्रह्मशास्तृध्यानम्- वामे करे च युगले वरकुण्डिके च सव्येऽक्षसूत्रमभयं दधतं विशाखम् । वल्ल्यायुतं वनजलोचनमेकवक्त्रं वन्दामहे वनजसम्भवशासितारम् ॥ (१३) वल्लीकल्याणसुन्दरस्वामिध्यानम्- हस्तद्वन्द्वेऽक्षमालामभयमपि धृतं कुण्डिकां श्रोणिबन्धं सव्ये वामे निषण्णः श्रवधृतविधिनाहूयमानेन युक्तम् । सर्वालङ्कारयुक्तं जलकलशधृता विष्णुना चारुणाभं वल्लीकल्याणमूर्तिं सकलसुरगणैः स्तूयमानं प्रपद्ये ॥ (१४) बालस्वामिध्यानम्- पद्मसव्यकटिसंयुतवामं पद्मकान्तिनिभमेकमुखं च । बालवृद्धिकरमीश्वरसूनुं बालमुन्नतभुजं प्रणतोऽस्मि ॥ अन्यच्च- एकवक्त्रं द्विनयनं पद्मद्वयकरद्वयम् । विप्रप्रियकरं वन्दे बालरूपं रविप्रभम् ॥ (१५) क्रौञ्चभेदनस्वामिध्यानं - अभयशितकृपाणौ शक्तिबाणौ च सव्ये वरदकुलिशचापं खेटके चान्यहस्ते । दधतममरसेनानायकं चाष्टबाहुं कमलवदनषट्कं क्रौञ्चभेत्तारमीडे ॥ (१६) शिखिवाहनस्वामिध्यानं विद्रुमप्रभमेकमुखं विभुं वज्रशक्तिवरदाभयपाणिम् । देवलोकरिपुघ्नमविघ्नदं नौमि रुद्रभवं शिखिवाहम् ॥ ॥ इति षोडशमूर्तिध्यानभेदाः ॥ दाडिमीपुष्पसङ्काशं गुञ्जाभं कुङ्कुमाकृतिम् । षड्वक्त्रसहितं देवं द्वादशाक्षं सुयौवनम् ॥ २.६५॥ चतुर्भुजमुदाराङ्गं यज्ञसूत्रेण संयुतम् । वरदाभयसंयुक्तं कमण्डल्वक्षधारिणम् ॥ २.६६॥ नक्रकुण्डलसंयुक्तं करण्डमकुटोज्ज्वलम् । हारकेयूरकटकं कटिसूत्रैर्विभूषितम् ॥ २.६७॥ रत्नविद्रुमभूषाढ्यं नववीरसमायुतम् । पादनूपुरसंयुक्तं सर्वाभरणभूषितम् ॥ २.६८॥ सर्वलक्षणसंयुक्तं कुमारं शङ्करात्मजम् । महावल्लीदेवसेनायुक्तं सुरगणप्रियम् ॥ २.६९॥ इत्थं रूपं यजेन्नित्यं सर्वलोकहितावहम् । चतुर्भुजं बालवेषं स्कन्दं कनकसप्रभम् । शक्तिकुक्कुटहस्तं च वरदाभयसंयुतम् ॥ २.७०॥ विद्रुमनिभद्विदशहस्त रविनेत्र शक्तिशरखड्गमभयध्वजगदां च । वामकरचापकुलिशाब्जवरशूल खेटधर सव्यकर षण्मुख नमस्ते ॥ २.७१॥ द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः । पद्मधृत्सव्यपाणिश्च इतरः पद्मधृत्करः ॥ २.७२॥ बालरूपः प्रतिष्ठायां ग्रामस्यैवाभिवृद्धये । द्विहस्तो यज्ञसूत्राढ्यास्सशिखस्सत्रिमेखलः ॥ २.७३॥ कौपीनदण्डधृत्सव्यपाणिः कट्याश्रितः परः । स्थापयेद्दैवतं स्कन्दं पर्वतेषु वनादिषु ॥ २.७४॥ चतुर्भुजस्त्रिणेत्रश्च कर्णयोः पत्रकुण्डलः । नक्रकुण्डलयुक्तो वा समीपे शक्तिकाद्वयः ॥ २.७५॥ दक्षिणे वामहस्ते च साक्षमाला कमण्डलुः । वरदाभयसंयुक्तः कटिसूत्रेण भूषितः ॥ २.७६॥ मयूरवाहसंयुक्तोप्यथवा युक्तसामजः । शक्तिभ्यां च युतो वाऽपि तयोर्लक्षणमुच्यते ॥ २.७७॥ द्विनेत्रे द्विभुजे शान्ते पद्मधारकरावुभौ । लम्बमानकरे चैव श्यामा रक्तसमप्रभे ॥ २.७८॥ महावल्लीदेवसेना सर्वाङ्गमतिसुन्दरे । इत्थं लक्षणसंयुक्तो ग्रामे वा नगरेऽपि वा ॥ २.७९॥ षडाननो द्विषड्बाहुरर्कश्रोत्रेक्षणान्वितः । द्विषट्कर्णेक्षणैर्युक्तप्रतिमौलिभिरन्वितः ॥ २.८०॥ सशक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः । सखेटकस्त्वयं स्थाप्यो वृद्धये पत्तनादिके ॥ २.८१॥ रक्ताम्बरसमायुक्तो बालचन्द्रसमप्रभः । करण्डमकुटोपेतो हस्तद्वादशकस्तु वा ॥ २.८२॥ शक्तिं च मुसलं खड्गं चक्रपाशाभये वहन् । दक्षिणे दक्षिणे वज्रं कार्मुकं खेटकं तथा ॥ २.८३॥ मयूरं वा ध्वजं वाऽपि साङकुशं वरमावहन् । सोमपीथी मयूरस्थः शक्तिद्वयसमायुतम् । ग्रामादौ स्थापनीयोऽयं प्रासादादौ तु सिद्धये ॥ २.८४॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं रक्ताम्बरालङ्कृतं शक्तिं चर्म च खड्गशूलविशिखाभीतिं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं तथा ध्यायेदीप्सितसिद्धिदं शशिधरं स्कन्दं सुराराधितम् ॥ लोकालोकान्धकारप्रतिहतकिरणैर्भानुकोटिप्रकाशं भूमिन्यस्तैककोटिष्वसनमपि शरं लम्बमानोर्ध्वकायम् । हस्ताभ्यां चेतराभ्यां धृतमथ कुलिशं शक्तिमम्भोरुहाक्षं सर्वालङ्कारयुक्तं भजत सुरपुरीपालकं बाहुलेयम् ॥ (भजत सुरपरिपालकं) ॥ इति श्रीकुमारतन्त्रे मन्त्रोद्धारविधिर्नामद्वितीयः पटलः ॥

३. तृतीयः पटलः - शौचाचमनम्

अतः परं प्रवक्ष्यामि शौचमाचमनं श‍ृणु । उत्थाय च बहिर्ग्रामात् विण्मूत्रं तु विसर्जयेत् ॥ ३.१॥ अहन्युदङ्मुखो भूत्वा रात्रौ वै दक्षिणामुखः । ग्रामपार्श्वे महाक्षेत्रे तडागे कूपपार्श्वके ॥ ३.२॥ वल्मीके च तथा नद्यां वृक्षमूले तथालये । जलाशयसमीपे तु शिलायां पर्वते तथा ॥ ३.३॥ पुण्यारामे गवां गोष्ठे चैत्यवृक्षसमीपके । (पुष्पारामे) स्थानेष्वेतेषु मतिमान् विण्मूत्रं न विसर्जयेत् ॥ ३.४॥ अन्यस्थाने यथा वायुस्तथाभिमुखमास्थितः । (अन्यस्थाने तथा भूमौ) वामेनैवोपवीतं तु कर्णमूले न्यसेत् बुधः ॥ ३.५॥ तृणानि विन्यसेत् भूमौ विण्मूत्रे च विसर्जयेत् । गृहीत्वा वामहस्तेन लिङ्गं यावत् समाप्तिकम् ॥ ३.६॥ नासां पिधाय हस्तेन दक्षिणाङ्गुलिकं च यत् । यावच्छुद्धिर्भवेदस्य तावन्मौनं समाचरेत् ॥ ३.७॥ दक्षिणेन करेणैव मृदं गृह्य विचक्षणः । (मृदं ग्राह्य) त्रिःकृत्वाक्षाल्य लिङ्गं तु पञ्चापानं च मृत्तिकाः ॥ ३.८॥ दशवारं वामकरं पञ्चवारं करद्वयम् । शोधयेदम्भसा नित्यं गृहस्थानां विधीयते ॥ ३.९॥ द्विगुणं ब्रह्मचारीणां त्रिगुणं वनवासिनाम् । चतुर्गुणं यतीनां तु शौचमेवं विधीयते ॥ ३.१०॥ यावच्छुद्धिर्भवेद् बुद्धिस्तावच्छौचं समाचरेत् । (यावच्छुद्धिर्भवेद् बुद्धे) शुद्धतीरमनुप्राप्य पुनराचमनं चरेत् ॥ ३.११॥ करञ्जनिम्बापामार्गप्लक्षचम्पकवैणवैः । वकुलक्षीरवृक्षैर्वा दन्तधावनमाचरेत् ॥ ३.१२॥ कनिष्ठाङ्गुलिनाहंस्यादायतं च दशाङ्गुलम् । (च द्वादशाङ्गुलं) समच्छेदमृजुं शुभ्रं ह्यार्द्रं च त्वगपवर्गकम् ॥ ३.१३॥ (समच्छेदमृजुं शुद्धं) षष्ठिपर्वनवम्यां च द्वादश्यां प्रतिपद्यपि । मातापित्रोश्च दिवसे नाचरेद्दन्तधावनम् ॥ ३.१४॥ गण्डूषं रविसङ्ख्याभिर्विधाय मतिमान् पुनः । सपवित्रकरेणैव सर्वकर्मसमाचरेत् ॥ ३.१५॥ त्रिःकृत्वा तु जलं पीत्वा माषमग्नं पुनः पुनः । ऋग्यजुस्सामभिर्भन्त्रैस्त्रिभिः पीत्वा विचक्षणः ॥ ३.१६॥ आस्यं द्विःप्रमृजेत्तत्र सकृन्मृज्य मुखं शनैः । ईशानमन्त्रतः प्राज्ञः ऊर्ध्वाधोमार्जयेत्ततः ॥ ३.१७॥ अङ्गुष्ठानामिकाभ्यां तु नेत्रयोः स्पर्शयेत्पुनः । अङ्गुष्ठतर्जनीभ्यां तु नासिकायाः पुटद्वयम् ॥ ३.१८॥ कनिष्ठाङ्गुष्ठकाभ्यां तु नेत्रयोः स्पर्शयेत् क्रमात् । मध्यमाङ्गुष्ठकाभ्यां तु बाह्वोः संस्पर्शयेद्द्वयोः ॥ ३.१९॥ अङ्गुलीभिश्च वसुभिर्नाभौ हृन्मूर्ध्नि च स्पृशेत् । एवमाचमनं प्रोक्तं नियमेन महामुने ॥ ३.२०॥ इति श्रीकुमारतन्त्रे कौशिकप्रश्नमहासंहितायां शौचाचमन- विधिर्नाम तृतीयः पटलः ।

४. चतुर्थः पटलः - स्नानानुष्ठानविधिः

अथ वक्ष्ये विशेषेण स्नानं पापहरं परम् । मृदं च गोशकृत् पुष्पं कुशमामलकं तिलम् ॥ ४.१॥ धौतवस्त्रं च सङ्ग्राह्य जलतीरं समाविशेत् । वापीकूपतडागेषु नान्यत्र मृदमाहरेत् ॥ ४.२॥ जले प्रादेशमात्रे च मणिबन्धाज्जले बुधः । गोमयामलकेनैव सर्वाङ्गानि च मर्दयेत् ॥ ४.३॥ मलस्नानं ततः कृत्वा जलस्नानं समाचरेत् । मूलमन्त्रेण मृत्पिण्डं त्रिधा भज्य महामुने ॥ ४.४॥ पृष्ठे च दक्षिणे चैव विन्यसेदुत्तरेऽपि च । पुरुषं पूर्वदिग्भागे ह्यघोरं दक्षिणे न्यसेत् ॥ ४.५॥ उत्तरे विन्यसेद्धीमान् वामदेवेन मन्त्रतः । अस्त्रेण पूर्वतो न्यस्त्वा दशदिक्षु मृदं क्षिपेत् ॥ ४.६॥ दक्षिणेन मृदा शोध्य सर्वाङ्गं मूलविद्यया । उत्तरस्थं च मृद्भागं तीर्थमध्ये विनिक्षिपेत् ॥ ४.७॥ स्नात्वा राजोपचारेण रजन्यामलकादिना । पञ्चब्रह्मषडङ्गैश्च गुहतीर्थं स कल्पयेत् ॥ ४.८॥ स्नात्वा गुरूक्तमार्गेण धौतवस्त्रधरो द्विजः । आचम्य विधिवत् पश्चात्प्राणायामं समाचरेत् ॥ ४.९॥ आपोहिष्ठेति नवभिः पदैः प्रोक्षणमाचरेत् । सूर्यश्चेत्यनुवाकेन जलं प्रातः पिबेद् बुधः ॥ ४.१०॥ आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः । दधिक्राविण्णेति ततस्त्रिकालं प्रोक्षयेत्ततः ॥ ४.११॥ गायत्र्यार्घ्यं ततः कृत्वा भूर्भुवःस्वेति पूर्वया । प्रणवेन समायुक्तं भूर्भुवःस्वरिति ब्रुवन् ॥ ४.१२॥ वामेतरे जलं ग्राह्य प्रदक्षिणमथाचरेत् । असावादित्यो ब्रह्मेति सूर्यं स्मृत्वा प्रणम्य च ॥ ४.१३॥ सूर्यादितर्पणं कृत्वा गङ्गायै नम इत्यथ । अवकुण्ठ्य जलं ग्राह्य महालक्ष्म्यै नमस्त्रिभिः ॥ ४.१४॥ मुखं क्षाल्य प्रमृज्याथाप्यस्त्रेण त्रिःपिबेज्जलम् । तेनैव दशधा प्रोक्ष्य तेनैवार्ध्यत्रयं ददेत् ॥ ४.१५॥ यथाशक्ति जपेत् तेन त्रिःपिबेत्तु यथाविधि । सव्येन हस्तं सङ्ग्राह्य वामहस्ते निधाय च ॥ ४.१६॥ तद्भस्म सजलं कृत्वा किञ्चिदङ्गुष्ठेन कर्मणा । (कृत्वा किञ्चिदङ्गुल्लकेव तु) शिरः प्रभृति पादान्तं दर्शयित्वाथ देशिकः ॥ ४.१७॥ नैरृत्यां दिशि तत्कृत्वा पश्चात् षट्कोण मालिखेत् । (षट्कोण माचरेत्) स्कन्दमूलं ततो मध्ये ॐ श्रीं ह्रीं क्लीं ततः परम् ॥ ४.१८॥ ऐं सौं कोणेषु संल्लिख्य शिरसीशानमन्त्रतः । (ऐं सः) ललाटे पुरुषेण स्यादघोरेण स्तनान्तरे ॥ ४.१९॥ नाभौ तु वाममन्त्रेण जान्वोर्बाह्वोश्च सद्यतः । शेषाङ्गेषु च तन्मन्त्रैरर्पयेद्भस्मना बुधः ॥ ४.२०॥ हस्तौ प्रक्षाल्य शिरसि मुद्रया कुम्भसंज्ञया । प्रोक्षयित्वा जलं पश्चान्मूलेनैवावकुण्ठयेत् ॥ ४.२१॥ अस्त्रमन्त्रेण सन्ताड्य जलं वामकरे क्षिपेत् । तस्मात्करात्पदं तोयं दक्षिणेन करेण च ॥ ४.२२॥ पञ्च ब्रह्मषडङ्गैश्च प्रोक्षयित्वाथ मन्त्रवित् । शेषं जलं समादाय दक्षिणेन करेण च ॥ ४.२३॥ पुटेनदक्षनासायां पूर्य वामेन रेच्य च । तज्जलं दक्षिणे भागे हुम्फटन्तेन संव्रजेत् ॥ ४.२४॥ पश्चादाचमनं कृत्वा प्राणायामं समभ्यसेत् । (प्राणायामं समाचरेत्) अङ्गन्यासं करन्यासं पूर्वोक्तविधिनाचरेत् ॥ ४.२५॥ त्रिरर्ध्यं शिवगायत्र्या यथाशक्ति जपेच्छतम् । मूलमन्त्रेण रुद्रस्य तर्पयेद्रुद्रसङ्ख्यया ॥ ४.२६॥ पञ्चब्रह्मषडङ्गैश्च गौर्या मूलेन च त्रिधा । ब्रह्मादिपञ्चमूर्तीश्च तर्पयेत्स्वस्वनामतः ॥ ४.२७॥ गणेशं मूलमन्त्रेण तर्पयेदेकतर्पणम् । सुब्रह्मण्यषडङ्गेन न्यासं कृत्वाथ देशिकः ॥ ४.२८॥ त्रिवारं स्कन्दगायत्र्या तर्पयेद्देशिकोत्तमः । स्कन्दस्य मूलमन्त्रेण षडावृत्त्या प्रतर्पयेत् ॥ ४.२९॥ (मूलमन्त्रेण षष्ठवारं) सुब्रह्मण्यषडङ्गेन तर्पयेत् तु विशेषतः । महावल्लीदेवसेनां तत्तन्नाम्ना तु तर्पयेत् ॥ ४.३०॥ भुवनेशीं महालक्ष्मीं वाग्देवीं च प्रतर्पयेत् । क्षेत्रपालस्य मूलेन गुरून् पश्चात्तु तर्पयेत् ॥ ४.३१॥ सौराङ्गेणैव मतिमान् षडङ्गन्यासमाचरेत् । मूलमन्त्रेण सूर्यस्य कषोल्कायेति मन्त्रतः ॥ ४.३२॥ त्रिवारं तर्पयेद्धीमानुषाञ्च प्रत्युषामपि । तेजश्चण्डं सकृत्तर्प्य सर्वं ब्रह्मणि योजयेत् ॥ ४.३३॥ सावित्रीं च जपेत् पश्चात् पूर्वोक्तविधिना बुधः । उपस्थानं ततः कुर्योत् प्रातर्मित्रस्य चर्षणीः ॥ ४.३४॥ आसत्येनेति मध्याह्ने सायेऽमं मेति मन्त्रतः । ब्रह्मयज्ञं ततः कृत्वा स्कन्दमन्त्रं शतं जपेत् ॥ ४.३५॥ इति श्रीकुमारतन्त्रे स्नानानुष्ठानविधिर्नाम चतुर्थः पटलः ।

५. पञ्चमः पटलः - नित्यार्चनविधिः

अतः परं प्रवक्ष्यामि सुब्रह्मण्यार्चनाविधिम् । सर्वसिद्धिकरं पुण्यं सर्वव्याधिविनाशनम् ॥ ५.१॥ सर्वदुःखोपशमनं सदा विजयवर्धनम् । आत्मार्थं च परार्थं च पूजा द्विविधमेव च ॥ ५.२॥ (पूजा द्विविधमुच्यते) गृहार्चनं तथात्मार्थं तत्तत्सिद्धिकरं भवेत् । देवर्षिभिर्मनुष्याद्यैः स्थापितं बेरमादरात् ॥ ५.३॥ तत् परार्थं समाख्यातं सर्वेषामात्मनां फलम् । विप्रक्षत्रियविट्शूद्रा दीक्षिताश्च प्रवेशकः ॥ ५.४॥ आत्मार्थयजनं कुर्यात् न कुर्यात्तु परार्थकम् । आदिशैवः प्रकर्तव्यं आत्मार्थं च परार्थकम् ॥ ५.५॥ आदिशैवा इति प्रोक्तास्ते शिवब्राह्मणा मुने । शौचमाचमनं कृत्वा विधिस्नानं समाचरेत् ॥ ५.६॥ सन्ध्यावन्दनकर्मादि कृत्वा देवालयं व्रजेत् । (देवालयं विशेत्) पादौ प्रक्षाल्य विधिना भस्म निक्षिप्य मन्त्रवित् ॥ ५.७॥ सूर्यपूजाविधानेन सौरपूजां समाचरेत् । प्रक्षाल्य पादावाचम्य विधिना भस्म धारयेत् ॥ ५.८॥ प्रणवं संस्मरन्मन्त्री प्राणायामं समाचरेत् । पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रिभिः ॥ ५.९॥ विधिना पञ्चगव्यञ्च पञ्चामृतमथाचरेत् । सकलीकृत्य मतिमान् प्रणवार्ध्यं तु साधयेत् ॥ ५.१०॥ (प्रणवार्ध्यं तं तु साधयेत्) स्नपनं कारयेद्विद्वान् यथाविधिपुरःसरम् । द्वारमन्त्रेण सम्प्रोक्ष्य गणेशञ्च सरस्वतीम् ॥ ५.११॥ सव्यवामे पतङ्गोर्ध्वे तत्तद्वीजेन पूरयेत् । (तत्तद्वीजेन पूजयेत्) मध्ये लक्ष्मीञ्च सम्पूज्य हस्तिद्वयाभिषेचिताम् ॥ ५.१२॥ (हस्तिद्वयाभिषेचनं) सुदेहसुमुखौ विप्रो गुहस्य द्वारपालकौ । एकवक्त्रौ द्विबाहू च गदाभयधरौ स्मृतौ ॥ ५.१३॥ (गदाभयकरौ) चतुर्भुजौ चेत्तस्योर्ध्वे वज्रशक्तिधरौ तथा । रक्तश्यामलवर्णाढ्यौ सर्वाभरणभूषितौ ॥ ५.१४॥ सुदंष्ट्रौ स्मितवक्त्रौ च करण्डमकुटोज्ज्वलौ । दक्षिणे तु सुदेहञ्च सुमुखञ्च तथोत्तरे ॥ ५.१५॥ पश्चादक्षिणशाखायां दीप्ताञ्चामरधारिणीम् । (दीप्ताञ्चामरचारिणीं) उत्तरायाञ्च शाखायां सूक्ष्मान्तं पूजयेत् तया ॥ ५.१६॥ (शाखायां सूक्ष्मां सम्पूजयेत् तथा) अथोदुम्बरमूले तु पृथिवीं सम्प्रपूजयेत् । दिव्यान्तरिक्षभूमीषु विघ्नानुच्चाट्य चास्त्रतः ॥ ५.१७॥ (विघ्नानुच्चार्य स्मृतः) अन्तः प्रविश्य मतिमान्नित्यं तद्द्वारपालकौ । मध्यदक्षिणवामे तु देहल्यां पूजयेत्तदा ॥ ५.१८॥ कवाटौ प्रोक्ष्य चास्त्रेण जयं विजयमर्चयेत् । नैरृत्यां वास्तुनाथञ्च स्वस्वनामभिरर्चयेत् ॥ ५.१९॥ देवस्य दक्षिणे पार्श्वे रुचिरासनसंस्थितः । पञ्चशुद्धिं ततः कृत्वा तेषां भेदमथ श‍ृणु ॥ ५.२०॥ (ततः कुर्यात्) आत्मशुद्धिस्तु प्रथमं स्थानशुद्धिर्द्वितीयकम् । (आत्मशुद्धिस्तु पूर्व स्यात्) द्रव्यशुद्धिस्तृतीयञ्च बिम्बशुद्धिश्चतुर्थकम् ॥ ५.२१॥ मन्त्रशुद्धिस्तु पञ्चैते आत्मशुद्धिं ततः श‍ृणु । तलौ च हस्तपृष्ठौ च मन्त्रेणास्त्रेण शोधयेत् ॥ ५.२२॥ अङ्गुष्ठादिकनिष्ठान्तमीशानादींश्च विन्यसेत् । ह्रीं मन्त्रादींश्च मध्यादि तर्जन्यान्तं चतुर्थकम् ॥ ५.२३॥ नेत्रं करतले न्यस्य तर्जन्यामस्त्रकं न्यसेत् । आत्मानं योजयेत्पश्चात् शिखाग्रे व्योमसंज्ञके ॥ ५.२४॥ शुष्कवृक्षमिवात्मानं शोषयेद्वायुमन्त्रतः । अग्निबीजेन तद्देहं भस्मकूटमिव स्मरेत् ॥ ५.२५॥ वायोर्बीजेन तद्भस्म प्लावयेदमृतस्रवम् । सञ्चिन्त्य पूर्ववद्देहं मुद्रयाङ्कुशसंज्ञया ॥ ५.२६॥ (पूर्ववद्देहं मुद्रया कुशसंज्ञया) आत्मानं मूलमन्त्रेण विन्यसेद्धृदये पुनः । कृत्वाथ मातृकान्यासं कुर्यात्प्राणप्रतिष्ठिकाम् ॥ ५.२७॥ ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् । अघोरं हृदये न्यस्य वामदेवं तु गुह्यके ॥ ५.२८॥ सद्योजातं न्यसेत्पादौ पुनरङ्गानि बुद्धिमान् । हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ॥ ५.२९॥ शिखायां तु शिखां न्यस्य कवचं स्तनमध्यमे । नेत्रं नेत्रद्वये विद्वान् अस्त्रं हस्तप्रदेशके ॥ ५.३०॥ सैकत्रिंशत्कलान्यासं प्रागुक्तविधिनाचरेत् । एवं शुद्धतनुर्भूत्वा स्कन्दोऽहमिति मन्त्रतः ॥ ५.३१॥ अन्तर्यागं ततः कृत्वा तत्पूजार्हकमन्त्रतः । आसनावरणाद्यैश्च हृत्पद्मे चार्चयेद्गुहम् ॥ ५.३२॥ आत्मशुद्धिरिति प्रोक्ता स्थानशुद्धिं ततः श‍ृणु । मूले न्यस्तेन नेत्रेण निरीक्ष्य प्रोक्षणादिभिः ॥ ५.३३॥ (मूल न्यस्तेन) अवकुण्ठञ्चदिग्बन्धं प्राकारैः स्नानशोधनम् । मार्जनं प्रोक्षणं चैव गोमयालेपनं हृदा ॥ ५.३४॥ (मार्जनं निरीक्षणं) गुहाग्रे भूपुरं लिख्य भूबीजेन समर्चयेत् । स्थानशुद्धिरिति ख्याता द्रव्यशुद्धिं ततः श‍ृणु ॥ ५.३५॥ पाद्यपात्रं शरावञ्च अर्घ्याचमनपात्रकम् । शङ्खञ्च स्थालिकाञ्चैव जलभाण्डादि वर्धनीम् ॥ ५.३६॥ अस्त्रेण क्षाल्य च हृदा निरीक्ष्य कवचेन तु । अवकुण्ठ्य गुरुः पश्चात् सामान्यार्घ्यं प्रकल्पयेत् ॥ ५.३७॥ ब्रह्माङ्गैर्मूर्तिमन्त्रैश्च स्कन्दगायत्रिमन्त्रतः । तत्तोयेनास्त्रमन्त्रेण सर्वं सम्प्रोक्ष्य बुद्धिमान् ॥ ५.३८॥ वस्त्रपूतेन तोयेन जलभाण्डं प्रपूरयेत् । निधाय सव्यहस्तेन सप्तवारं ततः स्मृतम् ॥ ५.३९॥ (विधाय सव्यहस्तेन) आपो वा इति मन्त्रेण जप्त्वा पद्माख्यमुद्रिकाम् । अस्त्रमुद्रां प्रदर्श्याथ सर्वद्रव्याणि शोधयेत् ॥ ५.४०॥ द्रव्यशुद्धिर्भवेदेवं बिम्बशुद्धिं ततः श‍ृणु । नमस्कृत्वा महासेनमिदं मन्त्रं समर्चयेत् ॥ ५.४१॥ सिद्धदेवर्षिसङ्घैश्च मनुष्यैश्च समर्चितम् । अर्चयिष्ये यथा शक्त्या प्रसीद गुहमूर्तिमन् ॥ ५.४२॥ अर्घ्यद्रव्यैश्च मतिमान् विशेषार्घ्यं प्रकल्पयेत् । कुशाग्रापः पयोभिश्च तिलतण्डुलकैर्युतम् ॥ ५.४३॥ अक्षतैर्यवसिद्धार्थैरर्घ्यमष्टाङ्गमुत्तमम् । मूलब्रह्मषडङ्गैश्च स्कन्दसूक्तेन मन्त्रतः ॥ ५.४४॥ मूर्तिमन्त्रैश्च गायत्र्या विशेषार्घ्यं प्रकल्प्य च । चन्दनोशीरसंयुक्तं पाद्यं सङ्कल्पयेद्धृदा ॥ ५.४५॥ तुटिपत्रं च कर्पूरं फलत्रययुतं तथा । (बिल्वपत्रं च) *पुरुषयुक्तषडङ्गेनाचमनं परिकल्पयेत् ॥ ५.४६॥ (*छन्दोभङ्गः) हृदयेन तु मन्त्रेण प्रच्छन्नपटमानयेत् । निर्माल्यं च विसृज्याथ सुमित्राय प्रदापयेत् ॥ ५.४७॥ अस्त्रमन्त्रेण मतिमान् बेरशुद्धिं समाचरेत् । स्कन्दगायत्रिमन्त्रेण क्षालयेत्तु पुनः पुनः ॥ ५.४८॥ लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि । चित्रादिप्रतिमा चेत्तु शुद्धिं कूर्चेन कारयेत् ॥ ५.४९॥ बिम्बशुद्धिर्भवेदेवं मन्त्रशुद्धिं ततः श‍ृणु । ओङ्कारादिनमोऽन्ताश्च मन्त्राः पूजार्हका भवेत् ॥ ५.५०॥ मनसोपांशुना वाचा मन्त्रशुद्धिरुदाहृता । यो वेत्ति पञ्चशुद्धिं च स पूजां कर्तुमर्हति ॥ ५.५१॥ स्कन्दसूक्तेन मतिमान् मूलब्रह्मषडङ्गकैः । मालामन्त्रेण मतिमान् कार्तिकेयं तु पूजयेत् ॥ ५.५२॥ आसनं कल्पयेत्पश्चाच्छास्त्रदृष्टेन वर्त्मना । प्रणवं पूजयेन्मन्त्री पीठाधस्तात् गुहस्य तु ॥ ५.५३॥ आधारशक्तिं तस्योर्ध्वे ततोऽनन्तासनं यजेत् । धर्मं पाण्डरसंज्ञं च ज्ञानं वै पद्मरागकम् ॥ ५.५४॥ (धर्मं पाण्डुरवर्णं) वैराग्यं हेमवर्णं स्यादैश्वर्यं श्यामवर्णकम् । आग्नेयादिषु कोणेषु पूजयेत्तु विशेषतः ॥ ५.५५॥ अधर्माज्ञानावैराग्यानैश्वर्यांश्च पुनः पुनः । राजावर्तनिभा एते प्रागादिषु प्रकल्पयेत् ॥ ५.५६॥ मायाधच्छदनं रक्तं नैरृत्यां दिशि पूजयेत् । वेद्योर्ध्वच्छदनं श्वेतमैशान्यां दिशि पूजयेत् ॥ ५.५७॥ एवं सिंहासनं प्रोक्तं पद्मासनं ततोच्यते । कन्दं बीजाङ्कुरं नालं दलं केसरकर्णिकाम् ॥ ५.५८॥ बीजं पद्मं च मतिमान् पूर्वादिषु च मध्यमे । शकुनीं रेवतीं पूतां महापूतां निशीथिनीम् ॥ ५.५९॥ मालिनीं शीतलां बुद्धां प्रागादिषु सुपूजयेत् । (शीतलां शुद्धां) मध्ये विश्वमुखां पूज्य नमोऽन्तैर्नामभिः क्रमात् ॥ ५.६०॥ मण्डलत्रयमत्रैव पूजयेद्विमलासनम् । क्षित्यादिप्रकृतिः प्रोक्ता तत्त्वरूपं सनातनम् ॥ ५.६१॥ सुब्रह्मण्यासनं दिव्यं तस्योपरि यजेद् बुधः । तत्तत्स्वरूपध्यानेन तस्मिन् मूर्तिं प्रकल्पयेत् ॥ ५.६२॥ आपाद्य बिन्दुं तद्बिन्दोरानीय कुसुमाञ्जलिम् । तन्मूलमन्त्रसंयुक्तं हृदा चावाहयेत् गुहम् ॥ ५.६३॥ स्थापनं तु प्रदातव्यमीशानेन तु मन्त्रतः । सन्निधानं तत्पुरुषादघोरात् सन्निरोधनम् ॥ ५.६४॥ स्वागतं वामदेवेन दिग्बन्धं चास्त्रमन्त्रतः । कवचेनावकुण्ठ्याथ सद्येनामृतकल्पना ॥ ५.६५॥ स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् । तावत् त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ ५.६६॥ इदं मन्त्रं समुच्चार्य विश्वामित्र महामुने । पद्ममुद्रां महामुद्रां षण्मुखीं दर्शयेत्ततः ॥ ५.६७॥ पादौ सकृत् सकृत्पाद्यं हृदयेन प्रदापयेत् । पुरुषयुक्तषडर्णेन वक्त्रेष्वाचमनीयकम् ॥ ५.६८॥ अर्ध्यं शिरसि विन्यस्य वौषडन्तेन मूलतः । आपोहिष्ठेति मन्त्रेण पञ्चगव्येन पूजयेत् ॥ ५.६९॥ अभिषिच्याथ तोयेन पिष्टेन कर्षयेद्धृदा । गन्धाद्यैरभिषिच्याथामलकैः परिमर्दयेत् ॥ ५.७०॥ स्नाप्य बिल्वोदकैः पश्चाद्धरिद्रेण च पीठकम् । शक्तिद्वयं च संलेप्य पूजयेत्तु पुनः पुनः ॥ ५.७१॥ पञ्चामृतेन संस्नाप्य शुद्धतोयेन वा पुनः । श्रीरुद्रचमकाभ्यां च पुरुषसूक्तेन मन्त्रवित् ॥ ५.७२॥ ततः कुमारमातेति ऋचा चैव विशेषतः । स्कन्दसूक्तेन गायत्र्या सेनान्यं पञ्चशान्तिना ॥ ५.७३॥ अयं कुमारमन्त्रेण माते कुमारमन्त्रतः । मालामन्त्रेण मतिमान् मूलब्रह्मषडङ्गकैः ॥ ५.७४॥ इत्थं शुद्धाम्बुभिः स्नाप्य हृदा चाचमनं ददेत् । वस्त्रेण परिमृज्याथ वस्त्राणि च हृदा ददेत् ॥ ५.७५॥ गन्धं तत्पुरुषेणैव यज्ञसूत्राक्षसूत्रिकाम् । मकुटं कुण्डलं पट्टं हारकेयूरनपुरम् ॥ ५.७६॥ छन्नं वीराङ्गुलीयं स्याद्ददेदाभरणस्य तु । पुष्पमीशानमन्त्रेण धूपदीपौ च पूरुषात् ॥ ५.७७॥ मनोरथाख्यमुद्रां च दर्शयेत् देशिकोत्तमः । शिरोवदनहृत्कुक्षिगुह्यपादद्वये पुनः ॥ ५.७८॥ ब्रह्मपञ्चकमुच्चार्य सर्ववक्त्रं तथा पुनः । जगद्भुवादिषण्मूर्तिमन्त्रैरभ्यर्चयेत्सदा ॥ ५.७९॥ दण्डभङ्गिरिति ख्याता वक्त्रभङ्गिमथ श‍ृणु । ईशप्राग्दक्षिणोदीची प्रतीची नैरृतेषु च ॥ ५.८०॥ षड्वक्त्रेष्वर्चयेद्धीमान् पूर्वोक्तैर्मन्त्रषट्ककैः । हृदयं हृदयेऽभ्यर्च्य शिरः शिरसि मन्त्रवित् ॥ ५.८१॥ शिखां शिखायामभ्यर्च्य सर्वाङ्गे कवचं यजेत् । नेत्रं नेत्रेषु मतिमानस्त्रं हस्ते समर्चयेत् ॥ ५.८२॥ पञ्चावरणपूजां च ततः श‍ृणु महामुने । ईशानपदमुच्चार्य जगद्भुव इति ब्रुवन् ॥ ५.८३॥ नम इत्यर्चयेद्विद्वानीशानदलमूलतः । पूर्वे तु दलमूले तु जप्त्वा तत्पुरुषेण च ॥ ५.८४॥ वचद्भुवे नम इति समभ्यर्च्य यथाविधि । अघोरं पदमुच्चार्य ततो विश्वभुवे नमः ॥ ५.८५। इत्युक्त्वा मुनिशार्दूल दक्षिणे तु दले यजेत् । वामं तु पदमुच्चार्य ततो रुद्रभुवं ब्रुवन् ॥ ५.८६॥ उत्तरे तु दले विद्वान् पूजयेत्तु यथाविधि । सद्यं च पदमुच्चार्य ततो ब्रह्मभुवं ब्रुवन् ॥ ५.८७॥ पश्चिमे तु दले विद्वान् पूजयेद्देशिकोक्तमः । नैरृते तु दले धीमान् सद्यवक्त्रपदान्तकम् ॥ ५.८८॥ भुवद्भुवे नम इति पूजयेन्मुनिपुङ्गव । नेत्रमीशानभागे तु हृदये वह्निगोचरे ॥ ५.८९॥ शिरस्त्वीशानभागे तु नैरृते तु शिवं यजेत् । कवचं वायुदेशे तु चतुर्दिक्ष्वस्त्रमर्चयेत् ॥ ५.९०॥ प्रथमावरणे प्रोक्तं द्वितीयावरणं श‍ृणु जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ ५.९१॥ अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् । हेमशूलं विशालाक्षं शक्तिवज्रधरं यजेत् ॥ ५.९२॥ पूर्वादीशानपर्यन्तं स्वस्वदिक्षु प्रपूजयेत् । द्वितीयावरणं प्रोक्तं तृतीयावरणं श‍ृणु ॥ ५.९३॥ दक्षिणे तु महावल्लीं देवसेनां तथोत्तरे । गजेन्द्रं पूर्वदिग्भागे मयूरं पश्चिमे यजेत् ॥ ५.९४॥ अग्निभागे सुदेहं च सुमुखं नैरृते यजेत् । देवसेनापतिं वायौ चैशान्यां तु सुमित्रकम् ॥ ५.९५॥ तृतीयावरणे प्रोक्तं चतुर्थावरणं श‍ृणु । इन्द्रादिलोकपालांश्च यजेत् स्वस्वदिशि क्रमात् ॥ ५.९६॥ चतुर्थावरणं प्रोक्तं पञ्चमावरणं श‍ृणु । वज्रं शक्तिं च दण्डं खेटं पाशं तथाङकुशम् ॥ ५.९७॥ गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । ऐन्द्याद्यष्टदिशोर्ध्वेऽपि अधस्ताच्चैव पूजयेत् ॥ ५.९८॥ स्वस्वनामादिमन्त्रेण पूजयेत्तु यथाक्रमम् । धेनुं पद्मं त्रिशूलाख्यं मकरां सृङ्नमस्कृताम् ॥ ५.९९॥ षडङ्गन्यासमन्त्रेण कल्पयेत् विधिवत्तथा । गुहाय दर्शयेत् पश्चाद्ददेदाचमनार्ध्यकम् ॥ ५.१००॥ सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्यसेत् । नैवेद्यं दापयेत् पश्चात् उपदंशसमन्वितम् ॥ ५.१०१॥ नालिकेराम्रपनसं कदलीफलसंयुतम् । गुलखण्डसमोपेतमाज्यपूर्णं दधिप्लुतम् ॥ ५.१०२॥ अपूपैर्विविधैश्चैव श‍ृङ्गिबेरसमन्वितम् । व्याहृत्या चास्त्रमन्त्रेण सम्प्रोक्ष्यार्घ्यजलेन च ॥ ५.१०३॥ (आहृत्य चास्त्रमन्त्रेण) अन्नसूक्तं जपित्वा तु नैवेद्यं दापयेद्धृदा । कर्पूरोशीरसंयुक्तं पानीयमपि दापयेत् ॥ ५.१०४॥ हस्तस्योद्वर्तनं कृत्वा पश्चादाचमनं ददेत् ताम्बूलं दापयेत् पश्चात् कर्पूरादिसमन्वितम् ॥ ५.१०५॥ निवेदितं तु यत्सर्वं सुमित्राय प्रदापयेत् तत्सर्वमन्नपानादिभोक्तव्यं ब्राह्मणादिभिः ॥ ५.१०६॥ भुक्तिमुक्तिप्रदं नृणां सर्वरोगविनाशनम् । परिवारबलिं क्षिप्त्वा धूपदीपादिदापयेत् ॥ ५.१०७॥ विभूतिदर्पणच्छत्रचामरव्यजनादिकम् । दर्शयित्वाथ नित्याग्निकार्य चैव समाचरेत् ॥ ५.१०८॥ नित्योत्सवं ततः कुर्यात् विधिदृष्टेन वर्त्मना । नृत्तं गीतं च वाद्यं च षण्मुखाय प्रदर्शयेत् ॥ ५.१०९॥ मूलमन्त्रं शतं जप्त्वा तन्निवेद्य स्तुतिं वदेत् । प्रदक्षिणनमस्कारौ कृत्वा सन्तोषयेद्गुहम् ॥ ५.११०॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं षडानन । यत् पूजितं मया देव परिपूर्णं तदस्तु ते ॥ ५.१११॥ प्रार्थयित्वाथ सेनान्यं नमस्कृत्वा पुनः पुनः । साधुवासाधु वा कर्म यद्यदाचरितं मया ॥ ५.११२॥ तत्सर्वं देवदेवेश गृहाणाराधनं परम् । पूजाफलं तु तत्सर्वमात्मना सह बुद्धिमान् ॥ ५.११३॥ निवेदयेत्तु सेनान्यै करे पुष्पान्वितैर्जलैः । एककालं द्विकालं वा त्रिकालं वा समर्चयेत् ॥ ५.११४॥ उत्तमोत्तममेवं स्यान्नवकालार्चनं मुने । वित्तशाठ्यं न कुर्यात्तु यथाविभवविस्तरम् ॥ ५.११५॥ अर्धयामे महासेनं पूजां कुर्याद्विशेषतः । तत्पश्चात् क्षेत्रपालं च सुमित्रं पूजयेद्गुरुः ॥ ५.११६॥ सौख्यं कुर्यात्तदन्तेषु शास्त्रदृष्टेन वर्त्मना । एवं क्रमेण विधिवदुत्तमाराधनं स्मृतम् ॥ ५.११७॥ समृद्धिदं ताण्डवान्तं बल्यन्तं शान्तिकं भवेत् । (बल्यन्तं शान्तकं) हविष्यन्तमशक्तश्चेत् दीपान्तं वापि पूजयेत् ॥ ५.११८॥ एवं यः कुरुते मर्त्यः सपुण्यां गतिमाप्नुयात् । भवेद् विप्रः सुवेदाढ्यो राजा विजयमाप्नुयात् । धनं वैश्यस्तथाप्नोति शूद्रः सुखमवाप्नुयात् ॥ ५.११९॥ इति कुमारतन्त्रे नित्यपूजा विधिर्नाम पञ्चमः पटलः ।

६. षष्ठः पटलः - नैवेद्यविधिः

अतः परं प्रवक्ष्यामि नैवेद्यविधिमुत्तमम् । ग्रामवृद्धिकरं पुण्यं राजराष्ट्रविवर्धनम् ॥ ६.१॥ व्रीहिवेणुप्रियङ्गूश्च नीवारं यवमेव च । गोधूमं षड्विधं प्रोक्तं नैवेद्यं षण्मुखप्रियम् ॥ ६.२॥ आत्मनो हितमन्विच्छेत् प्राग्द्रव्यं यत् सुपक्वकम् । यो ददाति गुहायैव तां तां वृद्धिमवाप्नुयात् ॥ ६.३॥ (वृद्धिं समाप्नुयात्) अदत्वा येन भुक्तं चेत् तद्द्रव्यं क्षीयते भृशम् । नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं स्मृतम् ॥ ६.४॥ नित्यं नवविधं प्रोक्तं तथा नैमित्तिकं तु वा । (तु तथा) यथेष्टं काम्यमित्युक्तं तेषां भेदमिहोच्यते ॥ ६.५॥ नैवेद्यमाढकं पक्वं मध्यमं चाधमं स्मृतम् । (पक्वं अधमादधमं) द्विगुणं त्रिगुणं तस्मिन् नैवेद्यं मध्यमोत्तमम् ॥ ६.६॥ अर्धभारेण नैवेद्यं मध्यमाधममुच्यते । भारं भारार्धकं प्रोक्तं मध्यमे मध्यमोत्तमम् ॥ ६.७॥ त्रिभारं तण्डुलैः पक्वमुत्तमाधममुच्यते । षड्भारद्वितयं चान्नमुत्तमे मध्यमोत्तमम् ॥ ६.८॥ एककालस्य नैवेद्यमेवमेव महामुने । नित्यमेव समाख्यातं नैमित्तिकमथ श‍ृणु ॥ ६.९॥ खारिषट्कं समारभ्य तेन वृद्धिं नवोदितम् । नवद्विगुणभारान्तं मध्यमादित्रयं त्रयम् ॥ ६.१०॥ एवं नैमित्तिकं प्रोक्तं श‍ृणु काम्यं महामुने । प्राथितं येन यन्मात्रं तावन्मात्रं हि काम्यकम् ॥ ६.११॥ कुडुवं तु चतुः प्रस्थं पैशाचान्नं प्रकीर्तितम् ॥ (पैशाचान्नं प्रकल्पितं) द्विःप्रस्थं चरुसंज्ञं स्यात् आढकं हविरुच्यते ॥ ६.१२॥ चातुर्वर्ण्योद्भवा नारी पतिपुत्रवती तथा । (पतिपुत्रवती मता) यदा सुमङ्गली कन्या व्रीहिप्रहरकर्मणि ॥ ६.१३॥ आदित्यरश्मिभिस्तप्तं धान्यं शोधितलूखले । (धान्यं शुद्धमुलूखले) निक्षिप्य मुसलं ग्राह्य कुट्टयेत्प्रागुदङ्मुखः ॥ ६.१४॥ तुषानपोह्य शूर्पेण तुषकम्बुविवर्जितम् । विशदं तण्डुलं ग्राह्य शुद्धात्मा परिचारकः ॥ ६.१५॥ नवभाण्डानि सङ्क्षाल्य तेषु निक्षिप्य तण्डुलान् । वस्त्रपूतेन तोयेन हृदा क्षाल्य पुनः पुनः ॥ ६.१६॥ तण्डुलाद्द्विगुणं तोयं कल्पयेत् बीजमुख्यतः । तण्डुलैरर्चयेच्चुल्लीं सद्येन परिचारकः ॥ ६.१७॥ चुल्या काष्ठं समानीय वह्निं प्रज्वाल्य चास्त्रतः । केशकीटोपविद्धं च शर्करा तुषसंयुतम् ॥ ६.१८॥ अतिपक्वमपक्वं च नैवेद्यं न प्रकल्पयेत् । शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ ६.१९॥ उपदंशं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत । मुद्गमाषकुलुत्थं च निष्पावं शिम्बमाढकम् ॥ ६.२०॥ तथा वै राजमाषं च सूपमेवं प्रकल्पयेत् । पनसालाबुकदली बृहती द्वयमेव च ॥ ६.२१॥ आम्रोर्वारुककूश्माण्डं कारवल्ली पटोलिका । मुद्गनिष्पावकफलं वल्लीमूलं सुपक्वकम् ॥ ६.२२॥ कन्दं प्रियङगुपिष्टं च यथालाभं प्रगृह्य च । सर्वोपदंशकानुक्तान् मरीचिलवणाज्यकान् ॥ ६.२३॥ जीरकाम्लरसोपेतान् यथायोगं पचेत् पुनः । एतान् संयोज्य विविधान् सूपान् पक्वलादिकान् ॥ ६.२४॥ द्वात्रिंशांशं घृतं चैव सूपं वै षोडशांशकम् । अष्टांशांशं दधिक्षीरं तदर्धं शर्करा मधु ॥ ६.२५॥ पक्वान्नसमये चैव मार्जन्या शोध्य भूतलम् । सम्प्रोक्ष्य चास्त्रमन्त्रेण चित्रशाकादिना युतम् ॥ ६.२६॥ (चित्रंशाकादिना) आस्यं वस्त्रेण सञ्च्छाद्य चोत्थाप्य परिचारकः । नैवेद्योत्थापने काले यो नरश्च न लङ्घयेत् ॥ ६.२७॥ प्रमादात् पतितं चेत्तु सस्यानां नाशनं भवेत् । तद्द्रव्यं वर्जयित्वा च मूलमन्त्रैः शतं जपेत् ॥ ६.२८॥ पुनः पच्याथ नैवेद्यं तद्द्रव्यं प्रतिरूपकम् । मण्डपे दक्षिणे भागे मण्डले विन्यसेत् क्रमात् ॥ ६.२९॥ दारुहस्तेन दर्व्या वा पात्रमन्नेन पूरयेत् । सौवर्णं राजतं कांस्यमथवा कदलीदलम् ॥ ६.३०॥ सर्वव्यञ्जनसंयुक्तं त्रिपाद्यूर्ध्वे निधापयेत् । तुर्यांशं भाण्डतोनीत्वा शेषं त्र्यंशं निवेदयेत् ॥ ६.३१॥ नित्यमेवं समाख्यातं काम्यं नैमित्तिकं श‍ृणु । स्थलशुद्धिं ततः कृत्वा प्रोक्षयेदस्त्रमन्त्रतः ॥ ६.३२॥ महीं सम्यक् परिस्तीर्य घृतेनैवाभिघारयेत् । पात्रशेषं त्रिभागैकं नीत्वा शेषं नयेत्ततः ॥ ६.३३॥ सर्वोपदंशसंयुक्तं प्रभूतं हविरुत्तमम् । अस्त्रं दशासु विन्यस्य चास्त्रमुद्रां प्रदर्शयेत् ॥ ६.३४॥ भक्ष्यं भोज्यं च लेह्यं च पेयं चैव चतुर्विधम् । दापयेत् कार्तिकेयाय हृदयेन तु देशिकः ॥ ६.३५॥ नैवेद्यविधिराख्यातो वक्ष्ये पानीय लक्षणम् । निवेद्यायामृतं शुद्धे मृद्भाण्डे पूरयेज्जलम् ॥ ६.३६॥ वस्त्रपूतं सुशीतं च सर्वद्रव्यसमायुतम् । नैवेद्यान्ते तु सेनान्ये पानीयं दापयेद्धृदा ॥ ६.३७॥ निवेदितानि सर्वाणि सुमित्राय प्रदापयेत् । अक्षद्वयप्रमाणान्तं बलिदानं प्रकोर्तितम् ॥ ६.३८॥ द्वारस्य दक्षिणे पार्श्व सुदेहाय प्रदापयेत् । द्वारस्य वामपार्श्वे तु सुमुखाय प्रदापयेत् ॥ ६.३९॥ गजेन्द्राय ददेदग्रे महाशास्त्रेऽग्निगोचरे । याम्ये पितामहायै मातृभ्यां निरृते ददेत् ॥ ६.४०॥ पश्चिमे स्यादगस्त्याय ज्येष्ठायै वायुगोचरे । सौम्ये नारदायैव भास्करायैशगोचरे ॥ ६.४१॥ ततः पुरःस्थिते पीठे बलिं दद्याद् विशेषतः यक्षराक्षसपैशाचाः भूतगन्धर्वकिन्नराः ॥ ६.४२॥ पितृदानवनागाश्च तेन प्रीतिं प्रयान्तु ते । ब्रह्मादीशानपर्यन्तं तत्तन्नाम्ना बलिं क्षिपेत् ॥ ६.४३॥ पुनराचमनं कृत्वा मुखवासं गुहप्रियम् । लवङ्गचूर्णकर्पूरलघुखण्डस्य चूर्णकम् ॥ ६.४४॥ फलत्रयाणां चूर्णं च सङ्ग्राह्य सुविचक्षणः । भोजनानन्तरे दद्यात् मुखवासं हृदाणुना ॥ ६.४५॥ ताम्बूलं दापयेत् तस्मै क्रमुकं प्रस्थपूरितम् । पत्रं चतुर्गुणं दद्यात् तज्जिह्वाघ्राणवर्जितम् । कर्पूरादिसमायुक्तं दापयेत्तु विशेषतः ॥ ६.४६॥ इति श्रीकुमारतन्त्रे नैवेद्यविधिर्नाम षष्ठः पटलः ।

७. सप्तमः पटलः - अग्निकार्यविधिः

अग्निकार्यविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । कुण्डे वा स्थण्डिले वापि होमं कुर्याद्विचक्षणः ॥ ७.१॥ गोमयालिप्य वस्त्राद्यैरलङ्कृत्य मनोहरैः । होमद्रव्याणि पात्राणि सम्पाद्य विविधानि च ॥ ७.२॥ लब्धानुज्ञो विशेत् कुण्डं पश्चिमेवाथ दक्षिणे । पुण्याहवाचनं कुर्यात् मूर्तिपैः सह देशिकः ॥ ७.३॥ निरीक्षणं प्रोक्षणं च ताडनं चास्त्रमन्त्रतः । वर्मणाभ्युक्ष्य चास्त्रेण खननं चावकीरणम् ॥ ७.४॥ हृदापूर्य समाकृष्य वर्मणा सेचयेद् गुरुः । अस्त्रेण कुट्टनं चर्म मार्जनालेपने तथा ॥ ७.५॥ मध्यादिपश्चिमान्तेषु शान्त्यातीतादयः कलाः । विन्यस्य वर्मणा कुण्डे सूत्रत्रयेण वेष्ट्य च ॥ ७.६॥ कलामयाय कुण्डाय नम इत्यर्चयेद्बुधः । रेखात्रयमुदीच्यन्तं प्राच्यन्तं त्वेकरेखया ॥ ७.७॥ अस्त्रेणैव समुल्लिख्य तेन वज्रीकृतं नयेत् । पूर्वोदगग्रदर्भाभ्यां हृदा कृत्वा चतुष्पदम् ॥ ७.८॥ इत्यष्टादशसंस्कारं कृत्वा कुण्डाक्षिपाटनम् । कवचेन चतुर्दर्भान् तत्कुण्डे विन्यसेद्गुरुः ॥ ७.९॥ कुण्डमध्ये हृदा विद्वान् विष्टरं विन्यसेद्बुधः । नाभिमध्ये तु वागीशीं नीलोत्पलदलप्रभाम् ॥ ७.१०॥ ऋतुस्नातां सकूर्चस्थां ध्यायेत् तन्मूलमन्त्रतः । वागीश्वरौ समभ्यर्च्य कुण्डस्याग्रेऽग्निपात्रकम् ॥ ७.११॥ निधाय चास्त्रमन्त्रेण क्रव्यादांशं परित्यजेत् । भौतिकं बैन्दवं जाठराग्निमेकाकृतिं नयेत् ॥ ७.१२॥ त्रिवारं भ्राम्य तत्कुण्डं त्वग्निपात्रं च बुद्धिमान् । वागीशीगर्भनाड्यायां वागीशेन निषिञ्चितम् ॥ ७.१३॥ हृदा बध्वा त्रुटीकृत्य तयोराचमनं ददेत् । वर्मणेन्धनमाच्छाद्य प्रज्वाल्यास्त्रेण पूजयेत् ॥ ७.१४॥ दर्भकङ्कणमस्त्रेण दक्षिणे मेखलोपरि । तस्य वामकरं ध्यात्वा रक्षार्थं च निधाय वै ॥ ७.१५॥ सद्योजातेन सम्पूज्य गर्भाधानं हृदा चरेत् । तिलाहुतित्रयेणैव पश्चात् पुंसवनक्रियाम् ॥ ७.१६॥ वामदेवेन शिरसा समभ्यर्च्य हुनेत्तिलाम् । सीमन्तं बहुरूपेण शिखया चैव कारयेत् ॥ ७.१७॥ जातकर्मशिरोमन्त्रैः कवचेन च कारयेत् । अस्त्रेण प्रोक्ष्य तत्कुण्डं दर्भकङ्कणकं त्यजेत् ॥ ७.१८॥ दर्भान् पूर्वोदगग्रांश्च तन्मध्ये मेखलासु च । विष्टरान् तत्र परिधीन् विन्यसेदनुपूर्वशः ॥ ७.१९॥ मेखलोर्ध्वे चतुर्दिक्षु चतुर्वेदान् प्रपूजयेत् । इन्द्रादिलोकपालांश्च विष्टरे स्वस्वदिक्षु च ॥ ७.२०॥ स्रुक्स्रुवौ च घृतस्थालीं प्रणीतां प्रोक्षणीं तथा । समित्कूर्चं चरुं दर्वीं दर्भांश्चैव कमण्डलुम् ॥ ७.२१॥ द्रव्यपात्राणि सर्वाणि न्यसेद् वामे कुशोपरि । अधोमुखानि पात्राणि द्वन्द्वरूपाणि साधयेत् ॥ ७.२२॥ प्रोक्षणीपात्रमादाय जलेनैव प्रपूरयेत् । वितस्तिमात्रदर्भाग्रं मध्यग्रन्थिपवित्रकम् ॥ ७.२३॥ अङगुष्ठानामिकाभ्यां च उदकोत्प्लवनं चरेत् । पात्रप्रोक्षणकं कृत्वा पात्रसाधनमाचरेत् ॥ ७.२४॥ स्रुक्स्रुवौ च हृदाचार्यःघृतसंस्कारमाचरेत् । नाडीसन्धानकं कृत्वा चाज्यभागाहुतिं हुनेत् ॥ ७.२५॥ परिषिच्य ततो वह्निं मूलेनेध्मान् सकृद्धुनेत् । सद्यात्मकैकमन्त्रेण होमयेत् वक्त्रदीपनम् ॥ ७.२६॥ वक्त्रसन्धानकं कृत्वा वक्त्रैकीकरणं हुनेत् । नामकर्म ततोऽस्त्रेण घतं पञ्चाहुतिं हुनेत् ॥ ७.२७॥ शिवाग्ने त्वं हुताशेति नाम दद्याद् विचक्षणः । उपनिष्क्रामणं पश्चाच्छिरसा कारयेद्बुधः ॥ ७.२८॥ प्राशनं हृदयेनैव चौलकर्म शिवाणुना । हृदोपनयनं कृत्वा पश्चाद्देशिकसत्तमः ॥ ७.२९॥ प्राधान्यं होमकर्माणि मूलमन्त्रेण होमयेत् । तत् कुण्डाग्निं विभज्याथ सर्वकुण्डेषु निक्षिपेत् ॥ ७.३०॥ शिवाग्नयेति जुहुयात् प्रत्येकं शतसङ्ख्यया । आसनावरणैर्धीमान् सेनान्यं पूजयेत्ततः ॥ ७.३१॥ यद्रूपं तु प्रतिष्ठाप्य तत्तु ध्यानेन बुद्धिमान् । कार्तिकेयो विशाखश्च गुहश्चैव सुरान्तकः ॥ ७.३२॥ सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा । शक्तिपाणिरिति ख्याता एते वै चाष्टमूर्तयः ॥ ७.३३॥ (चाष्टमूर्तिपाः) समिदाज्यचरून् लाजान् सक्तुं चैव तिलं तथा । माषमुद्गगुलांश्चैव सर्षपं यवमेव च ॥ ७.३४॥ द्रव्यमेकादशं प्रोक्तं सर्वेष्वेवं विशेषतः । समिधं त्वीशमन्त्रेण घृतं वै पुरुषेण तु ॥ ७.३५॥ अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् । सक्तुं सद्येन जुहुयात् तिलं हृदयमन्त्रतः ॥ ७.३६॥ माषं च शिरसा हुत्वा मुद्गं च शिखया हुनेत् । गुलं कवचमन्त्रेण सर्षपं नेत्रमन्त्रतः ॥ ७.३७॥ यवमस्त्रेण जुहुयात् आचार्यो मूर्तिपैः सह । शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ ७.३८॥ द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नौ तु होमयेत् । जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत् क्रमात् ॥ ७.३९॥ पूर्णाहुतिं ततो हुत्वा वह्निं सम्प्रार्थयेद्गुरुः । ब्रह्मोद्वासनकं कुर्यात् प्रणीतामोक्षणं तथा ॥ ७.४०॥ नैमित्तिकमिदं प्रोक्तं नित्यकर्म ततः श‍ृणु । अग्नौ वा दक्षिणे वापि तथैशान्येऽपि मण्डपे ॥ ७.४१॥ कुण्डे वा स्थण्डिले वापि नित्यहोमं समाचरेत् । अश्रं वाथ षडश्रं वा मेखलात्रयसंयुतम् ॥ ७.४२॥ नाभियोनिसमायुक्तं कुण्डं कृत्वा महामुने । गर्भाधानादिकं सर्वं पूर्वोक्तविधिना हुनेत् ॥ ७.४३॥ अविच्छिन्नं सदारक्ष्यं नित्याग्निं षण्मुखाय वै । प्रणीताघारसमिधं ब्रह्मकूर्चं विनाचरेत् ॥ ७.४४॥ आज्येन चरुणा मन्त्री नित्यहोमं तु कारयेत् । आज्यं हृदयमन्त्रेण मूलेनैव चरुं हुनेत् ॥ ७.४५॥ प्रत्येकं षोडशं हुत्वा ब्रह्माङ्गानि ततो हुनेत् । महावल्लीं देवसेनां पृथक् पञ्चाहुतिं हुनेत् ॥ ७.४६॥ परिवारान् ततो हुत्वा स्विष्टमग्नेति होमयेत् । धूपदीपादिभिः स्तोत्रैर्नित्याग्नौ पूजयेद्गुहम् ॥ ७.४७॥ इति श्रीकुमारतन्त्रे अग्निकार्यविधिर्नाम सप्तमः पटलः ।

८. अष्टमः पटलः - नित्योत्सवविधिः

अतः परं प्रवक्ष्यामि नित्योत्सवविधिक्रमम् । सर्वलोकहितार्थाय भूपतेर्विजयाय च ॥ ८.१॥ स्वर्णेन रजतेनैव कारयेत्ताम्रकेण वा । उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशाङ्गुलम् ॥ ८.२॥ अधमं दशाङगुलं ज्ञेयं बलिपात्रस्य विस्तरम् । ओष्ठमेकाङ्गुलं प्रोक्तं निम्नोन्नतविवर्जितम् ॥ ८.३॥ विस्तारं हि त्रिभागैकं पद्ममष्टदलं भवेत् । (पद्ममष्टदलं लिखेत्) कर्णिकान्तं त्रिभागैकं कारयेत्तु मनोहरम् ॥ ८.४॥ एवं पात्रं तु सङ्ग्राह्य विन्यसेन्मण्डपोत्तरे । प्रोक्षयेद्धृदयेनैव बलिपात्रं सलक्षणम् ॥ ८.५॥ प्रातर्मध्याह्नसायाह्ने पुष्पार्घ्यं तु कनीयसम् । प्रातर्मध्याह्नयोरन्नं सायेत्वर्घ्यं तु मध्यमम् ॥ ८.६॥ त्रिकालेष्वन्नलिङ्गं चेत् उत्तमञ्चेति कीर्तितम् । उत्सेधं द्वादशाङ्गुल्यं नाहं द्व्यङ्गुलमुच्यते ॥ ८.७॥ अग्रं पक्षाङ्गुलं द्वारं गन्धमाल्यैरलङ्कृतम् । तस्मिन् सम्पूजयेच्छक्तिं गुहास्त्रममितौजसम् ॥ ८.८॥ इन्द्रादीशानपर्यन्तं शकुन्याद्याः प्रपूजयेत् । मूलबेरं त्रिभागैकमुत्तमं बलिबेरकम् ॥ ८.९॥ द्वित्वाङ्गुलविहीनेन मध्यमाधममुच्यते । सुब्रह्मण्यस्वरूपं वा स्कन्दरूपमथापि वा ॥ ८.१०॥ एकवक्त्रं चतुर्बाहुं कमण्डल्वक्षधारिणम् । कटिबन्धाभययुतं त्वथवा वरदाभयम् ॥ ८.११॥ सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । शक्त्येकया युतं वापि शक्तिद्वययुतं तु वा ॥ ८.१२॥ इत्थं रूपं मुनिश्रेष्ठ कारयेद्बलिबेरकम् । वस्त्राभरणगन्धाद्यैरलङ्कृत्य च पुष्पकैः ॥ ८.१३॥ नागाश्वरथरङ्गे वा शिबिकायां प्ररोपयेत् । सोष्णीषैः सोत्तरीयैश्च सोपवीतैः सुवस्त्रकैः ॥ ८.१४॥ मौनव्रतधरैर्विप्रैर्धारयेद्बलिबेरकम् । पादुकां लक्षणोपेतां वस्त्राद्यैरुपशोभिताम् ॥ ८.१५॥ अस्त्रेण प्रोक्ष्य तस्यां तु मयूरं सम्प्रपूजयेत् । सुस्नातया गणिकया धारयेच्च सुवाससा ॥ ८.१६॥ छत्रं ध्वजसमायुक्तं पिञ्च्छचामरसंयुतम् । नानावाद्यसमायुक्तं नानागेयसमन्वितम् ॥ ८.१७॥ नानादीपसमायुक्तं नानाभक्तजनैर्युतम् । पूर्वाह्ने द्विजवृद्धिः स्यान्मध्याह्ने राजवृद्धिदम् ॥ ८.१८॥ रात्रौ विट्शूद्रवृद्धिः स्याद्बलिबेरस्य यानतः । भेरी मुरवसंयुक्तं प्रथमं वै प्रदक्षिणम् ॥ ८.१९॥ (मुरजःसंयुक्तं) वरनृत्तं द्वितीयस्य गीतेन त्रिःप्रदक्षिणम् । ब्रह्मस्थाने मुनिश्रेष्ठ ब्रह्मणस्तालसंयुतम् ॥ ८.२०॥ ऐन्द्रे तु समतालं स्यादग्नौ सावरणं भवेत् । याम्यायां भृङ्गिणीतालं नैरृत्यां मल्लतालकम् ॥ ८.२१॥ वारुण्यां नवतालं स्यात् वायव्यां बलितालकम् । सोमे कौशिकतालं स्यादैशान्यां ढक्करी भवेत् ॥ ८.२२॥ प्रदक्षिणत्रयस्यैवं भूर्भुवःस्वः क्रमादिह । सर्वेषां प्राणिनां सम्यक् बलदा बलिरुच्यते ॥ ८.२३॥ गोपुरद्वारमागत्य शङ्खघोषसमन्वितम् । ततःपुरःस्थिते पद्मे त्रिःप्रदक्षिणमाचरेत् ॥ ८.२४॥ शनैःप्रदक्षिणं कुर्यान्महापातकनाशनम् । उत्सवे बलिकाले च यः करोति प्रदक्षिणम् ॥ ८.२५॥ पदे पदेऽश्वमेधस्य फलं प्राप्नोतिमानवः । द्वारिनीराजनं कृत्वा प्रविशेदालयं ततः ॥ ८.२६॥ पादौ प्रक्षाल्य मतिमान् पादुकां शिखिदेवताम् । पाद्यादिभिः समभ्यर्च्य बहिर्गायत्रिमन्त्रतः । विन्यसेत्पूर्वदेशे तु धूपदीपं प्रदापयेत् ॥ ८.२७॥ बलिबेराकृतिं देवं विन्यसेन्मूलबेरके । एवं यः कुरुते नित्यं कौमारं लोकमाप्नुयात् ॥ ८.२८॥ इति श्रीकुमारतन्त्रे नित्योत्सवविधिर्नामाष्टमः पटलः ।

९. नवमः पटलः - कुण्डलक्षणविधिः

अतः परं प्रवक्ष्यामि कुण्डानां लक्षणं श‍ृणु । शतार्धं शतहोमं तु मुष्ट्यारत्नियुतं भवेत् ॥ ९.१॥ सहस्रायुतहोमं तु हस्तं हस्तद्वयं क्रमात् । कोट्याहुतावष्टहस्तं तदूर्ध्वं नैव कारयेत् ॥ ९.२॥ मात्राङ्गुलेन कर्तव्यं विस्तारस्य पदं समम् । कुण्डं त्रिमेखलोपेतमेकमेखलमेव च ॥ ९.३॥ वेदाद्युगाङ्गुलं प्रोक्तं मेखलानां तथोन्नतम् । योनिं कुर्यात्तदूर्ध्वे तु गजोष्ट्राकृतिवद्बुधः ॥ ९.४॥ वेदाङ्गुलं तु विस्तारमायामं तु षडङ्गुलम् । क्रमेण कृशतां याति तारत्रयांशमुन्नतम् ॥ ९.५॥ नाभिं पद्माकृतिं कुर्यात्कुण्डमध्ये विचक्षणः । षडङ्गुलं तु विस्तारं तृतीयांशं समुन्नतम् ॥ ९.६॥ योनौ योनिर्न कर्तव्यं पद्मे नाभिं न कारयेत् । कोणेषु च न कुर्यात्तु नाभिं तस्याग्निसम्मुखम् ॥ ९.७॥ यदाकाराणि कुण्डानि तदाकारास्तु मेखला । वेदाश्रं योनिचापाश्रं त्र्यश्रं वृत्तं षडश्रकम् ॥ ९.८॥ पद्ममष्टारकं दिक्षु षडश्रं तु प्रधानकम् । पूर्वाग्रं गणसूत्रं च दक्षिणोत्तरमेव हि ॥ ९.९॥ चतुष्पदमिदं सम्यक् तत्कुण्डं चतुरश्रकम् । क्षेत्रांशं दशधा कृत्वा दिग्भागं पूर्वतो न्यसेत् ॥ ९.१०॥ पुनःकोणेषु वेदांशाद्भ्रामयेत्कोणकावधि । सूत्रद्वयं प्रयोगाच्च योन्याकारं भवेदिदम् ॥ ९.११॥ व्यासेऽष्टांशाद्द्व्यंशमग्रं पार्श्वयोर्न्यस्य मध्यमात् । भ्रामयेत्पार्श्वपर्यन्तं तत्कुण्डं चार्थचान्द्रकम् ॥ ९.१२॥ (चार्थचन्द्रकं) क्षेत्रषड्भागके न्यस्य भागैकं त्वथ पार्श्वयोः । तन्मानेन त्रिसूत्रेण त्रिकोणं कुण्डमीरितम् ॥ ९.१३॥ न्यासेऽष्टादशभागांशाद्बहिर्विन्यस्य बुद्धिमान् । तदश्रं भ्रामयेद्धीमान् वृत्तकुण्डं भवेदिदम् ॥ ९.१४॥ क्षेत्रवेदांशपादांशं द्व्यंशं विन्यस्य पार्श्वयोः । तस्मात्क्षेत्रार्धमानं तु पार्श्वयोस्तद्द्विमस्तकम् ॥ ९.१५॥ कृत्वा तेनैव षट्सूत्रं न्यसेत् षट्कोणकुक्षिकम् । कर्णिकादलसंयुक्तं पद्मकुण्डं तु वृत्तवत् ॥ ९.१६॥ व्यासे वेदरसांशांशं बहून्न्यस्त्वा समन्त्रतः । कोणार्धं कोणके लिख्य वस्वश्रं वसुसूनता ॥ ९.१७॥ मानहीने महाव्याधिरधिके शत्रुवर्धनम् । भेदे महद्भयं प्रोक्तं स्फुटिते सस्यनाशनम् । तस्मात्सर्वप्रयत्नेन कुण्डं कुर्यात्सलक्षणम् ॥ ९.१८॥ इति श्रीकुमारतन्त्रे कुण्डलक्षणविधिर्नाम नवमः पटलः ।

१०. दशमः पटलः - मण्डलविधिः

अतः परं प्रवक्ष्यामि मण्डलस्य विधिं श‍ृणु । दीक्षायां तु प्रतिष्ठायां पवित्रारोपणेऽपि च ॥ १०.१॥ उत्सवेऽपि च तत्त्वज्ञः पूजयेन्मण्डले गुहम् । चतुरश्रं ततो मध्ये षड्दलं पद्ममालिखेत् ॥ १०.२॥ कर्णिकां च त्रिभागैकं पीतवर्णेन कारयेत् । श्वेतं पीतं च रक्तं च स्फटिकं श्यामवर्णकम् ॥ १०.३॥ एतैर्वर्णैश्च मतिमान् षड्दलानि च पूरयेत् । रजोभिर्विविधैर्वर्णैर्यथाशोभं विभूषयेत् ॥ १०.४॥ मूलेनावाहयेन्मध्ये देवीभ्यां सह षण्मुखम् । आसनावरणाद्यैश्च मण्डले पूजयेत् ततः ॥ १०.५॥ श्रीभद्रमण्डलमिदं सुब्रह्मण्यात्मकं शुभम् । विप्रादीनां तु सर्वेषां वर्णानां तु प्रशस्तकम् ॥ १०.६॥ गुहदीक्षां ततः कुर्यादेतन्मण्डलसन्निधौ । मण्डलेन विधानेन स्कन्दकर्म करोति यः ॥ १०.७॥ नैतत्फलमवाप्नोति साधकेमन्त्रवानपि । तस्मात्तत्कर्मसिद्ध्यर्थं मण्डलं कारयेद्बुधः ॥ १०.८॥ इति श्रीकुमारतन्त्रे मण्डलविधिर्नाम दशमः पटलः ।

११. एकादशः पटलः - दीक्षाविधिः

अतः परं प्रवक्ष्यामि गुहदीक्षाविधिं परम् । सर्वपापहरम्पुण्यं सर्वकामफलप्रदम् ॥ ११.१॥ शिवदीक्षाविधेः पश्चात् गुहदीक्षाञ्च कारयेत् । सर्वालङ्कारसंयुक्तं स्नानं कौशेयकोज्ज्वलम् ॥ ११.२॥ त्रिपुण्ड्रधारणं शिष्यं हृदा प्रोक्ष्यार्घ्यवारिणा । नेत्रं नेत्रेण मतिमान् बन्धयेच्छ्वेतवस्त्रतः ॥ ११.३॥ हृदयेन तु मन्त्रेण दश जप्त्वा सलक्षणम् । पूर्वद्वारन्तु विप्राणां क्षत्रियाणां तु दक्षिणम् ॥ ११.४॥ वैश्यानां पश्चिमद्वारं शूद्राणां द्वारमुत्तरम् । अन्येषामपि वर्णानां पश्चिमद्वारमुत्तमम् ॥ ११.५॥ शिष्यमन्तः प्रविश्याथ प्रणवेन तु मन्त्रतः । दर्भासनम्प्रकुर्याच्च देशिकस्य तु दक्षिणे ॥ ११.६॥ मुमुक्षोरुत्तरं वक्त्रं बुभुक्षोः पूर्वतोमुखम् । शिष्यं स्थित्वा च मतिमान् कुर्याद्दीक्षां गुरूत्तमः ॥ ११.७॥ स्कन्दस्य मूलमन्त्रञ्च षडक्षरमतः परम् । स्कन्दबीजेन संयुक्तं पञ्चब्रह्मषडङ्गकम् ॥ ११.८॥ ईशानम्मूर्ध्नि विन्यस्य मुखे तत्पुरुषं यजेत् । अघोरं हृदि विन्यस्य गुह्ये वामं न्यसेद् बुधः ॥ ११.९॥ सद्योजातं न्यसेत् पादे शिष्यदेहे विचक्षणः । हृदयं हृदि विन्यस्य शिरः शिरसि विन्यसेत् ॥ ११.१०॥ शिखायां तु शिखां न्यस्य कवचः स्तनमध्यतः । अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रद्वये न्यसेत् ॥ ११.११॥ सर्वेषामेव वर्णानामेवं कुर्याद्गुरूत्तमः । द्विजादीनां विशेषोऽस्ति वचद्भूरादिमन्त्रतः ॥ ११.१२॥ शिरोवदनहृन्नाभिगुह्यपादेषु विन्यसेत् । अयं कुमारमन्त्रञ्च पुनर्मूर्ध्नि च विन्यसेत् ॥ ११.१३॥ मालामन्त्रञ्च सर्वाङ्गे विन्यसेन्मन्त्रवित्तमः । माते कुमारमन्त्रञ्च हृदये विन्यसेद्बुधः ॥ ११.१४॥ पुनश्च तोयसंयुक्तं मण्डले तु विपास्य च । यस्मिन् मन्त्रे पठेत्पुष्पं नामगोत्रं तथात्मकम् ॥ ११.१५॥ दक्षिणां तु गुरोर्दत्त्वा शिष्यो वित्तानुसारतः । गुहदीक्षां च यः कुर्यात् गुहप्रीतिकरां गुहम् । भुक्त्वा भोगांश्च देहान्ते कौमारं लोकमाप्नुयात् ॥ ११.१६॥ इति श्रीकुमारतन्त्रे दीक्षाविधिर्नाम एकादशःपटलः ।

