श्रीस्कन्दसप्तशती
अनुक्रमणिका
१. श्रीस्कन्दसप्तशती-पूर्वाङ्गम् ।
१.१ सङ्कल्पः ।
१.२ श्रीसुब्रह्मण्य-मालामन्त्रः ।
१.३ सुब्रह्मण्य-पञ्चदशाक्षरी-मन्त्रः ।
२. श्रीस्कान्दपुराण-लघुशङ्करसंहितायां सप्तशतीस्तोत्रम् ।
२.१ गौरीविवाहः प्रथमोऽध्यायः ।
२.२ कुमारसम्भवः द्वितीयोऽध्यायः ।
२.३ प्रणवोपदेशः तृतीयोऽध्यायः ।
२.४ तारकासुरवधः चतुर्थोऽध्यायः ।
२.५ श्रीवीरबाहुदूतः पञ्चमोऽध्यायः ।
२.६ भानुकोपवधः षष्ठमोऽध्यायः ।
२.७ सिंहमुखवधः सप्तमोऽध्यायः ।
२.८ शूरसंहार अष्टमोऽध्यायः ।
२.९ श्रीदेवसेना-विवाहः नवमोऽध्यायः ।
२.१० श्रीवल्लीविवाहः दशमोऽध्यायः ।
२.११ श्रीत्यागराजमहिमा एकादशोऽध्यायः ।
२.१२ दक्षचरितं द्वादशोऽध्यायः ।
२.१३ दक्षयज्ञः त्रयोदशोऽध्यायः ।
२.१४ उपदेशकाण्डे कैलासवर्णना चतुर्दशोऽध्यायः ।
२.१५ उपदेशकाण्डे भस्मधारणप्रभावः पञ्चदशोऽध्यायः ।
२.१६ उपदेशकाण्डे रुद्राक्षमहिमा षोडशोऽध्यायः ।
२.१७ उपदेशकाण्डे पञ्चाक्षरमहिमा सप्तदशोऽध्यायः ।
२.१८ उपदेशकाण्डे मुक्तिफलप्रदानं अष्टादशोऽध्यायः ।
प्रार्थना
गणेशं नन्दिनं वाणीं सोमास्कन्दं शिवं गुरून् ।
द्वैपायनमगस्त्यञ्च नत्वा स्कन्दमुदीरयेत् ॥
कवित्व-वाराशि-निशाकराभ्यां दारिद्र्य-दावाम्बुद-मालिकाभ्याम् ।
दूरीकृतानम्र-विपत्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥
कामादि-सर्पव्रज-भञ्जिकाभ्यां विवेकवैराग्य-निधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥
स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्ष-धुरन्धराभ्याम् ।
स्वान्ताच्छ-भावप्रद-पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥
ॐ श्री गुरु-चरणारविन्दाभ्यां नमः ।
ॐ श्री सद्गुरु-चरणारविन्दाभ्यां नमः ।
ॐ श्री परमगुरु-चरणारविन्दाभ्यां नमः ।
ॐ श्री परापरगुरु-चरणारविन्दाभ्यां नमः ।
ॐ श्री परमेष्ठिगुरु-चरणारविन्दाभ्यां नमः ।
ॐ स्वरूप-निरूपण-हेतवे श्रीगुरुभ्यो नमः ।
१.श्रीस्कन्दसप्तशती-पूर्वाङ्गं
१.१ सङ्कल्पः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः
ॐ भूः भूर्भुवस्सुवरों
शिवशम्भोराज्ञया प्रवर्तमानस्य शुभे शोभने मुहूर्ते आद्य
ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे अष्टाविंशतितमे कलियुगे प्रभवादि-षष्टि-
संवत्सराणां मध्ये -------नाम संवत्सरे ------------
अयने ------------ऋतौ ---------मासे -------------पक्षे
---- शुभतिथौ ----- वासरसंयुक्तायां, शुभयोग
शुभकरण सकलविशेषण-विशिष्टायां अस्यां शुभतिथौ,
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वर-प्रीत्यर्थं
श्रीवल्लीदेवसेनासमेत-श्रीसुब्रह्मण्य-इच्छाक्रियाज्ञान-
शक्तिस्वरूप-स्कन्द-प्रीत्यर्थं
अस्माकं सर्वेषां सहकुटुम्बानां क्षेमस्थैर्य-वीर्यविजय-आयुरारोग्य-
ऐश्वर्याभिवृद्ध्यर्थं सर्वपाप-निवृत्त्यर्थं
धनकनक-वस्तुवाहनादि-सर्वमङ्गळावाप्त्यर्थं
सकल-सौभाग्य-सौमङ्गळ्यता-सिद्ध्यर्थं
श्रीवल्लीदेवसेनासमेत-श्रीसुब्रह्मण्य-प्रसादानुग्रहप्राप्त्यर्थं
श्रीज्ञानस्कन्द-प्रीत्यर्थं श्रीस्कन्द-सप्तशत्यभिधाया
लघुशङ्कर-संहितायाः पारायणं करिष्ये ॥
अस्य श्रीसुब्रह्मण्य-स्कन्द-कवचस्तोत्र-महामन्त्रस्य
ब्रह्म ऋषिः, अनुष्टुप्छन्दः, श्री सुब्रह्मण्यो देवता