१२. द्वादशः पटलः - स्नपनविधिः

अतः परं प्रवक्ष्यामि स्नपनं षण्मुखस्य तु । अङ्गारवारे षष्ठ्यां वा विषुवायनसङ्क्रमे ॥ १२.१॥ मासर्क्षे ग्रहणे वापि कृत्तिकायां द्विपर्वणि उत्सवान्ते प्रतिष्ठान्ते प्रोक्षणान्ते सुयोगके ॥ १२.२॥ कर्तुश्च जन्मदिवसे तद्वियोगदिनेऽपि वा । नित्ये नैमित्तिके काम्ये शान्तिकर्मणि वा पुनः ॥ १२.३॥ एतेषु स्नपनं कुर्यात् तच्चानेकविधिं श‍ृणु । अङ्कुरार्पणमादौ स्यान्महास्नपनकर्मणि ॥ १२.४॥ प्रासादस्याग्रतः कुर्यात् मण्डपं वेदिहीनकम् । अथवा पूर्वकॢप्ते तु दारुणा शिलया तथा ॥ १२.५॥ पञ्चगव्यादिके पञ्चत्रिंशद्धस्ताङ्गुलेऽपि वा । चतुर्ग्रामादिकेषां च गात्रपर्यङ्कमण्डपे ॥ १२.६॥ तोरणादिसमायुक्ते सर्वालङ्कारसंयुते । अस्त्रेण शोधिते भूमौ वामदेवेन लेपयेत् ॥ १२.७॥ सूत्रन्यासं गुणास्त्रेण तालमात्राङ्गुलं यथा । द्वितालं स्कन्दकुम्भस्य वर्धन्योस्तालमात्रकम् ॥ १२.८॥ त्रितालं मूर्तिकामानं सर्वं सामान्यमीरितम् । अथवा द्वयतालेन कर्णिकामानमीरितम् ॥ १२.९॥ पश्चाद्द्रव्यप्रमाणानि वक्ष्येऽहं श‍ृणु कौशिक । गुञ्जादिनिष्कपर्यन्तं पादाद्यङ्गप्रमाणकम् ॥ १२.१०॥ एकद्वित्रिचतुः प्रस्थं पञ्चगव्यादिमानकम् । मध्यादीनां च सम्प्रोक्तं पादमर्धमथापि वा ॥ १२.११॥ आज्यतैलप्रमाणेन तथैव परिकल्पयेत् । कर्पूरकुङ्कुमादीनां मानमित्थं प्रगृह्यताम् ॥ १२.१२॥ उत्तमं नवकाशैस्तु मध्यमं सप्तदर्भकैः । अधमं पञ्चकाशैस्तु रुद्रधर्मग्रहायुतम् ॥ १२.१३॥ ग्रन्थिरेकाङ्गुलं प्रोक्तमग्रं तु चतुरङ्गुलम् । तद्ग्रन्थिचतुरावर्तिं कूर्चलक्षणमीरितम् ॥ १२.१४॥ ऊर्ध्वाग्रं पुष्टिदं प्रोक्तं अधोऽग्रं शान्तिदं भवेत् । कूर्चानां लक्षणं प्रोक्तं कुम्भानां लक्षणं श‍ृणु ॥ १२.१५॥ कालं भिन्नं च सुषिरं भेदं छेदं च लीनकम् । दुर्गन्धं च पुराणञ्च कलशं च विवर्जयेत् ॥ १२.१६॥ कालं च कलहं विद्याद्भिन्नं चैव कुलक्षयम् । (चैव कुलक्षणं) महामारी प्रकोपस्स्यात्सुषिरं च महामुने ॥ १२.१७॥ भेदं विभेदनं कुर्यात् छेदं छेदकरं भवेत् । लीनं व्याधिकरं चैव दुर्गन्धं बालनाथनम् ॥ १२.१८॥ स्त्रीनाशं स्यात्पुराणश्चेत्सङ्ग्रहे बिम्बसन्निभम् । तस्मात्सर्वप्रयत्नेन दोषाण्येतानि वर्जयेत् ॥ १२.१९॥ कलशान् वेष्टयेद्विद्वानेकद्वित्रिकतन्तुभिः । एकद्वित्रियवान्ताढ्यं स्कन्दकुम्भं च वर्धनीम् ॥ १२.२०॥ अन्यांश्च कलशान् सर्वान् गवाक्षसदृशान्तरान् । मण्डपस्योत्तरे भागे दर्भैः शुद्धैः परिस्तरेत् ॥ १२.२१॥ क्षालयेत् कलशानस्त्रान् प्रोक्षयेत् पुरुषेण तु । अधोमुखांश्च कलशान् स्थापयेत्तु कुशोपरि ॥ १२.२२॥ प्रोक्षयेद्धृदयेनैव कलशोन्मीलनं तथा । वस्त्रपूतैर्गन्धयुक्तैर्जलैः सम्पूरयेद्धृदा ॥ १२.२३॥ स्थण्डिलस्य विधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । शालीनामाढकं श्रेष्ठं त्रिःप्रस्थं मध्यमं स्मृतम् ॥ १२.२४॥ द्विःप्रस्थं तण्डुलं प्रोक्तं तदर्धं तिलमीरितम् । भूशोधनं तु प्रथमं अनुलेपं द्वितीयकम् ॥ १२.२५॥ सूत्रन्यासं तृतीयं स्यात्स्थण्डिलं वै चतुर्थकम् । कलशस्थापनं पञ्च षष्ठं कूर्चाधिवासनम् ॥ १२.२६॥ सप्तमं द्रव्यविन्यासमष्टमं देवतार्चनम् । विधानं नवमं प्रोक्तं दशमं वस्त्रवेष्टनम् ॥ १२.२७॥ एकादशं गन्धपुष्पं द्वादशं धूपदीपकम् । मुद्रा त्रयोदशं प्रोक्तं प्रोक्षणं च चतुर्दशम् ॥ १२.२८॥ दशपञ्च घटोद्घारं स्नानकर्म च षोडश । अस्त्रेण शोधयेद्भूमिं वामदेवेन लेपनम् ॥ १२.२९॥ सूत्रन्यासमघोरेणस्थण्डिलं पुरुषेण तु । प्रणवेन घटोद्घारं स्कन्दसूक्तेन मन्त्रतः ॥ १२.३०॥ पञ्चब्रह्मषडङ्गैश्च स्नापयेत् षण्मुखं सुधीः । लाजपुष्पतिलैर्दर्भैर्विकरान् प्रक्षिपेत्ततः ॥ १२.३१॥ पुण्याहं वाचयित्वाथ पश्चात् स्नपनमाचरेत् । (स्नपनमारभेत्) प्रवक्ष्यामि समासेन स्नपनं नवसङ्ख्यकम् ॥ १२.३२॥ प्राक्सूत्रं देवसूत्रं स्यादुदवसूत्रं तथैव च । तन्मध्ये स्कन्दकुम्भं तु वर्धनीं तस्य पार्श्वके ॥ १२.३३॥ पाद्यमाचमनं चार्घ्यं पञ्चगव्यं महादिशि । क्षीरं दधि घृतं चैव मध्वन्यासु विदिक्षु च ॥ १२.३४॥ सप्तसूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् । स्थापयेत् कलशान् वा स्यात् पूजयेत्तु यथाविधि ॥ १२.३५॥ दक्षिणस्थितवर्धन्यां महावल्लीं यजेत्ततः । तन्मध्ये उत्तरस्थां च देवसेनां प्रपूजयेत् ॥ १२.३६॥ शकुन्याद्यष्टशक्तीश्च पूर्वादिकलशेषु च । अर्चयेत्तु यथान्यायं स्नापयेदसुरान्तकम् ॥ १२.३७॥ नवाख्यं कलशं प्रोक्तं पञ्चविंशतिकं श‍ृणु । प्राक्सूत्रं वसुसूत्रं स्यादुदगग्रं तथैव च ॥ १२.३८॥ मध्ये नवपदं ग्राह्यं तत्पार्श्वैकं पदं त्यजेत् । वसुद्वारसमायुक्तं शालिभिः स्थण्डिलं नयेत् ॥ १२.३९॥ तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ १२.४०॥ मध्यकुम्भं कुमाराख्यं तत्पार्श्वे वर्धनीद्वयम् । पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं चतुर्दिशि ॥ १२.४१॥ क्षीरं दधिघृतञ्चैव मध्वन्यासु विदिक्षु च । (दधिघृतञ्चैव मध्वाज्यादि) मधु कुष्ठङ्गुलञ्चैव क्षीरश्च सर्पिषं तथा ॥ १२.४२॥ (क्षीरश्च सर्षपं) लवङ्गं चैव तक्कोलं दधिमेकं तिलं तथा । उशीरञ्च घृतं चैव शङ्खचूर्णं च सक्तुकम् ॥ १२.४३॥ नालिकेरञ्च हारिद्रं द्रव्याण्येतानि षोडश । पूर्वादिक्लशेष्वत्र द्वितीयावरणं न्यसेत् ॥ १२.४४॥ मध्वकुम्भे यजेत्स्कन्दं पार्श्वे शक्तिद्वयं यजेत् । शकुन्याद्यष्टशक्तिश्च प्रथमावरणे यजेत् ॥ १२.४५॥ लोकपालामरान् दिक्षु जयन्ताद्यान् विदिक्षु च । पूजयित्वा यथान्यायं सेनान्यमभिषेचयेत् ॥ १२.४६॥ स्नपनं प्रोक्तमेवं हि पञ्चविंशतिसङ्ख्यकम् । पश्चादेकोनपञ्चाशत्स्नपनं प्रोच्यतेऽधुना ॥ १२.४७॥ प्रागग्रं दशसूत्रं स्यादुदक्सूत्रं तथैव च । मध्ये नवपदं ग्राह्यं लेपयेत्परितः पदम् ॥ १२.४८॥ द्वाराष्टकसमायुक्तं तालमात्रान्तरं पदम् । स्थण्डिलं पूर्ववत्कृत्वा तन्मध्ये नलिनं लिखेत् ॥ १२.४९॥ कलशान् लक्षणोपेतान् चतुःप्रस्थेन पूरितान् । ससूत्रान् सापिधानाञ्च सवस्त्रान् हेमसंयुतान् ॥ १२.५०॥ वामे कुशोपरि न्यस्त्वा विन्यसेत्तु यथाक्रमम् । गन्धाम्बुरत्नसहितं कुम्भमध्ये गुहाख्यकम् ॥ १२.५१॥ (कुम्भमध्ये गुहाह्त्रयं) दक्षिणोत्तरभागे तु वर्धन्या हेमसंयुतौ । पाद्यमाचमनं चार्घ्य गव्यं पूर्वादिदिक्षु च ॥ १२.५२॥ क्षीरं दधि घृतं चैव मध्वन्यासु विदिक्षु च । तक्कोलं भस्म निर्यासं हारिद्रं चैव मञ्जरी ॥ १२.५३॥ नालिकेरं च बिल्वं च जम्बूकच्चोलमेव च । पाटली चैव पुन्नागं शङ्खपुष्पं तथैव च ॥ १२.५४॥ लक्ष्मी व्याघ्रीच सिंही च धुत्तूरं चैव षोडश । द्रव्याण्येतानि पूर्वादिद्वितीयावरणे न्यसेत् ॥ १२.५५॥ दूर्वा च सर्षपं चाम्रं नारङ्गं पनसं तथा । कदली च कदम्बं च धातकी श्वेतपङ्कजम् ॥ १२.५६॥ इक्षुसारञ्च लाजं च चम्पकं गन्धतैलकम् । नीवारं कुङ्कुमं चैव तिलमाञ्जीमरुं तथा ॥ १२.५७॥ सक्तुश्च मातुलुङ्गं च चन्दनं चागरुस्तथा । उशीरं रात्रिचूर्णं च तृतीयावरणे न्यसेत् ॥ १२.५८॥ चतुर्विंशतिद्रव्याणि सङ्ख्यान्येव हि कौशिक । मध्ये गुहं समावाह्य पार्श्वयोः शक्तिकं द्वयम् ॥ १२.५९॥ शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् । इन्द्राद्यान् द्विजवर्णाद्यान् द्वितीयावरणे यजेत् ॥ १२.६०॥ शास्तारन्द्वादशादित्यान् तथैकादशरुद्रकान् । पूर्वादिषु क्रमेणैव तृतीयावरणे यजेत् ॥ १२.६१॥ अर्चयित्वा यथान्यायं स्थापयेच्छङ्करात्मजम् । वर्धनीद्वयतोयेन पूजयेच्छक्तिकाद्वयम् ॥ १२.६२॥ स्नापयेत्कलशैस्सर्वैर्यथापूर्वं सुरेश्वरम् । प्रोक्तमेकोनपञ्चाशत्स्नपनम्मुनिसत्तम ॥ १२.६३॥ अथैकाशीतिकलशस्थापनं वक्ष्यतेऽधुना । प्राक्सूत्रं रविसूत्रं स्यादुदक्सूत्रं तथैव च ॥ १२.६४॥ पञ्चविंशत्पदम्मध्ये गृहीत्वा तत्समं ततः । पदमेकं न्यसेद्बाह्ये द्वाराष्टकसमायुतम् ॥ १२.६५॥ स्थण्डिलङ्कारयेत्तत्र तिलतण्डुलशालिभिः । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ १२.६६॥ स्कन्दकुम्भं न्यसेन्मध्ये तत्पार्श्वे वर्धनीद्वयम् । पाद्यमाचमनञ्चार्ध्यं गव्यं पूर्वादिदिक्षु च ॥ १२.६७॥ क्षीरं दधि घृतं चैव मध्वाज्यादिविदिक्षु च । अष्टद्रव्याणि मतिमान् प्रथमावरणे न्यसेत् ॥ १२.६८॥ मधु लाजान् हरिद्रांश्च शकृच्चूर्णञ्च कुष्ठकम् । इक्षुसारं च पनसं नारङ्गद्वयमेव च ॥ १२.६९॥ दाडिमी नालिकेरञ्च कदली मातुलुङ्गकम् । आम्रकच्चोलमुशिरं द्रव्याण्येतानि षोडश ॥ १२.७०॥ द्वितीयावरणे कुम्भेष्वाचार्यो विन्यसेत् क्रमात् । चन्दनं चैव कर्पूरं लवङ्गं जातिमेव च ॥ १२.७१॥ त्रुटिपत्रञ्च तक्कोलं कार्पासं पुष्पपत्रकम् । निम्बञ्च नवनीतञ्च मेघं चैव कुटं नटम् ॥ १२.७२॥ गुग्गुलुं चैव निर्यासं गुलखण्डं तथैव च । तिलं च सर्षपं चैव यवमुद्गं तथैव च ॥ १२.७३॥ प्रियङ्गुं चैव नीवारं चतुर्विंशतिसङ्ख्यकम् । द्रव्याण्येतानि मतिमान् तृतीयावरणे न्यसेत् ॥ १२.७४॥ अपामार्गं च तुलसीं पद्मनीलोत्पलं तथा । नन्द्यावर्तं च तक्कोलं करवीरं तपस्विनीम् ॥ १२.७५॥ (च तथा कोलं) भूतं कुञ्जरपुन्नागं मन्दारं बहुकर्णिकम् । (मन्दारं बहुकर्णिका) श्वेतार्कं केतकीपुष्पं विष्णुक्रान्ता बलिस्तथा ॥ १२.७६॥ (श्वेतार्कं शङ्खपुष्पं) लक्ष्मी च सहदेवी च मालती जाति पुष्पकम् । सुगन्धी चम्पकं चैव पाटलं पूगमेव च ॥ १२.७७॥ अश्वत्थोदुम्बरं चैव लक्ष्मीवृक्षं वटं तथा । इन्द्रवल्ली महाद्रोणं स्थलारविन्दमीश्वरम् ॥ १२.७८॥ द्वात्रिंशत्परिसङ्ख्यानि द्रव्याण्येतानि कौशिक चतुर्थावरणेष्वत्र पूर्वादिक्रमशो न्यसेत् ॥ १२.७९॥ द्रव्येष्वेतेषु तत्काले यथालाभं प्रगृह्य च । पूजयेन्मध्यमे स्कन्दं वर्धन्योः शक्तिकाद्वयम् ॥ १२.८०॥ शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् । धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ॥ १२.८१॥ प्रत्यूषश्च प्रभावश्च वस्वादीन्यष्टकान् न्यसेत् । षट्शक्तीरष्टदेवांश्च द्वितीयावरणे यजेत् ॥ १२.८२॥ कार्तिकेयं विशाखञ्च गुहं चैव सुरान्तकम् । सेनानीः षण्मुखं चैव मयूरवाहनं तथा ॥ १२.८३॥ शक्तिपाणिनमीशानं कुम्भेषु च समर्चयेत् । वचद्भुवं विश्वभुवं ततो रुद्रभुवं तथा ॥ १२.८४॥ पश्चाद् ब्रह्मभुवं चैव भुवद्भुवमनन्तरम् । शक्तिं च मुसलङ्खङ्गं वर्मपाशमतः परम् ॥ १२.८५॥ वज्रञ्च कार्मुकं चैव खेटकञ्च मयूरकम् । अङ्कुशञ्च क्रमेणैव चतुर्विंशतिदैवतम् ॥ १२.८६॥ तृतीयावरणे मन्त्री तत्तन्नाम्ना समर्चयेत् । ईशानं चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ १२.८७॥ आदित्यः सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः । अग्निः पूषा च विततो गृहक्षतयमौ तथा ॥ १२.८८॥ गन्धर्वो भृङ्गराजश्च मृगश्च निमतिस्तथा । दौवारिकश्च सुग्रीवः पुष्पदन्ताभिधानकः ॥ १२.८९॥ वारुणासुरशोषाश्च पापरक्षस्तथैव च । वायुवेगस्तथा मुख्यो भल्लाटः सोम एव च ॥ १२.९०॥ मृगश्चैवादितिश्चैव दितिरेव प्रकीर्तिता । द्वात्रिंशद्देवता बाह्ये चतुर्थावरणे यजेत् ॥ १२.९१॥ प्रणवादिनमोऽन्तश्च स्वस्वनामभिरर्चयेत् । स्कन्दकुम्भश्च वर्धन्यौ कृत्वा धामप्रदक्षिणम् ॥ १२.९२॥ अन्तः प्रविश्य कुम्भस्थं बीजं वै मूलबेरकम् । वर्धनीद्वितयम्बीजं यजेच्छक्तिद्वयेऽपि च ॥ १२.९३॥ स्नापयेत् सर्वकुम्भाद्भिः स्कन्दं गुरुर्यथाक्रमम् । अर्चनोक्तविधानेन पूजयेच्छङ्करात्मजम् ॥ १२.९४॥ प्रभूतहविषं दद्यात् प्रार्थयेदर्थमीप्सितम् । आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ॥ १२.९५॥ ब्राह्मणान् भोजयेत् पश्चाद्दीनानाथांश्च पूजयेत् । एकोनाशीतिकलशं स्नपनं प्रोक्तमेव च ॥ १२.९६॥ पश्चादष्टोत्तरशतं स्नपनं वक्ष्यतेऽधुना । प्रागग्रन्तु कलासूत्रमुदगग्रं तथैव च ॥ १२.९७॥ पञ्चविंशत्पदं मध्ये परितो द्विपदं त्यजेत् । बाह्येषु च चतुर्दिक्षु मध्ये त्रित्रिपदं न्यसेत् ॥ १२.९८॥ द्वादशद्वारसंयुक्तं स्कन्दव्यूहस्य मध्यमे । आग्नेयादिषु चत्वारो व्यूहधर्मादयः क्रमात् ॥ १२.९९॥ त्रित्रिव्यूहाश्च कोणेषु एकविंशत्पदम्भवेत् । स्थण्डिलङ्कारयेत्तत्र तिलतण्डुलशालिभिः ॥ १२.१००॥ प्रत्येकं सर्वकुम्भानां मध्ये नलिनमालिखेत् । प्रागग्रैश्चोत्तराग्रैश्च व्यूहान् दर्भैः परिस्तरेत् ॥ १२.१०१॥ लक्षणालङ्कृतोपेतान् कलशान् स्थापयेत्सुधीः । मध्ये स्कन्दञ्च विन्यस्य वर्धन्या तस्य पार्श्वयोः ॥ १२.१०२॥ पाद्यमाचमनञ्चार्घ्यं गन्धं पूर्वादिदिक्षु च । दधिसर्पिर्मधुक्षीरं विदिक्षु प्रथमावृतौ ॥ १२.१०३॥ तिलं बिल्वं मलयजं मेघचम्पकमेव च । करवीरं सर्षपञ्च नागकेसरमेव च ॥ १२.१०४॥ तक्कोलं च फलं कुन्दं कच्चोलं लोहमेव च । लवङ्गपत्रं कर्पूरं विन्यसेच्च क्रमेण तु ॥ १२.१०५॥ द्रव्याणि षोडशैतानि द्वितीयावरणे पुनः । तृतीयावरणे सक्तुबाहौ कलशपञ्चसु ॥ १२.१०६॥ भसितं चैव नैरृत्यां कलशेषु च पञ्चसु । हारिद्रचूर्णं वायव्यां कलशेषु च पञ्चसु ॥ १२.१०७॥ शङ्खचूर्णं तथैशान्यां कलशेषु च पञ्चसु । धात्रीं च नालिकेरञ्च लिकुचं मातुलुङ्गकम् ॥ १२.१०८॥ वह्निकोणे तु मतिमान् कलशेषु च पञ्चसु । चतुर्थावरणे धीमान् विन्यसेन्मूलविद्यया ॥ १२.१०९॥ लक्ष्मीं च सहदेवीञ्च विष्णुक्रान्तिं तथैव च । रुद्रपर्णी च वन्ह्यादिकलशेषु नवस्वपि ॥ १२.११०॥ पञ्चमावरणेऽप्येवं विन्यसेत्तु क्रमेण तु । स्कन्दं यजेन्मध्यकुम्भे पार्श्वयोः शक्तिकाद्वयम् ॥ १२.१११॥ शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् । इन्द्राद्यांश्च जयन्ताद्यान् द्वितीयावरणे यजेत् ॥ १२.११२॥ शास्तारं वास्तुनाथञ्च सुदेवसुमुखाह्वयम् । आग्नेयादिषु कोणेषु पञ्चपञ्चघटेषु च ॥ १२.११३॥ तृतीयावरणे मन्त्री पूजयेत्तु यथाक्रमम् । गङ्गां लक्ष्मीं च वाग्देवीं दुर्गां सप्तसु सप्तसु ॥ १२.११४॥ चतुर्थावरणे धीमानाग्नेयादिषु पूजयेत् । अग्निं सूर्यञ्चन्द्रमसं गुहास्त्रञ्च नवस्वपि ॥ १२.११५॥ पञ्चमावरणे वह्निकोणादिषु समर्चयेत् । गर्भगेहं ततः प्राप्य बेरशुद्धिं समाचरेत् ॥ १२.११६॥ स्कन्दकुम्भस्थतोयेन स्कन्दं सम्पूजयेद्गुहः । महावल्लीदेवसेनां वर्धन्यौ द्वौ प्रपूजयेत् ॥ १२.११७॥ स्थापितैः कलशैस्सर्वैः पूजयेच्छाम्भवं क्रमात् । प्रभूतहविषं दद्यात्प्रार्थयेदर्थमीप्सितम् ॥ १२.११८॥ आचार्यं पूजयेत्पश्चाद्गोभूमिधनवाहनैः । प्रोक्तमष्टोत्तरशतं स्नपनक्रममेव च ॥ १२.११९॥ अष्टोत्तरसहस्राख्यं स्नपनं वक्ष्यतेऽधुना । सूत्रैः प्रागादिकैर्भूमौ चत्वारिंशत् षडुत्तरैः ॥ १२.१२०॥ उदगग्रस्तथाशाल्यां शालिपिष्टरसान्वितैः । पञ्चविंशत्पदं मध्ये गृहीत्वा तद् बहिर्बुधः ॥ १२.१२१॥ मार्गाय द्विपदं लोप्य बहिः पञ्चपदं ग्रहेत् । तद्बहिर्द्विपदं लोप्य बहिः पञ्चपदं ग्रहेत् ॥ १२.१२२॥ द्विपदं लोप्य तद्बाह्ये विद्यते तु चतुष्पदम् । बहिर्वीथ्यान्तरालेषु कलशेषु पदेषु च ॥ १२.१२३॥ मार्गाय लोपयेद् विद्वान् तन्मध्ये तु चतुष्पदम् । चतुर्दिक्षु ततो मन्त्री कल्पयेत् कल्पवित्तमः ॥ १२.१२४॥ पञ्चविंशत्पदं व्यूहं पञ्चविंशद्भवेदिह । चतुष्कोणे षोडशभिः पदैर्व्यूहचतुष्टयम् ॥ १२.१२५॥ अष्टभिश्च पदैर्व्यूहैश्चत्वारिंशद्भवेद्बहिः । महाद्वाराष्टदशकं क्षुद्रद्वारं तु विंशतिः ॥ १२.१२६॥ अष्टोत्तरसहस्रेऽस्मिन् स्नपने षोडशावृतौ । वृत्तकुम्भमथो वक्ष्ये श‍ृणु कौशिकसुव्रत ॥ १२.१२७॥ षट्त्रिंशद्गात्रसंयुक्ते मण्डपे चतुरश्रके । चतुर्गात्राष्टगात्राणि मध्ये पङ्क्तिविवर्जिते ॥ १२.१२८॥ श्रुतिद्वारसमायुक्ते सर्वालङ्कारसंयुते । मङ्गलाष्टकसंयुक्ते चतुस्तोरणभूषिते ॥ १२.१२९॥ दशायुधसमायुक्ते दर्भमालाभिरावृते । मण्डपे मध्यदेशे तु हस्तसूत्रान्तरं यथा ॥ १२.१३०॥ तथा पश्चिमपूर्वोक्तं युग्मसूत्रं प्रकल्पयेत् । दक्षिणोत्तरमार्गेण युग्मसूत्रं प्रसारयेत् ॥ १२.१३१॥ तन्मध्ये स्थापयेच्छङ्खंसमन्ताद्भ्रामयेत्ततः । तत्र षोडशसूत्राणि वृत्तवद्भ्रामयेत्सुधीः ॥ १२.१३२॥ तावत्सूत्रान्तरम्प्रोक्तं षोडशावरणं क्रमात् । द्वारार्थकं महाशासु द्वारसूत्राणि विन्यसेत् ॥ १२.१३३॥ स्वर्णालङ्कारयोर्मध्ये तिलतण्डुलशालिभिः । स्थण्डिलङ्कलशानान्तु कल्पयेत्कलशम्प्रति ॥ १२.१३४॥ प्रथमावरणे चाष्टौ षोडशं द्वितीयावृतौ । त्रयावृतौ चतुर्विंशद्द्वात्रिंशच्चतुरावृतौ ॥ १२.१३५॥ चत्वारिंशच्च कलशान् पञ्चमावरणे न्यसेत् । अष्टाचत्वारिंशतिकान् कलशान् षष्ठमावृतौ ॥ १२.१३६॥ षट्पञ्चाशद्घटान् पश्चात् सप्तमावरणे न्यसेत् । चतुःषष्टिघटान् पश्चादष्टामावरणे न्यसेत् ॥ १२.१३७॥ द्विसप्ततिघटान् पश्चान्नवमावरणे न्यसेत् । अशीतिसङ्ख्यान् कलशान् दशमावरणे न्यसेत् ॥ १२.१३८॥ अष्टाशीतिघटान् पश्चात् न्यसेदेकादशावृतौ । कलशान् षण्णवतिकान् द्वादशावरणे न्यसेत् ॥ १२.१३९॥ त्रयोदशावृतौ पश्चात् कुम्भान् चतुरशीतिकान् । घटान् द्विनवतीन्मन्त्री चतुर्दशमहावृतौ ॥ १२.१४०॥ कलशान् शतसङ्ख्यांश्च न्यसेत् पञ्चदशावृतौ । अष्टोत्तरशतान् कुम्भान् षोडशावरणे न्यसेत् ॥ १२.१४१॥ एवं विन्यस्य कलशान् अष्टोत्तरसहस्रकान् । रत्नलोहकधातूत्थं बीजोदं गन्धतोयकम् ॥ १२.१४२॥ मृन्मार्जनञ्चाद्युपरि मार्जनं पत्रपुष्पकम् । (मार्जनं पत्रपुष्पयुक्) धान्यास्त्रं फलतोयञ्च कषायं मद्योदकं तथा ॥ १२.१४३॥ (मान्यास्त्रं फलतोयञ्च - *छन्दोभङ्गः) कान्तमूलोदकम्ब्रह्मकूर्चङ्कल्काम्बुवल्कलम् । माणिक्कञ्चेन्द्रनीलञ्च वैडूर्यं च प्रवालकम् ॥ १२.१४४॥ मुक्ता वज्रं पुष्परागं स्फटिकं मरकतं तथा । नवरत्नानि निक्षिप्य अथवा पञ्चरत्नकम् ॥ १२.१४५॥ एभिर्युक्तं शुद्धतोयं रत्नोदकमुदीरितम् । सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् ॥ १२.१४६॥ आरकूटन्तु तैर्युक्तं लोहोदकमिति स्मृतम् । सौवीरमञ्जनं श्यामं हरितालं मनःशिलाम् ॥ १२.१४७॥ गैरिकं रोचनायुक्तं धातूदकमिति स्मृतम् । शालिकोद्रं च नीवारं प्रियङ्गुतिलसर्षपम् ॥ १२.१४८॥ श्याममाषयवैर्युक्तं बीजोदकमिहोच्यते । नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् ॥ १२.१४९॥ चन्दनं लघुकोष्ठं च वरालोशीरमुस्तकाः । कुङ्कुमं हरिबेरं च तक्कोलं जातिरेव च ॥ १२.१५०॥ एतेषां चूर्णसंयुक्तं गन्धोदकमिति स्मृतम् । पर्वते च नदीतीरे वल्मीके कर्कटे वटे ॥ १२.१५१॥ वृषश‍ृङ्गेदर्भमूले समुद्रे गजदन्तयोः । अष्टमृद्भिस्समायुक्तं मृदम्भः परिकीर्तितम् ॥ १२.१५२॥ गोक्षीरं सहदेवीं च विष्णुक्रान्तं कृताञ्जलिम् । सर्षपेन्दीवरं रात्रिं एभिर्मार्जनमुच्यते ॥ १२.१५३॥ तुलसीं बिल्वपत्रञ्च तमालञ्च तपस्विनीम् । अपामार्गं शमीयुक्तं पत्रतोयमिहोच्यते ॥ १२.१५४॥ पद्मं रक्तोत्पलं पश्चात् पाटलं चम्पकं तथा । पुन्नागनागं कुरवं नन्द्यावर्तञ्च मल्लिकाम् ॥ १२.१५५॥ श्वेतार्कं वकुलैर्युक्तं पुष्पतोयमिहोच्यते । कुष्ठं कुटन्नटं लोहं चन्दनं कुङ्कुमं तथा ॥ १२.१५६॥ कर्पूरोशीरसंयुक्तं मान्योदकमिति स्मृतम् । वज्रं शक्तिं च मुसलं खड्गं पाशाङ्कुशं धनुः ॥ १२.१५७॥ चक्रं खेटध्वजं स्वर्णनिर्मितान्यायुधानि च । एभिर्युक्तं शुद्धतोयमस्त्रोदकमिति स्मृतम् ॥ १२.१५८॥ पनसो नालिकेरश्च मातुलुङ्गाम्रवृक्षकौ । नारङ्गद्वयमेतेषां फलैर्युक्तं फलोदकम् ॥ १२.१५९॥ पलाशोदुम्बराश्वत्थमधूकप्लक्षपाटलाः । जम्बुरेषां समत्वग्भिः कषायोदकमुच्यते ॥ १२.१६०॥ अभ्यङ्गत्रितयं पश्चात् माक्षिकत्रितयं तथा । गन्धत्रयसमायुक्तं मध्यतोयमिति स्मृतम् ॥ १२.१६१॥ सूर्यकान्तमयःकान्तं चन्द्रकान्तत्रयं तथा । एभिश्च पञ्चकैर्युक्तं कान्ततोयमिति स्मृतम् ॥ १२.१६२॥ उशीरो हरिबेरं च पुष्पकं च शतावरी । श्रीपर्णं पञ्चभिर्मूलैर्मूलोदकमिति स्मृतम् ॥ १२.१६३॥ गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एभिर्द्रव्यैः समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ॥ १२.१६४॥ मयूरशिखिकूर्चत्वक्रोचनाभृङ्गराजकम् । कृताञ्जलिः पञ्चभिश्च कल्कोदकमिति स्मृतम् ॥ १२.१६५॥ लोध्रद्वयं लवङ्गं च भूर्जत्वक्चूतवृक्षकः । एभिस्त्वग्भिः समायुक्तं वल्कोदकमिति स्मृतम् ॥ १२.१६६॥ अग्निकोणक्रमात्तैलं क्षीरं दधि घृतं न्यसेत् । चत्वारिंशद्व्यूहकेषु कलशद्रव्यमुत्तमम् ॥ १२.१६७॥ विंशद्भेदोदकं प्रोक्तं द्रव्याणां च विधिं श‍ृणु । वरालत्रुटिकर्पूरत्वगेलोशीरकादयः ॥ १२.१६८॥ स्कन्दकुम्भस्य वर्धन्योर्मध्यमेषु च विन्यसेत् । पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कुशोदकम् ॥ १२.१६९॥ क्षीरन्दधिघृतान्यष्टौ प्रथमावरणे न्यसेत् । क्षौद्रं गुलं यवं कोष्ठं तिलं रम्भाफलं तथा ॥ १२.१७०॥ सर्षपं नालिकेरञ्च रजनीमातुलुङ्गकम् । लाजदाडिमसक्तूनि पनसं पद्मचूतकम् ॥ १२.१७१॥ न्यसेद्द्वितीयावरणे द्रव्याण्येतानि षोडश । रक्तोदकं लोहतोयं तृतीयावरणे न्यसेत् ॥ १२.१७२॥ धातूदकं बीजभवं चतुर्थावरणे न्यसेत् । गन्धोदकं मृदम्भश्च पञ्चमावरणे न्यसेत् ॥ १२.१७३॥ मार्जनम्परिमार्जं च षष्ठमावरणे न्यसेत् । पत्रोदं पुष्पतोयञ्च सप्तमावरणे न्यसेत् ॥ १२.१७४॥ मान्योदमस्त्रतोयञ्चाप्यष्टमावरणे न्यसेत् । नवावृतौफलोदञ्च कषायोदं दशावृतौ ॥ १२.१७५॥ मद्योदमेकादशके कान्तोदं द्वादशावृतौ । त्रयोदशावृतौ धीमान् मूलोदकमथार्चयेत् ॥ १२.१७६॥ चतुर्दशावृतौ पश्चात् ब्रह्मकूर्चं जलं क्षिपेत् । कल्कोदकं न्यसेद्धीमान् तथा पञ्चदशावृतौ ॥ १२.१७७॥ षोडशावरणे सम्यकू न्यसेद्वल्कोदकम्बुधः । वज्रं समस्तरत्नानां लोहानामग्निदैवतम् ॥ १२.१७८॥ धातूनां हरितालं च बीजानां यवमुत्तमम् । चन्दनं सर्वगन्धानां मृदं दर्भस्य मूलजम् ॥ १२.१७९॥ मार्जनीरजनीचर्णदूर्वा च परिमार्जने । बिल्वपत्रं च पत्राणां पुष्पाणामुत्पलं स्मृतम् ॥ १२.१८०॥ मान्योदके च कर्पूरमस्त्राणां शक्तिरेव च । फलानां कदलीजातं त्वचामश्वत्थसम्भवा ॥ १२.१८१॥ फलत्रयं मद्यतोये कान्तानां सूर्यकान्तकम् । कुटन्नटश्च मूलानां गोमूत्रं ब्रह्मकूर्चके ॥ १२.१८२॥ कल्कोदके भृङ्गराजं वल्कानां लोध्रवल्कले । सहदेव्यौषधीनां च सिताभावे गुलं स्मृतम् ॥ १२.१८३॥ फलपुष्पाद्यभावे तु तत्पत्रादिकमेव च । द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ १२.१८४॥ विधाय बीजं मुख्येन पल्लवैर्वा शरावकैः । दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ १२.१८५॥ शुभानि सर्ववर्णानि कृष्ण वस्त्राणि वर्जयेत् । गन्धं स्वनाममन्त्रेण पुष्पं धूपं तथैव च ॥ १२.१८६॥ कुमारस्वामिनां मध्ये कुम्भे संस्थाप्य पूजयेत् । दक्षिणायां तु वर्धन्यां महावल्लीं प्रपूजयेत् ॥ १२.१८७॥ उत्तरायां तु वर्धन्यां महासेनां प्रपूजयेत् । शकुन्याद्यष्टशक्तीश्च प्रथमावरणे न्यसेत् ॥ १२.१८८॥ जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् । अनन्तरम्भूतपतिं सेनान्यं गुहसंज्ञकम् ॥ १२.१८९॥ हेमशूलं विशालाक्षं पूर्वादिक्रममेव च । द्वितीयावरणे धीमान् द्विवारं सम्यगर्चयेत् ॥ १२.१९०॥ पृथिव्यादिप्रकृत्यन्तं तत्त्वानीह त्रयोवृतौ । चतुर्वारं वसून्मन्त्री चतुर्थावरणे यजेत् ॥ १२.१९१॥ गङ्गां च यमुनां चैव नर्मदां च सरस्वतीम् । सिन्धुं गोदावरीं चैव कावेरीं कुमरीं तथा ॥ १२.१९२॥ पञ्चवारं यजेद्धीमान् पञ्चमावरणे क्रमात् । अनन्तं वासुकिं चैव तक्षं कार्कोटकं तथा ॥ १२.१९३॥ शङ्खं पद्मं महापद्मं गुलकं षष्ठमावृतौ । षड्वारं पूजयेद्विद्वान् पूर्वादिषु पुनः पुनः ॥ १२.१९४॥ भूरादिसप्तलोकानां दैवतानि पुनः पुनः । अष्टवारं यजेद्धीमान् सप्तमावरणे क्रमात् ॥ १२.१९५॥ असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः । कपाली भीषणश्चैव संहारश्चाष्टभैरवः ॥ १२.१९६॥ अष्टवारं यजेदेतान् अष्टमावरणे क्रमात् । महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ १२.१९७॥ मुकुन्दः कुन्दनीलाश्च वाराश्च निधयो नव । अष्टवारं यजेत्पश्चान्नवमावरणे तथा ॥ १२.१९८॥ क्ष्मावह्नियजमानार्कजला वातेन्दुखानि च । अष्टमूर्तीन्न्यसेदेतान्दशवारं दशावृतौ ॥ १२.१९९॥ महादेवश्शिवो रुद्रः शङ्करो नीललोहितः । ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ १२.२००॥ कपाल्येकादशाख्याता रुद्रा एकादशावृतौ । अष्टवारं यजेदेतान्पूर्वादिकलशेषु च ॥ १२.२०१॥ वैवस्वतो विवस्वांश्च मार्ताण्डो भास्करो रविः । लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥ १२.२०२॥ आदित्यश्चैव सूर्यश्च अंशुमाली दिवाकरः । द्वादशावरणे मन्त्री पूजयेदष्टवारकम् ॥ १२.२०३॥ लवणेक्षुस्तथा क्षीरं दधिस्वादुसरित्पतिम् । सुराभिर्घृतसिन्धुश्च पूज्या द्वादशवारकम् ॥ १२.२०४॥ त्रयोदशावृतौ मन्त्री पूर्वादिकलशेषु च । चतुर्वेदान्यजेन्मन्त्री त्रयोविंशतिवारकम् ॥ १२.२०५॥ चतुर्दशावृतौ सम्यग्गन्धपुष्पादिभिर्यजेत् । इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ १२.२०६॥ सोमेशो ब्रह्मगोविन्दः पूजनीयास्तथैव च । दशवारं च गुरुणा तथा पञ्चदशावृतौ ॥ १२.२०७॥ ग्रहान्भास्करमुख्यांश्च यजेद्द्वादशवारकम् । षोडशावरणे मन्त्री पूजयेत्तु यथाक्रमम् ॥ १२.२०८॥ गन्धपुष्पादिभिश्चैव पूजयेत्स्वस्वनामतः । वालुकैश्च महाशासु स्थण्डिलङ्कल्पयेद्बुधः ॥ १२.२०९॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमार्गतः । समिदन्नघृतैस्स्कन्दं मूलब्रह्मषडङ्गकैः ॥ १२.२१०॥ प्रत्येकन्तु शतं हुत्वा स्कन्दगायत्रिमन्त्रतः । जगद्भुवादिषण्मन्त्रैः षड्वारं होमयेत्सुधीः ॥ १२.२११॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् । यदस्येति ततो हुत्वा पूर्णाहुतिमथाचरेत् ॥ १२.२१२॥ मध्ये कुम्भं च वर्धन्यौ कृत्वा धामप्रदक्षिणम् । गर्भगेहं प्रविश्याथ बेरशुद्धिमथाचरेत् ॥ १२.२१३॥ स्कन्दबीजं ततोद्धृत्य बेरस्य हृदि विन्यसेत् । तत्कुम्भस्थिततोयेन पूजयेच्छङ्करात्मजम् ॥ १२.२१४॥ दक्षिणस्थितवर्धन्यां महावल्लीं प्रपूजयेत् । उत्तरस्थितवर्धन्यां देवसेनां प्रपूजयेत् ॥ १२.२१५॥ स्थापितान्कलशान्सर्वानुद्धृत्य च यथाक्रमम् । सर्वदेवात्मकं स्कन्दं पूजयेद्द्विधिपूर्वकम् ॥ १२.२१६॥ अर्चनोक्तविधानेन पूजयेदम्बिकासुतम् । महाहविर्निवेद्याथ ताम्बूलादिविशेषतः ॥ १२.२१७॥ यथेप्सितं प्रार्थयित्वा नमस्कृत्य यथाविधि । आचार्यं पूजयेत्पश्चात् गोभूमिधनकाञ्चनैः ॥ १२.२१८॥ अधमं पञ्चनिष्कन्तु द्विगुणं मध्यमं भवेत् । त्रिगुणं चोत्तमं विद्याद्देशिकस्य तु दक्षिणा ॥ १२.२१९॥ भक्तांश्च परिवारांश्च दीनानाथांश्च पूजयेत् । ब्राह्मणान् भोजयेत् पश्चाद्वित्तशाढ्यं न कारयेत् ॥ १२.२२०॥ एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते । विद्याकामो लभेद्द्विद्यां धनकामो धनं लभेत् ॥ १२.२२१॥ राज्यकामो लभेद्राज्यं जयकामो जयं लभेत् । सर्वान् कामानिह प्राप्य कौमारं लोकमाप्नुयात् ॥ १२.२२२॥ इति श्री कुमारतन्त्रे स्नपनविधिर्नामद्वादशः पटलः ।

१३. त्रयोदशः पटलः - स्कन्दोत्सवविधिः

अतः परं प्रवक्ष्यामि स्कन्दोत्सवविधिक्रमम् । भुक्तिमुक्तिप्रदं दिव्यं सर्वभूतसुखप्रदम् ॥ १३.१॥ सर्वलोकसुखं पुण्यं सदा विजयवर्धनम् । सर्वसिद्धिकरं वश्यं सर्वशान्तिकरं शुभम् ॥ १३.२॥ सर्वशत्रुक्षयकरमिष्टकाम्यफलप्रदम् । भूतराक्षसनाशञ्च मर्त्यानां पोषणार्थकम् ॥ १३.३॥ उत्सवेति त्रिवर्णोयं सृष्टिस्थित्यन्तसंज्ञकम् । उत्सवस्त्रिविधः प्रोक्तो मुनिमुख्य महामते ॥ १३.४॥ मासोत्सवस्तु प्रथमो द्वितीयस्तु महोत्सवः । भक्तोत्सवस्तृतीयस्तु वक्ष्यते मुनिपुङ्गव ॥ १३.५॥ कृतस्त्वमायां मासाद्ये स तु मासोत्सवो भवेत् । त्रयाहञ्चैव पञ्चाहं सप्ताहञ्चनवाहकम् ॥ १३.६॥ द्वादशाहन्तु विधिना चरितस्तु महोत्सवः । भक्त्या पुण्यदिने भक्तैः क्रियते यः स उत्सवः ॥ १३.७॥ बलिहीनं तथा कुर्यात् भक्तोत्सवविशेषतः । महोत्सवन्तु षड्भेदं वक्ष्यामि श‍ृणु सुव्रत ॥ १३.८॥ पैतृकं द्वादशाहं तु नवाहं सौख्यमुच्यते । सप्ताहं श्रीकरं प्रोक्तं पञ्चाहं भौतिकं स्मृतम् ॥ १३.९॥ सात्त्विकं च त्र्यहं प्रोक्तं चैकाहं शिवमुच्यते । भौतिके सात्त्विके शैवे वर्जयेत् केतुरोहणम् ॥ १३.१०॥ अन्येषु श्रीकरादीषु कर्तव्यं केतुरोहणम् । कृत्तिका सर्वमासेषु तीर्थनक्षत्रमुत्तमम् ॥ १३.११॥ कृत्तिकां विशाखां वा तीर्थर्क्षं सर्वमासके । कृष्णपक्षे तु षष्ठ्यां वा सर्वमासे गुहोत्सवम् ॥ १३.१२॥ (तु षष्ठ्यन्तं) सर्वमासेषु तां हित्वा मासर्क्षे वाथ कारयेत् । राजजन्मदिने वापि ऋक्षे राजाभिषेकके ॥ १३.१३॥ ग्रामजन्मदिने वा तु भूपालमरणे दिने । राजयुद्धजयार्थे वा चोत्सवं कारयेद्बुधः ॥ १३.१४॥ मार्गशीर्षे तथार्द्रान्तं पुष्यर्क्षे पुष्यमासके । माघमासे तु माघान्तं फाल्गुने चोत्तरोत्तरे ॥ १३.१५॥ चैत्रे चित्रान्तमुदितं कर्तव्यं मुनिपुङ्गव । वैशाखे तु विशाखान्तं मूलान्तं ज्येष्ठमासके ॥ १३.१६॥ उत्तराषाढमाषाढे श्रावणे श्रावणान्तकम् । उक्तं प्रोष्ठपदे मासे पूर्वाभाद्रान्तमुत्तमम् ॥ १३.१७॥ अश्विन्यन्तमाश्वयुजि कार्तिके कृत्तिकान्तकम् । चित्रादितारकाद्यन्तैः पूर्वपक्षे तु सङ्गतः ॥ १३.१८॥ मासाश्चैत्रादिका ज्ञेयाः त्रिभिः षष्ठ्यन्तसप्तमाः । एकमासे द्विनक्षत्रे सम्प्राप्ते त्वपरं परम् ॥ १३.१९॥ नेष्टं प्रथमऋक्षं स्यादन्त्यर्क्षे तीर्थमाचरेत् । कृतं चेत्पूर्वनक्षत्रे यः कर्ता स विनश्यति ॥ १३.२०॥ खण्डिते सति नक्षत्रे त्वन्त्यर्क्षे तीर्थमाचरेत् । नाडीदशविहीने तु पूर्वतीर्थमनुष्ठितम् ॥ १३.२१॥ युक्तो वाथ वियुक्तो वा मासर्क्षेण तु पर्वणि । तिथिप्रधानं सामुद्रमन्यदृक्षं प्रधानकम् ॥ १३.२२॥ यस्मिन् मासे द्विजश्रेष्ठ पूर्वं सङ्कॢप्तमुत्सवम् । तस्मिन्नेव प्रकर्तव्यमन्यस्मिन्नेव कारयेत् ॥ १३.२३॥ ध्वजावरोहणं तीर्थं दिवसेषु महामुने । अन्योत्सवन्तु कर्तव्यं प्रकर्तव्यं ध्वजं विना ॥ १३.२४॥ प्रथमञ्चाङकुरं कर्म द्वितीयं शिखियागजम् । तृतीयं ताडयेद् भेरीं चतुर्थं रोपयेद् ध्वजम् ॥ १३.२५॥ पञ्चमं यागकर्म स्यादस्त्रयागमतः परम् । सप्तमं बलिदानं स्यादष्टयानं क्रमं परम् ॥ १३.२६॥ नवमं परिवेषं स्यान्नीराजनमथो दश । एकादशं कौतुकं च तीर्थसङ्ग्रहणं परम् ॥ १३.२७॥ त्रयोदशं चूर्णकारं तीर्थं चैव चतुर्दश । ध्वजावरोहणं पश्चात्म्नपनं षोडशं भवेत् ॥ १३.२८॥ एवं षोडशभेदेन चोत्सवं परिकीर्तितम् । ध्वजारोहणपूर्वन्तु भेरीताडनपूर्वकम् ॥ १३.२९॥ अङकुरार्पणपूर्वन्तु त्रिविधा उत्सवाः स्मृताः । ध्वजमारोपयित्वा हि भेरीं रात्रौ तु ताडयेत् ॥ १३.३०॥ उत्सवस्य तु रात्रौ तु बीजनिर्वापमुच्यते । ध्वजारोहणपूर्वं तु प्रोक्तं वेदविदां वर ॥ १३.३१॥ भेरी तु ताडयेत् पूर्वं ध्वजमारोपयेत्ततः । अङकुराण्यर्पयेत्पश्चाद्भेरीताडनपूर्वकम् ॥ १३.३२॥ ध्वजमारोपयेत्पश्चादङ्कुरार्पणपूर्वकम् । प्रातः काले त्ववभृथं सायं काले समाचरेत् ॥ १३.३३॥ निशि सायं दिवा प्रातरिति शास्त्रस्य निर्णयम् । मन्त्रभेदो भवेत्तत्र क्रियाभेदो न विद्यते ॥ १३.३४॥ शिवोत्सवप्रकारेण क्रियाः सर्वाः समाचरेत् । विघ्नेशं पूजयेत्पूर्वं भक्ष्यभोज्यादिभिर्बुधः ॥ १३.३५॥ अनङकुरन्तु यत्कर्म भवेत्तत्कर्म निष्फलम् । ध्वजाङकुरार्पणम्पूर्वं द्वितीयञ्चोत्सवाङकुरम् ॥ १३.३६॥ तीर्थाङकुरं तृतीयन्तु वक्ष्यते क्रमशस्ततः । ध्वजाङ्कुरं ध्वजाङ्गं स्याद्ध्वजात्पूर्वं तु तर्पयेत् ॥ १३.३७॥ नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेऽपि वा । तद्दिनेवाङकुरं कर्म शुभाधिक्ये समाचरेत् ॥ १३.३८॥ उत्सवाङकुरमात्रञ्च तद्दिने कारयेद्बुधः । तीर्थर्क्षमादौ निश्चित्य अयुग्मेऽप्यङ्कुरार्पणम् ॥ १३.३९॥ अधमं सप्तहस्तन्तु मध्यमं नवहस्तकम् । उत्तमन्दशहस्तं स्याद्दैर्घ्यं ध्वजपटस्य तु ॥ १३.४०॥ आयामं ध्वजवस्त्रस्य नवरुद्रकलाकरम् । दैर्घ्यस्य पञ्चभागैकं पटविस्तारमुच्यते ॥ १३.४१॥ अथवाऽन्यप्रकारेण भूतषट्सप्ततालकम् । विस्तारार्धन्तु शिखरं पुच्छं विस्तारमात्रकम् ॥ १३.४२॥ वेत्रद्वयसमायुक्तं पुच्छद्वयसमायुतम् । दुकूलपट्टदेवाङ्गैरथ कार्पासकेन वा ॥ १३.४३॥ वस्त्रेणैव नवेनैव कुर्यात् ध्वजपटं बुधः । श्वेतं विप्रध्वजं प्रोक्तं रक्तं क्षत्रध्वजाम्बरम् ॥ १३.४४॥ पीतं वैश्यन्तु शूद्राणां सर्वेषां श्वेतवर्णकम् । श्वेतवर्णध्वजपटं राजराष्ट्राभिवर्धनम् ॥ १३.४५॥ शुभायादिसमायुक्तम्मयूरं विलिखेद्बुधः । मयूरं वा गजं वापि कुक्कुटं वा महामुने ॥ १३.४६॥ पटमध्ये तु विलिखेत् सर्वलक्षणसंयुतम् । पद्मपीठमधो लिख्य पार्श्वे दीपौ समालिखेत् ॥ १३.४७॥ तदूर्ध्वे शक्तिमालिख्य छत्रचामरमूर्ध्वके । अधोभागे द्विभागे तु मङ्गलाष्टकमालिखेत् ॥ १३.४८॥ मयूरं श्यामवर्णं तु गजं वै श्वेतवर्णकम् । कुक्कुटं रक्तवर्णं तु यथा युक्त्या लिखेद्बुधः ॥ १३.४९॥ सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् । आलिखेत्प्रतिमां तत्तत् प्रतिमालक्षणोक्तितः ॥ १३.५०॥ वश्यं वै रक्तवर्णं तु स्तम्भनं पीतवर्णकम् । विजयं कपिलाभञ्च कृष्णं वै त्वाभिचारकम् ॥ १३.५१॥ धूम्रं व्याधिप्रदं ज्ञेयं वर्षार्थं श्यामवर्णकम् । क्षीराभं सर्वशान्त्यर्थञ्चैवमेवं क्रमेण तु ॥ १३.५२॥ ध्वजदण्डपटञ्चैव मयूरगजकुक्कुटान् । मानं मात्राङ्गुलाभ्यान्तु कल्पयेत्कल्पवित्तमः ॥ १३.५३॥ शान्त्यै शयानं पुष्ट्यर्थं स्थितं वै ध्वजमालिखेत् । विश्वमात्रादिषट्त्रिंशत् मात्रोत्सेधं प्रचक्षते ॥ १३.५४॥ जात्यंशकं समायुक्तं चित्रबेरध्वजं लिखेत् । वक्ष्येऽहं ध्वजदण्डस्य स्थानं श‍ृणु महामुने ॥ १३.५५॥ पीठगोपुरयोर्मध्ये पीठाग्रे वा गजाग्रके । स्थानं स्याद्ध्वजदण्डस्य दण्डं वक्ष्याम्यथ श‍ृणु ॥ १३.५६॥ वेणुः पलाशो न्यग्रोधो चन्दनः खादिरोऽर्जुनः । बिल्वः पूगो नालिकेरः सालस्तालोरथद्रुमः ॥ १३.५७॥ मधुकश्चन्दनश्चैते ध्वजवृक्षा उदीरिताः । वक्रं भिन्नञ्च सुषिरं क्रिमिकोटरसंयुतम् ॥ १३.५८॥ स्वयं शुष्कञ्च पतितं निर्घातेन हतद्रुमम् । बालवृक्षं विशेषेण वर्जयेन्मुनिपुङ्गव ॥ १३.५९॥ अन्तःसारं बहिस्सारं प्रहस्यादन्यवृक्षकम् । बहिस्सारद्रुमान् सर्वान् क्रियान्ते वर्जयेद् बुधः ॥ १३.६०॥ दारुसङ्ग्रहणोक्तेन मार्गेणैव समाचरेत् । प्रासादस्य समं तुङ्गं गोपुरस्य समं तु वा ॥ १३.६१॥ प्रासादग्रीवमानं वा वृषस्थलसमं तु वा । द्वितलत्रितलान्तं वा गोपुरग्रीवतुङ्गकम् ॥ १३.६२॥ रुद्रहस्तं समारभ्य हस्तैकेन विवर्धनात् । (हस्तैकेन विवर्धयेत्) विंशद्धस्तान्तकं वापि दण्डायामं समीरितम् ॥ १३.६३॥ सप्तविंशाङ्गुलायामं ध्वजदण्डमथोत्तमम् । मध्यमन्तु चतुर्विंशत्कन्यसं द्वादशाङ्गुलम् ॥ १३.६४॥ त्रिंशांशोनं तदग्रं स्यात् सुवृत्तं निर्ब्रणं दृढम् । उभयोर्योगसिद्ध्यर्थं स्कन्धत्रयमथाहरेत् ॥ १३.६५॥ यान् यान् कामयते कामान् तांस्तान् साधयते द्विजः । पूर्वाह्ने विप्रवृद्धिः स्यात् मध्याह्ने राजवृद्धिदम् ॥ १३.६६॥ रात्रौ विट्शूद्रवृद्धिः स्यात् ध्वजारोहणकर्मणि । स्कन्धत्रयं वा तद्दैर्घ्यं द्वादशाङ्गुलमायतम् ॥ १३.६७॥ (स्कन्धद्वयं वा) षट्त्रिंशमात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकीर्तितम् । सप्ताङ्गुलं समारभ्य गायत्र्यंशाङ्गुलावधि ॥ १३.६८॥ स्कन्धविस्तारमुद्दिष्टं मूलादग्रं त्रिभागतः । अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ॥ १३.६९॥ ऊर्ध्वाग्रे सुषिरोपेता दण्डयष्ट्या स्वरूपकम् । अर्धचित्रस्त्वयःस्कन्धः प्रोक्तो यष्ट्याग्रदेशिकः ॥ १३.७०॥ दण्डप्रान्ते विधेयं स्यात् वलयं स्कन्ध एव च । दण्डप्रोतप्रमाणन्तु दण्डाग्राद्वलयस्थितः ॥ १३.७१॥ तदर्धं वलयादूर्ध्वं यष्ट्यायाम प्रचक्षते । उपदण्डादिदेशे तु हित्वा वस्वङ्गुलं दृढम् ॥ १३.७२॥ आयसं वलयं बध्वा यत्र रज्जुप्रवेशने । वलयं सुदृढं कार्यमुपदण्डाग्रनाहतः ॥ १३.७३॥ कार्पासतन्तुतो रज्जुर्भवेद्दृढतरः समः । तद्दण्डद्विगुणायामे त्रिवृद्ग्रन्थिविवर्जितम् ॥ १३.७४॥ प्रादाक्षिण्यक्रमेणैव वेष्टितो दर्भमालया । शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् ॥ १३.७५॥ चतुस्तालसमं खात्वा तस्मिन् कूर्मं हिरण्मयम् । गजं पद्मं सप्तधान्यं न्यस्त्वा तस्योपरि क्रमात् ॥ १३.७६॥ स्थाप्य दण्डं तदूर्ध्वे तु वालुकैः पूरयेद्दृढम् । प्रासादाभिमुखं स्कन्धं वलयं दक्षिणे भवेत् ॥ १३.७७॥ तन्मूले वेदिकां कुर्याच्चतुस्तालप्रमाणतः । इष्टकाभिश्शिलाभिर्वा कृत्वोर्ध्वाब्जं प्रकल्पयेत् ॥ १३.७८॥ व्योमाङ्गुलप्रवृद्ध्याष्टदशाङ्गुलसमावधि । चतुरङ्गुलमारभ्य कर्णिकायाममीरितम् ॥ १३.७९॥ कर्णिकानिर्गमो दण्डात् पादवृद्ध्यैकमात्रतः । गुणाङ्गुलावधि तथा तदुत्सेधः प्रकीर्तितः ॥ १३.८०॥ चतुरष्टाङ्कुलं पद्मं विकारदलमेव च । वृत्तं वा चतुरश्रं वा विधेयं दलपेशलम् ॥ १३.८१॥ तथोपदलसंयुक्तं तदयुक्तं न कारयेत् । ध्वजारोहणपूर्वेद्युर्निशायामधिवासयेत् ॥ १३.८२॥ स्कन्दं सम्पूज्य विधिवत् नत्वा विज्ञाप्य चोत्सवम् । प्रासादस्याग्रके रम्ये मण्डपं कारयेद् बुधः ॥ १३.८३॥ गोमयालेपनं कृत्वा राजसीं विनिपातयेत् । मण्डपं समलङ्कृत्य वितानैः स्तम्भवेष्टनैः ॥ १३.८४॥ कृत्वा मण्डपसंस्कारं पुण्याहं वाचयेत्सुधीः । त्रिधा वै स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३.८५॥ जगद्भुवेति मन्त्रेण प्रोक्षयेत्स्थण्डिलत्रयम् । शिल्पिना ध्वजबेरं तु नेत्रमोक्षणमाचरेत् ॥ १३.८६॥ पञ्चगव्येन सम्प्रोक्ष्य त्रिपादूर्ध्वे न्यसेत्ततः । अक्षिमोक्षणकं कुर्यात् हेमसूचिकया पुनः ॥ १३.८७॥ (हेमसूचिकया गुरुः) विन्यस्य सूर्यसोमाणुं मयूरस्य तु नेत्रयोः । तर्पयेन्मधुसर्पिभ्यां गायत्र्या प्रोक्षयेत्ततः ॥ १३.८८॥ जलाधिवासनं कुर्याद्दर्पणे चार्धनाडिका । शयनं पूर्ववत्कृत्वा देवाग्रे स्थण्डिले तदा ॥ १३.८९॥ दर्भैः पुष्पैः परिस्तीर्य प्राक्शिरश्शाययेद् ध्वजम् । षट्सूत्रैरात्रिसहितैः कौतुकं बन्धयेत्ततः ॥ १३.९०॥ मध्यमे स्थण्डिले स्थाप्य मयूरं कुम्भमुत्तमम् । अर्चयेत्तत्र धर्मादीनधोर्ध्वच्छदनं पुनः ॥ १३.९१॥ मयूरासनमभ्यर्च्य मूर्तिं सम्पूज्य मूलतः । आवाहयेन्मयूरन्तु तद्ध्यानं संस्मरेद्गुरुः ॥ १३.९२॥ चित्रवर्णं सुरारिघ्नं भुजगोद्धृतवक्त्रकम् । महाबलं महाकायं मयूरं प्रणमाम्यहम् ॥ १३.९३॥ षडङ्गं कल्पयेद्विद्वान् बाह्यदीर्धैस्सबिन्दुकैः । आवाहनादिकान्सर्वान् दत्वा तन्मूलमन्त्रतः ॥ १३.९४॥ ससूत्रतोयं वस्त्राढ्यानष्टकुम्भान्सकूर्चकान् । पूर्वादिक्रमशो न्यस्य लोकपालान्समर्चयेत् ॥ १३.९५॥ नीलकण्ठाय विद्महे चित्रपक्षाय धीमहि । तन्नो मयूरः प्रचोदयात् ॥ (इति मयूरगायत्री) ॥ १३.९६॥ तस्याग्रे स्थण्डिलं कुर्याद्वालुकैर्हस्तमात्रकम् । अग्निकार्योक्तमार्गेण शिवाग्निं जनयेद्बुधः ॥ १३.९७॥ तस्मिन्मयूरमावाह्य सम्पूज्य विधिवद्गुरुः । समिदाज्यचरून लाजान् कृत्वा तन्मूलमन्त्रतः ॥ १३.९८॥ शतमर्धं तदर्धं वा दशाङ्गं तत् षडङ्गकैः । द्रव्यान्ते व्याहृतीर्हुत्वा स्पृष्ट्वा दभैर्ध्वजं पुनः ॥ १३.९९॥ षडाहुतिस्तद्गायत्र्या पूर्णां तु शिरसा हुनेत् । जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् ॥ १३.१००॥ धूपदीपादिकं दत्वा रक्षां विधाय भस्मना । बलिमन्त्रेण बलिं क्षिप्त्वा क्षेत्रपालबलिं क्षिपेत् ॥ १३.१०१॥ ध्वजाधिवासनं प्रोक्तं भेरिताडनमुच्यते । तदग्रे स्थण्डिलं कृत्वा शालिभिर्द्रोणषड्गुणैः ॥ १३.१०२॥ तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् । तण्डुलैश्च तिलैर्दर्भैर्भूषयेत्तु दलं प्रति ॥ १३.१०३॥ वचद्भुवेति मन्त्रेण प्रोक्षयेत्कुम्भवारिणा । (प्रोक्षयेत्कुशवारिणा) तस्योर्ध्वे विन्यसेद्भेरीं नववस्त्रेण वेष्टयेत् ॥ १३.१०४॥ तन्मध्ये रुद्रमभ्यर्च्य दक्षिणे विष्णुमर्चयेत् । वामे ब्रह्माणमभ्यर्च्य सूर्यसोमौ च वृत्तयोः ॥ १३.१०५॥ मातरस्तस्य कीलासु नागांश्चर्मसु पूजयेत् । अर्चयित्वा यथान्यायं भेर्यै दद्याद्गुलोदनम् ॥ १३.१०६॥ तस्याग्रे स्थण्डिलं कुर्यात्तिलतण्डुलशालिभिः । षट्पदं पद्ममालिख्य पूजयेत्तु षडक्षरैः ॥ १३.१०७॥ अलङ्कृत्यास्त्रराजं वै तस्योर्ध्वे विन्यसेद्बुधः । इच्छाज्ञानक्रियाशक्तिस्वरूपां शक्तिमर्चयेत् ॥ १३.१०८॥ रुद्रं तदूर्ध्वपत्रे तु मध्यपत्रे तु माधवम् । अधःपत्रे विधातारं फलकायान्तु पार्वतीम् ॥ १३.१०९॥ सरस्वतीं महालक्ष्मीं तस्य दक्षिणवामयोः । महासेनं कुम्भमुखे वल्लीं सेनाञ्च पार्श्वयोः ॥ १३.११०॥ दण्डाग्रे गणनाथञ्च दण्डमध्ये तु भास्करम् । दण्डमूले सुमित्रेशं मयूरं पीठमध्यमे ॥ १३.१११॥ तस्य पाश्र्वे चाष्टशक्तिं पीठमूले वसुन्धराम् । अग्निं सम्पूज्य तद्वक्त्रे धूपदीपादिभिर्बुधः ॥ १३.११२॥ मयूरमन्त्रमुच्चार्य कीलं सङ्गृह्य देशिकः । त्र्यम्बकेण तु मन्त्रेण ताडयेदेकताडनम् ॥ १३.११३॥ इदं विष्णुश्च मन्त्रेण द्विवारं ताडयेद्गुरुः । ब्रह्मजज्ञानमन्त्रेण त्रिवारं ताडयेत् पुनः ॥ १३.११४॥ देशिकः स्नापयेद् भेरीं प्राङ्मुखो वाप्युदङ्मुखः । गुर्वाज्ञया ततः पश्चात् वाद्यकः सर्वताडवित् ॥ १३.११५॥ उपोषितः शुचिः स्नायी शुक्लपक्षोपवीतकः । शुक्लवस्त्रधरोष्णीषः शिखीभस्मत्रिपुण्ड्रकः ॥ १३.११६॥ शिवदीक्षा विशुद्धात्मा स्कन्धे भेरीं प्ररोपयेत् । शिवादिसर्वदेवेशानिन्द्रादीन् लोकपालकान् ॥ १३.११७॥ त्रयस्त्रिंशत्कोटिदेवानष्टादशगणानपि । समुद्रान् पर्वतान्नागान् पातालस्थान्महोरगान् ॥ १३.११८॥ ऋषीनन्यामरान्सर्वानाहूय च समर्चयेत् । वाद्यकस्ताडयेद्भेरीं बलितालं विशेषतः ॥ १३.११९॥ पश्चादपि पुटं ताड्यं पुनश्चापि पुटाह्वयम् । ततश्चोद्घट्टितं चैव ततो मट्टयमेव च ॥ १३.१२०॥ ततो जम्पुटमेवोक्तं सिंहनादं ततो भवेत् । ततश्च झम्पटश्चैव पञ्चवाद्यमतः परम् ॥ १३.१२१॥ ततः कुम्भकवाद्यञ्च जयशब्दादिसंयुतम् । छत्रं पिञ्छ्समाकीर्णं चामराम्बरसंयुतम् ॥ १३.१२२॥ धूपदीपसमायुक्तं घण्टानादसमायुतम् । सुब्रह्मण्यमस्त्रराजमन्त्रलिङ्गं सुमित्रकम् ॥ १३.१२३॥ ध्वजञ्च ध्वजदण्डञ्च शनैर्ग्रामप्रदक्षिणम् । ब्रह्मादीशानपर्यन्तं सन्धिदेवान् समन्त्रकैः ॥ १३.१२४॥ आवाह्याभ्यर्च्य पुष्पाद्यैरस्त्रमुद्रां प्रदर्शयेत् । ध्वजोत्सवेषु कर्तव्यं देवतावाहनं बलिम् ॥ १३.१२५॥ द्रोणं वापि तदर्धं वा बल्यर्थं तण्डुलं पचेत् । पटेनास्तरणं कृत्वा क्षालयेत् पुरुषेण तु ॥ १३.१२६॥ तस्मिन्निक्षिप्य पक्वान्नमन्नद्रव्यसमायुतम् । अन्नलिङ्गाय मतिमान् द्विःप्रस्थं तण्डुलं पचेत् ॥ १३.१२७॥ अन्तेन कारयेल्लिङ्गं मुनिश्रेष्ठ न संशयः । शुद्धोदनं गुलान्नं वा बलिं दद्यात् स्वमन्त्रतः ॥ १३.१२८॥ ब्रह्मादीशानपर्यन्तं ब्रह्मान्तं वा बलिं क्षिपेत् । वरुणादिनिरृत्यन्तं पश्चिमद्वारहर्म्यके ॥ १३.१२९॥ बलिदानावसाने तु तालं नृत्तं च गीतकम् । ब्रह्मणे ब्रह्मतालं स्यात् मेघरागं तु तद्दिशि ॥ १३.१३०॥ इन्द्रस्य समतालं स्याद्गान्धारङ्गीतमेव च । अग्नेरर्धावणं तालङ्गीतङ्कोल्ली च तद्दिशि ॥ १३.१३१॥ यमस्य भृङ्गिणीतालङ्कौशिकङ्गीतमुच्यते । नैरृत्यां मल्लतालञ्च नट्टभाषां तु गीतकम् ॥ १३.१३२॥ वारुण्यान्नवतालञ्च श्रीकामरञ्च गीतकम् । वायव्यां बलितालञ्च तक्केशीगीतमेव च ॥ १३.१३३॥ सौम्ये नट्टप्रहारं स्यात्तर्करागन्तु तद्दिशी । ऐशान्यां ढक्करीतालं शालापाणिश्च गीतकम् ॥ १३.१३४॥ मध्यमे दण्डपादं स्यात्पूर्वस्यामूर्ध्वपादकम् । आग्नेय्यां मण्डलं चैव भुजङ्गनासितं यमे ॥ १३.१३५॥ भुजङ्गनृत्तं नैरृत्यां वारुण्यां नर्तनी तथा । वायव्यां भ्रमरीनृत्तमालीढञ्च तथोत्तरे ॥ १३.१३६॥ प्रत्यालीढं तथैशान्यां नानारागन्तु तुष्टये । एवं प्रदक्षिणं कृत्वा ध्वजमारोपयेत्ततः ॥ १३.१३७॥ ततो ध्वजपटं सम्यक्बन्धयेदस्त्ररज्जुना । अस्त्रेण क्षुद्रघण्टाञ्च रक्तमालाञ्च बद्धयेत् ॥ १३.१३८॥ ततो जनेभ्यस्ताम्बूलं दापयेन्मङ्गलाय वै । पुण्याहं वाचयेत्तत्र तोयेनाभ्युक्ष्य वेदिकाम् ॥ १३.१३९॥ आधाराख्यमनन्तं च कूर्मञ्च विनिवेशयेत् कोणमध्ये तु धर्मादीनधर्मादींश्च दिक्षु च ॥ १३.१४०॥ दलाष्टके शकुन्यादिमध्यमे विश्वतो मुखीम् । दण्डे तु स्वामिनं पूज्य स्कन्धेष्वर्केन्दुपावकान् ॥ १३.१४१॥ उपदण्डेऽनिलं चैव तक्षादींस्तस्य रज्जुनि । कुम्भाद्बीजं समादाय मयूरं हृदि विन्यसेत् ॥ १३.१४२॥ परं सम्प्रोक्ष्य कुम्भाद्भिर्गन्धपुष्पादिनार्चयेत् । मुद्गान्नं पायसान्नं वा मयूराय निवेदयेत् ॥ १३.१४३॥ स्वामिन्सम्पूज्य विधिवद्विज्ञाप्योत्सवमुत्तमम् । सुमुहूर्ते सुलग्ने तु सर्ववाद्यसमन्वितम् ॥ १३.१४४॥ मयूरतालघोषेण गजतालेन वा ध्वजम् । मयूरमूलमन्त्रेण शीघ्रमारोपयेद्गुरुः ॥ १३.१४५॥ आदौ स्पृष्ट्वा स्वयं चान्यं प्रेरयेद्रोहणाय वै । पूर्वेन्दुपश्चिमाशासु ध्वजाग्रगमनं शुभम् ॥ १३.१४६॥ क्षेमारोग्यं यशोवृद्धिक्रमेण फलमीरितम् । तापोमृत्युमहारोगो वह्निपित्रेशनैरृते ॥ १३.१४७॥ वायौ भयं विजानीयात् पुच्छोऽप्येवं भवेत् सुधीः । आरोहणे निरुद्धश्चेत् पटो देशिकदोषकृत् ॥ १३.१४८॥ दोषशङ्कां तिरस्कार्यो बहुरूपमनुस्मरन् । दण्डे सव्यक्रमेणैव मूले रज्जु निबद्धयेत् ॥ १३.१४९॥ शुद्धोदककृतं पिण्डमष्टदिक्षु दलेषु च । अथवा नवपिण्डानि दिग्विदिक्षु च मध्यमे ॥ १३.१५०॥ द्विगुणं त्रिगुणं पिण्डं चतुर्गुणमथापि वा । निवेद्याभ्यर्चयेद्धीमान् धूपदीपैर्विशेषतः ॥ १३.१५१॥ तत्पिण्डप्राशनफलं श‍ृणु कौशिक सत्तम । पुत्रकामा तु या नारी स्नात्वोपोष्य विषशेतः ॥ १३.१५२॥ प्राशयेत् प्रथमं पिण्डं सा तु पुत्रवती भवेत् । विधवा कन्यका वापि ध्वजपिण्डं न कारयेत् ॥ १३.१५३॥ रोगी रोगविनाशार्थं पापी पापक्षयाय च । यत्रास्ते ध्वजयष्टिस्तु तद्राष्ट्रं वृद्धिमाप्नुयात् ॥ १३.१५४॥ अकालमृत्युस्तत्रास्ति दुर्भिक्षं च न जायते । कृतघ्नो ब्रह्महा गोघ्नो दृष्ट्वा ध्वजनिवेशनम् ॥ १३.१५५॥ सर्वपापविमुक्तोऽभूत् किमुक्तं दर्शनात् फलम् । प्रविशेदालयं पश्चात् वापयेदुत्सवाङ्कुरम् ॥ १३.१५६॥ ऐशान्ये पूर्वभागे वा दक्षिणे पावकेऽपि वा । उत्तरे पश्चिमे वापि कारयेद्यागमण्डपम् ॥ १३.१५७॥ रसादिरुद्रहस्तान्तं मण्डपस्य तु विस्तृतम् । युगाश्रं तु कलास्तम्भं श्रुतिद्वारसमन्वितम् ॥ १३.१५८॥ तन्मध्ये वेदिकां कुर्यान्नवभागैकभागतः । दर्पणोदरसङ्काशं रत्निमात्रोन्नतं दृढम् ॥ १३.१५९॥ कुण्डानि परितः कृत्वा नवपञ्चैकमेव वा । चतुरश्रं भगाकारमर्धचन्द्रं त्रिकोणकम् ॥ १३.१६०॥ वृत्तं षडश्रकं पद्ममष्टाश्रं चाष्टदिक्षु वै । ऐन्द्रेशकुण्डयोर्मध्ये प्रधानं तु षडश्रकम् ॥ १३.१६१॥ चतुरश्रं चतुर्दिक्षु चैशान्यां तु षडश्रकम् । नवपञ्चविधिः प्रोक्तमेककुण्डविधिं श‍ृणु ॥ १३.१६२॥ ऐन्द्रशाङ्करयोर्मध्ये प्रधानं तु षडश्रकम् । मेखलात्रयसंयुक्तं नाभियोनिसमायुतम् ॥ १३.१६३॥ कुण्डलक्षणमात्रेण सर्वकुण्डानि कारयेत् । उत्तमं नवकुण्डं स्यात् पञ्चकुण्डं तु मध्यमम् ॥ १३.१६४॥ अधमं त्वेककुण्डं स्यात् वित्तशाठ्यं न कारयेत् । गोमयालेपनं कुर्यादलङ्कृत्य यथाविधि ॥ १३.१६५॥ पुण्याहं वाचयित्वाथ प्रोक्षयेत्तज्जलेन तु । नैरृते ईशभागे वा वास्तुहोमं समाचरेत् ॥ १३.१६६॥ पर्यग्निकरणं कृत्वा प्रक्षिप्य विकिरानपि । वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३.१६७॥ तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि । तत्रैव पद्ममालिख्य षड्दलञ्च सकर्णकम् ॥ १३.१६८॥ तन्मध्ये स्कन्दकुम्भञ्च द्रोणोदकसुपूरितम् । पूरितं शिवतोयेन द्विपार्श्र्वे वर्धनीद्वयम् ॥ १३.१६९॥ ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् । नवरत्नं प्रधाने तु हेमाब्जं वर्धनीद्वयम् ॥ १३.१७०॥ मध्ये कुमारमावाह्य मूलमन्त्रेण बुद्धिमान् । आसनावरणैरिष्ट्वा ब्रह्माङ्गैरपि पूजयेत् ॥ १३.१७१॥ पूर्वे जगद्भुवं प्रोक्तं पावके तु चतुर्भुवम् । नैरृर्त्यां मुनिशार्दूल यजेद्विश्वभुवं तथा ॥ १३.१७२॥ आप्ये रुद्रभुवं पूज्य वायौ ब्रह्मभुवं तथा । भुवद्भुवं तथैशान्ये कुम्भमूले समर्चयेत् ॥ १३.१७३॥ षड्वक्त्रं चैकवक्त्रं च बेरध्यानाकृतिं यजेत् । महावल्लीं देवसेनामर्चयेद्वर्धनीद्वये ॥ १३.१७४॥ पूर्वादीशानपर्यन्तमष्टकुम्भान्न्यसेद्भुवः । जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ १३.१७५॥ अनन्तरं सूतपतिं सेनान्यं गुहसंज्ञकम् । हेमशूलं विशालाक्षं पूर्वाद्यष्टघटे यजेत् ॥ १३.१७६॥ ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् । प्रत्येकं हेमसंयुक्तान् कुम्भान् पूर्वादिषु क्रमात् ॥ १३.१७७॥ पञ्चैका चतुरो वह्निबाण स्त्रिचतुरस्त्रयम् । संस्थाप्य परितो विद्वान् ऐशान्यामस्त्रवर्धनीम् ॥ १३.१७८॥ दर्पणं पूर्णकुम्भञ्च मयूरं युग्मचामरम् । श्रीवत्सं स्वस्तिकं शङ्खं दीपे देवाष्टमङ्गलम् ॥ १३.१७९॥ वेदिबाह्ये तु परितो न्यस्त्वाभ्यर्च्य यथाविधि । वज्र शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ १३.१८०॥ गदां त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । रक्षार्थं स्थापयेद्देवानस्त्राणि दशदिक्षु च ॥ १३.१८१॥ तोरणानि चतुर्दिक्षु न्यस्त्वा सम्पूजयेत् क्रमात् । शान्तिभूतिबलारोग्यान् तोरणेषु विचक्षणः ॥ १३.१८२॥ शान्तिं सुदेहं सुमुखं शक्रं सर्वे समर्चयेत् । इन्द्राग्निमध्ये मार्ताण्डं वह्निकोणे च पावकम् ॥ १३.१८३॥ याम्ये विद्यां महावल्लीं ततः सेनापतिं यमम् । नैरृते निरृतिं विष्णुं महालक्ष्मीं प्रपूजयेत् ॥ १३.१८४॥ आप्येति मूर्तिं विशिखं गजं वरुणमस्तकम् । (मूर्तिं शिखिनं) वायुं गणेशं क्षेत्रेशं वायव्यां दिशि पूजयेत् ॥ १३.१८५॥ प्रतिष्ठां देवसेनां च सुमित्रं सोममुत्तरे । ईशानमपि धातारं गुरुमैशान्यके यजेत् ॥ १३.१८६॥ तत्तत्स्वनाममन्त्रेण सर्वकुम्भान् समर्चयेत् । तां वाहनादिशक्त्यन्तान् परिवारयुतान् यजेत् ॥ १३.१८७॥ दशायुधानि सम्पूज्य हुम्फडिति स्वनामतः । भोभो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ १३.१८८॥ सावधानेन यागान्तं तावत् स्थेयं गुहाज्ञया । इत्येवं दशलोकेशान् प्रत्येकं श्रावयेद्गुरुः ॥ १३.१८९॥ तृणे बद्धे च वंशे च मेध्या स्तम्भे च पञ्चसु । पूजयेत्तु पृथिव्यादि पञ्चभूतानि च क्रमात् ॥ १३.१९०॥ ततस्तीर्थाङ्कुरं कार्यमग्निकार्यमथाचरेत् । मूर्तिपञ्चाष्टचत्वारपरिवारसमायुतः ॥ १३.१९१॥ आचार्यस्तैः समायुक्तो होमद्रव्याणि गृह्य च । अग्निकार्योक्तमार्गेण प्रधानाग्नौ हुनेद्गुरुः ॥ १३.१९२॥ कुण्डसंस्कारकं कृत्वा सर्वकुण्डानि होमयेत् । समिदाज्यचरुं लाजं त्वपूपं गुलकं मधु ॥ १३.१९३॥ तिलसर्षपमुद्गानि प्रियङ्गुं च दशोच्यते । पलाशदूर्वाखदिरकुशाश्वत्थगलूचिकाः ॥ १३.१९४॥ वटार्कौ समिधः प्रोक्ता पूर्वादीनां दिशां क्रमात् । प्रधाने तु पलाशः स्यात् परिधिस्तेन तेन वै ॥ १३.१९५॥ जगद्भुबादि षड्वक्त्रैः षङ्भिस्तन्मूर्तिमन्त्रकैः । द्रव्याण्येतानि मतिमान् एकैकाहुतिमाचरेत् ॥ १३.१९६॥ मूलमन्त्रेण समिधं आज्यं वै शीर्षमन्त्रतः । तन्मन्त्रेण चरुं हुत्वा लाजं वै शिखया हुनेत् ॥ १३.१९७॥ सक्तुं नेत्रेण मतिमानस्त्रं पञ्च निवेदयेत् । गुलमीशानमन्त्रेण मधु तत्पुरुषेण च ॥ १३.१९८॥ तिलं वै वाममन्त्रेण सर्षपं कवचेन तु । मुद्गं त्वघोरमन्त्रेण प्रियङ्गुं सद्यमन्त्रतः ॥ १३.१९९॥ शतमर्धं तदर्धं वा जुहुयात्तु विशेषतः । द्रव्यान्ते व्याहृतिं हुत्वा पूर्णां तु शिरसा हुनेत् ॥ १३.२००॥ सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् । जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्यजेत् ॥ १३.२०१॥ ब्रह्मादीनां चतुर्दिक्ष मेखलोर्ध्वे बलिं क्षिपेत् । वज्रादीनां ततो मध्ये मेखलायां तथा बलिम् ॥ १३.२०२॥ आचार्यं दक्षिणे पार्श्र्वें कल्पयेन्मण्डलत्रयम् । प्रथमे मण्डले विद्वान् रुद्रादीनां बलिं क्षिपेत् ॥ १३.२०३॥ द्वितीयेऽप्यष्टनागानां आदित्यानां तृतीयके । अग्नेमूर्तिं समादाय कुम्भमध्ये सुयोजयेत् ॥ १३.२०४॥ हविर्निवेदयेत्तत्र गुहाय च महामुने । होमकाले सदा कार्यं भेरी घण्टारवस्वनम् ॥ १३.२०५॥ अस्त्रराजं पुरस्कृत्य सर्वकर्म समाचरेत् । एवं तीर्थदिनान्तं वै सायं प्रातर्हुनेत् बुधः ॥ १३.२०६॥ होमान्ते ध्वजदेवाय नैवेद्यं दापयेद् गुरुः । गजादिपरिवाराणां तत्तत्स्थाने बलिं क्षिपेत् ॥ १३.२०७॥ इन्द्रादिविष्णुपर्यन्तं महापीठे बलिं क्षिपेत् । ततो वै वास्तुदेवानां तत्तद्दिक्षु बलिं क्षिपेत् ॥ १३.२०८॥ अनन्तादुपदंशं च बलिपात्रं निवापयेत् । बलिबेरं यथान्यायं अर्चयेद्गन्धपुष्पकैः ॥ १३.२०९॥ शिरसा धारयित्वा तु पञ्चायुधमिहोत्तमम् । महाशक्तिं धनुर्बाणं अक्षमालां कमण्डलुम् ॥ १३.२१०॥ पञ्चायुधमिदं प्रोक्तं बल्यर्थं च विशेषतः । महाशक्तियुतो वापि बलिं ग्रामे विनिक्षिपेत् ॥ १३.२११॥ ध्वजादिबलिपीठान्तं क्रमेण मुनिसत्तम । पूर्वाण्हे चान्नलिङ्गं तु मध्याह्ने पुष्पलिङ्गकम् ॥ १३.२१२॥ सायाह्ने चाक्षतं लिङ्गं त्रिकाले तु विशेषतः । गुहाग्रे स्थण्डिलं कल्प्य शक्त्यस्त्रं तत्र विन्यसेत् ॥ १३.२१३॥ स्कन्धदेव्या समायुक्तं कौतुकं बन्धयेत् क्रमात् । सौवर्णं राजतं वापि कार्पाससमथापि वा ॥ १३.२१४॥ षट्तन्तुना तु तं सूत्रं भोगमोक्षप्रदं शुभम् । कुङ्कुमेन समायुक्तं ताम्बूलेनोपशोभितम् ॥ १३.२१५॥ नववस्त्रसमोपेतं षट्सूत्रं साधकोत्तमः । स्थलिका स्थण्डिलोर्ध्वे तु रक्षासूत्रं तथैव च ॥ १३.२१६॥ अङ्कुरार्पणसंयुक्तं सर्ववाद्यसमायुतम् । संवाह्य परिचारैश्च कृत्वा ग्रामप्रदक्षिणम् ॥ १३.२१७॥ देवाग्रे न्यस्य मतिमान् पुण्याहं वाचयेत्ततः । त्र्यम्बकेन तु मन्त्रेण सूत्रं प्रागभिमन्त्र्य च ॥ १३.२१८॥ स्कन्धसव्यकरे बध्वा विश्वेशायेति मन्त्रतः । बृहत्सामेति मन्त्रेण भस्म निक्षिप्य बुद्धिमान् ॥ १३.२१९॥ देव्योर्गौरीमिमायेति तथा वामे च बन्धयेत् । महाशक्तेः सुमित्रस्य गुरुः सूत्रं च बन्धयेत् ॥ १३.२२०॥ अर्चयेद् गन्धपुष्पाद्यैर्नववस्त्रेण वेष्टयेत् । तद्रात्रौ तु विशेषेण प्रभूतहविषं ददेत् ॥ १३.२२१॥ ताम्बूलं दापयेत् पश्चात् धूपं दीपं ततो रजः । आरात्रमर्चयेत् धीमान् दत्वा भस्म गुहाय वै ॥ १३.२२२॥ रङ्गे वा शिबिकायां वा देवमारोप्य शास्त्रवित् । शङ्खघोषसमायुक्तं ब्रह्मघोषसमन्वितम् ॥ १३.२२३॥ सर्वालङ्कारसंयुक्तं चित्रध्वजसमन्वितम् । गणिकायूथमभ्याशे सर्ववाद्यास्तदन्तिके ॥ १३.२२४॥ तस्य पाशुपतः प्रान्ते महाव्रतधरास्तथा । महाशैवास्तदन्ते तु ब्राह्मणास्ते तदन्तिके ॥ १३.२२५॥ सुमित्रेशस्तदन्ते तु जनाः सर्वे तदन्तिके । महाभेरीं पुरस्तात्तु यानकाले विशेषतः ॥ १३.२२६॥ स्कन्दं शक्तिद्वययुतं सर्वालङ्कारसंयुतम् । सर्वाभरणसंयुक्तं सर्वदीपसमायुतम् ॥ १३.२२७॥ उत्सवे यानकाले च यः करोति प्रदक्षिणम् । पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ १३.२२८॥ ग्रामप्रदक्षिणं चैव पञ्चनृत्तसमन्वितः । वाद्यादिसर्वसङ्घैश्च प्रदक्षिणमथाचरेत् ॥ १३.२२९॥ ब्रह्मस्थानं समारभ्य प्रविशेत् ब्रह्मसन्धिषु । (ब्रह्मस्थानं समागत्य) पाद्यमाचमनं चार्घ्यं फलादिषु निवेदनम् ॥ १३.२३०॥ घटदीपैश्च कर्पूरमाराधयेत्तु षण्मुखम् । पुनश्चाचमनं चैव शनैः कृत्वालयं विशेत् ॥ १३.२३१॥ सभायां मण्डपे वापि सर्वालङ्कारशोभिते । सिंहे पद्मासने वापि खट्वा पर्यङ्कमध्यमे ॥ १३.२३२॥ अन्येष्वासनभेदेषु वाञ्छितेषु कुमारकम् । नीत्वाग्रे संस्थिताः सर्वे मृदङ्गादिमहारवाः ॥ १३.२३३॥ नर्तको मद्दलः सव्ये वामतो वंशगेयकौ । गुरुर्दक्षिणपार्श्वे तु मूर्तिपैः संयुतः स्थितः ॥ १३.२३४॥ वामपार्श्वे स्थितो राजा स्थानाचार्यस्तु तत्र वै । पार्श्वयोर्देवगणिका नृत्तमध्येष्य गायकम् ॥ १३.२३५॥ देवस्योपरिभागे तु परिचारसमन्विताः । नार्यश्च विबुधाः पार्श्वे चामरव्यजनानि च ॥ १३.२३६॥ पाद्यामाचमनं चार्घ्यं धूपदीपमतः परम् । आरत्त्याप्यर्चयेद्धीमान् भस्म दत्वा गुहाय च ॥ १३.२३७॥ दर्शयेद्दर्पणं छत्रं चामरं व्यजनं गुरुः । नारिकेलोदकं पश्चात् पनसं कदलीफलम् ॥ १३.२३८॥ नैवेद्यं हृदयेनैव ताम्बूलमपि दापयेत् । देवोत्सवस्य मध्ये तु न कुर्यान्मानुषोत्सवम् ॥ १३.२३९॥ मोहेनैव कृतश्चेत्तु यः कर्ता स विनश्यति । ध्वजे ध्वजं न कर्तव्यं कर्तव्यं बर्हिणध्वजम् ॥ १३.२४०॥ रथे वा शिबिकायां वा रङ्गे वा गजवाहने । ग्रामप्रदिक्षणं कुर्यादह्निरात्रौ महोत्सवम् ॥ १३.२४१॥ उच्चैः पादप्रदीपस्तु रात्रौ ग्रामप्रदक्षिणम् । प्रथमे द्विजवृन्दं तु द्वितीयं वाद्यवृन्दकम् ॥ १३.२४२॥ तृतीयं गणिकायूथं चतुर्थं केतुपुञ्जकम् । दीर्घछत्रविधिं पञ्च षष्ठं मुरवसञ्चयम् ॥ १३.२४३॥ सप्तमं तु सुमित्रेशं भक्तानां यूथमष्टमम् । उत्सवस्योपकरणं नवमं परिकीर्तितम् ॥ १३.२४४॥ दशमं जनसङ्घं तु गच्छेत् ग्रामप्रदक्षिणम् । धूपदीपसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १३.२४५॥ नित्यं वै यागहोमञ्च कुर्यात् ग्रामप्रदक्षिणम् । अग्निकार्योक्तमार्गेण होमं कुर्याद्विचक्षणः ॥ १३.२४६॥ पूर्णाहुतिं च मूलेन परिषेचनमाचरेत् । सायाह्ने चोत्सवारम्भः प्रातस्त्ववभृथं भवेत् ॥ १३.२४७॥ उदयाद्येकयामं तु प्रातः कालमिहोच्यते । भानोरस्तमनस्याग्रे याममेकं तथापरे ॥ १३.२४८॥ सायं कालमिति प्रोक्तमुत्सवे होमकर्मणि । होमस्यान्ते बलिः कार्यः पूजावृद्धिकराय वै ॥ १३.२४९॥ अन्नलिङ्गे पाशुपतमस्त्रं चैव समाचरेत् । सम्पूज्य मुकुलं लिङ्गं पद्ममुद्रां प्रदर्शयेत् ॥ १३.२५०॥ बलिदानं प्रकर्तव्यं भेरीशङ्खादिनिस्वनैः । अस्त्रेशमन्नलिङ्गञ्च कृत्वा ग्रामप्रदक्षिणम् ॥ १३.२५१॥ गजादिपरिवाराणां दिनदेवबलिं क्षिपेत् । नवाहेऽष्टादशबलिः सप्ताहे तु चतुर्दश ॥ १३.२५२॥ पञ्चाहे स्याद्दशबलिस्त्रयाहे षट्बलिः स्मृतः । एकाहे द्विबलिः कार्यो विश्वामित्र महामुने ॥ १३.२५३॥ आवाहने बलिः पूर्वमन्ते चोद्वासनम्बलिः । ग्रामप्रदक्षिणे काले देवेशं मञ्चसंस्थितम् ॥ १३.२५४॥ यागेशाभिमुखीकृत्वा धूपदीपं हृदा ददेत् । जगद्भुवेति मन्त्रेण लाजपुष्पाञ्जलिं क्षिपेत् ॥ १३.२५५॥ विघ्नेश्वरश्चतुर्वक्त्रो भूतगन्धर्वजातयः । इन्द्रश्च ऋषयो विष्णुः असुरश्च शिवस्तथा ॥ १३.२५६॥ एते दिनाधिपाः प्रोक्ता एकाहादिक्रमात्ततः । लड्डुकं मधु मुद्गञ्च नन्द्यावर्तं घृतान्वितम् ॥ १३.२५७॥ विघ्नेशमन्त्रं तत्प्रीत्यै प्रथमे दापयेत्तदा । पायसं रक्तपद्मञ्च रम्भाफलघृतान्वितम् ॥ १३.२५८॥ ब्रह्ममन्त्रमनुस्मृत्य द्वितीयेऽहनि दापयेत् । हरिद्रान्नञ्च पुन्नागकूश्माण्डघृतसंयुतम् ॥ १३.२५९॥ गन्धर्वमन्त्रं संस्मृत्य चतुर्थेऽहनि दापयेत् । मुलान्नं जातिपुष्पञ्च पनसाम्रफलं घृतम् ॥ १३.२६०॥ इन्द्रमन्त्रमनुस्मृत्य पञ्चमेऽहनि दापयेत् । दूर्वालक्ष्मीपुष्पयुक्तं वेण्वन्न सूपसंयुतम् ॥ १३.२६१॥ पद्मकन्दमृषिभ्यो वै षष्ठेऽहनि च दापयेत् । तुलसीघृतसयुक्तं गुलान्नं बृहतीफलम् ॥ १३.२६२॥ विष्णुमन्त्रमनुस्मृत्य सप्तमेऽहनि दापयेत् । अपूपं कृसरान्नञ्च कैतकं लाजसंयुतम् ॥ १३.२६३॥ मधुनाप्यसुराणां वै दापयेदष्टमेऽहनि । आरग्वधञ्च शुद्धान्नं निष्पावं पनसाज्यकम् ॥ १३.२६४॥ शिवमन्त्रमनुस्मृत्य नवमेऽहनि दापयेत् । दिनदेवबलिद्रव्यैर्लोकपालबलिं क्षिपेत् ॥ १३.२६५॥ बलिपीठेऽथवा शुद्धे भूतपृष्ठे बलिक्रिया । बलिदानविधौ तत्र ये देवा बलिपार्श्वयोः ॥ १३.२६६॥ तेषामग्रे बलिं दद्यात् स्वनामपदमन्त्रतः । अथवा वीथिमध्ये तु तानुदिश्य प्रदापयेत् ॥ १३.२६७॥ चतुष्पथे पिशाचेभ्यस्त्रिपथे रक्षसां बलिः । सभास्थाने सरस्वत्यै ज्येष्ठायै तु जलाशये ॥ १३.२६८॥ गोस्थाने चण्डरुद्रस्य भीमरुद्रस्य गोपुरे । उत्सवादौ समारभ्य सायम्प्रातर्बलिं क्षिपेत् ॥ १३.२६९॥ एवमेव बलिं दत्वा सर्वप्राणिसुखावहम् । पुष्पालाभे यथा लाभं पुष्पं ग्राह्य बलिं क्षिपेत् ॥ १३.२७०॥ दध्याज्ययुक्तं शुद्धान्नं सर्वेषामपि दापयेत् । कुक्कुटाण्डप्रमाणं वा महापीठे चतुर्गुणम् ॥ १३.२७१॥ बलिं क्षिप्य यथान्यायं पादौ प्रक्षाल्य देशिकः । यागस्थानं प्रविश्याथ मतिमान् मुनिपुङ्गव ॥ १३.२७२॥ अन्नलिङ्गं पाशुपतं पूर्वस्थाने नियोजयेत् । पूजापर्युषितं पुष्पं सुमित्राय प्रदापयेत् ॥ १३.२७३॥ बलिनानुगतो देवो बल्यन्ते च प्रदक्षिणम् । प्रथमे चन्दनं शुभ्रं द्वितीये कुङ्कुमान्वितम् ॥ १३.२७४॥ तृतीये कोष्ठसंयुक्तं चतुर्थे जातिगन्धकम् । पञ्चमे तु हरिद्रञ्च षष्ठेऽहनि लवङ्गकम् ॥ १३.२७५॥ एलालवङ्गसंयुक्तं चन्दनं सप्तमेऽहनि । धनकुङ्कुमकर्पूरं त्रुटिजातिमुरान्वितम् ॥ १३.२७६॥ हिमतोययुतं गन्धमष्टमेऽहनि दापयेत् । नवमे दिवसे विप्र कृष्णगन्धं विशेषतः ॥ १३.२७७॥ पद्मं नीलोत्पलं जातिमल्लिकानीपचम्पकम् । पाटलीकरवीरञ्च वकुलं हल्लकं तथा ॥ १३.२७८॥ नवैतानि च पुष्पाणि दिवसेषु नवस्वपि । गुग्गुलुञ्च घृतं कुष्ठं चन्दनं बिल्वमेव च ॥ १३.२७९॥ निर्यासञ्च घनं चैव कर्पूरमुशिरं तथा । सर्वमध्वाज्यसंयुक्तं धूपद्रव्यं प्रकीर्तितम् ॥ १३.२८०॥ कर्पूरवर्तिना दीपं दापयेल्लघुवर्तिना । शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ १३.२८१॥ (गुलान्नं कृशरान्नकं) वेण्वन्नं च प्रियङ्ग्वन्नं माषान्नं तु यवान्नकम् । ओदनानि नवैतानि दिनेषु च नवस्वपि ॥ १३.२८२॥ पद्मरागं मौक्तिकं च प्रवालं मरकतं तथा । पुष्परागं वज्रनीलं सूर्यवारादिभूषणम् ॥ १३.२८३॥ सर्ववारेषु योग्यानि हारकाभरणानि च । तद्वर्णानि च पुष्पाणि तत्तद्द्वारेषु दापयेत् ॥ १३.२८४॥ प्रथमेऽहनि मञ्चं स्यात् द्वितीये भूतवाहनम् । सिंहारूढं तृतीयेऽह्नि गजारूढं चतुर्थके ॥ १३.२८५॥ पञ्चमे च मयूरं स्यात् षष्ठे वै कल्पतोरणम् । सप्तमेऽह्नि रथारूढं वाजी स्यादष्टमेऽहनि ॥ १३.२८६॥ नवमेऽहनि मञ्चं स्याद् दिनवाहनमीरितम् । दिवाकाले सदा मञ्चं रात्रिकाले तु वाहनम् ॥ १३.२८७॥ सप्तमे दिवसे प्राप्ते रथारूढं दिवा भवेत् । चतुर्थे दिवसे रात्रौ पन्थानकं प्रचक्षते ॥ १३.२८८॥ षष्ठेऽह्नि मुनिशार्दूल वसन्तोत्सवमुत्तमम् । हारिद्रचूर्णं दूर्वापि दत्वा धूरिति मन्त्रतः ॥ १३.२८९॥ गुहाय वल्लीसेनाभ्यां सर्वमङ्गलकारकम् । सर्वेषामपि वर्णानां दापयेद्दानकालके ॥ १३.२९०॥ सप्तमे दिवसे विप्र रथारोहणकर्मणि । यात्रादानं प्रकर्तव्यं गोभूमितिलकाञ्चनैः ॥ १३.२९१॥ श्रोत्रियाय दरिद्राय शिवभक्ताय दापयेत् । रथाढ्याङ्गानि सर्वाणि शोधयेच्छिल्पिवित्तमः ॥ १३.२९२॥ पुण्याहं वाचयित्वाथ रथं सम्प्रोक्ष्य तज्जलैः । सर्वालङ्कारसंयुक्तं रथं सम्पूजयेत् क्रमात् ॥ १३.२९३॥ छत्रदण्डेषु मायाख्या छत्रेषु शशिभास्करौ । भाराख्येषु च दण्डेषु त्वाधारायां समर्चयेत् ॥ १३.२९४॥ परितः पट्टिकाजालैस्तथैकादश रुद्रकान् । गात्रेषु गात्रवृन्देषु धर्माधर्मादिकान् यजेत् ॥ १३.२९५॥ गात्रं गात्रान्तरे वायुं स्थूपिकायां गुहं यजेत् । रथप्रान्ते स्वस्वदिक्षु लोकपालान् समर्चयेत् ॥ १३.२९६॥ तदग्रपार्श्वयोर्विद्वान् जयं च विजयं तथा । मयूरं मध्यदण्डेषु देवान् सर्वांश्च रज्जुषु ॥ १३.२९७॥ एवं सम्पूज्य मतिमान् धूपदीपं ददेत्ततः । बलिं क्षिप्त्वा तु तत्रैव तत्तन्नामादिमन्त्रतः ॥ १३.२९८॥ देवेशं प्रीणयित्वाथ रथमारोप्य तद्दिने । ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ॥ १३.२९९॥ मुद्गसारं नालिकेरं दापयेत्तु विशेषतः । अष्टमे दिवसे विप्र मृगयात्रां समाचरेत् ॥ १३.३००॥ पूर्वादिषु चतुर्दिक्षु गन्तव्या मृगया वने । केचिद्धनुर्धराः केचित् खड्गखेटकधारिणः ॥ १३.३०१॥ अश्वारूढाः गजारूढाः केचिद्युद्धसमुद्यताः । एवं कृत्वा सुराध्यक्षा मृगक्रीडां विलोकयेत् ॥ १३.३०२॥ युद्धारम्भप्रभावेन कुर्याद्ग्रामप्रदक्षिणम् । नालिकेरजले तोयं मुद्गसारं गुलान्वितम् ॥ १३.३०३॥ निवेदयेद्विशेषेण ताम्बूलमपि दापयेत् । नवमे दिवसे विप्र कृष्णगन्धानुलेपनम् ॥ १३.३०४॥ षण्मुखं पूर्वरात्रे तु कौतुकं बन्धयेत्सुधीः । अर्चयित्वा सुगन्धाद्यैर्नैवेद्यमपि दापयेत् ॥ १३.३०५॥ ग्रामप्रदक्षिणं कुर्यात् सप्तविंशद्ग्रहावधि । प्रविशेदालयं पश्चात् प्रदोषे नवमेऽहनि ॥ १३.३०६॥ देवस्याग्रे त्रिपाद्यूर्ध्वे स्थलिकां स्थण्डिलोपरि । विन्यस्य कृष्णगन्धं तु कृत्वा धामप्रदक्षिणम् ॥ १३.३०७॥ पुण्याहं वचयेत्तत्र प्रोक्षयेच्चास्त्रमन्त्रतः । अङ्गन्यासं करन्यासं अन्तर्यजनमाचरेत् ॥ १३.३०८॥ घृतस्नानादिकं कृत्वा भूषयेद्भूषणार्हकैः । (व्रतस्नानादिकं) कर्पूरमिश्रं तद्गन्धं सर्वाङ्गमपि लेपयेत् ॥ १३.३०९॥ आधाराधेयपूजां च कुर्यादपि विशेषतः । षण्मुखीं पद्ममुद्रां च नमस्कारं च दर्शयेत् ॥ १३.३१०॥ पञ्चवक्त्रं ततः कुर्यात् सैकत्रिंशत् कलां न्यसेत् । न्यसेच्च मातृकान्यासं सुमुहूर्ते सुलग्नके ॥ १३.३११॥ धूपदीपं हृदा दत्वा पाद्यमाचमनं हविः । जम्बूफलप्रमाणेन कृष्णगन्धेन षण्मुखम् ॥ १३.३१२॥ जगद्भुवेति मन्त्रेण मूलमन्त्रेण देशिकः । देव्योर्गौरीमिमायेति यदि तन्मूलमन्त्रतः ॥ १३.३१३॥ लेपयेत् कण्ठदेशे तु स्तनमध्ये गुरूत्तमः । मूलबेरस्य तत्पश्चाद् वागीशानां ततः परम् ॥ १३.३१४॥ आचार्यस्य ततः पश्चाद् भक्तानां तु ततः परम् । ततो राज्ञां प्रकर्तव्यं वर्णानामपि तत्परम् ॥ १३.३१५॥ यो वै भक्त्या कृष्णगन्धं लेपयेत् षण्मुखस्य तु । जन्मान्तरकृतं पापं तस्य नश्यत्यसंशयः ॥ १३.३१६॥ तस्मात् सर्वप्रयत्नेन ललाटे लेपयेन्नरः । अलङ्कृत्य मुनिश्रेष्ठ रक्तोत्पलमहोत्पलैः ॥ १३.३१७॥ रक्तमाल्यैर्भूषणैश्च देव्योः षण्मुखमादरात् । धूपदीपादिकं दत्त्वा नैवेद्यं चान्नसूक्ततः ॥ १३.३१८॥ मुखवाससमायुक्तं ताम्बूलं दापयेद्धृदा । पटं विसृज्य देवाय धूपदीपादिदापयेत् ॥ १३.३१९॥ दत्त्वा भस्म नमस्कृत्य प्रार्थयेदर्थमीप्सितम् । सवत्सां गां सुवर्णं च कांस्यपात्रं घृतान्वितम् ॥ १३.३२०॥ तिलं प्रियङ्गुदानं च दापयेद्गुरवे नृप । यात्रादानमिदं प्रोक्तं कर्तुरिष्टप्रदायकम् ॥ १३.३२१॥ उष्णीषं चोत्तरीयं च सर्वाभरणभूषितम् । गुरुरर्घ्यकरो मौनी पीठे देवस्य दक्षिणे ॥ १३.३२२॥ स्थित्वा षडक्षरं मन्त्रं जपेत् सर्वार्थसिद्धये । भेरीमद्दलवीणाभिः शङ्खदुन्दुभिकाहलैः ॥ १३.३२३॥ नानावाद्यसमायुक्तं छत्रध्वजसमन्वितम् । चामरैर्व्यजनैर्युक्तं गणिकायूथसंयुतम् ॥ १३.३२४॥ यन्त्रदीपैः सुदीपैश्च त्रिशूलो यष्टिदीपकैः । शिबिकास्थितदेवेशं कृत्वा ग्रामप्रदक्षिणम् ॥ १३.३२५॥ शनैःशनैश्च मतिमान् बाह्ये सप्तग्रहावधि । दर्शयित्वा नतिं कृत्वा प्रविश्य स्थानमण्डपम् ॥ १३.३२६॥ पृष्ठभागे वाद्यगीतैर्नृत्तैः सन्तोषयेद्गुहम् । स्नापयित्वा महासेनं शुक्लवस्त्रैश्च वेष्टयेत् ॥ १३.३२७॥ कर्पूरधूलिनोद्धृत्य मल्लिकाजातिपुष्पकैः । मुक्तादामैरलङ्कृत्य नैवेद्यं दापयेद् गुरुः ॥ १३.३२८॥ ताम्बूलं मुखवासं च धूपदीपादिदापयेत् । रङ्गे वा शिबिकायां वा रात्रौ यामत्रयात्परम् ॥ १३.३२९॥ पङ्क्तियानं प्रकर्तव्यं हर्म्ये वा पुरतोऽपि वा । वेदध्वनिसमायुक्तं स्तोत्रध्वनिसमन्वितम् ॥ १३.३३०॥ वाद्यसप्तसमायुक्तं गीतनृत्तसमन्वितम् । आस्थानमण्डपं प्राप्य रात्रिशेषं व्यपोह्य च ॥ १३.३३१॥ अरुणोदयवेलायां पुनः स्नानं समाचरेत् । नदीतीरे तडागे वा प्रपायां शुद्धभूतले ॥ १३.३३२॥ पुण्याहं वाचयित्वाथ नवकुम्भञ्च विन्यसेत् । गङ्गां च यमुनां चैव नर्मदां च सरस्वतीम् ॥ १३.३३३॥ सिन्धुं गोदावरीं चैव कावेरीं कुमरीं तथा । स्कन्दतीर्थञ्च तन्मध्ये पूजयेत्स्वस्वमन्त्रतः ॥ १३.३३४॥ अभिषिच्य यथाशक्ति देशिकः परिचारकैः । स्नापयेत्स्कन्दतीर्थेश्च गङ्गास्नानफलं लभेत् ॥ १३.३३५॥ आलयं तु प्रविश्याथ समलङ्कृत्य षण्मुखम् । रथे वा शिबिकायां वा मञ्चे वारोप्य षण्मुखम् ॥ १३.३३६॥ ग्रामप्रदक्षिणं कृत्वा सर्वोपकरणान्वितम् । महावीथीं क्षुद्रवीथीं सर्ववीथीं विशेषतः ॥ १३.३३७॥ आस्थानमण्डपं प्राप्य धूपदीपञ्च दापयेत् । देवस्य परमभागे तु वाद्यघोषैश्च गीतकैः ॥ १३.३३८॥ देवस्याग्रे विशेषेण स्थलशुद्धिं विधाय च । पाद्यमाचमनं चार्घ्यं धूपदीपञ्च दापयेत् ॥ १३.३३९॥ मुद्गसारं निवेद्याथ पिष्टापूपं गुलान्वितम् । उपदंशाज्यसंयुक्तं महाहविर्निवेदयेत् ॥ १३.३४०॥ पानीयाचमनीयञ्च ताम्बूलमुखवासकम् । धूपदीपादिकं दत्त्वा षण्मुखं पूजयेद्गुरुः ॥ १३.३४१॥ ततश्चूर्णोत्सवं कुर्यात् उत्सवान्ते दिने गुरुः । (दिने बुधः) देवाग्रे शुद्धदेशे तु कल्पयेत्स्थण्डिलद्वयम् ॥ १३.३४२॥ जगद्भुवेति मन्त्रेण दर्भैः पुष्पैः परिस्तरेत् । पुण्याहं वाचयेत्तत्र हृदा सम्प्रोक्ष्य बुद्धिमान् ॥ १३.३४३॥ मङ्गलाङ्कुरसंयुक्ते प्राच्यां स्थण्डिलमध्यमे । कौतुकं तु विसृज्याथ तन्मध्ये विन्यसेत्क्रमात् ॥ १३.३४४॥ मुसलोलूखले न्यस्त्वा रक्तवस्त्रेण वेष्टयेत् । शक्तिञ्च पश्चिमे स्थाप्य गुहास्त्रं सम्प्रपूजयेत् ॥ १३.३४५॥ लूखले शक्तिमाधारं मुसले स्कन्दमर्चयेत् । शूर्पे विष्णुं समभ्यर्च्य कुर्यात्तत्रशिरोऽर्पणम् ॥ १३.३४६॥ सुश्लक्ष्णं रजनीचूर्णं द्रोणं वापि तदर्धकम् । लूखले हृदयेनैव निक्षिपेद्रात्रिचूर्णकम् ॥ १३.३४७॥ व्योमव्यापिपदैर्मन्त्रैर्लूखलेनैव घट्टयेत् । तत्रागतजनैर्वापि चूर्णयेद्गणिकाजनैः ॥ १३.३४८॥ रजनीचूर्णमादाय दूर्वा तैलेन संयुतम् । तीर्थकाले प्रयोक्तव्यं स्कन्दं स्कन्दास्त्रयोरपि ॥ १३.३४९॥ मस्तके देवदेवीनां स्कन्दास्त्रे मध्यपत्रके । सुब्रह्मण्येति मन्त्रेण दापयेद्देशिकोत्तमः ॥ १३.३५०॥ अयं कुमारमन्त्रेण ताम्बूलमपि दापयेत् । सुमित्राय गुरुः पश्चात् भक्तानामपि दापयेत् ॥ १३.३५१॥ तत्पश्चाद्रजनीचूर्णं यजमानाय दापयेत् । चूर्णं ग्रामजनानां वै दत्वा शीघ्रं प्रदक्षिणम् ॥ १३.३५२॥ प्रविश्य भवनं पश्चात् तीर्थस्नानमथाचरेत् । सायङ्कालेऽथवा रात्री तीर्थकर्मविशेषतः ॥ १३.३५३॥ नद्यां वाथ तडागे वा समुद्रे वाप्यथापि वा । तीरे समतलं सम्यक् प्रपां कृत्वातिसुन्दराम् ॥ १३.३५४॥ जलक्रीडासमायुक्तं कृत्वा ग्रामप्रदक्षिणम् । कुमारञ्च गुहास्त्रञ्च प्रपामारोप्य शास्त्रवित् ॥ १३.३५५॥ स्थण्डिलद्वितयं कृत्वा शालिभिर्विमलैस्तथा । सङ्कल्पमपि पुण्याहं ब्राह्मणैः सह वाचयेत् ॥ १३.३५६॥ जगद्भुवेति मन्त्रेण प्रोक्षयेच्छुद्धवारिणा । पश्चिमे स्थण्डिले शक्तिं पूर्वकुम्भांश्च विन्यसेत् ॥ १३.३५७॥ ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् । जयन्ताद्यष्टविद्येशान् मध्ये सेनान्यमर्चयेत् ॥ १३.३५८॥ जयशब्दादिसंयुक्तैः स्वस्तिमङ्गलवाचकैः । आवाह्य सर्वदेवांश्च गन्धाद्यैरर्चयेत् क्रमात् ॥ १३.३५९॥ दिग्बन्धञ्च ततः कृत्वा तीर्थस्नानाय मन्त्रवित् । स्थापितैः कलशैर्विद्वानस्त्रराजं प्रपूजयेत् ॥ १३.३६०॥ तत्तीर्थं वारिमध्ये तु व्याहृत्या विन्यसेत् क्रमात् । हे देवि गङ्गे यमुने नर्मदे च सरस्वति ॥ १३.३६१॥ सिन्धु गोदावरी चैव कावेर्यत्र जलाशये । सन्निधी भवतः स्वान्दतीर्थार्थमिह शुद्धये ॥ १३.३६२॥ तस्मिन् तीर्थे च यः स्नात्वा गङ्गास्नानफलं लभेत् । जलक्रीडां प्रकुर्वीत ततो भक्तजनैः सह ॥ १३.३६३॥ तत्तीर्थेनैव मतिमान् सेनान्यमभिषेचयेत् । प्रविश्य भवनं पश्चात् सर्वातोद्यसमन्वितम् ॥ १३.३६४॥ यागपूजाविधिं कुर्यात् होमान्ते यागमूर्तिपम् । (यागमूर्तिनम्) मूलबेरे नियोज्याथ स्नपनं तत्र कारयेत् ॥ १३.३६५॥ यागवेदिस्थितैः कुम्भैः पूजयेन्मूलबेरकम् । गन्धतोयैः शुद्धतोयैर्गन्धाद्यैरर्चयेत्ततः ॥ १३.३६६॥ महाहविर्निवेद्याथ धूपदीपादि दापयेत् । बलिं दत्वा क्रमेणैव बलिपीठे समर्चयेत् ॥ १३.३६७॥ ग्रामप्रदक्षिणं कुर्यात् मौनव्रतधरस्तथा । सन्धिदेवान् विसृज्याथ बलिपीठस्य दक्षिणे ॥ १३.३६८॥ स्थित्वाशिषं ततो जप्त्वा शङ्खभेर्यादिभिः स्वनैः । ध्वजावरोहणं कुर्यात् पुण्याहं वाचयेद्गुरुः ॥ १३.३६९॥ ध्वजस्य दण्डमूले तु पिण्डादि च निवेदयेत् । गजे वा मूलबेरस्य वाहने योजयेद् ध्वजम् ॥ १३.३७०॥ गर्भगेहं प्रविश्याथ पाद्यमाचमनार्घ्यकम् । धूपदीपं हृदा दत्त्वा सर्वकर्म समाचरेत् ॥ १३.३७१॥ सुमित्रयागं वक्ष्येऽहं श‍ृणु कौशिक सुव्रत । अलङ्कृत्य सुमित्रेशं वस्त्रैराभरणैरपि ॥ १३.३७२॥ तस्याग्रे स्थण्डिलं कृत्वा सर्वकर्म समाचरेत् । समिदन्नाज्यधान्यैश्च मूलेनैव हुनेद्बुधः ॥ १३.३७३॥ शतमर्धं तदर्धं वा दशांशं तत् षडङ्गकैः । हुत्वा हविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ १३.३७४॥ धूपदीपादिकं दत्वा सन्धिदेवबलिं क्षिपेत् । बलिपात्रं चान्नलिङ्गमस्त्रराजं विशेषतः ॥ १३.३७५॥ परिचारैः परिवृतो गुरुर्मौनव्रतस्ततः । हुङ्कारो दोपहीनः सन् कुर्याद्ग्रामप्रदक्षिणम् ॥ १३.३७६॥ सन्धौ सन्धौ बलिं दद्यात् त्रिपथे च चतुष्पथे । बलिपीठे बलिं दद्यात् पादौ प्रक्षाल्य बुद्धिमान् ॥ १३.३७७॥ आलयं तु प्रविश्याशु सर्वेषां भस्म दापयेत् । आचार्यं पूजयेत् कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ १३.३७८॥ दक्षिणां दापयेत् पश्चात् गोभूमिकाञ्चनैः सह । षण्णिष्कमधमं ज्ञेयं मध्यमं दशनिष्ककम् ॥ १३.३७९॥ निष्काणां विंशतिः श्रेष्ठं आचार्यस्य तु दक्षिणा । दशभागैकभागं तु मूर्तिपानां तु दक्षिणा ॥ १३.३८०॥ यागोपकरणं सर्वं देशिकाय प्रदापयेत् । भक्तानां परिचाराणां यथाशक्त्या च दक्षिणा ॥ १३.३८१॥ दीनानन्धांश्च भक्तांश्च ब्राह्मणान् भोजयेत् सुधीः । अपरे दिवसे विप्र देव्युत्सवमथाचरेत् ॥ १३.३८२॥ ततोऽधिवासनं कुर्यात् सर्वरात्रं महामुने । समलङ्कृत्य देवेशं देव्योर्भूषैर्विशेषतः ॥ १३.३८३॥ शक्तिद्वयं पुरस्कृत्य सेनान्यं तदनन्तरम् । ग्रामप्रदक्षिणं कृत्वा प्रविश्यास्थानमण्डपम् ॥ १३.३८४॥ धूपदीपं हृदा दत्त्वा नीराजनमनन्तरम् । महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ १३.३८५॥ नित्यं नित्यं रात्रिकाले नृत्तैः सन्तोषयेद्गुहम् । गुहोत्सवविधिः प्रोक्तः समासान्मुनिपुङ्गव ॥ १३.३८६॥ एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् । धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात् ॥ १३.३८७॥ कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् । विजयस्तु भवेन्नित्यं सत्यं सत्यं वदाम्यहम् । इहैव कामान् भुक्त्वान्ते कौमारं लोकमाप्नुयात् ॥ १३.३८८॥ इति श्रीकुमारतन्त्रे उत्सव विधिर्नाम त्रयोदशः पटलः ।