ह्रां बीजं ह्रीं शक्तिः हूं कीलकं मम सर्वाभीष्ट-सिद्ध्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ॐ सां अङ्गुष्ठाभ्यां नमः ।
ॐ सीं तर्जनीभ्यां नमः ।
ॐ सूं मध्यमाभ्यां नमः ।
ॐ सैं अनामिकाभ्यां नमः ।
ॐ सौं कनिष्ठिकाभ्यां नमः ।
ॐ सः करतल-करपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
ॐ सां हृदयाय नमः ।
ॐ सीं शिरसे स्वाहा ।
ॐ सूं शिखायै वषट् ।
ॐ सैं कवचाय हुम् ।
ॐ सौं नेत्रेभ्यो वौषट् । (नेत्रत्रयाय)
ॐ सः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
सिन्दूरारुणमिन्दुकान्ति-वदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गादि-सौख्यप्रदम् ।
अम्भोजाभय-शक्ति-कुक्कुटधरं रक्ताङ्ग-रागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीति-प्रणाशोद्यतम् ॥
सुब्रह्मण्योऽग्रतः पातु सेनानी पातु पृष्ठतः ।
गुहो मां दक्षिणे पातु वह्निभूः पातु वामतः ॥
शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् ।
नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥
मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः ।
ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडक्षरः ।
देवसेनापतिर्दन्तान् चुबुकं बहुलासुतः ॥
कण्ठं तारकजित् पातु बाहू द्वादश-बाहुमान् ।
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः ॥
हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः ।
ऊरू पातु गजारूढो जानुनी जाह्नवीसुतः ॥
विशाखः पातु जङ्घे मे पादौ च शिखिवाहनः ।
सर्वाण्यङ्गानि भूतेशः सप्तधातूंश्च पावकिः ॥
सन्ध्याकाले निशीथिन्यां दिवा प्रातर्जलेऽग्निषु ।
दुर्गमे च महारण्ये राजद्वारे ससाध्वसे ॥
तुमुले रणमध्ये च सर्वदुष्ट-मृगादिषु ।
चोरादि-साध्वसेऽभेद्ये ज्वरादि-व्याधि-पीडने ॥
दुष्टग्रहादि-भीतौ च दुर्निमित्तादि-भीषणे ।
अस्त्रशस्त्र-निपाते च पातु मां क्रौञ्चदारणः ॥
सुब्रह्मण्यस्य कवचं यो वा पठति मानवः ।
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥
इति जपेत् ।
ॐ कार्त्तिकेयाय विद्महे शक्तिहस्ताय धीमहि
तन्नो गुहः प्रचोदयात् ॥
ॐ महासेनाय विद्महे षडाननाय धीमहि
तन्नः स्कन्दः प्रचोदयात् ॥
ॐ कुक्कुटध्वजाय विद्महे वज्रहस्ताय धीमहि
तन्नः स्कन्दः प्रचोदयात् ॥
१.२ श्री सुब्रह्मण्य मालामन्त्रः
स्कन्दक-सूक्तः
मातेकुमारं रक्षोवधीन्माधेनुरत्या सारणी
प्रियाधनस्य भूया एधमानास्से गृहे स्वाहा
अयं कुमारो जरान्धयतु दीर्घमायुः
यस्वैत्वं स्तन प्राप्यायुर्वचोयशोबलं स्वाहा
मालामन्त्रः
ॐ नमो भगवते सुब्रह्मण्याय शक्तिहस्ताय
तारकारये शरवणोद्भवाय ऋग्यजुस्सामाथर्वणाय
देवसेनापतये असुरकुल-मर्दनाय
दिव्यान्तरिक्षाय योगाधिपतये कुरु कुरु
चटचट शान्ताय शान्तरूपिणे
षष्ठीप्रियाय शिवाननाय वचद्भुवे सर्वज्ञान-
हृदयाय षण्मुखाय सुरराजाय नमः ।
जगद्भुवं वचद्भुवं विश्वभुवं
रुद्रभुवं ब्रह्मभुवं भुवोद्भवम् ।
अणुभिश्च महद्भिश्च निघृष्वैः समायुतैः
कालैर्हरित्वमापन्नैः इन्द्रायाहि सहस्रयुक् (त् ?)
अग्निर्विभ्राष्टि वसनः वायुश्वेत सिकद्रुकः
संवत्सरो विषूवर्णैः नित्यास्तेनुचरास्तव
सुब्रह्मण्यों सुब्रह्मण्योँ सुब्रह्मण्योम् ।
जगद्भुवं बहुतोहुतं यजद्भुवं नमस्ते
अस्तु विश्वभुवे जगद्भुभुवोधिपतिः सेनानी
मयूरप्रियषडाननाङ्गारः सञ्जयाहनमस्ते
अस्तु सुखावहाय सुब्रह्मण्यो बृहस्पते (तें ?)