१४. चतुर्दशः पटलः - प्रायश्चित्तविधिः

कौशिकः- उत्सवस्योपकरणे क्रियामन्त्रविहीनके । निमित्ते समनुप्राप्ते पूजाविच्छिन्नके पुनः ॥ १४.१॥ प्रायश्चित्तं कथं देव वक्तुमर्हसि शङ्कर । ईश्वर उवाच- साधु साधु त्वया पृष्टं तच्छृणुष्व महामुने ॥ १४.२॥ मायूरयागहीने तु ध्वजारोहणहीनके । ध्वजलक्षणहीने तु दण्डह्रस्वादिहीनके ॥ १४.३॥ स्कन्धहीने वेदिहीने ध्वजदण्डस्य भग्नके । ध्वजस्य रज्जुविच्छिन्ने तत्रैव ध्वजपातने ॥ १४.४॥ ध्वजघण्टाविहीने तु घण्टापातनके पुनः । भेरीताडनहीने च वेदिकुण्डविहीनके ॥ १४.५॥ वेद्यूर्ध्वस्थण्डिले हीने यागशालादिदग्धके । घोणच्छेदेन पतिते छिन्नयोर्यजनेऽपि च ॥ १४.६॥ शालालङ्करणे वस्त्रे दग्धे सति घटैः सह । वितानध्वजहीने च तोरणानां विहीनके ॥ १४.७॥ स्रुकूस्रुवौ तु विहीने चेदेतौ लक्षणहीनके । दर्भविष्टरहीने च होमद्रव्यविहीनके ॥ १४.८॥ दशायुधविहीने च अष्टमङ्गलहीनके । अङ्कुरार्पणहीने तु पालिकादिर्विहीनके ॥ १४.९॥ अस्त्रयागविहीने च कुम्भस्नपनहीनके । कुम्भवस्त्रविहीने च सुकूर्चविधिहीनके ॥ १४.१०॥ कुम्भे जले विहीने च हेमरत्नविहीनके । सूत्रवेष्टनहीने च वेदिवस्त्रविहीनके ॥ १४.११॥ नैवेद्यादिविहीने च यागदीपविहीनके । कुण्डे च वह्निविच्छिन्ने प्रणीताभिन्नचालने ॥ १४.१२॥ मन्त्रहीने क्रियाहीने समित्परिधिहीनके । बलिद्रव्यविहीने च बलिदानविहीनके ॥ १४.१३॥ बलिलिङ्गविहीने च तद्दिने पतितेऽथवा । अस्त्रेशपतने भङ्गे वेणुदण्डविहीनके ॥ १४.१४॥ (अस्त्रेशपतने भग्ने) आयुधानि प्रणष्टे च भिन्ने वा पतितेऽथवा । बलिपीठविहीने च बलिदानविहीनके ॥ १४.१५॥ बलिदीपविहीने च रात्रिकालेमहामुने । बलिदाने च याने च कालातिक्रमणे सति ॥ १४.१६॥ उत्सवे यानहीने च तत्काले कलहे सति । पूजापर्युषिते द्रव्ये सङ्कुले प्रतिमासु च ॥ १४.१७॥ यानकाले तथा बेरे पतने चाङ्गहीनके । दीक्षान्तरैश्च शूद्रैश्च प्रतिमास्पर्शने तथा ॥ १४.१८॥ तेनैव यागशाला च स्पृष्टे च शुनकादिना । उत्सवे यत्र तद्ग्रामे मनुष्ये च मृते सति ॥ १४.१९॥ परिवेष्टनहीने च नीराजनविहीनके । पताकाद्यग्निना दग्धे युद्धारम्भविहीनके ॥ १४.२०॥ रक्षासूत्रविहीने च कौतुकस्नानहीनके । चूर्णोत्सवविहीने च तीर्थकर्मविहीनके ॥ १४.२१॥ वेद्यूर्ध्वैः स्थापितैः कुम्भैरभिषेकविहीनके । ध्वजावरोहणे हीने शुद्धस्नानविहीनके ॥ १४.२२॥ दिनाधिके तथा न्यूने यानकाले महोत्सवे । पीठोद्वासनहीने च सुमित्रायानहीनके ॥ १४.२३॥ आरभ्य चान्यतन्त्रेण स्कन्दयागे कृते सति । आचार्यदक्षिणाहीने द्विजभोजनहीनके ॥ १४.२४॥ ग्रामकर्तृनृपाणां च लग्नर्क्षप्रतिकूलके । यागोपकरणं सर्वमदत्ते देशिकाय वै ॥ १४.२५॥ एवमादिसमुत्पन्ने प्रायश्चित्तं विधीयते । मयूरयागहीनं चेद्दुष्टसर्पविवर्धनम् ॥ १४.२६॥ मयूरस्नपनं कृत्वा गन्धपुष्पादिभिर्यजेत् । मुद्गान्नञ्च निवेद्याथ शान्तिहोमं समाचरेत् ॥ १४.२७॥ मयूरयागविधिना प्रागुक्तेन समाचरेत् । ध्वजारोहणहीनश्चेत् ध्वजलक्षणहीनके ॥ १४.२८॥ तद्राष्ट्रं भयमाप्नोति राजा दौर्जन्यमाप्नुयात् । ध्वजसङ्कल्पविधिना तद्दोषशमनाय च ॥ १४.२९॥ शान्तिहोमं ततः कुर्याद्ध्वजमारोपयेत्पुनः । ध्वजदण्डादिके न्यूने स्कन्दयष्टिविहीनके ॥ १४.३०॥ उपवेदिविहीनश्चेत् परचक्राद्भयं भवेत् । शिल्पिनं हन्ति सहसा महान्दोषो गुरोर्भवेत् ॥ १४.३१॥ पुनः सलक्षणं दण्डं स्थाप्य सङ्कल्प्य वेदिकाम् । दण्डसम्प्रोक्षणं कृत्वा तदा शान्तिद्वयं जपेत् ॥ १४.३२॥ ध्वजदण्डविभिन्ने च परभूपाद्भयं भवेत् । शान्तिहोमं ततः कृत्वा पुनः सन्धानमाचरेत् ॥ १४.३३॥ ध्वजस्य रज्जुविच्छिन्ने तत्रैव ध्वजपातने । कर्तारञ्च गुरुं हन्ति शान्तिहोमं समाचरेत् ॥ १४.३४॥ अन्यं रज्जुं दृढं ग्राह्यं बध्वा सम्प्रोक्षयेद्बुधः । घण्टाविहीने पतिते बालानां नाशनं भवेत् ॥ १४.३५॥ पुण्याहं वाचयित्वाथ मूलमन्त्रशतं जपेत् । घण्टामस्त्रेण सम्प्रोक्ष्य पुनः सन्धानमाचरेत् ॥ १४.३६॥ भेरीताडनहीनं चेत् भूतप्रेतादिवर्धनम् । स्कन्दस्य स्नपनं कृत्वा ततो भेरीं प्रताडयेत् ॥ १४.३७॥ घोषकाले तु तद्घोणा छेदे वा पतितेऽपि वा । चर्मच्छेदेपि तद्राष्ट्रे सस्यनाशं भवेद्ध्रुवम् ॥ १४.३८॥ मयूरमूलमन्त्रेण हुत्वा जप्त्वा शतं जपेत् । परिग्राह्यान्यभेरीं च तडायेद्विधिना बुधः ॥ १४.३९॥ यागशालाविहीनश्चेत् वेदिकुण्डविहीनके । एतल्लक्षणहीनं चेत् भवेत्तद्ग्रामनाशनम् ॥ १४.४०॥ सहसा विधिना कृत्वा पुण्याहं वाचयेत्ततः । शान्तिहोमं ततः कृत्वा तदूर्ध्वं कर्म कारयेत् ॥ १४.४१॥ वेद्यूर्ध्वे स्थण्डिले हीने सस्यानां नाशनं भवेत् । गव्यैः सम्प्रोक्ष्य मतिमान्मूलमन्त्रैः शतं जपेत् ॥ १४.४२॥ स्थण्डिलं विधिना कृत्वा तत्र कुम्भान् न्यसेत्ततः । यागशालाग्निना दग्धे मध्ये वा चोत्सवस्य तु ॥ १४.४३॥ राजा मरणमाप्नोति परचक्राद्भयं भवेत् । सर्वांस्तान्सहसा त्यक्त्वा सर्वं सङ्कल्प्य पूर्ववत् ॥ १४.४४॥ दिशाहोमं ततः कृत्वा पुनरुत्सवमाचरेत् । विधिना मुनिशार्दूल तद्दिने तु गुरुत्तमाः ॥ १४.४५॥ केवलं यागशाला हि दग्धे कुर्याच्च पूर्ववत् । पुण्याहं वाचयित्वाथ शान्तिहोमं समाचरेत् ॥ १४.४६॥ गुहस्य स्नपनं कृत्वा विशेषाराधनं चरेत् । शालालङ्करणे वस्त्रे दग्धे सति पटैस्सह ॥ १४.४७॥ वितानध्वजहीने च तोरणादिविहीनके । महाव्याधिर्भवेद्राज्ये कल्याणानि विनश्यति ॥ १४.४८॥ स्नपनं पूर्ववत्कृत्वा शान्तिहोमं समाचरेत् । स्रक्स्रुवौ च विहीनौ चेत्तल्लक्षणविहीनके ॥ १४.४९॥ तद्ग्रामवासिनां विप्र ज्वरमारी प्रजायते । शान्तिहोमं ततः कृत्वा कारयेत्तौ सलक्षणौ ॥ १४.५०॥ दर्भविष्टरहीने च शस्त्रबाधा भवेन्नृणाम् । मूलमन्त्रैश्शतैर्हुत्वा दर्भैः परिधिना नयेत् ॥ १४.५१॥ होमद्रव्यविहीनं चेदनावृष्टिर्भविष्यति । महाव्याहृतिभिर्हुत्वा चास्त्रेणैव शतं हुनेत् ॥ १४.५२॥ तक्तद्द्र्व्यं हुनेद्धीमान शास्त्रदृष्टेन वर्त्मना । दशायुधविहीने च तस्करैर्भयमादिशेत् ॥ १४.५३॥ दशाक्षरेण मन्त्रेण जुहुयात्तु शताहुतिम् । सहसा लक्षणैः कृत्वा प्रोक्ष्य स्थानेषु विन्यसेत् ॥ १४.५४॥ अष्टमङ्गलहीने च स्त्रीणां नाशकरं भवेत् । स्कन्दसूक्तस्य षण्मन्त्रैरष्टवारं हुनेत्सुधीः ॥ १४.५५॥ कृत्वाष्टमङ्गलं भूयः प्रोक्ष्य सङ्कल्पयेत्क्रमात् । अङ्कुरार्पणहीने च पालिकादिविहीनके ॥ १४.५६॥ सर्वेषां लक्षणे हीने सस्यनाशं न संशयः । शान्तिहोमं ततः कृत्वा कारयेदङ्कुरार्पणम् ॥ १४.५७॥ अस्त्रयागविहीने च महामारी प्रजायते । मूर्तिहोमं ततः कृत्वा स्नपनं षण्मुखस्य वै ॥ १४.५८॥ यागाधिवासनं तत्र कुर्यात्पूर्वोक्तमार्गतः । कुम्भस्थापनहीने च कुम्भहीने च निर्जले ॥ १४.५९॥ हेमरत्नविहीने च सूत्रवेष्टनहीनके । अपिधानविहीने च कुम्भरत्नविहीनके ॥ १४.६०॥ वेदिवस्त्रविहीने च नैवेद्यादिविहीनके । दुर्भिक्षं जायते भूमौ मूर्तिहोमं समाचरेत् ॥ १४.६१॥ मूलेनैव शतं जप्त्वा सर्वकर्म समाचरेत् । यागदीपविहीने च नेत्ररोगं भवेद्भुवि ॥ १४.६२॥ शान्तिहोमं ततः कृत्वा दीपं द्विगुणमानयेत् । कुण्ड च वह्निविच्छिन्ने दुर्भिक्षं जायते भुवि ॥ १४.६३॥ निष्फलं तस्य तत्कर्म शान्तिहोमं समाचरेत् । भस्मधारं ततोद्वास्य विधानाग्निं निधापयेत् ॥ १४.६४॥ (ततोद्वास्य विधिना) समिदाज्येन चरुणा मूलेनैव शतं हुनेत् । द्रव्यान्ते व्याहृतिं हुत्वा यदस्मिन्निति होमयेत् ॥ १४.६५॥ प्रणीतिर्लीयते भिन्ने गवां व्याधिस्तु जायते । इदं विष्ण्विति मन्त्रेण होमयेद् द्वादशाहुतिम् ॥ १४.६६॥ जुहुयादस्त्रमन्त्रेण शतं वै षोडशाहुतिम् । प्रणीतां पूर्ववत्कृत्वा तदूर्ध्वं कर्म कारयेत् ॥ १४.६७॥ मन्त्रहीने क्रियाहीने दारिद्य्रं जायते गुरोः । महोन्मादो भवेद्भूमौ मूर्तिहोमं समाचरेत् ॥ १४.६८॥ मूलेनैव शतं जप्त्वा तथा पाशुपतं जपेत् । उक्तद्रव्यैश्च मन्त्रैश्च विधिना होममाचरेत् ॥ १४.६९॥ समित्परिधिहीने च प्रजा दुःखमवाप्नुयात् । शान्तिहोमं ततः कृत्वा समित्परिधिमानयेत् ॥ १४.७०॥ बलिद्रव्यविहीने च बलिदानविहीनके । सस्यानां नाशनं तत्र क्षुद्बाधा जायते नृणाम् ॥ १४.७१॥ कृत्वा तदा मूर्तिहोमं स्कन्दमूलं शतं जपेत् । बलिद्रव्यं समासाद्य बलिदानं समाचरेत् ॥ १४.७२॥ बलिलिङ्गविहीने तु भिन्ने च पतितेऽथवा । कर्तुविनाशो भवति परिवारस्य दुर्दशा ॥ १४.७३॥ शान्तिहोमं ततः कृत्वा मूलेनैव शतं हुनेत् । बलिलिङ्गं नवं कृत्वा पुनश्च बलिमाचरेत् ॥ १४.७४॥ अस्त्रेशपतिते हीने नष्टे च मुनिपुङ्गव । राष्ट्रग्रामनृपाणां च शत्रुभिर्भयमादिशेत् ॥ १४.७५॥ पतितश्चेत्तु सम्प्रोक्ष्य शान्तिहोमं समाचरेत् । भिन्ने नष्टे पुनः कृत्वा सम्प्रोक्षणमथाचरेत् ॥ १४.७६॥ शान्तिहोमं ततः कृत्वा तन्मूलेन शतं हुनेत् । पुनर्बलिं ततः क्षिप्त्वा ब्राह्मणान्भोजयेत्ततः ॥ १४.७७॥ अस्त्रस्य दण्डभग्ने च नवदण्डं प्रयुज्य च । पञ्चगव्येन सम्प्रोक्ष्य बलिशेषं समाचरेत् ॥ १४.७८॥ आयुधानि प्रणष्टे च भिन्ने वा पतितेऽपि वा । प्रवर्तते महामारी यागो राक्षसभुग्भवेत् ॥ १४.७९॥ षडक्षरेण मन्त्रेण जपेदष्टोत्तरं शतम् । नष्टे भिन्ने पुनः कृत्वा प्रोक्ष्य संस्थापयेत्सुधीः ॥ १४.८०॥ बलिपात्रविहीने च धनधान्यक्षयं भवेत् । शान्तिहोमं ततः कृत्वा सहसा पात्रमानयेत् ॥ १४.८१॥ बलितालविहीने च न तुष्टाः सन्धिदेवताः । मूर्तिहोमं ततः कृत्वा जगतस्त्राणनाशनम् ॥ १४.८२॥ बलिदीपविहीने तु ग्रामलक्ष्मी गता भवेत् । स्कन्दगायत्रिमन्त्रेण जपेदष्टोत्तरं शतम् ॥ १४.८३॥ द्विगुणं दीपमारोप्य बलिशेषं समाचरेत् । बलिदाने च याने च कालातिक्रमणे सति ॥ १४.८४॥ तद्ग्रामस्य क्षयं प्रोक्तं शान्तिहोमं समाचरेत् । बलिदानं देवयानं कारयेन्मुनिपुङ्गव ॥ १४.८५॥ उत्सवे यागहीने च कर्तुमरणमादिशेत् । मूर्तिहोमं ततः कृत्वा कौतुकं स्थाप्य चार्चयेत् ॥ १४.८६॥ यानक्रमेण मतिमान् कुर्याद्ग्रामप्रदक्षिणम् । तत्काले कलहं विप्र तद्राष्ट्रं कलहं भवेत् ॥ १४.८७॥ शान्तिहोमं ततः कृत्वा जपेदस्त्राणुना शतम् । पूजापर्युषितं द्रव्यं सङ्कुले प्रतिमासु च ॥ १४.८८॥ परचक्राद्भयं भूमौ महामारी प्रवर्तते । शान्तिहोमं ततः कृत्वा जपेत् पाशुपतं शतम् ॥ १४.८९॥ यानकाले तथा बेरे पतने चाङ्गहीनके । ग्रामराष्ट्रनृपाणां च नाशनं भवति ध्रुवम् ॥ १४.९०॥ स्नपनं तत्र कुर्वीत शान्तिहोमं तु कारयेत् । पुनर्यानं प्रकर्तव्यं पतने मुनिपुङ्गव ॥ १४.९१॥ शिरो बाहुस्तथा पादौ हीने तु परिवर्जयेत् । पूर्ववत् प्रतिमां कृत्वा जलाधिवासनं विना ॥ १४.९२॥ प्रतिष्ठां विधिना कृत्वा पुनरुत्सवमाचरेत् । वाहनायुधवस्त्रादिकर्णाङ्गुलिविहीनके ॥ १४.९३॥ पद्मबन्धविहीने तु पुनः सन्धानमाचरेत् । सम्प्रोक्षणं ततः कृत्वा कुर्यात् ग्रामप्रदक्षिणम् ॥ १४.९४॥ मूर्तिहोमं ततः कृत्वा ब्राह्मणान् भोजयेत्सुधीः । दीक्षान्तरैस्तथा शूद्रैः प्रतिमास्पर्शिते यदि ॥ १४.९५॥ तथैव यागशालायां संस्पृष्टे च शुना तथा । तद्ग्रामवासिनां शीघ्रं स्थानभ्रष्टं न संशयः ॥ १४.९६॥ पुण्याहं वाचयित्वाथ गव्यैः सम्प्रोक्षयेत्सुधीः । स्नपनं कारयेद्बिम्बे शान्तिहोमं तु कारयेत् ॥ १४.९७॥ उत्सवं यत्र तद्ग्रामे मनुजे तु मृते सति । वर्णानां दूषणोत्पत्तिः शीघ्रं त्यक्त्वा तु तच्छतम् ॥ १४.९८॥ मूर्तिहोमं ततः कृत्वा हुनेदस्त्राणुना शतम् । परिवेष्टनहीने च राजाज्ञा क्षीयते भुवि ॥ १४.९९॥ स्कन्दसूक्तशतं जप्त्वा शान्तिहोमं समाचरेत् । नीराजनविहीने तु भवेदग्निभयं भुवि ॥ १४.१००॥ षडक्षरेण मन्त्रेण शतं जप्त्वा स मन्त्रवित् । नीराजनं ततः कुर्यात् शास्त्रदृष्टेन वर्त्मना ॥ १४.१०१॥ पताका ह्यग्निना दग्धे महावातप्रकोपनः । तत्त्यक्त्वा सहसा मन्त्री जपेदस्त्राणुना शतम् ॥ १४.१०२॥ मूर्तिहोमं ततः कृत्वा पञ्चशान्तिं जपेत् पुनः । युद्धारम्भविहीनं तु बालानां नाशनं भवेत् ॥ १४.१०३॥ मूर्तिहोमं ततः कृत्वा युद्धारम्भमथाचरेत् । रक्षासूत्रविहीने तु लोकरक्षा विनश्यति ॥ १४.१०४॥ अयुतं जप्य चास्त्राणुं कौतुकं बन्धयेत्ततः कौतुकस्नानहीने तु वृषं नश्यत्यसंशयः ॥ १४.१०५॥ मूर्तिहोमं ततः कृत्वा कौतुकस्नानमाचरेत् । चूर्णोत्सवविहीने तु भवेयुर्विधवा स्त्रियः ॥ १४.१०६॥ दशाक्षरेण मन्त्रेण हुनेदष्टोत्तरं शतम् । मूलमन्त्रशतं जप्त्वा चूर्णोत्सवमथाचरेत् ॥ १४.१०७॥ तीर्थकर्मविहीने तु तद्राष्ट्रं जलवर्जितम् । अस्त्राणुना शतं जप्त्वा तीर्थकर्म समाचरेत् ॥ १४.१०८॥ वेद्यूर्ध्वे स्थापितैः कुम्भैरभिषेकविहीनके । निष्फलं यागकर्म स्यात् मूर्तिहोममथाचरेत् ॥ १४.१०९॥ मूर्तिहोमं ततः कृत्वा कुर्यात्तैरभिषेचनम् । ध्वजावरोहणेहीने महावातप्रकोपनम् ॥ १४.११०॥ मूर्तिहोमं ततः कृत्वा ध्वजं तत्रावरोहयेत् । शुद्धस्नानविहीने च वृष्टिर्नश्यत्यसंशयः ॥ १४.१११॥ शान्तिहोमं ततः कृत्वा स्नपनं तत्र कारयेत् । दिनाधिके महादुःखं कर्तुः सञ्जायते ध्रुवम् ॥ १४.११२॥ मूर्तिहोमं ततः कृत्वा ब्राह्मणानपि भोजयेत् । अपरे दिवसे विप्र तीर्थकर्म समाचरेत् ॥ १४.११३॥ न्यूने चैव तथा कर्तुर्ग्रामस्य च भवेत् क्षयम् । प्रागुक्तविधिना तस्मादुत्सवं कारयेद्बुधः ॥ १४.११४॥ आदौ व्यवस्थितं त्यक्त्वा होमात् पूर्वेऽथवा परे । उत्सवे तु कृते तस्य ग्रामस्य च भवेत् क्षयम् ॥ १४.११५॥ शान्तिहोमं ततः कृत्वा स्नपनं कारयेत्तदा । पूर्वोक्तविधिना धीमान् पुनरुत्सवमाचरेत् ॥ १४.११६॥ पीठोद्वासनहीने च न प्रीताः सन्धिदेवताः । मूलेनैव शतं जप्त्वा पीठोद्वासनमाचरेत् ॥ १४.११७॥ सुमित्रयागहीने तु सर्वकर्म च निष्फलम् । गुहस्य स्नपनं कृत्वा सौमित्रं यागमाचरेत् ॥ १४.११८॥ आरम्भोऽप्यन्यतन्त्रेण स्कन्दयागे कृते सति । राज्ञां सेना क्षयं याति तद्यज्ञं पुनराचरेत् ॥ १४.११९॥ आचार्यदक्षिणेहीने द्विजभोजनहीनके । न लभेत्तत्फलं कर्ता क्षयं प्राप्नोत्यसंशयः ॥ १४.१२०॥ शान्तिहोमं ततः कृत्वा द्विगुणां दक्षिणां ददेत् । ग्रामकर्तृनृपाणाञ्च लग्नर्क्षप्रतिकूलके ॥ १४.१२१॥ ग्रामकर्तृनृपाणाञ्च व्याधिपीडा भवेद्ध्रुवम् । तस्मिन्नपि च यत्कर्म तद्दोषशमनाय च ॥ १४.१२२॥ शान्तिहोमं ततः कृत्वा ब्राह्मणान् भोजयेत्क्रमात् । यागोपकरणं सर्वमददाद्देशिकाय वै ॥ १४.१२३॥ तद्यागं निष्फलं तस्मात् देशिकं पूजयेद्बुधः । अनुक्तं यस्य दोषस्य शान्तिहोमं तु तत्र वै ॥ १४.१२४॥ यागाग्नौ जुहुयाद्धीमान् प्रागुक्तविधिना ततः । आलये पतिते भिन्ने स्फुटिते तृणरूपके ॥ १४.१२५॥ गजोष्ट्रतुरगाद्यैश्च बेरे च चलिते जलैः । भूपतेश्चलनं सद्यो दृढं कृत्वा तु पूर्ववत् ॥ १४.१२६॥ शान्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत् । गृहीते शत्रुभिर्बेरे राजराष्ट्रं विनश्यति ॥ १४.१२७॥ आशु बालालयं कुर्यात् प्रयत्नैर्वत्सरान्तरैः । तद्बेरमेव सङ्ग्राह्य स्थापयेत् पूर्वदेशिकः ॥ १४.१२८॥ तदूर्ध्वेऽन्यं परिग्राह्य प्रतिष्ठां विधिनाचरेत् । अष्टबन्धनहीने तु स्त्रीनाशं तज्जलं भुवि ॥ १४.१२९॥ सहसा बन्धनं कुर्यात् गुहस्य स्नपनं चरेत् । स्थलकर्मविहीने च महामारी प्रजायते ॥ १४.१३०॥ पुनः सन्धानमाचार्यः सम्प्रोक्षणमथाचरेत् । वह्निना दूषिते बेरे शान्तिहोमं समाचरेत् ॥ १४.१३१॥ सम्प्रोक्षणं ततः कुर्यात् विधिना देशिकोत्तमः । परिवारविहीने तु राजसेना च नश्यति ॥ १४.१३२॥ परिवारान् ततः कृत्वा स्थापयेद्विधिपूर्वकम् । बलिपीठविहीने तु गावो नश्यत्यसंशयः ॥ १४.१३३॥ बलिपीठं ततः कृत्वा विधिना स्थाप्य पूजयेत् । नकुलैः सूकरैश्चैव खरकुक्कुटवायसैः ॥ १४.१३४॥ ऋतुस्त्रीचोरचण्डालैः प्रेतकैश्चैव पातकैः । गर्भगेहं प्रविष्टश्चेत् संस्पृष्टे कौतुकेऽथवा ॥ १४.१३५॥ प्रतिलोमानुलोमैश्च पतितैः पापरोगिभिः । मूलबेरे च संस्पृष्टे प्रमादाद्वाऽथ गर्वतः ॥ १४.१३६॥ एतेऽपि नरकं यान्ति राष्ट्रे मारी प्रवर्तते । मृन्मयानि च भाण्डानि त्यक्त्वा लेप्य च गोमयैः ॥ १४.१३७॥ पर्यग्निकरणं कृत्वा सम्प्रोक्षणमथाचरेत् । हस्तोत्खातं च तद्देशं खात्वा पूर्य च वालुकैः ॥ १४.१३८॥ मृत्पात्राणि च सन्त्यक्त्वा गोमयेन विलिप्य च । पुण्याहवाचनं कृत्वा भोजयित्वा द्विजानपि ॥ १४.१३९॥ मूर्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत् । नित्यपूजाविहीने च दुर्भिक्षं जायते भुवि ॥ १४.१४०॥ तद्ग्रामस्था न भुञ्जेयुः भुञ्जेयुश्चेत् क्रिमिं सदा । एकसन्धिविहीने च द्विगुणं चान्यकालके ॥ १४.१४१॥ सन्धिद्वयार्चने हीने पञ्चगव्याभिषेचनम् । सन्धित्रयविहीने च कर्तव्यं शान्तिहोमकम् ॥ १४.१४२॥ अहोरात्रविहीने तु स्नपनं शान्तिहोमकम् । पञ्चाहे स्नपनं कुर्यात् मूर्तिहोमं विशेषतः ॥ १४.१४३॥ पद्महीने दिशाहोमं स्नपनञ्च विशेषतः । मासादूर्ध्वविहीने तु जलसम्प्रोक्षणं मतम् ॥ १४.१४४॥ नित्यहोमविहीने स्यादनावृष्टिर्न संशयः । एकसन्धिविहीने तु हुत्वा पाशुपतं शतम् ॥ १४.१४५॥ सन्धिद्वयविहीन्ने तु मूलेनैव शतं हुनेत् । अयङ्कुमारमन्त्रेण शतमष्टोत्तरं हुनेत् ॥ १४.१४६॥ एकाहे होमहीने तु पञ्चब्रह्मषडङ्गकैः । स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ १४.१४७॥ होमहीने तु पञ्चाहे स्नपनं शान्तिहोमकम् । कृत्वा पाशुपतेनैव जपेत् पञ्चशतं पुनः ॥ १४.१४८॥ पक्षहोमविहीने तु स्नपनं मूर्तिहोमकम् । मासहोमविहीने तु ब्रह्माङ्गैश्च दशाक्षरैः ॥ १४.१४९॥ क्षुरिकाबीजमुख्यैश्च प्रत्येकं तु शतं हुनेत् । मूलमन्त्रशतं जप्त्वा स्नपनं कारयेत् प्रभोः ॥ १४.१५०॥ मासादूर्ध्वविहीने तु शान्तिहोमं समाचरेत् । स्कन्दस्य स्नपनं कृत्वा प्रभूतहविषं ददेत् ॥ १४.१५१॥ सायं रक्षाविहीने तु बालानां नाशनं भवेत् । स्नपनं पञ्चगव्येन सायं रक्षा समाचरेत् ॥ १४.१५२॥ नीराजनविहीने तु क्षुद्भयं ग्रामवासिनाम् । द्वारपूजाविहीने तु तस्करैर्भयमादिशेत् ॥ १४.१५३॥ मूलमन्त्रशतं हुत्वा नीराजनमथाचरेत् । द्वारदेवान्स्वमन्त्रेण गन्धपुष्पादिनार्चयेत् ॥ १४.१५४॥ नित्योत्सवविहीने तु धान्यनाशं न संशयः । सन्ध्यैकेन विहीने तु स्नपनं पञ्चगव्यकैः ॥ १४.१५५॥ मूलमन्त्रशतं जप्त्वा नित्योत्सवमथाचरेत् । सन्धिद्वयविहीने तु शान्तिहोमं समाचरेत् ॥ १४.१५६॥ पञ्चाहे चोत्सवे हीने स्नपनं शान्तिहोमकम् । दशाहे तु तथा कृत्वा मूलमन्त्रशतं हुनेत् ॥ १४.१५७॥ पक्षाहे च तथा कृत्वा मूलमन्त्राच्छतं हुनेत् । मासनित्योत्सवे हीने ब्रह्माङ्गैर्बीजमुख्यकैः ॥ १४.१५८॥ दशाक्षरैस्तथा हुत्वा प्रत्येकं तु शतं हुनेत् । मासादूर्ध्वविहीने तु दिशाहोमं तदूर्ध्वके ॥ १४.१५९॥ सौख्यगेये विहीने च महामारी प्रवर्तते । एकसन्धिविहीने च पञ्चगव्याभिषेचनम् ॥ १४.१६०॥ पञ्चाहे तु तदूर्ध्वे तु मूलमन्त्रशतं जपेत् । अर्धमासविहीने तु तदूर्ध्वं तच्छतं जपेत् ॥ १४.१६१॥ एकमासविहीने तु पञ्चब्रह्मषडङ्गकैः । त्र्यम्बकेन तु मन्त्रेण तदूर्ध्वं होमयेच्छतम् ॥ १४.१६२॥ मासादूर्ध्वविहीने तु तेषामूर्ध्वं महाहविः । सौख्यदीपविहीने तु नेत्ररोगं भवेन्नृणाम् ॥ १४.१६३॥ आरोप्य द्विगुणं दीपमघोरेण शतं जपेत् । गेयवंशविहीने तु वाद्यशङ्खविहीनके ॥ १४.१६४॥ सस्यानां नाशनं प्रोक्तं निष्कृतिः सौख्यगेयवत् । नृत्तकाले तु गणिका पतने तु विशेषतः ॥ १४.१६५॥ कर्ता दुरितमाप्नोति शान्तिहोमं समाचरेत् । सौख्यश्लोकविहीने तु बधिरत्वं प्रवर्तते ॥ १४.१६६॥ सौख्यगानविधानेन निष्कृतिश्च विधीयते । गन्धद्रव्यविहीने च स्त्रीनाशं सस्यनाशनम् ॥ १४.१६७॥ अघोरेणशतं जप्त्वा तद्द्रव्यं द्विगुणं ददेत् । पुष्पार्घ्यधूपहीने च वृष्टिर्नश्यत्यसंशयः ॥ १४.१६८॥ मूलमन्त्रं शतं जप्त्वा तद्द्र्व्यद्विगुणं भवेत् । हीने निर्वाणदीपे चेत् भूतप्रेतादिवर्धयेत् ॥ १४.१६९॥ एकाहे द्विगुणं दीपं तदूर्ध्वे सौख्यगेयवत् । सन्ध्या दीपविहीने तु सर्वदोषावहं नृणाम् ॥ १४.१७०॥ एकस्य द्विगुणं दीपं विधिनारोपयेत्सुधीः । मन्त्रव्यतिक्रमे पूजा तत्सर्वं निष्फलं भवेत् ॥ १४.१७१॥ शान्तिहोमं ततः कृत्वा मूलमन्त्रशतं जपेत् । नैवेद्यदीपहीने च दुर्भिक्षं जायते भुवि ॥ १४.१७२॥ एकसन्धिविहीने तु तद्द्र्व्यं द्विगुणं मतम् । सन्धिद्वयविहीने तु कुर्याद्गव्याभिषेचनम् ॥ १४.१७३॥ सन्धित्रयविहीने तु तदूर्ध्वे स्नपनञ्चरेत् । पञ्चाहेन विहीने तु तदूर्ध्वे तु षडक्षरैः ॥ १४.१७४॥ घृतेन जुहुयाद्धीमान् अष्टोत्तरशताधिकम् । दशाहे स्नपनं कृत्वा मूर्तिहोमं समाचरेत् ॥ १४.१७५॥ एकमासविहीने तु दिशाहोमं समाचरेत् । स्कन्दस्य स्नपनं कृत्वा पूजयेत्तु विशेषतः ॥ १४.१७६॥ मासादूर्ध्वे विहीने तु जलसम्प्रोक्षणञ्चरेत् । पूर्व विनिश्चितद्रव्यं यावत्काले विहीनके ॥ १४.१७७॥ सम्यक् समूह्य तत्सर्वं षण्मुखाय निवेदयेत् । सन्ध्यातिक्रमणेनैव ग्रामनाशं धनक्षयम् ॥ १४.१७८॥ षडक्षरेण जुहुयात् आहुत्यास्तु सहस्रकम् । नैवेद्योत्थापने काले पतने लङ्घने नरैः ॥ १४.१७९॥ सस्यानां नाशनं प्रोक्तं तदन्नं परिवर्जयेत् । मूलमन्त्रं शतं जप्त्वा पक्कान्नं सहसा ददेत् ॥ १४.१८०॥ मार्जनालेपनं हीनं शङ्खघोषविहीनके । गवां नाशकरं प्रोक्तं निर्वीर्या पृथिवी भवेत् ॥ १४.१८१॥ मालामन्त्रशतं जप्त्वा मार्जनादि च कारयेत् । बिम्बे पुष्पविहीने च ज्वरमारी प्रवर्तते ॥ १४.१८२॥ दुर्नीतिर्दुर्मृतिश्चैव दुर्भिक्षमपि जायते । महाहविर्निवेद्याथ तत्तत्सर्वं समाचरेत् ॥ १४.१८३॥ स्पृष्टे दीक्षान्तरैर्बिम्बे शूद्रैरपि तथा पुनः । परचक्राद्भयं भूमौ पुण्याहं वाचयेत्सुधीः ॥ १४.१८४॥ शान्तिहोमं ततः कृत्वा स्नपनङ्कारयेत्प्रभोः । उत्सवान्तं दिनान्तं वा लब्धमासे तु कारयेत् ॥ १४.१८५॥ पवित्रारोहणे हीने मासपूजाविहीनके । नवनैवेद्यहीने च दुर्भिक्षं जायते भुवि ॥ १४.१८६॥ मूर्तिहोमं ततः कृत्वा भूसुरानपि पूजयेत् । कृत्तिकादीपहीनं चेत् अनावृष्टिर्न संशयः ॥ १४.१८७॥ शान्तिहोमं ततः कृत्वा स्नपनङ्कारयेत्प्रभोः । लब्धमासेऽग्निक्षत्रे कृत्तिकादीपमाचरेत् ॥ १४.१८८॥ तैलाभ्यङ्गविहीने च दारिद्र्यं ग्रामवासिनाम् । मूलमन्त्रैः शतं कृत्वा तैलाभ्यङ्गं समाचरेत् ॥ १४.१८९॥ मन्त्रसंस्कारदोषेण राजराष्ट्रं विनश्यति । सम्प्रोक्षणं ततः कृत्वा तन्मन्त्रेणैव पूजयेत् ॥ १४.१९०॥ आचार्यसङ्करं चैव कर्तुर्ग्रामस्य नाशनम् । मूर्तिहोमं ततः कृत्वा पूर्वाचार्येण पूजयेत् ॥ १४.१९१॥ अनुक्तं यद्भवेत् किञ्चिच्छान्तिहोमेन शाम्यति । मन्त्रेऽनुक्ते क्रियाणां तु हृदयेनैव कारयेत् ॥ १४.१९२॥ एवं यः कुरुते मर्त्यः स पुण्याङ्गतिमाप्नुयात् ॥ १४.१९३॥ इति श्रीकुमारतन्त्रे प्रायश्चित्तविधिर्नाम चतुर्दशः पटलः ।

१५. पञ्चदशः पटलः - जीर्णोद्धारविधिः

जीर्णोद्धारविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । सर्वशान्तिकरं पुण्यं सर्वव्याधिविनाशनम् ॥ १५.१॥ राष्ट्रग्रामनृपाणाञ्च हितार्थं गुरुशिल्पिनोः । जीर्णोद्धारं यः करोति फलं पूर्वाच्चतुर्गुणम् ॥ १५.२॥ जीर्णोद्धारं न कुर्याच्चेत् राजराष्ट्रं विनश्यति । तस्मात्सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥ १५.३॥ जीर्णं लोहजबेरं चेत् तल्लोहेनैव कारयेत् । शैलजं दारुजं चेत्तु वर्जयेत् कुशिकात्मज ॥ १५.४॥ यद्रूपं यन्मयं पूर्वं तथैव परिकल्पयेत् । अन्यथा कारितं चेत्तु राजराष्ट्रं विनश्यति ॥ १५.५॥ शैलं जीर्णं समुद्धृत्य शकटे वा गजेऽपि वा । रथे वा शिबिकायां वा विधिनारोप्य बुद्धिमान् ॥ १५.६॥ समुद्रे वा तडागे वा कूपे वाऽपि विसर्जयेत् । दारुजङ्कारयेद्भूमौ पश्चिमे चोत्तरेऽपि वा ॥ १५.७॥ गजोष्ट्रतुरगैश्चोरैर्विषनागेश्वरैरपि । पतिते चलिते भग्ने नदीस्रोतेन वा पुनः ॥ १५.८॥ वह्निना दह्यमानेऽपि जीर्णोद्धारं विधीयते । क्षेत्रे जीर्णे तु तत् क्षेत्रे स्थापयेत्तु प्रयत्नतः ॥ १५.९॥ नदीवेगेन चलितं शतदण्डं व्यपोह्य च । द्विशतं द्विगुणं वाऽपि चतुर्गुणमथापि वा ॥ १५.१०॥ तस्योत्तरेषु पूर्वेषु दक्षिणे चाथवा पुनः । आरोप्य च शुचौ देशे कृत्वा गेहप्रमाणवत् ॥ १५.११॥ स्थापनं तत्र कर्तव्यं नेत्रोन्मीलनवर्जनम् । जलाधिवासरहितं शेषकर्माणि कारयेत् ॥ १५.१२॥ अङ्गस्योपाङ्गप्रत्यङ्गमङ्गानि त्रिविधानि च । अङ्गं प्रधानं मूलं स्यादुपाङ्गमथ कथ्यते ॥ १५.१३॥ वक्षोदण्डकटीदण्डबाहुकूर्परकद्वयम् । ऊरू जानू च जङ्घे च पाणी पादतलाङ्गुली ॥ १५.१४॥ उपाङ्गं त्रिविधं ज्ञेयं आयुधाभरणानि च । वस्त्रवाहनपीठानि प्रत्यङ्गमिति कीर्तितम् ॥ १५.१५॥ ब्रह्मदण्डविहीनं चेत् शूलस्थापनमुच्यते । प्रत्यङ्गोपाङ्गहीने च पुनः सन्धानमाचरेत् ॥ १५.१६॥ आसप्तदिवसात् पूर्वं कुम्भे त्वावाह्य कारयेत् । तदूर्ध्वे बालहर्म्यं वै कृत्वा सम्प्रोक्षणं चरेत् ॥ १५.१७॥ लोहजं शैलजं बेरं मृण्मयं वा सुधामयम् । शिरोबाहू तथा चोरू हीने स्यात् परिवर्जयेत् ॥ १५.१८॥ अङ्गुलीनखनासाग्रं पुनः सन्धानमाचरेत् । सन्धानयोग्यं सन्धार्यमयोग्यं न प्रयोजयेत् ॥ १५.१९॥ वस्तुहीनं न कर्तव्यं कुर्याद्वस्त्वधिकेन तु । पूर्वात्कुर्यात्पूर्वमानात् अङ्गके श्रीकरं भवेत् ॥ १५.२०॥ विहीने नाशकृत्प्रोक्तं तस्माद्धीनं न कारयेत् । मासपक्षर्क्षवारादीनविचार्य समाचरेत् ॥ १५.२१॥ जीर्णोद्धारं न कुर्याच्चेन्महादोषोऽभिजायते । तद्दुष्टभूतवेतालपिशाचब्रह्मराक्षसाः ॥ १५.२२॥ प्रेताश्च देवशून्यत्वादाश्रयन्ति न संशयः । कुर्वन्ति ते भयं ह्युग्रं दुर्भिक्षं मरणं नृणाम् ॥ १५.२३॥ अर्चितं चेन्निहत्याशु तस्माज्जीर्णं समाचरेत् । (तस्माज्जीर्णं समुद्धरेत्) मन्दिरे चोद्धृते तत्र बिम्बे निर्दोषसंस्थिते ॥ १५.१४॥ बालहर्म्यं ततः कृत्वा बालस्थानोक्तमार्गतः । हर्म्याग्रे पञ्चरे वापि त्रिबेरं तु समाचरेत् ॥ १५.२५॥ स्तूप्याद्याद्येष्टकानाञ्च खात्वा त्यक्त्वान्यशेषकम् । प्रथमेष्टिकां क्षिपेत्प्राग्वद्गर्भन्याससमायुतम् ॥ १५.२६॥ यावन्मन्दिरपर्यन्तं तावत्कृत्वा सलक्षणम् । यद्द्रव्येणोद्धृतं हर्म्यं यत्प्रमाणं यदाकृतिम् ॥ १५.२७॥ तद्द्रव्येण पुनः कुर्यात् प्रमाणेन तु बुद्धिमान् । सर्वावयवसम्पूर्णं यथाशोभं यथाबलम् ॥ १५.२८॥ दार्विष्टकाशिला यत्र जीर्णं प्रासादके पुनः । कर्मयोग्यास्तु सम्पाह्य अयोग्यान् परिवर्जयेत् ॥ १५.२९॥ हीनमानोद्धृते धाम्नि शास्त्रोक्तेनाथ कर्मतः । पूर्वाद्धीनं न कर्तव्यमुत्कृष्टं शुभदं स्मृतम् ॥ १५.३०॥ स्तूपी नासी च शाला च कपोतीकूटपञ्जरम् । एतेष्वङ्गं यथा हीनं तथा तद्वस्तुना पुनः ॥ १५.३१॥ परिवारालये जीर्णे तस्योद्धारणकर्मसु । तत्तद्धामाग्रके पोठे कृत्वा मूर्तिं समाचरेत् ॥ १५.३१॥ (मूर्तिं समर्चयेत्) स्थापितेनोक्तदेशे तु तद्बिम्बं मन्त्रतन्त्रकैः । उक्तस्थाने प्रकर्तव्यं परिवारादिकान् क्रमात् ॥ १५.३३॥ जीर्णे तु गोपुरे तत्र प्रासादस्योक्तवर्त्मनः । (प्रासादस्योक्तमार्गतः) अन्येषां मण्डपादीनां प्रासादस्योक्तमार्गतः ॥ १५.३४॥ एवं सामान्यमुदितं विशेषमधुनोच्यते । इष्टकायाः परं पीठं पीठादाभासमुत्तमम् ॥ १५.३५॥ (इष्टकायाः वरं) आभासादर्धचित्रं स्यादर्धचित्रात्तु दारुजम् । दारुजान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलजं स्मृतम् ॥ १५.३६॥ शैलजाल्लोहजं श्रेष्ठं लोहजाद्रत्नजं तथा । चित्रञ्च चित्रमन्यच्चेत्पूर्ववन्मूलबेरकम् ॥ १५.३७॥ द्रव्योत्कृष्टेन कर्तव्यं विपरीतं न कारयेत् । आदिशैवकुलोद्भूतः प्रागुक्तो लक्षणो गुरुः ॥ १५.३८॥ सुस्नातः सकलीकृत्य गन्धपुष्पैरलङ्कृतः । नववस्त्रधरोष्णीषो हैमपञ्चाङ्गभूषणः ॥ १५.३९॥ नत्वा गणाधिपं पूर्वं गन्धपुष्पादिभिर्यजेत् । सङ्कल्पमपि पुण्याहं वाचयेत्प्रोक्ष्य तज्जलैः ॥ १५.४०॥ सुब्रह्मण्यं ततोऽभ्यर्च्य गन्धपुष्पादिभिः क्रमात् । जीर्णबेरं त्याज्यमिति भगवद्वाक्यनिर्णयात् ॥ १५.४१॥ जीर्णोद्धारङ्कर्म कर्तुमनुग्रह षडानन । इति प्रणम्य विज्ञाप्य देवस्यानुज्ञया गुरुः ॥ १५.४२॥ स्कन्दाग्रे स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ १५.४३॥ समिदाज्यचरूंल्लाजं सर्षपं क्षीरमेव च । तिलं माषं ततो मुद्गं प्रियङ्गुं च गुलं मधु ॥ १५.४४॥ द्रव्याणि द्वादशैतानि होमयेत्तु विचक्षणः । जगद्भुवादिषण्मन्त्रैस्तत्तत्षण्मूर्तिमन्त्रकैः ॥ १५.४५॥ समिदाज्यचरून् हुत्वा प्रत्येकन्तु त्रयाहुतिम् । स्कदन्मूलेन जुहुयात्समिधं ब्रह्मवृक्षजम् ॥ १५.४६॥ घृतमीशानमन्त्रेण पुरुषेण चरुं हुनेत् । लाजांस्त्वघोरमन्त्रेण सर्पिषं वाममन्त्रतः ॥ १५.४७॥ सद्योजातेन गोक्षीरं तिलं पाशुपतेन च । माषं कवचमन्त्रेण मुद्गं हृदयमन्त्रतः ॥ १५.४८॥ प्रियङ्गुं नेत्रमन्त्रेण गुलं वै शीर्षमन्त्रकः । मध्वस्त्रेणैव जुहुयात्प्रत्येकन्तु शताहुतिम् ॥ १५.४९॥ द्रव्यान्ते व्याहृतीर्हुत्वा पूर्णां तु शिरसा हुनेत् । हव्यवाहेन मन्त्रेण स्विष्टकृद्धोमयेत्सुधीः ॥ १५.५०॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् । शान्तिहोममिति प्रोक्तं हृत्कुम्भस्थापनं श‍ृणु ॥ १५.५१॥ पुण्याहवाचनं कृत्वा कारयेदङ्कुरार्पणम् । स्कन्दाग्रे स्थण्डिलं कृत्वा द्विद्रोणै रक्तशालिभिः ॥ १५.५२॥ षड्दलं पद्ममालिख्य प्रोक्ष्य गायत्रिमन्त्रतः । द्रोणतोयेन सम्पूर्णं कुम्भं बिम्बसमप्रभम् ॥ १५.५३॥ चूतपल्लवकूर्चाढ्यं रत्नहोमाब्जसंयुतम् । सवस्त्रगन्धमालाभिस्तन्मध्ये स्थापयेत्सुधीः ॥ १५.५४॥ पार्श्वयोर्द्वयवर्धन्यौ शिवतोयेन पूरितौ । सर्वालङ्कारसंयुक्तौ स्थापयेद्विधिपूर्वकम् ॥ १५.५५॥ पूर्वादीशानपर्यन्तमष्टकुम्भान्न्यसेत्क्रमात् । पुनर्बिम्बप्रवेशाय पूजासिद्ध्यर्थये नृणाम् ॥ १५.६६॥ त्यक्त्वा दोषोत्थितं बेरं कुम्भेष्वागच्छतु प्रभो । (त्यक्त्वा दोषाच्झितं) इदं मन्त्रं समुच्चार्य पुष्पाञ्जलियुतो गुरुः ॥ १५.५७॥ बिम्बान्तस्थं स्कन्दबीजं विन्यसेत्कुम्भमध्यमे । आधाराधेयपूजां च पञ्चावरणपूजनम् ॥ १५.५८॥ आवाहनादिसंस्कारदशकर्माङ्कुराततः । धनुः पद्मत्रिशूलञ्च मकरं सृङ्नमस्कृतम् ॥ १५.५९॥ षण्मुखं कुम्भवक्त्रे तु दर्शयित्वा समाचरेत् । दक्षिणस्थितवर्धन्यां महावल्लीं तथा यजेत् ॥ १५.६०॥ वामे स्थितायां वर्धन्यां देवसेनां यजेत्तथा । शकुन्याद्यष्टशक्तीश्च पूर्वादिषु यजेद्बुधः ॥ १५.६१॥ स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् । वर्धन्योश्चाष्टकुम्भेषु योनिमुद्रां प्रदर्शयेत् ॥ १५.६२॥ पञ्चायुधानि कुम्भाग्रे रक्षणार्थं यजेद्गुरुः । शक्तिदण्डं प्रासदण्डं खङ्गतोमरबीजतः ॥ १५.६३॥ हृत्कुम्भस्थापनं ह्येवं विश्वामित्र महामुने । यात्राहोमं ततः कुर्यात्कुण्डे वा स्थण्डिलेऽपि वा ॥ १५.६४॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । समिदाज्यचरूंल्लाजं माषशालियवं तिलम् ॥ १५.६५॥ सक्तुसर्षपमुद्गानि पञ्चब्रह्मषडङ्गकैः । सहस्रं वा तदर्धं वा स्कन्दमूलेन सर्पिषा ॥ १५.६६॥ देव्योर्दशांशं जुहुयादस्त्रेणैव शतं हुनेत् । अघोरेण शतं हुत्वा स्विष्टमर्हेति होमयेत् ॥ १५.६७॥ जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात् । सुब्रह्मण्याय नैवेद्यमुपदंशसमन्वितम् ॥ १५.६८॥ सगुलं घृतसम्पूर्णमपूपं मधुसंयुतम् । नालिकेराम्रपनसं फलयुक्तं दधिप्लुतम् ॥ १५.६९॥ पानीयमपि ताम्बूलं विशेषेण न्यवेदयेत् । धूपदीपं हृदा दत्वा दर्पणादीनि दर्शयेत् ॥ १५.७०॥ पूर्णाहुतिं ततो हुत्वा रुद्रादीनां बलिं क्षिपेत् । ज्ञानखड्गधरो भूत्वा त्वदाज्ञेति वदेत् गुरुः ॥ १५.७१॥ मण्डपस्येशदिग्भागे सर्वालङ्कारशोभिते । शालिभिः स्थण्डिलङ्कृत्वा कुम्भानुद्धृत्य विन्यसेत् ॥ १५.७२॥ संरक्ष्य चास्त्रमन्त्रेण सेनान्यं सन्निरोध्य च । यावत्प्रतिष्ठादिवसं तावत्पूर्ववदाचरेत् ॥ १५.७३॥ कुद्दालं वा खनित्रं वा पूजयेदस्त्रमन्त्रतः । शान्तिकुम्भस्थतोयेन बिम्बं तत्राभिषिच्यते ॥ १५.७४॥ उच्चरेन्नेत्रमन्त्रेण जीर्णबेरं द्विजोत्तमैः । (उद्धरेत्तेन मन्त्रेण जीर्णबेरं) इन्द्रादिविष्णुपर्यन्तं दशदिक्षु बलिं क्षिपेत् ॥ १५.७५॥ नववस्त्रैश्च पुष्पैश्च समलङ्कृत्य बेरकम् । आचार्यो मूर्तिपैः सार्धं सहायैर्वेदवित्तमैः ॥ १५.७६॥ नृत्तवाद्यसमायुक्तं स्तोत्रमङ्गलसंयुतम् । ततो भक्तजनैः सार्धं जीर्णोत्सवमथाचरेत् ॥ १५.७७॥ रथे वा शिबिकायां वा गजे वाऽरोप्य बुद्धिमान् । स्वस्तिसूक्तं जपित्वा तु शिवभक्तियुतैर्द्विजैः ॥ १५.७८॥ समुद्रे वा तडागे वा नद्यां वा स्रोतसि क्षिपेत् । दारुजं मृण्मयं शैलं पटं वाऽप्सु विसर्जयेत् ॥ १५.७९॥ उत्तरे दक्षिणे वाऽपि खातयेदथवा पुनः । लोहं चेदग्निना दह्यात्कुर्यात्तेनैव बेरकम् ॥ १५.८०॥ प्रतिबिम्बं तु सहसा कारयेल्लक्षणान्वितम् । यद्वस्तुना कृतं बेरं कुर्यात्तद्वस्तुना पुनः ॥ १५.८१॥ अन्येन कुर्याच्चेद्यत्तु मूर्तिनाशो न संशयः । तस्मात्सर्वप्रयत्नेन पूर्ववत्कल्पयेत् सुधीः ॥ १५.८२॥ तद्घनेन घनं कार्यं पूर्वमानेन शिल्पिना । (अघने तु घनं) हृत्कुम्भस्थं स्कन्दबीजं पुनः स्थापनमाचरेत् ॥ १५.८३॥ जलसम्प्रोक्षणेनैव मार्गेण च विशेषतः । आचार्यं पूजयेत्कर्ता गोभूमिधनकाञ्चनैः ॥ १५.८४॥ उत्तमं दशनिष्कं तु पञ्चनिष्कं तु मध्यमम् । तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ १५.८५॥ पञ्चभागैकभागं तु मूर्तिपानां तु दक्षिणा । सहायेभ्यस्तदर्धं स्यात् ब्राह्मणान्भोजयेत्ततः ॥ १५.८६॥ यागोपकरणं सर्वं देशिकाय प्रदापयेत् । एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ १५.८७॥ इति श्रीकुमारतन्त्रे जीर्णोद्धारविधिर्नाम पञ्चदशः पटलः ।

१६. षोडशः पटलः - वास्तुहोमविधिः

वास्तुहोमविधिं वक्ष्ये सर्वकर्मशुभावहम् । उत्सवेषु प्रतिष्ठासु वास्तुनिर्माणकेषु च ॥ १६.१॥ सम्प्रोक्षणविधानेषु यागेष्वन्येषु मन्त्रिभिः । वास्तुहोमं प्रकर्तव्यं तच्छृणुष्व महामुने ॥ १६.२॥ कुण्डवेदिसमायुक्ते मण्डपे नैरृते पुनः । हस्तमात्रेण सङ्कल्प्य स्थण्डिलं द्रोणतण्डुलैः ॥ १६.३॥ पुण्याहं वाचयेन्मन्त्री अभ्यङ्गैः प्रोक्ष्य तज्जलैः । एकाशीतिपदं कृत्वा मध्ये नवपदे विधिम् ॥ १६.४॥ मरीचिं च विवस्वांश्च मित्रं चैव धराधरम् । पूर्वादितन्मुखे पूज्य षट्कषट्कपदेषु च ॥ १६.५॥ (पूर्वादित मुखे पूज्य) ईशानादिषु तत्पार्श्वेष्वापश्चैवापवत्सरम् । सवित्रश्चैव सावित्र इन्द्र इन्द्रजयस्तथा ॥ १६.६॥ रुद्रोरुद्रजयः पूज्यो द्विद्विभागे विशेषतः । (रुद्रेरुद्रजयः) ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ १६.७॥ आदित्यः सत्यकश्चैव भ्रंशश्चैवाभिरक्षकः । (सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः) अग्निपूषा च वितथो ग्रहाक्षतयमौ तथा ॥ १६.८॥ गन्धर्वो भृङ्गराजश्च यमश्च निरृतिः पुनः । दौवारिकश्च सुग्रीवः पुष्पदन्तेन वासवः ॥ १६.९॥ असुरः सोषरोगौ च वायुर्नागस्तु मुख्यकः । भल्लाटश्चैव सोमश्च धिगश्चैवाधिगस्तथा ॥ १६.१०॥ दितिस्त्वेकैकपदिनो बाह्यो द्व त्रिंश उत्सवः । शरकी च विदारी च पूतना पापराक्षसी ॥ १६.११॥ ईशानादिषु कोणेषु पूजनीया पदाद्बहिः । स्कन्दो यमश्च जम्भश्च बलिपिं च क्रमेण तु ॥ १६.१२॥ पूर्वादिपदबाह्यो तु पूजयेद्गन्धपुष्पकैः । अधोमुखं भुवं प्राप्य शेते वास्तुनरः सदा ॥ १६.१३॥ उग्रत्वाद्भयकारित्वात्पूजितव्यं फलेप्सुभिः । शिरस्केशपदानी च निरृतिश्च पदानि यत् ॥ १६.१४॥ मध्ये ब्रह्मपदे नाभि रङ्गं सर्वपदानि च चतुर्भुजं जटामौलिकमण्डल्वक्षधारिणम् ॥ १६.१५॥ वामहस्ते तु जाग्रत्वे सव्यहस्ताकुले स्थितम् । चतुर्भुजो युताशेषात् खड्गखेटकधारिणम् ॥ १६.१६॥ कृताञ्जलिपुटाः सर्वे ध्यात्वा स्वस्वपदे स्थिताः । तक्तत्स्वनाममन्त्रैश्च स्वाहान्तैः प्रणवान्तकैः ॥ १६.१७॥ उच्चार्य गन्धपुष्पाद्यैः प्रतिप्रति समर्चयेत् । तद्वामे मुनिशार्दूल स्थण्डिलं कल्प्य वालुकैः ॥ १६.१८॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । ततस्त्रयोर्ध्वे पञ्चाशद्देवतानां पृथक्पृथक् ॥ १६.१९॥ पलाशसमिदाज्याद्यै स्तिलैस्तण्डुलसंयुतैः । होमं हुत्वा विशेषेण द्रव्यान्ते व्याहृतिं हुनेत् ॥ १६.२०॥ (होमं कृत्वा) स्कन्दमूलेन मन्त्रेग घृतेनैव शताहुतिम् । ततः षण्मूर्तिमन्त्रेण पञ्चब्रह्मषडङ्गकैः ॥ १६.२१॥ दशांशं जुहुयादन्ते स्विष्टकृद् द्रव्यमन्त्रकैः । (स्विष्टकृद् हव्यमन्त्रतः) जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ १६.२२॥ दध्याज्यगुलसम्मिश्रं शुद्धान्नेन बलिं क्षिपेत् । पलाशोदुम्बराश्वत्थपत्रैः शुद्धैः सदर्भकैः ॥ १६.२३॥ सिद्धार्थतिलसंयुक्तैः कबलं बहुमन्त्रतः । (कबलं बाहुमात्रतः) मध्वाज्येन मर्दयित्वा सम्प्रोक्ष्य हृदयेन तु ॥ १६.२४॥ प्रज्वाल्य तस्मिन्नग्नौ तु अस्त्रवर्धनितोययुक् । (तस्मिन्वन्हौ) प्राकाराभ्यन्तरं सर्वं भवनं यागमण्डपम् ॥ १६.२५॥ पर्यग्निकरणं कृत्वा परिचारेण मन्त्रवित् । उत्क्राम्यत्वाच्च तत्पार्श्र्वे स्नानं कुर्याद्विधानतः ॥ १६.२६॥ (उल्कान्त्यत्वाथ तद्बाह्ये स्नानं) पञ्चगव्येन सम्प्रोक्ष्य मन्त्रेणास्त्रेण देशिकः । तदूर्ध्वं कारयेत्कर्म दक्षिणां दापयेद्गुरोः ॥ १६.२७॥ वास्तुपूजा समाख्याता सर्वशोभनकारिणी ॥ १६.२८॥ इति श्रीकुमारतन्त्रे वास्तुपूजाविधिर्नाम षोडशः पटलः ।

१७. सप्तदशः पटलः - शान्तिहोमविधिः

शान्तिहोमं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत । प्रायश्चित्तेषु सर्वेषु कल्पितेषु समाचरेत् ॥ १७.१॥ कुण्डे वा स्थण्डिले वाऽपि शान्तिहोमं समाचरेत् । तत्रैव स्थापयेत् कुम्भं सर्वलक्षणसंयुतम् ॥ १७.२॥ तं स्पृष्ट्वा चास्त्रमन्त्रेण स्कन्दमूलेन मन्त्रतः । शिवभक्तियुतैर्विप्रैजपेयुः पञ्चशान्तिना ॥ १७.३॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । हृद्वामघोरमन्त्रेण समिदाज्यचरुं क्रमात् ॥ १७.४॥ प्रत्येकं षोडशं कृत्वा स्कन्दमूलाच्छताहुतिः । पञ्चब्रह्मषडङ्गैश्च दशांशं सर्पिषा हुनेत् ॥ १७.५॥ जयन्ताद्यष्टदेवानामेकैकं सर्वनामवित् । क्षुरिकाबीजमुख्येन प्रत्येकं षोडशाहुतिः ॥ १७.६॥ जगद्भुवादिषण्मन्त्रैः कृत्वा षण्मूर्तिमन्त्रकैः । घृतमिश्रतिलेनैव त्र्यम्बकेन दशाहुतिः ॥ १७.७॥ हव्यवाहनमन्त्रेण स्विष्टकृच्च हुनेक्त्तः । जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ १७.८॥ शान्तिकुम्भस्थतोयेन महासेनं प्रपूजयेत् । होतारं पूजयेत् कर्ता निष्कं निष्कार्धमानतः ॥ १७.९॥ इति श्रीकुमारतन्त्रे शान्तिहोमविधिर्नाम सप्तदशः पटलः ।

१८. अष्टादशः पटलः - दिशाहोमविधिः

दिशाहोमं ततो वक्ष्ये श‍ृणुष्व मुनिपुङ्गव । भवनस्य चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा ॥ १८.१॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तवर्त्मना । वञ्जुलं बिल्वमश्वत्थमर्कं पूर्वादिदिक्षु च ॥ १८.२॥ सद्यमन्त्रेण समिधं स्कन्दमूलेन सर्पिषा । चरुमस्त्रेण मन्त्रेण सर्षपं कवचेन च ॥ १८.३॥ तिलमीशानमन्त्रेण प्रत्येकं षोडशं हुनेत् । षडक्षरेण मन्त्रेण घृतेनैव शताहुतिः ॥ १८.४॥ पञ्चब्रह्मषडङ्गैश्च दशांशं जुहुयात्ततः । जगद्भुवादिषण्मन्त्रैर्हुत्वा षण्मूर्तिमन्त्रतः ॥ १८.५॥ तिलैश्च घृतसंयुक्तैस्त्र्यम्बकात् षोडशाहुतिः । पूर्णाहुतिं च शिरसा स्विष्टकृद्धव्यमन्त्रतः ॥ १८.६॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् । होतारं पूजयेत् पश्चात् यथावित्तानुसारतः ॥ १८.७॥ इति श्रीकुमारतन्त्रे दिशाहोमविधिर्नाम अष्टादशः पटलः ।

१९. एकोनविंशः पटलः - मूर्तिहोमविधिः

मूर्तिहोमं ततो वक्ष्ये तच्छृणुष्व महामुने । हर्म्याग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्तथा ॥ १९.१॥ स्कन्दकुम्भञ्च तन्मध्ये द्विपार्श्वे वर्धनीद्वयम् । अष्टकुम्भान्न्यसेन्मन्त्री पूर्वाद्यष्टदिशासु च ॥ १९.२॥ मध्ये स्कन्दं समावाह्य पूजयेत्तु यथाविधि । महावल्लीं देवसेनां वर्धन्योः सम्प्रपूजयेत् ॥ १९.३॥ जयन्ताद्यष्टदेवांश्च पूर्वादिषु घटेषु च । तस्याग्रे स्थण्डिलं कृत्वा निर्दोषः सिकतैः सितैः ॥ १९.४॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । पलाशीं च गुलूचीं च सद्येनैव शतं शतम् ॥ १९.५॥ अघोरेण घृतं दत्वा चरुमीशानमन्त्रतः । (घृतं तद्वत्) स्कन्दमूलेन मन्त्रेण घृतेनैव शतं हुनेत् ॥ १९.६॥ पञ्चब्रह्मषडङ्गैश्च दशांशं जुहुयात्ततः । मूलमन्त्रेण मतिमान् शतमष्टोत्तरं हुनेत् ॥ १९.७॥ जगद्भुवादिषण्मन्त्रैर्हुत्वा षण्मूर्तिमन्त्रतः । घृतसिक्ततिलेनैव त्र्यम्बकेन शताहुतिः ॥ १९.८॥ पूर्णाहुतिञ्च शिरसा स्विष्टकृद्धव्यमन्त्रतः । जयादिरभ्याध नञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ १९.९॥ कुम्भाद्भिर्देवदेवञ्च क्रमेणैवाभिषेचयेत् । (तत्कुम्भे देव देवीश्च क्रमेणैवाभिषेचयेत्) यथाविभवविस्तारं होतारमपि पूजयेत् ॥ १९.१०॥ इति श्रीकुमारतन्त्रे मूर्तिहोमविधिर्नाम एकोनविंशः पटलः ।