सुतायास्य पद्धतयोनेः यस्यात्मावहने वहति
सख्यात्तेमायोषं सख्यान्मे मायोष्ठाः
सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः
परोरजास्ते पञ्चमः पादः सानळषमूर्जन्दुक्ष्व
तेजलन्द्रियं ब्रह्मवर्च समन्दाद्यं
विमिमेत्वापयस्वतिं देवानां धेनुँ सुदुघा
मनप्रस्पुरन्तिं इन्द्रसोमं पिबतुक्षेमोऽस्तुनः
१.३ सुब्रह्मण्य-पञ्चदशाक्षरी-मन्त्रः
अस्य श्री सुब्रह्मण्य पञ्चदशाक्षरी-
महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः
श्रीसुब्रह्मण्यो देवता
ॐ श्रीं ह्रीं क्लीं बीजं
शरवणभवः शक्तिः ऐं रं नं लं सौः कीलकं
श्रीसुब्रह्मण्य-प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ॐ श्रीं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।
ॐ ऐं रं नं लं सौः तर्जनीभ्यां नमः ।
ॐ शरवणभव मध्यमाभ्यां नमः ।
ॐ श्रीं ह्रीं क्लीं अनामिकाभ्यां नमः ।
ॐ ऐं रं नं लं सौः कनिष्ठिकाभ्यां नमः ।
ॐ सः शरवणभव करतल-करपृष्ठाभ्यां नमः ॥
अथ हृदयादि न्यासः ।
ॐ सां हृदयाय नमः ।
ॐ सीं शिरसे स्वाहा ।
ॐ सूं शिखायै वषट् ।
ॐ सैं कवचाय हुम् ।
ॐ सौं नेत्रेभ्यो वौषट् । (नेत्रत्रयाय)
ॐ सः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
सिन्दूरारुणं इन्दु-पङ्कजनिभैः षड्भिर्मुखैर्भासितं
कारुण्यामृत-स्यन्दि-सुन्दरतरैर्भान्तं द्विषल्लोचनैः ।
बिभ्राणं वरमब्ज-युग्ममभयं शक्तिद्वयं कार्मुकं
खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥
अथ लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥
मूलं - ॐ श्रीं ह्रीं क्लीं ऐं रं नं लं सौः
शरवणभवाय स्वाहा इति अष्टोत्तरशतं जपं कृत्वा समर्पयेत्
२. श्री स्कन्द-सप्तशती
षडाननं चन्द्रसमानवर्णं महामतिं दिव्यमयूरवाहम् ।
रुद्रस्य सूनुं सुरसैन्यनाथं गुहं सदाहं शरणं प्रपद्ये ॥
श्रीस्कान्दपुराण-लघुशङ्करसंहितायां सप्तशतीस्तोत्रे
२.१ गौरीविवाहः प्रथमोऽध्यायः ।
ॐ हां कल्याणसुन्दरासनाय नमः ।
ॐ हां कल्याणसुन्दरमूर्तये नमः ।
कुन्दाभं तरुणेन्दु-चूड-मकुटं कृष्णं मृगं वामके ।
दक्षालम्बि-पताकया गिरिसुता-हस्ताम्बुजं बिभ्रतम् ॥
टङ्कं चोर्ध्वकरे धृताभयकरं पद्मोद्भवेनादृतम् ।
वामे विष्णुसमाश्रितं स्मितमुखं कल्याणदैवं भजे ॥
ॐ हां कल्याणसुन्दराय नमः ।
श्रीगणेशं सम्प्रणम्य शिवं गौरीञ्च षण्मुखम् ।
रच्यते रङ्गनाथेन लघ्वी शङ्करसंहिता ॥ १॥
पुरा काञ्च्यां तपस्यन्तं ब्रह्माणं प्राप्य तापसाः ।
पप्रच्छुः स्वतपःस्थानं सोऽपि नैमिषमादिशत् ॥ २॥
यत्र संसारचक्रस्य नेमिः शीर्णाऽभवत्स्थले ।
अन्यत्र लब्धसञ्चारा दृढा यद्यप्यकुण्ठिता ॥ ३॥
तत्र गत्वा तपस्तीव्रं तप्त्वा ते शुद्धमानसाः ।
सहस्र-वत्सरमितं सत्रमारेभिरे तदा ॥ ४॥
यदृच्छयाऽऽगतं सूतमपृच्छन् स्कन्दवैभवम् ।
प्रणम्य स्वगुरुं सोऽपि प्रवक्तुमुपचक्रमे ॥ ५॥
द्वापरे द्वापरे विष्णुर्वेधाश्चेशाज्ञया भुवि ।
व्यासत्वेन मनुत्वेनाप्यवतीर्य श्रुतिस्मृती ॥ ६॥
सङ्गृह्णीतस्तथैवान्ये मुनयश्च यथोचितम् ।
सूत्रादिकं प्रणिन्युर्हि धर्मालोपाय सादरम् ॥ ७॥
मद्वयं भद्वयञ्चैव ब्रत्रयं वचतुष्टयम् ।