२०. विंशः पटलः - पञ्चगव्यविधिः

पञ्चगव्यविधिं वक्ष्ये श‍ृणुष्व कुशिकात्मज । सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥ २०.१॥ हर्म्याग्रे मण्डपे रम्ये गोमयेनानुलेपिते । हस्तमात्रप्रविस्तारं पञ्चाङ्गुलसमन्वितम् ॥ २०.२॥ स्थण्डिलं शालिभिः कल्प्य रक्तवर्णैः मनोरमैः । ततो नवपदं कल्प्य तन्मध्ये नलिनं लिखेत् ॥ २०.३॥ सकलीकृत्य सम्प्रोक्ष्य दर्भैश्चैव परिस्तरेत् । शिवादिविद्यातत्त्वान्तं नवकोष्ठेषु पूजयेत् ॥ २०.४॥ सौवर्णं राजतं ताम्रं मृण्मयं वाऽथ गृह्य च । (राजतं पातं) अस्त्रेण क्षाल्य विन्यस्य मध्यादिक्रमयोगतः ॥ २०.५॥ सुप्रतिष्ठं सुशान्तं च तेजोरूपमथामृतम् । रत्नोदयं ततो व्यक्तं पात्राणि प्रणिपातयेत् ॥ २०.६॥ (रत्नोदक ततो व्यक्तं पात्राणि प्रणिपाद्यजेत्) तेषु क्षीरं दधिघृतं गोमूत्रं गोमयं क्रमात् । कुशोदकं ततोऽग्न्यादि पिष्टामलकरात्रिकम् ॥ २०.७॥ क्षिप्त्वा ब्रह्मषडङ्गैश्च पूजयित्वा यथाविधिः । सकूर्चं सहितास्त्रेण पूजितं रक्षितं तथा ॥ २०.८॥ (सकूर्चं संहिता) अमृतीकृत्य विधिवद्विदध्यात् पञ्चगव्यकम् । सर्पिर्दधिघृतं चैव गोमयं गोजलं तथा ॥ २०.९॥ कुशोदकं क्रमादंशमेकं द्वित्रि च वेद षट् । (द्वित्रि एक) श्वेतवर्णं गवां क्षीरं पीतवर्णं गवां दधि ॥ २०.१०॥ कृष्णवर्णं गवां सर्पिं रक्तवर्णं च गोजलम् । गोमयं कपिलायां वा यथालाभं ग्रहेत्सुधीः ॥ २०.११॥ क्षीरं वै शुक्रदैवत्यं दधि वै सोमदैवतम् । सर्पिश्च रुद्रदैवत्यं गोमयस्य बृहस्पतिः ॥ २०.१२॥ गोमूत्रमग्निदेवत्यं शालिपिष्टं च शङ्करी । लक्ष्मीरामलकस्यैव रजन्यास्तु सरस्वती ॥ २०.१३॥ कुशोदकस्य गङ्गा च अधिदेवाः प्रकीर्तिताः । भारद्वाजः काश्यपश्च शालिहोत्रोऽथ गौतमः ॥ २०.१४॥ (काश्यपश्च विश्वामित्रो) आत्रेयश्चैव पञ्चैते गव्यानामृषयः क्रमात् । भार्गवोऽगस्त्य आङ्गीरः शक्तिपिष्टादिकेर्षयः ॥ २०.१५॥ क्षीरं मोक्षप्रदं ज्ञेयं दधिव्याधिविनाशनम् । घृतं कुष्ठविनाशार्थं गोमूत्रं पुत्रवृद्धिदम् ॥ २०.१६॥ गोमयं रोगनाशार्थ पञ्चगव्यफलं लभेत् । प्रातः कालेऽभिषेकञ्च सर्वपापविनाशनम् ॥ २०.१७॥ माध्यन्दिनेऽभिषेकं च सर्वशान्त्यर्थमुच्यते । सायङ्कालाभिषेकेण सर्वव्याधिविनाशनम् ॥ २०.१८॥ गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राविण्णोति वै दधि ॥ २०.१९॥ ततः शुक्रमसीत्याज्यं देवस्यत्वा कुशोदकम् । एवं संहारमार्गेण संयोज्यान्ते कुशोदकम् ॥ २०.२०॥ जगद्भुवादिषण्मन्त्रैर्जपित्वास्त्रेण रक्ष्य च । धूपदीपादिकं दत्वा ततः पूजां समाचरेत् । पञ्चगव्याभिषेकेण महापातकनाशनम् ॥ २०.२१॥ इति श्रीकुमारतन्त्रे पञ्चगव्यविधिर्नाम विंशः पटलः ।

२१. एकविंशः पटलः - पञ्चामृतविधिः

पञ्चामृतविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । पूर्ववत् स्थण्डिलं कल्प्य मध्येन्द्रादिचतुष्टये ॥ २१.१॥ ईशानादीनि सद्यान्तं पञ्चकोष्ठेषु पूजयेत् । क्षीरं दधि घृतं चैव मधु स्यादिक्षुशरकम् ॥ २१.२॥ उत्तमं प्रस्थमेवोक्तं मध्यमं तु तदर्धकम् । तदर्धमधमं ज्ञेयं मानं पञ्चामृतं तथा ॥ २१.३॥ क्षीरं वै मध्यमे स्थाप्य पूर्वकोष्ठे न्यसेद्दधि । सर्पिश्च दक्षिणे विद्वान् मधु वै चोत्तरे पुनः ॥ २१.४॥ वारुण्यामिक्षुसारं स्यादस्त्रेणैव तु शोधयेत् । ईशानाद्यनुवाकैश्च जप्त्वा ब्रह्मभिरर्पयेत् ॥ २१.५॥ (ब्रह्मभिरर्चयेत्) स्कन्दमूलेन तन्मध्ये गायत्र्याश्च चतुर्दिशि । स्कन्दसूक्तेन मन्त्रेण त्वभिषेकं पृथक्पृथक् ॥ २१.६॥ कदलीपनसं चैव नालिकेरफलं तथा । आम्रञ्च मातुलुङ्गं स्यादेतत् पञ्चफलं तथा ॥ २१.७॥ पञ्चामृताभिषेकेण महापातकनाशनम् । (पञ्चपातकनाशनम्) फलसाराभिषेकेण फलमीप्सितमाप्नुयात् ॥ २१.८॥ इति श्रीकुमारतन्त्रे पञ्चामृतविधिर्नाम एकविंशः पटल ।

२२. द्वाविंशः पटलः - बालस्थापनविधिः

बालस्थापनकं वक्ष्ये श‍ृणु कौशिक सुव्रत । जीर्णगेहसमुद्धारे चित्रजीर्णेऽङ्गहीनके ॥ २२.१॥ स्थलजीर्णे पीठजीर्णे पुनर्बेरकृते तथा । आसप्त दिवसात्पूर्वं कुम्भमावाह्य कारयेत् ॥ २२.२॥ (आरब्ध दिवसात्पूवं, कुम्भे आवाह्य) तदूर्ध्वे मुनिशार्दूल बालस्थानं विधीयते । मूलबेरप्रतिष्ठायां प्रागेव तरुणालयम् ॥ २२.३॥ (मूलबेरप्रतिष्ठायाः) मूलालयं विनिश्चित्य कारयेत् तरुणालयम् । बालस्थानविहीनत्वात् बालानां नाशनं भवेत् ॥ २२.४॥ (बालालयविहीनत्वात्) तस्मात्सर्वप्रयत्नेन बालस्थानं तु कारयेत् । मूलस्थानस्य चाग्रे वा सौम्ये वा पावकेऽपि वा ॥ २२.५॥ ऐशान्ये पूर्वभागे वा बालस्थानं विधीयते । कूटं वा मण्डपं वाऽपि कारयेद्विधिपूर्वकम् ॥ २२.६॥ मूलप्रासादविस्तारादधिकं नैव कारयेत् । मूलबेरस्य चार्धं वा तदर्धार्धमथापि वा ॥ २२.७॥ रुद्राङ्ग्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । एकविंशत्यङ्गुलान्तं षड्विधं मानमङ्गुलैः ॥ २२.८॥ आयादिशुभसंयुक्तं सर्वलक्षणसंयुतम् । लोहजं शैलजं वाऽपि दारुजं मृण्मयं तु वा ॥ २२.९॥ यथालाभेन कर्तव्यं तरुणालयबेरकम् । बन्धूकं वृक्षमादाय कारयेद्दारुबेरकम् ॥ २२.१०॥ (याज्ञीकं वृक्षमादाय कारयेद्दारुजे बुधः) प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् । पङ्क्तित्रयसमायुक्तं चतुर्द्वारसमायुतम् ॥ २२.११॥ तन्मध्ये वेदिकां कुर्यान्नवभागैकभागतः । परितः पञ्चकुण्डानि कारयेद्विधिपूर्वकम् ॥ २२.१२॥ दर्भमालासमायुक्तं चतुस्तोरणभूषितम् । वितानादिध्वजोपेतमष्टमङ्गलसंयुतम् ॥ २२.१३॥ गोमयालेपनं कृत्वा पुण्याहं कारयेत्ततः । अयं कुमारमन्त्रेण प्रोक्षयेत् कुशवारिणा ॥ २२.१४॥ अङ्कुरानर्पयेद्धीमान् पूर्वाक्तविधिना ततः । वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ २२.१५॥ तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि । तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ॥ २२.१६॥ शयनं कल्पयेत् पश्चादण्डजाद्यैरनुक्रमात् । नयनोन्मीलनं कुर्याज्जलैश्चैवाधिवासयेत् ॥ २२.१७॥ पर्यग्निकरणं कृत्वा वास्तुहोमेन मण्डपे । जलाद्बिम्बं समुद्धृत्य शयने शाययेद्बुधः ॥ २२.१८॥ सर्वलक्षणसंयुक्तान् सर्वालङ्कारसंयुतान् । कुम्भानावाहयेद्धीमान् पूर्वोक्तविधिना पुनः ॥ २२.१९॥ जयन्ताद्यष्टविद्येशान् वेद्यूर्ध्वेऽष्टसु दिक्षु च । मध्ये कुमारमावाह्य पार्श्वे शक्तिद्वयं यजेत् ॥ २२.२०॥ अर्चयेद्गन्धपुष्पाद्यैः स्वैःस्वैर्नामभिरेव च । परिवारघटान् सर्वान् पूर्वोक्तविधिनार्चयेत् ॥ २२.२१॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । समिदाज्यचरुं लाजान् सर्षपं च यवं तिलान् ॥ २२.२२॥ होमद्रव्याणि सप्तैते जुहुयात्तु विशेषतः । खादिरौ वटशम्यार्कस्त्वपामार्गो महादिशि ॥ २२.२३॥ प्रधाने तु पलाशः स्यात् समिधः परिकीर्तिताः । स्कन्दमूलेन मन्त्रेण ततः षण्मूर्तिमन्त्रतः ॥ २२.२४॥ समिधादीनि जुहुयात् प्रत्येकं तु षडाहुतिः । सद्यादीनां शिरोऽन्तेन होमयेत्तदनन्तरम् ॥ २२.२५॥ (सद्यादिना शिरोऽन्तेन) शतमर्धं तदर्धं वा जुहुयाद्देशिकोत्तमः । सुब्रह्मण्यं कुमारं च स्कन्दं शरवणोद्भवम् ॥ २२.२६॥ देवसेनापतिं विद्वान् यथोक्तेनैव पूजयेत् । द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा स्पृष्ट्वा च बेरकम् ॥ २२.२७॥ सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् । जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ २२.२८॥ प्रभाते समुहूर्ते तु सुनक्षत्रसुलग्नके । बिम्बं संस्थाप्य मतिमान् स्कन्दमूलेन मन्त्रतः ॥ २२.२९॥ पुनर्द्दढतरं कृत्वा पद्मपीठे विशेषतः । कुम्भञ्च वर्धनीं चैव कृत्वा धामप्रदक्षिणम् ॥ २२.३०॥ (वर्धनीं द्वे च) देवम्य पुरतो न्यस्त्त्वा न्यासं सर्वं समाचरेत् । कुम्भाद् बीजं समादाय बेरस्य हृदये न्यसेत् ॥ २२.३१॥ वर्धन्योर्बीजमादाय द्वयोः शक्त्योः स्तने न्यसेत् । तक्तद्घटस्थतोयेन क्रमेणैवाभिषेचयेत् ॥ २२.३२॥ जयन्तादिघटान् सर्वान् क्रमात्पीठेऽभिषेचयेत् । वस्त्रैश्च गन्धपुष्पाद्यैः पूजयेत्तु यथाविधि ॥ २२.३३॥ उद्वाहकर्म कर्तव्यं वेदोक्तेनैव वर्त्मना । चतुर्थे दिवसे प्राप्ते चतुर्थीहोममाचरेत् ॥ २२.३४॥ जगद्भुवादिषण्मन्त्रैरयं कुमारमन्त्रतः । कुण्डं प्रति हुनेत् धीमान्मूलेनैव शतं हुनेत् ॥ २२.३५॥ महाहविर्निवेद्याथ दीनानाथांश्च भोजयेत् । आचार्यं पूजयेत् कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ २२.३६॥ उत्तमं पञ्चनिष्कं तु मध्यमं तु तदर्धकम् । तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ २२.३७॥ मूर्तिपान् परिचारांश्च यथाशक्त्या तु दक्षिणा । एवं यः कुरुते मर्त्यः कोटियज्ञफलं लभेत् । सर्वान् कामानवाप्नोति सोऽन्ते स्कन्दपदं व्रजेत् ॥ २२.३८॥ इति श्रीकुमारतन्त्रे बालस्थापनविधिर्नाम द्वाविंशः पटलः ।

२३. त्रयोविंशः पटलः - सम्प्रोक्षणविधिः

अतः परं प्रवक्ष्यामि सम्प्रोक्षणविधिं श‍ृणु । आवर्तं पुनरावर्तमनावर्तं तु कौशिक ॥ २३.१॥ प्रोक्षणं त्रिविधं प्रोक्तं तत्तद्भेदमथ श‍ृणु । आदौ च बालबेरात्तु मूलबेरं पतिष्ठितम् ॥ २३.२॥ तदावर्तमिति ख्यातं पुनरावर्तमुच्यते । प्रासादपतनाद्भिन्ने प्रमादात् भिन्नके पुनः ॥ २३.३॥ मूलबेरात् समादाय संस्थाप्य बालबेरके । (बालगेहके) तत्तन्मूलप्रवेशं यत् पुनरावर्तमीरितम् ॥ २३.४॥ प्रतिमापीठविश्लिष्टे सुधाकर्मविहीनके । प्रत्यङ्गोपाङ्गहीने च प्रमादात् पतने पुनः ॥ २३.५॥ चोरचण्डालसंस्पृष्टे सूतके प्रेतसम्भवे । पूजाहीनेऽष्टदिवसात् ऊर्ध्वं शतसमावधि ॥ २३.६॥ प्रोक्षणं त्वेमवाद्येषु तदनावर्ततीरितम् । आवर्ते पुनरावर्ते मासपक्षर्क्षकादिभिः ॥ २३.७॥ प्रतिष्ठोक्तविधानेन कारयेद्देशिकोत्तमः । यात्राहोमं युगावर्ते अनावर्तं गुरूत्तम ॥ २३.८॥ न तिथिर्न च नक्षत्रे न कालश्च न वारकम् । कालापेक्षां विना कुर्यात् अनावर्तं गुरूत्तम ॥ २३.९॥ पूर्वस्थापितबिम्बस्य न पुनः स्थापनं स्मृतम् । स्थापिते तु महान् दोषस्तस्मात् सम्प्रोक्षणं स्मृतम् ॥ २३.१०॥ अङ्गस्य हानिसन्धाने प्रतिष्ठां नैव कारयेत् । (प्रतिष्ठां अनु) जलाधिवासरहितं नेत्रोन्मीलनवर्जितम् ॥ २३.११॥ सम्प्रोक्षणविहीने तु पूजा निष्फलदायिनी । जायते तु महान् दोषस्तस्मात् सम्प्रोक्षणं चरेत् ॥ २३.१२॥ निमित्ते समनुप्राप्ते सद्यः कृत्वा समर्चयेत् । आसप्तदिवसात्पूर्वं कुम्भमावाह्य मन्त्रवित् ॥ २३.१३॥ अग्रे वा दक्षिणे वामे मण्डले स्थण्डिलोपरि । कुम्भं न्यस्त्त्वा समभ्यर्च्य पुनर्बेरं समावहेत् ॥ २३.१४॥ तदूर्ध्वे बालहर्म्ये तु स्थाप्य मूले पुनर्न्यसेत् । प्रासादाग्रे तु कर्तव्यं दक्षिणे चोत्तरेऽपि वा ॥ २३.१५॥ यथाविभवविस्तारं मण्डपं कारयेद्बुधः । चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २३.१६॥ वितानादिध्वजोपेतं अष्टमङ्गलसंयुतम् । दर्भमाला समायुक्तं बिल्वपल्लवशोभितम् ॥ २३.१७॥ (बिल्वफलशोभितम्) नक्षत्रतिथिवारे च पञ्चमे सप्तमेऽह्नि वा । (पुण्यर्क्षतिथिवारे) पूर्वोक्तविधिना धीमान् कारयेदङ्कुरार्पणम् ॥ २३.१८॥ मण्डपं नवधा कृत्वा मध्यभागे तु वेदिकाम् । रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ २३.१९॥ वेद्या मूले तु परितश्चोपवेदिं प्रकल्पयेत् । युग्माङ्गुलसमुत्सेधं द्विगुणं दीर्घमुच्यते ॥ २३.२०॥ (निम्नमुच्यते) कुण्डानि परितः कुर्यात् नवपञ्चैकमेव च । दिशासु चतुरश्राणि कोणेष्वत्र कुशेशयम् ॥ २३.२१॥ शक्रशाङ्करयोर्मध्ये प्रधानं तु षडश्रकम् । पञ्चकुण्डेषु कोणेषु वर्जयेदब्जकुण्डकम् ॥ २३.२२॥ एककुण्डे तथैशाने कारयेत्तु षडश्रकम् । आवर्ते तु मुनिश्रेष्ठ बालबेरस्य चाग्रतः ॥ २३.२३॥ अङ्गन्यासं करन्यासमन्तर्यागनथाचरेत् । (करन्यासान्तर्यजनथाचरेत्) विशेषार्घ्यस्थतोयेन प्रोक्षयेदस्त्रमन्त्रतः ॥ २३.२४॥ स्थण्डिलं कल्प्य मतिमान् निर्दोषेर्हेमशालिभिः । सूत्राभिधानरत्नाढ्यं कुम्भस्योपरि विन्यसेत् ॥ २३.२५॥ (सूत्राभिधानरत्नाढ्यं कुम्भं तस्योपरि न्यसेत्) वर्धन्यौ हेमसंयुक्ते न्यसेद् दक्षिणवामयोः । परितः कलशानष्टौ स्वस्थानेषु क्रमान्न्यसेत् ॥ २३.२६॥ (कलशानष्टौ स्वर्णयुक्तान्) मध्यकुम्भे महासेनं बालबेरात् समावहेत् । मूलबेरप्रवेशाय बालस्थानादिह प्रभो ॥ २३.२७॥ कुम्भे विशन्तु सर्वेशाः सुब्रह्मण्यप्रियो भव । इदं मन्त्रं समुच्चार्य पूजयेद् गन्धपुष्पकैः ॥ २३.२८॥ महावल्लीं देवसेनां वर्धन्योः पार्श्वसंस्थयोः । तत्तद्बेरात्समादाय क्रमेणावाह्य पूजयेत् ॥ २३.२९॥ जयपन्ताद्यष्टविद्येशान् पीठादावाह्य पूजयेत् । स्थापयेन्मूलमन्त्रेण षड्वर्णेनावकुण्ठयेत् ॥ २३.३०॥ सान्निध्यं हृदयेनैव यजेत्पुष्पादिभिः क्रमात् । दर्शयेद्बिम्बमुद्राञ्च षण्मुखं पद्ममुद्रिकाम् ॥ २३.३१॥ (दर्शयेद्बिम्बमुद्राञ्च षण्मुखीं) नमस्काराख्यमुद्राञ्च दिक्बन्धेदस्त्रमन्त्रतः । यात्राहोमं प्रकर्तव्यं बालस्थानस्य चाग्रतः ॥ २३.३२॥ निर्दोषैः सिकतैः कृत्वा स्थण्डिलं हस्तमात्रतः । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ २३.३३॥ सद्योमन्त्रेण समिधमीशानेन घृतं हुनेत् । जगद्भुवादिषण्मन्त्रैः स्पृष्ट्वा स्पृष्ट्वाऽसने ततः ॥ २३.३४॥ (स्पृष्ट्वाहुनेत्) गुरुस्तु मण्डपं गत्वा पुण्याहं वाचयेत्ततः । (गुरुस्तु मण्डपिकं) पर्यग्निकरणं कुर्यात् बास्तुहोमेन वर्त्मना ॥ २३.३५॥ शिरसा वाहयित्वा तु कुम्भञ्च वर्धनीद्वयम् । क्रमाद्विद्येशकलशान् मूर्तिभिः परिवारकैः ॥ २३.३६॥ सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् । हर्म्यप्रदक्षिणं कृत्वा वेदिकोपरि विन्यसेत् ॥ २३.३७॥ (हर्म्यप्रदक्षिणं गत्वा) सकलीकृत्य सम्प्रोक्ष्य विशेषार्घ्यजलेन च । देविदेवीशविद्येशान् पूजयेत्तु यथाक्रमम् ॥ २३.३८॥ (देवदेव्यौ च) [सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् ।] परिवारघटांश्चैव स्थापयेद्विधिपूर्वकम् । तत्तन्मूर्त्याकृतिं ध्यात्वा बाह्यकुम्भे समर्चयेत् ॥ २३.३९॥ मण्डपद्वारपूजादि सर्वं पूर्ववदाचरेत् । ततः स्वाध्यायनं कुर्याच्छिवभक्तियुतैर्द्विजैः ॥ २३.४०॥ शिवसङ्कल्पदीपैश्च ततः श्रीरुद्रसूक्तकैः । (शिवसङ्कल्पदीपैश्च ततो मारुद्रसूक्तकं) स्कन्दसूक्तञ्च चमकं पूर्वभागे यजेत्सुधीः ॥ २३.४१॥ शिवसूक्तं पावमानं शान्तिद्वयं च दक्षिणे । त्र्यम्बकं विष्णुसूक्तञ्च वारुणं चैव पश्चिमे ॥ २३.४२॥ ऊत्तरे तु हिरण्यञ्च बृहत्सामेति मन्त्रतः । (हिरण्यञ्च स्थन्तरं) षडक्षरेण मन्त्रेण कोणेषु च जपेत् बुधः ॥ २३.४३॥ आचार्यो मूर्तिपैः सार्धं ततो होमं समाचरेत् । समिधाज्यचरून् लाजं सर्षपं च यवं तिलम् ॥ २३.४४॥ होमद्रव्याणि सप्तैतान्यथावज्जुहुयात्क्रमात् । पालाशखादिराश्वत्थबिल्वान् पूर्वादिदिक्षु च ॥ २३.४५॥ शमीखादिरमायूरा वटाश्चेति विदिक्षु च । प्रधानस्य पलाशः स्यात् समिधः परिकीर्तिताः ॥ २३.४६॥ स्कन्दस्य मूलमन्त्रेण ततः षण्मूर्तिमन्त्रतः । होमद्रव्याणि जुहुयात् प्रत्येकं तु षडाहुतिः ॥ २३.४७॥ सद्यादिना शिरोऽन्तेन मन्त्रेण जुहुयात्ततः । शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ २३.४८॥ पूर्णाहुतिं च शिरसा स्विष्टमग्नेति होमयेत् । जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ २३.४९॥ नेत्रोन्मीलादिकं सर्वं नवबेरस्य कारयेत् । तत्प्रतिष्ठा विधानेन शेषं कर्म समाचरेत् ॥ २३.५०॥ पुनरावर्तने विद्वान् मूलबेरं प्रगृह्य च । (पुनरावर्तके) बालबेरं समावाह्य पुनर्मूले प्रवेशयेत् ॥ २३.५१॥ अनावर्ते तु यद्धाम चण्डालादिप्रदूषिते । मृण्मयानि च पात्राणि सर्वाणि परिवर्जयेत् ॥ २३.५२॥ कांस्यपात्राणि सर्वाणि शुद्धिं कृत्वा तु भस्मभिः । यथायोग्यं यथाकार्यं वस्त्रोपकरणानि च ॥ २३.५३॥ स्कन्दस्यायतनं चैव गोमयेन विलेपयेत् । पुण्याहं वाचयित्वाथ शुद्धाद्भिरभिषेचयेत् ॥ २३.५४॥ पञ्चगव्यैश्च संस्नाप्य घर्षयेद्बिल्वपत्रकैः । दर्भमूले तु वल्मीकक्षेत्रमृद्ग्राह्य लेपयेत् ॥ २३.५५॥ कौतुकं बन्धयित्वा तु हेम सूत्रेण मन्त्रवित् । अर्कपङ्कज बिल्वैश्च मायूराऽशोकपाटलैः ॥ २३.५६॥ गन्धोदैः स्वर्णतोयैश्च बिल्वोदैः स्नापयेद्गुहम् । नन्द्यावर्तैर्मल्लिकाभिर्मधूकाशोकपाटलैः ॥ २३.५७॥ (नन्द्यावर्तैर्मल्लिकाभिर्पलाशैश्च कदम्बकैः) पुन्नागैः कर्णिकारैश्च कुमुदोत्पलपुष्पकैः । बृहतीद्रोणपुष्पैश्च व्याघातैर्जातिचम्पकैः ॥ २३.५८॥ बेरं सम्पूज्य विधिवत् छादयेद्वा निरन्तरम् । आच्छाद्य नववस्त्रैश्च प्रतिबेरं विशेषतः ॥ २३.५९॥ लोहजैः शयनं कार्य मथवाच्छादनं मतम् । (लोहजे शयनं) मण्डपद्वारपूजा च होमकर्म च पूर्ववत् ॥ २३.६०॥ प्रभाते देशिकः स्नात्वा मूर्तिपैः सह मन्त्रवित् । कुम्भञ्च कर्धनीद्वे च वाहयित्वाथ मूर्तिपैः ॥ २३.६१॥ हर्म्यं प्रदक्षिणं कृत्वा गुहाग्रे स्थण्डिलं न्यसेत् । पुत्रभ्रातृकलत्रैश्च यजमानोऽतिभक्तिमान् ॥ २३.६२॥ (व्रजेदनुतिभक्तिमान्) शुक्लवासा गुरुः प्रीतो हैमपञ्चाङ्गभूषणैः । बिम्बशुद्धिकृतस्तोयं स्कन्दबेरं विशेषतः ॥ २३.६३॥ विन्यसेदक्षरन्यासं ब्रह्माङ्गन्यासमुत्तमम् । कुम्भान्मन्त्रं समादाय बेरस्य हृदि विन्यसेत् ॥ २३.६४॥ शक्त्योर्बीजं समादाय शक्त्योरुपरि विन्यसेत् । कुम्भोदकैश्च संस्नाप्य देवदेवीर्यथाक्रमम् ॥ २३.६५॥ जयन्ताद्यष्टविद्येशान् क्रमात्पीठे तु विन्यसेत् । तत्कुम्भस्थोदकैः स्कन्दं स्नापयेत्तु दशाक्षरैः ॥ २३.६६॥ परिवारघटाद्भिस्तु स्वस्वस्थाने क्रमाद्बुधः । बीजानि विधिवन्न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ॥ २३.६७॥ रक्तपुष्पेण मतिमान् ईशानेनैव पूजयेत् । स्नपनं कारयेदन्ते यथावित्तानुसारतः ॥ २३.६८॥ प्रभूतहविषं दद्यात् ब्राह्मणान् भोजयेत्ततः । उत्सवं कारयेदन्ते यथा वित्तानुसारतः ॥ २३.६९॥ आचार्यं पूजयेत्कर्ता वस्त्रहेमाङ्गुलीयकैः । अधमं दशनिष्कन्तु मध्यमं द्विगुणं स्मृतम् ॥ २३.७०॥ उत्तमं त्रिगुणं प्रोक्तम्माचार्यस्य तु दक्षिणा । मूर्तिपानां दशांशैश्च दीनानाथांश्च पूजयेत् ॥ २३.७१॥ एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् । पुत्रार्थी लभते पुत्रान् धनार्थी च धनं लभेत् । जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ २३.७२॥ इति श्रीकुमारतन्त्रे सम्प्रोक्षणविधिर्नाम त्रयोविंशः पटलः ।

२४. चतुर्विंशः पटलः - प्रतिमालक्षणविधिः

प्रतिमालक्षणं वक्ष्ये श‍ृणुष्व कुशिकात्मज । चलं चलाचलं बेरमचलं त्रिविधं भवेत् ॥ २४.१॥ शार्करं मृण्मयं बेरमचलं बेरमुच्यते । (सौधमचलं बेरमिष्यते) शैलजं दारुजं बेरं चलाचलमिति स्मृतम् ॥ २४.२॥ चलमेवं समाख्यातं रक्तं लोहञ्च दारुजम् । शिलां वाऽप्यथ दारुं वा कर्म योग्यस्य लक्षणम् ॥ २४.३॥ (कर्म योग्य स) सुनिमित्तेन सङ्ग्राह्य सर्वमङ्गलसंयुतम् । स्थपतिर्वास्तुशास्त्रज्ञः स्कन्दबेरं प्रकल्पयेत् ॥ २४.४॥ सर्वेषां मङ्गलार्थाय मानकल्पं वदाम्यहम् । गर्भे नवकृते भागे रुद्रमादित्रयं त्रयम् ॥ २४.५॥ पुनर्विंशत्कृते भागे दशांशमधमं भवेत् । रुद्रांशं मध्यमं ज्ञेयमुत्तमं द्वादशांशकम् ॥ २४.६॥ वसुगर्ते पुनर्गर्भे पुनर्मध्यमकल्पिते । नवमानं भवेत्तत्र हस्तमानं ततोच्यते ॥ २४.७॥ एकादिनवहस्तान्तं षट्षडङ्गुलवर्धनात् । त्रयस्त्रिंशन्मानमुदितं हस्तमानं महामुने ॥ २४.८॥ दैर्घ्ये नवकरादूर्ध्वमेकविंशत्करान्तकम् । हस्तमानेन कर्तव्यं क्षुद्रहर्म्येण कारयेत् ॥ २४.९॥ एकहस्तोच्छ्रया दूर्ध्वं मूलबेरं न कारयेत् । (एकहस्तोच्छ्रया दून) मूलबेरोदयं ह्येवमुत्सवप्रतिमां श‍ृणु ॥ २४.१०॥ मूलबेरसमोत्तुङ्गं तदर्धं वा तदर्धकम् । भूतांशं सप्तभागे तु भूतभागे युगांशकम् ॥ २४.११॥ अन्यांशे द्वयभागञ्च षण्मानं मूलबेरतः । गर्भे नवकृते मानं नवधा गर्भमानतः ॥ २४.१२॥ मूलद्वारसमोत्तुङ्गं नवांशैकोनमेव च । अष्टभागैकहीनं वा त्रिमानं द्वारमानतः ॥ २४.१३॥ उत्तमं नवहस्तन्तु पञ्चहस्तन्तु मध्यमम् । अधमं त्रयहस्तन्तु गर्भमानमितीरितम् ॥ २४.१४॥ सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनम् । पञ्चत्रिंशदङ्गुलान्तमङ्गुलत्रयमानकम् ॥ २४.१५॥ आदिप्रासादविस्तारं तद्बाह्यं कल्पमानतः । तदर्धमुत्तमं ज्ञेयं तदर्धं मध्यमं स्मृतम् ॥ २४.१६॥ तस्यार्धमधमं विद्धि त्रिमानं हर्म्यमानतः । व्रातेरुत्तरसीमान्तं स्तम्भमानं तदुत्तमम् ॥ २४.१७॥ मध्यमं तु नवांशोन मस्तांशोनं तथा धमम् । (मध्यमं तमनवांशोनं अष्टांशोनं तथा मतं) मूलबेराधिकोत्तुङ्गं स्थास्पनादिषु योग्यकम् ॥ २४.१८॥ परिवारादिके योग्यमधिकोच्छ्रायमीरितम् । लब्धमानेन मतिमान् काम्यं संयोजयेत्ततः ॥ २४.१९॥ (मतिमान् जात्यशं) वेदाशीतिद्विषष्ठी च चतुर्विंशाच्च षोडशी । भागं कृत्वैकभागं तु जात्यशं ब्राह्मणादिषु ॥ २४.२०॥ यजमानांङ्गुलैर्भक्त्वा शुभायादीनि लक्षयेत् । (युज्यमानांङ्गुलैर्भक्त्वा) हीनं चेदङ्गुलेप्यत्र परिपूर्य समीक्षयेत् ॥ २४.२१॥ आयं वसुद्वादशभिर्व्ययं चत्वारि पङ्क्तिभिः । संयोगरहिताष्टाभिर्नक्षत्रं वसुमक्षकैः ॥ २४.२२॥ (योनिरग्निभिर्नक्षत्रं वसुऋक्षकैः) द्वारञ्च नन्दमुनिभिरंशको वेदनन्दतः । हृत्वा विभेद्य तच्छेषमायादिगणयेत्सुधीः ॥ २४.२३॥ आयाधिक्ये धनं प्रोक्तं व्ययाधिक्ये धनक्षयम् । नक्षत्रेषु शुभा प्रोक्ता विपत्प्रत्यरनैधना ॥ २४.२४॥ ध्वजसिंहो वृषो नन्दी शुभदा अष्टयोनिषु । (वृषो दन्ती) वारे शुभार्कसौराशाः शुभयोगे शुभप्रदाः ॥ २४.२५॥ अंशके तस्करक्लीबा धनप्रेक्ष्यस्तथा शुभाः । एवं परीक्ष्य बहुधा कारयेल्लक्षणान्वितम् ॥ २४.२६॥ स्वतः प्रधाने कर्तव्यं दशधा चोत्तमेन तु । मध्यमं दशतालेन देव्यौ च परिकल्पयेत् ॥ २४.२७॥ लोहजं चेन्मधूच्छिष्टं वह्निताप्यं च पात्रके । वस्त्रेण शोध्य मतिमान् मण्डले स्थण्डिलोपरि ॥ २४.२८॥ (मण्डपे) फलकोर्ध्वे सुलग्ने तु स्थपतिः स्थापकाज्ञया । मूलादिपादपर्यन्तं कल्पयेत्कल्पवित्तमः ॥ २४.२९॥ (मूर्धादिपादपर्यन्तं) षण्मानमत्र कथितमायमानमितीरितम् । प्रमाणं विपुलं प्रोक्तमुच्चमुन्मानमेव च ॥ २४.३०॥ परिमाणं तु तन्नाहं तीव्रं स्यादुपमानके । लम्बसूत्रं लम्बमानं षण्मानमिदमीरितम् ॥ २४.३१॥ लम्बोत्सेधं प्रकुर्यात्तु चतुर्विंशच्छतं बुधः । (लब्धोत्सेधं) तेष्वेकं तु समं मूले त्रितस्याष्टांशसम्भवे ॥ २४.३२॥ अङ्गुलं मात्रमित्युक्तं द्व्यङ्गुलं कोलकं स्मृतम् । त्र्यङ्गुलं तु कला ज्ञेया भागं स्याच्चतुरङ्गुलम्म् ॥ २४.३३॥ तद्द्वयं वाचकं चैव मुखं तद्द्वदशाङ्गुलम् । मुखं तालद्विपञ्चैव तस्याः पर्यायवाचकाः ॥ २४.३४॥ उष्णीषं त्रयवैकांशः केशास्तिस्रोंऽशकं तथा । (त्रयवैकांशः केशान्तं त्र्ययङ्कत्वथ) भागमग्न्यवमक्ष्यन्तं समं नासापुटान्तकम् ॥ २४.३५॥ हन्वन्तं तत्समं ज्ञेयं तस्मा दूर्ध्वं शताङ्गुलम् । कलासप्तयवं कण्ठं मुखं रुद्रयवं च हृत् ॥ २४.३६॥ तत्समं नाभिपर्यन्तं नाभेर्मेढ्रान्तकं समम् । नक्षत्रांशमधश्चोरु युगांशं जानुदैर्घ्यकम् ॥ २४.३७॥ अधश्चोरुसमं जङ्घा जानुगुह्यपदोन्नतम् । उष्णीषात्पूर्वकेशान्तं नवांशं परिकीर्तितम् ॥ २४.३८॥ उष्णीषाद्ब्रह्मकेशान्तमारभ्याङ्गुलमुदाहृतम् । द्वयोः कर्णान्तरं पूर्वे एकविंशतिमात्रकम् ॥ २४.३९॥ द्व्यङ्गुलं कर्णविस्तारमायामं वसुमात्रकम् । भ्रूसूत्रसममेवोक्तं श्रोत्रांशं मुनिपुङ्गव ॥ २४.४०॥ तत्पृष्ठकर्णयोर्मध्ये त्रयोदशांशमीरितम् । पिप्पल्यन्तादधः कुर्यात्भागं तालावलम्बनम् ॥ २४.४१॥ (कुर्यात्भागं नालविलम्बनं) तालान्तं च समात्रं तत् घनं त्रियवं भवेत् । (नालान्तरन्त्वर्ध तत्) पिप्पलीचार्धमूलं च सुषिरं तस्य मानकम् ॥ २४.४२॥ (पिप्पलीचार्धमात्रं) नक्रकुण्डलसंयुक्तं शेषमात्राविलम्बनम् । शक्तिकाकारवत्कर्णनालाकृतिरुदाहृता ॥ २४.४३॥ द्वियवं कर्णपालिश्च तत्समं कर्णपट्टिका । मात्रार्धं कर्णपालीस्यादङ्गुला कर्णपालिका ॥ २४.४४॥ लकारीव तयोर्मध्ये चञ्च्वक्षी कर्णचूलिका । अपाङ्गात्कर्णमूलं तु सप्तमात्रं प्रचक्षते ॥ २४.४५॥ कोलकद्वयसाधिक्यान्नेत्रायाममुदाहृतम् । षडयवं नेत्रविस्तारमायामं तु त्रिधा भवेत् ॥ २४.४६॥ कृष्णमण्डलमैशांशं मध्ये न्यसितमण्डलम् । कृष्णमण्डलमध्ये तु ज्योतिर्युक्तप्रमाणतः ॥ २४.४७॥ (ज्योतियूकाप्रमाणतः) करवीरोपमं रक्तं नयनस्य च मूलके । कनीनिका यवाद्दीर्घात् त्रिवर्णैर्लोचनं स्मृतम् ॥ २४.४८॥ ऊर्ध्वहर्म्यस्य यानं तु द्वियवार्धं यथाभवेत् । नवती पक्ष्मरोमाणि कृष्णाञ्जननिभानि च ॥ २४.४९॥ भ्रूरेखायाश्चक्षुरेखा कोलकद्वयबाधिरम् । भ्रूरेखा मूलकेशान्तं तत्समं परिकीर्तितम् ॥ २४.५०॥ भ्रूदीर्घसममात्रन्तु विस्तारं यवमेव च । आरोपचापाकृतिवत् मूलादपं कमात्कृशम् ॥ २४.५१॥ द्व्यङ्गुलं त्रियवं प्रोक्तं द्वयोः कर्णान्तरं स्मृतम् । मूलनासार्धमात्रं स्यादग्रनासा शराङ्गुला ॥ २४.५२॥ पुटमर्धाङ्गुलं तारं तत्तुङ्गं पञ्चभिर्यवैः । सुषिरं त्रियवं तिर्यक् बाह्ये चार्धयवं धनम् ॥ २४.५३॥ पुटान्तं त्रियवं चैव गोजिमानं चतुर्यवम् । गोज्याश्च नासिकोत्सेधं कोलकं त्रियवाधिकम् ॥ २४.५४॥ द्व्यंशस्यैव तु विस्तारमङ्गुलं चेति कीर्तितम् । पुष्करन्तु यवोत्सेधं पुरस्तात् षड्यवं ततः ॥ २४.५५॥ द्वियवं चार्धमेकं तु पुष्करन्तु विधीयते । तिलपुष्पाकृतिर्नासापुटनिष्पावबीजवत् ॥ २४.५६॥ पुटान्तादधरोष्ठान्तं कोलकं द्वियवाधिकम् । दन्तं दृश्यमदृश्यं हि द्वित्रयं परिकीर्तितम् ॥ २४.५७॥ (हि द्वात्रिंशत्) द्वियवं तस्य विस्तारमुत्सेधं तत्समं भवेत् । ऊर्ध्वे षोडश मन्तव्या अधस्तात्तु तथैव च ॥ २४.५८॥ अधोदन्तस्य विस्तारं यवार्धं सममुच्छ्रयम् । जिह्वायामन्तु षण्मात्रं विस्तारं स्यात्तदर्धकम् ॥ २४.५९॥ अधरोष्ठस्य विस्तारमङ्गुलं स्याद्यवाधिकम् । मुनिरन्तञ्च विस्तारमायामः स्याद्द्विमात्रकम् ॥ २४.६०॥ भागं च त्रियवाधिक्यमास्यविस्तारमीरितम् । ग्रीवामूलस्य विस्तारं नवमात्रं च षड्यवम् ॥ २४.६१॥ ग्रीवात्तु गलपर्यन्तं कला च द्वियवाधिकम् । तद्गलाद्धनुपर्यन्तम्मङ्गुलं चेति कीर्तितम् ॥ २४.६२॥ ग्रीवं सुवृत्तमुदितं द्विरेखा परिवेष्टितम् । सूत्रान् क्रमेण चोद्भागं कोलकं चाङ्गुलं भवेत् ॥ २४.६३॥ हिक्कासूत्रान् क्रमेणोच्चं भागं कोलकमङ्गुलम् ॥ अर्धाङ्गुलं क्रमात् क्षीणं बाहुपर्यन्तमेव च । वक्षःस्थलस्य विस्तारं दशभागं चतुर्यवम् ॥ २४.६४॥ हिक्कासूत्रादधो बाहुः सप्तविंशतिमात्रकम् । कोलकं कूर्परायामं त्रिसप्तांशप्रकोष्ठकम् ॥ २४.६५॥ तस्मान्मध्याङ्गुलस्याग्रं सार्धत्रयोदशाङ्गुलम् । सप्ताङ्गुलतलायामं शेषं मध्याङ्गुलायतम् ॥ २४.६६॥ पाणेस्तलस्य विस्तारं षण्मात्रं च चतुर्यवम् । तत्तुल्योऽप्यष्टभागैकं हीनमग्रस्य चाग्रतः ॥ २४.६७॥ सार्धकोलकमात्रेण तलमूले घनं भवेत् । षड्यवैकांशमुदितं तलस्याग्रघनं मुने ॥ २४.६८॥ पञ्चाशद्द्वियवोपेतं तर्जन्यानामिकाङ्गुली । द्वियवोपेतभागं स्यादङ्गुष्ठस्य तु दैर्घ्यकम् ॥ २४.६९॥ यवादिकाष्टमो भागो कनिष्ठाङ्गुलदैर्ध्यकम् । (यवाधिकेन भागेन कनिष्ठाङ्गुलदैर्ध्यकम्) रसदृक् गन्धदिक्पङ्क्तियवतारं व्यतारकम् ॥ २४.७०॥ अङ्गुष्ठादेस्तदग्रे स्यादष्टभागैकहीनकम् । अङ्गुल्यग्रं त्रिधा कृत्वा द्विभागं नवविस्तृतम् ॥ २४.७१॥ तत्तारेण यवोपेतं नखायामं प्रकीर्तितम् । अङ्गुष्ठन्तु द्विपर्वं स्यादन्याङ्गुल्यस्त्रिपर्वयुक् ॥ २४.७२॥ तस्याग्रे द्व्यङ्गुलं हित्वा द्विद्विरेखान्तरं नयेत् । मूलादूर्ध्वगरेखा तु मध्यमाङ्गुलरेखयुक् ॥ २४.७३॥ मूलयुग्मनिबद्धस्य भागमेकं प्रकीर्तितम् । (मणिबन्धस्यविस्तारं भागमेकं) प्रकोष्ठमध्यविस्तारं भागमेकं प्रकीर्तितम् ॥ २४.७४॥ बाहुमध्यमविस्तारं द्वियावकमथोच्यते । (अर्धयावकमथोच्यते) बाहुमूलस्य विस्तारं नवमात्रार्धमिष्यते ॥ २४.७५॥ हिक्कासूत्रं तु कक्षान्तं नवमात्रार्धमुच्यते । कारयेत्तु द्विबाहुं च मूलतारं गुणाङ्गुलम् ॥ २४.७६॥ स्तनयोरन्तरं तद्वच्च्चूचुकं तु यवान्तरम् । द्वियवस्तस्य विस्तारं मण्डलं तु द्विमात्रकम् ॥ २४.७७॥ हृत्प्रदेशस्य विस्तारं सार्धं स्मृत्यङ्गुलं भवेत् । उदरस्य तु विस्तारं सार्धत्रयोदशाङ्गुलम् ॥ २४.७८॥ यवद्वयं तु हीनं स्याद् विस्तारं षड्यवं भवेत् । (तु निम्नं) नाभिप्रदक्षिणावर्तं श्रोणिश्चाष्टादशांशकम् ॥ २४.७९॥ कटिप्रदेशविस्तारं द्वाविंशत्यङ्गुलं भवेत् । शरीरे गोमुखाकारं कट्याश्चोर्ध्वं प्रशस्यते ॥ २४.८०॥ शरमात्रं यवोपेतं मेढ्रायाममुदाहृतम् । वेदाङ्गुलं समुद्दिष्टं मुष्कं विस्तारदैर्धिकम् ॥ २४.८१॥ पक्षाङ्गुलप्रमाणेन चैकैकं वृषणं स्मृतम् । शेषं शीर्षाङ्गुलायामं तारं दशयवं भवेत् ॥ २४.८२॥ (शेफः शीर्षाङ्गुलायामं) क्षयमग्रेषु भागैकं मूलं चोत्पलवद्भवेत् । (भागैकं मुकुलो) ऊरुमूलस्य विस्तारं सार्धत्रयोदशाङ्गुलम् ॥ २४.८३॥ तन्मध्ये चैकविस्तारं यवमर्धाङ्गुलाधिकम् । ऊर्ध्वाग्रस्य तु विस्तारं वाग्रन्ध्राङ्गुलकं भवेत् ॥ २४.८४॥ जानुमण्डलविस्तारं वसुमात्रार्धमिष्यते । यवेनाष्टाङ्गुलं प्रोक्तं जङ्घामूलस्य विस्तृतम् ॥ २४.८५॥ (यवोनाष्टाङ्गुलं प्रोक्तं) तन्मध्ये तस्य विस्तारं सप्तमात्रं यवाधिकम् । नलकायास्तु विस्तारं वर्धयेदङ्गुलं भवेत् ॥ २४.८६॥ (विस्तारं सार्धवेदङ्गुलं) अथ गुल्फद्वयोर्मध्ये विस्तारन्तु शराङ्गुलम् । तलमध्यस्य विस्तारं सार्धं भूताङ्गुलं भवेत् ॥ २४.८७॥ तलाग्रस्य तु विस्तारं रसाङ्गुलमिति स्मृतम् । अक्षान् पार्ष्ण्यन्तरं भागं पार्ष्ण्योत्सेधस्य तत्समम् ॥ २४.८८॥ अक्षादङ्गुलमूलान्तं नवमात्रार्धमिष्यते । पादाङ्गुष्ठायतं भागं तत्तारं तद्यवाङ्गुलम् ॥ २४.८९॥ त्रितयेन चतुर्मात्रं देशिन्यायाममिष्यते । यवेन मात्रविस्तारं देशिन्यास्तु विधीयते ॥ २४.९०॥ अङ्गुष्ठतर्जनीमध्ये रन्ध्रं तत् त्रयकं भवेत् । मध्यायामं त्रिमात्रार्धं चतुरर्धयवेन च ॥ २४.९१॥ पादाङ्गुष्ठात् कनिष्ठान्तं नखविस्तृतमीरितम् । विस्तारसममायामं नखानां वृत्तमाकृतिः ॥ २४.९२॥ षट्सप्तत्यङ्गुले तस्य ऊर्वोर्भागं महामुने । नाभिदेशस्य नाहन्तु त्रिचत्वारिंशदङ्गुलम् ॥ २४.९३॥ श्रोणिदेशस्य नाहन्तु पञ्चाशन्मात्रमीरितम् । अन्येषां चैव सर्वेषां नाहमानं विधीयते ॥ २४.९४॥ तत्तारं त्रिगुणीकृत्य तन्मध्यांशं भवेत्पुनः । त्रिगुणीकृततारेण तदेका दश योजयेत् ॥ २४.९५॥ तदेव समवृत्तानां नाहमित्यभिधीयते । उष्णीषात्पृष्ठ देशान्तं सार्धत्रयोदशाङ्गुलम् ॥ २४.९६॥ (उष्णीषात्पृष्ठ केशान्तं) ग्रीवायामं तु भागं स्यात् तत्सम ञ्चाङ्कुरं भवेत् । (तत्सम तु ककुद्) ककुदः कटिसन्धेश्च सप्तविंशतिमात्रतः ॥ २४.९७॥ गण्डप्रदेशस्तस्याधः सार्धत्रयोदशाङ्गुलम् । तस्याधः पृष्ठ कसमं सार्धवेदाङ्गुलं भवेत् ॥ २४.९८॥ ऊर्वायामन्तु तम्याधः सार्धद्वाविंशदङ्गुलम् । जान्वा यामान्तभागं स्यात् जङ्घात्रिनवमानकम् ॥ २४.९९॥ (जान्वा यामन्तु) पार्ष्ण्यायामन्तु भागं स्यात् पृष्ठयामं प्रकीर्तितम् । कर्णयोरन्तरं पृष्ठे द्वादशाङ्गुलमुच्यते ॥ २४.१००॥ कक्षयोरन्तरं पृष्ठे सप्तविंशतिमात्रकम् । पृष्ठावधिसमारभ्य तस्योर्ध्वे दशमात्रकम् ॥ २४.१०१॥ स्फिक्पिण्डं कारयेदूर्ध्वे मूलं तद्वत्समुन्नतम् । (कारयेदूर्ध्वे मूलाद्भागं) उपमानं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१०२॥ ऊरुमूलान्तरं मात्र जानुमध्ये कलान्तरम् । (जानुमध्ये कलार्धकं) सार्धपक्षाङ्गुलेनैव जङ्घान्तरमिति स्मृतम् ॥ २४.१०३॥ नलकाधरमङ्गुल्यभागं पार्ष्ण्यन्तरं भवेत् । (नलान्तरं शराङ्गुल्यभागं) अङ्गुष्ठाग्रद्वयोर्मध्ये यावकं चेति कीर्तितम् ॥ २४.१०४॥ सार्धपक्षाङ्गुलं मध्ये श्रोणिप्रकोष्ठमूलयोः । पार्श्वमध्यमबाह्वोश्च मध्यमे कौशिकाङ्गुलम् ॥ २४.१०५॥ कर्तर्यनामिका बाह्वोरन्तरं दशमात्रकम् । मणिबन्धकबाह्वोश्च द्व्यन्तरं तु यमं भवेत् ॥ २४.१०६॥ पताकाग्रं स्तनान्तं स्यात् तयोर्मध्येऽन्तरं यमम् । वरदं चेत्तु तत्पृष्ठं नाभेस्तु सममुच्यते ॥ २४.१०७॥ कटिकाधः प्रदेशन्तु मेढ्रमूलसमं भवेत् । अव्यक्तमन्यताग्राह्यं कल्पयेत्कल्पवित्तमः ॥ २४.१०८॥ (अनुक्तमन्यताग्राह्यं) केशान्तं मकुटोत्तुङ्गं मुखमात्रं प्रचक्षते । सत्रिपादमुखं वाऽपि द्विमुखं वाऽथ कल्पयेत् ॥ २४.१०९॥ आयुधं मुखमात्रोच्चं सर्वलक्षणसंयुतम् । मानहीने महाव्याधिरधिके शत्रुवर्धनम् ॥ २४.११०॥ तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् । चतुर्भुजन्द्विबाहुञ्च शान्तं सिद्धिप्रदं स्मृतम् ॥ २४.१११॥ द्विभुजश्च चतुर्बाहुः षड्भुजोऽष्टभुजः पुनः । द्विषट्भुजः पञ्चभेदा एतेषां लक्षणं श‍ृणु ॥ २४.११२॥ द्विहस्ते पञ्चभेदोऽस्ति कटिबद्धाभयन्तु वा । पद्मधृक् सकबद्धं वा दण्डेन कटिबद्धकम् ॥ २४.११३॥ (पद्मधृक् कटिबद्धं) शक्तिवज्रधरं वाऽपि शक्तिकुक्कुटमेव च । चतुर्भुजः सप्तभेदं वज्रशक्तिवराभयम् ॥ २४.११४॥ अभयं वरदं पश्चादक्षमाला कमण्डलुम् । ततो वै कुण्डिकाक्षस्रक् कटिबन्धाभयान्वितम् ॥ २४.११५॥ पश्चादभीतिवरदं शक्तिकुक्कुटसंयुतम् । ततोऽभयञ्च शक्तिञ्च कुक्कुटं चाक्षमालिकाम् ॥ २४.११६॥ शक्तिं कमण्डलुं पश्चात् कटिबद्धाभयन्तु वा । पश्चात् कुक्कुटशक्तिभ्यामसिखेटसमायुतम् ॥ २४.११७॥ एवंविधानां बेराणां सूत्रमूर्तिरुदीरितम् । ललाटाद्घ्राण भ्रूमध्ये श्रोणिमध्ये तथा पुनः ॥ २४.११८॥ (ललाटाद्घ्राण हृद्मध्ये) मेढ्रमूलस्य मध्ये तु स्वातपाद्द्वयमध्यमे । अङ्गुष्ठमूलयोर्मध्ये स्थितं स्याच्छिवसूत्रकम् ॥ २४.११९॥ उष्णीषात्तु ककुद्वंशं खण्डस्फिक्पादमध्यगम् । ऋजुस्थितिरिति ख्याता लम्बसूत्रं प्रलम्बयेत् ॥ २४.१२०॥ षड्भुजे त्वभयं खङ्गं शक्तिं दक्षिणपाणिषु । खेटकं चाक्षमालाञ्च कुक्कुटं वामपाणिषु ॥ २४.१२१॥ अष्टबाहुं ततो वक्ष्ये वराभिर्वज्रशक्तयः । खड्गखेटशरञ्चापं द्विषड्भुजमथ श‍ृणु ॥ २४.१२२॥ द्विषड्भुजेति षड्भेदं तत्तद्भेदं वदाम्यहम् । सव्ये शक्तिधरं खड्गं ध्वजं चैव गदाभयम् ॥ २४.१२३॥ वामे वज्रं धनुः खेटं पद्मं शूलं वरः पुनः । शक्ति बाणञ्च खड्गञ्च चक्रं पाशं प्रसारितम् ॥ २४.१२४॥ सव्ये वामेऽपि चक्रञ्च शड्खं वै कुक्कुटं ततः । धनुर्दण्डं हलं चैव विश्वामित्र महामुने ॥ २४.१२५॥ शक्तिञ्च मुसलं खङ्गं चक्रं पाशं तथा भयम् । (तथा अङ्कुशं) वज्रं धनुर्ध्वजं खेटमङ्कुशं वरदं तथा ॥ २४.१२६॥ शक्तिं खङ्गं ध्वजं पद्मं कुक्कुटं प्रासदण्डके । वराभयधनुर्बाणं टङ्कमेतैर्युतन्तु वा ॥ २४.१२७॥ वज्रं शक्तिञ्च दण्डञ्च चक्रं पाशाङ्कुशं गदाम् । शूलं च चक्रपद्मे च वरदाभयसंयुतम् ॥ २४.१२८॥ शक्तिं चर्ममसिं शूलं विशिखाभीतिकार्मुकम् । चक्रं पाशं कुक्कुटञ्च वरदं द्वादशैः करैः ॥ २४.१२९॥ दधानं षण्मुखं शान्तं प्रतिवक्त्रं त्रिलोचनम् । एवं विधानं षड्वक्त्रमेकास्यं वाऽथ कल्पयेत् ॥ २४.१३०॥ कुङ्कुमाभं द्वादशाक्षं सर्वाभरणभूषितम् । लम्बसूत्रं ततो वक्ष्ये ललाटोष्णीष मध्यमे ॥ २४.१३१॥ नासादक्षिपुटे पार्श्वे हिक्काहृत्स्तनसव्यके । नाभेर्दक्षेऽथवान्तर्ये मेढ्रदक्षिणपार्श्वके ॥ २४.१३२॥ (नाभेर्दक्षेऽयवान्तर्ये) शयिताङ्घ्रेश्च पार्ष्ण्यन्ते लम्बपादस्य पार्ष्ण्यके । किञ्चिद् भङ्गयुतं सव्य मयूरारूढके ततः ॥ २४.१३३॥ मयूरे शयितं वामे सव्यपादविलम्बितम् । नागेन्द्रोपरि संस्थञ्च तत्पादं कारयेत्ततः ॥ २४.१३४॥ मयूरपार्श्वयोः स्थित्वा समदेहं प्रकल्पयेत् । गजारूढं तथा कार्यं पार्श्वयोः स्थितरूपकम् ॥ २४.१३५॥ एककण्ठाकृतिर्वाऽथ षट्कण्ठाकृतिरेव वा । एकास्यैककर्णन्तु षट्कर्णं रसवज्रके ॥ २४.१३६॥ एकास्ये तु शिरश्चक्रं कल्पयेत्कल्पवित्तमः । आसनं स्थानकं वाऽपि ध्यानकं त्रिविधं स्मृतम् ॥ २४.१३७॥ आसनं द्विविधं प्रोक्तं स्थानकन्तु चतुर्भुजम् । द्विषड्भुजं चाष्टबाहुं षड्बाहुं ध्यानरूपकम् ॥ २४.१३८॥ योगं भोगञ्च यानञ्च बेरन्तु त्रिविधं पुनः । आसनं योगबेरं स्यात् स्थानकं भोगबेरकम् ॥ २४.१३९॥ ध्यानकं यानबेरं स्यात् नागरादिक्रमं तथा । सात्त्विकं द्विभुजं बेरं राजसं स्याच्चतुर्भुजम् ॥ २४.१४०॥ तामसं द्वादशभुजमेवं स्यादर्चनाविधौ । पीतं वा रक्तवर्णं वा श्यामं वर्णमथापि वा ॥ २४.१४१॥ स्कन्दं पद्मासनस्थं वा मयूरारूढमेव वा । गजेन्द्र यानकं वाऽपि शक्त्येका सहितन्तु वा ॥ २४.१४२॥ (गजेन्द्र वाहनं) शक्तिं विनाऽपि कर्तव्यं सोपवीतं सुयौवनम् । छन्नवीरसमायुक्तं पादनूपुरसंयुतम् ॥ २४.१४३॥ पत्रकर्णयुतं कान्तं नानाकुण्डलकं तथा । मन्दस्मितं बालवेषं शोभनाङ्ग शुभेक्षणम् ॥ २४.१४४॥ करण्डमकुटोपेतं सर्वलक्षणसंयुतम् । शक्तिद्वययुतं वाऽपि शक्त्येकसहितन्तु वा ॥ २४.१४५॥ शक्तिं विनाऽपि कर्तव्यं योगबेरं तदीरितम् । देव्योरुत्सेधमद्यैव श‍ृणु कौशिक सुव्रत ॥ २४.१४६॥ कर्णान्तं वाऽथ सीमान्तं हन्वन्तं बाहुतुङ्गकम् । (कर्णान्ता चास्य सीमन्तं) हिक्कान्तं वा स्तनान्तं वा कल्पयेदुत्तमानि च ॥ २४.१४७॥ मध्यमं दशतालेन देव्यौ च परिकल्पयेत् । महावल्ल्याकृतिं वक्ष्ये श्यामं मन्दस्मिताननम् ॥ २४.१४८॥ स्थितं वै सव्यपादं तु वामपादं तु कुञ्चितम् । पद्मधृद्वामहस्तञ्च सव्यहस्तं प्रलम्बितम् ॥ २४.१४९॥ देवसेनाकृतिं वक्ष्ये रक्तं मन्दस्मिताननम् । स्थितं वै वामपादन्तु दक्षपादं तु कुञ्चितम् ॥ २४.१५०॥ उत्पलं सव्यहस्ते च वामहस्तं प्रलम्बितम् । अङ्गाङ्गकायमनयोर्लम्बे सूत्रमथोच्यते ॥ २४.१५१॥ उष्णीषाद्वामनेत्रान्ते वामनासापुटान्तके । वामहिक्कान्तरे वाम आचाभ्यन्तरपार्श्वके ॥ २४.१५२॥ नाभेर्दक्षिणपार्श्वे तु स्थितं वा जानुदक्षिणे । पार्श्वे कुञ्चितपादस्य वामस्थायां तु सूत्रके ॥ २४.१५३॥ वल्ल्यायस्थतरे पार्श्वे लम्बसूत्रं प्रकल्पितम् । पीठस्य लक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१५४॥ बेरयामत्रिभागैकमासने पीठतुङ्गकम् । बेरायुगाङ्गं पीठोच्चं स्थानकस्य तु पीठके ॥ २४.१५५॥ [बेरायामयुगांशैकं पीठोच्चं स्थानकस्य तु ।] पीठोच्चसममायामं पादाधिकमथापि वा । तदर्धं वा प्रकर्तव्यं चतुरस्त्रं समन्ततः ॥ २४.१५६॥ उत्सेधद्विगुणं वाऽपि सार्धद्विगुणमेव वा । पादेन द्विगुणं वाऽपि विस्तारं पूर्ववद्भवेत् ॥ २४.१५७॥ सप्तभागं चतुःस्थानमथवा निर्गमं भवेत् । आयताश्रं समाख्यातं निर्गमेन युतं दृढम् ॥ २४.१५८॥ आयामन्तु त्रिधा कृत्वा भागं वा निर्गमं भवेत् । सप्तभागं चतुर्भागं अथवा निर्गमं भवेत् ॥ २४.१५९॥ पीठोत्सेधं परिग्राह्य तिथ्यंशं विभजेत्ततः । ज मव्योमांशमुदितं युगांशं जगती भवेत् ॥ २४.१६०॥ वेदांशं कुमुदं ज्ञेयं व्योमांशं पट्टिका भवेत् । पक्षांशं स्कन्धमुदितं पट्टिकांशैकमुच्यते ॥ २४.१६१॥ महापट्टिद्विभागेन भद्रपीठं महामुने । उत्सेधं पूर्ववद्भज्य जन्मव्योमांशमेव च ॥ २४.१६२॥ जगती चतुरंशेन विप्र कन्यांशकं भवेत् । व्योमांशं पट्टिका ज्ञेया कन्धरन्तु द्विमात्रकम् ॥ २४.१६३॥ एकेन पट्टिकां कुर्यात् महापट्टी तदंशकम् । व्योमांशमूर्ध्वपट्टी च पीठं श्रीकरसंज्ञकम् ॥ २४.१६४॥ स्मृत्यंशं भज्य तद्दैर्घ्यमुपानत्वेकमुच्यते । एकांशेनैव कल्पं तु पद्ममेकं न कारयेत् ॥ २४.१६५॥ कल्पमेकेन कर्तव्यं जगती च युगांशकम् । रुद्राक्षांशेन वप्रं स्यात् पट्टमेकेन कारयेत् ॥ २४.१६६॥ पक्षांशेनैव कण्ठन्तु कल्पमेकेन कारयेत् । ऊर्ध्वपद्म द्वयांशेन महापट्टिद्विमात्रतः ॥ २४.१६७॥ एतत्सौन्दर्यमाख्यातं दैर्घ्यं मन्वंशकं भवेत् । जन्मैकांशमथान्यंशं पद्ममेकेन पट्टिका ॥ २४.१६८॥ (जन्मैकांशमथाग्न्यंश) चतुरंशेन कण्ठन्तु व्योमांशेनैव कम्पकम् । (व्योमांशेनैव कल्पकं) ऊर्ध्वपद्मं नवांशेन महापट्टिद्विमात्रकम् ॥ २४.१६९॥ व्योमांशेनोर्ध्वपट्टी च पद्मपीठमिदं भवेत् । चतुर्विंशत्पञ्चविंशत् षड्विंशद्भागसंयुतम् ॥ २४.१७०॥ पीठभागं भजेत्तस्मिन् एकवंशेन निर्गमम् । पङ्क्तित्रययुतं वाऽपि भूतपङ्क्तियुतन्तु वा ॥ २४.१७१॥ मुनिपङ्क्तियुतं वाऽपि कण्ठभागन्तु कारयेत् । स्वतः प्रधाने कर्तव्यमेकं स्यान्मूलबेरकम् ॥ २४.१७२॥ मयूरारूढमुदितं वाहनेन विनाऽथवा । मयूरलक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१७३॥ पादादेर्मस्तकान्तञ्च मयूरोत्तुङ्गमीरितम् । बेरोच्चमर्धमर्धार्धमुत्तमं मध्यमाधमम् ॥ २४.१७४॥ पादादिमस्तकान्तञ्च गृह्य तत्पञ्चधा भवेत् । (पाद्यादिमस्तकान्तञ्च) द्विभागञ्चरणोत्तुङ्गं कायमेकांशमेव च ॥ २४.१७५॥ शेषांशं स्याद्गलोत्तुङ्गमर्धांशं नासिका भवेत् । उरसः पुच्छपर्यन्तन्तत्पादाधिकमेव च ॥ २४.१७६॥ अर्धाधिकं त्रिपादं वा उत्तमे मध्यमेऽधमे । विस्तारस्य त्रिभागैकं पृष्ठतारं प्रकीर्तितम् ॥ २४.१७७॥ तन्नाहं गलमूलन्तु तदर्धन्तु गलाग्रकम् । त्रिपुच्छाग्रशिखीपिञ्च्छं गलं पादद्वयं सुधीः ॥ २४.१७८॥ पिञ्च्छपुच्छमलङ्कृत्य चास्यं नागेप्रलम्बितम् । सर्वालङ्कारसंयुक्तमङ्गोपाङ्गैश्च शोभितम् । यथाशोभं तथा सर्वं युक्त्या युञ्जीत बुद्धिमान् ॥ २४.१७९॥ इति श्रीकुमारतन्त्रे प्रतिमालक्षणविधिर्नाम चतुर्विंशः पटलः ।

२५. पञ्चविंशः पटलः - शूलस्थापनविधिः

अथ कौशिक वक्ष्येऽहं शूलस्थापनमुत्तमम् । चन्दनस्तिन्दुकस्तालश्शिरीषं सोमवल्कलम् ॥ २५.१॥ राजादनः सप्तपर्णः स्तम्बको रक्तचन्दनम् । आसनं खादिरो देवदार्वेते शूलबेरयोः ॥ २५.२॥ उत्कृष्टभूमिसञ्जाता भिन्नसारास्युरुत्तमाः । रूक्षसारा मध्यमा स्युः फल्गुसाराश्च निन्दिताः ॥ २५.३॥ वक्रं त्वशनिना भग्नं स्वयं शुष्कं परित्यजेत् । स्त्रीपुन्नपुंसकं ज्ञात्वा त्यजेद्वृक्षं नपुंसकम् ॥ २५.४॥ स्यात्स्त्रीवृक्षं पुमान् पुंसी कर्तव्यं फलकाङ्क्षिभिः । प्रशस्तपक्षनक्षत्रे सुमुहूर्ते सुलग्नके ॥ २५.५॥ स्थपतिर्विधिना ग्राह्यं कल्पयेत्स्थापकाज्ञया । यावद्बेरोच्चमधुना तावच्छूलस्य दैर्घ्यकम् ॥ २५.६॥ चतुर्भागैकविस्तारं मध्योदरविशालकम् । अष्टश्रं चतुरश्रं वा हिक्कान्तास्यन्तमीरितम् ॥ २५.७॥ शेषाण्यङ्गानि वृत्तानि कारयेन्मुनिपुङ्गव । पञ्चभागैकहीनेन बाहुपर्यन्तविस्तरम् ॥ २५.८॥ वक्षो दण्डवनं तस्य भूतभागैकविस्तरम् । (वक्षो दण्डायतं) कटि विस्तारं पञ्चांशहीनेन कटिदण्डकम् ॥ २५.९॥ हस्तौ पादावङ्गुलीश्च तथैव परिकल्पयेत् । मानो ज्ञानप्रमाणेन प्रतिमां कारयेद्बुधः ॥ २५.१०॥ मानहीने महाव्याधिरधिके रिपुवर्धनम् । तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ॥ २५.११॥ उक्तस्थानं प्रकर्तव्यं रत्नन्यासन्तु पूर्वके । बीजानि सर्वरत्नानि धातुगन्धौषधीरपि ॥ २५.१२॥ पात्रे निधाय पूर्वादितत्तद्दिक्पतिमन्त्रतः । देशिकः स्थाप्य तत्पश्चात् शूलस्थापनमाचरेत् ॥ २५.१३॥ इति श्रीकुमारतन्त्रे शूलस्थापनविधिर्नाम पञ्चविंशः पटलः ।