अनपालिशिकूस्कानि पुराणानि दशाष्ट च ॥ ८॥
(मद्वयं - मत्स्य,मार्कण्डेय । भद्वयं - भागवत,भविष्य ।
ब्रत्रयं - ब्रह्म, ब्रह्माण्ड, ब्रह्मवैवर्त ।
वचतुष्टयम् - वराह,विष्णु,वामन,वैनतेय(गरुड) ।
अनपालिशिकूस्कानि - अग्नि,नारद, पाद्म, लिङ्ग, शिव, कूर्म, स्कान्द)
वेदोपबृंहणार्थाय व्यधाद्-द्वैपायनो मुनिः ।
तथैवोपपुराणानि चकाराष्टादशैव तु ॥ ९॥
अष्टादश-पुराणेषु दश शैवानि तेष्वपि ।
स्कान्दं लक्षमितं तच्च संहिता-षट्क-शोभितम् ॥ १०॥
आद्या सनत्कुमारीया द्वितीया वैष्णवी मता ।
तृतीया तु भवेत्सौरी चतुर्थी सूतसंहिता ॥ ११॥
पञ्चमी शाङ्करी तस्यां बहुखण्डाश्च तेषु तु ।
खण्डं शिवरहस्याख्यं काण्डसप्तक-मण्डितम् ॥ १२॥
तत्र सम्भवकाण्डोऽयं स्कन्दजन्मपरः शुभः ।
उच्यते श्रूयतां विप्राः सर्वसम्पत्तिकारकः ॥ १३॥
कैलासभूधरे शम्भुं कदाचित्सर्वमङ्गला ।
अब्रवीत्त्यक्तुकामा स्वां दक्षाज्जातां तनूं रहः ॥ १४॥
भगवत्यपराद्धस्य दक्षस्य व्यपदेशतः ।
दाक्षायणीत्यतो लज्जे त्यजेयं तत्तनूमिति ॥ १५॥
अनुज्ञाता च तेनाथ हिमवन्मेनयोः सुता ।
गौरीति नाम्नाऽऽविर्भूय पञ्चमेऽब्दे तपोऽचरत् ॥ १६॥
सदाशिवस्तदा शुद्धविद्यां सद्भ्यो दिशन्नभूत् ।
तदानीं शूरपद्मादि-पीडिता देवताः समम् ॥ १७॥
कैलासमीशनिलयं गत्वा नन्दि-निवारिताः ।
सत्यलोकं गताः पद्मभुवे दुःखं न्यवेदयन् ॥ १८॥
जिष्णोर्गोमय-लेपित्वं वह्नेर्दीपकराग्र्यताम् ।
यमस्य वैद्यतां रक्षःपतेर्भट-धुरीणताम् ॥ १९॥
अप्पतेर्नर्म-साचिव्यं वायोर्वीजकतां मृदु ।
यक्षराजः कञ्चुकितामीशानस्य च नेतृताम् ॥ २०॥
श्रुत्वाऽन्येषां हीनधर्मान् विचार्य सुचिरं विधिः ।
दैवैः समं विष्णुलोकं गतो दुःखं न्यवेदयत् ॥ २१॥
तुष्टाव च रमानाथं पुंसूक्तेन सुरैः सह ।
तच्छ्रुत्वा हरिरप्यागान्मुक्त्वा द्राङ्-मैरवीं गुहाम् ॥ २२॥
कामदहनं
देवैर्ज्ञापितवृत्तश्च विमृश्य चिरमीश्वरम् ।
शतरुद्रीय-जपतोऽतोषयद्विबुधैः समम् ॥ २३॥
न ह्यस्ति शतरुद्रीय-जपादन्यत्प्रियं प्रभोः ।
यतोऽत्र तस्य सार्वात्म्यं विस्तरेण निगद्यते ॥ २४॥
अथ तत्र महादेव आविर्भूयाचिराद्गुहम् ।
उत्पाद्य तेन दुःखं वो हरिष्यामीति चाब्रवीत् ॥ २५॥
श्रुत्वा तद्विबुधाः सर्वे पुनः सम्भूय शाङ्करिम् ।
लब्धुं शङ्करपार्वत्योर्विवाहाय झषध्वजम् ॥ २६॥
आहूय बहुधाऽभ्यर्थ्य सामदानादिभिर्नयैः ।
प्राहिण्वञ्छम्भु-निकटं स चागाद्-रतिसंयुतः ॥ २७॥
तत्र गत्वा नन्दिकेशानुज्ञातोऽन्तः प्रविश्य च ।
पश्चिमद्वारमार्गेण भगवन्तं ददर्श हि ॥ २८॥
जटाधरं विरूपाक्षं चिन्मुद्रा-विलसत्करम् ।
व्याघ्राजिनोत्तरासङ्गं वसानञ्च गजाजिनम् ॥ २९॥
भूतिभूषित-सर्वाङ्गं रुद्राक्ष-विलसत्तनुम् ।
मन्दस्मितेन शिष्याणां संशयच्छेदकं गुरुम् ॥ ३०॥
सनकादि-मुनीन्द्रेभ्यः निगमान्तार्थ-बोधकम् ।
दृष्ट्वा च साध्वसेनैव स्विन्नाङ्गस्य सवेपथोः ॥ ३१॥
तस्य हस्ताद्धनुर्बाणौ च्युतौ तत्क्षणतो भुवि ।
पुनरादाय सन्धाय बाणं धनुषि शङ्करम् ॥ ३२॥
यदा लक्ष्यीचकाराऽसौ तदा तत्कालवह्निना ।
दग्धोऽभून्मन्मथो देवाः पुनर्विव्यथिरे भृशम् ॥ ३३॥
अथेश्वरो देवसङ्घान् समाधाय मनोरथम् ।
पूरयिष्ये न भेतव्यमिति चोक्त्वा रतिं सतीम् ॥ ३४॥
विलपन्तीं भर्तृनाशात् सान्त्वयित्वा पतिं तव ।
पुनरुज्जीवयिष्यामीत्यन्तर्धानं गतः क्षणात् ॥ ३५॥
तपश्चरन्तीं गिरिजामनुगृह्णन् जरत्तनुः ।
जगाम गौरीशिखरं तया विधिवदर्चितः ॥ ३६॥
तपः किमर्थं क्रियत इति पप्रच्छ तां हरः ।
तत्सखीभ्यां शिवप्राप्त्यै इत्युक्तः शङ्करं बहु ॥ ३७॥
दूषयामास पार्वत्या अनुरूपो वरो न सः ।
भवेदिति तदा गौर्या पिधाय श्रोत्रमन्यतः ॥ ३८॥
गन्तुं व्यवसितं तस्मिन्क्षणे तां वृषभध्वजः ।
समाललम्बे स्वं रूपमास्थाय नियमस्थिताम् ॥ ३९॥
वेपमानां च तन्वङ्गीमन्वगृह्णात्करग्रहम् ।
श्वः कुर्यामिति कैलासं गत्वा सप्ताऽस्मरन्मुनीन् ॥ ४०॥
तेऽपि क्षणेन कैलासमागत्य शिवमस्तुवन् ।
प्राप्यानुज्ञां नन्दिकेशादुपेताश्च शिवान्तिकम् ॥ ४१॥
सोऽपि तान् मानयन् गौरीगुरुमाश्रित्य तापसाः ।
युष्माभितत्सुता मह्यं वरणीयेति चान्वशात् ॥ ४२॥
ततस्ते स्वकुटुम्बित्व-कृतां हित्वा त्रपां मुदा ।
सारुन्धतीकाः सपदि प्राप्तवन्तो हिमालयम् ॥ ४३॥
सत्कृतास्तेन विधिवदुक्त्वा शङ्कर-वैभवम् ।
कन्याञ्च वरयामासुर्हिताय जगताममी ॥ ४४॥
मेनाञ्चारुन्धती किञ्चिच्छङ्कमानां समादधे ।
तत ओमिति नीहार-भूधरेण प्रतिश्रुते ॥ ४५॥
श्वः कल्याणमिति प्रोच्य प्रभवे च न्यवेदयन् ।
हिमवानपि कल्याणमण्डपं विश्वकर्मणा ॥ ४६॥
मुक्तामणि-पताकाढ्यं कारयामास विस्तृतम् ।
लोकानामपि सर्वेषां प्राहिणोल्लग्नपत्रिकाम् ॥ ४७॥
पार्वतीञ्च सुगन्धाढ्य-तैलेनाभ्यङ्ग-मङ्गलम् ।
अभिषेकं पुरन्ध्रीभिः कारयामास भूधरः ॥ ४८॥
भूषणैर्विविधैश्चैतां भूषयामास यत्नतः ।
ताभिर्निवेदिते तस्या अलङ्कारः कृतस्त्विति ॥ ४९॥
ब्राह्मेणैव विवाहेन दित्संस्तां शम्भवे गिरिः ।
कैलासमगमत्तूर्णं आह्वानाय महेशितुः ॥ ५०।
नन्दिना चाभ्यनुज्ञातो महेशाय न्यवेदयेत् ।
तेनोमिति स्वीकृते च प्राप स्वं पुरमद्रिराट् ॥ ५१॥
ईशाज्ञया तदा नन्दी सस्मार सकलं जगत् ।
कालाग्निरुद्र-मुख्याश्च हाटकेशादयस्तथा ॥ ५२॥
स्वैः स्वैर्गणैस्सहायातास्तस्थुः प्राञ्जलयोऽग्रतः ।
दशावतारैर्विष्णुश्च व्यूहैर्लक्ष्म्या सहाययौ ॥ ५३॥
विधिर्वाण्या च नवभिः प्रजापतिभिरागमत् ।
इन्द्रादयश्च दिक्पालाः स्वैः स्वैर्यानैः समागमन् ॥ ५४॥
कटाक्षिता महेशेन स्वे स्वे स्थान उपाविशन् ।
अथ ब्रह्मा च विष्णुश्च तं व्यजिज्ञपतां शिवम् ॥ ५५॥
इमानि भूषणान्येतैरलङ्कृत-तनुं प्रभुम् ।
द्रष्टुमिच्छन्ति सर्वेऽपि तदङ्गीकर्तुमर्हसि ॥ ५६॥
इत्युक्तो धूर्जटिस्तानि समालभ्य कराग्रतः ।
क्षणात्तदिष्ट-भूषाढ्यरूपां तनुमधारयत् ॥ ५७॥
तैश्च सर्वान् दिविषदोऽभूषयत्तत्तदीप्सितैः ।
अथाधिरुह्य वृषभं क्षणान्नीहारभूधरम् ॥ ५८॥
प्राप श्रुतिरवैर्वाद्य-रवैर्जयजयारवैः ।
देवदानव-गन्धर्वमुनीन्द्रैः परिवारितः ॥ ५९॥
प्रत्युद्गतो हिमागेन प्रादक्षिण्यक्रमात्पुरम् ।
प्रविश्य पौरनारीभिः स्तूयमानयशा ययौ ॥ ६०॥
कल्याण-मण्डपद्वारि मङ्गळाष्टक-सत्कृतः ।
अन्तः प्रविश्य तन्मध्ये दिव्यं सिंहासनं गतः ॥ ६१॥
पार्वती च पुरन्ध्रीभिर्गौरीकल्याणपूर्वकम् ।
आनीय स्थापिता तत्र ततो डोलाधिरोहणम् ॥ ६२॥
कर्तुमभ्यर्थितो देवैरङ्ग्यकार्षीद्दयानिधिः ।