२६. षड्विंशः पटलः - अचलस्थापनविधिः

अचलस्थापनं वक्ष्ये श‍ृणुष्व मुनिपुङ्गव । सर्वलोकहितं पुण्यं सर्वरोगविनाशनम् ॥ २६.१॥ श्रीप्रदं विजयं सौम्यं सर्वदोषनिकृन्तनम् । (विजयं सौख्यं) कुशब्दः कुत्सितो ज्ञेयो मारशब्दस्तु मारणम् ॥ २६.२॥ कुत्सितार्थं मृतं येन कुमारो नाम विद्यते । आदिशक्तेः समानांशो महासेनोपजायते ॥ २६.३॥ (आदिशक्तेः सहस्रांशो) पद्माख्यां षण्मुखीं मुद्रां षण्मुखप्रीतये श‍ृणु । सहितौ मणिबन्धौ द्वौ कनिष्ठौ सङ्गतौ तथा ॥ २६.४॥ अङ्गुष्ठौ सङ्गतौ द्वौ च शेषाः प्रविरला स्मृताः । पद्ममुद्रेति विख्याता सर्वसिद्धिप्रदायिनी ॥ २६.५॥ अङ्गुष्ठौ द्वावधो युक्तौ कनिष्ठाग्रपरस्परौ । तर्जन्यौ मध्यमालग्नावनामिकाङ्गुली तथा ॥ २६.६॥ तेषां मध्ये प्रविरलावूर्ध्वगौ मध्यमाङ्गुलौ । मुद्रेयं षण्मुखी प्रोक्ता विधिरन्योऽस्ति तं श‍ृणु ॥ २६.७॥ शेषाङ्गुलीनामन्योन्यं मणिबन्धं च संयुतौ । तिर्यक्कनिष्ठिकाग्रे च उदयावपि षण्मुखी ॥ २६.८॥ षण्मुखी द्विविधा ज्ञेया भुक्तिमुक्तिपदायिनी । प्रतिमां कारयेद्धीमान् प्रतिमालक्षणोक्तवत् ॥ २६.९॥ उत्तरायणकाले स्यान्न कुर्याद्दक्षिणायने । शुक्लपक्षेऽपि रिक्ता च प्रतिपच्चाष्टमी तिथौ ॥ २६.१०॥ पञ्चदश्यां शुभं ज्ञयं गुर्विन्दुज्ञसितश्शुभाः । अशुभा रविसौराराः शुभयोगे शुभप्रदाः ॥ २६.११॥ ज्येष्ठादिपूर्वनैरृत्यमाश्लेषाग्निश्च वारुणम् । श्रविष्ठार्द्रा विशाखा च नेष्ट स्थापनकर्मणि ॥ २६.१२॥ चरराश्यधतस्रस्तु धनुर्नेष्टास्तु राशिषु । शुभग्रहाणां होराश्च द्रेक्काणादेः शुभं न च ॥ २६.१३॥ पापग्रहसमायुक्ता मुक्तिकाङ्क्षी तमन्धकम् । षण्डस्थूणव्यतीपातं वृष्टिके रणसङ्क्रमम् ॥ २६.१४॥ कण्टकं ब्रह्मदण्डञ्च विद्धमुत्पातकन्तथा । ग्रहणं वेधनक्षत्रं शूलर्क्षं भूमिकम्पनम् ॥ २६.१५॥ ध्वजं चैव विशेषेण वर्जयेत्तु प्रयत्नतः । गुरुशुक्रास्तमनयोः प्रतिष्ठां वर्जयेत्ततः ॥ २६.१६॥ एवं परीक्ष्य कर्तव्यमचलस्थापनं मुने । अचलानां मूलबेरमचलं परिकीर्तितम् ॥ २६.१७॥ शिखरे पर्वते वाऽपि पर्वतस्यान्तिकेऽपि वा । नदीतीरेऽप्युपवने पुण्यक्षेत्रे चतुष्पथे ॥ २६.१८॥ ग्रामे च नगरे चैव पत्तने खेटकेऽपि वा । राजधान्यां वीथिमध्ये वीथ्यग्रे सर्वदिक्षु च ॥ २६.१९॥ पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यमुदङ्मुखम् । परिवारामरैर्युक्तं स्थापयेच्छरसम्भवम् ॥ २६.२०॥ द्विहस्तो यज्ञसूत्राङ्गः सशिखः सत्रिमेखलः । कौपीनदण्डधृक् सव्यपाणितुर्याश्रितोऽपरान् ॥ २६.२१॥ स्थापयेद्दैकतं स्कन्दं पर्वतेषु वनेषु च । द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यः सुसुन्दरः ॥ २६.२२॥ पद्मधृक् सव्यपाणिस्तु इतरेतरधृक्करः । बालरूपं प्रतिष्ठाप्य ग्रामस्यैवाभिवृद्धये ॥ २६.२३॥ चतुर्भुजो द्विनेत्रश्च कर्णयोः पत्रपिण्डधृक् । नक्रकुण्डलसंयुक्तश्चक्रशक्तिवराभयः ॥ २६.२४॥ शक्तिद्वयसमायुक्ता शक्त्येकसहितोऽथवा । द्विनेत्रे द्विभुजे शान्ते पद्मचारुकराम्बुजे ॥ २६.२५॥ लथ्वमानकरे चैव श्यामरक्तकरप्रभे । महावल्लीं देवसेनां सव्यवामस्थिते उभे ॥ २६.२६॥ एवं लक्षणधृक् स्थाप्यो ग्रामे वा नगरेऽपि वा । षडाननश्च षड्बाहुरर्कश्रोत्रेक्षणान्वितः ॥ २६.२७॥ षट्कण्ठस्त्वेककण्ठो वा प्रतिमौलिभिरन्वितः । सशक्तिस्साभयस्सासिः साक्षमालस्सकुक्कुटः ॥ २६.२८॥ सखेटकस्त्वयं स्थाप्यो वृद्धये पत्तनादिषु । रक्ताम्बरसमायुक्तो बालचन्द्रसमप्रभः ॥ २६.२९॥ करण्डमकुटोपेतो हस्तद्वादशकस्तु वा । शक्तिञ्च मुसलं खङ्गं चक्र पाशाभये वहन् ॥ २६.३०॥ दक्षिणे दक्षिणे वज्रं कार्मुकं खेटकन्तथा । मयूरञ्च ध्वजं वाऽपि साङ्कुशं वरमावहन् ॥ २६.३१॥ सोपवीतो मयूरस्थः शक्तिद्वयसमन्वितः । ग्रामादौ स्थापयेद्देवं प्रासादादौ च सिद्धये ॥ २६.३२॥ एवं पञ्चविधं प्रोक्तं विभागस्थानभेदतः । स्वतः प्रधाने वक्त्रैकं मूलबेरन्तु पूर्तिदम् ॥ २६.३३॥ मोक्षार्थं षण्मुखं बेरं मूलबेरं प्रतिष्ठितम् । प्रतिष्ठादिवसात्पूर्वं सप्तमे पञ्चमेऽह्नि वा ॥ २६.३४॥ त्रिदिने तद्दिने वाऽपि कारयेदङ्कुरार्पणम् । (तृतीयेदिने) मण्डपं कारयेद् विद्वान् प्रासादाग्रे द्विपार्श्र्वयोः ॥ २६.३५॥ द्वात्रिंशद्धस्तविस्तारमुत्तमं मण्डपं स्मृतम् । अष्टाष्टस्तम्भसंयुक्तं पङ्क्तिनालमथोच्छ्रयम् ॥ २६.३६॥ मण्डपस्यैव मध्ये तु चतुस्तम्भैर्विराजयेत् । विंशत्करसमायुक्तं मध्यमं मण्डपं स्मृतम् ॥ २६.३७॥ षट्त्रिंशद्गात्रसंयुक्तं नवतालसमुच्छ्रयम् । पूर्ववत्सन्त्यजेत्स्तम्भान् रविहस्तायतन्ततः ॥ २६.३८॥ षोडशस्तम्भसंयुक्तमष्टतालं समुच्छ्रयम् । कन्यसं मण्डपं ज्ञेयं विश्वामित्र महामुने ॥ २६.३९॥ उत्तमादिषु बेरेषु तत्तद्योग्यं प्रकल्पयेत् । कूटं वाऽपि प्रपां वाऽपि मण्डपं सम्यगाचरेत् ॥ २६.४०॥ एकाशीतिपदं कृत्वा मध्यवेदी नवांशतः । रत्निमात्रं समुत्सेधं दर्पणोदरसन्निभम् ॥ २६.४१॥ सुधयेष्टिकया वाऽपि मृदा निर्दोषयाऽपि वा । तत्प्रदेशं खनित्वाऽथ पूरयेच्छुद्धवालुकैः ॥ २६.४२॥ तदूर्ध्वे वेदिकाञ्चैव कुण्डानि च प्रकल्पयेत् । परितश्चोपवेदीञ्च युगाङ्गुलसुविस्तृतम् ॥ २६.४३॥ तदूर्ध्वोच्छ्रयसंयुक्तां निम्नोन्नतविवर्जिताम् । द्विद्व्यङ्गुलं तथाधिक्यं मध्यमोत्तममण्डपे ॥ २६.४४॥ वेदिकायास्तु परितः कुण्डानि परिकल्पयेत् । उत्तमे मण्डपे चैव द्वात्रिंशत्कुण्डमीरितम् ॥ २६.४५॥ चतुर्विंशतिकुण्डानि कुर्यान्मध्यममण्डपे । नवकुण्डानि कर्तव्या कन्यसे मण्डपे द्विज ॥ २६.४६॥ अश्रं योन्यर्धचन्द्राभं गुणाश्रं वर्तुलाकृतिम् । षडश्रं पद्ममष्टाश्रं कुर्यात्पूर्वादिदिक्षु च ॥ २६.४७॥ षडश्रन्तु प्रधानं स्यान्मध्ये शाङ्करवज्रिणोः । एवमभ्यन्तरे कुर्यात् बाह्ये सर्वयुगाश्रकम् ॥ २६.४८॥ सर्वलक्षणसंयुक्तं पूर्वोक्तविधिनाऽचरेत् । चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २६.४९॥ वितानैरपि सञ्च्छाद्यमष्टदिग्गजसंयुतम् । हेमशूलारुणा रक्ता कृष्णनीलसितारुणा ॥ २६.५०॥ एकहस्तविशालोच्चं तदर्धार्धशिरोऽन्वितम् । ध्वजायामसमायामं पुच्छद्वयसमन्वितम् ॥ २६.५१॥ वज्रं त्रिशूलपर्यन्तं ध्वजेष्टसु लेखयेत् । प्रपादिषु क्रमादेवं लम्बयेत्तु प्रदक्षिणम् ॥ २६.५२॥ रम्भा पनसपूगाम्रनालिकेरफलैरपि । चूतवृक्षांस्तु ताम्बूललताभिश्च विभूषयेत् ॥ २६.५३॥ मुक्ताः स्रग्दामविविधैर्दर्भमालाभिरावृतम् । गात्रवेष्टनसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ २६.५४॥ अष्टमङ्गलसंयुक्तं घृतदीपसमन्वितम् । कुण्डगेहसमायुक्तं मण्डपं भूषयेत्ततः ॥ २६.५५॥ मण्डपस्योत्तरे कुर्यात्तदर्धेनैव मण्डपम् । तन्मध्ये स्नानवेदीञ्च वेद्यूर्ध्वे च विशालतः ॥ २६.५६॥ नालावटसमायुक्तं जलमार्गसमायुतम् । बाहुमात्रायताघातं श्वभ्रं तस्यैव वामतः ॥ २६.५७॥ गोमयालेपनं कृत्वा रजांसि विनिपातयेत् । शैलजं मृण्मयं बेरमचलं द्विविधं भवेत् ॥ २६.५८॥ मृण्मयं चलकर्म स्याद् रत्नन्यासं तटाद्यके । शैलजे रत्नविन्यासं प्रतिष्ठाकालपूर्वतः ॥ २६.५९॥ उक्तस्थाने गर्भगेहे रत्नन्यासं समाचरेत् । वज्रं मरकतं नीलं पुष्यरागं प्रवालकम् ॥ २६.६०॥ मौक्तिकं चैव वैडूर्यं स्फटिकञ्च महामणिम् । इन्द्रादि मध्यपर्यन्तं स्कन्दमूलेन विन्यसेत् ॥ २६.६१॥ सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् । आरकूटञ्च विदुषा देवलोहं क्रमान्न्यसेत् ॥ २६.६२॥ हरितालक्रमञ्चैव गन्धञ्चागरुचन्दनम् । सौराष्टं गैरिकञ्चैव माक्षिकं प्राग्विदिक्षु च ॥ २६.६३॥ वैष्णवं वज्रपाणिञ्च वृषभध्वजमेव च । लक्ष्मीश्च सहदेवीञ्च शङ्खपुष्पं सुवर्चलम् ॥ २६.६४॥ दूर्वाञ्च श्रीमुखञ्चैव विन्यसेत्तु क्रमेण तु । यवगोधूमनीवारं शालिवैणवकानि च ॥ २६.६५॥ प्रियङ्गुतिलमुद्गानि निष्पावञ्च क्रमान्न्यसेत् । चन्दनं कुङ्कुमञ्चैव लोहपात्रं फलत्रयम् ॥ २६.६६॥ कर्पूरमुशिरञ्चैव पूर्वाद्याशासु विन्यसेत् । पृथिवीं शातकुम्भेन समुद्ररजतेन तु ॥ २६.६७॥ कृत्वा मयूरं ताम्रेण तोमरं चामरं गजम् । श्रीवत्सं कलशं भेरीं दर्पणं पद्मपुष्पकम् ॥ २६.६८॥ महामेरुसुवर्णेन कृत्वा रन्ध्रावटे न्यसेत् । देव्योस्तद्दक्षिणे वामे हेमाब्जानि न्यसेद्धृदा ॥ २६.६९॥ मध्यमे दक्षिणे सौम्ये त्ववटेषु क्रमान्न्यसेत् । पद्ममुद्राञ्च मुकुलीं शोधनीञ्च प्रदर्शयेत् ॥ २६.७०॥ पूजयित्वा तु रत्नानि गन्धपुष्पादिभिस्तथा । पांसुना चानुलिप्याथ पीठन्यासक्रमान्न्यसेत् ॥ २६.७१॥ सर्वालङ्कारसंयुक्ते मण्डले स्थण्डिलोपरि । नयनोन्मीलनं कृत्वा नेत्रयुग्मयुते दिने ॥ २६.७२॥ मृण्मये गर्भगेहे तु नेत्रमोक्षणमाचरेत् । स्नातश्शुद्धश्शिल्पवेषो भस्माभरणवस्त्रयुक् ॥ २६.७३॥ पीतोऽक्षिमोक्षणं कुर्यात् हेमसूचिकया सुधीः । देवदेव्योर्मयूरञ्च कुक्कुटञ्च क्रमेण तु ॥ २६.७४॥ पक्ष्मरेखान्ततो लिख्य ततो वै कृष्णमण्डलम् । ज्योतिर्मण्डलमालिख्य पश्चाच्छिल्पिं विसर्जयेत् ॥ २६.७५॥ तस्याग्रे स्थण्डिलं कृत्वा बिम्बं तस्योपरिन्यसेत् । पुण्याहं वाचयेत्तत्र प्रोक्षयेदस्त्रमन्त्रतः ॥ २६.७६॥ सूत्रैकादिसमायुक्तानष्टकुम्भान् न्यसेत्क्रमात् । बेरस्य परितोऽभ्यर्च्य लोकेशान् स्वस्वमन्त्रतः ॥ २६.७७॥ हेमसूच्या गुरुर्लिख्य नेत्रमन्त्रमनुस्मरन् । मधु वाताऋतायेति मधुपात्रं प्रदर्शयेत् ॥ २६.७८॥ घृतं मिमिक्षेति मन्त्रेण घृतपात्रं प्रदर्शयेत् । आप्यायस्चेति मन्त्रेण क्षीरपात्रं प्रदर्शयेत् ॥ २६.७९॥ सुवर्णं रजतं कांस्यं पात्रं मध्वादिना ततः । सुवर्णदूर्वया नेत्रं मध्वाज्यक्षीरमर्पयेत् ॥ २६.८०॥ सुवर्णरेखा संयुक्तं सूर्यसोमाग्निदैवतम् । तर्जनीमध्यमाधिक्यां न्यसेन्नेत्रमनुत्मरन् ॥ २६.८१॥ धेनुगव्येति मन्त्रेण सवत्सां गां प्रदर्शयेत् । ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान्दर्शयेत्ततः ॥ २६.८२॥ जगद्भुवादिमन्त्रेण स्वस्तिमङ्गलवाचकैः । प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ॥ २६.८३॥ पञ्चगव्येन संस्नाप्य पञ्चब्रह्मषडङ्गकैः । कलशाद्भिस्तु संस्नाप्य ततः पञ्चामृतादिभिः ॥ २६.८४॥ अष्टमृत्सलिलेनैव स्नापयेत्तु षडक्षरैः । पर्वताग्रे नदीतीरे वल्मीके कर्कटावटे ॥ २६.८५॥ दन्ति दन्ते वृषे श‍ृङ्गे गवां गोष्ठे चतुष्पथे । मृदमष्टविधं ग्राह्य प्रकुर्याद्बिम्बशुद्धिकम् ॥ २६.८६॥ स्नापयेद्बिल्वतोयैश्च पञ्चत्वक्सलिलैरपि । गन्धाद्भिश्शुद्धतोयैश्च स्कन्दसूक्तेनमन्त्रतः ॥ २६.८७॥ नमकं चमकञ्चैव पुरुषसूक्तमतः परम् । पञ्चशान्तिं जपित्वाथ स्नापयेच्छरसम्भवम् ॥ २६.८८॥ गन्धपुष्पादिभिर्विद्वान् पूजयेद्धृदयेन तु । सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ २६.८९॥ वितानध्वजसंयुक्तं छत्रचामरभूषितम् । नानाभक्तजनैस्सार्धं नानादीपैस्समायुतम् ॥ २६.९०॥ रथे वा शिबिकायां वा कुर्याद्ग्रामप्रदक्षिणम् । जलतीरं समाच्छाद्य शुद्धिं कृत्वा भुवस्थलम् ॥ २६.९१॥ तस्मिन् बेरं समानीय वस्त्रादीनि व्यपोह्य च । नववस्त्रेण संवेष्ट्य लम्बकूर्चेन संयुतम् ॥ २६.९२॥ चतुर्गात्रयुतं कृत्वा जलमध्ये प्रपान्ततः । तन्मध्ये विन्यसेत्पीठं चतुर्गात्रयुतं दृढम् ॥ २६.९३॥ तदूर्ध्वे फलकां क्षिप्त्वा नाभिदघ्नेऽधिवासयेत् । अष्टकुम्भान् न्यसेद्दिक्षु दिग्देवान् पूजयेत्ततः ॥ २६.९४॥ पञ्चरात्रं त्रिरात्रं वाऽप्येकरात्रं जलोषितम् । चतुर्वेदैश्चतुर्दिक्षु कुर्यादध्ययनं द्विजैः ॥ २६.९५॥ पुण्याहं वाचयित्वाऽथ प्रोक्षयेद्यागमण्डपम् । वास्तुहोमं ततः कुर्यात् समीरिणपदे बुधः ॥ २६.९६॥ पर्यग्निकरणं तेन वह्निनाऽत्रैव कारयेत् । वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैस्तु शालिभिः ॥ २६.९७॥ तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २६.९८॥ दर्भैर्लाजैस्सपुष्पैश्च परिस्तीर्य यथाविधि । शयनं कल्पयेत्तत्र चर्मजाद्यैरनुक्रमात् ॥ २६.९९॥ जलादुत्तीर्य देवेशं स्नानवेद्योपरि न्यसेत् । व्यपोह्य वस्त्रकूर्चादीन् गव्यैश्चैवाभिषेचयेत् ॥ २६.१००॥ स्कन्दसूक्तं जपित्वाऽथ पवमानमुदीरयन् । अयङ्कुमारमन्त्रेण मालामन्त्रेण देशिकः ॥ २६.१०१॥ शुभाम्भसा तु संस्नाप्य रक्तवस्त्रेण वेष्टयेत् । (शुद्धाम्भसा) गन्धपुष्पादिभिः पूज्य हृदयेन तु मन्त्रतः ॥ २६.१०२॥ कौतुकं बन्धयेत्तत्र स्कन्दशक्तिं गुरूक्तमः । पद्ममुद्रां नमस्कार षण्मुखीं दर्शये त्ततः ॥ २६.१०३॥ नैवेद्यं दापयित्वाऽथ ताम्बूलञ्च निवेदयेत् । मण्डपं विकिरान् क्षिप्त्वा प्रोक्षयेदर्घ्यवारिणा ॥ २६.१०४॥ शयने शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । शक्तिद्वयं द्विपार्श्वे त शाययित्वा यथाविधि ॥ २६.१०५॥ वस्त्रेणाच्छादयेच्छक्तिद्वयञ्चैव पृथक्पृथक् । (वस्त्रेणाच्छादयेशक्तिद्वयंञ्चैव) भूतशुद्धिं ततः कृत्वाऽप्यन्तर्यजनमाचरेत् ॥ २६.१०६॥ अयङ्कुमारमन्त्रेण गन्धपुष्पादिनार्चयेत् । आसनं मूर्तिमूलञ्च ब्रह्माङ्गञ्चप्रपूरयेत् ॥ २६.१०७॥ (ब्रह्माङ्गञ्चप्रपूजयेत्) सर्वलक्षणसंयुक्तान् कुम्भान् सङ्गृह्य देशिकः । (कुम्भान् सङ्ग्राह्य) चतुर्विंशत्प्रस्थतोयैः पूरितं निष्कलङ्गुहम् ॥ २६.१०८॥ (निष्ककङ्गुहम्) पक्वबिम्बफलोपम्यं निर्दोषञ्च घनस्वनम् । स्कन्दकुम्भमिति प्रोक्तं शक्तिवज्रधरं न्यसेत् ॥ २६.१०९॥ [स्कन्दकुम्भमिति प्रोक्तं द्रोणतोयेन पूरितम् । समृद्धां लक्षणोपेतां गृहीत्वा शक्तिवर्धनीम् ॥ २६.११०॥ त्रिवृत्सूत्रेण संवेष्ट्य प्रादक्षिण्याद्यवान्तरम् । द्रोणतोयेन सम्पूर्णान् कुम्भान्सर्वान्सलक्षणान् ॥ २६.१११॥ तन्तुनावेष्ट्य कुशलो गवाक्षसदृशान्तरम् । अस्त्रेण क्षाल्य च प्रोक्ष्य वस्त्रपूतैर्जलैश्शुभैः ॥ २६.११२॥ सर्वगन्धयुतैःपूर्य रक्तवस्त्रद्वयेन च । स्कन्दकुम्भं समावेक्ष्य वद्धन्यौ च पृथक्पृथक् ॥ २६.११३॥ स्कन्दबेरशिरो भागे कल्पयेदासनन्ततः । स्कन्दकुम्भन्तु विन्यस्य स्कन्दाद्यैस्सम्यगर्चयेत् ॥ २६.११४॥ पञ्चरत्नानि विन्यस्य न्यसेदुत्तमकूर्चकम् । स्कन्दकुम्भं न्यसेन्मध्ये स्कन्दमन्त्रं सबीजयुक् ॥ २६.११५॥ आधाराख्यमनन्तञ्च धर्मादीन् कल्पकल्पवित् । अष्टशक्तिश्शकुन्याद्यां आसनमूर्तिमेव च ॥ २६.११६॥ सङ्कल्प्य च प्रसन्नात्मा सपुष्पाञ्जलिहस्तवान् । प्रभामण्डलमध्यस्थं प्रद्योदिनदिशामुखम् ॥ २६.११७॥ सहस्रादित्यसङ्काशं रत्नकुण्डलभूषितम् । करण्डमकुटोपेतं शुद्धयज्ञोपवीतिनम् ॥ २६.११८॥ रक्तवर्णाम्बरालेपं माल्यादिभिरलङ्कृतम् । छन्नवीरकटीसूत्रपादनूपुरसंयुतम् ॥ २६.११९॥ मन्दस्मितं बालवेषं सुप्रसन्नं शुभेक्षणम् । यादृशं प्रतिमाकारं तादृशं भाव्य बुद्धिमान् ॥ २६.१२०॥ स्कन्दस्य मूलमन्त्रेण स्कन्दं पद्मस्थमावहेत् । स्वागतं सद्यमन्त्रेण स्थापनं वामदेवतः ॥ २६.१२१॥ अघोरेण निरोधन्तु सान्निध्यमीशमन्त्रतः । सम्मुखं पुरुषेणैव पाद्यमाचमनार्ध्यकम् ॥ २६.१२२॥ गन्धपुष्पं हृदा दद्यात् धूपन्धूरसि मन्त्रतः । दीपं उद्दीप्यमन्त्रेण नैवेद्यञ्चान्नसूक्तकम् ॥ २६.१२३॥ ताम्बूलं हृदयेनैव तेनैवाचमनन्ददेत् । पद्ममुद्रां षण्मुखीञ्च नमस्कारान्प्रदशयेत् ॥ २६.१२४॥ आवाह्य हृदयेनैव दिग्बन्धेदस्त्रमन्त्रतः । महावल्लीं देवसेनां श्यामरत्न समप्रभाम् ॥ २६.१२५॥ सौम्यवक्त्रे पद्महस्ते वर्धन्यौ स्वस्वबीजतः । आवाह्य दक्षिणे वामे पद्ममुद्रां प्रदर्शयेत् ॥ २६.१२६॥ परितश्चाष्टकुम्भांश्च पूर्वादिषु क्रमान्न्यसेत् । जयन्ताख्यमग्निशिखं कृत्तिका पुत्रसंज्ञकम् ॥ २६.१२७॥ अनलं तु भूतपतिं सेनान्यं गुहसंज्ञकम् । हेमशूलं विशालाक्षं शक्तिवज्रधरं न्यसेत् ॥ २६.१२८॥] The second line of 26.109 is expanded within 26.110 through 26.128 स्वनामाद्यक्षरैश्चैव नमोऽन्तैर्नामभिः क्रमात् । शक्तिञ्चैवाक्षमालाञ्च कमण्डलुधनुर्धरान् ॥ २६.१२९॥ वज्रं कृत्वा सुवर्णेन स्कन्दकुम्भे न्यसेत्पृथक् । स्वर्णेन रचितं पद्मं वर्धन्योर्विन्यसेत्ततः ॥ २६.१३०॥ रजतात्स्वस्तिकं कृत्वा कुम्भेष्वष्टसु विन्यसेत् । नैवेद्यञ्चैव पानीयं ताम्बूलञ्च हृदा ददेत् ॥ २६.१३१॥ आत्मविद्या शिवाख्यञ्च जानुकण्ठशिरोऽवधि । तत्त्वत्रयं साधिपतिं मूर्तिमूर्तीश्वरान्न्यसेत् ॥ २६.१३२॥ मूर्तयः क्ष्मादयस्तत्र कार्तिकेयादिमूर्तिपाः । (मूर्तिपः क्ष्मादयस्तत्र) पञ्चैकचतुरस्त्रीणि पञ्चत्रिचतुरत्रयः ॥ २६.१३३॥ अनेन विधिना कुम्भान् पूर्वाद्याशासु विन्यसेत् । सुवर्णं सर्वकुम्भेषु न्यस्तव्यं फलकाङ्क्षिभिः ॥ २६.१३४॥ पश्चिमद्वारबाह्यान्ते नित्यद्वारं समर्चयेत् । (पश्चिमद्वारबाह्यास्थो वद्द्वारमर्चयेत्) शान्तिभूतिबलारोग्यं चतुर्दिक्षुः सतोरणैः ॥ २६.१३५॥ शान्तिं सुदेहं सुमुखमिन्द्रं पूर्वे समर्चयेत् । इन्द्राग्निमध्यमे भानुं वह्निकोणे हुताशनम् ॥ २६.१३६॥ याम्ये विद्यां महावल्लीं ततः सेनापतिं यमम् । निरृतिञ्च महाविष्णुं लक्ष्मीं निरृतिगोचरे ॥ २६.१३७॥ आप्ये निवृत्तिं शिखिनं गजं वरुणमस्त्रकम् । वायुं गणेशं क्षेत्रज्ञं वायव्यां दिशि पूजयेत् ॥ २६.१३८॥ (गणेशं क्षेत्रेशं) प्रतिष्ठां देवसेनाञ्च सुमित्रं सोममुत्तरे । ईशानञ्च चतुर्वक्त्रं गुरुमीशानगोचरे ॥ २६.१३९॥ तत्तत्स्वनाममन्त्रेण सर्वकुम्भान्समर्चयेत् । दशायुधानि सम्पूज्य हुम्फडन्तं स्वनामतः ॥ २६.१४०॥ भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन यागान्तं यावत्स्थेयं गुहाज्ञया ॥ २६.१४१॥ इत्येवं दशलोकेशान् प्रत्येकं श्रावयेद्गुरुः । दर्पणं पूर्णकुम्भश्च मयूरं युग्मचामरम् ॥ २६.१४२॥ श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् । तेषु सम्पूजयेन्मन्त्री गङ्गाद्यष्टनदीः क्रमात् ॥ २६.१४३॥ गङ्गाञ्च यमुनाञ्चैव नर्मदाञ्च सरस्वतीम् । सिन्धुं गोदावरोञ्चैव कावेरीं कुमरीं ततः ॥ २६.१४४॥ तृणबन्धांञ्च कम्पाञ्च वंशे स्तम्भे यथाक्रमम् । पृथिव्यादीनि तत्त्वानि पूजयेन्मण्डपे सुधीः ॥ २६.१४५॥ मण्डपञ्च गुहव्याप्तं निर्विघ्नं भाव्य तत्परः । ऋग्वेदं पूर्वदिग्भागे यजुर्वेदन्तु दक्षिणे ॥ २६.१४६॥ पश्चिमे सामवेदञ्च उदीच्यां दिश्यथर्वणम् । मालामन्त्रं स्कन्दसूक्तं गायत्रीं पञ्चशान्तिकम् ॥ २६.१४७॥ आग्नेयादिषु कोणेषु जपित्वा मन्त्रवित्तमैः । आचार्यो मूर्तिपैस्सार्धं होमकर्म समाचरेत् ॥ २६.१४८॥ कार्तिकेयो विशाखश्च गुहश्चैवासुरान्तकः । सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ॥ २६.१४९॥ शक्तिपाणिरिति ख्याता एते चैवाष्टमूर्तिपाः । स्वनामाद्यक्षरेणैव कुण्डानां दक्षिणे यजेत् ॥ २६.१५०॥ अग्न्याधानादिकं सर्वमग्निकार्योक्त वर्त्मना । प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ॥ २६.१५१॥ तत्त्वत्रयं साधिपतिं मूर्तिमूर्तीश्वरान्वितम् । महावल्लीं देवसेनां सहितं सम्प्रपूजयेत् ॥ २६.१५२॥ पालाशखदिराश्वत्यवटबिल्वशमी तथा । प्लक्षः पश्चादपामार्गमुदुम्बरमितीरितम् ॥ २६.१५३॥ प्रधानाद्यग्निकुण्डानां समिधो नव कीर्तिताः । सार्द्रा सत्ववसपलाशाश्च सप्ररोहा अनिन्दिताः ॥ २६.१५४॥ कनिष्ठाङ्गुलनाहं स्याद्द्वादशाङ्गुलमायताः । समिदाज्य चरु लाजं यवं सक्तुञ्च सर्षपम् ॥ २६.१५५॥ (यवं वेणुं) तिलं मुद्गं गुलं वेण मधु क्षीरं पुनर्दधि । (गुलं चैव) द्रव्यं त्रयोदशं प्रोक्तं होमयेत्तु यथाक्रमम् ॥ २६.१५६॥ (द्रव्याणि द्वादशैतानि प्रोक्तं) मूल मन्त्रं षडङ्गैश्च समिधादीनि मन्त्रवित् । (ब्रह्म मन्त्रं) शतमर्धं तदर्धं वा मूलमन्त्रेण देशिकः ॥ २६.१५७॥ ब्रह्माङ्गानां दशांशं स्यान्मूलार्धं मूर्तिपाहुतिः । मूर्तिपा जुहुयात् दिक्षु सर्वांश्च स्वस्वमन्त्रतः ॥ २६.१५८॥ (जुहुयात् विदिक्षु) स्कन्दगायत्रिमन्त्रेण प्रतिकुण्डं विशेषतः । शतमर्धं तदर्धं वा सर्पिषा जुहुयात्सुधीः ॥ २६.१५९॥ द्रव्यान्ते व्याहृतीर्हृत्वा स्पृष्ट्वा स्पृष्ट्वा च बेरकम् । स्कन्दसूक्तैश्च मन्त्रैश्च षड्भिः षड्वारमाज्यतः ॥ २६.१६०॥ (स्कन्दसूक्तस्य) जगद्भुवादिषण्मूर्तिमन्त्रैश्चैव हुनेत्सुधीः । अयङ्कुमारमन्त्रेण होमयेत् षोडशाहुतीः ॥ २६.१६१॥ मालामन्त्रेण मन्त्रज्ञो जुहुयाच्छिरसाहुतिम् । कृत्वैवं सर्वकुण्डेषु कुर्यात्तु शिरसा हुनेत् ॥ २६.१६२॥ सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् । दृढद्रव्यं करेणैव द्रवद्रव्यं स्रुवेण च ॥ २६.१६३॥ बीजानि कर्षयेच्चैव लाजमञ्जलिना हुनेत् । उपोष्यतो गुरुस्त्वैवं रात्रिशेषं व्यपोह्य च ॥ २६.१६४॥ मूर्तिपैस्सह संस्नात्वा नित्यकर्मकृतो गुरुः । सोष्णीषस्सोत्तरीयश्च हैमपञ्चाङ्गभूषणः ॥ २६.१६५॥ शिवद्विजकुलोद्भूतः शिवशास्त्रविशारदः । सामान्यार्घ्यं विशेषार्घ्यं पञ्चगव्यानि साधयेत् ॥ २६.१६६॥ पूर्ववद्द्वारपूजादिदिग्देवांस्तु समर्चयेत् । आसनावरणानान्तु हुत्वाऽप्येकैकमाहुतिम् ॥ २६.१६७॥ स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् । जयादिरभ्याधानञ्चराष्ट्रभृच्च हुनेत्क्रमात् ॥ प्रायश्चित्तमघोरेण होमयेत् षोडशाहुतिः । पूर्णाहुतिं ततः कृत्वा धूपदीपादिकान्ददेत् ॥ प्रार्थयित्वा नमस्कृत्वा बलिमन्तर्बलिं क्षिपेत् । बहिर्बलिं ततः कुर्यात् ज्ञानखड्गधरो गुरुः ॥ पूर्णाहुतिं ततः कृत्वा ज्ञानखङ्गधरो गुरुः । देशिकं तोषयेद्देवं सन्निधीकरणाय च ॥ २६.१६८॥ आचार्यं पूजयेत्कर्ता गोभूमिधनकाञ्चनैः । अधमं दशनिष्कन्तु द्विगुणं मध्यमं स्मृतम् ॥ २६.१६९॥ उत्तमं त्रिगुणं ज्ञेयं देशिकस्य तु दक्षिणा । तस्यैवं पञ्चमांशैकं मूर्तिपानान्तु दक्षिणा ॥ २६.१७०॥ जापकान्वास्तुहोतारं तदर्धेनैव तोषयेत् । दैवज्ञं शिल्पिनञ्चैव तोषयेन्मूर्तिधारिवत् ॥ २६.१७१॥ भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणाम् । शयनाद्बिम्बमुत्थाप्य स्नानवेद्युपरि न्यसेत् ॥ २६.१७२॥ घृतं शिरोर्पणं कुर्यात् हेमदूर्वाङ्कुराक्षतैः । पञ्चगव्येन संस्नाप्य पश्चात्पञ्चामृतादिभिः ॥ २६.१७३॥ रक्ततोयैस्स्वर्णतोयैः शुभोदैर्गन्धतोयकैः । (शुद्धोदैर्गन्धतोयकैः) हिरण्यवर्णा ऋग्भिश्च पवमानैश्च मन्त्रतः ॥ २६.१७४॥ नमकञ्चमकञ्चैव स्कन्दसूक्तञ्च शान्तिकम् । जपित्वा स्नापयेत्स्कन्दं गन्धपुष्पादिनार्चयेत् ॥ २६.१७५॥ अर्घ्यपाणिर्गुरुः पश्चात्प्रविशेद्गर्भगेहकम् । मानुषे दैविके वाऽपि प्राग्वत्संस्कारसंयुते ॥ २६.१७६॥ कुशलो हृदयेनैव रत्नौषधिविगर्हितम् । विन्यस्य सुदृढं कृत्वा षण्मुखस्यासनाय च ॥ २६.१७७॥ सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् । अर्घ्यपाणिः पुरो गत्वाऽप्याचार्यो मूर्तिपैस्सह ॥ २६.१७८॥ सदारपुत्रास्सभ्राता यजमानो व्रजेदनु । हर्म्यं प्रदक्षिणं कृत्वा गर्भगेहे गुहं नयेत् ॥ २६.१७९॥ सुलग्ने सुमुहूर्ते च यथा द्वारं तथा मुखम् । अथ ब्रह्म शिखोपेतं स्थापयेच्छरसम्भवम् ॥ २६.१८०॥ (ब्रह्म शिलोपेतं) दक्षिणे तु महावल्लीं देवसेनां तथोत्तरे । अष्टबन्धं ततः कुर्याद्यथा दृढतरं तथा ॥ २६.१८१॥ सर्वातोद्यसमायुक्तं कुम्भानुद्धृत्य देशिकः । मूर्तिपैश्शिरसावाह्य कुर्याद्धामप्रदक्षिणम् ॥ २६.१८२॥ देवस्याग्रे क्रमेणैव स्थण्डिलोपरि विन्ययेत् । प्रच्छन्नपटमानीय भक्त्या परमया पुनः ॥ २६.१८३॥ (परमया युतः) आचार्यस्सुप्रसन्नात्मा दृढचिक्तो जितेन्द्रियः । मूर्धादिकल्पितस्थानेष्वादिवर्णांल्लिखेत्क्रमात् ॥ २६.१८४॥ सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् । जगद्भुवादिषण्मन्त्रैर्वक्त्रस्थानेषु विन्यसेत् ॥ २६.१८५॥ शिरोवदनहृन्नाभिगुह्याङ्घ्रिषु च तान् पुनः । मातृकां बिन्दुसहितां देव्योरङ्गे क्रमान्न्यसेत् ॥ २६.१८६॥ मुहूर्तं वेक्ष्य दैवज्ञो गुरवे सन्निवेदयेत् । प्राणात्प्रकृतियोगन्तु ज्ञात्वा स्थापनमा चरेत् ॥ २६.१८७॥ (स्थापनमा रभेत्) यथोत्कृष्टं क्रमात् ज्ञत्वा तथा संस्थापयेद्गुरुः । कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ २६.१८८॥ ब्रह्माङ्गानि सबीजानि मूर्धादिक्रमशो न्यसेत् । मुकुलीं पद्ममुद्राञ्च षण्मुखीं धेनुमुद्रिकाम् ॥ २६.१८९॥ शक्तिमुद्रां नमस्कारान्दर्शयेत्तु गुहाय वै । स्कन्दकुम्भस्थतोयेन स्कन्दं संस्नापयेद्गुरुः ॥ २६.१९०॥ वर्धन्योर्बीजमादाय देव्योश्चूचुकमध्यमे । पूर्वं सव्ये महावल्लीं देवसेनाञ्च वामके ॥ २६.१९१॥ विन्यस्य योनिमुद्राञ्च पद्माख्यं दर्शयेत्पृथक् । तत्तत्कुम्भस्थतोयेन स्नापयच्छक्तिकाद्वयम् ॥ २६.१९२॥ (स्थापयच्छक्तिकाद्वयम्) स्थापने शक्तिरहिते वर्धनीद्वयबीजकम् । पीठे पार्श्वद्वये विद्वान् स्थाप्य तत्राभिषेचयेत् ॥ २६.१९३॥ जयन्तादिघटाद्भिस्तु पीठेसंस्थापयेत्क्रमात् । गन्धतोयेनसंस्नाप्य गव्यैः पञ्चामृतैःपुनः ॥ २६.१९४॥ स्कन्दसूक्तेनमन्त्रेण जपेत्षोडशवारकम् । शुद्धाम्भसातुसंस्नाप्य मूलब्रह्मषडङ्गकैः ॥ २६.१९५॥ पाद्यंवैसद्यमन्त्रेण वामेनाचमनान्ददेत् । अर्घ्यंवैघोरमन्त्रेण वस्त्रंहृदयमन्त्रतः ॥ २६.१९६॥ गन्धन्तत्पुरुषेणैव पुष्पमीशानमन्त्रतः । भूषणङ्कवचेनैव धूपदीपौहृदाददेत् ॥ २६.१९७॥ अभ्यर्च्याधारशक्त्यादि पञ्चवरणसंयुतम् । रक्ताम्बरैरक्तमाल्यै रक्तगन्धैश्चभूषयेत् ॥ २६.१९८॥ पञ्चवर्णहविर्दद्यादन्नसूक्तेनमन्त्रतः । ताम्बूलाद्युपचाराणि सर्वाणिसहृदाददेत् ॥ २६.१९९॥ स्वसूत्रान्देवदेवीनामुद्वाहङ्कर्मकारयेत् । चतुर्त्थेदिवसेविप्रे शेषहोमंसमाचरेत् ॥ २६.२००॥ भूदानन्देशिकायैवदद्यात् कर्थायथाबलम् । ब्राह्मणान् भोजयेत् पश्चात् दीनानन्धांश्चभुजयेत् ॥ २६.२०१॥ तदन्तेस्नपनङ्कुर्यात् वित्तशाठ्यन्न कारयेत् । एवंयःकुरुतेमर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ २६.२०२॥ आयुःपुत्रकलत्रञ्च वसुविद्यायशोबलम् । सौभाग्यम्महतीलक्ष्मीमरोगत्वमनाकुलम् ॥ २६.२०३॥ इहेवलब्ध्वाभूपृष्ठे भुक्त्वाभोगान्यथेफ्सितान् । कर्ताकारयिताचैव कौमारंलोकमाप्नुयात् ॥ २६.२०४॥ फलंस्कन्दप्रतिष्ठायास्सङ्क्षेपात् श‍ृणुसुव्रत। बेरसंवेशवेद्यान्तु यावन्तः वरमाणवः ॥ २६.२०५॥ ताव्द्वर्षसहस्राणिस्कन्दलोकेमहीयते ॥ २६.२०५॥ इति श्रीकुमारतन्त्रे अचलस्नापनविधिर्नाम षड्विंशः पटलः ।

२७. सप्तविंशः पटलः - अथचलबेरप्रतिष्ठाविधिः

चलबेरप्रतिष्ठाञ्च वक्ष्येऽहंश‍ृणुकौशिक । भुक्तिमुक्तिप्रदन्नृणां सर्वकामार्थसाधनम् ॥ २७.१॥ बालवृद्धिकरंसर्वशत्रुक्षयकरंशुभम् । सर्वकामदमान्यत्किं कुमारस्थापनादृते ॥ २७.२॥ मृगादिमासषट्केतु विकुम्भेषुशुभावहम् । अयनेचोत्तरेश्रेष्ठे दक्षिणेस्यात्ज्वरान्वितम् ॥ २७.३॥ मार्गशीर्षकमाघौ द्वौ वर्जयेत्तु प्रयत्नतः । जोवदृष्टियुते कुम्भे चलस्थापनमुत्तमम् ॥ २७.४॥ प्रशस्तपक्षनक्षत्रे स्थापनं सम्यगाचरेत् । प्रतिमां कारयेद्विद्वान् प्रतिमालक्षणोक्तवत् ॥ २७.५॥ गजवल्लीसमायुक्तं प्रतिपञ्चोत्सवं तथा । शिबिका बलिबेरञ्च स्नपनात्सव कौतुकम् ॥ २७.६॥ मूर्तिपञ्चविधानेन तत्तन्मूर्तिस्वभावकम् । शक्त्येकञ्च समायुक्तं स्नपनं बलिकौतुकम् ॥ २७.७॥ शक्तित्रयसमोपेतमुत्सवं मुनिपुङ्गव । शक्तिं विनास्त्रशिबिका पञ्चबेरविधिक्रमम् ॥ २७.८॥ अङ्कुरानर्पयेद्विद्वान् पूर्वोक्तविधिना मुने । प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ २७.९॥ भूतादिनवहस्तान्तं विस्तारं गुरुहस्ततः । षोडशस्तम्भसंयुक्तं द्वादशस्तम्भकेन वा ॥ २७.१०॥ पङ्क्तितालसमुत्सेधं पङ्क्तित्रयसमायुतम् । चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २७.११॥ मङ्गलाकारसंयुक्तं मङ्गलाङ्कुरशोभितम् । (मङ्गलाष्टकसंयुक्तं) विधानध्वजसंयुक्तं दर्भमाला सुशोभितम् ॥ २७.१२॥ (दर्भमाला भिरावृतं) गात्रवेष्टनसंयुक्तं फलपल्लवशोभितम् । एकाशीतिपदं कृत्वा मध्यवेदिं नवांशतः । कुण्डानि परितः कृत्वा महादिक्षु विदिक्षु च ॥ २७.१३॥ दिशासु चतुरश्राणि षट्कोणानि विदिक्षु च । अथवा विदिशास्वत्र वृत्तानि नलिनानि वा ॥ २७.१४॥ षडश्रन्तु प्रधानं स्यान्मध्ये शाङ्करवज्रिणोः । सर्वकुण्डं षडश्रं वा नवकुण्डविधौ मता ॥ २७.१५॥ चतुरश्रं चतुर्दिक्षु प्रधानन्तु षडश्रकम् । पञ्चकुण्डविधिः प्रोक्तं त्रिमेखलसमायुतम् ॥ २७.१६॥ नाभियोनिसमायुक्तं सर्बलक्षणसंयुतम् । मण्डपस्योत्तरे भागे स्नानवेदिं प्रकल्पयेत् ॥ २७.१७॥ तत्पीठतारद्विगुणं षोडशाङ्गुलमुच्छ्रयम् । नालावटसमायुक्तं जलमार्गसमायुतम् ॥ २७.१८॥ बाहुमात्रायतात्खातमवटं तस्य वामतः । गोमयालेपनं कृत्वा रजांसि विनिपातयेत् ॥ २७.१९॥ माणिक्कं पुष्परागञ्च वैडूर्यं नीलमेव च । गोमेदकं मौक्तिकञ्च प्रवालं स्फटिकं तथा ॥ २७.२०॥ इन्द्रादीशानपर्यन्तं विन्यसेत्स्वस्वमन्त्रतः । बेरं तस्योपरि न्यस्त्वा सुस्निग्धं सुदृढं भवेत् ॥ २७.२१॥ देव्योः पीठेऽष्टकोष्टेषु हेमाब्जानि न्यसेद्धृदा । सर्वालङ्कारसंयुक्ते मण्डपे स्थण्डिलोपरि ॥ २७.२२॥ नयनोन्मीलनं कुर्यात् नेत्रयुग्मायुते दिने । हेमसूचिकया शिल्पी पक्ष्मरेखां समालिखेत् ॥ २७.२३॥ कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् । उत्तरे स्थण्डिले बेरं स्थाप्य शिल्पिं विसर्जयेत् ॥ २७.२४॥ (इतरे स्थण्डिले) नेत्रमन्त्रमनुस्मृत्य हेमसूच्या गुरुर्लिखेत् । पुण्याहं वाचयित्वाऽथ प्रोक्षयेदस्त्रमन्त्रतः ॥ २७.२५॥ अभितः कलशानष्टौ स्थाप्येन्द्राद्याः समर्चयेत् । तर्जनीमध्यमाभ्याञ्च सर्ववर्णौघसंयुतम् ॥ २७.२६॥ (सुवर्णनखसंयुतम्) सूर्यसोमाधिपाभ्याञ्च नेत्रयोः संस्पृशेद्गुरुः । सौवर्णदूर्वया नेत्रं मध्वाज्याभ्यान्तु तर्पयेत् ॥ २७.२७॥ मधुवाता ऋतायेति मधुना तर्पयेद्गुरुः । धृतं मिमिक्षेति मन्त्रेण तर्पयेत्तु घृतेन च ॥ २७.२८॥ सौवर्णं रजतेनैव पात्रं मध्वाज्ययोर्मतम् । गौर्धेनुभावमन्त्रेण सवत्सां गां प्रदर्शयेत् ॥ २७.२९॥ ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान् दर्शयेद्गुरुः । प्रच्छन्नपटमावर्ज्य जनान्सर्वान् प्रदर्शयेत् ॥ २७.३०॥ पञ्चगव्येन संस्नाप्य पञ्चब्रह्मषडङ्गकैः । अष्टमृत्सलिलेनैव स्नापयेत्तु षडक्षरैः ॥ २७.३१॥ स्नापयेत्कलशाद्भिस्तु स्कन्दसूक्तेन मन्त्रतः । गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ २७.३२॥ सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् । छत्रचामरसंयुक्तं नानाभक्तजनैर्युतम् ॥ २७.३३॥ नानादीपसमायुक्तं विप्रसङ्घसमायुतम् । रथे वा शिबिकायां वा कुर्याद् ग्रामप्रदक्षिणम् ॥ २७.३४॥ जलतीरं समासाद्य शुद्धिं कृत्वा भुवस्थलम् । तस्मिन् बेरं समानीय वस्त्रादीनि व्यपोह्य च ॥ २७.३५॥ (बेरं समादाय) नववस्त्रेण संवेष्ट्य बध्नीयाल्लम्बकूर्चकम् । चतुर्गात्रयुतं कृत्वा जलमध्ये प्रपान्वितम् ॥ २७.३६॥ तन्मध्ये विन्यसेत्पीठं चतुर्गात्रयुतं दृढम् । तदूर्ध्वे कण्ठदघ्ने वा नाभिदघ्नेऽअधिवासयेत् ॥ २७.३७॥ (नाभिदघ्नेऽथवा शयेत्) अष्टकुम्भान् न्यसेद्दिक्षु दिग्देवान्सम्प्रपूजयेत् । चतुर्वेदं चतुर्दिक्षु कुर्यादध्ययनं द्विजैः ॥ २७.३८॥ पुण्याहं वाचयित्वाऽथ प्रोक्षयेद्यागमण्डपम् । वास्तुहोमं ततः कुर्यात्समीरिणपदे गुरुः ॥ २७.३९॥ पर्यग्निकरणं तेन वह्निनात्रैव कारयेत् । वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ॥ २७.४०॥ तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २७.४१॥ दर्भैर्लाजैश्च पुप्पैश्च परिस्तीर्य यथाविधि । शयनं कल्पयेत्तत्र चर्भजाद्यैरनुक्रमात् ॥ २७.४२॥ जलादुत्तीर्य देवेशं स्नानवेद्युपरि न्यसेत् । बिम्बशुद्धिं ततः कृत्वा त्वलङ्कृत्य यथाविधि ॥ २७.४३॥ आलयन्तु प्रविश्याथ पुनः पुण्याहमाचरेत् । [व्यपोह्य वस्त्रकूर्चादीन् मृज्जलैरभिषेचयेत्] स्कन्दसूक्तं जपित्वाऽथ पवमानमुदीरयन् ॥ २७.४४॥ अयं कुमारमन्त्रेण मालामन्त्रेण देशिकः । शुद्धाम्बुना तु संस्नाप्य रक्तवस्त्रेण वेष्टयेत् ॥ २७.४५॥ गन्धपुष्पादिभिः पूज्य हृदयेन तु मन्त्रतः । कौतुकं बन्धयेत्तत्र स्कन्दशक्तिं गुरुस्तथा ॥ २७.४६॥ पद्ममुद्रां नमस्कारां षण्मुखीं दर्शयेत्सुधीः । नैवेद्यं दापयित्वाऽथ ताम्बूलं दापयेद् गुरुः ॥ २७.४७॥ मण्डपं विकिरान् क्षिप्त्वा प्रोक्षयेदर्ध्यवारिणा । शयने शाययेद्बिम्बं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २७.४८॥ शक्तिद्वयञ्च पार्श्वे तु शाययित्वा यथाविधि । (शक्तिद्वियञ्च) वस्त्रेणाच्छादयेत्स्कन्दं शक्तिद्वयं पृथक् पृथक् ॥ २७.४९॥ अयं कुमारमन्त्रेण गन्धपुष्पादिनार्चयेत् । सर्वलक्षणसंयुक्तान् कुम्भान् सङ्गृह्य देशिकः ॥ २७.५०॥ ससूत्रानुदकोपेतान् सकूर्चान्सापिधानकान् । सवस्त्रान्पल्लवोपेतान् द्रोणतोयन पूरितान् ॥ २७.५१॥ शिरोभागेषु बेराणां कुम्भञ्च वर्धनीद्वयम् । पञ्चरत्नं प्रधाने तु वर्धन्योर्हाटकाम्बुजम् ॥ २७.५२॥ सर्वत्र सर्वकुम्भेषु विन्यसेत्तु विचक्षणः । (सुवर्ण सर्वकुम्भेषु) यादृशं प्रतिमाकारं तादृशं भाव्य बुद्धिमान् ॥ २७.५३॥ दाडिमीपुष्पसङ्काशं करण्डमकुटोज्वलम् । छन्नचीरोपवीतोद्यत्कटिसूत्रैरलकृतम् ॥ २७.५४॥ दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् । रक्ताम्बरधरं देवं पादनूपुरसंयुतम् ॥ २७.५५॥ एवं ध्यात्वा स्कन्दकुम्भे तन्मूलेन समावहेत् । सर्वोपचारसंयुक्तमासनावरणैर्यजेत् ॥ २७.५६॥ महावल्लीं देवसेनां श्यामरक्तसमप्रभे । सौम्यवक्त्रे पद्महस्ते वर्धन्योस्स्वस्वबीजकम् ॥ २७.५७॥ परितश्चाष्टकुम्भांश्च पूर्वाद्याशासु विन्यसेत् । जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ २७.५८॥ अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् । हेमशूलं विशालाक्षं तत्तन्नामभिरर्चयेत् ॥ २७.५९॥ नैवेद्यं चैव पानीयं ताम्बूलञ्च हृदा ददेत् । पञ्चैकचतुरस्त्रीणि पञ्चत्रिचतुरस्त्रयः ॥ २७.६०॥ अनेन विधिना कुम्भान् पूर्वाद्याशासु विन्यसेत् । पूर्वोक्तेन विधानेन सर्बकुम्भान् समर्चयेत् ॥ २७.६१॥ दशायुधानि संस्थाप्य स्वस्वनामभिरर्चयेत् । दर्पणं पूर्णकुम्भञ्च मयूरं युग्मचामरम् ॥ २७.६२॥ (मयूरं चामरद्वयं) श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवोऽष्टमङ्गलम् । उपवेद्युपरिन्यस्त्वा गङ्गाद्याः सम्प्रपूजयेत् ॥ २७.६३॥ तृणबन्धाञ्च कम्पाञ्च वंशे स्तम्भे यथाक्रमम् । पृथिव्यादीनि तत्त्वानि पूजयेन्मण्डपे सुधीः ॥ २७.६४॥ मण्डपञ्च गुहव्याप्तं निर्विघ्नं भाव्य तत्परम् । ऋग्वेदं पूर्वदिग्भागे यजुर्वेदन्तु दक्षिणे ॥ २७.६५॥ पश्चिमे सामवेदञ्च उदीच्यां दिश्यथर्वणम् । मालामन्त्रं स्कन्दसूक्तं गायत्रीं पञ्चशान्तिकम् ॥ २७.६६॥ आग्नेयादिषु कोणेषु जपित्वा मन्त्रवित्तमैः । आचार्यो मूर्तिपैस्सार्धं होमकर्म समारभेत् ॥ २७.६७॥ कार्तिकेयो विशाखश्च गुहश्चैव सुरान्तकः । सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ॥ २७.६८॥ शक्तिपाणिरिति ख्याता एते वै चाष्ट मूर्तयः । (चाष्ट मूर्तिपाः) स्वनामाद्यक्षरेणैव कुण्डानां दक्षिणे यजेत् ॥ २७.६९॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । पालाशखादिराश्वत्थ वटबिल्वाश्शमी तथा ॥ २७.७०॥ प्लक्षः पश्चादपामार्ग औदुम्बर इतीरितः । प्राधान्यादग्निकुण्डानां समिधो नव कीर्तिताः ॥ २७.७१॥ समिदाज्यचरुं लाजं यवं सक्तुञ्च सर्षपम् । (यवं वेणुञ्च) तिलं मुद्गं गुलं वेणुं मधुक्षीरं पुनर्दधि ॥ २७.७२॥ (गुलं चैव) द्रव्याणि द्वादशैतानि होमयेत्तु यथा क्रमम् । (यथा विधि) मूलब्रह्मषडङ्गैश्च स्कन्दगायत्रिमन्त्रतः ॥ २७.७३॥ शतमर्धं तदर्धं वा प्रत्येकन्तु हुनेत्क्रमात् । माते कुमारमन्त्रेण होमयेत्तु रसाहुतिः ॥ २७.७४॥ (मालामन्त्रेण मन्त्रयो होमयेत्तु) कृत्वैवं सर्वकुण्डेषु पूर्णान्तु शिरसा हुनेत् । सर्वद्रव्यसमायुक्तं हव्यवाहेति षोडश ॥ २७.७५॥ (हव्यवाहेन हामयेत्) मूलमन्त्रेण मन्त्रैश्च षड्भिः षड्वारमाज्यतः । जगद्भुवेति षण्मूर्तिमन्त्रेणैव हुनेत्ततः ॥ २७.७६॥ अयं कुमारमन्त्रेण जुहुयादा ज्यहोमकम् । (जुहुयादा षोडशाहुतिः) उपोषितो गुरुः पश्चादात्रिशेषं व्यपोह्य च ॥ २७.७७॥ मूर्तिपैस्सह संस्नाप्य गुरुर्नियमतत्परः । (मूर्तिपैस्सह सास्नात्वा) पूर्ववद्वारपूजादि यागदेवान्समर्चयेत् ॥ २७.७८॥ आसनावरणानान्तु हुत्वाप्येकैकमाहुतिम् । स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ २७.७९॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् । प्रायश्चित्तमघोरेण होमयेत् षोडशाहुतिः ॥ २७.८०॥ पूर्णाहुतिं ततः कृत्वा धूपदीपादिकान्ददेत् । प्रार्थयित्वा नमस्कुर्यात् बलिमन्तर्बलिं क्षिपेत् ॥ २७.८१॥ बहिर्बलिं ततः कुर्यात् ज्ञानखड्गधरो गुरुः । आचार्यं पूजयेत्कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ २७.८२॥ देशिकं तोषयेद्देवं सन्निधीकरणाय च । उत्तमं दशनिष्कन्तु मध्यमं सप्तनिष्ककम् ॥ २७.८३॥ अधमं पञ्चनिष्कन्तु देशिकस्य तु दक्षिणा । तस्यैवं पञ्चमांशैकं मूर्तिपानान्तु दक्षिणा ॥ २७.८४॥ जापकं वास्तुहोतारं तदर्धेनैव तोषयेत् । दैवज्ञं शिल्पिनश्चैव तोषयेन्मूर्तिधारिवत् ॥ २७.८५॥ भक्तानां परिचाराणां यथाशक्तिस्तु दक्षिणा । शयनाद्बिम्बमुत्थाप्य स्नानवेद्युपरिन्यसेत् ॥ २७.८६॥ मृज्जलेनैव संस्नाप्य पश्चात्पञ्चामृतादिभिः । रत्नोदकैः स्वर्णतोयैः शुद्धोदैर्गन्धतोयकैः ॥ २७.८७॥ नमकञ्चमकञ्चैव स्कन्दसूक्तञ्च शान्तिकम् । जपित्वा स्नापयेत् स्कन्दं गन्धपुष्पादिनार्चयेत् ॥ २७.८८॥ घृतं शिरोऽर्पणं कुर्याद्धेमदूर्वाङ्कुराक्षतैः । कल्पितं मण्डपं सम्यगलङ्कृत्य विशेषतः ॥ २७.८९॥ सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् । अर्घ्यपाणिः पुरोगच्छेदाचार्यो मूर्तिपैः सह ॥ २७.९०॥ सदारपुत्रः सभ्राता यजमानो व्रजेदनु । हर्म्यप्रदक्षिणं कृत्वा देवं मण्डपमानयेत् ॥ २७.९१॥ उक्तालङ्कारसंयुक्तान् कुम्भानुद्धृत्य देशिकः । मूर्तिपैश्शिरसावाह्य कुर्याद्धामप्रदक्षिणम् ॥ २७.९२॥ देवस्याग्रे क्रमेणैव स्थण्डिलोपरि विन्यसेत् । मूर्धादिकल्पिते स्थानेष्वादिवर्णा न्न्यसेद्गुरुः ॥ २७.९३॥ जगद्भुवादिषण्मन्त्रं षड्वक्त्रे विन्यसेद्बुधः । पञ्चब्रह्मषडङ्गानि तत्तत्स्थानेषु विन्यसेत् ॥ २७.९४॥ मातृकां बिन्दुसहितां देव्योरङ्गेषु विन्यसेत् । सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् ॥ २७.९५॥ मुहूर्तं वीक्ष्य दैवज्ञो गुरवे सन्निवेदयेत् । प्राणात्प्रकृतियोगं तु ज्ञात्वा स्थापनमा चरेत् ॥ २७.९६॥ (स्थापनमा रभेत्) यथोत्कृष्टक्रमं ज्ञात्वा तथा संस्थापयेद्गुरुः । (यथोत्कृष्टं कृतं) कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ २७.९७॥ तत्कुम्भस्थजलेनैव स्कन्दं संस्नापयेत्ततः । वर्धन्योर्बीजमादाय देव्योश्चूचुकमध्यमे ॥ २७.९८॥ विन्यस्य तु जलेनैव स्नापयेच्छक्तिकाद्वयम् । (विन्यस्य तत्) मुकुलीं पद्ममुद्रां च षण्मुखीं धेनुमुद्रिकाम् ॥ २७.९९॥ शक्तिमुद्रां नमस्कारां दर्शयेत्तुगुहाय वै । जयन्तादीन्यथाभ्यर्च्य पीठे संस्नापर्यबुधः ॥ २७.१००॥ गन्धतोयेन संस्नाप्य बिल्वोदैः शुद्धतोयकैः । अभ्यर्च्याधारशक्त्यादिपञ्चावरणसंयुतम् ॥ २७.१०१॥ रक्ताम्बरै रक्तामाल्यै रक्तगन्धैश्च भूषयेत् । पञ्चावरणहविर्दद्यात् यथाविभवविस्तरम् ॥ २७.१०२॥ ब्राह्मणान्भोजयेत्पश्चात् दीनानाथांश्च पूजयेत् । अन्ते महोत्सवं कुर्यात् वित्तशाठ्यं न कारयेत् ॥ २७.१०३॥ एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् । फलं स्कन्दप्रतिष्ठायाः सङ्क्षेपाच्छृणु कौशिक ॥ २७.१०४॥ बेरसंवेशवेद्यास्तु यावन्तः परमाणवः । तावद्वर्षसहस्राणि स्कन्दलोके महीयते ॥ २७.१०५॥ इति श्रीकुमारतन्त्रे चलबेरप्रतिष्ठाविधिर्नाम सप्तविंशः पटलः ।

२८. अष्टाविंशः पटलः - शक्त्यस्त्रस्थापनविधिः

अतः परं प्रवक्ष्यामि शक्त्यस्त्रस्थापनं श‍ृणु । असुराणां विनाशाय सुराणां रक्षणाय च ॥ २८.१॥ सर्वलोकहितार्थाय सर्वरक्षाकराय च । आदिशक्तेः समुद्भूतं शक्त्यस्त्रं विश्ववन्दितम् ॥ २८.२॥ पत्रत्रयं विजानीयादिच्छाज्ञानक्रियात्मकम् । इच्छाशक्तिरूर्ध्वपत्रं ज्ञानशक्तिस्तु मध्यमम् ॥ २८.३॥ अधःपत्रं क्रियाशक्तिरूपं शक्त्यायुधस्य च । त्रयो गुणास्त्रयो देवास्त्रितत्त्वं च त्रयोऽग्नयः ॥ २८.४॥ त्रयो वेदा वसन्त्यत्र शक्तिपत्रत्रये द्विज । शक्तित्रयं कथं राज्ञां भवेच्छक्त्यर्चनं विना ॥ २८.५॥ सर्वदेवैः स्थितं साक्षात् सर्वदेवात्मकं परम् । सर्वे देवाः प्रियं यान्ति शक्त्यायुधसमर्चनात् ॥ २८.६॥ तस्मात्सर्वप्रयत्नेन शक्तिं संस्थाप्य पूजयेत् । स्वर्णराजततामैर्वाऽप्यायसेन शिलाऽपि वा ॥ २८.७॥ गर्भगेहसमोत्तुङ्गमुत्तमं समुदाहृतम् । (गर्भद्वारःसमोत्तुङ्गमुत्तमं) अष्टभागैकहीनन्तु मध्यमं मुनिपुङ्गव ॥ २८.८॥ सप्तांशहीनमधमं रत्निमात्रादथोच्यते । उत्तमं वेदरत्नि स्यात् त्रिरत्निर्मध्यमं भवेत् ॥ २८.९॥ द्विरत्निमात्रमधमं शक्त्युत्सेधं प्रचक्षते । (शक्त्युत्सेधं प्रशस्थते) शक्तिं कृत्वा तदुत्सेधं पञ्चषण्मात्रकावधि ॥ २८.१०॥ (शतं कृत्वा) भागैकं योजयेद्धीमान् यावत्तस्य शुभोदयम् । लौकिकं चेति शक्त्यस्त्रं द्विविधं च महामुने ॥ २८.११॥ भूपालवास्तुकर्तृणामानुकूल्यन्तु यौगिकम् । एतेषामेव राष्ट्रस्य चानुकूल्यन्तु लौकिकम् ॥ २८.१२॥ (यौगिकं लौकिकं चेति शक्त्यस्त्रं द्विविधं स्मृतं) विमाने यौगिकं कुर्यात् यजेत्सर्वत्र लौकिकम् । आयामे भूतभागैकं पत्रायामं प्रशस्यते ॥ २८.१३॥ पत्रायामं त्रिधाभज्य पत्रत्रयं प्रकल्पयेत् । (पत्रत्रयं विकल्पनात्) आयामसदृशव्यासं द्वादशांशोनमेव वा ॥ २८.१४॥ नवाष्टांशैकहीनं वा पत्राणि चतुरश्रकम् । पार्श्वे कोणानि कर्तव्यमग्रं तीक्ष्णं प्रकल्पयेत् ॥ २८.१५॥ पत्रतारे दशांशैकं पत्रस्य घनमीरितम् । तद्घनार्धं च पार्श्वञ्च निशितं वा प्रकल्पयेत् ॥ २८.१६॥ पत्रतारस्य पञ्चाशं सन्धितारं द्विजोत्तम । उपर्युपरि पत्राणि ऋज्वाकाराणि कल्पयेत् ॥ २८.१७॥ मध्यपत्रे द्विपार्श्वे तु षड्दलं पद्ममालिखेत् । अथवाष्टदलं वाऽपि चतुर्दलमथापि वा ॥ २८.१८॥ पत्राणां पादमूले तु कुर्याद्वै कुण्डलीकृतम् । तस्याधः फलकां कुर्यात् पत्राणां चापि मात्रतः ॥ २८.१९॥ (पत्राणां अर्ध) तत्तारं नवधा भज्य व्योमांशं फलकायतम् । द्व्यंशेनाब्जन्तु तस्याधः कोणेऽप्यश्वत्थपत्रवत् ॥ २८.२०॥ कर्तव्या फलकान्त्वेवं तदधः कल्पयेद्दलम् । फलकायास्तु विस्तारं विभजेत्तु तथांशकम् ॥ २८.२१॥ एकांशं दलविस्तारमुत्सेधं तत्समं भवेत् । फलकार्धं घटाकारमुत्सेधं स्यात्तदर्धकम् ॥ २८.२२॥ तस्यार्धं कण्ठधारेण कुम्भं कुर्याद्द्विजोत्तम । पादोनकुम्भधारेण तस्याधस्तटिका भवेत् ॥ २८.२३॥ घटवत्तटिकामानं तन्मानं युगभाजिते । एकभागं ततः कुर्यात् तत्प्रमाणेन हीरिका ॥ २८.२४॥ (भागान्तरं ततः) हीरिकाथ प्रकर्तव्यं मेषदण्डमिहोच्यते । ताटिकायास्तु विस्तारं चतुर्भागं त्रिभागिकम् ॥ २८.२५॥ दारुदण्डस्य विस्तारं तदर्धं लोहदण्डकम् । दण्डमूले तु पद्मं स्यात् विस्तार फलकासमम् ॥ २८.२६॥ तदर्धं मानमित्युक्तं तन्मानस्य गुहात्मके । (तन्मानं गुणभाजिते) एकांशं पट्टिका ज्ञेया शेषांशेन कुशेशयम् ॥ २८.२७॥ वृत्तं वा चतुरश्रं वा कारयेत्तु कुशेशयम् । हीरिका सममानेन पद्मोर्ध्वे पट्टिकां सुधीः ॥ २८.२८॥ दण्डं सर्वत्र वृत्तं स्यात् ऋज्ज्वाकारमनिन्दितम् । शूलयोग्येषु वृक्षेषु शक्तिदण्डं प्रगृह्य च ॥ २८.२९॥ सर्वलक्षणसंयुक्तं शक्त्यायुधं प्रकल्पयेत् । एवं लक्षणमाख्यातं प्रतिष्ठां श‍ृणु सुव्रत ॥ २८.३०॥ उत्तरायणकाले तु शुक्लपक्षे शुभेदिने । प्रतिष्ठादिनपूर्वे तु कारयेदङ्कुरार्पणम् ॥ २८.३१॥ चक्षुरुन्मीलनं चोक्तं कुर्यात्कुम्भाभिषेचनम् । सर्वातोद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ २८.३२॥ शक्त्यायुधमलङ्कृत्य कुर्याद्ग्रामप्रदक्षिणम् । जलमध्ये प्रपां कृत्वा चतुर श्रसमन्विताम् ॥ २८.३३॥ शापयेत्तत्र शक्त्यस्त्रं फलकोपरि बुद्धिमान् । परितः कलशानष्टौ न्यस्त्वेन्द्रादीन्समर्चयेत् ॥ २८.३४॥ चतुर्वेदैश्चतुर्दिक्षु कुर्यादध्ययनं ततः । प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ २८.३५॥ षोडशस्तम्भसंयुक्तं चतुर्द्वारसमायुतम् । चतुस्तोरणसंयुक्तं दर्भमालाभिरावृतम् ॥ २८.३६॥ मण्डपं नवधा कृत्वा मध्यभागे तु वेदिकाम् । कुण्डानि परितः कुर्याद् दिशासु बिदिशासु च ॥ २८.३७॥ त्र्याश्राणि च षडश्राणि कारयेल्लक्षणैः सह । ईशानशक्रयोर्मध्ये प्रधानन्तु षडश्रकम् ॥ २८.३८॥ नवकुण्डविधिः प्रोक्ता पञ्चकुण्डविधिं श‍ृणु । त्र्यश्राणि च चतुर्दिक्षु प्रधानन्तु षडश्रकम् ॥ २८.३९॥ पश्चिमे चोत्तरे वाऽपि स्नानश्वभ्रं प्रकल्पयेत् । गोमयालेपनं कृत्वा रजांसि विनिपातयेत् ॥ २८.४०॥ मण्डपं भूष्यमतिमान् पुण्याहं वाचयेत्ततः । वास्तुहोमं ततः कुर्यात् पर्यग्निकरणं ततः ॥ २८.४१॥ वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः । तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २८.४२॥ तदूर्ध्वे शयनं कल्प्य चर्मजाद्यैरनुक्रमात् । जलादूत्तीर्य शक्त्यस्त्रं स्नानवेद्योपरिन्यसेत् ॥ २८.४३॥ [वस्त्रं नीत्वास्त्रराजानां शुद्धिं कृत्वाष्टमृज्जलैः । पञ्चगव्येन संस्नाप्य स्कन्दसूक्तेन मन्त्रतः ॥ गन्धतोयैश्शुद्धतोयैश्शुद्धैरुद्धैरिति ब्रुवन् । रक्तवस्त्रेण संवेष्ट्य हृदा गन्धादिभिर्यजेत् ॥] मध्योर्ध्वपत्रयोर्मध्ये कौतुकं वन्धयेद्धृदा । शयने शाययेच्छक्तिं प्राकशिरश्चोर्ध्ववक्त्रतः ॥ २८.४४॥ वचद्भुवेति मन्त्रेण गन्धपुष्पादिनार्चयेत् । सर्वलक्षणसंयुक्तान् कुम्भान् द्रोणोदपूरितान् ॥ २८.४५॥ ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् । चतुर्दशघटान् गृह्य हाटकाब्जसमन्वितान् ॥ २८.४६॥ शक्तेर्दक्षिणपार्श्वे तु पूर्वदक्षिणपश्चिमे । शक्तरुत्तरपार्श्वे तु त्रीन् कुम्भान्विन्यसेत्ततः ॥ २८.४७॥ (तु तान्) इन्द्राद्याशास्त्वष्टकुम्भानेवं वेद्योपरिन्यसेत् । दक्षिणस्थितकुम्भेषु पूर्वकुम्भे शिवं यजेत् ॥ २८.४८॥ विष्णुञ्च मध्यमे कुम्भे ब्रह्माणं पश्चिमे घटे । उत्तरस्थानकुम्भेषु स्कन्दं वै मध्यमे यजेत् ॥ २८.४९॥ पश्चिमे तु महावल्लीं देवसेनाञ्च पूर्वके । पार्वतीं पूर्वकुम्भे तु आग्नेय्यान्तु सरस्वतीम् ॥ २८.५०॥ लक्ष्मीं दक्षिणकुम्भे तु नैरृत्यान्तु विनायकम् । शास्ता वारुणदिग्भागे वायव्यां दिशिभास्करम् ॥ २८.५१॥ सोमे च भूमिदेवीं च ऐशान्यान्तु सुमित्रकम् । तत्तद्बीजानि विन्यस्य पद्ममुद्रां प्रदर्शयेत् ॥ २८.५२॥ दिशास्वध्ययनं कुर्याच्चतुर्वेदैर्महामुने । स्थापको मूर्तिपैस्सार्धं ततो होमं समाचरेत् ॥ २८.५३॥ (होम समारभेत्) अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च ॥ २८.५४॥ शमीखादिरबिल्वाश्च मयूरांश्च विदिक्षु च । प्रधानस्य पलाशं स्यात् समिधः परिकीर्तिताः ॥ २८.५५॥ समिदाज्यचरूल्लाजान् सक्तुं चैव तिलं तथा । सर्षपं मुद्गमाषञ्च पयोदधिमधूनि च ॥ २८.५६॥ मूलब्रह्मषडङ्गैश्च होमयेत्तु क्रमेण तु । शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ २८.५७॥ द्रव्यान्ते व्याहृतिं कुर्यात् स्पृष्ट्वा शक्तेस्तु मस्तकम् । त्रियम्बकेन मन्त्रेण ब्रह्मजज्ञानमन्त्रतः ॥ २८.५८॥ इदं विष्ण्विति मन्त्रेण प्रत्येकं षोडशं हुनेत् । जगद्भुवेति मन्त्रेण तथैव मुनिसत्तम ॥ २८.५९॥ महावल्लीं देवसेनां पार्वतीञ्च सरस्वतीम् । लक्ष्मीं विनायकं शास्ता रविं भूमिं सुमित्रकाम् ॥ २८.६०॥ एतेषां मूलमन्त्रेण त्रयाहुति हुनेद्बुधः । पूर्णाहुतिञ्च शिरसा स्विष्टकृतेति होमयेत् ॥ २८.६१॥ प्रातः काले गुरुः स्नात्वा नित्यकर्मविधाय च । जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ २८.६२॥ आचार्यं पूजपेत्पश्चात् गोभूवस्त्रैर्धनंरपि । मुहूर्ते सननुप्राप्ते प्रतिष्ठां सम्यगाचरेत् ॥ २८.६३॥ शयनाच्छक्तिमुद्धृत्य वस्त्रादीनि व्यपोह्य च । सर्वातोद्यसमायुक्तं स्नानश्वभ्रोपरि न्यसेत् ॥ २८.६४॥ घृतं शिरोऽर्पणं कृत्वा शुद्धाद्भिः स्नाप्य मूलतः । कुम्भानुद्धृत्य शिरसावाह्य धामप्रदक्षिणम् ॥ २८.६५॥ कृत्वा शक्त्यायुधाग्रे तु स्थापयेत्स्थण्डिलोपरि । शिवाख्याद्बीजमादाय विन्यसेदूर्ध्वपत्रके ॥ २८.६६॥ विष्णुबीजं मध्यपत्रे त्वधः पत्रे चतुर्मुखम् । कुम्भमध्ये महासेनं वल्लीं चैव तु दक्षिणे ॥ २८.६७॥ तद्वामे देवसेनाञ्च विन्यसेत्तु विचक्षणः । पार्वतीबीजमादाय फलकायान्तु विन्यसेत् ॥ २८.६८॥ वाग्देवीबीजमादाय फलकान्दक्षिणे न्यसेत् । लक्ष्मीबीजं समादाय फलकां वामपार्श्वके ॥ २८.६९॥ विघ्नेशबीजमादाय दण्डाग्रे मुनिसत्तम । शास्तारं बाजमादाय तद्दिशायान्तु विन्यसेत् ॥ २८.७०॥ भास्करं बीजमादाय दण्डमध्ये तु विन्यसेत् । भूमिबीजं समादाय न्यसेद्दण्डाग्रपीठके ॥ २८.७१॥ सुमित्रबीजमादाय दण्डमध्ये प्रविन्यसेत् । ततः कुम्भजलैश्शक्तिं तत्तत्स्थाने प्रपूजयेत् ॥ २८.७२॥ स्नपनं कारयेदग्रे यथाविभवविस्तरम् । ब्राह्मणान् भोजयेत्पश्चात् दीनानाथांश्च पूजयेत् ॥ २८.७३॥ एवं यः कुरुते मर्त्यः स शत्रून् जयति ध्रुवम् । युद्धारम्भे नृपः कुर्यात् जयमाप्नोत्यसंशयः ॥ २८.७४॥ इति श्रीकुमारतन्त्रे शक्त्यस्त्रस्थापनविधिर्नाम अष्टाविंशः पटलः ।

२९. एकोनत्रिंशः पटलः - गर्भन्यासविधिः

गर्भन्यासविधिं वक्ष्ये श‍ृणुष्व मुनिपुङ्गव । प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा ॥ २९.१॥ परिवारालये शस्तं विन्यसेत्सपदे सुधीः । सर्वत्राद्येष्टकामेव गर्भन्यासमिति स्मृतम् ॥ २९.२॥ प्रासादे पादुकोर्ध्वे च पट्टिकोपरि विन्यसेत् । मण्डपेषु च सर्वेषु दक्षिणे स्तम्भमूलके ॥ २९.३॥ द्वारदक्षिणभित्तौ वा दक्षिणस्तम्भमूलके । सभायामं विशालाय दक्षिणस्तम्भमूलके ॥ २९.४॥ यद्वास्तु गर्भसंयुक्तं वस्तु तत्सम्पदं पदम् । तदर्धभाजनं कार्यं सर्वलक्षणसंयुतम् ॥ २९.५॥ सौवर्णं राजतं ताम्रं कांस्यं वा गर्भभाजनम् । पदासमन्तु विस्तारं भाजनस्य महामुने ॥ २९.६॥ षट्सप्ताष्टाङ्गुला वाऽपि हीनं मध्यममुत्तमम् । चतुर्वणं समं कुर्यात् विस्तारेण समोपमम् ॥ २९.७॥ चतुर्भागैकहीनं वा त्रिभागैकविहीनकम् । तत्तदग्न्यंशमानेन पिधानं तम्य कारयेत् ॥ २९.८॥ यवमात्रन्तु विस्तारं तयोर्भित्ति समम्भवेत् । पञ्चविंशतिकोष्ठं वा नवकोष्ठयुतन्तु वा ॥ २९.९॥ कोष्ठभित्तिसमुत्सेधं बाह्यात्पादविहीनकम् । तद्विस्तारं तदर्धं स्यात्सर्वदोषविवर्जितम् ॥ २९.१०॥ गर्भमस्त्रेण सङ्क्षाल्य हृदाभ्युक्ष्य च तत्सुधीः । प्रासादाग्रे द्विपार्श्वे च मण्डपं कल्प्य भूषयेत् ॥ २९.११॥ भूतषट्कं मुनिश्रेष्ठ कन्यसादि क्रमेण तु । तन्मध्ये वेदिकां कुर्यात् रत्निमात्रसमुच्छ्रयाम् ॥ २९.१२॥ चतुर्दिक्षु च कुण्डानि चतुरश्राणि कल्पयेत् । स्थण्डिलं वाऽपि सर्वत्र कल्पयेत्कल्पवितमः ॥ २९.१३॥ वेद्यूर्ध्वे स्थण्डिलं कुर्यात्तिलतण्डुलशालिभिः । तत्र पद्मं समालिख्य साष्टपत्रं सकर्णिकम् ॥ २९.१४॥ विन्यसेद्धृदयेनैव तन्मध्ये गर्भभाजनम् । तेषु कोणेषु सर्वेषु मध्ये कूटाक्षरं न्यसेत् ॥ २९.१५॥ यकारादिहकारान्तं परितोऽष्टासु विन्यसेत् । तद्बाह्यकोष्ठे पूर्वादि विन्यसेत् षोडशस्वरान् ॥ २९.१६॥ माणिक्कं स्यान्मरकतं नीले स्फटिकमेव च । पूर्वादिषु चतुर्दिक्षु वैडूर्यं मौक्तिकं पुनः ॥ २९.१७॥ पुष्परागं प्रवालञ्च वह्निकोणादिषु न्यसेत् । पारदं धातुरागञ्च गैरिकञ्च मनः शिलाम् ॥ २९.१८॥ अञ्जनं हरितालञ्च माक्षिकञ्चाद्भुतं तथा । सौराष्ट्रं विन्यसेत्तेषां पूर्वादिषु गुरूत्तमः ॥ २९.१९॥ काञ्चनं रजतं ताम्रमारकूटमपि त्रपु । कांस्यं सीसमयश्चैव पित्तलञ्च तथा न्यसेत् ॥ २९.२०॥ एवं नवसु कोष्ठेषु विन्यस्य च महामुने । शालिकोद्रवनीवारप्रियङ्गुतिलसर्षपान् ॥ २९.२१॥ यववेणुकुलुत्थञ्च तथा निष्पावमाढकम् । गोधूमं माषमुद्गञ्च श्यामकं कुष्ठ षोडश ॥ २९.२२॥ पूर्वादिषु क्रमान्न्यस्त्वा पद्ममुत्पलमेव च । बदरी मुसलञ्चापि रात्रिं ह्रीबेरमेव च ॥ २९.२३॥ उशीरञ्च कुशेरुञ्च दिक्षु पूर्वादिषु न्यसेत् । विष्णुक्रान्तिं सहादेवीं गोक्षीरं बिल्वमेव च ॥ २९.२४॥ शमीपत्रमपामार्गं कदम्बञ्च विदिक्षु च । पर्वते च नदीतीरे वल्मीके कर्कटावटे ॥ २९.२५॥ दन्तिदन्ते वृषे श‍ृङ्गे सस्यक्षेत्रे तडागके । हलोदुम्बरमूले च दशमृद्ग्राह्य बुद्धिमान् ॥ २९.२६॥ पूर्वादिषु च कोष्ठेषु सर्वेष्वत्र क्रमान्न्यसेत् । चतुर्दिक्षु स्वस्तिकाक्षमालां शक्तिञ्च कुक्कुटम् ॥ २९.२७॥ मयूरं वा सुवर्णेन मध्यमे गजमेव च । एवं सम्पूज्य विधिवत् प्रतिकोष्ठं तदक्षरैः ॥ २९.२८॥ विधाय च विधानेन फणीन्द्रं शेषमर्चयेत् । रक्तसूत्रं ततो बध्वा नववस्त्रेण वेष्टयेत् ॥ २९.२९॥ ततो होमं प्रकर्तव्यमग्निकार्योक्तमार्गतः । स्कन्दस्य मूलमन्त्रेण पलाशसमिधा हुनेत् ॥ २९.३०॥ आज्यं चरुं तथा लाजं तिलं सर्षपमेव च । यवं चैव षडङ्गेन जुहुयान्मुनिपुङ्गव ॥ २९.३१॥ शतमर्धं तदर्धं वा होमयेन्मन्त्रवित्तमः । सर्वद्रव्यावसाने तु तत्तन्मन्त्रेण संस्पृशेत् ॥ २९.३२॥ गर्भभाण्डं द्विजश्रेष्ठ फणीन्द्राय निवेदयेत् । हविस्सर्वोपदंशाद्यं पूर्णां मूलेन होमयेत् ॥ २९.३३॥ सुमुहूर्ते सुलग्ने तु शान्तात्मा देशिकः शुचिः । सर्वातोद्यसमायुक्तं सर्वमङ्गलसंयुतम् ॥ २९.३४॥ गर्भभाजनमुत्थाप्य प्रोक्तस्थाने समावटे । विन्यस्य मूलमन्त्रेण सर्वद्रव्यसमायुतम् ॥ २९.३५॥ शिल्पिना कारयेत्कर्म यथा दृढतरन्तथा । अलाभे गर्भगोले तु दक्षिणावर्तशङ्खकैः ॥ २९.३६॥ दले वा भाजनं सर्वं वस्तु निक्षिप्य कौशिक । सर्वकर्म यथा पूर्वं कृत्वा तद्विन्यसेद्बुधः ॥ २९.३७॥ रात्रौ गर्भमहन्येव स्थापयेत्प्रथमेष्टकाम् । दक्षिणां गुरवे दद्यात्तोषयेच्छिल्पिना तथा । शुभेप्सिभिः प्रकर्तव्यं गर्भन्यासं विधानतः ॥ २९.३८॥ इति श्रीकुमारतन्त्रे गर्भन्यासविधिर्नाम एकोनत्रिंशः पटलः ।

३०. त्रिंशः पटलः - आद्येष्टकाविधिः

आद्येष्टकाविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । गर्भोपरि निधायात्राऽवटे प्रथमेष्टकाम् ॥ ३०.१॥ गर्भाधस्तात्तु वा स्थाप्य श्वभ्रे पञ्चद्वयांशके । यद्यत्स्थानन्तु गर्भस्य तत्रस्था प्रथमेष्टका ॥ ३०.२॥ मुद्गञ्च धान्यलोहैश्च धातुरत्नौषधादिभिः । गन्धैश्च विविधैर्बीजैर्विन्यसेत्प्रथमेष्टकाम् ॥ ३०.३॥ शिलामया शिलागेहे इष्टका त्विष्टकागृहे । गर्भभाजनभूस्तारा विस्तारद्विगुणा मता ॥ ३०.४॥ विस्तारार्धघनामासत् हर्म्येषु चतुरिष्टका । अष्टौ च द्वादशस्थाप्य मध्यमेऽप्युत्तरे गृहे ॥ ३०.५॥ ऋजुदीर्घाङ्गुलन्यासं द्विसङ्ख्यानसि विन्यसेत् । असमाङ्गुलरेखावत् पद्मरेखा नपुंसकम् ॥ ३०.६॥ ऋता तत्र यथापूर्वं तथैव स्थापनेष्टकाम् । सर्वलक्षणसंयुक्तां रक्तवर्णा ततः शुभाम् ॥ ३०.७॥ इष्टकां क्षालयेदद्भिः प्रोक्षयेदस्त्रमन्त्रतः । मण्डपे स्थण्डिलं कल्प्य तिलतण्डुलशालिभिः ॥ ३०.८॥ तन्मध्ये पद्ममालिख्य न्यसेत्तस्योपरीष्टकाम् । यकारादिवकारान्तं प्रणवेन समन्विताम् ॥ ३०.९॥ शालिपिष्टरसेनैव लिखित्वाच्छाद्य वस्त्रतः । गन्धपुष्पादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥ ३०.१०॥ कुण्डे वा स्थण्डिले वाऽपि होमयेन्मुनिपुङ्गव । स्विष्टकृत्त्स्विष्टमग्नेति पूर्वान्तु शिरसा हुनेत् ॥ ३०.११॥ प्रभाते स्थापयेद्विद्वान् गर्भोर्ध्वे प्रथमेष्टकाम् । दक्षिणायनकाले तु सुमुहूर्ते सुलग्नके ॥ ३०.१२॥ वह्निराक्षसवाय्वीशकोणेषु चतुरिष्टकाम् । क्रमशः स्थापयेद्विद्वान्सर्वकामार्थसिद्धये ॥ ३०.१३॥ आलस्येनाथ मोहेन कुर्याच्चेत्तु गृहादिकाम् । आद्येष्टकां विना विप्र दारिद्रं तत्र तिष्ठति । तस्मात्सर्वप्रयत्नेन कर्तव्या प्रथमेष्टका ॥ ३०.१४॥ इति श्रीकुमारतन्त्रे आद्येष्टकाविधिर्नाम त्रिंशः पटलः ।

३१. एकत्रिंशः पटलः - प्रासादलक्षणविधिः

अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् । हस्तमानेन कर्तव्यं प्रासादं मुनिपुङ्गव ॥ ३१.१॥ मानमात्राङ्गुलं मूलं बेराङ्गुलमिति त्रिधा । तेषु मानाङ्गुलं ग्राह्यं ग्रस्ते हस्तं वदाम्यहम् ॥ ३१.२॥ किष्कुहस्त इति प्रोक्तं तच्चतुर्विंशमङ्गुलम् । प्राजापत्यं पञ्चविंशदङ्गुलं परिकीर्तितम् ॥ ३१.३॥ षड्विंशतिधनुर्मुक्तिः सप्तविंशद्धनुर्ग्रहम् । चतुर्विंशेषु हस्तेषु प्राजापत्येन हस्ततः ॥ ३१.४॥ देवतायतनं कार्यं वास्तुशास्त्रविशारदैः । द्विहस्ताद्दशहस्तान्तं भवत्येकतलस्य तु ॥ ३१.५॥ भूतादिमनुहस्तान्तं द्वितलस्य विशालतः । त्रितलं सप्तहस्तादि षोडशान्तं प्रकीर्तितम् ॥ ३१.६॥ तथैवं मुनिशार्दूल त्रयोदशकरादि च । द्वाविंशद्धस्तपर्यन्तं चतुर्भूमेरुदाहृतम् ॥ ३१.७॥ पञ्चदशकरायामहीनं क्षुद्रविमानकम् । (पञ्चाशत्करायामहीनं) तेषां तुङ्गं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत ॥ ३१.८॥ व्यासे सप्तकृतम्पङ्क्तितुङ्गनाम्ना तु शान्तिकम् । अत्यर्थं पौष्टिकं ज्ञेयं पञ्चमेऽष्टौ जयप्रदम् ॥ ३१.९॥ अद्भुतं सतिपातञ्च द्विगुणं सर्वकामिकम् । द्विगुणादधिकं पादे अर्धोच्चं सर्वकामिकम् ॥ ३१.१०॥ सप्तपाद्यष्टपङ्क्त्यादि यावत्सप्त तु हस्ततः । द्विद्विहस्तविवृद्ध्यादि सप्तविंशतिभेदकम् ॥ ३१.११॥ वेदादिद्वादशान्तानां तालानां धामविस्तृतम् । (देवादिद्वादशान्तानां) प्रत्येकं त्रित्रिमानं स्यादुत्तमाद्युत्तमक्रमैः ॥ ३१.१२॥ त्रयोविंशश्चतुर्विशकराच्छक्तिकरान्तकम् । त्रित्रिहस्तविवृद्ध्या तु सप्तविंशतिहस्तकम् ॥ ३१.१३॥ तेषां ग्रहाणामुत्तुङ्गमुत्तमाद्युत्तमक्रमैः । त्रयोदशचतुष्पङ्क्तिहस्तं षट्षष्टिकावधि ॥ ३१.१४॥ द्विद्विहस्तविवृद्ध्या तु सप्तविंशत्प्रमाणकम् । देवादिद्वादशान्तानां तालानां हर्म्यविस्तृतम् ॥ ३१.१५॥ सप्तदशाष्टपङ्क्त्यादि षण्णवत्यन्तहस्तकम् । त्रित्रिहस्तविवृद्ध्या तु त्रिनवोत्तुङ्गमीरितम् ॥ ३१.१६॥ मध्यक्रमे विमानानामुत्तमादित्रयस्त्रयः । इदं पङ्क्तिसमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३१.१७॥ षट्पञ्चाशतिहस्तान्तं चतुर्विंशत्प्रमाणकम् । भूतादिद्वादशान्तानां तालानां हर्म्यविस्तरम् ॥ ३१.१८॥ सप्तदशाष्टपङ्क्त्यादि सप्ताशीतिकरान्तकम् । त्रित्रिहस्तविवृद्ध्या तु चतुर्विंशतितुङ्गकम् ॥ ३१.१९॥ अल्पक्रमे विमानान्तमुत्तमादित्रयं त्रयम् । विस्तारं स्तम्भतो बाह्ये जन्मात् स्तूप्यन्तनुत्तमम् ॥ ३१.२०॥ अथवा शिखरान्तं वा विमानानां समुन्नतिम् । सप्तत्या हस्तविस्तारात् शतहस्तसनुच्छ्रयात् ॥ ३१.२१॥ विनष्टत्वंशकं मानं सर्वथापि च वर्जयेत् । तेषु तेष्वष्टमानेन गर्भगेहं प्रशस्यते ॥ ३१.२२॥ व्यासायामं समूहेषु वल्मशुद्ध समीक्षते । वसुद्वाराग्निभिर्हित्वा रविपङ्क्त्याष्टभिर्भवेत् ॥ ३१.२३॥ आयव्ययञ्च योनिस्स्याद् वसुभिर्गुणिते पुनः । हृत्वा च सप्तविंशद्भिः शेषमक्षफल पुनः ॥ ३१.२४॥ नाभेः सप्तहृतं पारं त्रिंशद्व्याप्ते तिथिर्वदेत् । आयाधिकं शुभैर्युक्तं कल्पयेत्कल्पवित्तमः ॥ ३१.२५॥ वेश्मतारे त्रिभागैकं पञ्चभागे गुणांशकम् । सप्तभागे चतुर्थांशं नवांशे पञ्चभागकम् ॥ ३१.२६॥ रुद्रांशे सप्तभागञ्च त्रयोदशसु सप्त च । पक्षपक्षसु भागञ्च सप्तदर्शनधावकम् ॥ ३१.२७॥ (भागञ्च दशविभागकं) गेहार्धं गर्भगेहस्य उक्तं मध्यविशालकम् । गर्भगेहचतुर्थांशं मध्ये द्वारविशालकम् ॥ ३१.२८॥ विस्तारद्विगुणोत्सेधं यथेष्टं दिशि कल्पयेत् । अग्रतो मण्डपं कुर्यात् गर्भगेहसमेन वा ॥ ३१.२९॥ त्रिपादं वा तदर्धं वा तदेव ह्यर्धमण्डपम् । त्रिपादेपादमध्येऽर्धं त्वन्तरालं विधीयते ॥ ३१.३०॥ महामण्डपमेतेषां समायामं तदग्रतः । चतुर्थञ्चाथ हीनं वा महामण्डपविस्तृतम् ॥ ३१.३१॥ द्वारोत्सेधार्धविस्तारमुत्तमद्वारमुच्यते । तदुत्सेधगुणांशैकं हीनं मध्यममुच्यते ॥ ३१.३२॥ अधमं द्वादशं हीनं स्याच्छिखागतविस्तरम् । ऊर्ध्वोदुम्बरमध्ये तु वामपार्श्वे च दक्षिणे ॥ ३१.३३॥ श्रियं सरस्वतीं चैव विघ्नेशं कारयेद् बुधः । पार्श्वेषु द्वारदेशेषु द्वारपालौ प्रतिष्ठयेत् ॥ ३१.३४॥ प्रासादभित्तिकोष्ठेषु दक्षिणोदङ्प्रतीचिषु । सुब्रह्मण्यं गुहं चैव पश्चिमे स्कन्दसंस्थितम् ॥ ३१.३५॥ स्कन्दस्य मण्डपे पार्श्वे दक्षिणे तु विनायकम् । दुर्गां चैवोत्तरे भागे स्थानकासनमेव वा ॥ ३१.३६॥ आसमन्तात्तथोपेतं रूपाण्यपि विधीयते । एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥ ३१.३७॥ पुरन्दरं न्यसेत्पार्श्वे सुब्रह्मण्यञ्च दक्षिणे । पश्चिमे वरुणञ्चापि स्कन्दं वा विन्यसेद् बुधः ॥ ३१.३८॥ उत्तरे तु विधातारं गुहं वा धनदन्तु वा । एवं दीर्घतलं पार्श्वे पङ्क्तितले मरुद्गणान् ॥ ३१.३९॥ तलेऽमराः सुरान् सिद्धान् गन्धर्वादिमुनीश्वरान् । ग्रीवाधस्ताद् वृतेरूर्ध्वे कोणे कोणेऽपि विन्यसेत् ॥ ३१.४०॥ नागरं द्राविडं चैव वेसरञ्च कृतामतम् । चतुरश्रं साधनाश्रं नागराद्यङ्गमेव च ॥ ३१.४१॥ अष्टाश्रञ्च षडश्रञ्च तदायामयुतन्तु वा । द्राविडं व्योमनिर्दिष्टमधिवेसरमुच्यते ॥ ३१.४२॥ एकञ्च द्वेकनेत्रैकं तत्तन्मूलार्धकन्धरम् । प्रस्तरं पादशिष्टानामेकभूतिवितानकम् ॥ ३१.४३॥ त्रिषुवत्पञ्चचैकद्वे वेदानर्धैकभागतः । अधिष्ठानाङ्घ्रिमञ्चाङ्घ्रिप्रस्तरं वेदिकागलम् ॥ ३१.४४॥ शिखरं स्तूपिका कुर्यात् भागमंशे द्विभूमिकम् । महर्षे भवने तुङ्गे चतुर्विंशतिभाजिते ॥ ३१.४५॥ द्वयवेदिद्विभागैश्च पादोनञ्चतुरश्रतः । एकार्धं चैकभागैकं सैकभागार्धभागेकम् ॥ ३१.४६॥ एकं द्व्यर्धैकभागैश्च पादाधारञ्च पादकम् । प्रस्तारं त्रिप्रस्तरञ्च पादप्रस्तरवेदिकम् ॥ ३१.४७॥ गलञ्च शिखरं कुम्भं त्रितले तु यथा क्रमम् । एकद्वित्रिचतु पञ्चषट्पङ्क्ते तु तले मतम् ॥ ३१.४८॥ भूतषट् सप्तभित्तिश्च द्वितले कल्पयेद् बुधः । द्वितले सप्तदिग्द्वारदशाङ्गैः कुम्भभित्तयः ॥ ३१.४९॥ एवं भित्तिविधं प्रोक्तं युक्त्या युञ्जीतः बुद्धिमान् । उपपीठादि वर्गाणामलङ्काराणि यानि च ॥ ३१.५०॥ विस्तारञ्च पुरा विप्र मया च कथितं तव । तन्मार्गेण प्रकर्तव्यं सर्वलक्षणसंयुतम् ॥ ३१.५१॥ अधिष्ठानादिवर्गाढ्यं शिलाकूटादिशोभितम् । क्षुद्रनाडी महानाडी हंसमालाविमण्डितम् ॥ ३१.५२॥ सर्वालङ्कारसंयुक्तं यथोक्ताप्रतिमैर्युतम् । अलङ्कारैश्च नामानि वक्ष्येऽहं वैजयन्तिकम् ॥ ३१.५३॥ श्रीभोगं श्रीविशालञ्च स्वस्तिबन्धन्तथैव च । श्रीकरं हस्तिपृष्ठञ्च स्कन्दकूटञ्च केसरम् ॥ ३१.५४॥ एवमेव तले नाम द्वितले नाम वक्ष्यते । स्वस्तिकञ्चातिसौन्दर्यं कैलासं पर्वतन्तथा ॥ ३१.५५॥ स्वस्तिबन्धञ्च कल्याणं पञ्चाधं विष्णुकान्तकम् । सुमङ्गलञ्च गम्यारं हस्तपृष्ठं मनोहरम् ॥ ३१.५६॥ तथैवेश्वरकान्तञ्च वृत्तकौबेरकान्तकम् । द्वितलं पक्षनामानि एतानि बहुभूमिषु ॥ ३१.५७॥ एतेष्वष्टौ यथायोग्यं प्रासादं कल्पयेद् बुधः । सुस्निग्धं सुदृढं कुर्यात् वित्तशाठयं न कारयेत् ॥ ३१.५८॥ एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् । असौ तु कुरुते पूर्वान् त्रिसप्तकुलजान् ध्रुवम् ॥ ३१.५९॥ सर्वान्कामानिह प्राप्य युगानामेकसप्ततिः । मोदते चाप्सरगणैर्विमाने सर्वकामिके ॥ ३१.६०॥ पुण्यभूमिं ततः प्राप्य पुत्रपौत्रविवर्धनम् । एकविंशत्कुलं विप्र साम्राज्यं समवाप्नुयात् ॥ ३१.६१॥ इति श्रीकुमारतन्त्रे प्रासादलक्षणविधिर्नाम एकत्रिंशः पटलः ।

३२. द्वात्रिंशः पटलः - मूर्ध्नेष्टिकाविधिः

श‍ृणुष्व मुनिशार्दूल वक्ष्ये मूर्ध्नेष्टिकाविधिम् । प्रासादमूर्ध्ना विधिना प्राप्य मूलेष्टकाः शुभाः ॥ ३२.१॥ इष्टकास्ताश्चतस्रः स्युस्तासां लक्षणमुच्यते । शिलागृहे शिलारूपा इष्टका इष्टकागृहे ॥ ३२.२॥ इष्टकाभिश्च भूमिश्रे षोडशाङ्गुलमायता । तदूर्ध्वे तारसंयुक्ता तस्यार्धघनसंयुता ॥ ३२.३॥ इष्टकायाममध्ये वा षोडशाङ्गुलविस्तृताः । तदर्धघनसंयुक्ता द्वयार्धार्धाङ्गुलक्षया ॥ ३२.४॥ कालमित्रे प्रधानादि ज्ञात्वा तु ग्रहमूलकम् । स्तूपिदण्डेन संयुक्तं कुर्यान्मूर्ध्नेष्टकास्तथा ॥ ३२.५॥ स्तूपिदण्डोचिता वृक्षा खदिरासनशिशुपाः । सालचन्दनवृक्षाश्च तिन्त्रिणीसारमेव च ॥ ३२.६॥ प्रासादपादतुल्यं वा तद्विष्कम्पसमं तु वा । तद्वत्तुङ्गगुणांशैकमूले तु चतुरश्रकम् ॥ ३२.७॥ तदूर्ध्वांशद्वयं वृत्तं कुर्यादनुकृशं यथा । अग्रे व्योमाङ्गुलानाह मेयं कृत्वा तदर्धकम् ॥ ३२.८॥ ततः पादं प्रयुञ्जीत तत्तले त्रिगुणायतम् । विस्तारार्धघनोपेतं तद्दृढं सुदृढं तथा ॥ ३२.९॥ लोहेन कारयेद्विद्वान् स्थूपिदण्डं विशेषतः । क्षालयित्वाम्भसा सम्यक् प्रोक्षयेदस्त्रमन्त्रतः ॥ ३२.१०॥ यकारादिवकारान्तमिष्टकासु चतुर्ष्वपि । विलिखेद्धातुरागेण पिष्टनैव सितेन वा ॥ ३२.११॥ पुण्याहं वाचयित्वाथ कौतुकं बन्धयेत्सुधीः । सुवर्णं रजतं वाऽपि क्षौमं कार्पासकन्तु वा ॥ ३२.१२॥ मण्डपं चाधिवासार्थं कारयेल्लक्षणान्वितम् । कृत्वा नवपदं तत्र तन्मध्ये वेदिकायुतम् ॥ ३२.१३॥ तालमात्रसमुत्सधात् दर्पणोदरसन्निभम् । वेदिकायाश्चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा ॥ ३२.१४॥ चतुरश्राणि कुण्डानि सर्वाणि परिकल्पयेत् । चतुरर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ३२.१५॥ आशाध्वजसमायुक्तं वितानैरुपशोभितम् । दर्भमालासमायुक्तमष्टमङ्गलसंयुतम् ॥ ३२.१६॥ मङ्गलाङ्कुरसंयुक्तं बहूपस्कारशोभितम् । गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ॥ ३२.१७॥ वास्तुहोमं प्रकुर्वीत पर्यग्निकरणं ततः । तन्मध्ये स्थण्डिलं कृत्वा श्वेततण्डुलशालिभिः ॥ ३२.१८॥ पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् । इष्टिकां विन्यसेन्मध्ये वस्त्रेणाच्छाद्य देशिकः ॥ ३२.१९॥ दण्डोर्ध्वे कूर्चमाबध्वा मूले वस्त्रेण वेष्टयेत् । इष्टिकां परिविन्यस्य कान्तेन मधुनार्चयेत् ॥ ३२.२०॥ स्थापयेच्च ततः कुम्भान् सर्वलक्षणसंयुतान् । ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ ३२.२१॥ मध्यादीशानपर्यन्तं विन्यसेन्नवकुम्भकान् । तेषु मध्ये गुहं चेष्ट्वा दिक्पालान्परितो यजेत् ॥ ३२.२२॥ अग्निकार्योक्तमार्गेण होमं कृत्वा विचक्षणः । पुरुषं पूर्वकुण्डे च दक्षिणेऽघोरमेव च ॥ ३२.२३॥ सद्योजातं तु वरुणे वामदेवं तथोत्तरे । गन्धाद्यैरर्चयेद्धीमान् तत्तन्मन्त्रमनुस्मरन् ॥ ३२.२४॥ पलाशखादिराश्वत्थवटाः पूर्वादिदिक्षु च । समिदाज्यचरूंश्चैव लाजसक्तुतिलं तथा ॥ ३२.२५॥ दधिक्षीरगुलं चैव प्रत्येकन्तु शताहुतिः । मूलेन च षडङ्गेन स्कन्दगायत्रिमन्त्रतः ॥ ३२.२६॥ अयं कुमारमन्त्रेण होमयेन्मुनिपुङ्गव । द्रव्यान्ते कीलकं स्पृष्ट्वा व्याहृतिर्जुहुयात्ततः ॥ ३२.२७॥ आज्येनाघोरमन्त्रेण सर्वत्रापि शताहुतिः । ततः कुम्भस्थितानां तु प्रत्येकं षोडशाहुतिः ॥ ३२.२८॥ रात्रिशेषं व्यपोह्याथ गुरुः प्रातः समुत्थितः । कृतनित्यविधिस्तत्र सोष्णीषस्सोत्तरीयकः ॥ ३२.२९॥ कुम्भानभ्यर्च्य विधिना पूर्णान्तु शिरसा हुनेत् । सुमुहूर्ते सुलग्ने तु सर्वदोषविवर्जिते ॥ ३२.३०॥ पूजितो यजमानेन गोभूमिधनकाञ्चनैः । सन्तुष्टहोतृदैवज्ञशिल्पिभिः सह देशिकः ॥ ३२.३१॥ उत्थाप्य चेष्टिकां कीलं यजमानादिभिः सुधीः । सर्वातोद्यसमायुक्तं कृत्वा धामप्रदक्षिणम् ॥ ३२.३२॥ आरोप्योपरि तन्मूर्ध्नि रन्ध्रं निरन्ध्रकं तथा । वैडूर्यं स्फटिकं मुक्ता वज्रं वै पुष्परागकम् ॥ ३२.३३॥ मध्यादीशानपर्यन्तं स्कन्दलोकेशबीजकम् । विन्यस्यैव शकुन्यादिनवशक्तिर्यजेद्बुधः ॥ ३२.३४॥ तस्योर्ध्वे कीलकं न्यस्त्वा शिखरार्धप्रमाणकम् । तन्मन्त्रकं समुच्चार्य दत्वा दत्वा तु निश्चलम् ॥ ३२.३५॥ स्थापितान् नवकुम्भांश्च समानीय यथाक्रमम् । तत्कीलपरितश्चापि प्रोक्षयेत्सर्वमन्त्रतः ॥ ३२.३६॥ स्तूप्यंशमूर्ध्वतः कृत्वा शेषं तत्र प्रयोजयेत् । एवं यः कुरुते मर्त्यः सर्वलोकानवाप्य च । देहान्ते गणपो भूत्वा स्कन्दलोके महीयते ॥ ३२.३७॥ इति श्रीकुमारतन्त्रे मूर्ध्नेष्टिकाविधिर्नाम द्वात्रिंशः पटलः ।