कृतमाला-व्यत्ययश्च मेनया सह मातृभिः ॥ ६३॥
पादौ प्रक्षाल्य पयसा कृतनीराजनः प्रभुः ।
कटे माङ्गलिके साकं पार्वत्या समुपाविशत् ॥ ६४॥
अथाद्रिराजः कन्याया दानं सङ्कल्प्य मेनया ।
क्षेमाय जगतां प्रादाच्छम्भवे सर्वमङ्गलाम् ॥ ६५॥
प्रत्यगृह्णाद्यथा वाचमर्थस्तां चन्द्रशेखरः ।
सर्वे लोका मुमुदिरे शङ्खा भेर्यश्च दध्वनुः ॥ ६६॥
भूमिश्चोत्तरतो भुग्ना दक्षिणे चोन्नताऽभवत् ।
तदा निजसमं लोपामुद्राजानिं महेश्वरः ॥ ६७॥
सम्प्रेष्य दक्षिणामाशां ब्रह्मणा प्रार्थितः पुनः ।
अग्नौ जुहाव विधिवत् चक्रे सप्तपदीमपि ॥ ६८॥
लाजहोमं च निर्वर्त्य कृताशीर्वादमङ्गलः ।
भोजयित्वा जनान् सर्वान् कैलासं प्रतिपेदिवान् ॥ ६९॥
तत्र प्रविश्य होमादि-शेषहोमान्तकर्मणि ।
निर्वृत्ते देवताः सर्वाः लब्धानुज्ञा महेश्वरात् ॥ ७०॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां सम्भवकाण्डे स्कन्दसप्तशत्यां
गौरीविवाहः प्रथमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ हां ह्रीं सां गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय सप्तदशमन्त्रात्मकाय
श्री कल्याणसुन्दराय ताम्बूलं-कुङ्कुमाक्षत-
पुष्प-सधृत-बिल्वच्छदमाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळहोमेन गिरिजाहृदयस्थित-
झरजात-पाण्डर-मनुजाधिप-अद्रि-तनुजा-विवाह-
पारिजातमोद-सहजात-शातजलजायुधेश-शरजाल-
पात-दिव्यमङ्गळ-कल्याणमहोत्साह-
श्रीकल्याणसुन्दरः प्रीयताम् ।
जय श्रीकल्याणसुन्दर जय जय
जय पार्वतीपते जय जय
जय गौरीमनोहर जय जय
जय सकलमङ्गळप्रद जय जय
जय सकलकार्य-जयप्रद जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.२ कुमारसम्भवः द्वितीयोऽध्यायः ।
ॐ बालस्कन्दासनाय नमः ।
ॐ बालस्कन्दमूर्तये नमः ।
पद्मसव्य-कटिसंयुतवामं पद्मकान्ति-निभमेकमुखञ्च ।
बालवृद्धिकरमीश्वरसूनुं बालमुन्नतभुजं प्रणतोऽस्मि ॥
ॐ बालस्कन्दाय नमः ।
स्वं स्वं निलयमासेदुर्मुनयो विबुधा नराः ।
सर्वे बभूवुः सन्तुष्टा गौरीशङ्करसङ्गमे ॥ ७१॥
अथ गौर्या सहेशानो रममाणः शिलादजम् ।
द्वारदेशे प्रतिष्ठाप्य शुद्धान्तं प्राविशत्सुखम् ॥ ७२॥
काले बहुतिथे याते देवा विष्णुमुखाः पुनः ।
मिलित्वा चिन्तयामासुः स्कन्दोत्पत्ति-विलम्बनात् ॥ ७३॥
मेरोर्गुहां गतास्ते हि विचिन्त्य विबुधा द्रुतम् ।
मारुतं प्रेषयामासुः शिव-वार्तोपलब्धये ॥ ७४॥
स च भोगपुरं प्राप्य प्रविश्येशान-मन्दिरम् ।
कक्ष्याः सप्त व्यतीयाय केनाप्यनुपलक्षितः ॥ ७५॥
अथान्तः पुरमिच्छन् सन् प्रवेष्टुं नन्दिवारितः ।
भीतः प्राप सुरान् भूयो न शक्नोमि शिवान्तिकम् ॥ ७६॥
गन्तुमित्यब्रवीच्चापि तच्छ्रुत्वा सर्वदेवताः ।
सम्भूय जग्मुः कैलासं स्तोत्रैश्चेश्वरमस्तुवन् ॥ ७७॥
कामारे त्रिपुरारे कालारे कालकूटविषभक्ष ।
शूरत्रस्तानस्मान् पाहि विभो षण्मुखं च जनयेति ॥ ७८॥
अथ प्रसन्नो भगवान् वदनैः षड्भिरन्वितः ।
गौरीमपश्यन्नेत्रेभ्यः षड्भ्यस्तेजांसि जज्ञिरे ॥ ७९॥
ललाटाग्नि-प्रभापुञ्जमक्षमान्वीक्षितुं सुरान् ।
ज्ञात्वेशो वह्निमाहूय वायुना सह तद्वह ॥ ८०॥
निधेहि सुरनद्यां चेत्यशात् सोऽपि तथाऽकरोत् ।
यदा शरवणे तेन यत्नेन महताऽऽहितम् ॥ ८१॥
तदा पद्मेषु तेजांसि षट्सु षट्च पुरां रिपोः ।
षोढा बालवपूंष्यासन् नेत्रासेचनकान्यथ ॥ ८२॥
देवा विष्णुमुखा दृष्टवा ररक्षुः श्रद्धया शिशून् ।
षट्कृत्तिकाः समाहूय स्तन्यं चादापयद्धरिः ॥ ८३॥
गुहोऽपि प्रीणयंस्तासां मनांसि नयनानि च ।
बह्वीभिर्बाललीलाभिरवर्धत दिने दिने ॥ ८४॥
चन्द्रमा इव सम्पूर्णः कलाभिरुदितो दिवि ।
विघ्नेन स्वीयगर्भस्य क्रुद्धयाऽतितरां तथा ॥ ८५॥
गौर्या तु देवताः शप्ता निजगर्भभराऽसहाः ।
यूयमप्यनपत्या हि यथैवाहं भविष्यथ ॥ ८६॥
इति शप्त्वा क्रुधा यान्त्या मणयो नूपुरस्थिताः ।
नवापि व्यगलंस्तेषु तन्मूर्तिः प्रतिबिम्बिता ॥ ८७॥
शिवस्तु ताः समाहूय प्रेम्णाऽपश्यन्नवाङ्गनाः ।
तत्क्षणादेव ताः सर्वाः गर्भं दधुरुमापतेः ॥ ८८॥
गर्भनिस्सरणं माभूदिति शप्तास्तदोमया ।
स्वेदोद्गमादजनयन् गणनाथान् बहूनिमाः ॥ ८९॥
अथ गर्भगतैर्देवी स्तुता शम्भुप्रसादिता ।
अन्वगृह्णाद्रत्नदेवीस्ताभ्यो जाता नवात्मजाः ॥ ९०॥
वीरबाहुर्वीरधीरो वीरमार्ताण्ड एव च ।
वीरान्तकस्तथा वीररक्षो वीरपुरन्दरः ॥ ९१॥
वीरकेसरिसंज्ञश्च वीरमाहेश्वरस्तथा ।
वीरेन्द्र इति च ख्याताः तत्तद्वल्लीसमा रुचा ॥ ९२॥
तांश्च स्कन्द-सहायार्थं अनुशास्य महेश्वरः ।
गौर्या साकं शरवणं ययौ पुत्रदिदृक्षया ॥ ९३॥
पुत्रषट्क-मुखाम्भोजालोकनामोदमन्वभूत् ।
उमा चादात् ज्ञानमयं स्तन्यं स्नुतपयोधरा ॥ ९४॥
गाढालिङ्गन-निर्वृत्त-वपुरैक्यभृते निजम् ।
षड्भिर्मुखैर्द्वादशभिः भुजैरष्टादशाक्षिभिः ॥ ९५॥
युक्ताय द्विपदे तत्र समये यान्यजीगलन् ।
पयः पृषन्ति तत्पानामुक्ताः शापान्मुनेस्सुताः ॥ ९६॥
ततस्ताः कृत्तिकाः शम्भुरन्वगृह्णात्तदाख्यया ।
कार्तिकेय इति ख्यातिं लभतां कृत्तिकादिने ॥ ९७॥
उपोष्य गुहपूजां ये कुर्वन्ति भुवि मानवाः ।
तेषां सर्वाभीष्ट-सिद्धिर्गुहेच्छातो भवत्विति ॥ ९८॥
अथ स्कन्दः शम्भुगौरीलालितोऽङ्कगतस्तयोः ।
लीला बहुविधाश्चक्रे बालभावोचिताः शुभाः ॥ ९९॥
क्रमेण वृष-सर्पाखु-सिंहैर्युध्यन्सहानुगः ।
ब्रह्मलोके विष्णुलोकेऽखिललोके च वज्रिणः ॥ १००॥
अथाद्रीनम्बुधींश्चैव भञ्जयन् क्षोभयंश्च सः ।
शिखराणि महामेरोः बभञ्च शिशुलीलया ॥ १०१॥
दमनाद्दिग्गजानां च मेरोरुत्पाटनेन च ।
क्रुद्धः शतमखस्तेन योद्धुमागात् सुरैस्सह ॥ १०२॥
ईशमाया-विलसितं तेषां बुद्धवाऽथ षण्मुखः ।
प्रत्ययुध्यत तैः साकं मूर्छयामास तानपि ॥ १०३॥
अथ नारदवाक्येन बृहस्पतिरुपेत्य तम् ।
तुष्टाव सोऽपि प्रीतः सन् सुरांस्तानुदजीवयत् ॥ १०४॥
वरं वृणीत चेत्याह ते तथोक्ताश्च षण्मुखम् ।
इन्द्रत्वे वरयामासुर्भगवांस्तु दयानिधिः ॥ १०५॥
शक्रस्यैवेन्द्रतां स्वस्य सेनानीत्वमुशन् पुनः ।
प्राप्य स्कन्दगिरिं तत्र विश्वकर्म-विनिर्मिते ॥ १०६॥
मण्डपे विबुधैः सिद्धैर्मुनिभिश्चाभिषेचितः ।
सैनापत्ये स्थितः सर्वान् लोकान् पालयति स्म सः ॥ १०७॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां सम्भवकाण्डे स्कन्दसप्तशत्यां
कुमारसम्भवः द्वितीयोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ हां ह्रीं साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय सप्तत्रिंशत्मन्त्रात्मकाय