३३. त्रयस्त्रिंशः पटलः - प्राकारलक्षणविधिः

परिवारनिवेशारर्थं रक्षार्थं शोभनार्थकम् । प्राकारं परितः कृत्वा शिल्पेष्टिकयापि वा ॥ ३३.१॥ (परितः कुर्यात्) मूलप्रासादविस्तारं तदर्धं वा विचक्षणः । दण्डमित्यत्र सङ्कल्प्य तद्दण्डेनैव कल्पयेत् ॥ ३३.२॥ मूलप्रासादपार्श्वे तु दण्डेनैकेन मानतः । अन्तर्निर्मलं कुर्यात् पार्श्वेषु च महामतिः ॥ ३३.३॥ द्विद्विदण्डविवृध्या तु दण्डभारस्य विस्तृतम् । तत्पार्श्वेषु त्रिदण्डेन प्रत्याहारं प्रकल्पयेत् ॥ ३३.४॥ तस्य पार्श्वेषु मतिमान् चतुर्दण्डेन मानतः । महामर्यादिकं कुर्यात् तत्पार्श्वेषु द्विजोत्तम ॥ ३३.५॥ पञ्चदण्डविवृद्ध्या तु पञ्चप्राकारमुच्यते । चतुरश्रकमेकेन मुखायाम प्रचक्षते ॥ ३३.६॥ पादाधिक्यमथात्यर्थपादोनद्विगुणन्तु वा । द्विगुणं द्विगुणार्धं वा त्रिगुणं वा चतुर्गुणम् ॥ ३३.७॥ मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः । सालं क्षुद्राल्पहर्म्याणामन्यमानेन कथ्यते ॥ ३३.८॥ स्तूप्या सार्धं प्रमाणेन प्रथमं सालमीरितम् । द्विप्रकारं द्विहस्तैश्च त्रिसालः पञ्चहस्तकः ॥ ३३.९॥ तस्मात्सप्तकरैरेव चतुर्थं सालमीरितम् । नवहस्तन्तु परितः तत्समं पञ्चसालकः ॥ ३३.१०॥ मध्यमानं सतारार्थं प्रथमं सालमीरितम् । तस्मात्पञ्चकरैरेव द्वितीयं सालमीरितम् ॥ ३३.११॥ सप्तहस्तं त्रितालं स्यात् नवहस्तैश्चतुर्थकम् । रुद्रहस्तेन कर्तव्यं पञ्चमं सालमेव च ॥ ३३.१२॥ उत्तमानां सताराख्ये प्रथमं सालमीरितम् । तस्मात्सर्वकरेणैव प्राकारञ्च द्वितीयकम् ॥ ३३.१३॥ नवहस्तैस्त्रितालं स्यात् रुद्रहस्तैस्तु तालकम् । त्रयोदशकरेणैव पञ्चमं सालमीरितम् ॥ ३३.१४॥ एवं क्षुदाल्पमध्यानामुत्तमानां विधीयते । एतेन द्विप्रकर्तव्यं पूर्वोक्तेन क्रमेण वा ॥ ३३.१५॥ प्राकारः परितः कुर्यात् मुखायामञ्च पूर्वकम् । भित्यन्तरस्य मानेन भित्तिमध्येन वा पुनः ॥ ३३.१६॥ बाह्ये तु नवतालं स्यात् मानसे मानवित्तमः । अस्य प्राकारभित्तेश्च विष्कम्भं सार्धहस्तकम् ॥ ३३.१७॥ तस्मात् त्रयाङ्गुलाधिक्याद्द्विहस्ताञ्च यथाक्रमम् । पञ्चानामपि सालानां भित्तिविष्कम्भमीरितम् ॥ ३३.१८॥ तत्तद्विष्कम्भमानञ्च त्रिगुणा च चतुर्गुणा । प्राकारोदयमुद्दिष्टं स्वात्मांशेनाग्रविस्तरम् ॥ ३३.१९॥ उत्तरार्धोच्छ्रितं वाऽपि कुम्भमध्यं ततोच्छ्रितम् । क्षुद्राल्पानां तु सालानां भित्तिहस्तप्रमाणकम् ॥ ३३.२०॥ सार्धहस्तावधिर्यावत् वर्धयेत्पूर्ववत्क्रमात् । यथायोग्यमलङ्कारं तथैव परिकल्पयेत् ॥ ३३.२१॥ ऋजुभित्तियुतं वाऽपि बुद्बुदार्धेन्दुशीर्षकम् । छत्राकारधरो वाऽपि प्राकारं परिकल्पयेत् ॥ ३३.२२॥ भित्तिन्याससमं वाऽपि पादार्धाधिकमेव वा । शीर्षोत्तुङ्गन्तु सालानामेतेषामन्तरालकम् ॥ ३३.२३॥ एकद्वित्रितलैर्युक्तं कुर्यादावृतिमण्डपम् । मानान्तं बाह्यभित्युच्चं यथाक्रमं तलान्तकम् ॥ ३३.२४॥ मूलसद्मोत्तरार्धं वा प्रस्तारं तत्तथापि वा । खण्डहर्म्योत्तरार्धं वा शिखरोन्नतमेव वा ॥ ३३.२५॥ उभयोः सालरूपं वा कल्पयेत्सालशीर्षके । यथेष्टदिक्षु सालेषु द्वारं युक्त्या प्रकल्पयेत् ॥ ३३.२६॥ गोपुरं तत्र तत्रैव कल्पयेद्विधिपूर्वकम् । अन्तर्हारे तथाचान्ये वह्नौ स्याद्धव्यकोष्ठकम् ॥ ३३.२७॥ प्रासादस्य द्विपार्श्वे तु देवसेना च वल्लिकम् । वह्निगोपुरयोर्मध्ये धनधान्यालयं भवेत् ॥ ३३.२८॥ याम्ये तुजिनशाला च पुष्पमण्डपमेव च । नैरृत्यामस्त्रशाला च वाहनावासमेव च ॥ ३३.२९॥ वारुणे वायवे चैव शयनस्थानमीरितम् । आस्थानमण्डपं सौम्ये तत्र पूर्वकृतालयम् ॥ ३३.३०॥ ऐशान्ये यागशालां तु वापीकूपं तु तत्र वै । ऐशगोपुरयोर्मध्ये वाद्यस्थानं द्विजोत्तम ॥ ३३.३१॥ एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते । अथैवं तारयेत्पूर्वान् त्रिसप्तकुलजानपि ॥ ३३.३२॥ सर्वान्कामानिह प्राप्य पुत्रपौत्रादिसंयुतः । जन्मैकविंशतिं विप्र साम्राज्यं समवाप्नुयात् । स्कन्दलोकं ततः प्राप्य स्कन्देन सह मादते ॥ ३३.३३॥ इति श्रीकुमारतन्त्रे प्राकारलक्षणविधिर्नाम त्रयस्त्रिंशः पटलः ।

३४. चतुस्त्रिंशः पटलः - परिवारविधिः

परिवारविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत । परिवारविमानानां मानं गर्भगृहार्धकम् ॥ ३४.१॥ [तत्त्रिभागे च मानं वा पादबाह्यं प्रकल्पयेत् । त्रिचतुःपञ्चषट्सप्तहस्तैर्वा हर्म्यविस्तरम् ॥] तत्रभागः प्रकर्तव्यो यथा युक्तिवशाद्बुधैः । (सर्वैरङ्गैः प्रकर्तव्यः येथा) प्रासादमण्डपसभा शालाकारार्धयोग्यकम् ॥ ३४.२॥ एकद्वित्रितलं कुर्यात् परिवारालये बुधः । परिवारामरोत्सेधाः प्रतिमालक्षणोक्तवत् ॥ ३४.३॥ सर्वलक्षणसंयुक्तं स्थानकासनमेव च । शिवं विष्णुं विधातारं विघ्नेशं गुहमेव च ॥ ३४.४॥ पञ्चमूर्तिं विजानीयादेवमेव विचक्षणः । एते सर्वे सुराः प्रोक्ताः सर्वकारणकारणम् ॥ ३४.५॥ विश्वरक्षकरा ह्येते तस्मात् सेव्या सुरोत्तमैः । एतस्मात् परिवारात्तु सर्वदेवसुरोत्तमाः ॥ ३४.६॥ अष्टौ तु द्वादश पुनः परिवारस्तु षोडश । द्वात्रिंशत्परिवारांश्च वक्ष्येऽहं श‍ृणु कौशिक ॥ ३४.७॥ गेहे नवपदं कृत्वा मध्यभागाद्बहिःक्रमात् । प्राङ्मुखे तु गजं स्थाप्य वह्नौ शास्तारमेव च ॥ ३४.८॥ यमे पितामहं सप्तमातरो निरृते पुनः । ज्येष्ठादेवीं जलेशे च वायौ दुर्गां प्रतिष्ठयेत् ॥ ३४.९॥ सोमे वै क्षेत्रकं प्रोक्तमैशान्यान्तु सुमित्रकम् । अष्टौ त परिवारास्स्युरथद्वादश कथ्यते ॥ ३४.१०॥ पञ्चपञ्चपदं कृत्वा मध्ये नवपदाद्बहिः । गजं विधिमगस्त्यं च नारदं च चतुर्दिशि ॥ ३४.११॥ पश्चात्सूर्यपदे वह्नौ यमे रक्षसि वारुणे । वायौ सौम्ये तथैशान्ये क्रमादेतान् प्रतिष्ठयेत् ॥ ३४.१२॥ सूर्यः शास्ता यमश्चैव मातरो वरुणस्तथा । दुर्गाश्रीदसुमित्राश्च द्वादशैते प्रकीर्तिताः ॥ ३४.१३॥ षट्कषट्कपदं कृत्वा तन्मध्ये षोडशाद्बहिः । गजं विधिमगस्त्यञ्च नारदञ्च चतुर्दिशि ॥ ३४.१४॥ ऐशे जयन्ते भानौ च वह्नौ च विदधे पदे । भृङ्गो रूपो नैरृते च शेषो वायुपदे पुनः ॥ ३४.१५॥ मुख्याश्चाभ्युदिते भागे सुमित्रं शशिभास्करौ । शास्तारञ्च महालक्ष्मीं भारतीं सप्तमातरम् ॥ ३४.१६॥ शुक्रं बृहस्पतिं दुर्गां दितिदेवीं तथादितिम् । स्थापयेत्क्रमशो विद्वानेते षोडशदेवताः ॥ ३४.१७॥ सप्तसप्तपदं कृत्वा मध्ये नवपदाद्बहिः । सावित्रेन्द्रजयेरुद्रजये चैवापवत्सकः ॥ ३४.१८॥ श्रियं भूमिं तथा ज्येष्ठां भारतीं च प्रतिष्ठयेत् । आर्ये च वास्त्वधिपते मित्रे चैव तु धारयेत् ॥ ३४.१९॥ गजेन्द्रं च विधातारमगस्त्यं नारदं मुनिम् । ईशे चैव तु पर्जन्ये महेन्द्रे भास्करे पदे ॥ ३४.२०॥ सौम्येऽन्तरिक्षे वह्नौ च पूष्णि पश्चाद् ग्रहक्षते । यमे गन्धर्वमृगये पितृदौवारिके पदे ॥ ३४.२१॥ पुष्पदन्तश्च वरुणे सुरे यक्षे समीरणे । नागे भल्लाटके सोमे दितिभागे तथा दितौ ॥ ३४.२२॥ पदेष्वेतेषु मतिमानीशानं चन्द्रमेव च । सुदेहञ्च सुरेशञ्च सुमुखञ्च दिवाकरम् ॥ ३४.२३॥ वह्निं बृहस्पतिं चैव शास्तारं यममेव च । भृङ्गिणं सप्तमातॄश्च निरृतिं वासुकिं तथा ॥ ३४.२४॥ अष्टवारं वारुणं च भृङ्गी दक्षप्रजापतिम् । वायुं दुर्गां वीरभद्रं धनदञ्च सुमित्रकम् ॥ ३४.२५॥ शुक्रं च स्थापयेदेतान् द्वात्रिंशत्परिवारकात् । त्रिप्रकारे तथा पञ्च प्राकारेऽप्येवमेव हि ॥ ३४.२६॥ पदमध्ययुतं कुड्यं यूतं वाऽथ प्रकल्पयेत् । यत्र द्वारन्तु चत्वारि विजानन्स्थापयेद्बुधः ॥ ३४.२७॥ ते हर्म्याभिमुखास्सर्वे स्थाप्या दन्तिपदेषु च । देवताभिमुखो दन्ति नवाभिमुख एव च ॥ ३४.२८॥ गजेन्द्रस्याग्रतः कुर्यात् प्रासादाप्रमाणतः । ध्वजस्थाने तदग्रे तु तन्नीत्वा शक्तिगेहकम् ॥ ३४.२९॥ देवताभिमुखां शक्तिं कल्पयेत्कल्पवित्तमः । एकद्वित्रिकरव्यामोत्सेधः स्याद्बलिपीठकम् ॥ ३४.३०॥ गोपुरात्तु बहिःपीठं प्रासादार्धेन भागकम् । तत्समं वा त्रिपादं वा बलिपीठं प्रकल्पयेत् ॥ ३४.३१॥ पीठोत्सेधे षोडशांशे जन्म एकेन कारयेत् । चतुरंशेन जगतीं कुमुदञ्च त्रिभागतः ॥ ३४.३२॥ तस्योर्ध्वे कम्बुमेकेन कुण्डं कुर्यात्त्रिभागतः । एकेन चोपकम्पन्तु महापट्टिद्विभागतः ॥ ३४.३३॥ ऊर्ध्वे वा जनमेकेन तुङ्गमेवमुदीरितम् । वाजनार्धविशालेन महापद्मविशालकम् ॥ ३४.३४॥ ऊर्ध्वपद्मं तदर्धेन तत्त्रिभागैकमानतः । कर्णिकां तस्य मध्ये तु कल्पयेत्कल्पवित्तमः ॥ ३४.३५॥ एते गजाथ सर्वेषां गोपुराभ्यन्तरेऽपि वा । बहिर्वा स्थापनीयास्ते मध्ये सूत्रस्य वामतः ॥ ३४.३६॥ पञ्चानामपि सालानामग्रे पैशाचपीठकम् । द्वारपालं ततो वक्ष्ये श‍ृणुष्व मुनिपुङ्गव ॥ ३४.३७॥ गुहस्य गर्भगेहस्य चतुर्दिक् द्वाररक्षकाः । जयाश्च विजया रक्षा कृपा सत्यविचक्षणाः ॥ ३४.३८॥ अभया कामरूपाश्च खड्गखेटकपाणयः । रक्तवर्णा विभूषाढ्या रक्तरूपापराधमाः ॥ ३४.३९॥ श्यामकुङ्कुमसङ्काशौ द्विभुजौ वा चतुर्भुजौ । वज्रशक्तिधरौ चैव गदायुधधरौ स्मृतौ ॥ ३४.४०॥ खड्गखेटकधारौ वा मुद्रा विस्मयसंयुताः । महामण्डपिकाद्वातर्स्थौ विजयो जय इत्यपि ॥ ३४.४१॥ वीरबाहुर्वीरसेनो वीरश्च वीरकञ्चुकः । वोरकेतुर्महावीरो वीरमौलिश्च वीर्यवान् ॥ ३४.४२॥ इमे प्रथमसालस्य पूर्वादिद्वारपालकाः । पद्मश्चैव महापद्मः सुपद्मः पद्मलोचनः ॥ ३४.४३॥ पद्मगः पद्मकेतुश्च पद्माभः पद्मवर्णकः । अन्तर्द्वारे चतुर्दिक्षु द्वारपालाष्टका इमे ॥ ३४.४४॥ निकुम्भः कुम्भकर्णश्च कुम्भः कुम्भोदरस्तथा । कुम्भनासा कुम्भपृष्ठः कुम्भास्यः कुम्भगण्डकः ॥ ३४.४५॥ मध्यद्वारचतुर्दिक्ष द्वारपालाष्टका इमे । वक्रदन्तो वक्रदृष्टिर्वक्राङ्गो वक्रवर्णकः ॥ ३४.४६॥ वक्रनासो वक्रकर्णो वक्रास्यो वक्रशीर्षकः । महामध्यादिपूर्वादि द्वारेषु द्वारपालकाः ॥ ३४.४७॥ शक्तिवज्रधरास्सर्वे सर्वाभरणभूषिताः । श्यामकुङ्कुमसङ्काशा पीतकृष्णा भयङ्कराः ॥ ३४.४८॥ द्विभुजौ वा चतुर्बहुः सर्वे खेटकधारिणः । मुद्रा विस्मयहस्ताश्च तुङ्गाश्च विकृताननाः ॥ ३४.४९॥ एते सर्वे महाभागाः कुमारगणदेवताः । यत्र देवस्य तु मुखं तत्र बुध्वा समर्चयेत् ॥ ३४.५०॥ परिवारदेवता एते विश्वामित्र महामुने । अहं चोमा च शास्ता च वात्सल्यत्वान्महामुने ॥ ३४.५१॥ कुमारो यत्र वसति वसामस्तत्र नित्यशः । तस्मात्सर्वान् प्रतिष्ठाप्य पूजयेत् षण्मुखालये । एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ३४.५२॥ इति श्रीकुमारतन्त्रे परिवारविधिर्नाम चतुस्त्रिंशः पटलः ।

३५. पञ्चत्रिंशः पटलः - करणलक्षणविधिः

वक्ष्येऽहं मुनिशार्दूल करणानां तु लक्षणम् । यागांशकानि सर्वाणि करणानि प्रचक्षते ॥ ३५.१॥ अरणीस्रुक्स्रुवं चैव तोरणं चैव मङ्गलम् । दशायुधविधिं पश्चात् कूर्मासनविधिं पुनः ॥ ३५.२॥ खट्वाया लक्षणं पश्चात् लूखलं मुसलं तथा । शिबिकालक्षणं चैव डोलाया लक्षणं परम् ॥ ३५.३॥ दीपमालाविधिं पश्चात् पुष्पाधारस्य लक्षणम् । भेरीं च समिधं चैव परिधिर्दर्भलक्षणम् ॥ ३५.४॥ कूर्चञ्च विष्टरं पश्चात् समकूर्चस्य लक्षणम् । परिस्तरणमेवन्तु दर्भमालाविधिं पुनः ॥ ३५.५॥ प्रोक्षणीं कूर्चमेवन्तु पवित्रस्य तु लक्षणम् । पाद्यपात्रविधिं पश्चात् अर्घ्याचमनपात्रकम् ॥ ३५.६॥ अर्घ्यपात्रविधिं चैव तत्पात्रस्य तु लक्षणम् । (चैव गन्धपात्रस्य लक्षणं) पुष्पाद्यार्घ्यपात्रञ्च प्रणीतापात्रलक्षणम् ॥ ३५.७॥ प्रोक्षणीपात्रमेवन्तु स्कन्दकुम्भस्य लक्षणम् । वर्धनीलक्षणं पश्चात् कुम्भानां लक्षणं पुनः ॥ ३५.८॥ कलशानां शरावाणां कुण्डिकायाश्च लक्षणम् । हविः पात्रविधिं पश्चादुपदंशस्य पात्रकम् ॥ ३५.९॥ विधानलक्षणं दर्वी स्थालिकायास्तु लक्षणम् । वितानञ्च पताकाश्च क्षुद्रध्वजविधानकम् ॥ ३५.१०॥ छत्रपिच्छं चामरञ्च मयूरव्यजनं तथा । दुकूलस्य धनं पश्चादुष्णीषं चोत्तरीयकम् ॥ ३५.११॥ वस्त्राणां लक्षणं पश्चाच्छयनानाञ्च लक्षणम् । उपधानं ततो कक्षिं प्रच्छन्नपटलक्षणम् ॥ ३५.१२॥ धूपपात्रविधिं चैव धूपघण्टाविधानकम् । दीपपात्रविधिं चैव पात्रं नीराजनस्य तु ॥ ३५.१३॥ महाघण्टादर्पणञ्च क्रमशः श‍ृणु सुव्रत । अश्वत्थं वा शमीं वाऽपि गृहीत्वारणिमाचरेत् ॥ ३५.१४॥ दशपञ्चाङ्गुलायामा चतुरङ्गुलविस्तृता । षडङ्गुलघना प्रोक्ता दीर्घाह्नासश्च वारणिः ॥ ३५.१५॥ (प्रोक्ता दीर्घाग्रा दृढवारणीः) प्रथमस्य तरोर्नाहं पञ्चाङ्गुलमुदाहृतम् । द्वाविंशदङ्गुलं दैर्घ्यं कीलं स्यादायताग्रके ॥ ३५.१६॥ युगाङ्गुलेन मूले तु कीलं स्वेनैव कारयेत् । प्रथमस्याग्रके मूले त्वधः पट्टेन वेष्टयेत् ॥ ३५.१७॥ सप्ताङ्गुलं तु विस्तारं तदर्धं घनमुच्यते । (सप्ताङ्गुलं तत्) उभयोः पार्श्वयोश्चैव मुष्टिरष्टाङ्गुलं भवेत् ॥ ३५.१८॥ पञ्चाङ्गुलपरीणाहं सर्वत्रैव सुदन्तकम् । (सर्वत्रैव सुवृत्तकं) दशपञ्चाङ्गुलायामं त्रिवृत् गोपालरज्जुकम् ॥ ३५.१९॥ तन्तुना वाथ कर्तव्यं कनिष्ठाङ्गुलिनाहकम् । अरणीलक्षणं प्रोक्तं स्रुक्स्रुवस्य विधिं श‍ृणु ॥ ३५.२०॥ अश्वत्थेन तु शम्या वा खादिरेणाथवा पुनः । याज्ञिकैर्दारुभिः कुर्यात् स्रुक्स्रुवौ लक्षणाविमौ ॥ ३५.२१॥ तस्य सारणितो ग्राह्य द्विधाकृत्वाथ शिल्पिभिः । तत्पार्श्वे बिलिमाख्यातं त्वष्टा च निर्वृणं दृढम् ॥ ३५.२२॥ द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलं सुविस्तृतम् । तद्घनं वेदमात्रं स्यात् एव मापाद्य तत्र वै ॥ ३५.२३॥ (एव पादञ्च) मध्यसूत्रं प्रसार्यादौ मुखायामं षडङ्गुलम् । अग्रभागं त्रिभागैकं मुखविस्तारमेव च ॥ ३५.२४॥ यवत्रयप्रमाणेन पट्टिकामुखपार्श्वयोः । यवमानेन निम्नं स्यान्मुखं सर्वमशेषतः ॥ ३५.२५॥ पक्षाङ्गुले गलायामं विस्तारं भूतमात्रकम् । सप्ताङ्गुलायता वेदीं विस्तारं तत्समं भवेत् ॥ ३५.२६॥ बिलं सुवृत्तं मध्ये स्यादङ्गुलायतमानतः । तद्विस्तारसमं गर्तं सुवृत्तं बिलमुच्यते ॥ ३५.२७॥ षट्टिका बिलबाह्ये तु यवमानधनान्विता । बाह्ये वसुदलं पद्मं यवनिम्नं विचित्रकम् ॥ ३५.२८॥ वेदिकायास्तु परितः पट्टिका त्रियवा घनाः । बिलादर्शमुखात् खाता कनिष्ठाङ्गुलमानतः ॥ ३५.२९॥ तारेणवाऽथ ताम्रेण नालं कृत्वा तु योजंयेत् । पक्षाङ्गुलप्रमाणेन पद्मागारन्तु गण्डिका ॥ ३५.३०॥ गण्डिकैकाङ्गुला वृत्ता तन्नाहञ्च द्विमात्रकम् । रव्यङ्गुलेन दण्डोच्चं तस्यार्धं नाहमुच्यते ॥ ३५.३१॥ तन्मूलैकाङ्गुलाकारामङ्गुलद्वयमात्रतः । धर्माङ्गुलात्तु नाहं स्यात्तस्याधस्तात्तु पादयुक् ॥ ३५.३२॥ वेदिकायास्त्वधःपद्मं पद्माकारं सकर्णिकम् । गजोष्ठसदृशाकारं तस्य पृष्ठाकृतिर्भवेत् ॥ ३५.३३॥ एवं सङ्ग्राह्य तच्छेषं परित्यज्य दृढं तथा । स्रुग्लक्षणमिदं प्रोक्तं स्रुवो लक्षणमुच्यते ॥ ३५.३४॥ द्वाविंशदङ्गुलं दैर्ध्यं दण्डनाहं षडङ्गुलम् । मूलाद्ग्रीवान्तकं यावत् त्र्यङ्गुलं ग्रीवनाहकम् ॥ ३५.३५॥ (मूलाद्ग्रीवान्तरं) मूलपञ्चाग्रनाहं स्यात् द्विबिलं नासिकाकृतिः । पूरितङ्कर्षकार्धेन बिलमानं प्रचक्षते ॥ ३५.३६॥ पुष्कलाधः प्रकर्तव्यो गण्डिका द्वियवोन्नता । दक्षिणेन करेणैव या वक्रानामिकाङ्गुलिः ॥ ३५.३७॥ अङ्गुष्ठस्य तु पार्श्वोर्ध्वे तर्जनीमध्यमाङ्गुलिः । सङ्गताप्युच्छ्रिता बद्धा कनिष्ठाङ्गुलिरुछ्रिता ॥ ३५.३८॥ दक्षिणेन करेणैव स्रुवेणैकेन होमयेत् । स्रुक्बिलं सर्पिषा तत्र पूरयित्वा बिलोपरि ॥ ३५.३९॥ स्रुवाग्रेण तु मन्त्रेण पुटास्यञ्चविधाय च । उत्थानौ तु करौ कृत्वा वेणुबन्धन्तु कारयेत् ॥ ३५.४०॥ उछ्रितौ तर्जनीद्वे च कनिष्ठौ द्वौ तथैव च । वक्राङ्गुष्ठो स्रुवौ ग्राह्य द्वाभ्यां पूर्णाहुतिं हुनेत् ॥ ३५.४१॥ लक्षणं स्रुक्स्रुवस्यैवं श‍ृणु तोरणलक्षणम् । ध्वजदण्डार्हकैर्वृक्षैरन्तः सौरस्तु याज्ञिकैः ॥ ३५.४२॥ भूतहस्तसमुत्सेधमुत्सेधार्धं विशालकम् । करप्रमाणं शूलस्य दीर्घनाहं रसाङ्गुलम् ॥ ३५.४३॥ कन्यसं तोरणं प्रोक्तं वक्ष्यतेतः परं क्रमात् । भूतहस्तं समारभ्य नवहस्तान्तकं क्रमात् ॥ ३५.४४॥ तलमध्यन्तु तद्दैर्घ्यं तेषामर्धैकविस्तृतम् । तोरणानाञ्च सर्वेषां शूलं वै हस्तमात्रकम् ॥ ३५.४५॥ तस्मात्पक्षाङ्गुलाधिक्यात् तेषां नाहं प्रचक्षते । नवधा तोरणं प्रोक्तमष्टमङ्गलमुच्यते ॥ ३५.४६॥ याज्ञिकं वृक्षमादाय कारयेल्लक्षणान्वितम् । षोडशाङ्गुलमायामं विस्तारन्तु तदर्धकम् ॥ ३५.४७॥ पद्मासनमधस्तात्तु विस्तारार्धेन कारयेत् । श्रीवत्सं चामरं युग्मं दर्पणं स्वस्तिकं गजम् ॥ ३५.४८॥ पूर्णकुम्भञ्चमायूरं दीपं स्यादष्टमङ्गलम् । मङ्गलाष्टौ द्विधा प्रोक्तमस्त्राणां लक्षणं श‍ृणु ॥ ३५.४९॥ वज्रं शक्तिञ्च दण्डञ्च खड्गं पाशं तथाङ्कुशम् । गदा त्रिशूलं पद्मञ्च चक्रञ्चेति दशायुधम् ॥ ३५.५०॥ हैमराजतताम्रैर्वा अयसापादपेन वा । एतेष्वेकेन कर्तव्यं सर्वलक्षणसंयुतम् ॥ ३५.५१॥ षोडशाङ्गुलमायामं षडङ्गुलविशालकम् । तदर्धं घनमेवोक्तं निर्ब्रणं सुदृढं ऋजुम् ॥ ३५.५२॥ चतुरङ्गुलमूलेन मध्यमे गण्डिकात्रयम् । गण्डिकायाश्च नाहन्तु प्रत्येकं द्वादशाङ्गुलम् ॥ ३५.५३॥ कृत्वाङगुलप्रमाणेन कृत्यं कृत्वा तदग्रके । अर्धाङ्गुलमाणेन पत्रतारं प्रकीर्तितम् ॥ ३५.५४॥ पक्षत्रयद्वयं कुर्यात् अर्धचन्द्राकृतिर्यथा । मध्यपत्रमृजुं प्रोक्तं पत्रतारं यवद्वयम् ॥ ३५.५५॥ पत्रतारेण मूलेन पादायामं प्रकीर्तितम् । द्विगुणं मध्यपादस्य पादायामं महामुने ॥ ३५.५६॥ अर्धाङ्गुलप्रमाणेन पत्राणां तु प्रकल्पयेत् । (तु घनं भवेत्) शेषं दण्डमिति प्रोक्तं नाहं तस्य नवाङ्गुलम् ॥ ३५.५७॥ एवं त्रिशूलं तस्याधस्तद्वच्छूलं प्रकीर्तितम् । वज्रस्य लक्षणं प्रोक्तं शक्तिलक्षणमुच्यते ॥ ३५.५८॥ द्विकराङ्गुलमायामं विस्तारं चतुरङ्गुलम् । तदर्धं तु घनं मध्ये गण्डिका चतुरङ्गुलम् ॥ ३५.५९॥ तदूर्ध्वे तदधः कुर्यात् त्र्यङ्गुलं मध्यपत्रवत् । शक्तिलक्षणमेवं स्यात् दण्डलक्षणमुच्यते ॥ ३५.६०॥ कलाङ्गुलसमायामं मूले वेदाङ्गुलेरितम् । गण्डिकां कारयेत् तस्य विस्तारं चतुरङ्गुलम् ॥ ३५.६१॥ कृत्वाङ्गुलं भवेन्मुष्टि तन्नाहं कौशिकाङ्गुलम् । कृत्वाङ्गुलं तु विस्तारं तस्योर्ध्वे गण्डिकाङ्गुलम् ॥ ३५.६२॥ ऊर्ध्वं रसाङ्गुलं तारमधस्तात्तु युगाङ्गुलम् । क्रमेण कृशतां कुर्यात् विस्तारार्धेन विस्तृतम् ॥ ३५.६३॥ नाहन्तु दण्डमेवं स्यात् खड्गलक्षणमुच्यते । षोडशाङ्गुलमायाममश्विन्यङ्गुलविस्तृतम् ॥ ३५.६४॥ मध्येनैव तु तन्मध्ये पृष्ठे त्वश्रन्तु कारयेत । कञ्चुकन्तु षडङ्गुल्यं तद्विस्तारं यवद्वयम् ॥ ३५.६५॥ युगाङ्गुलेन कर्णन्तु तस्य नाहं गुणाङ्गुलम् । अर्धाङ्गुलन्तु फलका विस्तारं त्रियवं घनम् ॥ ३५.६६॥ पुष्पमर्धाङ्गुलं ज्ञेयं शेषं युक्त्या प्रकल्पयेत् । खड्गलक्षणमेवं स्यात् पाशलक्षणमुच्यते ॥ ३५.६७॥ अयामं पूर्ववत् कृत्वा फलद्वयकृताङ्गुलिः । रसाङ्गुलन्तु विस्तारं परस्परनिरीक्षितौ ॥ ३५.६८॥ वेदाङ्गुलन्तु तन्नाहं तदूर्ध्वे द्वादशाङ्गुलम् । द्वयमर्धन्तु नाहं स्यात् कृशतः कृशमूलतः ॥ ३५.६९॥ पाशस्य लक्षणं प्रोक्तं श‍ृणुष्वाङ्कुशलक्षणम् । मूलाङ्गुलसमायामं तन्नाहन्तु षडङ्गुलम् ॥ ३५.७०॥ अग्रेऽङगुलेन मुकुलं मन्वङ्गुलप्रमाणकम् । तरुणेन्दुसमाकारं मुकुलाधः सुयोजयेत् ॥ ३५.७१॥ एवमङ्कुशमाख्यातं गदालक्षणमुच्यते । षोडशाङ्गुलमायाममष्टाश्रन्तु गदाकृतिः ॥ ३५.७२॥ गण्डिकैकाङ्गुलं मूले मुष्टिस्तु चतुरङ्गुलम् । तदूर्ध्वे गण्डिकाङ्गुल्यं तदा शेषं प्रकीर्तितम् ॥ ३५.७३॥ गदाया लक्षणं प्रोक्तं श‍ृणु शूलस्य लक्षणम् । षोडशाङ्गुलमायामं विस्तारन्तु षडङ्गुलम् ॥ ३५.७४॥ वेदाङ्गुलघनं प्रोक्तं वज्रशूलविधानतः । शूललक्षणमेवं स्यात् श‍ृणु पद्मस्य लक्षणम् ॥ ३५.७५॥ षडङ्गुलं तु मुकुलं तन्नालं त्र्यङ्गुलं भवेत् । दलाष्टकसमायुक्तं नालायामं दशाङ्गुलम् ॥ ३५.७६॥ रसाङ्गुलं तु तन्नाहमेवं पद्मस्य लक्षणम् । चक्रस्य लक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ ३५.७७॥ आयामं पूर्ववत् प्रोक्तमष्टाङ्गुलसुविस्तृतम् । मध्ये नाभसमायुक्तं षोडशारसमायुतम् ॥ ३५.७८॥ एकाङ्गुलविशालेन परितः पत्रमुच्यते । मूर्ध्नि पार्श्वे तु कर्तव्यं ज्वलतान्तं विशेषतः ॥ ३५.७९॥ दण्डं तु शूलवत्कार्यं प्रोक्तं चक्रस्य लक्षणम् । एवं दशायुधं प्रोक्तं कूर्मासनविधिं श‍ृणु ॥ ३५.८०॥ रुद्राङ्गुलसुविस्तारं तदर्धेनैव कारयेत् । श्रुत्यङ्गुलं घनं प्रोक्तं मूर्ध्नि भूताङ्गुलं भवेत् ॥ ३५.८१॥ सप्ताङ्गुलेन तन्नाहं माताङ्गुलेन कारयेत् । कूर्मासनमिदं प्रोक्तं खट्वाया लक्षणं श‍ृणु ॥ ३५.८२॥ चतुर्विंशाङ्गुलं पादं श्रेष्ठं मानाङ्गुलं भवेत् । मध्यमं षोडशाङ्गुल्यमधमं द्वादशाङ्गुलम् ॥ ३५.८३॥ विंशत्यङ्गुलमानेन श्रेष्ठं पादस्य नाहकम् । मध्यमस्याधमस्यैव द्विद्व्यङ्गुलविहीनकम् ॥ ३५.८४॥ मूलपादस्य विस्तारं शेषं युक्त्या प्रकल्पयेत् । शुभाङ्घ्रिकरपादं वा मृगेन्द्राभाङ्घ्रिरेव च ॥ ३५.८५॥ षट्त्रिंशदङ्गुलायामं तारद्विगुणमुत्तमम् । कौशिकाङ्गुलविस्तारं गुलिकान्यङ्गुलायतम् ॥ ३५.८६॥ ईलितारं त्रिधा कृत्वा मध्यभागेन पट्टिका । कुर्यात्कपोतकं बाह्ये पट्टिका द्वियवेन तु ॥ ३५.८७॥ अधः शूलस्य पत्रारै रक्तहारैव पिष्टयेत् । ईलिकाभ्यन्तरे चैव विन्यस्ता धातुना गला ॥ ३५.८८॥ सुषिरेष्वद्भुतानां तु नाराचं योजयेद्बुधः । नाराचैश्च समायुक्तं कक्ष्या सङ्घर्षयेत् पुनः ॥ ३५.८९॥ खट्वालक्षणमेवोक्तं लूखलस्य विधिं श‍ृणु । विंशत्यङ्गुलमायाममुत्तमं परिकीर्तितम् ॥ ३५.९०॥ अष्टादशाङ्गुलं मध्यं कन्यसं तु कलाङ्गुलम् । आयामं त्रिगुणं कृत्वा तन्नाहं तु विधीयते ॥ ३५.९१॥ चतुर्धा विभजेत्तारं त्रिभागं गर्तमुच्यते । उत्सेधात्यर्धमानेन ग्रीवामूलस्य नाहकम् ॥ ३५.९२॥ ओष्ठं पक्षाङ्गुलं प्रोक्तं मानस्य च विशेषतः । पादं पादाङ्गुलाहीनं मध्यमस्याधमस्य तु ॥ ३५.९३॥ लूखलस्यैवमाख्यातं मुसलस्य विधिं श‍ृणु । सार्धत्रितालमधमं युगतालं तु मध्यमम् ॥ ३५.९४॥ उत्तमं भूततालं तु मुन्यष्टनवमात्रकम् । कन्यसादिपरीणाहं वृत्तं स्यात् पर्वतः समम् ॥ ३५.९५॥ अधस्सार्धाङ्गुलेनैव वेष्टयेन्मूलके दृढम् । एवं तु मुसलं प्रोक्तं शिबिकालक्षणं श‍ृणु ॥ ३५.९६॥ दारुसारमयेनैव मानाङ्गुल्येन कारयेत् । षट्त्रिंशदङ्गुलन्तारं कन्यसस्य प्रकीर्तितम् ॥ ३५.९७॥ अष्टचत्वारिमध्यं स्यात् षष्ठ्यङ्गुलमथोत्तमम् । विस्तारं द्विगुणं यामं पादोनद्विगुणं तु वा ॥ ३५.९८॥ ईलिकायां तु विस्तारं श्रेष्ठस्य द्व्यङ्गुलं भवेत् । अङ्गुलाङ्गुलहीनेन मध्यमस्य च यस्य तु ॥ ३५.९९॥ तस्यार्धं द्विशतं प्रोक्तं मीलिकायां द्विजोत्तम । ईलितारं त्रिधा कृत्वा मध्यभागेन पट्टिका ॥ ३५.१००॥ भागेनैकेन तद्बाह्ये कारयेत्तु कपोतकम् । आयाममष्टधा कृत्वा भागं स्याद्भित्तिपादकम् ॥ ३५.१०१॥ कुम्भञ्च वलयं चैव वृत्तकं चारुहीनकम् । ईलिकामध्ययोर्मध्ये चतुरश्रं कृतं तथा ॥ ३५.१०२॥ एकैकांशेन चोर्ध्वाया पट्टिकाद्वयमेव वा । मध्यमे तु द्विभागेन फलका चक्रशोभितम् ॥ ३५.१०३॥ ईलिकैर्जालकैश्चैव फलकैर्गुलकैरपि । नानापल्लिसमायुक्तं नानाक्रीडा समायुतम् ॥ ३५.१०४॥ तत्पूर्वमभितस्तेरुत्सेधाष्टाङ्गुलं भवेत् । सिंहद्वयसमायुक्तं तदूर्ध्वे मकरास्यकम् ॥ ३५.१०५॥ बलाकासदृशं पादं तत्र सप्ताङ्गुलोन्नतम् । अधः पट्टैश्च नाराचैर्दृढं कृत्वा द्विधा मतः ॥ ३५.१०६॥ वेणिकावेष्टनं वाऽपि फलकाबन्धनं नयेत् । शिबिकालक्षणं प्रोक्तं डोलालक्षणमुच्यते ॥ ३५.१०७॥ पादोर्ध्वे विन्यसेद्धीमान् मण्डपाकृतिमेव च । अश्वश्चैव मयूरश्च गजसारथ्यकर्मणे ॥ ३५.१०८॥ नानाचान्यानि सर्वाणि रथवत् कारयेत्क्रमात् । डोलाया लक्षणं प्रोक्तं दीपमालाविधिं श‍ृणु ॥ ३५.१०९॥ अयसा वाऽथ ताम्रेण दारुभिर्दीपमालिका । द्वारेष्टं द्वारवत्कुर्यात् कुबेरश्रीप्रभाकृतिः ॥ ३५.११०॥ कारयेदन्यदेशे तु द्वारमानप्रमाणतः । सुस्निग्धान् सुदृढान् कृत्वा स्कन्धान् वेलाङ्गुलायतात् ॥ ३५.१११॥ त्रिभागैकं न्यसेद्दण्डे भूताङ्गुलमथान्तरम् । दीपमालाविधिः प्रोक्तः पुष्पमालाविधिं श‍ृणु ॥ ३५.११२॥ अशोकासननिम्बाश्च मधूकपनसासनाः । खदिरः शिशुपाश्चाम्रचन्दनश्चम्पकः शुभाः ॥ ३५.११३॥ अष्टतारप्रमाणेन विस्तारद्विगुणायतम् । वेदपादसमायुक्तं द्वादशाङ्गुलदैर्घ्यकम् ॥ ३५.११४॥ घनमष्टाङ्गुलं प्रोक्तं हित्युत्सेधं कृताङ्गुलम् । दर्पणोदरसङ्काशं कुर्यान्मानाङ्गुलेन तु ॥ ३५.११५॥ पुष्पाधारमिदं प्रोक्तं भेरिकालक्षणं श‍ृणु । आयामं युगतालं स्यात् नाहं भूतयवं भवेत् ॥ ३५.११६॥ रव्यङ्गुलं मुनिश्रेष्ठ मुखतारं प्रचक्षते । आरं घातसुवृत्तं स्याद्घनमर्धाङ्गुलं भवेत् ॥ ३५.११७॥ उभयोः पार्श्वयोर्वक्रं द्वयपट्टेन वेष्टयेत् । सप्तकीलसमायुक्तमाकारेण तु कारयेत् ॥ ३५.११८॥ भेरीलक्षणमाख्यातं समिधां लक्षणं श‍ृणु । द्वादशाङ्गुलमायामं कनिष्ठाङ्गुलनाहकम् ॥ ३५.११९॥ सार्द्रं सत्वसमाच्छेदसप्ररोहमनिन्दितम् । अवक्रं निर्व्रणं शुद्धं ब्राह्मणैरावृतं शुभम् ॥ ३५.१२०॥ मूलेन मूलसंयुक्तमग्रेणाग्रसमायुतम् । समिधां लक्षणं प्रोक्तं परिधेर्लक्षणं श‍ृणु ॥ ३५.१२१॥ आयामं परिधीनां तु सवेदांशदशाङ्गुलम् । वीथ्यङ्गुलपरीणाहमपर्णमव्रणं समम् ॥ ३५.१२२॥ प्रोक्तं तु यत् समित्तेन परिधीध्मानि सङ्ग्रहेत् । परिधिर्लक्षणं प्रोक्तं दर्भाणां लक्षणं श‍ृणु ॥ ३५.१२३॥ स्त्रीपुन्नपुंसकाकारास्त्रिविधाः समुदाहृताः । मृदुः श्यामः स्त्रियः प्रोक्तास्त्रीणां कर्मसु योजयेत् ॥ ३५.१२४॥ ईषत्पक्षसमायुक्ता स्थिराः पुंलिङ्गका स्मृताः । पुङ्क्रियासु तथा योग्या स्थिराः कोमलवर्जिताः ॥ ३५.१२५॥ नपुंसका इति ख्याता न ग्राह्याः सर्वकर्मसु । सुच्छिन्नाग्रा सुभिन्नाग्रा खण्डिताः परिवर्जयेत् ॥ ३५.१२६॥ मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् । समं पुंलिङ्गमित्युक्तं विश्वामित्र महामुने ॥ ३५.१२७॥ दर्भाणां लक्षणं प्रोक्तं कूर्चानां लक्षणं श‍ृणु । उत्तमं नवदर्भेस्तु सप्तदर्भैस्तु मध्यमम् ॥ ३५.१२८॥ कन्यसं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् । दक्षिणावर्तकं ग्रन्थिकूर्चाग्रं चतुरङ्गुलम् ॥ ३५.१२९॥ ग्रन्थ्यधस्तात्तदायामं रुद्रधर्मं नवाङ्गुलम् । कूर्चानां लक्षणं प्रोक्तं विष्टरस्य विधिं श‍ृणु ॥ ३५.१३०॥ सप्तदर्भसमायुक्तं ग्रन्थितं सव्यमार्गतः । रत्न्यङ्गुलं भवेन्मूलं ग्रन्थिरेकाङ्गुलं मतम् ॥ ३५.१३१॥ विष्टरस्य विधिः प्रोक्तो लम्बकूर्चविधिं श‍ृणु । एकविंशतिदर्भैश्च ग्रन्थिरेकाङ्गुलं भवेत् ॥ ३५.१३२॥ ग्रन्थितद्दक्षिणावर्तं कूर्चाग्रं चतुरङ्गुलम् । मूर्ध्नादिपादपर्यन्तं लम्बितं यज्ञदायकम् ॥ ३५.१३३॥ लम्बकूर्चविधिः प्रोक्ता परिस्तरणमुच्यते । धर्मदर्भसमायुक्तं ग्रन्थिः पक्षाङ्गुलं भवेत् ॥ ३५.१३४॥ वेदाङ्गुलं तदग्रं स्यात् षट्त्रिंशदङ्गुलायतम् । परिस्तरणमाख्यातं दर्भमालाविधिं श‍ृणु ॥ ३५.१३५॥ भूतवेदाग्निदर्भैर्वा व्योमहस्तं प्रलम्बितम् । कनिष्ठिकाङ्गुला नाहं रज्जुं कुर्यान्मनोरमैः ॥ ३५.१३६॥ दर्भमालाविधिः प्रोक्ता प्रोक्षणीकूर्चमुच्यते । सप्तविंशतिदर्भैश्च कलाङ्गुलसमायुतम् ॥ ३५.१३७॥ व्योमाङ्गुलं भवेद्ग्रन्थिरग्रं वेदाङ्गुलं भवेत् । वेणी वा विष्टरं वाऽथ प्रोक्षणीकूर्चमीरितम् ॥ ३५.१३८॥ पवित्रलक्षणं वक्ष्ये श‍ृण कौशिक सुव्रत । कुशकाशपटीराश्च सुवर्णैस्त्रिभिरेव वा ॥ ३५.१३९॥ एकीकृत्याग्रतो दर्भानलूनमग्रमुद्रितम् । षोडशाङ्गुलमायाममावर्तं वा समन्ततः ॥ ३५.१४०॥ त्रिगुणीकृत्य रज्ज्वग्रं ग्रन्थिरेकाङ्गुलं भवेत् । दक्षिणावर्तं कर्तव्यं तदग्रं चतुरङ्गुलम् ॥ ३५.१४१॥ अनामिकाया योक्तव्यमुभयोर्हस्तयोरपि । सपवित्रकरेणैव कुर्यादाचमनक्रिया ॥ ३५.१४२॥ नोच्छिन्नं तत् पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् । सौवर्णं चेत् पवित्रं स्यादाज्येनोत्क्षपणेन तु ॥ ३५.१४३॥ नाभेरनामिकायास्तु कुर्याद् वृत्तं समं यथा । पवित्रस्य विधिः पोक्ता पाद्यपात्रविधिं श‍ृणु ॥ ३५.१४४॥ सौवर्णमुत्तमं प्रोक्तं मध्यमं रजतं भवेत् । अधमं ताम्रकांस्यं स्यान्मृन्मयञ्चाधमाधमम् ॥ ३५.१४५॥ तारे मूलाङ्गुलं ज्ञेयमुत्सेधं तु युगाङ्गुलम् । तत्पृष्ठेऽङ्घ्रिसमायुक्तं चतुरङ्गुलमानतः ॥ ३५.१४६॥ अर्धेनाधिकया युक्तं वेदाङ्गुलसमायुतम् । पाद्यपात्रं समाख्यातं श‍ृण्वाचमनपात्रकम् ॥ ३५.१४७॥ आदित्याङ्गुलमानेन कुक्षिविस्तारमुच्यते । अष्टत्रिंशतिमात्रेण नाहं कुक्षेस्तु मध्यमम् ॥ ३५.१४८॥ अग्न्यङ्गुलं गलोत्सेधं मार्गं व्योमाङ्गुलं भवेत् । आस्यतारं त्रिमात्रं तु पार्श्वे घ्राणसमायुतम् ॥ ३५.१४९॥ पक्षाङ्गुलसमायामं रन्ध्र कनिष्ठिकासमम् । आर्धार्धाङ्गुलमानेन पादं कुर्यात्तु पृष्ठके ॥ ३५.१५०॥ यदाचमनपात्रं तदर्ध्यपात्रमथ श‍ृणु । अर्ध्यपात्रं मया प्रोक्तं पालिकालक्षणं श‍ृणु ॥ ३५.१५१॥ पालिकाष्टादशाङ्गुल्यमुच्चं मात्राङ्गुलेन तु । पालिकामुखविस्तारं षोडशाङ्गुलमुच्यते ॥ ३५.१५२॥ तदर्धं पादविस्तारं रसभागैककोष्ठकम् । विस्तारस्य त्रिभागैकं वर्तितं बिलमुच्यते ॥ ३५.१५३॥ एवं पात्रक्रमं प्रोक्तं शेषं दण्डं प्रकल्पयेत् । विस्तारस्य त्रिभागैक दण्डविस्तारमुच्यते ॥ ३५.१५४॥ पालिकालक्षणं प्रोक्तं घटिकालक्षणं श‍ृणु । घटिकाघटविस्तारमष्टाङ्गुलमुदाहृतम् ॥ ३५.१५५॥ पालिकापात्रवत्कुर्यात् दण्डं वै चतुरङ्गुलम् । पञ्चवक्त्रसमायुक्तं घटिकां कारयेद्बुधः ॥ ३५.१५६॥ घटिकालक्षणं प्रोक्तं शरावमधुनोच्यते । शरावमुखविस्तारमादित्याङ्गुलमुच्यते ॥ ३५.१५७॥ तदर्धं पादविस्तारमुत्सेधं वसुमात्रकम् । नाहं स्यात् पालिकादीनां विस्तारार्धेन वर्धितम् ॥ ३५.१५८॥ कालं भिन्नं च सुषिरं भेदं छेदं मलीनकम् । निर्दग्धं च पुराणं च विशेषेण विवर्जयेत् ॥ ३५.१५९॥ शरावलक्षणं प्रोक्तं गन्धपात्रं ततः श‍ृणु । अष्टाङ्गुलं तद्विस्तारं वेदाङ्गुलसमुच्छ्रयम् ॥ ३५.१६०॥ गन्धपात्रं समाख्यातं पुण्यपात्रमथ श‍ृणु । विंशत्यङ्गुलमायामं वस्वङ्गुलसमुच्छ्रयम् ॥ ३५.१६१॥ नालं पञ्चाङ्गुलं कुर्यादुभयोः पार्श्वयोरपि । तन्मानं पादविस्तारं पिधानकवचान्वितम् ॥ ३५.१६२॥ द्रव्यालाभे मुनिश्रेष्ठ वस्त्रेणैव तु कारयेत् । पुष्पपात्रं समाख्यातमाज्यपात्रविधिं श‍ृणु ॥ ३५.१६३॥ वेदाङ्गुलसमुत्सेधं विस्तारन्तुषडङ्गुलम् । अर्धाङ्गुलेन तस्योष्ठमेतद्धि घृतपात्रकम् ॥ ३५.१६४॥ घृतस्य पात्रमेवं स्यात् प्रणीतापात्रमुच्यते । पञ्चावृताङ्गुलन्तारं सार्धाग्न्यङ्गुलमुच्छ्रयम् ॥ ३५.१६५॥ प्रणीतापात्रमेवं स्यात् प्रोक्षणीपात्रमुच्यते । पञ्चाङ्गुलन्तु विस्तारं रुद्राङ्गुलसमुच्छ्रयम् ॥ ३५.१६६॥ प्रोक्षणीपात्रमेवं स्यात् स्कन्दकुम्भविधिं श‍ृणु । त्रीण्यङ्गुलप्रविस्तारं रुद्राङ्गुलसमुन्नतम् ॥ ३५.१६७॥ आस्यं वेदाङ्गुलं ज्ञेयं कर्णायामं तथाङ्गुलम् । व्योममेकाङ्गुलं प्रोक्तमर्धाङ्गुलन्तु निर्गमम् ॥ ३५.१६८॥ गले त्रिरेखा कर्तव्या पक्वबिम्बफलप्रभम् । कलङ्करहितं स्निग्धं मर्वदोषविवर्जितम् ॥ ३५.१६९॥ स्कन्दकुम्भमिति प्रोक्तं वर्धनीलक्षणं श‍ृणु । रन्ध्राङ्गुलप्रविस्तारं वर्धनीजठरस्य तु ॥ ३५.१७०॥ अब्ध्यङगुलसमुत्सेधं वक्त्रमग्न्यङ्गुलं मतम् । अश्विन्यङ्गुलमोष्ठं स्यात् पार्श्वे नालाङ्कुरायतम् ॥ ३५.१७१॥ उत्पलाकृतिवत्कार्यं सार्धाङ्गुलप्रमाणतः । अर्धाङ्गुलोच्छ्रयं ग्रीवमङ्गुलीयोष्ठनिर्गमम् ॥ ३५.१७२॥ वर्धनीलक्षणं प्रोक्तं कुम्भानां लक्षणं श‍ृणु । रुद्राङ्गुप्रविस्तारमोष्ठं व्योमाङ्गुलं भवेत् ॥ ३५.१७३॥ सार्धाङ्गुलं गलोत्सेधं त्रियवं तस्य निर्गमम् । कुन्भानां लक्षणं प्रोक्तं कलशानां ततः श‍ृणु ॥ ३५.१७४॥ सप्ताङ्गुलप्रविस्तारमुत्सेधं चतुरङ्गुलम् । ग्रीवमर्धाङ्गुलोत्सेधमोष्ठं तत्त्सममेव तु ॥ ३५.१७५॥ त्र्यङ्गुलञ्चास्यविस्तारं यवमोष्ठस्य निर्गमम् । शेषं युक्त्या प्रकर्तव्यं पक्वबिम्बफलोपमम् ॥ ३५.१७६॥ कलशस्य विधिः प्रोक्ता कुण्डिकालक्षणं श‍ृणु । वेदाङ्गुलं तद्विस्तारं दैर्घ्यमग्न्यङ्गुलं भवेत् ॥ ३५.१७७॥ सार्धाङ्गुलं तस्य तारं मध्यमर्धाङ्गुलं भवेत् । पादाङ्गुलं गलोत्सेधं पार्श्वे घ्राणसमन्वितम् ॥ ३५.१७८॥ व्योमाङ्गुलप्रमाणेन पादमोष्ठे प्रकल्पयेत् । कुण्डिकालक्षणं प्रोक्तं हविःपात्रविधिं श‍ृणु ॥ ३५.१७९॥ तस्य कुक्षेस्तु विस्तारं धर्माङ्गुलमुदाहृतम् । अष्टाङ्गुलसमुत्सेधं कर्णोत्सेधमथाङ्गुलम् ॥ ३५.१८०॥ कर्णव्योमाङ्गुलं प्रोक्तमास्यतारं रसाङ्गुलम् । शेषं युक्त्या प्रकर्तव्यं तत्पचेदाढकं मुने ॥ ३५.१८१॥ यावत्पचेच्छिवद्रोणं तावन्मात्रं प्रकल्पयेत् । हविःपात्रविधिः प्रोक्तं उपदंशस्य पात्रकम् ॥ ३५.१८२॥ उदरस्य प्रविस्तारमष्टाङ्गुलमुदाहृतम् । युगाङ्गुलसमुत्सेधं कण्ठमेकाङ्गुलं भवेत् ॥ ३५.१८३॥ आस्यतारं षडङ्गुल्यमोष्ठमेकाङ्गुलं भवेत् । एतत्स्यादुपदंशाय पिधानस्य विधिं श‍ृणु ॥ ३५.१८४॥ पाद्यस्य तारं यावत्तु तावत्कुर्यात्पिधानकम् । पिधानस्य विधिः प्रोक्ता दर्व्या लक्षणमुच्यते ॥ ३५.१८५॥ द्वादशाङ्गुलमायामं तद्दैर्घ्यं पञ्चधा भवेत् । अत्यर्धांशेन पुच्छांशात् पक्षांशेनाग्रमुच्यते ॥ ३५.१८६॥ त्र्यङ्गुलं पुच्छतारं वा वक्त्रतारं शराङ्गुलम् । व्योमाङ्गुलप्रमाणेन मध्यतारं विधीयते ॥ ३५.१८७॥ अर्धाङ्गुलन्तु हीनं स्यान्मध्यमस्य तु चैव हि । दर्व्या लक्षणमाख्यातं स्थालिकालक्षणं श‍ृणु ॥ ३५.१८८॥ कन्यसं कांस्यसम्भूतं राजतं मध्यमं भवेत् । हैमजं चोत्तमं प्रोक्तं वृत्ताकारं सुशोभनम् ॥ ३५.१८९॥ द्वादशाङ्गुलमारभ्य द्वित्र्यङ्गुलविवर्धनात् । षट्त्रिंशदङ्गुलान्तं च कन्यसादित्रयं त्रयम् ॥ ३५.१९०॥ तद्द्वयं चोष्ठविस्तारमुत्सेधं तत्समं भवेत् । वेत्रं यवद्वये तु स्यात् अधमस्याधमस्य तु ॥ ३५.१९१॥ यवैकेन विवृद्ध्या तु यावद्दशयवान्तिकम् । स्थालिकानां नवानाञ्च वेत्रोत्सेधं प्रकीर्तितम् ॥ ३५.१९२॥ कांस्यादुक्तं मध्यमानं विंशदूर्ध्वशतं पलम् । स्वर्णेन रजतेनैव यथालाभं प्रकल्पयेत् ॥ ३५.१९३॥ स्थालिकालक्षणं प्रोक्तं त्रिपादीलक्षणं श‍ृणु । चतुर्थाच्छङ्खपादी च बलिपादी त्रिपादिका ॥ ३५.१९४॥ यावन्मानं तु पीठोच्चं तावदुच्चत्रिपादिकम् । कर्तव्यं स्थालिकापादं लक्षणेन विशेषतः ॥ ३५.१९५॥ उच्चं युगाङ्गुलं ज्ञेयं तच्चतुर्गुणमायतम् । ईषत् त्रिभङ्गिकापादं पक्षाङ्गुलं तु नाहकम् ॥ ३५.१९६॥ मृगराट्पादवन्मूले वक्त्रपादानि कीर्तिताः । शराङ्गुलन्तु विस्तारमुत्सेधं पर्वताङ्गुलम् ॥ ३५.१९७॥ अग्निपादसमायुक्तं त्रिवर्गाङ्गुष्ठनाहकम् । शरावाकृतिवन्मूले शेषं युक्त्या प्रकल्पयेत् ॥ ३५.१९८॥ त्रिपादीलक्षणं प्रोक्तं पाद्याधारविधिं श‍ृणु । चतुरङ्गुलमायामं पत्रद्वयसमन्वितम् ॥ ३५.१९९॥ तस्याधः सिंहपादं च शेषं युक्त्या प्रकल्पयेत् । पात्रं निधाय तस्योर्ध्वे तस्मिन् पात्रादिकं ददेत् ॥ ३५.२००॥ पाद्यमचमनाधारविधिं श‍ृणु महामुने । कलाङ्गुलसमायामं मुखवारसमं भवेत् ॥ ३५.२०१॥ ओष्ठमेकाङ्गुलं प्रोक्तं धुत्तूरकुसुमोपमम् । ऊर्ध्वकायमिदं प्रोक्तं दण्डायामं नवाङ्गुलम् ॥ ३५.२०२॥ अग्न्यङ्गुलं तु विस्तारं द्विगुणं पादविस्तरम् । गण्डिकात्रयसंयुक्तं दण्डं कुर्याद्विचक्षणः ॥ ३५.२०३॥ न वर्जयेत् तले तस्मिन् पात्रे त्वाचमनोदकम् । प्रोक्तमाचमनाधारं जलाधारविधिं श‍ृणु ॥ ३५.२०४॥ चतुर्विंशत् त्रयं तु स्याद्विस्तारमुदरस्य तु । विंशदङ्गुलमुत्सेधमास्यातारं कलाङ्गुलम् ॥ ३५.२०५॥ ओष्ठं पक्षाङ्गुलं ज्ञेयं तस्याधस्तात् त्रिरेखया । यवत्रयप्रमाणेन कुर्यादुदरबन्धनम् ॥ ३५.२०६॥ विस्तारमुदयं सर्वमेवं क्रमेण कारयेत् । पाद्यपात्राणि सर्वाणि कुर्यान्मानाङ्गुलेन तु ॥ ३५.२०७॥ जलधारविधिः प्रोक्ता रङ्गस्य च विधिं श‍ृणु । क्षौमपट्टैर्दुकूलैर्वा कुर्यात् कार्पासशाटिभिः ॥ ३५.२०८॥ दशवक्त्रयुतं वाऽपि रविवक्त्रयुतं तु वा । रन्ध्रवस्त्रयुतं वाऽपि चास्यरज्जुसमन्वितम् ॥ ३५.२०९॥ महावास्तुसमायुक्तं नानारूपसमायुतम् । एवं तु रङ्गमाख्यातं स्तम्भवेष्टनमुच्यते ॥ ३५.२१०॥ गात्रमानसमं वस्त्रं पद्माकारे परं मतम् । एकवर्णेन युक्तं वा निश्छिद्रं तेन वेष्टयेत् ॥ ३५.२११॥ स्तम्भवेष्टनमाख्यातं वितानमधुनोच्यते । पङ्क्तिमानसमायामं विस्तारमपि तत्समम् ॥ ३५.२१२॥ पद्माकारं विधातव्यं नानारूपयुतं तु वा । दुकूलं पट्टदेवाङ्गैः कुर्यात् कार्पासकेन वा ॥ ३५.२१३॥ वितानलक्षणं प्रोक्तं पताकालक्षणं श‍ृणु । विंशदङ्गुलविस्तारमायामं त्रिंशदङ्गुलम् ॥ ३५.२१४॥ विस्तारेण समं पुच्छं तस्यार्धं शिखरं भवेत् । चतुःपुच्छं त्रिपुच्छं वा पुच्छद्वयमथापि वा ॥ ३५.२१५॥ पार्श्वे कलियुगायुक्तं पोत्रत्रयसमावृतम् । नवाष्टसप्तहस्तं वा शेषं ध्वजवदीरितम् ॥ ३५.२१६॥ ध्वजलक्षणमाख्यातं क्षुद्रध्वजविधिं श‍ृणु । पादाङ्गुलं तु विस्तारं द्वादशाङ्गुलदैर्घ्यकम् ॥ ३५.२१७॥ वेत्रद्वयसमायुक्तं शेषं कुर्यात्तु केतुवत् । शिखरो रज्जुसंयुक्तं वेणुदण्डं प्रलम्बयेत् ॥ ३५.२१८॥ ध्वजानां लक्षणं प्रोक्तं छत्रलक्षणमुच्यते । चतुर्मुखप्रविस्तारं समवृत्तमधोमुखम् ॥ ३५.२१९॥ आधारं वैणवेनैव तन्तुभिर्वर्धयेत् क्रमात् । वस्त्रेण वेष्टयेत्सर्वं मुक्तादामैश्च रत्नकैः ॥ ३५.२२०॥ मकुटैः स्वर्णपट्टैश्च भूषयेद् भूषणार्हकैः । उत्तमं रत्नखचितं दुकूलाद्यैस्तु मध्यमम् ॥ ३५.२२१॥ वस्त्रेणेवाधमं प्रोक्तं तालपत्रं महामुने । बाणाग्निरसतालैर्वा नालायामं प्रकीर्तितम् ॥ ३५.२२२॥ छत्रलक्षणमाख्यातं पिञ्च्छलक्षणमुच्यते । मयूरपिञ्च्छैः कर्तव्यं विस्तारं त्रियवं भवेत् ॥ ३५.२२३॥ वस्त्रेण वेष्टयेत् सर्वं पुनः पिञ्च्छेन वेष्टयेत् । आधारमयसा कृत्वा हैमेन मकुटं तथा ॥ ३५.२२४॥ शेषं युक्त्या प्रकर्तव्यं नालं स्याच्छत्रनालकम् । पिञ्च्छलक्षणमेवोक्तं चामरस्य विधिं श‍ृणु ॥ ३५.२२५॥ स्वर्णेन रजतेनैव दन्तिदन्तेन दारुणा । शुल्बेन वाऽथ मतिमान् दण्डं कुर्यान्महामुने ॥ ३५.२२६॥ चतुर्विंशदङ्गुलायामं दण्डनाहं शराङ्गुलम् । नानापङ्क्तिसमायुक्तं नानागण्डिसमायुतम् ॥ ३५.२२७॥ चमरीवालसंयुक्तं यथाशोभं तु कारयेत् । चामरस्य विधिः प्रोक्ता मयूरव्यजनं श‍ृणु ॥ ३५.२२८॥ दण्डं तु पूर्ववत् प्रोक्तं शिखिपिञ्च्छं तु योजयेत् । अलङ्कारेण मतिमान् शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२२९॥ मयूरव्यजनं प्रोक्तं दुकूलव्यजनं श‍ृणु । षोडशाङ्गुलविस्तारं वैणवेनैव वर्तुलम् ॥ ३५.२३०॥ क्षौमदेवाङ्गपट्टैर्वा दुकूलेनाथ वेष्टयेत् । त्रियङ्गुलं दण्डनाहं षट्त्रिंशदङ्गुलायतम् ॥ ३५.२३१॥ नानातन्तुसमायुक्तं दण्डमात्रं विचित्रयेत् । दण्डाग्रं तु यथा कृत्वा शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२३२॥ दुकूलव्यजनं प्रोक्तं उष्णीषस्य विधिं श‍ृणु । सप्तषट्पञ्चहस्तांशं पञ्चपाकैकविस्तृतम् ॥ ३५.२३३॥ सुश्लक्ष्णं सुदृशं सूक्ष्मं शिरोरोमविवर्जितम् । शिरसा चिबुकेनैव कर्णाभ्यामपि वेष्टयेत् ॥ ३५.२३४॥ पुच्छं वै वामकर्णान्ते वेष्टयेत्तु प्रदक्षिणम् । एवं संवेष्टय मतिमान् शेषं शिरसि वेष्टयेत् ॥ ३५.२३५॥ उष्णीषविधिराख्यात उत्तरीयविधिं श‍ृणु । बाणहस्तायतं वाऽपि वेदहस्तायतं तु वा ॥ ३५.२३६॥ तालमात्रं प्रविस्तारं बन्धयेत्तु द्विपुच्छकम् । यज्ञोपवीतवद्बध्वा उत्तरीयं विशेषतः ॥ ३५.२३७॥ यजने स्थापने चाग्निकार्ये शैवोत्सवे जपे । उष्णीषमुत्तरीयञ्च धारयेद्देशिकोत्तमः ॥ ३५.२३८॥ उत्तरीयलक्षणं प्रोक्तं वस्त्रलक्षणमुच्यते । देवाङ्गक्षौमकं वाऽपि नेत्रं कार्पासजन्तु वा ॥ ३५.२३९॥ उत्तमं मनुहस्तं स्याद्रविहस्तन्तु मध्यमम् । अधमं दशहस्तं स्यात् पञ्चतालन्तु विस्तृतम् ॥ ३५.२४०॥ उत्तमं रक्तवर्णं स्यादलाभेऽन्यत्प्रगृह्यताम् । स्निग्धं सुश्लक्ष्णकं नव्यं सिरारोमविवर्जितम् ॥ ३५.२४१॥ जीर्णन्तु वह्निदग्धन्तु वर्जयेदाखुदष्टकम् । वस्त्रलक्षणमित्येवं स्यात्पञ्चशयनं श‍ृणु ॥ ३५.२४२॥ चर्मजं रोमजं चैवमुण्डजञ्चाण्डजं पुनः । वामजं चैव पञ्चैते शयनं सम्प्रकल्पयेत् ॥ ३५.२४३॥ खट्वाया मञ्चविस्तीर्णमायामन्तु सुविस्तृतम् । उत्सेधकं हस्तमात्रं प्रावृणीं व्याघ्रचर्मणा ॥ ३५.२४४॥ पूरितं तूलिकेनैव चर्मजं चेति कीर्तितम् । आयामं पूर्ववत्कुर्याद्द्रोमैः कृष्णमृगोद्भवैः ॥ ३५.२४५॥ सम्पूरितञ्च यत्तल्पं रोमजं चेति कीर्तितम् । पूर्वोक्तलक्षणोपेतं वस्त्रेणावरणं तथा ॥ ३५.२४६॥ शल्मली तूलसम्पूर्णं मुण्डजं चेति कीर्तितम् । पूर्वोक्तलक्षणोपेतं देवाङ्गैः पञ्चरं मतम् ॥ ३५.२४७॥ हंसरोमेण सम्पूर्णमण्डजं परिकीर्तितम् । सुश्लक्ष्णं सुसितं सूक्ष्मं कार्पासेनैव कल्पितम् ॥ ३५.२४८॥ उपरिस्तरणं यत्तत् वामजं चेतिकीर्तितम् । उपर्युपरिकर्तव्यं तत्पञ्चशयनं स्मृतम् ॥ ३५.२४९॥ आख्यातं पञ्चशयनमुपधानविधिं श‍ृणु । षट्त्रिंशदङ्गुलायामं नाहं तत्त्त्रिङ्गुणं भवेत् ॥ ३५.२५०॥ हंसरोमेण सम्पूर्णं देवाङ्गेन तु पञ्चरम् । कार्पाससम्भवेनैव कुर्यादुपरि वेष्टनम् ॥ ३५.२५१॥ उपधानं पाणिपद्भ्यां यथायुक्तं प्रकल्पयेत् । उपधानविधिः प्रोक्ता कक्ष्या लक्षणमुच्यते ॥ ३५.२५२॥ अग्न्यङ्गुलन्तु विस्तारमश्विन्यङ्गुलमेव च । कार्पासेनैव कर्तव्यं यावत्खट्वा प्रवेष्टनम् ॥ ३५.२५३॥ कक्ष्या लक्षणमाख्यातं प्रच्छन्नपटमुच्यते । द्वारयामसमं दीर्घं विस्तारद्वारविस्तृतम् ॥ ३५.२५४॥ द्वारमानेन कर्तव्यं पदव्याधारदण्ङकम् । शक्तिं मयूरयूथञ्च लाञ्छनस्य तु चैव हि ॥ ३५.२५५॥ प्रच्छन्नपटमाख्यातं धूपपात्रविधिं श‍ृणु । हैमेन राजतेनैव ताम्रेण त्रपुणाऽथवा ॥ ३५.२५६॥ वेदाङ्गुलन्तु विस्तारं पात्रोत्सेधं तदर्धकम् । ओष्ठमर्धाङ्गुलं प्रोक्तं बाह्ये पद्मदलान्वितम् ॥ ३५.२५७॥ ग्रीवस्यादौ द्विपादन्तु पादायामं द्विमात्रकम् । अब्ध्यङ्गुलसमायामं नाहं पक्षाङ्गुलं भवेत् ॥ ३५.२५८॥ दण्डपुच्छं पञ्चपादं कारयेदिति पूर्ववत् । पक्षाङ्गुलन्तु विस्तारं नानावल्लिसमन्वितम् ॥ ३५.२५९॥ अग्न्यङ्गुलं पिधानोच्चमनेकं सुषिरान्वितम् । कारयेन्मुकुलाकारं शेषं बुद्ध्या प्रकल्पयेत् ॥ ३५.२६०॥ धूपपात्रविधिः प्रोक्ता धूपघण्टाविधिं श‍ृणु । बाणाङ्गुलन्तु विस्तारमुत्सेधं तत्समं भवेत् ॥ ३५.२६१॥ त्रियवञ्चोष्ठविस्तारं तन्निर्यूहञ्चतुर्गुणम् । उपपट्टिकया युक्तं मात्रेण शिखरान्वितम् ॥ ३५.२६२॥ चतुर्यवङ्गलोत्सेधं जिह्वा वेदाङ्गुलायुतम् । घण्टायामञ्च तन्नाहं विस्तारेणैव वर्णितम् ॥ ३५.२६३॥ अग्न्यङ्गुलेन दण्डोच्चं नाहं तत्सममेव वा । दण्डस्याग्रे गजं वाऽपि वज्रं वा शक्तिमेव वा ॥ ३५.२६४॥ मूलं वा मकुटं वाऽपि नलिनं तस्य कल्पयेत् । शेषं युक्त्या प्रकर्तव्यं शुद्धकांस्येन सुव्रत ॥ ३५.२६५॥ कृत्वा नैवेद्य काले तु बलिकाले विशेषतः । धूपदीपप्रदाने च होमकाले च घोषयेत् ॥ ३५.२६६॥ धूपघण्टाविधिः प्रोक्ता दीपपात्रविधिं श‍ृणु । धूपपात्रवदाकारं विशेषात् किञ्चिदस्ति हि ॥ ३५.२६७॥ अग्न्यङ्गुलप्रविस्तारमायामन्तु शराङ्गुलम् । अश्वत्थपत्रवत्त्कुर्यात् ओष्ठोच्चं त्रियवं भवेत् ॥ ३५.२६८॥ मध्यं नाभिसमायुक्तं मुकुलं चैव कल्पयेत् । तदेकं दोपपात्रं स्यात् पञ्चदीपयुतन्तु वा ॥ ३५.२६९॥ दीपपात्रविधिः प्रोक्ता वक्ष्ये नीराजनस्य तु । सौवर्णं राजतं ताम्रं श्रेष्ठं मध्यकनिष्ठकम् ॥ ३५.२७०॥ षट्त्रिंशदङ्गुलायामं वृत्ताकारमनुत्तमम् । तस्मात्षडङ्गुलं हीनं मध्यमं पात्रमिष्यते ॥ ३५.२७१॥ हस्तमात्रप्रविस्तारं कन्यसं पात्रमिष्यते । कर्णिकाञ्च त्रिभागैकं तत्पञ्चांशैकमुच्छ्रयम् ॥ ३५.२७२॥ यवद्वयविशालेन परितः पट्टिका तथा । उत्सेधं तत्समं ज्ञेयं तद्बाह्येऽष्टदलं भवेत् ॥ ३५.२७३॥ ओष्ठन्तु परितः कुर्यात् कर्णिकोच्छ्रयमानतः । एवं कृत्वा मुनिश्रेष्ठ पूर्णचन्द्रसमप्रभम् ॥ ३५.२७४॥ युगाङ्गुलसमुत्सेधं दीपाधारं घटोपमम् । अश्विन्यङ्गुलमायामं घटवत्तस्य कोर्तितम् ॥ ३५.२७५॥ प्रोक्तं पक्षाङ्गुलं रन्ध्रं कर्णिकामध्यमं युतम् । दीपाधारमथाष्टाश्रं योजयेत्तु दलं प्रति ॥ ३५.२७६॥ रन्ध्राधारशताधारमेकाधारमथापि वा । मध्ये चैव महेशास्युर्दीपाधाराणि कल्पयेत् ॥ ३५.२७७॥ अग्न्यङ्गुलोच्चमानेन पृष्ठे पादं प्रकल्पयेत् । पात्रं नीराजनायेदं महाघण्टाविधिं श‍ृणु ॥ ३५.२७८॥ शुद्धकांस्येन कर्तव्यं विस्तारं पर्वताङ्गुलम् । सुषिरेण समायुक्तं चतुर्वर्णसमायुतम् ॥ ३५.२७९॥ तारार्धवर्धनं नाहं जिह्वारन्ध्राङ्गुलायतम् । शिखरं वलयोपेतं शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२८०॥ महाघण्टाविधिः प्रोक्ता दर्पणस्य विधिं श‍ृणु । त्रिद्व्यङ्गुलप्रविस्तारं पूर्णचन्द्राकृतिर्भवेत् ॥ ३५.२८१॥ नालं वस्वङ्गुलं ज्ञेयं पादं वेदाङ्गुलं भवेत् । नानापट्टिकसंयुक्तं शुद्धकांस्येन कारयेत् ॥ ३५.२८२॥ एतद् विस्तारमुदितं विस्तारार्धेन वर्धयेत् । उत्तमं दर्पणस्यैवमर्धपञ्चाङ्गुलान्तकम् ॥ ३५.२८३॥ नवमानं प्रकर्तव्यमुत्तमादित्रयं त्रयम् । दर्पणस्य विधिः प्रोक्ता विश्वामित्र महामुने ॥ ३५.२८४॥ इति श्रीकुमारतन्त्रे करणलक्षणविधिर्नाम पञ्चत्रिंशः पटलः ।

३६. षट्त्रिंशः पटलः - पादुकाप्रोक्षणविधिः

पादुकाप्रोक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत । अनुग्रहाय मर्त्यानां पापनाशार्थमेव च ॥ ३६.१॥ भजनोत्सेधयात्रायां पूजनार्थं प्रवक्ष्यते । (भजनोत्सवयात्रायां) ध्रुवं च स्नपनं चैव बलिबेरञ्च कौतुकम् ॥ ३६.२॥ उत्सवं यानबेरञ्च चलबेरञ्च पञ्चधा । एतेषां पादमानेषु यदिष्टं तत्त्प्रगृह्यताम् ॥ ३६.३॥ त्रिमात्राद्यर्धवृद्ध्या तु सप्ताङ्गुलसमावधि । नवमानमिदं प्रोक्तं कन्यसादित्रयं त्रयम् ॥ ३६.४॥ आयामस्यार्धमुदितं पादुकाग्रस्य विस्तरम् । षडष्टांशेन मध्यान्तमायामं युगभागकैः ॥ ३६.५॥ एकभागं भवेदष्टगुणांशे द्व्यंशकं घनम् । शेषमूर्ध्वदलं प्रोक्तं युक्त्यैव परिकल्पयेत् ॥ ३६.६॥ अङ्गुष्ठोच्चतलोत्थस्य चतुर्भागं त्रिभागकम् । चतुरंशे युगांशं तु नालशेषं तु पूर्ववत् ॥ ३६.७॥ अङ्गुष्ठोच्चसमं पुष्पं विस्तारं मुकुलान्वितम् । पुष्पोन्नते त्रिभागैकं मुकुलङ्कारयेद् द्विज ॥ ३६.८॥ उत्तमं काञ्चनेनैव मध्यमं रजतेन तु । ताम्रेणैवाधमं प्रोक्तं कांसाद्येनाधमाधमम् ॥ ३६.९॥ पादुकाश्च यथाशोभं तथा युक्त्या प्रकल्पयेत् । एवं लक्षणमाख्यातं प्रोक्षणञ्च ततः श‍ृणु ॥ ३६.१०॥ पुण्यर्क्षतिथिवारे च मण्डपस्यैव मध्यमे । पुण्याहं वाचयेत्तत्र प्रोक्षयित्वास्त्रमन्त्रतः ॥ ३६.११॥ स्थण्डिलं कल्पयेद्विद्वान् तिलतण्डुलशालिभिः । नववस्त्रमथास्तीर्य पादुकां पञ्चगव्यकैः ॥ ३६.१२॥ क्षालयित्वाष्टमृद्भिस्तु शुद्धोदैः स्कन्दमन्त्रतः । परिस्तीर्य तया दर्भर्हृदयेन तु मन्त्रतः ॥ ३६.१३॥ वस्त्रोपरिन्यसेद्धीमान् पादुकां वर्ममन्त्रतः । नववस्त्रेण सञ्छाद्य पादुकाग्रे यथाविधि ॥ ३६.१४॥ मयूरकुम्भं संस्थाप्य परितोऽष्टघटान्न्यसेत् । ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् ॥ ३६.१५॥ सकूर्चान् सहिरण्यांश्च कल्पयेत्कल्पवित्तमः । मयूरबीजमावाह्य मध्यकुम्भे समर्पयेत् ॥ ३६.१६॥ इन्द्रादिलोकपालांश्च पूर्वाद्यष्टघटे यजेत् । धेनुमुद्रां प्रदर्श्याथ तत्पृष्ठे सिकतैः कृतैः ॥ ३६.१७॥ स्थण्डिलं विधिवत्कृत्वा होमद्रव्याणि गृह्य च । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३६.१८॥ समिदाज्यचरून् लाजान् तिलान्सद्यादिमन्त्रतः । होमयेत्तु विशेषेण प्रत्येकं पञ्चविंशतिः ॥ ३६.१९॥ मयूरमूलमन्त्रेण घृतेनाष्टोत्तरं शतम् । सर्वद्रव्यसमायुक्तं हव्यवाहे च होमयेत् ॥ ३६.२०॥ प्रभाते सुमुहूर्ते तु कुम्भान्यभ्यर्च्य मन्त्रवित् । जयादिरभ्याधानञ्च राष्टभृच्च क्रमाद्धुनेत् ॥ ३६.२१॥ आचर्यं पूजयेत्कर्ता वस्त्रभूषणकाञ्चनैः । मयूरबीजमन्त्रेण कुम्भान्तात् पादुकाद्वये ॥ ३६.२२॥ न्यसेदिन्द्रादिबीजानि तयोः पूर्वादिषु न्यसेत् । तत्तत्कुम्भस्थतोयेन तत्तद्देशेऽभिषेचयेत् ॥ ३६.२३॥ मयूरमन्त्रादभ्यर्च्य मुद्गान्तं दापयेत्सुधीः । एवं यः कुरुते मर्त्यः सर्वान्कामानवाप्नुयात् ॥ ३६.२४॥ इति श्रीकुमारतन्त्रे पादुकाप्रोक्षणविधिर्नाम षट्त्रिंशः पटलः ।

३७. सप्तत्रिंशः पटलः - आत्मार्थयजनविधिः

आत्मार्थयजनं वक्ष्ये श‍ृणुष्व मुनिपुङ्गव । ये ये ग्रहाः समुच्चानि तेषामिष्टप्रदं शुभम् ॥ ३७.१॥ धर्मार्थकाममोक्षार्थमात्मार्थयजनं स्मृतम् । स्कन्दपूजां विना पुंसां पुत्रवृद्धिः कथं भवेत् ॥ ३७.२॥ प्रतिमां त पटे वाऽपि मण्डले स्थण्डिलेऽपि वा । जले वा हृदये वाऽपि नित्यं सम्पूजयेद्गुहम् ॥ ३७.३॥ एकाङ्गुलादिभूतान्तमात्मार्थमिति कीर्तितम् । मात्राङ्गुलेन कर्तव्यं यजमानं चरस्य तु ॥ ३७.४॥ आयादिशुभवर्गाणि यवैर्वाथ परीक्षयेत् । उत्तमं काञ्चनेनैव मध्यमं रजतेन तु ॥ ३७.५॥ शिलाया वाऽथ ताम्रेण कन्यसं परिकीर्तितम् । मृन्मयं दारुजं चैव न ग्राह्यन्तु गृहार्चने ॥ ३७.६॥ आसनं स्थानकं वाऽपि वाहनादिकमेव च । प्रतिमालक्षणोक्तेन मार्गेणैव प्रकल्पयेत् ॥ ३७.७॥ शिल्पिहस्तात्समादाय सम्यग्बिम्बं परीक्षयेत् । समदृष्टिप्रसन्नास्यं स्वस्वरूपं शुभावहम् ॥ ३७.८॥ ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं विवर्जयेत् । ऊर्ध्वदृष्टिः प्रजानाशमधोदृष्टिर्धनक्षयम् ॥ ३७.९॥ तिर्यग्दृष्टिर्यशोनाशं तस्मात् भाग्यं समेक्षणम् । (तस्मात् ग्राह्यं) अप्रतिष्ठितबेरस्य पूजनं सर्वदोषकृत् ॥ ३७.१०॥ बिम्बं मन्त्रमयं कृत्वा तस्मिन्नेवं प्रपूजयेत् । (कृत्वा तस्मिन्देवं) स्नपनं शान्तिके यस्य अग्रे ..... मतम् ॥ ३७.११॥ उत्तरायणकाले तु कृष्णपक्षे विशेषतः । (तु शुक्लपक्षे) पुण्यर्क्षतिथिवारेषु पुण्यलग्ने सुशोभने ॥ ३७.१२॥ प्राप्तये सर्वकामानां प्रतिष्ठोत्सव मुच्यते । (प्रतिष्ठोत्सव माचरेत्) प्रतिष्ठादिवसापूर्वं पञ्चमे सप्तमेऽपि वा ॥ ३७.१३॥ स्वसूत्रोक्तप्रकारेण कारयेदङ्कुरार्पणम् । प्रतिष्ठादिवसापूर्वे सायाह्ने नियतः शुचिः ॥ ३७.१४॥ मन्त्रेण सा प्रकर्तव्या रत्नन्यासविधानतः । नयनोन्मीलनं कुर्यात् नेत्रयुग्मयुते दिने ॥ ३७.१५॥ पञ्चगव्यैश्च मतिमान् पञ्चत्वक्सलिलैरपि । अष्टमृत्सलिलैश्चैव क्षालयेत् पवमानतः ॥ ३७.१६॥ पञ्चब्रह्मषडङ्गैश्च बिम्बशुद्धिं समाचरेत् । तीर्थदेशं नयेद्देवं स्वस्तिसूक्तमुदीरयन् ॥ ३७.१७॥ लम्बकूर्चं ततो बध्वा वस्त्रयुग्मेन वेष्टयेत् । जलाधिवासनं कुर्यात् प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ३७.१८॥ दारुपीठे जलान्तस्थे स्कन्दगायत्रिमन्त्रतः । रक्षायै लोकपालांश्च पूर्वादिक्रमशोऽर्चयेत् ॥ ३७.१९॥ श्रीरुद्रं चमकं चैव पञ्चशान्ति तथैव च । स्कन्दसूक्तं चतुर्दिक्षु कुर्यादध्ययनं तथा ॥ ३७.२०॥ जलाद्बिम्बं समुद्धृत्य प्रतिष्ठास्थानमाचरेत् । पुण्याहं वाचयित्वैव गव्यैः प्रोक्ष्य भुविस्थलम् ॥ ३७.२१॥ स्थण्डिलं तत्र सङ्कल्प्य तिलतण्डुलशालिभिः । पलाशोदुम्बराश्वत्थपत्रैर्दर्भैः परिस्तरेत् ॥ ३७.२२॥ बेरञ्च कौतुकं बध्वा नैवेद्यमपि दापयेत् । बिम्बञ्च नववस्त्रेण प्रत्येकं परिवेष्ट्य च ॥ ३७.२३॥ शयने शाययेददेवं प्राक्शिरश्चोर्ध्ववक्त्रकम् । देवसेनामहावल्लीं शाययित्वा यथाविधि ॥ ३७.२४॥ मातृकां बिन्दुसहितं मूर्धादिक्रमशो न्यसेत् । नैरृते वास्तुनाथेभ्यो नमस्कृत्य लिखेद्बुधः ॥ ३७.२५॥ प्रक्षिप्य विष्टरान् पश्चात्सामान्यार्घ्यं प्रकल्पयेत् । द्वाराणि द्वारपालांश्च लोकेशानायुधानि च ॥ ३७.२६॥ प्रतिष्ठोक्तविधानेन तत्तद्दिक्षु समर्चयेत् । वेदिका दक्षिणे भागेऽप्युत्तरामुखमास्थितः ॥ ३७.२७॥ भूतशुद्धिं ततः कुर्यादन्तर्यजनमाचरेत् । विशेषार्घ्यं प्रकल्प्यात्र सम्भारान् प्रोक्षयेऽस्त्रतः ॥ ३७.२८॥ आम्रपल्लवकूर्चाढ्यं द्रोणोदपरिपूरितम् । सापिधानं सरत्नं च सर्वलक्षणसंयुतम् ॥ ३७.२९॥ कुम्भं देवशिरोभागे धान्यासने प्रकल्पयेत् । वर्धनीद्वितये न्यस्य तस्य दक्षिणवामयोः ॥ ३७.३०॥ परितः कलशानष्टौ स्थापयित्वा यथाविधि । सुब्रह्मण्यं ततो मध्ये पार्श्वयोः शक्तिकाद्वयम् ॥ ३७.३१॥ जयन्ताद्यष्टविद्येशान् पूर्वादिकलशेषु च । पूर्वोक्तविधिनावाह्य समभ्यर्च्य यथाविधि ॥ ३७.३२॥ तत्पूर्वे स्थण्डिलं कृत्वा होमद्रव्याणि गृह्य च । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३७.३३॥ पलाशसमिधानाज्यं लाजक्षीरगुलैरपि । स्कन्दस्य मूलमन्त्रण होमयेत्पञ्चविंशतिः ॥ ३७.३४॥ पञ्चब्रह्मसर्ववक्त्रयुतैः षण्मूर्तिमन्त्रतः । प्रतिद्रव्यं ततो हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ३७.३५॥ जगद्भुवादिषण्मन्त्रैः स्कन्दगायत्रिमन्त्रतः । तत आचारमानेति द्रव्यं प्रतिहुनेत्ततः ॥ ३७.३६॥ शक्तिद्वयस्य मूलेन सर्पिषा पञ्चविंशतिः । सर्वद्रव्यसमायुक्तं तस्य मूलेन होमयेत् ॥ ३७.३७॥ रात्रिशेषं व्यपोह्याथ प्रातः स्नात्वा गुरूत्तमः । अनुष्ठानविधिं ज्ञात्वा प्रतिष्ठास्थानमेत्य च ॥ ३७.३८॥ द्वारपूजादिकं कृत्वा कुम्भान्यभ्यर्च्य मन्त्रवित् । प्रायश्चित्तार्थमस्त्रेण घृतेनैव शतं हुनेत् ॥ ३७.३९॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः । शयनाद्बिम्बमुत्थाप्य गव्यैः पञ्चामृतैरपि ॥ ३७.४०॥ शुद्धाद्भिरभिषिच्याशु भूषयेद्भूषणार्हकैः । शिरोवदनहृत्कुक्षिगुह्यपादद्वयेप्रदः ॥ ३७.४१॥ पञ्चब्रह्मसर्ववक्त्रयुक्तः षण्मूर्तिमेव च । विन्यस्य च षडङ्गानि स्वस्वदेशेषु विन्यसेत् ॥ ३७.४२॥ न्यस्त्वाथ मातृकान्यासं मूर्धादिक्रमशो बुधः । कुम्भबीजं समादाय बेरस्य हृदि विन्यसेत् ॥ ३७.४३॥ मूलमन्त्रेण मतिमान् कुम्भाद्भिरभिषेचयेत् । वर्धन्योर्बीजमादाय न्यसेत् स्वस्वस्तनाग्रके ॥ ३७.४४॥ तत्तत्करकतोयेन स्वबीजेनाभिषेचयेत् । विद्येशकुम्भान् पूर्वादिपद्मपीठेऽभिषेचयेत् ॥ ३७.४५॥ वस्त्राभरणमाल्याद्यैरर्चयेत्तु हृदा बुधः । महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ ३७.४६॥ प्रार्थयित्वा नमस्कृत्य ब्राह्मणान् भोजयेत्ततः । आचार्यं पूजयेत्तत्र वित्तशाढ्यं न कारयेत् ॥ ३७.४७॥ प्रतिष्ठाविधिरित्युक्तं पूजाविधिमथ श‍ृणु । आचार्यहस्तमादाय बेरकर्ता प्रपूजयेत् ॥ ३७.४८॥ एककालं द्विकालं वा त्रिकालं वा दिनं प्रति । पूजास्थानं नवेनैव गोमयेनानुलिप्य च ॥ ३७.४९॥ गन्धपुष्पजलादीनि पूजाद्रव्याणि गृह्य च । सौरपूजां पुरा कृत्वा चोत्तराभिमुखस्थितः ॥ ३७.५०॥ भस्मनिक्षिप्य बिधिना रुद्राक्षमपि धारयेत् । षण्मूर्तिहितं पञ्चब्रह्मभिः पञ्चमन्त्रकः ॥ ३७.५१॥ शिरोवदनहृत्कुक्षिगुह्यपादद्वये न्यसेत् । अङ्गान्यङ्गेषु विन्यस्य प्रणवार्घ्यं प्रकल्पयेत् ॥ ३७.५२॥ विस्तीर्णपीठे मतिमान् पूर्वास्यः परमानयेत् । पूर्वद्वारं तु सञ्चिन्त्य द्वारदेवान् प्रपूजयेत् ॥ ३७.५३॥ वास्तुनाथं च नैरृर्त्यामैशान्यां स्वगुरून् यजेत् । आत्मशुद्धिं ततः कुर्यादन्तर्यजनमारभेत् ॥ ३७.५४॥ विशेषार्घ्यं प्रकल्प्याथ द्रव्यशुद्धिं समाचरेत् । स्कन्दमन्त्रैः समावाह्य सोऽहम्भावेन पूजयेत् ॥ ३७.५५॥ पूजापर्युषितं सर्वं सुमित्राय प्रदापयेत् । पूजापीठे दलास्तीर्णं वामहस्ततलेऽपि वा ॥ ३७.५६॥ बेरं निवेश्य शुद्धाद्भिः स्नापयेदस्त्रमन्त्रतः । आधाराख्यमनन्तं च धर्माद्याङ्घ्रिचतुष्टयम् ॥ ३७.५७॥ अधर्मादिचतुष्पादमथोर्ध्वच्छदनद्वयम् । कन्दादीनि शकुन्यादि मण्डलत्रितयं यजेत् ॥ ३७.५८॥ पृथिव्यादिप्रकृत्यन्तं सुब्रह्मण्यासनं यजेत् । भानुमध्ये तु शिवयोर्मध्यगं संस्मरन् बुधः ॥ ३७.५९॥ तस्मिन् मूर्तिं समादाय मूलेनावाहयेत्सुधीः । स्थापनं चीशमन्त्रेण सन्निधानं तु पूरुषात् ॥ ३७.६०॥ सन्निरोधमघोरेण स्वागतं वाममन्त्रतः । दिग्बन्धमस्त्रमन्त्रेण कवचेनावकुण्ठनम् ॥ ३७.६१॥ अमृतीकरणं सद्योजातेनैव तु मन्त्रतः । स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् ॥ ३७.६२॥ तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु । इदं मन्त्रं समुच्चार्य पद्ममुद्रा महाख्यकम् ॥ ३७.६३॥ षण्मुखं दर्शयित्वाथ पाद्यमाचमनार्घ्यकम् । दत्त्वाभिषेचयेदद्भिरब्धिगैर्न तु मन्त्रतः ॥ ३७.६४॥ ततः कुमारमानेति चण्डापि स्कन्दसूक्ततः । मूलब्रह्मषडङ्गैश्च गायत्र्याचाभिषेचयेत् ॥ ३७.६५॥ सूक्ष्मवस्त्रं ततो दत्वा भूषयेद्भूषणार्हकैः । मनोरथार्घ्यं दत्वाथ दण्डभङ्गी समुच्चरेत् ॥ ३७.६६॥ वक्त्रभङ्गीमपोह्याथ पञ्चावरणमर्चयेत् । धेनुपद्मत्रिशूलं च मकरस्रङ्नमस्कृताम् ॥ ३७.६७॥ प्रदर्शयेद्धूपदीपं नैवेद्यमपि दापयेत् । पानीयमपि ताम्बूलमुखवाससमन्वितम् ॥ ३७.६८॥ धूपं धूरसि मन्त्रेण दीपमुद्दीप्य मन्त्रतः । श्रियै जातेति मन्त्रेण नीराजनमतः परम् ॥ ३७.६९॥ बृहत्सामेति मन्त्रेण भस्मं दत्वा गुहाय च । जगद्भुवेति मन्त्रेण पुष्पाञ्जलिमतः परम् ॥ ३७.७०॥ मूलमन्त्रं शतं जप्त्वा ब्रह्माङ्गानां दशांशकम् । स्तोत्रप्रदक्षिणाभीष्टप्रार्थनां चैव कारयेत् ॥ ३७.७१॥ साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं देवदेवेश गृहाणाराधनं परम् ॥ ३७.७२॥ मन्त्रेणानेन देवाय दापयेच्चुलुकोदकम् । न्यूनातिरिक्तं यत् कर्म तत्क्षमस्व मया कृतम् ॥ ३७.७३॥ प्रियाभीष्टो हि भगवान् पुनरागमनाय च । पश्चात्सुमित्रपूजां च कुर्यादपि विशेषतः । एवं यः कुरुते मर्त्यः स्कन्दसामीप्यमाप्नुयात् ॥ ३७.७४॥ इति श्रीकुमारतन्त्रे आत्मार्थयजनविधिर्नाम सप्तत्रिंशः पटलः ।

३८. अष्टत्रिंशः पटलः - तैलाभ्यङ्गविधिः

तैलाभ्यङ्गं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत । सर्वरोगविनाशार्थं गुहं तैलेन लेपयेत् ॥ ३८.१॥ सर्वकालेषु कर्तव्यमेके वा नित्यपूजने । मासादौ पञ्चदश्यां वा सोमाङ्गारकवारके ॥ ३८.२॥ कृत्तिकायां विशाखायां प्रोक्षणे नैमित्तिके पुनः । उत्सवाद्यन्तकाले च काम्ये नैमित्तिके पुनः ॥ ३८.३॥ एवमादिषु कार्येषु तैलाभ्यङ्गं प्रचक्षते । शैलजे मृण्मये चैव दारुजेऽभ्यङ्गमुत्तमम् ॥ ३८.४॥ स्वर्णबेरे भित्तिचित्रे दर्पणेन विचक्षणः । रत्नजे लोहजे कुर्यात्प्रोक्षयेद्दारुमूर्धनि ॥ ३८.५॥ नवीनतिलतैलञ्च पुष्पगन्धैः सुयोजयेत् । स्वर्णपात्रे तु रजते कांसपात्रे च मृण्मये ॥ ३८.६॥ शुद्धपात्रेण गृह्णीयात् तैलं वस्त्रेण शोधितम् । निरीक्ष्य मूलमन्त्रेण प्रोक्ष्य चास्त्रेण मन्त्रतः ॥ ३८.७॥ तेन मन्त्रेण सन्ताड्य कवचेनावकुण्ठयेत् । धेनुमुद्रां हृदा दत्वा विन्यस्य गुहसन्निधौ ॥ ३८.८॥ सङ्कल्पमपि पुण्याहं वाचयित्वा विचक्षणः । धूपदीपं हृदा दत्वा पाद्यमाचमनं तथा ॥ ३८.९॥ तेनैव दन्तकाष्ठञ्च तन्मन्त्रेणैव दर्पणम् । ताम्बूलं तेन मन्त्रेण पश्चादभ्यङ्गमाचरेत् ॥ ३८.१०॥ प्रच्छन्नपटमावेष्ट्य वस्त्रादीनि विपोह्य च । मूलबिन्दुसमादाय कूर्चेनास्त्रेण मन्त्रतः ॥ ३८.११॥ प्रोक्ष्य बेरस्य शिरसि गुरुर्दक्षिणहस्ततः । मूर्धादिपादपर्यन्तमभ्यङ्गनपि पीठकम् ॥ ३८.१२॥ तैलं हृदयमन्त्रेण लेपयेच्छुद्धवस्त्रतः । नमस्कृत्वा क्षमस्वेति शक्तिपूर्वं विचिन्तयेत् ॥ ३८.१३॥ पिष्टं वामेन मन्त्रेण सर्वाङ्गमपि लेपयेत् । स्नाप्य पश्चादघोरेण तथैवामलकैर्गुरुः ॥ ३८.१४॥ हरिद्रं वक्त्रमन्त्रोण शुद्धाद्भिरभिषेचयेत् । अर्चनोक्तविधानेन तदूर्ध्वं कर्मकारयेत् ॥ ३८.१५॥ भक्तेभ्यः परिचारेभ्यो दापयेत् तैलकं क्रमात् । ताम्बूलं दापयेत् पश्चादाचार्यमपि तोषयेत् ॥ ३८.१६॥ अम्लेन लोहबेराणि शुद्धिं कृत्वैवमर्चयेत् । एवं यः कुरुते मर्त्यो सर्वान् कामनवाप्नुयात् ॥ ३८.१७॥ इति श्रीकुमारतन्त्रे तैलाभ्यङ्गविधिर्नामाष्टत्रिंशः पटलः ।

३९. एकोनचत्वारिंशः पटलः - मासपूजाविधिः

अतः परं प्रवक्ष्यामि मासपूजाविधिक्रमम् । चैत्रे दमनकं प्रोक्तं वैशाखे गन्धपूजनम् ॥ ३९.१॥ ज्येष्ठमासे फलैः पूजा क्षीरेणाषाढ मासके । श्रावणे शर्करापूजा पूर्वैः प्रोष्ठपदेऽर्चना ॥ ३९.२॥ अश्विन्यामन्नपूजा च कार्तिक्यां दीपरोहणम् । घृतेन मार्गशीर्षे च क्षौद्रेण पुष्यमासके ॥ ३९.३॥ घृतकम्बलकं माघे फाल्गुने दधिपूजनम् । मासपूजां विनान्यैश्च पूजनैर्निष्फलं भवेत् ॥ ३९.४॥ प्रजावृद्धिकरं नॄणां राज्ञां विजयवर्धनम् । न कुर्याच्चेत्तु मोहेन सर्वदोषकरं भवेत् ॥ ३९.५॥ तस्मात्सर्वप्रयत्नेन कर्तव्यं मासपूजनम् । नित्यपूजावसाने तु नैमित्तिकमथाचरेत् ॥ ३९.६॥ चैत्रमासपूजा - चैत्रेषु षष्ठ्यां सप्तम्यां त्रयोदश्यां तु वार्चयेत् । कौशिक उवाच- न ज्ञातं मदनोत्पत्तिस्तां वदस्व महेश्वर ॥ ३९.७॥ ईश्वर उवाच- पुरा देव्यै मया प्रोक्तं मदनोत्पत्तिकारणम् । महर्षे श्रूयतां तेषां श्रोतॄणां पापनाशनम् ॥ ३९.८॥ मया पुरा दग्धकामो अन्यैर्यत्र पुनर्ददेत् । रतिप्रीतिसमत्वेन गुहेन नयनाम्बुना ॥ ३९.९॥ तत्र स्थाने समुत्पन्ना दिव्या दमनमञ्जरी । तत्र तद्गन्धमाघ्राय सिद्धसाध्या दिवौकसः ॥ ३९.१०॥ सर्वे देवाश्च मुनयो हृष्टा नृत्यन्ति सर्वदा । परस्परं चिन्तयन्तो ब्रह्माद्या प्रापुरत्र वै ॥ ३९.११॥ गुहाय शक्रः प्रणमत् ब्रह्माणमिदमब्रवीत् । किमिदं त्वतिसौरभ्यं तद्वदस्व प्रभो ततः ॥ ३९.१२॥ ततः प्रोवाच हृष्टात्मा ब्रह्मा सुरपतिं प्रति । पुरा दग्धोऽथ देवेन दीप्तो यत्र मनोभवः ॥ ३९.१३॥ तत्रोत्पन्ना वनाच्चित्रा दमनी कापि कन्दली । यथानङ्गस्तथा सा तु जगदानन्ददायिनी ॥ ३९.१४॥ सर्वेषामपि देवानां हृष्टं दमनपूजनम् । ब्रह्मेत्युक्त्वा पुरं प्रायात् दिवं सर्वे ययुस्ततः ॥ ३९.१५॥ कुमारस्य महत्प्रीतिर्दान्तं हि मुनिपुङ्गव । पूर्वोक्तायां तिथौ विप्र सुमुहूर्ते सुलग्नके ॥ ३९.१६॥ गत्वारामं तु दमनं प्रोक्षयेदस्त्रमन्त्रतः । हरप्रसादात् सञ्जातो दमनत्वं पुरा किल ॥ ३९.१७॥ सुब्रह्मण्यार्चनायैव नेतव्योऽसि प्रसीद मे । एवं दमनमामन्त्र्य सङ्ग्राह्य सदनं व्रजेत् ॥ ३९.१८॥ देवाग्रे स्थण्डिलं कृत्वा तावत्तद्बद्धमालिकाम् । कृतनित्यविधिः पश्चात् कुण्डे वा स्थण्डिलेऽपि वा ॥ ३९.१९॥ विधिनाग्निं समुत्पाद्य समृद्धं तु हुताशने । पलाशसमिधानाज्यलाजान् सक्तुतिलानि च ॥ ३९.२०॥ मूर्तिं चैवाङ्गमन्त्रैश्च स्कन्दसूक्तेन होमयेत् । त्रिसप्तकृत्वा सम्पातां तथैव जुहुयात्गुरुः ॥ ३९.२१॥ ततो नित्यावसाने तु स्नपनं कल्पयेद्बुधः । अभ्यर्च्य गन्धपुष्पाद्यैर्निवेद्यान्तं क्रमाद्ददेत् ॥ ३९.२२॥ मुखवासं च ताम्बूलं गुहाय च हृदा ददेत् । हिमतोयेन सम्मिश्रैर्धूपयेत्तु गुरुः पुनः ॥ ३९.२३॥ ततः पुष्पग्रहं कार्यं नानापुष्पैः सुशोभनैः । दमनमालां च पात्रस्थां वाहयित्वा द्विजेन तु ॥ ३९.२४॥ सर्वातोद्यसमायुक्तं कृत्वा धामप्रदक्षिणम् । द्वारेशानर्च्य देवाग्रे दामं न्यस्त्वासनोपरि ॥ ३९.२५॥ आसनावरणादीनि सम्पूज्य च यथाविधि । मूर्धादिपादपर्यन्तं दामैर्भूष्य विशेद् गुरुः ॥ ३९.२६॥ सैकत्रिंशत्कलान्यासं मातृकामपि विन्यसेत् । प्रभूतहविषं दद्यात् यथावित्तानुसारतः ॥ ३९.२७॥ विज्ञापयेद्गुरुः पश्चात् वाञ्छितार्थफलप्रदम् । न्यूनं वाप्यतिरिक्तं वा भगवन् यन्मया कृतम् ॥ ३९.२८॥ सर्वं तदस्तु सम्पूर्ण महासेन कृपाम्बुधे । रात्रौ दाम विसृज्याय स्कन्दसूक्तेन पूजयेत् ॥ ३९.२९॥ स्नपनं तत्र कर्तव्यं प्रभूतहविषं ददेत् । दान्तं निवेदितं सर्वं सुमित्राय प्रदापयेत् ॥ ३९.३०॥ अकृत्वैवं विधानेन देशिको दोषभाग्भवेत् । तदन्तेचोत्सवं कुर्यात्सर्वालङ्कारशोभितम् ॥ ३९.३१॥ प्रतिसंवत्सरं दान्तं कारयेदुत्सवोत्तमम् । अश्वमेधफलं भुङ्क्त्वा सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ३९.३२॥ दमनारोहणं प्रोक्तं श‍ृणु शीतोपचारकम् । इति चैत्रमासपूजाविधिः । वैशाखमासापूजाविधि । वैशाखे तु विशाखर्क्षे कुर्याच्छीतोपचारकम् । नित्यपूजावसाने तु नैमित्तिकमथाचरेत् ॥ ३९.३३॥ नवभिस्तु घटैः शुद्धैः शीतोदैः स्नपनान्वितैः । नानागन्धैः समोपेतैः स्नापयेदसुरान्तकम् ॥ ३९.३४॥ कर्पूरकुङ्कुमोपेतैर्हिमाम्बुयुतचन्दनैः । मूर्धादिपादपर्यन्तमालिलिम्बेन्मुखं विना ॥ ३९.३५॥ सौरभ्यपुष्पैर्विविधैस्तत्क्षणप्रतिबोधितैः । यथा निरन्तरं विप्र तथैवाच्छादयेद्गुहम् ॥ ३९.३६॥ कृष्णागरुभवैर्धूपैर्मृष्टैराजप्रकल्पितैः । कर्पूरवर्तिभिर्दीपैः पायसैः प्रचुरैरपि ॥ ३९.३७॥ जपैर्वेदस्वरैर्गीतैर्वाद्यैः सूक्तैर्मनोहरैः । वीणावेणुरवैस्तोत्रैर्नमस्कारप्रदक्षिणैः ॥ ३९.३८॥ पूजयेत्प्रत्यहं स्कन्दं भक्त्या सप्तदिनावधि । एवं यः कुरुते मर्त्यः पुत्रपौत्रविवर्धनम् ॥ ३९.३९॥ यान्यान् कामयते कामान् तांस्तान् ध्रुवमवाप्नुयात् । वैशाखपूजनं प्रोक्तं वसन्तोत्सवमुच्यते ॥ ३९.४०॥ इति वैशाखमासपूजाविधिः । वसन्तोत्सवविधिः । चैत्रे वैशाखमासे तु शुक्लषष्ठ्यां समाचरेत् । प्रतिसंवत्सरं कुर्यात् सर्वलोकहिताय वै ॥ ३९.४१॥ शुक्लपक्षे शुभर्क्षे च सुमुहूर्ते सुवारके । पूर्वेद्युरङ्कुराण्यर्प्य कौतुकं बन्धयेन्निशि ॥ ३९.४२॥ स्नपनं कल्प्य देवेशं पूर्वोक्तविधिनार्चयेत् । वसन्तं तु भवेच्छुद्धैर्दिव्यगन्धैर्मनोहरैः ॥ ३९.४३॥ नानापुष्पैश्च दामैश्च कुर्यात् पुष्पग्रहं बुधः । पुष्पमालाञ्च पत्रेषु निक्षिप्य कवचेन तु ॥ ३९.४४॥ देवाग्रे स्थण्डिलं कृत्वा हृदा सम्प्रोक्ष्य चास्त्रतः । अर्चयेद्धूपदीपं च कृत्वा धाम प्रदक्षिणम् ॥ ३९.४५॥ ततो मालां समुद्धृत्य शङ्खदुन्दुभिनिःस्वनैः । विन्यसेत् स्कन्दमन्त्रेण मूलबेरस्य मूर्धनि ॥ ३९.४६॥ कृत्वागरुप्रधूपं च दीपं चैव प्रदापयेत् । स्नाप्यचोत्सवबेरं तु भूषयेद्भूषणार्हकैः ॥ ३९.४७॥ स्वर्णराजतताम्राद्यैर्डोलां कल्प्य विधानतः । कूटपञ्चरसंयुक्तां सर्वालङ्कारशोभिताम् ॥ ३९.४८॥ डोलामारोप्य देवेशं शक्तिद्वयसमायुतम् । वाद्यैर्गीतश्चै नृत्तैश्च स्तोत्रर्वेदपुराणकैः ॥ ३९.४९॥ डोलाक्रीडां ततः कृत्वा देवस्याचमनं ददेत् । नालिकेरोदकं चैव पानकं विविधं तथा ॥ ३९.५०॥ अपूपान् विविधांश्चैव पायसैर्व्यञ्जनैर्युतम् । मुद्गान्नं कृसरान्नं च गुलान्नं सूपसंयुतम् ॥ ३९.५१॥ प्रियङ्गुपिष्टं मधुमत् वल्लिकन्दं सपक्कम् । नालिकेराम्बुपनसं फलपुण्ड्रेक्षुदण्डकैः ॥ ३९.५२॥ दद्याद्विधानतस्तत्र ताम्बूलमपि दापयेत् । सर्वातोद्यसमायुक्तं नानाच्छत्रसमावृतम् ॥ ३९.५३॥ नानाध्वजसमोपेतं चामरैर्व्यञ्जनैर्युतम् । ग्रामप्रदक्षिणं कुर्यात् राजचिह्नैः समस्तकैः ॥ ३९.५४॥ परिवेषं क्रमाद्गत्वा मन्दीभूते दिवाकरे । पल्लवैर्मञ्जरीभिश्च फलैः पुष्पैः समृद्धिकैः ॥ ३९.५५॥ आस्थानमण्डपोपेते सर्वालङ्कारसंयुते । नृत्तगीतादिसंयुक्ते जलवापीसमीपके ॥ ३९.५६॥ देवोद्याने नदे चैव सर्वालङ्कारसंयुते । अकुर्वंश्च जलक्रीडान् धारायन्त्रैर्गुणोत्तमाः ॥ ३९.५७॥ केचित् स्वर्णमयैः श‍ृङ्गैः रौप्यताम्रविनिर्मितैः । स्त्रियश्चाप्सरसः सर्वा नरा गन्धर्वकिनराः ॥ ३९.५८॥ एवं कृत्वा जलक्रीडां मण्डपे देवमानयेत् । स्नपनं कल्प्य विधिना पूजयेदुपचारकैः ॥ ३९.५९॥ देवः समागतं स्तुत्वा वसनं कुसुमायुधम् । नीलदूर्वाङ्कुरश्याममतिसौन्दर्यशोभितम् ॥ ३९.६०॥ रतिप्रीत्युभयोर्मध्ये पुष्पसायकचापधृत् । पुष्पमण्डलमध्ये तु रम्योद्याने समर्चयेत् ॥ ३९.६१॥ ॐ नमः पञ्चबाणाय जगदाह्लादकारिणे । मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय च ॥ ३९.६२॥ पुण्डरीकाक्षपुत्राय नमस्ते मीनकेतवे । मन्मथाय पदं पूर्वं विद्महे तदनन्तरम् ॥ ३९.६३॥ कामदेवाय संयुक्तं धीमहीति पदं ततः । तन्नोऽनङ्गपदस्यान्ते प्रयोक्तव्यं प्रचोदयात् ॥ ३९.६४॥ चतुर्विंशाक्षरीप्रोक्ता गायत्री मदनस्य तु । दक्ष शैवलपिण्डेन रतिं पूर्वं समर्चयेत् ॥ ३९.६५॥ मञ्जर्या सहकारस्य वामे प्रीतिं प्रपूजयेत् । प्रणवेन धनुर्बाणं तच्छिलीमुखपङ्कजम् ॥ ३९.६६॥ वसन्तं वनराजिं च गन्धपुष्पादिभिर्यजेत् । वस्त्रेण वेष्ट्य नैवेद्यं पायसं तु निवेदयेत् ॥ ३९.६७॥ ताम्बूलं दापयेत् पश्चात् तोषयेत्तान् विशेषतः । तस्माद्वसन्तमूर्तिं च रतिकामसमन्वितम् ॥ ३९.६८॥ देवाय दर्शयेद्विद्वान् फलैः पुष्पोपहारकैः । इक्षुदण्डैश्च गन्धैश्च ताम्बूलैश्च मनोहरैः ॥ ३९.६९॥ नानादीपशतैर्गेहं रात्रौ देवालयं व्रजेत् । प्रभूतहविषं दद्यात् यथाविभवविस्तरम् ॥ ३९.७०॥ ताम्बूलं दापयेत् पश्चात् धूपदीपं हृदा ददेत् । शुद्धैरन्नैश्च विविधैरपरैर्वा महामुने ॥ ३९.७१॥ जपैर्वेदस्वरैर्गीतैर्वाद्यैर्नृत्तैर्मनोहरैः । वीणावेणुवरैस्तोत्रैर्नमस्कारैः प्रदक्षिणैः ॥ ३९.७२॥ एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्रुयात् । यान् यान् कामयते मर्त्यस्तांस्तान् ध्रुवमवाप्नुयात् ॥ ३९.७३॥ वसन्तोत्सवमाख्यातं ज्येष्ठमासार्चनं श‍ृणु ॥ ३९.७४॥ इति वसन्तोत्सवपूजाविधिः । ज्येष्ठमासपूजाविधिः । ज्येष्ठमासे मूलर्क्षे पूजयेत् स्वादुभिः फलैः । कदली पनसाम्रोत्थैर्नलिकेरफलैरपि ॥ ३९.७५॥ शर्करामधुसंयुक्तैर्यथाविभवविस्तरम् । नवभाण्डे समाहृत्य न्यस्त्वाग्रे प्रोक्ष्य चास्त्रतः ॥ ३९.७६॥ सङ्कल्पमपि पुण्याहं वाचयित्वा द्विजोत्तमैः । आधाराधेयपूजान्ते पवमानमुदीरयन् ॥ ३९.७७॥ यामार्धं वा तदर्धं वा पठेत्तन्मूलतोऽपि वा । स्कन्दसूक्तेन मतिमान् शीतोष्णैरभिषेचयेत् ॥ ३९.७८॥ वस्त्रैर्गन्धः सुमाल्यैश्च भूषणैर्भूषयेद्गुहम् । हिमतोयाक्तकल्हारैःनैरन्तर्यापि भूषयेत् ॥ ३९.७९॥ पञ्चावरणपूजाञ्च कुर्यादपि विशेषतः । पायसं गुहसंयुक्तं ताम्बूलमपि दापयेत् ॥ ३९.८०॥ त्रिसन्ध्यमर्चयेदेवं सर्वकामस्य सिद्धये । ज्येष्ठमासार्चनं प्रोक्तमाषाढे पूजनं श‍ृणु ॥ ३९.८१॥ इति ज्येष्ठमासपूजाविधिः । आषाढमासपूजाविधिः । पूर्वफल्गुनि नक्षत्रे चाषाढे मासपूजनम् । कौतुकं बन्धयेद्रात्रौ देवदेव्यौ च मन्त्रवित् ॥ ३९.८२॥ प्रभाते ब्रह्मचारिभ्यो यज्ञसूत्राणि दापयेत् । हरिद्रां चैव कन्याभ्यो दक्षिणा सहितं बुधः ॥ ३९.८३॥ प्रीतये देवदेवीनां मद्भक्तेभ्यो विधानतः । मुद्गाङ्कुरं सलवणं देव्योः पादे समर्पयेत् ॥ ३९.८४॥ ग्रामप्रदक्षिणं कुर्यात् सर्वसम्पत्कराय च । जलतीरं समागम्य यथाविभवविस्तरम् ॥ ३९.८५॥ पोतोपरि समारुह्य देवदेव्यौ च भक्तिमान् । युवतीभिश्च युवभिर्जलक्रीडां विधाय च ॥ ३९.८६॥ यामं वापि तदर्धं वा तदर्धं वा समाचरेत् । प्रविश्य भवनं पश्चात् प्रभूतहविषं ददेत् ॥ ३९.८७॥ ब्राह्मणान् भोजयेद्विद्वान् दीनानाथांश्च भोजयेत् । इति आषाढमासपूजाविधिः । क्षीरपूजाविधिः । पूर्वाषाढे तु तन्मासे श्रवणे वा गुणान्विते । पूर्णिमायां तु वाऽषाढे कुर्यात्क्षीराभिषेचनम् ॥ ३९.८८॥ गवां वृद्धिकरं सर्वसस्यवृद्धिकरं शुभम् । गोक्षीरं ग्राह्य धारोष्णं नवभाण्डेषु पूरयेत् ॥ ३९.८९॥ शालिभिस्तण्डुलं कृत्वा विन्यसेत् क्षीरकुम्भकम् । उत्तमं दशभारं तु मध्यमं तु तदर्धकम् ॥ ३९.९०॥ तदर्धमधमं ज्ञेयं तदर्धमधमाधमम् । अस्त्रमन्त्रेण सम्प्रोक्ष्य ब्रह्माङ्गैरपि पूजयेत् ॥ ३९.९१॥ धूपदीपं ततो दत्वा पयोभिः स्नापयेद्गुहम् । आप्यायस्वेति मन्त्रेण स्कन्दसूक्तेन मन्त्रतः ॥ ३९.९२॥ कुमारमानेति मन्त्रेण मूलब्रह्मषडङ्गकैः । क्षीरैश्च शुद्धतोयैश्च स्नाप्याभ्यर्च्य यथाविधिः ॥ ३९.९३॥ प्रभूतहविषं दत्वा ब्राह्मणानपि भोजयेत् । एवं यः कुरुतेमर्त्यः स पुण्यफलमाप्नुयात् ॥ ३९.९४॥ अनुक्त मन्यतो ग्राह्यमधिकं नैव दूप्यते । क्षीरपूजाविधिः प्रोक्तः पवित्रारोपणं श‍ृणु ॥ ३९.९५॥ इति क्षीरपूजाविधिः । पवित्रारोपणविधिः । आषाढादित्रयोपेता श्रेष्ठमध्यमकन्यसाः । आश्विनीकृत्तिकामासावथवा सम्प्रकीर्तितौ ॥ ३९.९६॥ पूर्वपक्षे चतुर्दश्यामाषाढे मासि कारयेत् । इतरेषु च मासेषु पक्षयोरुभयोरपि ॥ ३९.९७॥ चतुर्दश्यां च षष्ठ्यां वा पूर्णिमायां च कारयेत् । कृत्तिकादीपतः पश्चात् नैव कार्यं पवित्रकम् ॥ ३९.९८॥ शुक्लपक्षे गृहस्थानां यतीनां तु द्विपक्षयोः । भोगमोक्षप्रदं साक्षात् पवित्रारोपणं मुने ॥ ३९.९९॥ संवत्सरकृतं पापं नाशयत्यस्य पूजनात् । प्रायश्चित्तमकुर्वाणा ब्राह्मणाः शुद्धिमाप्नुयुः ॥ ३९.१००॥ प्रत्यहं वाङ्मनः कायकृतानि कलुषानि च । तेभ्यः पवित्रं कुरुते तस्मादेतत् पवित्रकम् ॥ ३९.१०१॥ सौवर्णैरजतैः सूत्रैः पट्टोर्णैः सूत्रकैरपि । कार्पासजभवैरन्यैर्मौञ्जिभिर्दर्भसम्भवैः ॥ ३९.१०२॥ वल्कलोत्थैश्च सूत्रैश्च नवभिर्गुणितैः शुभैः । द्विजातिकृतकार्पास सूत्रैः शुभ्रैरनिन्दितैः ॥ ३९.१०३॥ रोमादिशोध्यतोयेन प्रक्षाल्य प्रोक्ष्य चास्त्रतः । शुष्कं कृत्वा हृदा सम्यक् पवित्रं कारयेत्सुधीः ॥ ३९.१०४॥ शक्तयस्तु शकुन्याद्या नवसूत्राधिदेवताः । अष्टोत्तरशतैः सूत्रैः कुर्यात् स्कन्दावतारकम् ॥ ३९.१०५॥ उत्तमं बेरदैर्घ्यं स्यान्मध्यमं बाहुमात्रकम् । अधमं तु शिरोवेष्टं पवित्रं मुनिपुङ्गव ॥ ३९.१०६॥ षट्कं मूर्ध्नि प्रकर्तव्यं षण्मूर्तिमनुरूपकम् । पीठे स्पर्शनकं षट्कं बाह्यमाला तथैव च ॥ ३९.१०७॥ अष्टोत्तरशतं सूत्रमुत्तमं परिचक्षते । तदर्धें मध्यमं ज्ञेयं कन्यसं तु तदर्धकम् ॥ ३९.१०८॥ शतं वाऽपि तदर्धं वा पवित्रं कारयेत्सुधीः । एकैकया तु संवृद्ध्या तन्तवो द्वादशात्मिकाम् ॥ ३९.१०९॥ नीचाल्पमध्यमं श्रेष्ठमुत्तमादित्रयं तथा । ग्रन्थयस्तन्तुसङ्ख्या स्यात् कूलगर्भं नवं मता ॥ ३९.११०॥ यथेष्टग्रन्थयो वाऽपि समाः सर्वशतांसिताः । एकद्वित्र्यङ्गुला वाऽपि ग्रन्थिमानमिहोच्यते ॥ ३९.१११॥ ग्रन्थयो वेष्टदेशेषु विधातव्यं विचक्षणैः । कुर्यात् पवित्रं शक्तीनां कण्ठादाजानुमात्रकम् ॥ ३९.११२॥ मयूरगजयोः सूत्रं तन्मस्तकपदावधि । समानेनात्मनः कुर्यात् पवित्रं कुम्भसङ्ख्यया ॥ ३९.११३॥ क्रमागमज्ञशिष्याणामात्मवत् समुदीरितम् । रक्तचन्दनकाश्मीरगैरिकागरुचन्दनैः ॥ ३९.११४॥ कुष्ठकर्पूरसम्मिश्रं हरिद्राकृष्णगन्धकैः । रञ्जयेद्धृदेयेनैव रक्तसूत्रादिभिस्तु वा ॥ ३९.११५॥ अन्तः शालागजस्थानप्रासादान्मूलवेश्मनाम् । षट्सूत्रस्यैव कर्तव्यं तन्तुना सम्प्रशस्यते ॥ ३९.११६॥ एवं सङ्कल्य पूर्वेद्युरधिवासनमाचरेत् । प्रासादस्याग्रके वाऽपि दक्षिणे पश्चिमेऽपि वा ॥ ३९.११७॥ कल्पिते मण्डपे वाऽपि पूर्वोक्तस्यैव कल्पितम् । वितानदर्भमालादिफलपल्लवशोभिते ॥ ३९.११८॥ मध्ये वेदिसमायुक्ते नवपञ्चैककुण्डके । तत्सङ्ख्यास्थण्डिलोपेते वेदिकारहितेऽपि वा ॥ ३९.११९॥ स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैर्यथाविधि । स्कन्दकुम्भं च वर्धन्यौ परितश्चाष्टकुम्भकैः ॥ ३९.१२०॥ स्थाप्य सम्यग् वितानाद्यैर्भूषयित्वाऽथ मण्डपम् । कृतनित्यविधिः सौरपूजा शुद्धमना गुरुः ॥ ३९.१२१॥ पुण्याहप्रोक्षणं कृत्वा प्रकीर्य विकिरानपि । मण्डपार्चनमार्गेण सर्वान् देवान् समर्चयेत् ॥ ३९.१२२॥ मध्ये स्कन्दं समावाह्य महावल्लीं च दक्षिणे । देवसेनां तथा वामे जयन्ताद्यान् समावृते ॥ ३९.१२३॥ स्थण्डिलं पश्चिमे कूर्यात् रक्तषड्दलपद्मयुक् । तस्मिन् कुम्भं विदध्यार्च्य प्राप्यानुज्ञां ततो गुरुः ॥ ३९.१२४॥ द्वारेशानर्चयेद् देवसमीपे स्वासने स्थितः । आसनार्चनमारभ्य कुर्यादावाहनान्तकम् ॥ ३९.१२५॥ गव्यैः पञ्चामृतैः स्नाप्य विशेषस्नपनेन च । पञ्चावरणमार्गेण गन्धपुष्पादिनार्चयेत् ॥ ३९.१२६॥ सैकत्रिंशत्कलान्यासं विधिना कारयेद्बुधः । भक्ष्यभोज्यान्नपानादिप्रभूतहविषं ददेत् ॥ ३९.१२७॥ कौतुकं बन्धयित्वा तु गत्वा कुण्डान्तिकं गुरुः । अग्निकार्योक्तमार्गेण स्विष्टान्तं होममाचरेत् ॥ ३९.१२८॥ समिदन्नांश्च लाजांश्च सर्षपं शालिभिस्तिलैः । सक्तुवेणुयवैश्चैव मुद्गमाषप्रियङ्गुभिः ॥ ३९.१२९॥ पलाशखदिराश्वत्थवटैः प्रागादिदिक्षु च । शमीखादिरमायूरप्लक्षोऽग्न्यादिविदिक्षु च ॥ ३९.१३०॥ प्रधानम्य पलाशेन शतं वाऽपि तदर्धकम् । स्कन्दमूलेन स ब्रह्मा मूर्तिमन्त्रैः षडङ्गकैः ॥ ३९.१३१॥ हुत्वाऽथ स्कन्दसूक्तेन षण्मन्त्रेण रसाहुतिः । ततः कुमारमानेति मन्त्रेणैव तथा हुनेत् ॥ ३९.१३२॥ एवं प्रधानकुण्डं स्यात्तदर्धेन तदर्धकम् । स्थालीपाकं ततः कृत्वा तद्धृदा विभजेत्त्रिधा ॥ ३९.१३३॥ गुहांशमग्निभागं च मध्वाज्याभ्यां च मिश्रितम् । कुर्यादात्मीयभागन्तु लवणेन घृतेन वा ॥ ३९.१३४॥ हृदा देवांशमभ्यर्च्य तमादाय गुहान्तिकम् । गत्वा निवेद्य देवाय नीत्वा विज्ञाप्य मन्त्रवित् ॥ ३९.१३५॥ दन्तकाष्ठञ्च तैलञ्च पूर्वे तत्पुरुषं स्मरन् । दक्षिणे दण्डकौपीनं बहुरूपेण मन्त्रतः ॥ ३९.१३६॥ कमण्डल्वक्षमालाञ्च पश्चिमे सद्यमन्त्रतः । वामे ज्ञानञ्च भस्मानि दर्पणं वाममन्त्रतः ॥ ३९.१३७॥ ऐशान्यां पादुकानाञ्च ताम्बूलं त्वीशमन्त्रतः । स्थण्डिले सूत्रनिकटे परितश्चापि साधयेत् ॥ ३९.१३८॥ पवित्राणि च तन्मध्ये पात्रे स्थाप्य शुभाणुना । अस्त्रेण प्रोक्षितं सम्यगवकुण्ठ्य हृदार्चनम् ॥ ३९.१३९॥ धेनुमुद्रामृतीभूतं स्कन्दाङ्गैर्मनुभिर्यजेत् । मण्डले वेदिकोर्ध्वे तु पवित्रस्याशुचासनम् ॥ ३९.१४०॥ मृगाजिनादिना चापि स्थापयेत्पावकान्तिके । संवत्सरकृतं पापं यदसाक्षिणमव्ययम् ॥ ३९.१४१॥ प्रायश्चित्तार्थमेतस्य पवित्रत्वं त्वां नमाम्यहम् । इदं मन्त्रं समुच्चार्य पवित्राण्यधिवासयेत् ॥ ३९.१४२॥ सुब्रह्मण्यं स्मरन् ब्रह्मा षडङ्गैर्मूलमन्त्रतः । ददेवह्निस्थदेवाय तृतीयांशं चरुं गुरुः ॥ ३९.१४३॥ त्रिसप्तकृत्वा सम्पातं तथैव जुहुयात्ततः । चरुशेषं हुतं हुत्वा रात्रिशेषं व्यपोह्य च ॥ ३९.१४४॥ ततः प्रभाते सुस्नातः स्नानसन्ध्यानुतर्पणम् । समाचम्य कृतन्यासं सामान्यार्घ्यकरो गुरुः ॥ ३९.१४५॥ कृत्वा नित्यविधिः सम्यगाचार्यो मन्त्रवित्तमः । द्वारं द्वाराधिपानिष्ट्वा गत्वा कुम्भान्तिकं गुरुः ॥ ३९.१४६॥ सास्त्रान् दिक्पालकान् कुम्भान् पूर्वं कृत्वा समर्चयेत् । कुण्डाधिदेवतान् पूज्य परिषिच्य यथाक्रमम् ॥ ३९.१४७॥ स्कन्दमूलेन सब्रह्ममूर्तिमन्त्रैः षडङ्गकैः । मण्डलस्थगुहेनैव पावकस्थगुरुं तथा ॥ ३९.१४८॥ नाडीसन्धानमार्गेण योजयेद् भावयेद् गुहम् । यान्येतानि पवित्राणि भगवान् संस्कृतानि च ॥ ३९.१४९॥ अर्चयामि घटस्थाय गुहायाध्येषयेदिति । समय रक्षणामस्मै षट्पवित्राणि देशिकः ॥ ३९.१५०॥ एकैकं शक्तिवर्धन्यौ जयन्तादिभ्य एव च । द्वारेशेभ्यो दिगीशेभ्यो दद्याद् गन्धपवित्रकम् ॥ ३९.१५१॥ तत्तन्नामचतुर्थ्यन्तैः प्रतिगृह्णेति दापयेत् । यागशालागजस्थानं प्रासादपचनालयम् ॥ ३९.१५२॥ द्वारकान् सूत्रषट्केण वर्मणा परिवेष्टयेत् । द्वारं पूर्ववदभ्यर्च्य गर्भगेहं प्रविश्य च ॥ ३९.१५३॥ दन्तकाष्ठं च तैलं च ताम्बूलं हृदयेन च । उपचारक्रमणैव युक्त्यादद्याद् क्रमाद् गुरुः ॥ ३९.१५४॥ आधाराधेयपूजां च कुर्यादपि विशेषतः । विशेषस्नपनोपेतं यथाविभवविस्तरम् ॥ ३९.१५५॥ आमन्त्रणपवित्रान्तं सुधामुद्राप्ररोपितम् । गुहायारोप्य तन्मूर्ध्नि रेचकेण गुहार्चना ॥ ३९.१५६॥ आमन्त्रणात्मकं कर्म पठेद् देवेशसन्निधौ । नमस्ते विधिवच्छिद्र पुराणेश मखं प्रति ॥ ३९.१५७॥ प्रभावान्मन्त्रयामि त्वां तदिच्छावाप्तिकारणम् । तत्सिद्धिमनुजानीहि यतः शरवणोद्भव ॥ ३९.१५८॥ सर्वदा सर्वथा स्वामिन् नमस्तेऽस्तु प्रसीद मे । जप्त्वा निवेद्य देवाय नमस्कृत्वा समापयेत् ॥ ३९.१५९॥ षट्पवित्राणि मतिमान् मूर्तिमन्त्रैः प्रदापयेत् । स्कन्दमूलेन मन्त्रेण दद्यात् स्कन्दावतारकम् ॥ ३९.१६०॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं च यत् कृतम् । जपहोमार्चनाहीनं कृतं नित्यं मया तव ॥ ३९.१६१॥ कृतं सावित्रिहीनं च तत्पूरय विधानतः । त्वया पवित्रितं सर्वं जगदेतच्चराचरम् ॥ ३९.१६२॥ तथाप्यत्र पवित्राणि दापयामि त्वदाज्ञया । निवेद्य देवदेवाय नमस्कुर्याद् विशेषतः ॥ ३९.१६३॥ शक्तिद्वये पवित्रे द्वे दद्यात् तत्तद्धृदाधुना । दिगीशपरिवारेभ्यो देवेभ्यस्त्वेकमेककम् ॥ ३९.१६४॥ सुमित्रक्षेत्रपालेभ्यो दद्याद् गन्धपवित्रकम् । प्रायश्चित्तं ततः कुर्यादस्त्रेणैव शताहुतिः ॥ ३९.१६५॥ सिद्धान्तपुस्तके दद्यात् स्वगुरोश्च पवित्रकम् । प्रभूतहविषं दद्यात् यथाविभवविस्तरम् ॥ ३९.१६६॥ ब्राह्मणान् भोजयेत् पश्चात् दीनानाथांश्च भोजयेत् । उत्तमं दशनिष्कं स्यात् मध्यमं तु तदर्धकम् ॥ ३९.१६७॥ तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा । मूर्तिपानां तदर्धं स्यात् जापकानां तदर्धकम् ॥ ३९.१६८॥ अत्रोपकरणं सर्वं देशिकाय प्रदापयेत् । पवित्राणि च दर्भांश्च वस्त्राण्याभरणानि च ॥ ३९.१६९॥ पुनः पुनः प्रयोक्तव्यं पूतान्येतानि सर्वदा । मण्डलस्थं घटं चैव वह्निस्थं नित्यमर्चयेत् ॥ ३९.१७०॥ अर्धमासं च सप्तर्क्ष पञ्चाहं वा त्रयाहकम् । एवं पवित्रं पूजां च प्रकुर्यात्तु दिनं प्रति ॥ ३९.१७१॥ मन्त्रतर्पणकर्मान्तं कृत्वा निष्कृतिमाचरेत् । अस्त्रेणैव शतं पश्चात् पूर्णां वै चित्ररूपिणीम् ॥ ३९.१७२॥ लक्षञ्चाघोरमावर्त्य चाज्यहोमं समाचरेत् । भसितं दर्शयित्वाथ वह्निस्थं योजयेद् गृहम् ॥ ३९.१७३॥ वह्नेर्मन्त्रं च सहृत्य नीत्वा तं द्वादशान्तके । हृदये सन्निवेश्याग्निं विसृज्योद्वास्य विष्टरान् ॥ ३९.१७४॥ परिधिं च बलिं दद्यात् समाचम्य गुरुः शुचिः । स्कन्दकुम्भे च वर्धन्यौ मन्त्रान् संहृत्य योजयेत् ॥ ३९.१७५॥ दिक्पालानस्त्रसहितान् द्वारपालांश्च संस्थितान् । अर्घ्यं तन्नित्यपूजाङ्गं पुज्याद्यैः परिकल्पयेत् ॥ ३९.१७६॥ रव्यन्तं संविसृज्याथ पवित्राणि षडाननात् । आदाय च सुमित्राय सर्वाण्येतानि दापयेत् ॥ ३९.१७७॥ पवित्रं नित्यपूजाङ्गं पुष्पाद्यैः परिकल्पयेत् । एवं यः कुरुते मर्त्यः पवित्रोत्सवमुक्तमम् ॥ ३९.१७८॥ मुच्यते ब्रह्महत्यायाः किं पुनश्चोपपातकैः । सर्वान् कामानिहप्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ३९.१७९॥ पवित्रारोपणं प्रोक्तं श‍ृणु श्रावणपूजनम् ॥ ३९.१८०॥ इति पवित्रारोपणविधिः । श्रावणपूजाविधिः । श्रावणे तु श्रविष्ठान्तं तद्दिनात्पूर्वरात्रके । कौतुकं बन्धयेद्देवं पायसान्नं निवेदयेत् ॥ ३९.१८१॥ प्रातः सन्ध्यावसाने तु यथाविभवविस्तरम् । स्नपनं कल्प्य सम्पूज्य कुङ्कुमेनैव लेपयेत् ॥ ३९.१८२॥ नववस्त्रेण संवेष्ट्य भूषयेद्भूषणार्हकैः । बन्धूकपुष्पदामैश्च नैरन्तर्यं विभूषयेत् ॥ ३९.१८३॥ शर्करायाः शतप्रस्थं तदर्धं वा तदर्धकम् । पात्रे निधाय मतिमान् षण्मुखाय निवेदयेत् ॥ ३९.१८४॥ प्रभूतहविषं दद्यात्ताम्बूलञ्च निवेदयेत् । एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् । प्रोक्तं श्रावणपूजाञ्च श‍ृणु भाद्रपदार्चनाम् ॥ ३९.१८५॥ इति श्रावणपूजाविधिः । भाद्रपदमासपूजाविधिः । पूर्वाषाढे तु नक्षत्रे मासि भाद्रपदे यजेत् । कुसुमैः केतकैश्चैव शतैर्वाऽपि तदर्धकैः ॥ ३९.१८६॥ सक्तुलाजतिलोपेतैः सहस्रप्रस्थमुत्तमम् । तदर्धं मध्यमं पिष्टं कन्यसंस्यात्तदर्धकम् ॥ ३९.१८७॥ अपूपं सर्पिषा कृत्वा पूरयेत्तु घटे घटे । श्रीसूक्तैर्वेष्टयित्वाथ कूर्चं न्यस्त्वा विचक्षणः ॥ ३९.१८८॥ विशेषस्नपनैः स्नाप्य प्रभूतहविषं ददेत् । कदलीपनसैर्युक्तानपूपांश्च विशेषतः ॥ ३९.१८९॥ ताम्बूलञ्च हृदा दत्वा प्रार्थयेदर्थमीप्सितम् । एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ॥ ३९.१९०॥ प्रोक्तं भाद्रपदे पूजाप्यश्विनीपूजनं श‍ृणु । इति भाद्रपदमासपूजाविधिः । आश्वयुजमासपूजाविधिः । अश्विन्यामाश्विजे मासे प्रीणयेदन्नपूजनात् । विशेषस्नपनात्पूज्य भूषयेद्भूषणार्हकैः ॥ ३९.१९१॥ लक्ष्मीपुष्पैश्च कुसुमैरुत्पलैः पूजयेद्गुहम् । शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ ३९.१९२॥ नीवारान्नं प्रियङ्ग्वन्नं दध्यन्नं वैणवान्नकम् । श्यामाकान्नं च नव्यञ्च मध्वन्नं घृतान्नकम् ॥ ३९.१९३॥ माषान्नं चव मुद्गान्नं गोधूमान्नञ्च षोडश । एतैश्चैव द्विरष्टाद्यैः प्रीणयेत्तु षडाननम् ॥ ३९.१९४॥ फल्गुन्यामेव तन्मासे प्रकुर्यात् पार्वतीव्रतम् । तत्पूर्वे तु महावल्लीं देवसेनां महामुने ॥ ३९.१९५॥ स्वर्णसूत्रेण विधिना कौतुकं बन्धयेन्निशि । ततः प्रभाते कन्याभ्यः स्नानाङ्गं दापयेत्सुधीः ॥ ३९.१९६॥ स्नातेभ्यो वसनं गन्धं दाम चापि विशेषतः । नवभारादिभारान्तमुत्तमादित्रयं त्रयम् ॥ ३९.१९७॥ पात्रस्थान्साङ्कुरान्मुद्गान् तण्डुलान् सोपदंशकान् । दापयित्वा तु शक्तिभ्यां विधिना यन्त्रवित्तमः ॥ ३९.१९८॥ मूलदेव्यौ समभ्यर्च्य विशेषस्नपनेन च । यात्रादेव्यौ कृते स्नाते नवशाटीपरिच्छदे ॥ ३९.१९९॥ शुद्धनैवेद्यसन्तुष्टे गन्धस्रग्दामभूषिते । पयोघृतधरे कृत्वा दिनशेषं नयेत्क्रमात् ॥ ३९.२००॥ कृत्वा च पेषणीपूजां याम्यायां पावकेऽपि वा । तत्रामलकपिष्टेन रजन्याऽपि सुगन्धिना ॥ ३९.२०१॥ संस्थाप्य पेषणीं कृत्वा सप्तधान्यकृताश्रयाम् । गन्धैरालिप्य वस्त्रेण नवेनाच्छाद्यसासनाम् ॥ ३९.२०२॥ ध्यात्वाथ पेषणीं गौरीं समभ्यर्च्य यथाविधि । नैवेद्यं सोपदंशञ्च दत्वा स्त्रीभिः प्रसादितम् ॥ ३९.२०३॥ ग्रामप्रदक्षिणं कृत्वा देवदेव्यौ च भक्तितः । सर्वालङ्कारसंयुक्तं पाददीपैः समन्वितम् ॥ ३९.२०४॥ तत्काले दापयेन्मुद्गाङ्कुरं लवणसंयुतम् । वीथ्यां वीथ्यां जनेभ्यश्च व्यञ्जनं तण्डुलान्वितम् ॥ ३९.२०५॥ आलयं तु प्रविश्याथ परिवेषक्रमान्नयेत् । शिष्योपाध्यायसंयुक्तान् सिद्धान्ताध्ययनं जपेत् ॥ ३९.२०६॥ ऋग्यजुः सामगाथर्वा वेदाङ्गं च पृथक्पृथक् । शिवधर्मपुराणानि सेतिहासानि तत्समम् ॥ ३९.२०७॥ काव्यञ्च शब्दशास्त्रञ्च ज्योतिश्शास्त्रं ततः परम् । आयुर्वेदं द्राविडञ्च श्रावयेत्प्रीणयेद्गुहम् ॥ ३९.२०८॥ ब्राह्मणान्भोजयेत्तत्र वैदिकान् शिवभक्तकान् । कन्याश्च ब्रह्मचरींश्च दीनानाथांश्च भोजयेत् ॥ ३९.२०९॥ विधानमेतत्कर्तव्यं देव्याः सन्तुष्टकारणम् । एवं यः कुरुते मर्त्यः सर्वान्कामानवाप्नुयात् ॥ ३९.२१०॥ अश्विनीपूजनं प्रोक्तं कृत्तिकापूजनं श‍ृणु । इत्याश्विजमासपूजाविधिः । कार्तिकमासपूजाविधिः । ब्राह्मणा यजुसूक्तैश्च भूभुजाः कुक्कुटैरपि । वैश्याः कर्पूरखण्डैश्च शूद्राद्याः फलपुष्पकैः ॥ ३९.२११॥ कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् । सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपारगः ॥ ३९.२१२॥ कार्तिक्यां कृत्तिकापर्वयोगे वृषलग्नके । श्रद्धया कार्तिकेयाय यः कुर्याद्धृतदीपिकाम् ॥ ३९.२१३॥ तस्य पुण्यमसङ्ख्येयं विश्वामित्र महामुने । कृत्तिकापर्वयुक्तेनालाभे पर्वणि सम्मतम् ॥ ३९.२१४॥ रोहिण्यां वा भरण्यां वा दीपं पर्वणि कारयेत् । अपर्वणिकृतं दीपं राजराष्ट्रं विनश्यति ॥ ३९.२१५॥ पर्वद्वये तु सम्प्राप्ते पूर्वं त्यक्त्वा परं ग्रहेत् । पूर्णायां खण्डितायां तु द्वयोर्नाड्याधिकं ग्रहेत् ॥ ३९.२१६॥ रवेरस्तमनात्पूर्वे पादयामाद्विधानतः । कालस्तदूर्ध्वे यामार्धपर्यन्तं दीपकर्मणि ॥ ३९.२१७॥ नक्षत्रवृद्ध्या संस्पृष्टे तत्कालान्ते समाचरेत् । यल्लग्ने विषसंस्पृष्टे तल्लग्नं परिवर्जयेत् ॥ ३९.२१८॥ विषस्य परपूर्वे तु घटिकाद्वयतः शुभम् । कर्तुरष्टमराश्यादिलक्षदोषनिरूपणम् ॥ ३९.२१९॥ विष्टिवैनाशिकर्क्षादिप्रोक्षणं नात्र सम्मतम् । पर्वयुक्तमयुक्तं वा नक्षत्रं तु प्रधानकम् ॥ ३९.२२०॥ एवं परीक्ष्य मतिमान् कृत्तिकादीपमाचरेत् । पूर्वेद्युः कौतुकं बध्वा स्नाप्यचोत्सवबेरकम् ॥ ३९.२२१॥ मङ्गलाङ्कुरमन्त्रैश्च कुर्याद्विध्युक्तमार्गतः । दीपारोहणकालस्य पूर्वे स्वामिनमर्चयेत् ॥ ३९.२२२॥ मूलबेरमलङ्कृत्य भूषयेद्भूषणार्हकैः । नीलोत्पलैश्च कमलैः पट्टिकैः पुष्पकैर्यजेत् ॥ ३९.२२३॥ प्रभूतहविषं दत्वा ताम्बूलं दापयेत्ततः । आलये मण्डपे वाऽपि यागमण्डप एव च ॥ ३९.२२४(१)॥ शिवाग्निं तत्र सम्पूज्य गुहं साङ्गं समर्चयेत् । समिदाज्येन चरुणा दीपैः कार्पासबीजकैः ॥ ३९.२२४(२)॥ क्षीरेण शतमर्धं वा तदर्धं वा हुनेत्सुधीः । स्कन्दमूलेन मन्त्रेण दशांशाञ्जुहुयात्ततः ॥ ३९.२२५॥ स्कन्दसूत्रं मन्त्रषट्कैर्द्रव्यषट्कैर्हुनेत्क्रमात् । कुमारमेति मन्त्रेण प्रतिद्रव्यं हुनेक्ततः ॥ ३९.२२६॥ पूर्णाहुतिं ततो हुत्वा शिवाग्निं च विसर्जयेत् । तदग्नौ दीपमारोप्य कृत्तिकादीपमाचरेत् ॥ ३९.२२७॥ नारिकेलशमिस्तालपनसासनखादिराः । चम्पको देवदारुश्च मधुकः सालवृक्षकः ॥ ३९.२२८॥ दीपदण्डद्रुमाः प्रोक्ताः कारयेल्लक्षणान्वितम् । अलाभे तु बहिः स्थाने वृक्षयोग्यद्रुमं ग्रहेत् ॥ ३९.२२९॥ ध्वजदण्डोक्तमार्गेण दीपदण्डं प्रकल्पयेत् । त्रितालं स्तम्भनाहं स्यादृजुं शुद्धसमन्वितम् ॥ ३९.२३०॥ नवकीलं समारभ्य व्योमकीलविवर्धनात् । सप्तविंशतिकीलान्तं रोहणार्थं सुयोजयेत् ॥ ३९.२३१॥ द्वादशाङ्गुलकारस्य व्योमाङ्गुलविवर्धनात् । द्वाविंशदङ्गुलान्तं स्याद्दण्डात्कीलंविनिर्गतः ॥ ३९.२३२॥ द्व्यङ्गुलात्पादवृद्ध्यादि षडङ्गुलसमावधि । विस्तारं तद्घनं ज्ञेयं निर्गमादर्धमात्रकम् ॥ ३९.२३३॥ दण्डप्रोक्तञ्च कीलानां सुदृढं कल्पयेद्बुधः । लोहचक्रं तदूर्ध्वे तु व्योममूलं त्रिपादवत् ॥ ३९.२३४॥ सुदृढं स्थापयेत्पात्रं धारणायां महामुने । दारूद्भवानि चक्राणि प्रतिकूलं सुयोजयेत् ॥ ३९.२३५॥ न्यस्तव्याश्चक्रवद्दीपं स्तम्भमूलात्पृथक्पृथक् । दीपिका प्रतिचक्रञ्च रसद्वादशषोडश ॥ ३९.२३६॥ सहस्रदीपयुक्तं वा शतदीपयुतं तु वा । स्थापयेद्दीपदण्डांश्च मालाकारेण वास्तुनः ॥ ३९.२३७॥ तोरणाकारतो वाऽपि वृत्ताकारेण वाथवा । प्रासादस्यैव परितश्चतुर्दिक्षु विशेषतः ॥ ३९.२३८॥ कूटाकाराणि कृत्वाथ चतुर्गात्रयुतानि च । कूटबन्धेषु सर्वत्र पात्राणि न्यस्य कारयेत् ॥ ३९.२३९॥ पुण्याहप्रोक्षणं कृत्वा दण्डं पूर्वेऽपि वासयेत् । बलिपीठाग्रके वाऽपि ध्वजदण्डाग्रकेऽपि वा ॥ ३९.२४०॥ यथा दृढतरं स्थाप्य पूरयेच्छुद्धवालुकैः । वेदिमूले प्रकर्तव्यं वृत्तं वा चतुरश्रकम् ॥ ३९.२४१॥ त्रिहस्तमात्रविस्तीर्णमेकहस्तोन्नता शुभा । गोमयालेपनं कृत्वा शालिपिष्टैर्विचित्रयेत् ॥ ३९.२४२॥ नवेन युग्मवस्त्रेण दण्डमूलं प्रवेष्टयत् । पालिकाद्यैरलङ्कृत्य पुण्याहं वाचयेद्बुधः ॥ ३९.२४३॥ अस्त्रेण प्रोक्ष्य तद्दण्डं प्रणवेन तु पूजयेत् । स्तम्भयानं यथा तद्वद्दीपं कुर्यान्मनोरमम् ॥ ३९.२४४॥ कार्पासबीजैर्मतिमान्निच्छिद्रेणैव साधनम् । पोट्टलीकं ततो बध्वा घृतमात्रे निधाय च ॥ ३९.२४५॥ अष्टप्रस्थं घृतेनैव तदर्धेनैव पूरयेत् । सौवर्णं राजतं ताम्रं मृण्मयं वाऽथ पात्रकम् ॥ ३९.२४६॥ देवाग्रे मण्डलं कृत्वा शालिपिष्टैर्विचित्रयेत् । शालिभिर्विकिरेत्तत्र दर्भैश्चैव परिस्तरेत् ॥ ३९.२४७॥ तन्मध्ये विन्यसेत्पात्रं हृदयेन तु मन्त्रतः । दीपयेत्प्राङ्मुखो मन्त्री स्कन्दमूलमनुस्मरन् ॥ ३९.२४८॥ एवं त्रिधा पञ्चधा वा शरावे पात्रमाचरेत् । ब्रह्मसूक्तैश्च मन्त्रैर्वा गन्धपुष्पादिनार्चयेत् ॥ ३९.२४९॥ धूपदीपं ततो दत्वा हृदयेन तु मन्त्रतः । दीपानारोप्य हस्तैर्वा वाहयित्वा शिवद्विजैः ॥ ३९.२५०॥ सर्वातोद्यसमायुक्तं कृत्वा ग्रामप्रदक्षिणम् । गृहस्थो वा ब्रह्मचारी वा दीपं सङ्ग्राह्य पाणिना ॥ ३९.२५१॥ अघोरास्त्रेण मन्त्रेण दीपदण्डेऽधिरोपयेत् । सर्वातोद्यसमायुक्तं जयशब्दसमन्वितम् ॥ ३९.२५२॥ सर्वैर्हरहरेत्युक्त्वा दीपदण्डेऽधिरोपयेत् । प्राङ्मुखोदङ्मुखो वाऽपि दीपं मन्त्रेण विन्यसेत् ॥ ३९.२५३॥ प्रासादे गोपुरे शालपरिवारालयोर्ध्वके । प्रासादाभ्यन्तरे सर्वे पाकस्थानेन तु मण्डपे ॥ ३९.२५४॥ वापीकूपतटाकेषु सर्वत्रैव प्रदीपयेत् । स्नात्वा चोत्सवबेरन्तु समलङ्कृत्य भूषणैः ॥ ३९.२५५॥ ग्रामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् । आलयन्तु प्रविश्याथ मूलबेरं समर्चयेत् ॥ ३९.२५६॥ स्नपनं कारयेत् तत्र सहस्रादिषु शक्तितः । पृथुकान् दापयेद्विद्वान् नालिकेरफलान्वितान् ॥ ३९.२५७॥ मरीचिजीरकोपेतान् नालिकेरैश्च संयुतान् । दद्यात्पृथुकलाजांश्च गुलसारसमन्वितान् ॥ ३९.२५८॥ प्रभूतहविषं दत्वा ताम्बूलमपि दापयेत् । प्रतिसंवत्सरं ह्येवं कर्तव्यं फलकाङ्क्षिभिः ॥ ३९.२५९॥ लाजान् पृथुकलाजांश्च पृथुकान् व्यञ्जनैर्युतान् । निवेदयेद्गुहस्यैवं पवित्र पापनाशनम् ॥ ३९.२६०॥ यो भक्षयेत्ततो भक्त्या अग्निष्टोमफलं लभेत् । एवं यः कुरुते मर्त्यः स मुक्तः सर्वपातकैः ॥ ३९.२६१॥ सर्वान् कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् । कृत्तिकादीपनं प्रोक्तं धनुर्मासार्चनं श‍ृणु ॥ ३९.२६२॥ इति कार्तिकमासपूजाविधिः । धनुर्मासपूजा । मण्डपं समलङ्कृत्य मुक्तादामैश्च वस्त्रकैः । गृहद्वाराणि सर्वाणि एवमाद्यैरलङ्करेत् ॥ ३९.२६३॥ शुद्धतोयेन संस्नाप्य प्रियङ्ग्वन्नं निवेद्य च । सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ ३९.२६४॥ धनुर्मासस्य मर्त्यानां प्रत्यूषः काल उच्यते । तस्मात्समाधिरात्र्यन्ते पूजयेच्छङ्करात्मजम् ॥ ३९.२६५॥ एकवारं धनुर्मासे भक्त्या यः पूजयेद्गुहम् । वर्षद्वयञ्च पूजायाः फलं प्राप्नोत्यसंशयः ॥ ३९.२६६॥ श‍ृङ्गिबेरसहस्रार्धं व्यञ्जनैः सममुच्यते । तत्समं दधि विप्रेन्द्र धनुर्मासस्य पूजने ॥ ३९.२६७॥ अर्धरात्रात्परे तत्र जलसङ्ग्रहणं मतम् । पुष्पसङ्ग्रहणं विप्र पूर्वेद्युरह उच्यते ॥ ३९.२६८॥ नीलोत्पलञ्च कमलं तुलसीबिल्वपत्रकम् । एकाहोषितदोषाणि न दोषं तैः सुपूजयेत् ॥ ३९.२६९॥ पूजाकालस्य पूर्वे तु सुस्नाताचमनो गुरुः । पादौ प्रक्षाल्याचम्य भस्मधारणविग्रहः ॥ ३९.२७०॥ द्वारं सम्पूज्य विधिना मन्त्रकायः शिवद्विजः । विशेषार्घ्यं ततो कल्प्य रात्र्यन्तं पूजयेद्गुहम् ॥ ३९.२७१॥ स्कन्दमूर्त्यङ्गमन्त्रैश्च स्कन्दसूक्तेन मन्त्रतः । ततः कुमारमातेति स्कन्दगायत्रिया यतः ॥ ३९.२७२॥ श्रीरुद्रचमकाद्यञ्च पूजयेद्गन्धतोयकैः । धौतवस्त्रैरलङ्कृत्य भूषयेद्भूषणार्हकैः ॥ ३९.२७३॥ कर्पूरकुङ्कुमोपेतं रक्तगन्धं च लेपयेत् । नीलोत्पलारविन्दैश्च पूजयेत्तु विशेषतः ॥ ३९.२७४॥ आसनावरणादीनि सम्पूज्य विधिना ततः । नवभारादिभारान्तमुत्तमादित्रयं त्रयम् ॥ ३९.२७५॥ तण्डुलं स्यात् तदर्धेन यथाविभवविस्तरम् । शुद्धान्नमेवं कर्तव्यं श‍ृङ्गिबेरदधिप्लुतम् ॥ ३९.२७६॥ कन्दमूलफलोपेतं गुलखण्डसमन्वितम् । नालिकेरफलैर्युक्तं मधुसूपसमन्वितम् ॥ ३९.२७७॥ निवेदयेद्धृदा मन्त्री ताम्बूलमपि दापयेत् । नानाधूपैश्च दीपैश्च ततो नीराजनैरपि ॥ ३९.२७८॥ वाद्यैर्गीतैश्च नृत्तैश्च जपैः स्तोत्रैः प्रदक्षिणैः । नमस्कारैश्चमतिमान् प्रीणयेदसुरान्तकम् ॥ ३९.२७९॥ एवं यः कुरुते मर्त्यः सप्तजन्मद्विजो भवेत् । सर्वान् कामानिह प्राप्य तदन्ते मुक्तिमाप्नुयात् । धनुर्मासार्चनं प्रोक्तमार्द्रापूजाविधिं श‍ृणु ॥ ३९.२८०॥ इति धनुर्मासापूजाविधिः । आर्द्रापूजा । तस्मिन् मासे तथार्द्रायां घृतेन स्नापयेद् गुहम् । पर्वयुक्तमयुक्तं वा नक्षत्र तु प्रधानकम् ॥ ३९.२८१॥ खण्डिते सति नक्षत्रे द्वयोस्तावधिकं भवेत् । समर्थेनापरं ग्राह्यं पूर्वमङ्गलकारकम् ॥ ३९.२८२॥ एकमासे द्विनक्षत्रे सम्प्राप्ते त्वपरं वरम् । पूर्वमुत्सवबेरञ्च ततः कौतुकबेरकम् ॥ ३९.२८३॥ पूर्वेद्युः कौतुकं बध्वा देवीभ्यां सह मन्त्रवित् । कदलीपूगपनसलिकुचाद्युद्भवैः फलैः ॥ ३९.२८४॥ मण्डपं समलङ्कृत्य मुक्तादामैश्च वस्त्रकैः । गृहद्वाराणि सर्वाणि एवमाद्यैरलङ्करेत् ॥ ३९.२८५॥ शुद्धतोयेन संस्नाप्य प्रियङ्ग्वन्नं निवेद्य च । सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ ३९.२८६॥ ग्रामप्रदक्षिणं कुर्यात् प्रातरुत्सवबेरकम् । गवामाज्यं ततो विद्वान् नवं शुद्धमनिन्दितम् ॥ ३९.२८७॥ आनीय रात्रौ तत्त्वज्ञः स्नापयेन्मूलबेरकम् । शिवत्रयं सार्धभारं भारं भारार्धभारकम् ॥ ३९.२८८॥ द्वयभारस्त्रिभारञ्च षड्भारं चाष्टभारकम् । दशभारं स्मृतं ज्ञेयम्मुत्तमादित्रयं त्रयम् ॥ ३९.२८९॥ देवाग्रे स्थण्डिलं कुर्यात् समद्रोणैश्च शालिभिः । तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि ॥ ३९.२९०॥ परिस्तीर्य ततो दर्भैराज्यपात्राणि विन्यसेत् । पुण्याहप्रोक्षणं कृत्वा स्कन्दमन्त्रैः समर्चयेत् ॥ ३९.२९१॥ धूपदीपं ततो दत्त्वा द्वारपूजां विधाय च । आधाराधेयपूर्वं च कृत्वा नित्यावसानके ॥ ३९.२९२॥ स्कन्दमूलेन मन्त्रेण षडङ्गाद्यङ्गमन्त्रतः । स्कन्दमूलेन मतिमान् कुमारमेव मन्त्रतः ॥ ३९.२९३॥ घृतेन मूलमन्त्रेण चास्त्रेण परिमार्ज्य च । पिष्टामलकपिण्याकैर्घर्षयेद् धृतनुत्तये ॥ ३९.२९४॥ श्रीरुद्रचमकाभ्याञ्च स्कन्दसूक्तेन मन्त्रवित् । मन्दोष्णैर्गन्धतोयैश्च स्नाप्य वस्त्रेणमार्जयेत् ॥ ३९.२९५॥ वस्त्राभरणमालादीन् गुरुर्दत्वा हृदाणुना । आसनावरणादीनि पूजयेन्मुनिपुङ्गव ॥ ३९.२९६॥ नीलोत्पलोत्थैः पुष्पैश्च नैरन्तर्यं विभूषयेत् । स्नाप्य कौतुकबेरञ्च भूषयेद्भूषणार्हकैः ॥ ३९.२९७॥ नैवेद्यं दापयेत्पश्चात् सर्वव्यञ्जनसंयुतम् । ताम्बूलञ्च ततो दत्वाकृष्णगन्धेन लेपयेत् ॥ ३९.२९८॥ ग्रामप्रदक्षिणं नित्यं वीथिं कृत्वालयं विशेत् । आलयस्याग्रके वाऽपि सौम्ये वा जनतुष्टये ॥ ३९.२९९॥ डोलारोहं ततः कुर्यात् बलिबेरं विशेषतः । डोलारोहं प्रकर्तव्यं प्रभाते चार्धरात्रके ॥ ३९.३००॥ सुवर्णरौप्य लोहैर्वा दारुणात्वथ शिल्पिभिः । सर्वलक्षणसंयुक्तं स्थाप्य स्तम्भद्वयं तथा ॥ ३९.३०१॥ तयोरूर्ध्वे कलां योज्य डोलां तस्मिन् प्रलम्बयेत् । चतुर्हस्तसमोपेतामथवा द्विभुजान्विताम् ॥ ३९.३०२॥ अधस्तात् फलकं योज्य सर्वालङ्कारसंयुताम् । डोलां सम्प्रोक्ष्य चास्त्रेण सर्वालङ्कारसंयुताम् ॥ ३९.३०३॥ फलकोर्ध्वे न्यसेद्देवं शक्तिद्वयसमन्वितम् । नैवेद्यं चैव पानीयं ताम्बूलमपि दापयेत् ॥ ३९.३०४॥ धूपदीपौ ततो दत्वा दत्वा भस्मानि मन्त्रवित् । वाद्यगीतैश्चनृत्तैश्च स्तोत्रः सन्तोषयेद्गुहम् ॥ ३९.३०५॥ नीराजनं ततो दत्वा प्रविशेदालयं सुधीः । प्रभूतहविषं दत्वा ब्राह्मणानपि भोजयेत् ॥ ३९.३०६॥ गुहस्नानार्थमम्भश्च गङ्गातोयसमं भवेत् । गुहपादोदकं पीत्वा सर्वयज्ञफलं भवेत् ॥ ३९.३०७॥ एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् । आर्द्रापूजाविधिः प्रोक्ता पुष्यमासार्चनं श‍ृणु ॥ ३९.३०८॥ इत्यार्द्रापूजाविधिः । पुष्यमासपूजा । पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् । सर्वव्याधिविनाशं च विजयप्रदकारणम् ॥ ३९.३०९॥ आर्द्राऋक्षविधानेन ऋक्षं निश्चित्य मन्त्रवित् । वस्त्रपूतं नवं शुद्धं कृमिदोषविवर्जितम् ॥ ३९.३१०॥ क्षौद्रमादाय मतिमान् शुद्धपात्रे प्रपूरयेत् । अष्टप्रस्थादिविप्रेन्द्र यावन्मानं शिवान्तकम् ॥ ३९.३११॥ शिववृद्ध्या नवं मानं कन्यसादित्रयं मतम् । देवाग्रे स्थण्डिलं कृत्वा क्षौद्रपात्राणि विन्यसेत् ॥ ३९.३१२॥ पुण्याहं वाचयित्वाथ प्रोक्षयेदस्त्रमन्त्रतः । स्कन्दसूक्तेन मन्त्रज्ञः कुमारमेति मन्त्रतः ॥ ३९.३१३॥ मूलब्रह्मषडङ्गैश्च कुर्यात् क्षौद्राभिषेचनम् । वस्त्राभरणमालादीन् दापयेत् हृदाणुना ॥ ३९.३१४॥ नीलोत्पलैश्च पद्मश्च नैरन्तर्यं विभूषयेत् । प्रभूतहविषं दत्त्वा ब्राह्मणानपि भोजयेत् ॥ ३९.३१५॥ एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् । पुष्यमासविधिः प्रोक्ता माघमासविधिं श‍ृणु ॥ ३९.३१६॥ इति पुष्यमासपूजाविधिः । माघमासपूजा । माधमासे मखऋक्षे पूजयेद्धृतकम्बलम् । भूपतिर्जयदं सौम्यं प्राणिनां रोगनाशनम् ॥ ३९.३१७॥ आर्द्राप्रोक्तविधानेन नक्षत्रं ग्राह्यमुत्तमम् । उत्तमं कपिलासर्षिः स्वर्णवर्णगवामपि ॥ ३९.३१८॥ निरोमं नूतनं शुद्धं क्षीरं कीटादिवर्जितम् । तोयैः पात्राणि सम्पूर्य वारुणं बीजमुच्चरन् ॥ ३९.३१९॥ निधाय पात्रं पात्रेषु पिण्डं कृत्वा तदाज्यकम् । कुङ्कुमागरूसंयुक्तं शुद्धपात्रे निधापयेत् ॥ ३९.३२०॥ देवाग्रे स्थण्डिलोर्ध्वे तु पुण्याहप्रोक्षणान्वितम् । घृतपात्राणि विन्यस्य ब्रह्ममूर्त्यङ्गमन्त्रकैः ॥ ३९.३२१॥ पुष्पैरभ्यर्च्य मतिमान् धूपदीपौ हृदा ददेत् । कवचेनावकुण्ठ्यापि प्रातर्मध्याह्न एव वा ॥ ३९.३२२॥ विशेषेणार्च्य सेनान्यमासनावरणैः सह । मूर्धादिपादपर्यन्तमालिप्य च स पीठकम् ॥ ३९.३२३॥ गन्धैर्लिप्यापरं नीत्वा कम्बलेन च वेष्टयेत् । महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ ३९.३२४॥ सन्ध्यान्ते वा परेद्युर्वा कौतुकाद्यं विसृज्य च । विशेषस्नपनं कुर्यात् यथाविसविधिसविस्तरम् ॥ ३९.३२५॥ एवं यः कुरुते मर्त्यः सर्वरोगात् प्रमुच्यते । माघपूजाविधिः प्रोक्ता शिवरात्रिविधिं श‍ृणु ॥ ३९.३२६॥ इति माघमासपूजाविधिः । शिवरात्रिपूजा । तन्मासे कृष्णपक्षे तु विद्यते या चतुर्दशी । तद्रात्रिः शिवरात्रिः स्यात् सर्वपुण्यशुभावहा ॥ ३९.३२७॥ रात्रौ यामद्वयादर्वाक् घटिकैकामहानिशी । तत्स्याच्चतुर्दशी यस्मात्तद्रात्रं शिवरात्रकम् ॥ ३९.३२८॥ मुख्या त्रयोदशीमिश्रा पर्वमिश्राऽधमाधमा । मध्यमा शिवरात्रिः स्यादहोरात्रं चतुर्दशी ॥ ३९.३२९॥ तस्यां पूज्यो महादेवः ब्राह्मगोहितकाङ्क्षिभिः । ईश्वरोवाच- कौशिकेदं शतं सत्यं मत्पूजायाश्चतुर्गुणम् ॥ ३९.३३०॥ अप्येकदन्तसेनान्योः पूजया तोषयाम्यहम् । तस्मात् सर्वप्रयत्नेन तद्रात्रौ पूजयेद्गुहम् ॥ ३९.३३१॥ स्नात्वा नित्यविधिं कृत्वा कुर्याच्छुद्धोपवासकम् । देवेशं गन्धतैलेन पिष्टाद्यैरपि मन्त्रवित् ॥ ३९.३३२॥ गव्यैः पञ्चामृतश्चैव प्रतियामं विशेषतः । विल्वोदैः शुद्धतोयैश्च गन्धोदैः शुद्धतोयकैः ॥ ३९.३३३॥ चन्दनागरुकर्पूरकुङ्कुमैश्च क्रमेण तु । मल्लिकोत्पलपुष्पैश्च जातिपुष्पैश्च बिल्वकैः ॥ ३९.३३४॥ सुवर्णभूषणै रत्नैः प्रवालैर्मौक्तिकैरपि । पायसैः कृसरान्नैश्च यवान्नैश्च गुलान्नकैः ॥ ३९.३३५॥ व्यञ्जनाज्यपयः पूर्णैः प्रतियामं समाहितम् । रम्भाफलेक्षुदण्डैश्च ताम्बूलमपि दापयेत् ॥ ३९.३३६॥ मूलेन स्कन्दसूक्तेन ब्रह्ममूर्त्यङ्गमन्त्रवित् । श्रीरुद्रं चमकेनैव प्रतियामं सुपूजयेत् ॥ ३९.३३७॥ घृतवतिसुदीपांश्च दीपयेत्तोषयेद्गुहम् । जपैः स्तोत्रैः प्रदक्षिण्यैर्नमस्कारैर्महामुने ॥ ३९.३३८॥ रात्रिं जागरतो नीत्वा प्रातःस्नानादिकर्म च । कृत्वा देवं समभ्यर्च्य प्रभूतहविषं ददेत् ॥ ३९.३३९॥ ब्राह्मणान् शिवभक्तांश्च दीनानाथांश्च भोजयेत् । यथाशक्तिसुवर्णादि तेभ्यो दानं प्रयच्छताम् ॥ ३९.३४०॥ एवं यः कुरुते मर्त्यः विमुक्तः सर्वपातकैः । अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ॥ ३९.३४१॥ शिवरात्र्यर्चनं प्रोक्तं श‍ृणु फाल्गुनपूजनम् । इति शिवरात्रिपूजाविधिः । फाल्गुनमासपूजा । फाल्गुने मासि विधिना पूजेदुत्तरफाल्गुने । बालानाञ्च पशूनाञ्च वर्धन्ते मुनिसत्तमाः ॥ ३९.३४२॥ स्नात्वा गोपः पटाद्वक्त्रं बध्वा दुग्ध्वा गवां पयः । देवागारेऽग्निना तप्त्वा दधि कृत्वा पिधानयुक् ॥ ३९.३४३॥ घृतस्योक्तप्रमाणेषु यथालाभं प्रगृह्य च । देवाग्रे स्थण्डिले न्यस्त्वा पुण्याहप्रोक्षणं चरेत् ॥ ३९.३४४॥ पुष्पैरभ्यर्च्य मूलेन ब्रह्ममूर्त्यङ्गमन्त्रकैः । धूपदीपं ततो दत्वा मध्याह्ने पूजयेद्गुहम् ॥ ३९.३४५॥ गव्यैः पञ्चामृतैः स्नात्वा स्कन्दमूलेन मन्त्रवित् । ततः कुमारमातेति मन्त्रेण दधिपूजनम् ॥ ३९.३४६॥ ततो दधिक्राविण्णेति मन्त्रेणैवाभिषेचयेत् । वस्त्रैर्गन्धैश्च पुष्पैश्च भूषणैर्भूषणार्हकैः ॥ ३९.३४७॥ कर्णिकारभवैः पुष्पैर्नैरन्तर्यं विभूषयेत् । प्रभूतहविषं दत्वा ब्राह्मणान् भोजयेत्ततः ॥ ३९.३४८॥ एवं यः कुरुते मर्त्यः समृद्धः पशुमान् भवेत् । प्रोक्तं फाल्गुनपूजा च नवनैवेद्यमुच्यते ॥ ३९.३४९॥ इति फाल्गुनमासपूजाविधिः । नवनैवेद्यम् । सर्वसस्याभिवृद्ध्यर्थं सर्वप्राणिसुखावहम् । प्रीणयेन्नवनैवेद्य विधिना पार्वतीसुतम् ॥ ३९.३५०॥ आषाढकन्यकामासे मार्गशीर्षश्च माघकः । एते त्वशोभना वर्ज्याः शेषमासाः शुभाः स्मृताः ॥ ३९.३५१॥ गर्हितं कृष्णपक्षं स्यात् शुक्लपक्षे समाचरेत् । सप्तमी च द्वितीया च तृतीया पञ्चमी शुभाः ॥ ३९.३५२॥ पूषा मखा च सावित्री श्रविष्ठा वसवस्तथा । विशाखा च वारुणं मूलं सौम्यं चैव प्रजापतिः ॥ ३९.३५३॥ शुभान्न्येतानिऋक्षाणिवर्ज्यान्न्यन्न्यानिसुव्रत । वर्जनीयास्तथामीनमेषकर्कटवृश्चिकाः ॥ ३९.३५४॥ अन्याश्चशुभादाप्रोक्तास्तेषाम्पापंविवर्जयेत् । शुक्रश्चसोमदेवेढ्य वाराश्रेष्ठतमास्म्रुताः ॥ ३९.३५५॥ द्रेकाणदर्शणंहोरा शुभांशाश्शुभदम्भवेत् । सुमुहूर्तांसुनिश्चित्य पूरवेपाण्डरमर्पयेत् ॥ ३९.३५६॥ सर्वातोद्यसमायुक्तं छत्रध्वजसमाकुलम् । धूपदीपसमायुक्तं पालकादिसमन्वितम् ॥ ३९.३५७॥ सुमित्रशक्तिसहितं नानाभक्तजनैयुतम् । पूर्वस्यामुत्तरस्यांवा सस्यक्षेत्रम्प्रविश्यच ॥ ३९.३५८॥ दद्ध्यन्नंवागुलान्नं वादिग्देवानां बलिङ्क्षिपेत् । शाल्यानवपक्वलमान् सङ्ग्रह्यास्त्रेणमन्त्रतः ॥ ३९.३५९॥ शूकभारान्समावाह्य प्रविशेदालयन्ततः । स्नात्वाचोत्सवबेरन्तु भूषयेत्भूषणार्हकैः ॥ ३९.३६०॥ तत्कालसम्भवैः पुष्पैर्नीपपुष्पैर्विशेषतः । सर्वतोद्यसमायुक्तं छत्रध्वजसमायुतम् ॥ ३९.३६१॥ शूकभारसमायुक्तं व्रीहिभारसमायुतम् । नानाविधफलैर्युक्तं नानाधान्यसमन्वितम् ॥ ३९.३६२॥ इक्षुशाखार्द्रशाखाभिर्निशिशाखासमायुतम् । क्रमुकैस्तिलशाखाश्चमरीचीलवणैर्युतम् ॥ ३९.३६३॥ नालीकेराम्रपनसगुलखण्डैस्समन्वितम् । दद्ध्याज्यतैलकुम्भैश्चमुद्गभिन्नघटैर्नवैः ॥ ३९.३६४॥ नानापुष्पसमायुक्तं विप्रादिजनसेवितम् । उत्सवस्वामिनं विद्वान् कुर्याद्ग्रामप्रदक्षिणम् ॥ ३९.३६५॥ प्रविश्यभवनन्तत्रस्वस्थानेस्थाप्यदेवताम् । मण्टपङ्गोमयेनैव लेपयित्वा विभूषयेत् ॥ ३९.३६६॥ (मण्डप) पुण्याहतोयैसम्प्रूक्ष्यतरङ्गेणैवभूषयेत् । तस्योर्द्ध्वविन्यसेच्छूकभारणेतान् पृथक् पृथक् ॥ ३९.३६७॥ देवेशानुज्ञाशूकान् जनेभ्योदापयेत्सुधीः । नवशालियुतन्त्वेक शालीभारमनिन्दितम् ॥ ३९.३६८॥ आदित्यरस्मिभिस्तप्तान् धान्यान्मुसललूखलैः । देवस्यमण्टपेशुद्धेशालिपिष्टैरलङ्कृते ॥ ३९.३६९॥ (मण्डपे) शालिभिस्थण्डिलङ्कृत्वा पद्ममष्टदलंलुखेत् । परिस्तीर्यततोदर्भैः प्रोक्षयेदस्त्रमन्त्रतः ॥ ३९.३७०॥ लूकलन्मुसलन्तत्र विन्यस्यहृदयाणुना । नववस्त्रेणसंवेष्ट्य समभ्यर्च्ययथाविधि ॥ ३९.३७१॥ प्रहृत्य मुसलेनैव बीजमुख्येन देशिकः । चतुर्वर्णोद्भवैस्स्त्रीभिः कुट्टयेत्तदनन्तरम् ॥ ३९.३७२॥ तुषान् विपोह्य शूर्पेस्तु कणकम्बुं च वर्जयेत् । भारादिनवभारान्तं कन्यसादित्रयं त्रयम् ॥ ३९.३७३॥ प्रक्षाल्य तण्डुलं शोध्य नालिकेरगुलान्वितम् । मरीचिजीरकोपेतमिक्षुखण्डसमन्वितम् ॥ ३९.३७४॥ वस्त्राण्यास्तीर्य देवाग्रे शुद्धिं कृत्वा यथारूचि । रम्भापत्राणि तस्योर्ध्वे संस्तीर्य प्रोक्ष्य चास्त्रतः ॥ ३९.३७५॥ तण्डुलं पूरयेत् तत्र गुलान्नं व्यञ्जनैर्युतम् । कन्दमूलफलोपेतं यथाविभवविस्तरम् ॥ ३९.३७६॥ शङ्खदुन्दुभिनिर्वाषैर्वेदध्वनिसमायुतम् । हृदयेन तु मन्त्रेण सुब्रह्मण्याय दापयेत् ॥ ३९.३७७॥ परिवारामराणाञ्च दापयेत्तदनन्तरम् । परिवारबलिं दत्वा महापीठान्तमेव च ॥ ३९.३७८॥ नवपूगफलैर्युक्तं ताम्बूलं दापयेत्ततः । निवेदितन्तु यत्सर्वं सुमित्राय प्रदापयेत् ॥ ३९.३७९॥ विप्रादिसर्वभक्तेभ्यस्तण्डुलं दापयेत्क्रमात् । ब्राह्मणान् भोजयेत्पश्चात् दीनानाथांश्च भोजयेत् ॥ आत्मनो हितमाकाङ्क्षन् य एवं विधिमाचरेत् ॥ ३९.३८०॥ इति श्रीकुमारतन्त्रे मासपूजाविधिर्नाम एकोनचत्वारिंशः पटलः ।

४०. चत्वारिंशत्पटलः - अङ्कुरार्पणविधिः

सर्वमङ्गलमाङ्गल्यं प्रवक्ष्याम्यङ्कुरार्पणम् । अङ्कुरं नयेत्कर्म तत्कर्म निष्फलं भवेत् ॥ ४०.१॥ तस्मान्मङ्गलकर्मदौ कारयेदङ्कुरार्पणम् । अयुगेऽह्निप्रकर्तव्यं कर्मणः पूर्वतो निशि ॥ ४०.२॥ पालिकाघटिकांश्चैव शरावञ्च त्रिधा भवेत् । ईशविष्णुविरिञ्चिश्व तेषामेवाधिपाः स्मृताः ॥ ४०.३॥ सौवर्णं राजतं ताम्रं कांस्यं वा मृण्मयन्तु वा । शरावाणि च सङ्ग्राह्य पिष्टेनैव विमर्शयेत् ॥ ४०.४॥ कालं छिन्नं च सुषिरं भेदच्छेदं जलीमुखम् । निर्दग्धञ्च पुराणञ्च वर्जयेत्तु प्रयत्नतः ॥ ४०.५॥ अश्वत्थं बिल्वपत्रैश्च तन्मध्ये बन्धयेद्दृढम् । पालिकाभ्यन्तरं दर्भैर्निर्च्छिद्रं कारयेद्बुधः ॥ ४०.६॥ गोशकृच्चूर्णसहितैर्मृद्भिः सर्वाणि पूर्य च । प्रत्येक च करे ग्राह्य वाहयित्वाथ भक्तकैः ॥ ४०.७॥ सुमित्रं चास्त्रराजं च सर्वातोद्यसमायुतम् । ग्रामप्रदक्षिणं कृत्वा मृत्सङ्ग्रहणमाचरेत् ॥ ४०.८॥ उत्तमं प्रागुदीची स्यात् मध्यमं पश्चिमं स्मृतम् । अधमं दक्षिणं प्रोक्तं मृत्सग्रहणकर्मणि ॥ ४०.९॥ पुष्पारामे च नद्यां वा तडागे बिल्वमूलके । आलये चैव निश्चित्य गत्वा शुद्धभुवस्थलम् ॥ ४०.१०॥ अस्त्रेण प्रोक्ष्य तद्देशं प्रीणयेद्भुवि नायकम् । पुण्याहं वाचयेत्तत्र गायत्र्या प्रोक्ष्य देशिकः ॥ ४०.११॥ भूपुरं तत्र संलिख्य भूबीजेनार्चयेत् भुवम् । सालङ्कृतं खनित्रं च विन्यस्यास्त्रण पूजयेत् ॥ ४०.१२॥ धूपदीपं ततो दत्वा मृदं सङ्ग्राह्य देशिकः । गन्धद्वारेति मन्त्रेण स्थालिकायां गृहेन्मृदम् ॥ ४०.१३॥ संरक्ष्यास्त्रेण सञ्छाद्य गणिकाभिस्तु वाहयेत् । तध्यवभ्रं च चतुः शालिबीजैः सम्पूज्य देशिकः ॥ ४०.१४॥ प्रविशेदालयं पश्चादङ्कुरार्पणमाचरेत् । प्रासादस्याग्रके वाऽपि दक्षिणे चोत्तरेऽपि वा ॥ ४०.१५॥ गोमयालेपिते शुद्धे मण्डपे समलङ्कृते । प्राक्सूत्रं पञ्चसूत्रं स्यादुदक्सूत्रं तथैव च ॥ ४०.१६॥ मध्ये चतुष्पदं त्यक्त्वा स्थण्डिलं तत्र कल्पयेत् । ससूत्रं सापिधानं च द्रोणोदकप्रपूरितम् ॥ ४०.१७॥ कुम्भं न्यस्त्वार्चयेत् सोममोषधीशं महामुने । शरावं पालिकां चैव घटिकां च यथाक्रमम् ॥ ४०.१८॥ शरावादि क्रमान् न्यस्त्वा हृदयेन तु मन्त्रतः । सङ्गृह्य तन्मृदं चैव पालिकादीनि पूरयेत् ॥ ४०.१९॥ मध्ये ग्रन्थिं पवित्रं च तेषां मध्ये न्यसेद् बुधः । वैवस्वतो विवस्वांश्च रविर्मार्ताण्डभास्करः ॥ ४०.२०॥ लोकप्रकाशकश्चैव लोकसाक्षित्रिविक्रमः । आदित्यश्चैव सूर्यश्च अंशुमाली दिवाकरः ॥ ४०.२१॥ दिशैता द्वादशादित्यानीशानादियथाक्रमम् । आसनैर्मूर्तिमूलैर्वा पूजयेत् स्वस्वनामभिः ॥ ४०.२२॥ तिलसर्षपनिष्पावमापमुद्गं चणं तथा । कुलुत्थं शाल्यपामार्ग श्यामाकां च प्रियङ्गवम् ॥ ४०.२३॥ यवद्वादशधान्यानि क्षीरोक्षानि च वापयेत् । या जाता इति मन्त्रेण ओषधीमभिमन्त्र्य च ॥ ४०.२४॥ यथान्यायं समभ्यर्च्य धूपदीपं प्रदापयेत् । पायसं शशिने द्वादशादित्येभ्यः प्रदापयेत् ॥ ४०.२५॥ दत्वा तेभ्यश्च ताम्बूलं जनेभ्यो दापयेत्ततः । हृदयेन तु मन्त्रेण गुरुर्बीजादिवापयेत् ॥ ४०.२६॥ तत्रस्था ब्राह्मणाः शैवशङ्करादि यथाक्रमम् । हृदास्त्रेण विधायात्र सेचयेत्कुम्भतोयकैः ॥ ४०.२७॥ यावत्कर्मादिकं तावत् सुगुप्तान्यङ्कुराणि तु । अङ्कुरं चोर्ध्वग चैव पूण चेत्तु शुभावहम् ॥ ४०.२८॥ अपूर्णानि च कुब्जानि वक्रतिर्यगतानि च । श्यामलानि च शू यानि मूषिकभक्षितानि वै ॥ ४०.२९॥ अङ्कुराण्यशुभान्यत्र तद्दोषशमनाय च । अस्त्रेणैव शतं जप्त्वा घृतेनैव शतं हुनेत् ॥ ४०.३०॥ ग्रामप्रदक्षिणं कुर्यात् तीर्थाङ्कुरमनिन्दितम् । अङ्कुराणि च कर्मान्ते पयसाऽप्लाव्य बुद्धिमान् ॥ ४०.३१॥ वाहयित्वा विधानज्ञस्सन्त्यजेत्तु जलाशये । चतुर्विंशतिपक्षे तु प्रत्येकं चाष्टकं ग्रहेत् ॥ ४०.३२॥ प्राक्सूत्रं वसुसूत्रं स्यादुदवसूत्रं तथैव च । मध्ये व्योमपदं ग्राह्य लोपयेदभितोऽष्टकम् ॥ ४०.३३॥ त्रिकोणाभ्यन्तरे मूर्त्या चतुर्दिक्षुक्रमाद्बुधः । द्वारार्थञ्च महाशासु पदमेकं परित्यजेत् ॥ ४०.३४॥ स्थण्डिलं कारयेत्तत्र तिलतण्डुलशालिभिः । तस्य मध्ये लिखेत्पद्मं साष्टपत्र सकर्णिकम् ॥ ४०.३५॥ स्थापयेत्कर्णिकामध्ये चन्द्रकुम्भं नवं शुभम् । पालिके द्वे न्यसेद्धीमान् द्वाराणां पार्श्वयोर्बुधः ॥ ४०.३६॥ विन्यसेद्घटिके द्वे च कोणेष्वेवं पदद्वये । शेषेषु च शरावाणि स्थापयेद्धृदयेन तु ॥ ४०.३७॥ पूजयित्वा यथान्यायं भागान्दिक्पालकान्वसून् । वस्त्रेणाच्छाद्य परितः दर्भैश्चैव परिस्तरेत् ॥ ४०.३८॥ शेषं पूर्ववदुद्दिष्टं विश्वामित्र महामुने । कर्मणामभिवृद्ध्यर्थं कर्माङ्गं मङ्गलाङ्कुरम् ॥ एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ॥ ४०.३९॥ इति श्रीकुमारतन्त्रे अङ्कुरार्पणविधिर्नामचत्वारिंशत्पटलः ।

४१. एकचत्वारिंशत्पटलः - महावल्लीदेवसेनास्थापनविधिः

महावल्लीदेवसेनास्थापनं श‍ृणु सुव्रत । स्कन्दस्य दक्षिणे वामे शक्तिगेहं प्रकल्पयेत् ॥ ४१.१॥ सर्वसम्पत्करं पुण्यं सर्वमङ्गलकारकम् । स्कन्दस्य कर्णसीमान्तं बाहुसीमान्तमेव वा ॥ ४१.२॥ स्तनसीमान्तमुत्तुङ्गमुत्तमं मध्यमाधमम् । मध्यमं दशतालेन मानोन्मानादि कारयेत् ॥ ४१.३॥ सर्वलक्षणसम्पूर्णं स्निग्धगात्रं सुयौवनम् । लोहजं शैलजं चैव दारुजं मृण्मयं तु वा ॥ ४१.४॥ आयादिशुद्धसंयुक्तं सर्वाभरणभूषितम् । कुञ्चितं समपादं तु सव्यपादं प्रलम्बितम् ॥ ४१.५॥ पद्मधृत् वामहस्तं च दक्षहस्तं प्रलम्बितम् । श्यामवर्णं विशालाङ्गं महावल्लीस्वरूपकम् ॥ ४१.६॥ वामपादस्थितं चैव सव्यपादं तु कुञ्चितम् । पद्मधृत् सव्यहस्तं च वामहस्तं प्रलम्बितम् ॥ ४१.७॥ रक्तवर्णं विशालाक्षं देवसेनास्वरूपकम् । एवं सङ्कल्प्य मतिमान् प्रतिष्ठामाचरेत्ततः ॥ ४१.८॥ उत्तरायणकाले तु शुक्लपक्षे शुभे दिने । तिथिवारादिभिर्युक्ते सुलग्ने चैव कारयेत् ॥ ४१.९॥ प्रसादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् । दशाङ्गतालमायामं षोडशस्तभ्भसंयुतम् ॥ ४१.१०॥ पङ्क्तित्रयसमायुक्तं चतुर्द्वारसमन्वितम् । तत्त्रिभागैकतो मध्ये वेदीदर्पणसन्निभाम् ॥ ४१.११॥ कुण्डानि च चतुर्दिक्षु पद्माकाराणि कारयेत् । प्रधानकुण्डमैशान्ये योन्याकारं प्रकल्पयेत् ॥ ४१.१२॥ एकांशं योनिकुण्डं स्यात् वेदिपूर्वं विधीयते । मेखलात्रयसंयुक्तं नाभियुक् योनिनैव च ॥ ४१.१३॥ तदर्धमायतं कुर्यात्तद्वामे स्नानमण्डपम् । तन्मध्ये वेदिकां कुर्यात्तालमात्रसमायतम् ॥ ४१.१४॥ स्थण्डिलं वेदिकोर्ध्वे तु तिलतण्डुलशालिभिः । कृत्वा सम्प्रोक्ष्य चास्त्रेण बेरं तत्रैव विन्यसेत् ॥ ४१.१५॥ शैलजे रत्नविन्यासं प्रतिष्ठाकाल एव च । दक्षिणे च महावल्लीं देवसेनां तदुत्तरे ॥ ४१.१६॥ न्यस्त्वाऽथ रत्नविन्यासं कारयेद्विधिपूर्वकम् । यथा दृढतरं सम्यक् कारयेच्छिल्पिना बुधः ॥ ४१.१७॥ नयनोन्मीलनं कुर्यात् नेत्रयुग्मयुते दिने । स्वर्णसूचीप्रहाराभ्यां दृष्टिमण्डलमालिखेत् ॥ ४१.१८॥ कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् । विसृज्य शिल्पिनं धीमान् स्वर्णदूर्वाङ्कुरैरपि ॥ ४१.१९॥ नेत्रद्वारं विलिख्याथ नेत्रमुद्रां प्रदर्शयेत् । मधुवाता ऋतायेति तर्पयेन्मधुना दृशम् ॥ ४१.२०॥ घृतं मिमिक्षेति मन्त्रेण घृतेनैव तु तर्पयेत् । आप्यायस्वेति मन्त्रेण क्षीरेणैव तु तर्पयेत् ॥ ४१.२१॥ सुवर्णं रजतं ताम्रं कांस्यं मध्वाज्यपात्रकम् । प्रस्थं प्रस्थेन सम्पूर्णं सर्वेषां कांस्यमेव च ॥ ४१.२२॥ गोर्धेनुहव्यमन्त्रेण सवत्सां गां प्रदर्शयेत् । ब्रह्मजज्ञानमन्त्रेण ब्राह्मणानपि दर्शयेत् ॥ ४१.२३॥ प्रच्छन्नपटमावर्ज्य जनान् सर्वान् प्रदर्शयेत् । अष्टमृत्सलिलेन व पञ्चत्ववसलिलेन च ॥ ४१.२४॥ कारयेत्प्रतिमाशुद्धिं शुद्धिश्शुद्धिरिति ब्रुवन् । आपोहिष्ठामयेनेति पवमानैश्च पञ्चभिः ॥ ४१.२५॥ सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् । स्वस्तिवाचसमश्चेति सन्निवेश्य यथा बलम् ॥ ४१.२६॥ ग्रामप्रदक्षिणं कुर्यात् सर्वभक्तजनैः सहः । ततो जलाशयं प्राप्य तीरे समतले शुभे ॥ ४१.२७॥ प्रोक्षयेदस्त्रमन्त्रेण बेरं तत्रैव विन्यसेत् । कूर्चं शिरसि बध्वा तु वस्त्रयुग्मेन वेष्टयेत् ॥ ४१.२८॥ जलमध्ये प्रपायुक्तं कृत्वा पीठद्वयेन्यसेत् । ऋगाद्यध्ययनं कुर्वन् द्विजैः प्रागादिदिक्षु च ॥ ४१.२९॥ एकरात्रं द्विरात्रं वा त्रिरात्रमपि वासयेत् । यागशालां गुरुर्गत्वा प्राक्षयेदस्त्रमन्त्रतः ॥ ४१.३०॥ दर्भमाल्यैरलङ्कृत्य वितानस्तम्भवेष्टनैः । पुण्याहप्रोक्षणं कुर्यात् स्थण्डिलं वेदिकोपरि ॥ ४१.३१॥ अष्टद्रोणैः शालिभिश्च तदर्धैस्तण्डुलैरपि । तदर्धैश्च तिलैश्चैव कृत्वा पद्मस्य मालिकाम् ॥ ४१.३२॥ दर्भैरास्त्रीर्यशयनमण्डलाद्यैः प्रकल्पयेत् । पर्यग्निकरणं कुर्यात् वास्तुहोमेन वह्निना ॥ ४१.३३॥ प्रक्षिप्य विकिरान् मन्त्री मण्डपं शुद्धिमाचरेत् । जलादुत्तीर्य शक्ती द्वे स्नानवेद्युपरिन्यसेत् ॥ ४१.३४॥ कर्तव्यं प्रतिमाशुद्धिं पवमानमुदीरयन् । महावल्लीं देवसेनां कौतुकं बन्धयेत् बुधः ॥ ४१.३५॥ शयने शाययेद्देवीं प्राक्शिरश्चोर्ध्ववक्त्रकम् । नववस्त्रेण सञ्छाद्य गन्धपुष्पादिनार्चयेत् ॥ ४१.३६॥ द्रोणतोयेन सम्पूर्णं सकूर्चं सापिधानकम् । हेमवस्त्रसमायुक्तं गन्धाद्यैः परिपूरितम् ॥ ४१.३७॥ वर्धनीद्वयमादाय शिरोभागे निधापयेत् । तदर्धमात्रवर्धन्याः प्रागाद्यष्टौ न्यसेततः ॥ ४१.३८॥ दक्षिणस्थितवर्धन्यां महावल्लीं स्वबीजतः । उत्तरस्थितवर्धन्यां देवसेनां स्वबीजतः ॥ ४१.३९॥ आवाह्य गन्धपुष्पाद्यैस्तदङ्गानि च पूजयेत् । उषा च प्रत्युषा चैव सती च सत्वती तथा ॥ ४१.४०॥ स्वधा विश्वमुखी चैव सुराध्यक्षा सरस्वती । देवसेना महावल्ल्योरेताश्चैवाष्टमूर्तयः ॥ ४१.४१॥ वराम्बुजकरा स्थूला स्वस्वनामाभिरर्चयेत् । धूपदीपं ततो दत्त्वा पायसं तु निवेदयेत् ॥ ४१.४२॥ द्वारद्वाराधिपानिष्ट्वा सास्त्रान् दिक्पालकानपि । अग्निकार्योक्तमार्गेण नामकर्मान्तमाचरेत् ॥ ४१.४३॥ कुण्डमध्ये यजेद्देवीं तत्र मूलाङ्गमन्त्रकैः । पलाशखादिराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ४१.४४॥ प्रधानस्य पलाशः स्यात् समिधः सम्प्रकीर्तितः । समिदाज्य चरूंश्चैव लाजसक्तुतिलानि च ॥ ४१.४५॥ सर्षपं माषमुद्गं च प्रियङगुमधुपायसम् । मूलसद्यादि चास्त्रान्तर्मन्त्रैर्होमं समाचरेत् ॥ ४१.४६॥ द्रव्यान्ते व्याहृतीर्हुत्वा स्पृष्ट्वा स्पृष्ट्वा हुनेद्गुरुः । शतमर्धं तदर्धं वा देवीभ्यां प्रतिहोमयेत् ॥ ४१.४७॥ देवसेनामहावल्ल्योः गायत्र्या हविषा हुनेत् । गौरीमिमाय मन्त्रेण द्वादशाहुतिमाचरेत् ॥ ४१.४८॥ दिशास्वध्ययनं कुर्यात् चतुर्वेदान् द्विजोत्तमैः । स्विष्टकृच्च हुनेत्तेन मूलात्पूर्णाहुतिं हुनेत् ॥ ४१.४९॥ प्रातः स्नानादिकं कृत्वा सन्ध्यानुष्ठानकर्म च । औपासनञ्च कृत्वाथ मण्डपं प्रविशेद्गुरुः ॥ ४१.५०॥ पादौ प्रक्षाल्य चाचम्य बेरपूजां विधाय च । सामान्यार्घ्यकरो मन्त्री द्वारद्वाराधिपान् यजेत् ॥ ४१.५१॥ विशेषार्घ्यं ततः कल्प्य तेनैव प्रोक्ष्य वर्धनीम् । प्राग्वदभ्यर्च्य वर्धन्यैर्गन्धपुष्पादिभिर्गुरुः ॥ ४१.५२॥ कुण्डाधिदेवान् सम्पूज्य परिषिच्य यथाविधि । जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४१.५३॥ वह्नेर्देव्यौ समादाय वर्धन्योर्विन्यसेत् पृथक् । शयनात् बिम्बमुत्थाप्य तत्तद्धृदयमन्त्रतः ॥ ४१.५४॥ स्नानवेद्युपरिन्यस्त्त्वा पूजयेद्बिल्वतोयकैः । स्कन्दसूक्तेन मन्त्रेण ततो गौरी मिमेति च ॥ ४१.५५॥ दुर्गान्देवीति मन्त्रेण गायत्र्याभ्यर्च्य धूपयेत् । वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः ॥ ४१.५६॥ सुलग्ने सुमुहूर्ते च यजमानानुकूलके । स्थापयेत्तु महावल्लीं स्कन्ददक्षिणपार्श्वके ॥ ४१.५७॥ वामपार्श्वे महासेनां स्थापयेत्तु यथा दृढम् । किञ्चिद् गुहाभिवक्त्रे च स्थाप्य शिल्पिनमुत्सृजेत् ॥ ४१.५८॥ शान्तिकुम्भजलेनैव प्रोक्षयेन्मुनिपुङ्गव । वर्धनीद्वयमादाय कृत्वा धामप्रदक्षिणम् ॥ ४१.५९॥ तत्तदग्रे तु विन्यस्य वर्धनीद्वयमेव च । प्रत्येकमक्षरन्यासं कारयेद् विधिना बुधः ॥ ४१.६०॥ पूर्वमेव महावल्लीं देवसेनां ततः परम् । वर्धन्योर्बीजमादाय विन्यसेत् स्वस्वचूचुके ॥ ४१.६१॥ वर्धनीसलिलैः पूज्य कुर्यात् प्राणप्रतिष्ठिकाम् । वर्धन्यष्टाम्बुभिः पीठे प्रागादिष्वभिषेचयेत् ॥ ४१.६२॥ गन्धपुष्पादिनाभ्यर्च्य प्रभूतहविषं ददेत् । प्रायश्चित्तार्थमस्त्रेण शतमष्टोत्तरं हुनेत् ॥ ४१.६३॥ आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः । यागोपकरणं सर्वं देशिकाय प्रदापयेत् ॥ ४१.६४॥ उत्तमं दशनिष्कं तु मध्यमं तु तदर्धकम् । तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ ४१.६५॥ निष्कद्वयेन मतिमान् मूर्तिमान् सम्प्रपूजयेत् । जापकान् वास्तुहोतारं शिल्पिनं प्रीणयेत् ततः ॥ ४१.६६॥ ब्राह्मणान् भोजयेत् पश्चात् दीनानाथांश्च भोजयेत् । ततः स्कन्दस्य देव्योश्च कुर्यादुद्वाह कर्म च ॥ ४१.६७॥ मालिकां दापयेत् तेषां मालां हस्तैः परस्परम् । महावल्ली पिता कृष्णो देवसेना गुरुर्वृषा ॥ ४१.६८॥ एताभ्यां कारयेन्मन्त्री विध्युक्तं सर्वकर्म च । तेषां प्रक्षाल्य पादौ च वस्त्रैः स्वैर्मन्त्रशास्त्रवित् ॥ ४१.६९॥ स्वसूक्तेनैव मतिमान् कर्म वैवाहिकं चरेत् । शक्तिद्वयं समासाद्य प्रत्येकं मन्त्रवाससा ॥ ४१.७०॥ चतुर्मुखः पुरोधाश्च दातारौ कृष्णवज्रिणौ । मङ्गल्यतन्तुनानेन माङ्गल्यं कारयेद् बुधः ॥ ४१.७१॥ स्वसूक्तेन विधानेन कर्म वैवाहिकं हुनेत् । महावल्ल्यायुतः कामो वसन्ते देवसेनया ॥ ४१.७२॥ एताभ्यां लाजदानं च कुर्याल्लाजान् स्वमन्त्रतः । जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४१.७३॥ पूर्णाहुतिं ततः कुर्यात् मूलमन्त्रेण मन्त्रवित् । ताम्बूलं दापयेत् तत्र जनेभ्यश्च यथाक्रमम् ॥ ४१.७४॥ शुद्धान्नं पायसं मौद्गं गुलान्नं च तिलान्नकम् । प्रियङ्ग्वन्नं च मधुना सूपापूपैः फलैः सह ॥ ४१.७५॥ दत्वा देवाय देवीभ्यां ब्राह्मणानपि भोजयेत् । चन्द्रार्कतारकं यावत् मन्त्रादिशक्तिभिः सह ॥ ४१.७६॥ युवाभ्यां स्वेच्छया देव्यौ स्थातव्यमिह मन्दिरे । इति विज्ञाप्य नत्वाथ प्रार्थयेदर्थमीप्सितम् ॥ ४१.७७॥ चतुर्थे दिवसे पश्चात् पञ्चमेऽहनि वा पुनः । शेषहोमं स्वसूत्रेण कारयेन्मुनिपुङ्गव ॥ ४१.७८॥ स्नपनं कारयेदन्ते यथाविभवविस्तरम् । एवं यः कुरुते मर्त्यः पुत्रपौत्रकलत्रकैः ॥ सर्वान् कामानिह प्राप्य देहान्ते मुक्तिमाप्नुयात् ॥ ४१.७९॥ इति श्रीकुमारतन्त्रे महावल्लीदेवसेनास्थापनविधिर्नाम एकचत्वारिंशत्पटलः ।

४२. द्विचत्वारिंशत्पटलः - सुमित्रस्थापनविधिः

सुमित्रस्थापनं वक्ष्ये श‍ृणु कौशिक सुव्रत । उक्त्वैव जननं पूर्वे प्रतिष्ठां च ततः परम् ॥ ४२.१॥ वसिष्ठगोत्रो स्वर्णाक्ष पुत्रः काशीपुरे वसन् । त्रिजन्मसु पुरा स्कन्दं समभ्यर्च्य यथाविधि ॥ ४२.२॥ सुमित्र इति सेनान्या प्रोक्तः प्रीतेन देवलः । सुब्रह्मण्यस्य सामीप्ये गाणपत्यमवाप्तवान् ॥ ४२.३॥ मूलबेरार्थमत्यर्धं पञ्चांशं द्व्यर्धमेव च । पञ्चाशं मुनिभागे च द्वात्रिंशे द्व्यंशमेव वा ॥ ४२.४॥ उत्तमं नवतालेन सुमित्रं कारयेद्बुधः । द्विनेत्रं द्विभुजं रक्तं सुवक्त्रं च सुयौवनम् ॥ ४२.५॥ दक्षिणे शक्तिहस्तं च वामं च कटिबन्धनम् । अलकं ज्योतिसंयुक्तं दंष्ट्रिणं रुचिराननम् ॥ ४२.६॥ करण्डमकुटं वाऽपि जटामकुटमेव वा । हस्तौ मुकुलवद्बद्धौ दक्षिणं शक्तिसंयुतम् ॥ ४२.७॥ सर्वाभरणसंयुक्तमासनस्थानकं तु वा । यज्ञोपवीतसंयुक्तं पद्मपीठोपरिस्थितम् ॥ ४२.८॥ इत्थं रूपं सुमित्रस्य गुहेन विहितं पुरा । लोहेन शिलया चैव कारयेन्मुनिपुङ्गव ॥ ४२.९॥ प्रासादार्धं तदर्धं वाप्यैशान्ये तस्य गेहकम् । एवं सङ्कल्प्य मतिमान् स्थापनं सम्यगाचरेत् ॥ ४२.१०॥ षान्तं षष्ठस्वरोपेतं सुमित्रस्यैव बीजकम् । उत्तरायणकाले तु शुक्लपक्षे शुभेदिने ॥ ४२.११॥ प्रासादस्याग्रके वाऽपि पश्चिमे चोत्तरेपि वा । षोडशद्वादशस्तम्भयुक्तं मण्डपमाचरेत् ॥ ४२.१२॥ कृत्वाऽथ वेदिकामध्ये तत्त्रिभागैकभागेतः । चतुरश्रं चतुर्दिक्षु प्रधानं तु षडश्रकम् ॥ ४२.१३॥ नाभियोनिसमायुक्तं सर्वलक्षणसंयुतम् । मण्डपं समलङ्कृत्य वितानस्तम्भवेष्टनैः ॥ ४२.१४॥ दर्भमालासमायुक्तं दशायुधसमायुतम् । उत्तरे स्नानवेदिं तु तदर्धेनैव कारयेत् ॥ ४२.१५॥ रत्नन्यासं यथान्यायं सुदृढं कारयेद्बुधः । नयनोन्मीलनं कुर्यान्नेत्रयुग्मदिने शुभे ॥ ४२.१६॥ बेरशुद्धिं ततः कृत्वा कुर्याद्ग्रामप्रदक्षिणम् । एकरात्रं त्रिरात्रं वा जले चैवाधिवासयेत् ॥ ४२.१७॥ स्थण्डिलं वेदिकोर्ध्वे तु कल्पयेच्छालितण्डुलैः । शयनं कल्पयेद्विद्वानण्डजाद्यैरनुक्रमात् ॥ ४२.१८॥ जलादुत्तीर्य विमलतुङ्गवेद्युपरिन्यसेत् । अष्टमृत्सलिलैर्विद्वान् तल्लिङ्गेनाभिषेचयेत् ॥ ४२.१९॥ कौतुकं बन्धयित्वाथ गन्धमाल्यैर्विभूषयेत् । शयने शाययेद्बिम्बं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ४२.२०॥ नववस्त्रद्वयेनैव छादयेत्तु सुमित्रकम् । षट्सूत्रं सापिधानञ्च सवस्त्रं हेमसंयुतम् ॥ ४२.२१॥ सुमित्रस्य शिरोभागे स्थापयेत्कुम्भमुत्तमम् । तस्मिन् सुमित्रमावाह्य स्वबीजं साङ्गमुच्चरेत् ॥ ४२.२२॥ अभितः कलशानष्टौ न्यसेत् प्रागाद्यनुक्रमात् । इन्द्रादिलोकपालांश्च स्वस्वनामभिरर्चयेत् ॥ ४२.२३॥ अर्चयित्वा सुगन्धांश्च नैवेद्यं दापयेत्ततः । वास्तुहोमं ततः कृत्वा पर्यग्निकरणं ततः ॥ ४२.२४॥ समिदाज्य चरुं लाजं सक्तुचैव तिलानपि । मुद्गं सुमित्रमूलेन षडङ्गेनैव होमयेत् ॥ ४२.२५॥ तदर्धं वा तदर्धं वा द्रव्यान्ते व्याहृतिं हुनेत् । स्पृष्ट्वा स्पृष्ट्वा विशेषेण हृदापूर्णाहुतिं हुनेत् ॥ ४२.२६॥ प्रातः स्नात्वा तु विधिवत्कृतनित्यविधिर्गुरुः । प्राक् शिरोऽर्पणकं कुर्यात् हेमदूर्वाङ्कुराक्षतैः ॥ ४२.२७॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् । स्नानवेद्यां चलं बेरमचलं मानुषे पदे ॥ ४२.२८॥ संस्थाप्य स्थापयेद्विद्वानष्टमृत्सलिलेन च । आपोहिष्ठेति मन्त्रेण पावमानेन वा पुनः ॥ ४२.२९॥ अभ्यसेत् षडक्षरं न्यासं ब्रह्माङ्गानि ततः परम् । कुम्भमादाय मतिमान् कृत्वा धामप्रदक्षिणम् ॥ ४२.३०॥ बेराग्रे स्थण्डिले न्यस्त्वा सुमुहूर्ते सुलग्नकै । कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ ४२.३१॥ प्राणप्रतिष्ठकां कुर्यात् यथाविधि समाहितः । अर्चयेद्गन्धपुष्पाद्यर्धूपदीपैः प्रदापयेत् ॥ ४२.३२॥ आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः । उत्तमं दशनिष्कन्तु मध्यमन्तु तदर्धकम् ॥ ४२.३३॥ तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा । ब्राह्मणान् भोजयेत्पश्चाच्छिवभक्तांश्च वैदिकान् । एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४२.३४॥ इति श्रीकुमारतन्त्रे सुमित्रस्थापनविधिर्नामद्विचत्वारिंशत्पटलः ॥

४३. त्रिचत्वारिंशत्पटलः - गजस्थापनविधिः

अतः परं प्रवक्ष्यामि गजस्थापनमुत्तमम् । गजं वा स्वमयूरं वा स्थापनीयं गुहाग्रतः ॥ ४३.१॥ अन्तरावरणे प्रोक्ता देवाभिमुखमासनम् । त्रिविधं स्थानकं प्रोक्तं शैलं लोहसुधामयम् ॥ ४३.२॥ लोहजं शैलजं बेरं स्थानकं परिचक्षते । सुधामयन्तु कर्तव्यं शयनं मुनिपुङ्गव ॥ ४३.३॥ उत्तमं लोहजं प्रोक्तं शैलजं मध्यमं भवेत् । सुधामयं कनिष्ठंस्यात्फलं कर्तुः प्रचक्षते ॥ ४३.४॥ द्वारोत्सेधं चतुर्थांशमर्धपादोनमेव च । समं वा द्विगुणं वाऽपि त्रिगुणं वा विशेषतः ॥ ४३.५॥ षट्तालेन तु कर्तव्यं पञ्चतालेन वा मतम् । ऐरावतकुले जातं श्वेतरूपं महाबलम् ॥ ४३.६॥ चतुःश‍ृङ्गं द्विश‍ृङ्गं वा गजलक्षणसंयुतम् । मयूरमुत्तमं पूर्वं प्रोक्तं तद्वत्समाचरेत् ॥ ४३.७॥ चतुर्द्वारसमायुक्तं शिखरेण समन्वितम् । गजस्यायतनं प्रोक्तं पीठाग्रे परिकल्पयेत् ॥ ४३.८॥ प्रासादाग्रेऽथपूर्वे वा दक्षिणे चोत्तरेऽपि वा । पञ्चादिनवहस्तान्तं मण्डपस्य विशालकम् ॥ ४३.९॥ षोडशस्तम्भसंयुक्तं चतुस्तोरणसंयुतम् । तन्मध्ये वेदिकां कुर्यादुपवेदिसमन्वितम् ॥ ४३.१०॥ तत्पूर्वे कुण्डमेकन्तु चतुरश्रं प्रकल्पयेत् । अङ्कुरार्पणमादौ तु रत्नन्यासं ततः परम् ॥ ४३.११॥ नयनोन्मीलनं बेरशुद्धिं ग्रामप्रदक्षिणम् । जलाधिवासनं पश्चात् शयनं विधिना पुरः ॥ ४३.१२॥ शयने शाययेद्बेरं प्राक्शिरोत्तरवक्त्रकम् । कौतुकं बन्धयेत्कण्ठे नैवेद्यं दापयेत्ततः ॥ ४३.१३॥ कुम्भं तस्य शिरोभागे सर्वोपकरणान्वितम् । न्यस्त्वा गजं समावाह्य गजमूलेन मन्त्रवित् ॥ ४३.१४॥ परितः कलशाष्टेषु लोकपालान् समर्चयेत् । त्रिखण्डकल्पनां कृत्वा जानुकण्ठशिरोऽवधि ॥ ४३.१५॥ गजात्मविद्यासशिवतत्त्वं सेश्वरमर्चयेत् । शिवाग्निं विधिना कृत्वा ततो होमं समाचरेत् ॥ ४३.१६॥ अश्वत्थकं शमीवृक्षं घृतलाजोदनैस्तिलैः । यवैर्माषैश्च जुहुयात् गजमूलषडङ्गकैः ॥ ४३.१७॥ गजगायत्रिणा चैव सहस्रन्तु तदर्धकम् । प्रतिद्रव्यं हृदेनैव द्रव्यान्ते व्याहृतिं हुनेत् ॥ ४३.१८॥ ब्रह्ममूर्त्यङ्गमन्त्रैश्च होमयेन्मन्त्रवित्तमः । प्रातः स्नात्वाथ विधिवत् कृतनित्यविधिर्गुरुः ॥ ४३.१९॥ जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् । पूर्णाहुतिञ्च शिरसा कृत्वाग्निञ्च विसर्जयेत् ॥ ४३.२०॥ शयनाद्गजमुत्थाप्य स्थाप्य तद्गेहमध्यमे । कुम्भाद्बीजं गजश‍ृङ्गे विन्यसेन्न्यासपूर्वकम् ॥ ४३.२१॥ गन्धपुष्पादिनाभ्यर्च्य मुद्गान्नं दापयेद्गुरुः । ब्राह्मणान् भोजयेत्पश्चात् वित्तशाढ्यं न कारयेत् ॥ ४३.२२॥ प्रदक्षिणे तु मतिमान् गजयुक्तं समाचरेत् । परिवारामरान् सर्वान् युक्तं वाऽथ विमुक्तकम् । एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् ॥ ४३.२३॥ इति श्रीकुमारतन्त्रे गजस्थापनविधिर्नाम त्रिचत्वारिंशत्पटलः ।

४४. चतुश्चत्वारिंशत्पटलः - रथप्रतिष्ठाविधिः

रथप्रतिष्ठां वक्ष्येऽहं तल्लक्षणपुरः सरम् । रथोऽनेकविधः प्रोक्तः सलक्षणविभेदतः ॥ ४४.१॥ विजयं चैव कान्तञ्च श्रीकेशश्च विशालकम् । निभद्रं श्रीविशालञ्च भद्रं भद्रविशालकम् ॥ ४४.२॥ एवमष्टविधं प्रोक्तं विश्वामित्र महामुने । त्रिचक्रात् दशचक्रान्तं विजयादि यथाक्रमम् ॥ ४४.३॥ त्रिविधस्य समारभ्य षट् षडङ्गुलवर्धनात् । निष्कम्पकावसानन्तु त्रिपञ्चाङ्घ्रिविशालकम् ॥ ४४.४॥ चक्रतारत्रिभागैकं पञ्चभागाद्विभागकम् । षड्भागे तु त्रिभागञ्च मध्ये कुक्षिविशालकम् ॥ ४४.५॥ कुक्षिद्विलक्षणं तारं चतुर्भागैकमेव च । पञ्चमांशैकभागञ्च तन्मध्ये नाभिविस्तृतम् ॥ ४४.६॥ अथवाङ्गुलमानेन नाभेर्मानं प्रचक्षते । चतुरङ्गुलमारभ्य चैकाङ्गुलविवर्धनात् ॥ ४४.७॥ एकादशाङ्गुलान्तं स्यादष्टाधानादि विस्तृतम् । चित्रवृत्तं यथा नाभेश्चाक्षाग्रस्य प्रवेशनम् ॥ ४४.८॥ वृक्षैकेन विना चक्रं कारयेद्बहुवृक्षकैः । त्रिद्रव्यैर्योजयेच्चक्रं पञ्चद्रव्येण वा मतम् ॥ ४४.९॥ दारुकीलेन युञ्जीयादधः पट्टेन बन्धयेत् । द्रारुपट्टिकया युक्तं यथाबलवशं तथा ॥ ४४.१०॥ भारबाह्यन्तरं चक्रं युक्त्या युञ्जीत बुद्धिमान् । सपादकिष्कुमारभ्य षट्पडङ्गुलिवर्धयेत् ॥ ४४.११॥ भारस्य रुद्रकिष्कं तत् चत्वारिंशत्प्रमाणकम् । भारबाह्येतरे मध्ये त्रिविधं मानमूहयेत् ॥ ४४.१२॥ भारञ्च त्रिचतुःपञ्चसप्तमं मुनिसत्तम । वेदाङ्गुलादिरुद्रान्तं भारतारं धनं क्रमात् ॥ ४४.१३॥ भारतारसमायामं सपादं सार्धमेव च । पादोशद्विगुणायारं द्विगुणायाममेव च ॥ ४४.१४॥ सपादद्विगुणायामं द्विगुणार्धमथापि वा । त्रिपादद्विगुणं वाऽपि त्रिगुणं भारमायतम् ॥ ४४.१५॥ एवं नवविधं प्रोक्तमिष्टायामं परिग्रहेत् । तद्भारञ्च ललाटे च पट्टिका योजयेद्दृढम् ॥ ४४.१६॥ भारस्यार्धं विशालोच्चं तस्याधो चोपधारकम् । उपधानादयो देशे चाक्षं तिर्यक् समुन्नयेत् ॥ ४४.१७॥ षड्वितस्तिसमारभ्य एकैकाङ्गुलवर्धनात् । त्रयोदशवितस्त्यन्तमक्षयाममुदाहृतम् ॥ ४४.१८॥ अक्षस्याधो शिखां कुर्यादायसा वा स्वदारुणा । दण्डाग्रे चक्रवास्याधः कीलेनैव तु योजयेत् ॥ ४४.१९॥ भारस्योपरिदेशे तु शक्तिं कुर्यान्नवाङ्गुलम् । मध्यभारो मुखे चोर्ध्वे द्वित्रिहस्तोन्नतं तु वा ॥ ४४.२०॥ उपधानादधस्तात्तु कुलीराङ्घ्र्यक्षवेशनम् । षडङ्गुलसमारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.२१॥ एकहस्तावसानान्तमधः पट्टेन बन्धयेत् । यथेष्टञ्च स्मृतं नालं चक्राग्रे मुकुलान्वितम् ॥ ४४.२२॥ तन्मूले ग्राहकं भूष्यं मुष्टिबन्धादिबन्धितम् । भारोर्ध्वे तु ततः कुर्यात् पालिकां चोपपीठकम् ॥ ४४.२३॥ तत्तुङ्गं पञ्चमात्रान्तं व्यक्तिकं चाष्टमानकम् । पालिकोपरि मध्ये तु चोन्नतिश्चतुरश्रकम् ॥ ४४.२४॥ वितस्त्यैकं समारभ्य षट् षडङ्गुलवर्धनात् । सार्धद्विहस्तपर्यन्तं दारुवर्गोदयं क्रमात् ॥ ४४.२५॥ उपपीठादिपादाढ्यं सर्वालङ्कारसंयुतम् । तदूर्ध्वे रथमानस्य लक्षणं वक्ष्यतेऽधुना ॥ ४४.२६॥ भारारञ्च समारभ्य सार्धाधिकमेव वा । वितस्त्येकं समारभ्य त्रित्र्यङ्गुलवर्धनात् ॥ ४४.२७॥ त्रिवितस्त्यन्तमुद्दिष्टं नवधा भारविस्तरम् । तद्बहिर्भद्रयुक्तं चेत्तन्मानेनैव कारयेत् ॥ ४४.२८॥ एकद्वित्रितलोपेतं तालाधिष्ठानवेदिवत् । वितस्त्येकं समारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.२९॥ अष्टाविंशाङ्गुलान्तञ्च नवाधिष्ठानतुङ्गकम् । सैकात्क्रमाङ्गुलारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.३०॥ नवविंशतिमात्रान्तं प्रत्येकं च यथा भवेत् । एवं तलोदयं प्रोक्तं चैकादित्रितलान्तिकम् ॥ ४४.३१॥ एकादिनवतालान्तं भारतोर्ध्वं प्रकल्पयेत् । एकादिचोर्ध्ववेदीनां पीठमानं प्रवेशयेत् ॥ ४४.३२॥ वितस्त्येकं समारभ्य द्वित्र्यङ्गुलविवर्धनात् । एकहस्तावसानन्तु पञ्चधा तालवेशनम् ॥ ४४.३३॥ एकनेत्रं त्रिनेत्रं वा द्विमुखं वा चतुर्मुखम् । एवमेवं रथाः सर्वे भद्रदेशे मुखं मतम् ॥ ४४.३४॥ भारं भारोपधानञ्च भारोपरि च चाङ्घ्रिकम् । दारुवर्गसमायुक्तं भद्रहीनं त्रिचक्रयुक् ॥ ४४.३५॥ नाम्ना विजयमित्युक्तं विश्वामित्र महामुने । चतुश्चक्रसमायुक्तं दारुवर्गसमन्वितम् ॥ ४४.३६॥ चतुरश्रमेकतालं रथं कान्तमिति स्मृतम् । चक्रं पञ्चसमायुक्तं चैकं तद्वितलन्तु वा ॥ ४४.३७॥ श्रीकेशं नामतः प्रोक्तं प्रसारिततलं क्रमात् । ततश्चक्रस्य चैकं चेद्विशालमितिकोर्तितम् ॥ ४४.३८॥ तदेकपृष्ठभद्रं चेत् श्रीभूतमिति कथ्यते । पुरतः पार्श्वयोर्भद्रं नाम्ना तत्त्रिविशालकम् ॥ ४४.३९॥ द्वे चतुर्भद्रयुक्तं चेद्भद्रमित्यभिधीयते । रसादिदशचक्रान्तं संयुक्तं त्रितलान्वितम् ॥ ४४.४०॥ चतुर्मुखं रथं प्रोक्तं नाम्ना भद्रविशालकम् । प्रासादवलयं कुर्यात् कूटशालादिमण्डितम् ॥ ४४.४१॥ यथा तलं यथा शोभं तदा युञ्जीत वर्धनम् । अधिकं सोच्चपट्टैश्च योजनीयं विचक्षणः ॥ ४४.४२॥ सुवर्णभारताम्रेश्च तद्रव्या द्वादशान्तं यथा बलम् । तलेषु भद्रसंयुक्तं वा चोर्ध्वे चतुरश्रकम् ॥ ४४.४३॥ वेदिकोपरि सर्वत्र पादादिस्तूपिकान्तरम् । एकतोऽनेकतालं वा पादोर्ध्वे द्वितलं भवेत् ॥ ४४.४४॥ शालाकूटं विना वाऽपि वैकास्यैकतलन्तुवा । नानावर्णैश्च वस्त्रैश्च स्तम्भादूर्ध्वमलङ्करेत् ॥ ४४.४५॥ नानाध्वजसमोपेतं नानादामैश्च चामरैः । ऊर्ध्ववेद्युपरिष्टात्तु सिंहरूपाङ्घ्रिकासनम् ॥ ४४.४६॥ नित्ये नैमित्तिके वाऽपि कुर्यादासनमुत्तमम् । अथवा वेदिकाधारं देवासनमुदीरितम् ॥ ४४.४७॥ आयादिशुभवर्गाढ्यं सर्वालङ्कारसंयुतम् । दारुवर्गेषु सर्वत्र कुर्यात्स्कन्दविनोदनम् ॥ ४४.४८॥ रथमेवञ्च सम्पाद्य प्रतिष्ठां सम्प्रकारयेत् । सर्वमासे प्रकर्तव्यं शुक्लपक्षे शुभे दिने ॥ ४४.४९॥ तैलाभ्यङ्गं रथं कृत्वा शुद्धोदैरभिषेचयेत् । पञ्चगव्येन सम्प्रोक्ष्य पुण्याहप्रोक्षणं तथा ॥ ४४.५०॥ अस्त्रेणार्घ्यजलेनैव प्रोक्ष्य गन्धादिनार्चयेत् । कौतुकं बन्धयेत् पद्मं मुखे तु हृदयेन तु ॥ ४४.५१॥ वस्त्रैराच्छाद्य तद्देशं तत्त्वतत्त्वेश्वरं न्यसेत् । मूर्तिमूर्तीश्वरोपेतं यथाविधि समर्चयेत् ॥ ४४.५२॥ दक्षिणेषु च चक्रेषु यजेत्कुर्याद्दिशां पतिम् । इन्द्रमक्षेषु भारेषु यजेदाधारशक्तिकाम् ॥ ४४.५३॥ उपपीठे गजं न्यस्त्वा तदूर्ध्वेऽनन्तमर्चयेत् । गन्धस्तम्भेषु सर्वेषु धर्माधर्मादि विन्यसेत् ॥ ४४.५४॥ देवासनेऽधच्छदने मूर्ध्वच्छदनमूर्ध्वतः । कर्णिका नवशक्तीश्च सुब्रह्मण्यासनं तथा ॥ ४४.५५॥ जयन्ताद्यष्टविद्येशा रथाधिपतयः स्मृताः । मयूरः शिखिराशीशाः सेनानी स्तूपिनायकाः ॥ ४४.५६॥ रथाग्रे पार्श्वयोर्वापि मण्डपं कल्पयेत्सुधीः । षोडशस्तम्भसंयुक्तं मध्ये वेदिसमन्वितम् ॥ ४४.५७॥ सर्वालङ्कारसंयुक्तं गोमयालिप्तभूतलम् । कुण्डानि परितः कृत्वा नव पञ्चैकमेव वा ॥ ४४.५८॥ प्रधानन्तु षडश्रं स्यात्सर्वलक्षणसंयुतम् । वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ४४.५९॥ कूर्चादि सहितं तस्य तत्तत्कुम्भान् न्यसेततः । तत्र वध्ये गुहं पूर्वे भानुमिन्दुं तथानले ॥ ४४.६०॥ दक्षिणे दृढमाधारं शक्तिं निरृतिगोचरे । गजं मयूरं वरुणे वायव्येन तमर्चयेत् ॥ ४४.६१॥ धर्मादि चोत्तरे शेषमीशाने गोचरे तथा । गन्धाद्यैरर्चयित्वाथ होमकर्मसमाचरेत् ॥ ४४.६२॥ अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् । गुहं साम्बं प्रधानान्तमष्टमूर्तिपरेषु च ॥ ४४.६३॥ अर्चयेदेककुण्डेषु गुहमूर्तिञ्च तत्र वै । पालाशोदुम्बरोश्वत्थ वटाः पूर्वादिदिक्षु च ॥ ४४.६४॥ शम्यपामार्गमायूरंवुशयेव विदिक्षु च । प्रधाने तु पलाशत्स्यात्समिधः सम्प्रकीर्तितः ॥ ४४.६५॥ समिधाज्यान्नलाजेश्च तिलैश्चैव प्रियङ्गुभिः । स्कन्दमूलेन चाङ्गैश्च होमयेत्तु यथाक्रमम् ॥ ४४.६६॥ शतमर्धं तदर्धं वा जुहुयाद्देशिकोत्तमः । पूर्णां हुत्वा द्वितीयेऽह्नि यागेशानर्च्य देशिकः ॥ ४४.६७॥ स्नात्वा शुक्लाम्बरधरः शुचिर्भूत्वा समाहितः । मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ॥ ४४.६८॥ तत्तत्कुम्भस्थतोयेन तत्तद्देवान् ततस्थले । जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ ४४.६९॥ कुम्भानुद्धृत्य शिरसा पूरयेत्तु यथाक्रमम् । अनुक्तमन्यतो ग्राह्यमधिकं नैवदोषभाक् ॥ ४४.७०॥ देशिकस्य तु यच्चित्तं देवानान्तुष्टिकारकम् । मूर्तिधारास्तु दैवज्ञादधिकं तोषयेत्ततः ॥ ४४.७१॥ एवं यः कुरुते मर्त्यः स पुण्याङ्गतिमाप्नुयात् । इहैव पुत्रधनवान् प्राप्नुयाद्वाञ्छितं फलम् । सोऽन्तेप्सरगणैः सेव्यो विमानं सर्वकामिकम् ॥ ४४.७२॥ इति श्रीकुमारतन्त्रे रथप्रतिष्ठाविधिर्नामचतुश्चत्वारिंशत्पटलः ।

४५. पञ्चचत्वारिंशत्पटलः - महाभिषेकविधिः

महाभिषेकं वक्ष्येऽहं स्कन्दस्य श‍ृणु कौशिक । धर्मार्थकाममोक्षार्थं शान्तिकं पौष्टिकं शुभम् ॥ ४५.१॥ आयुः श्रीवर्धनं पुण्यं सर्वव्याधिविनाशनम् । रिपुक्षयं राज्यलाभं बालानां वृद्धिकारकम् ॥ ४५.२॥ एकाहञ्च त्रयाहञ्च पञ्चाहं त्वभिषेचयेत् । कृत्तिकायां विशाखायां षष्ठ्यां वाङ्गारवारके ॥ ४५.३॥ यजमानस्य नक्षत्रे शुभयोगे शुभावहम् । रिपुक्षयार्थं पञ्चाहं त्र्यधाहं सर्वकामदम् ॥ ४५.४॥ एकाहं रोगनाशार्थं कारयेन्मुनिपुङ्गव । पूर्वेद्युरङ्कुरान् पाद्यं कौतुकं बन्धयेत्ततः ॥ ४५.५॥ क्षीराभिषेचनं कृत्वा पायसन्तु निवेदयेत् । निर्वाणदीपं तद्रात्रौ गोघृतेनैव कारयेत् ॥ ४५.६॥ प्रातस्नानादिकं कृत्वा शिष्यैश्चैव गुरुस्ततः । गोमयालेपनं कृत्वा पुण्याहं प्रोक्षणं ततः ॥ ४५.७॥ जलभाण्डानि कलशान् पाद्याचमनपात्रकम् । पटलीसमहाकारं सर्वलक्षणसंयुतम् ॥ ४५.८॥ अस्त्रेण क्षाल्यतोयैश्च न्यसेद्दत्वासनोपरि । निरीक्ष्य हृदयेनैव प्रोक्षयेत्पुरुषेण च ॥ ४५.९॥ ताडनं हुम्फडन्तास्त्रैर्दर्शनं सद्यममन्त्रतः । नेत्रेणोन्मीलनं कुर्यात्कवचेनावकुण्ठनम् ॥ ४५.१०॥ वस्त्रपूतैश्च तोयैश्च जलभाण्डानि पूरयेत् । एलालवङ्गकर्पूरगन्धपुष्पजलान्वितैः ॥ ४५.११॥ पञ्चाङ्गभूषणैर्युक्तं शिष्यैः सह गुरुस्ततः । अङ्गन्यासकरन्यासमन्तर्यागं समाचरेत् ॥ ४५.१२॥ प्राणप्रकृतियोगन्तु ज्ञात्वा कर्मसमाचरेत् । वर्धनीकुम्भकलशान् सूत्रेणैव तु वेष्टयेत् ॥ ४५.१३॥ देवाग्रे वाऽपि वर्तव्यं मण्डपे स्नपनादिकम् । शालिभिस्तण्डुलन्तत्र कल्पयेन्मुनिसत्तम ॥ ४५.१४॥ कारयेद्विधिना पञ्चविंशतिस्नपनं कुरु । स्कन्दकुम्भं न्यसेन्मध्ये तत्पार्श्वे वर्धनीद्वयम् ॥ ४५.१५॥ पाद्यमाचमनं चार्घ्यं वस्त्रयुग्गन्धतैलकम् । तिलकुम्भञ्च नीवारं प्रथमावरणे न्यसेत् ॥ ४५.१६॥ द्वितीयावरणे विद्वान् पूर्वादिषु प्रकल्पयेत् । मधुकेक्षुगुलं पश्चादुशीरं चन्दनन्तथा ॥ ४५.१७॥ तक्कोलं सर्वगन्धञ्च जातिं चैव मरुं तथा । कल्हारञ्च कदम्बञ्च मल्लिकाद्रोणमेव च ॥ ४५.१८॥ बीजलक्ष्मीप्रदानञ्च कैतकं पुष्पमेव च । एतत् षोडशकं द्रव्यमभ्यर्च्य स्वर्णतोयकम् ॥ ४५.१९॥ स्कन्दं शक्तिद्वयं मध्ये विद्येशान् प्रथमावृतौ । दिक्पालान् वसूंश्चापि द्वितीयावरणे न्यसेत् ॥ ४५.२०॥ तत्पश्चिमदिशि स्थाप्य पञ्चगव्यं विधानतः । स्थण्डिलं पश्चिमं तस्य कल्प्य पञ्चामृतम्बुधः ॥ ४५.२१॥ क्षीरन्तु मध्यमे स्थाप्य गोमूत्रं पूर्व एव च । आग्नेये गोमयं न्यस्त्वा याम्ये दधि महामुने ॥ ४५.२२॥ आज्यं निरृतिदेशे तु पश्चिमे मधु विन्यसेत् । फलसारन्तु वायव्ये सौम्ये स्यादिक्षुसारकम् ॥ ४५.२३॥ ऐशान्यां नालिकेरञ्च नवद्रव्यनिहोच्यते । प्रस्थमर्धं तदर्धञ्च प्रस्थं कुडुपमेव च ॥ ४५.२४॥ कुडुपञ्च चतुःप्रस्थं प्रस्थं त्रिःप्रस्थमेव च । एवं क्षीरादिसङ्कल्प्य प्रोक्षयेदस्त्रमन्त्रतः ॥ ४५.२५॥ अभ्यङ्गञ्च ततः कृत्वा पञ्चगव्याभिषेचनम् । आधाराधेयपूजाञ्च कुर्यादावाहनाष्टकम् ॥ ४५.२६॥ पञ्चामृतादिसम्पूज्य स्नपनेन ततः परम् । पूजयेत्स्कन्दमूलेन ब्रह्ममूर्त्यङ्गमन्त्रतः ॥ ४५.२७॥ स्कन्दसूक्तेन मन्त्रज्ञः कुमारायेति मन्त्रतः । अयं कुमारमन्त्रेण माते कुमारमन्त्रतः ॥ ४५.२८॥ मालामन्त्रेण मतिमान् रुद्रसूक्तेन तत्परम् । श्रीरुद्रचमकाभ्याञ्च पुरुषसूक्तन तत्परम् ॥ ४५.२९॥ षड्वारं मन्त्रितैर्मन्त्रैः स्नापयेत्पञ्चशान्तिकैः । वस्त्रोपवीतगन्धञ्च सर्वाण्याभरणानि च ॥ ४५.३०॥ दत्वाथ मन्त्रवित्कुर्यात्पञ्चावरणपूजनम् । विन्यसेन्मातृकान्यासं सैकत्रिंशत्कला मता ॥ ४५.३१॥ तत्काले पुष्पदामैश्च सर्वत्रैव प्रकल्पयेत् । प्रभूतहविषं दत्वा यथाविभवविस्तरम् ॥ ४५.३२॥ सर्वोपदेशसंयुक्तं नानापुष्पसमन्वितम् । नानाफलसमोपेतमाज्यपूर्णदधिप्लुतम् ॥ ४५.३३॥ पानीयं मुखवासञ्च ताम्बूलञ्च विशेषतः । धूपदीपादिकं दत्वा गुहाग्निञ्च नयेत्ततः ॥ ४५.३४॥ श्यामवृक्षसमिद्भिश्च वरुणं सर्पिषा हुनेत् । षडक्षरेण मन्त्रेण प्रत्येकं द्विसहस्रकम् ॥ ४५.३५॥ अङ्गमन्त्रैर्दशांशं तु पूर्णाहुतिसमाचरेत् । स्विष्टकृच्च जयादिञ्च सर्वकामार्थसिद्धये ॥ ४५.३६॥ स्वर्णपुष्पैश्च दानैश्च वाद्यैर्गीतैश्च नर्तनैः । जपैः प्रदक्षिणैः स्तात्रैर्नमस्कारैश्च भक्तितः ॥ ४५.३७॥ प्रीणयित्वा महासेनं प्रार्थयेदर्थमीप्सितम् । यान् यान् कामयते कामान् तांस्तान् सत्यमवाप्नुयात् ॥ ४५.३८॥ आचार्यं पूजयेत्कर्ता गोभूमीधान्यकाञ्चनैः । वस्त्रहेमाङ्गुलीयैश्च दासीदासैश्च भक्तितः । कुमारं गण्डरोगस्य नाशार्थमपि कारयेत् ॥ ४५.३९॥ इति श्रीकुमारतन्त्रे महाभिषेकविधिर्नाम पञ्चचत्वारिंशत्पटलः ।

४६. षट्चत्वारिंशत्पटलः - स्कन्दकलान्यासविधिः

ततः स्कन्दकलान्यासं सैकत्रिंशत्कलास्मृतम् । स्कन्दसूक्तस्य षण्मन्त्रैः सकलाभिर्न्यसेत् सुधीः ॥ ४६.१॥ सैकत्रिंशत्कलां वक्ष्ये श‍ृणु कौशिक सुव्रत । जया बलोन्नता वामा नन्दिनी विजया रमा ॥ ४६.२॥ सेना माया च शान्ती च सत्या सूक्ष्मा सुमत्यपि । वज्रामृता यशश्चैव वरिष्ठा सुप्रतिष्ठिका ॥ ४६.३॥ रुचिरा भ्रामिणी भूती मान्या जीवातुरेव च । शुद्धा कृपा सत्वरा च जगती वरदा ततः ॥ ४६.४॥ कामदा हरिणी श्यामा सैकत्रिंशत्कला स्मृताः । स्कन्दसूक्तस्य षण्मन्त्रैः प्रथमे षट्कला शिरः ॥ ४६.५॥ द्वितीये षट्कला वक्त्रे तृतीये पञ्चमी कला । हृदये कण्ठदेशे तु बाह्वोर्नाभौ तु विन्यसेत् ॥ ४६.६॥ वेदमन्त्रैः कला पञ्च कुक्षौ पृष्ठे ततः परम् । उरः स्थले च गुह्ये च शिश्ने चैव न्यसेद् बुधः ॥ ४६.७॥ एते मन्त्रकला वेदा ऊर्वोर्जान्वोश्च विन्यसेत् । षष्ठे मन्त्रे कला पञ्च जङ्घयोः पादयोरपि ॥ ४६.८॥ व्यापकाञ्जलिना धीमान् न्यसेदेवं विधानतः । सैकत्रिंशत्कलान्यासं न ज्ञात्वा न समर्चयेत् ॥ ४६.९॥ तस्मात् सर्वप्रयत्नेन न्यासं कृत्वार्पयेद् गुहम् । य एतत् कुरुते नित्यं सोऽग्निष्टोमफलं लभेत् ॥ ४६.१०॥ कलान्यासक्रमः - ॐ जगद्भुवं जयायै नमः । । १। --ईशानमूर्ध्नि ॐ बहुतो वलायै नमः । । २। --पूर्वमूर्ध्नि ॐ हुतं उन्नतायै नमः । । ३। --दक्षिणमूर्ध्नि ॐ वचद्भुवे वामायै नमः । । ४। --उत्तरमूर्ध्नि ॐ नमस्तेऽस्तु नन्दिन्यै नमः । । ५। --पश्चिममूर्ध्नि ॐ विश्वभुवे विजयायै नमः । । ६। --नैरृतमूर्ध्नि ॐ जगद्भुवोऽधिपतिर्जरायै नमः । । ७। --ईशानवक्त्रे ॐ सेनानीः सेनायै नमः । । ८। --पूर्ववक्त्रे ॐ मयूरप्रियायै नमः । । ९। --दक्षिणवक्त्रे ॐ षडाननः शान्त्यै नमः । । १०। --उत्तरवक्त्रे ॐ सत्त्वायाहं नमस्तेऽस्तु सत्यायै नमः । । ११। --पश्चिमवक्त्रे ॐ सुखं वहस्व सूक्ष्मायै नमः । । १२। --नैरृतवक्त्रे ॐ सुब्रह्मण्य सुमत्यै नमः । । १३। --हृदये ॐ बृहस्पतेः सुतां प्रज्ञायै नमः । । १४। --गले ॐ अस्य पद्मयोने अमृतायै नमः । । १५। --दक्षिणबाहौ ॐ अयस्यात्मयशसे नमः । । १६। --वामबाहौ ॐ वहने वहन्तु वरिष्ठायै नमः । । १७। --नाभौ ॐ सुब्रह्मण्य सुप्रतिष्ठायै नमः । । १८। --कुक्षौ ॐ रुद्रभुवे रुचायै नमः । । १९। --पृष्ठे ॐ ब्रह्मभुवे भ्रामिण्यै नमः । । २०। --उरसि ॐ भुवद्भुवे भूत्यै नमः । । २१। --गुह्ये ॐ अभूताय मान्यायै नमः । । २२। --शिश्ने ॐ जगद्भुवे जीवातवे नमः । । २३। --दक्षिणोरौ ॐ सुब्रह्मण्य रुद्धायै नमः । । २४। --वामोरौ ॐ कृत्तिकासुतकृपायै नमः । । २५। --दक्षिणजानुनि ॐ षष्ठाङ्गसत्त्वरायै नमः । । २६। --वामजानुनि ॐ जगद्भवे जगत्यै नमः । । २७। --दक्षिणजङ्घायां ॐ वचद्भुवे वरदाय नमः । । २८। --वामजङ्घयां ॐ स्कन्दविशाखिने कामदायै नमः । । २९। --दक्षिणपादे ॐ हव्यं यस्माद्धरिभ्यै नमः । । ३०। --वामपादे ॐ षण्मुखाय श्यामायै नमः । । ३१। --व्यापकाञ्जलिः इति श्रीकुमारतन्त्रे स्कन्दकलान्यासविधिर्नाम षट्चत्वारिंशत्पटलः ।

४७. सप्तचत्वारिंशत्पटलः - मातृकान्यासविधिः

श‍ृणु कौशिक वक्ष्येऽहं सुब्रह्मण्यस्य मातृकाम् । भुक्तिमुक्तिप्रदं पुंसां सर्वोपद्रवनाशनम् ॥ ४७.१॥ केशान्ते मुखवृत्ते च नेत्रयोः श्रोत्रनासयोः । कर्णयोरोष्ठयोर्दन्तपङ्क्तौ मूर्ध्निमुखेस्वरम् ॥ ४७.२॥ कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके । टवर्गं दक्षपादे च तवर्गं वामपादके ॥ ४७.३॥ पफौ पर्वद्वये न्यस्य बकारं पृष्ठदेशके । भकारं नाभिदेशे तु मकारं कुक्षिदेशके ॥ ४७.४॥ यकारं हृदये न्यस्य रलौ दोर्मूलयोर्न्यसेत् । वकारं कण्ठपृष्ठे तु शषौ कक्षद्वये न्यसेत् ॥ ४७.५॥ सहौ शिश्ने च गुह्ये च लकारं भुजयोर्न्यसेत् । क्षकारं व्यापकं शेषां सुब्रह्मण्यस्य मातृकाम् ॥ ४७.६॥ तान्येतानि न चोक्तानि वर्णेश्वराननं श‍ृणु । अमरेश्वर आराध्यस्तत इन्द्रपुरोगमाः ॥ ४७.७॥ ईशपुत्र उमापुत्र ऊर्ध्वरेतो मम प्रिय । ऋणोॠणऌन्यश्च ॡहन्तैकनायकः ॥ ४७.८॥ ऐश्वर्यप्रद ओजस्वी औपम्यरहितः पुमान् । ततोऽम्बुजासनक्षीणं तेषां स्युः स्वरदेवताः ॥ ४७.९॥ कमण्डलुधरः खड्गपाणिर्गङ्गासुतस्ततः । घण्टाहस्तोङप्रियश्च चन्द्रशेखर ईरितः ॥ ४७.१०॥ छन्दोमयश्चैव जगत्पतिश्च झषकेतुजित् । ञमूर्तिष्टङ्कहस्तश्च ठस्वरूपोऽथडम्बरः ॥ ४७.११॥ ढक्कप्रियोणगम्यश्च तत्त्वरूपस्थपिष्टकः । दण्डपाणिर्धनुष्पाणिर्नगरन्ध्रकरस्ततः ॥ ४७.१२॥ तथैव पद्महस्तश्च फणिहस्तस्तथैव च । ततस्तु बहुलापुत्रो भवात्मज इतीरितः ॥ ४७.१३॥ महासेनो यज्ञमूर्ति रमणीयस्तथैव च । लम्बोदरानुजश्चैव वचद्भूः शरसम्भवः ॥ ४७.१४॥ षण्मुखः सर्वलोकेशो हरात्मज इति स्मृतः । लक्ष्मीवांश्च क्षमाक्षेत्रः कादिक्षान्ताधिदेवताः ॥ ४७.१५॥ अकारादिक्षकारान्तं न्यसेद्देहे स्वनामभिः । प्रणवादिनमोऽन्तैश्च ब्राह्मणक्षत्रियोऽपि वा ॥ ४७.१६॥ वैश्यो वाप्यथ शूद्रो वा सुब्रह्मण्याख्यमातृकाम् । जपकाले जपेद्यस्तु जयसिद्धिमवाप्नुयात् ॥ ४७.१७॥ पूजाकाले न्यसेदेतत्प्रतिष्ठाकाल एव च । गायत्रीजपकाले तु सुब्रह्मण्यस्य मातृकाम् ॥ ४७.१८॥ यः करोति मुखं तस्य सहस्रगुणितं फलम् । सप्तजन्म भवेद्विप्रः सोऽन्ते कौमारमाप्नुयात् ॥ ४७.१९॥ इति श्रीकुमारतन्त्रे मातृकान्यासविधिर्नाम सप्तचत्वारिंशत्पटलः ।

४८. अष्टचत्वारिंशत्पटलः - सुब्रह्मण्यकवचविधिः

सुब्रह्मण्यस्य कवचं वक्ष्येऽहं श‍ृणु कौशिक । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ ४८.१॥ ब्रह्मानुष्टुप्छन्दः सुब्रह्मण्यस्य देवता । षान्तदीर्घेण कल्पेन षडङ्गन्यासकल्पना ॥ ४८.२॥ ध्यानम्- सिन्दूरारुणमिन्दुकान्ति वदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुः स्वर्गस्य सौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ४८.३॥ सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः । गुहो मां दक्षिणे पातु भूपतिः पातु वामतः ॥ ४८.४॥ शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् । नेत्रयोर्द्वादशाक्षश्च श्रोत्रं रक्षतु विश्वभूः ॥ ४८.५॥ मुखं मे षण्मुखः पातु नासिकां मकरात्मजः । ओष्ठं वल्लीपतिः पातु जिह्वां पातु षडक्षरः ॥ ४८.६॥ देवसेनापतिर्दन्तान् चिबुकं बहुलासुतः । कण्ठं तारकजित्पातु बाहुं द्वादशबाहुमान् ॥ ४८.७॥ हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः । हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ४८.८॥ नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः । ऊरुं पातु गजारूढो जानू द्वे जाह्नवीसुतः ॥ ४८.९॥ जङ्घे विशाखो मे पातु पादयोः शिखिवाहनः । सर्वाण्यङ्गानि भूतेशः सप्तधातूंश्च षण्मुखः ॥ ४८.१०॥ सन्ध्याकाले निशीथिन्यां मध्याह्ने दुस्तरे जले । दुर्गमे च महारण्ये राजद्वारे सहायके ॥ ४८.११॥ तुमुले रणमध्ये च सर्पदुष्टमृगादिषु । चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडिते ॥ ४८.१२॥ दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे । अस्त्रशस्त्रनिघातेषु त्रातु मां क्रौञ्चरन्ध्रकृत् ॥ ४८.१३॥ सुब्रह्मण्यस्यकवचमिष्टसिद्धिफलं भवेत् । तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ४८.१४॥ धर्मार्थी लभते धर्मानर्थार्थी चार्थमाप्नुयात् । कामार्थी लभते कामान् मोक्षार्थी मोक्षमाप्नुयात् ॥ ४८.१५॥ यत्र यत्र जपेत् तत्र तत्र सन्निहितो गुहः । पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ ४८.१६॥ तेषामेव फलावाप्त्यै महापातकनाशनम् । यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्न्निधौ । सर्वान् कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ४८.१७॥ इति श्रीकुमारतन्त्रे सुब्रह्मण्यकवचविधिर्नाम अष्टचत्वारिंशत्पटलः ।

४९. एकोनपञ्चाशत्पटलः - प्रदक्षिणनमस्कारविधिः

प्रदक्षिणनमस्कारविधिं श‍ृणु वदाम्यहम् । प्रदक्षिणत्रयं कृत्वा नमस्कारन्तु पञ्चकम् ॥ ४९.१॥ पुनः प्रदक्षिणं कृत्वा पुनर्जन्म न विद्यते । यानि कानि च पापानि जन्मान्तरकृतानि च ॥ ४९.२॥ तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे । प्रभाते भुक्तिदम्प्रोक्तं मध्याह्ने भुक्तिमुक्तिदम् ॥ ४९.३॥ रात्रौ च मोक्षदं प्रोक्तं षण्मुखस्य प्रदक्षिणम् । आत्मप्रदक्षिणे विप्रा दक्षिणेनैव कारयेत् ॥ ४९.४॥ कुमारगजयोर्मध्ये नैव कार्यन्तु लङ्घनम् । परिवारालयं तत्र लङ्घयेन्नैव दोषभाक् ॥ ४९.५॥ गजवालाग्रकं स्पृष्ट्वा कुम्भमध्येऽवलोकयेत् । सर्वपापविनिर्मुक्तः स्कन्दलोके महीयते ॥ ४९.६॥ पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गः स्यात् प्रमाणकम् । उरसा शिरसा दृग्भ्यां मनसा वचसा तथा ॥ ४९.७॥ पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः । वामपार्श्वे शिरो न्यस्त्वा सव्यपादे प्रलम्बितौ ॥ ४९.८॥ नमस्कारः प्रकर्तव्यः प्रागादिद्वारवेश्मसु । नित्यानुष्ठानकर्मान्ते प्रकर्तव्यं प्रदक्षिणम् ॥ ४९.९॥ उपोषितः शुचिः स्नात्वा यः करोति प्रदक्षिणम् । सहस्रं श्रद्धया धीमान् अश्वमेधफलं लभेत् ॥ ४९.१०॥ पुनः प्रदक्षिणं कुर्यात्सुमित्रेशं प्रदर्शयेत् । प्रदक्षिणान् स्वेन कृतान् वित्तादर्धफलं लभेत् ॥ ४९.११॥ अङ्गप्रदक्षिणत्वेन तुल्यं कोटिप्रदक्षिणम् । गुहाग्रे देवमभ्यर्च्य करसंस्फोटनादिभिः ॥ ४९.१२॥ उड्डीयन्ते शरीरस्थाः महापातककोटयः । पातकानि च सर्वाणि मोक्तुं कामयते च यः । कुमारगजयोर्मध्ये दण्डवत्प्रणमेन्नरः ॥ ४९.१३॥ इति श्रीकुमारतन्त्रे प्रदक्षिणनमस्कारविधिर्नाम एकोनपञ्चाशत्पटलः ।

५०. पञ्चाशत्पटलः - आचार्यलक्षणविधिः

आचार्यलक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत । आर्यावर्तभृतो गोत्रः सूत्रं चैव समन्वितम् ॥ ५०.१॥ आदिशैवकुलोद्भूतः शिवद्विज उदीरितः । परार्थपूजनं तेन कर्तव्यं मुनिपुङ्गव ॥ ५०.२॥ शिवागमपुराणज्ञो गुहपूजाविधानवित् । वेदवेदाङ्गतत्त्वज्ञो जपहोमविधानवित् ॥ ५०.३॥ देवाग्निगुरुभक्तिश्च मेधावी कुशलः शुचिः । सर्वावयवसम्पूर्णः समयाचारसंयुतः ॥ ५०.४॥ कुलीनः सर्वशास्त्रज्ञः सत्यवादी जितेन्द्रियः । शिवशास्त्ररतश्चैव परशास्त्रपराङ्मुखः ॥ ५०.५॥ शिखया बद्धकेशी वा भस्मोद्धूलितविग्रहः । दम्भासूयादिरहितः समयाचारपालकः ॥ ५०.६॥ प्रत्युत्पन्नमनः शान्तस्तपस्वी प्रियदर्शनः । उपवीतञ्च रुद्राक्षमुष्णीषं चोत्तरीयकम् ॥ ५०.७॥ भस्मशैवादिशैवानां पञ्चमुद्रा प्रकीर्तिताः । एवमादिगुणोपेतः कारयेत्स्वामिपूजनम् ॥ ५०.८॥ नास्तिकोऽप्यशुभः क्रुद्धो देवाग्निगुरुनिन्दकः । कुष्ठाङ्गी कुमुखी चैव परदाररतोऽशुचिः ॥ ५०.९॥ कुसुमाक्षश्च विकटो मात्सर्यो मददम्भयुक् । मधुमांसरतः पापी चोरो रोगसमावृतः ॥ ५०.१०॥ विकलाङ्गोऽतिरिक्ताङ्गश्श्यावदन्तः सुकुब्जकः । कुण्डको गोलकश्चैव समयाचारवर्जितः ॥ ५०.११॥ एवमादिगुणोपेतं वर्जयेत्स्वामिपूजने । कारयेद्यदिमोहेन कर्ता भर्ता विनश्यति ॥ ५०.१२॥ स्वयम्भुलिङ्गे विच्छिन्ने गौरीहीनेऽपि पूजयेत् । आचार्यः पत्निहीनश्चेत् न दोषो मन्त्रविग्रहः ॥ ५०.१३॥ उत्सवस्य तु मध्ये वा प्रतिष्ठादिनमध्यमे । सूतके प्रेतकार्ये च आचार्यस्य न विद्यते ॥ ५०.१४॥ न लिप्यते मलैः सोऽपि पद्मपत्रमिवाम्भसा । शावकं कर्म कृत्वा तु स्नात्वा देवालयं विशेत् ॥ ५०.१५॥ महोत्सवे समाप्तौ च शेषकर्म समाचरेत् । शिवः क्रुद्धो गुरुस्त्राता गुरुः क्रुद्धो गुहेन च ॥ ५०.१६॥ गुरुस्तुष्टो गुहस्तुष्टस्तस्मात् सम्प्रीणयेद्गुरुम् । यावत्तोषणमाचार्यस्तावद्देवस्तु तोषणम् ॥ ५०.१७॥ इति श्रीकुमारतन्त्रे आचार्यलक्षणविधिर्नाम पञ्चाशत्पटलः ।

५१. एकपञ्चाशत्पटलः - सायरक्षाविधिः

सायरक्षाविधिं वक्ष्ये कौशिक सुव्रत । सर्वलोकहितार्थाय सर्वप्राणिसुखावहम् ॥ ५१.१॥ विशेषाद्बालरक्षार्थं सायरक्षां महामुने । जनानां नयनोच्छिष्टनिवृत्त्यर्थं प्रदोषके ॥ ५१.२॥ धूपदीपावसाने तु सायरक्षां समाचरेत् । सौवर्णं राजतं ताम्रं कांस्यमेवास्य पात्रकम् ॥ ५१.३॥ विंशत्यङ्गुलविस्तारमोष्ठमेकाङ्गुलं भवेत् । एकाङ्गुलं समारभ्य रव्यङ्गुलसमावधि ॥ ५१.४॥ दोपाधारन्तु तन्मध्ये वृत्ताकारं प्रकल्पयेत् । नवदीपयुतं श्रेष्ठं पञ्चदीपन्तु मध्यमम् ॥ ५१.५॥ कन्यसं त्वेकदीपन्तु युक्त्या युञ्जीत बुद्धिमान् । दीपाधारेषु सर्वेषु वर्तिं गोघृतसंयुतम् ॥ ५१.६॥ हस्ताङ्गुलसमुत्सेधं कर्पूरावर्तिरन्तकम् । सुब्रह्मण्यश्च लोकेशो नवदीपाधिदेवताः ॥ ५१.७॥ महादिग्देवता स्कन्दः पञ्चदीपाधिदेवताः । एकदीपे गुहं प्रोक्तं चतुष्पात्राभितो न्यसेत् ॥ ५१.८॥ निम्बपत्रं सर्षपञ्च ततः कार्पासबीजकम् । लवणञ्च क्रमान्न्यस्य द्रव्यं प्रसृतिमात्रकम् ॥ ५१.९॥ एवं सर्वं समासाद्य मण्डपाभ्यन्तरे बुधः । स्कन्दायतनयोषिद्भिरथवा परिचारकैः ॥ ५१.१०॥ तानि पात्राणि सर्वाणि वाहयित्वा विचारतः । समानीय गुहस्याग्रे न्यस्त्वा वर्तीन् प्रदीपयेत् ॥ ५१.११॥ सायं रक्षा प्रकर्तव्या धूपदीपावसानके । गुहस्याचमनं दत्वाभ्यर्च्य तन्मूलमन्त्रतः ॥ ५१.१२॥ अर्चयित्वा विधानेन वह्निबीजमनुस्मरन् । अस्त्रेणैव तु मन्त्रेण दिग्विरेचनमाचरेत् ॥ ५१.१३॥ मुकुलीं पद्ममुद्राञ्च दर्शयेद्देशिकेन तु । धूपदीपौ समौ दत्वा नृत्तं वाद्यं समाचरेत् ॥ ५१.१४॥ धूपं धूरसिमन्त्रेण दीपमुद्दीप्यमन्त्रतः । सायं रक्षां प्रदीप्याथ धूपदीपं ततो न्यसेत् ॥ ५१.१५॥ जगद्भुवादिमन्त्रेण सायं रक्षा प्रदापयेत् । त्रिवारं परया भक्त्या भ्रामयेत्स्कन्दमूर्धनि ॥ ५१.१६॥ नृत्तवाद्यं समायुक्तं शङ्खध्वनिसमन्वितम् । भेरीमृदङ्गवाद्यैश्च स्तोत्रशब्दैः समन्वितम् ॥ ५१.१७॥ द्रव्याण्यथ क्रमाद्विद्वानावर्त्यावर्त्य मूर्धनि । सायं रक्षां प्रदत्वैव दद्याच्छिष्यकरे ततः ॥ ५१.१८॥ पात्रापात्रविधानेषु करं प्रक्षाल्य देशिकः । पश्चादाचमनं दत्वा प्रणवेन तु मन्त्रतः ॥ ५१.१९॥ ततोऽस्य स्तबकं गृह्य कर्पूरादिसुगन्धियुक् । गृहीत्वा मुद्रया शक्त्या भ्राम्य स्कन्दोपरि त्रिधा ॥ ५१.२०॥ प्रक्षिपेद्दीपपात्रेषु कर्तव्यं स्कन्धमूर्धनि । अस्त्रेण विन्यसेदीषत् दक्षिणे धारयेत्ततः ॥ ५१.२१॥ पार्श्वयोर्हृदयेनैव विन्यसेद्भस्म मन्त्रवित् । वृन्दञ्च चामरं छत्रं दर्पणञ्च निदर्शयेत् ॥ ५१.२२॥ तानि पात्राणि गणिका मूर्ध्नादिभिधृतानि हि । सर्वातोद्यसमायुक्तं पूर्वे वा चोत्तरेऽपि च ॥ ५१.२३॥ वर्तिद्रव्यं तत्र त्यक्त्वा पुनः पात्राणि सङ्गृहेत् । सायरक्षां च देवाय दिनं प्रति दिनं प्रति ॥ ५१.२४॥ एवं यः कुरुते मर्त्यो राजा विजयमाप्नुयात् । इति श्रीकुमारतन्त्रे सायरक्षाविधिरेकपञ्चाशत्पटलः । श्लोकसङ्ख्या ॥ ३५२३॥ ॥ इति श्रीमल्ललितागमभेदे कुमारतन्त्रं सम्पूर्णम् ॥ शयनविधिपटलः कोशेषुत्यक्तः । ॥ शुभम् ॥ The content within the ( ) at the end of a line contains footnote / variation. The content within [ ] pertains to additional information. The book kumAratantram was edited by E.M. Kandaswami Sarma. Lord Ishvara revealed the nectar of Kumara Tantram to Kaushika Mahamuni. Composed of 3523 verses, the Kumara Tantram is a part of Shrimal Lalitagamabheda scripture which in turn is part of the ocean of Shaivagama. The Kumara Tantram gives detailed methods in the worship of our beloved Lord Subrahmanyam Swami. The following are observations and possible variations: When drawing up the vargas (groups) of the mantrodhara as per verse 2.3, the eight groups may be (1) अ to अः, (2) क to ङ, (3) च to ञ, (4) ट to ण, (5) त to न, (6) प to म, (7) य to श (8) ष to क्ष - this is likely with ळ . First group contains sixteen vowels अ to अः. Second group onwards, each varga has five syllables. Thus, the eight groups are formed of all syllables from अ to क्ष . Based on the above grouping, the third alphabet of the eighth varga is ह and as given in verse 2.18 the beeja akshara of ह्रीं is formed. Hence, the mantra ॐ देवसेनायै नमः । (14) may be ॐ ह्रीं देवसेनायै नमः । (14) along with the beeja akshara of ह्रीं. As given in verse 2.23, the first akshara of the name with bindu is to be added. Hence, instead of ॐ यं वायवे नमः , the variation may be ॐ वं वायवे नमः . Similarly, as given in verse 2.26 instead of ॐ यं पूतायै नमः the variation may be ॐ पं पूतायै नमः. These are observations through Academic study. --- Preeti Proofread by Preeti N Bhandare pnbhandare at gmail.com
% Text title            : Kumara Tantram
% File name             : kumAratantram.itx
% itxtitle              : kumAratantram
% engtitle              : kumAratantram
% Category              : subrahmanya, tantra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti N. Bhandare pnbhandare at gmail.com
% Description/comments  : Edited by E.M. Kandaswami Sarma (Vykarana Shiromani) 1974
% Indexextra            : (Scan)
% Acknowledge-Permission: Shridhar Ayer
% Latest update         : December 27, 2022, Skanda Shashthi Pausha, Shukla Shashthi, April 25, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org