श्रीबालस्कन्दाय ताम्बूलकुङ्कुमाक्षत-
पुष्प-सघृत-जम्बू-फलमाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ होमेन विजृम्भित-कुसुम्भवर्ण-स्वर्णशरीर-
शोभा-परम्पराभङ्गि-भर्त्सित-बालरविद्युतिः सुरसुन्दरीबृन्द-
विषादानलः निजसौन्दर्य-निन्दित-सुन्दर-कन्दर्पतनुः श्रीबालस्कन्दः प्रीयताम् ।
जय श्रीबालस्कन्द जय जय
जय ज्ञानस्कन्द जय जय
जय भक्तवत्सल जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.३ प्रणवोपदेशः तृतीयोऽध्यायः ।
ॐ स्वामिनाथासनाय नमः
ॐ स्वामिनाथमूर्तये नमः ।
ऊरुहस्तं दण्डपाणिं मौञ्जी-कौपीनधारिणम् ।
शुक्लयज्ञोपवीतञ्च सुप्रसन्नं स्मिताननम् ॥
सिन्दूरारुणवर्णञ्च किञ्चिदूर्ध्व-शिखोज्ज्वलम् ।
भक्ताभीष्टप्रदातारं स्वामिनाथमहं भजे ॥
ॐ अं उं मं ह्रीं स्वामिनाथाय नमः ।
कदाचिन्नारदो नाम भूसुरो नारदोपमः ।
सोमेनायजतेशानं पशोस्त्वालम्भन-क्षणे ॥ १०८॥
प्राक्कर्मवशतो मेषो बभूव गिरिसन्निभः ।
लोकानाकुलयन् सर्वान् चचार च मदाविलः ॥ १०९॥
वैकुण्ठमपि गत्वा सः यदा तं भीषयन् स्थितः ।
तदा मुनिगणैः स्कन्दः प्रार्थितो वीरबाहुना ॥ ११०॥
आनाय्य तमुपारुह्य त्रीन्लोकान् सञ्चचार सः ।
पादघातैः कशाघातैः पीडितः प्रकृतिं गतः ॥ १११॥
तं सुन्दराकृतिं स्वस्य वाहनत्वेऽप्यकल्पयत् ।
नारदं च गुहः प्राह प्रार्थयन्तं क्रतोः फलम् ॥ ११२॥
तव यज्ञेन मे वाहो जातस्तेन तव क्रतुः ।
शताश्वमेधैस्तुल्यत्वं गतो ब्रह्मार्पणाद्द्विज ॥ ११३॥
यच्छिवार्पणमीषच्च क्रियते तदनन्तताम् ।
एतीति तं विसृज्य स्वैरनुगैर्विजहार ह ॥ ११४॥
अथ ब्रह्मा प्रदोषे तु कदाचिद्द्रष्टुमीश्वरम् ।
कैलासमेत्य प्रविशन्नन्तर्मृत्युञ्जयालयम् ॥ ११५॥
क्रीडन्तं षण्मुखं द्वारे ह्यनादृत्य ययौ पुनः ।
निर्गच्छन्नपि सत्कारं न चकार यदा गुहे ॥ ११६॥
तदा पप्रच्छ तं स्कन्दः को भवान् का च ते कृतिः ।
का विद्या कुत्र वासश्चेत्येतत्ब्रूहि यथार्थतः ॥ ११७॥
इति पृष्टेन विधिना स्रष्टृत्वं वेदवेत्तृता ।
सत्यलोकाधिपत्यं च वर्णितं स्वमशेषतः ॥ ११८॥
तर्ह्येकमुच्यतां वाक्यमृगादाविति शाङ्करिः ।
यदाऽपृच्छत्तदा पूर्वं प्रणवोच्चारपूर्वकम् ॥ ११९॥
विधिना वक्तुमारब्धे तिष्ठ तिष्ठेति तर्जयन् ।
पप्रच्छ षण्मुखः पूर्वं ओङ्कारार्थमुदीरय ॥ १२०॥
स्वाध्यायाध्ययनं ह्यर्थज्ञानार्थं तद्विना नरः ।
स्थाणुर्भवेद्भारहार इति वेदेषु निन्द्यते ॥ १२१॥
इति पृष्टो विधिस्तस्याप्यहमेवार्थ इत्युत ।
यदाऽब्रवीत्तदेशस्य पुत्रस्तं मूर्ध्नि कुट्टयन् ॥ १२२॥
कारागृहे न्यरौत्सीच्च तत्क्षणं वीरबाहुना ।
सृष्टिं च जगतः कर्तुं स्वयमारभत प्रभुः ॥ १२३॥
अथ देवैर्ज्ञातवृत्तः प्राहिणोन्नन्दिनं शिवः ।
ब्रह्माणं मोचयिष्यन् सन् यदा नाङ्ग्यकरोद्गुहः ॥ १२४॥
तदा स्वयं विना गौरीं स्कन्दपत्तनमेत्य तम् ।
द्वित्रिः साम्ना च कोपेनाप्युवाच गुहमीश्वरः ॥ १२५॥
ब्रह्माणं मुञ्च मुञ्चेति ततो मुक्त्वा विधिं गुहः ।
न्यवेदयत्तस्य दौष्ट्यं पित्रा पृष्टः पुनः स्वयम् ॥ १२६॥
प्रणवार्थमुपादिक्षच्छम्भोः कर्णे रहस्यथ ।
सदाशिवों सुब्रह्मण्यों इति नावोङ्कृतेः श्रुतिः ॥ १२७॥
अर्थं ब्रवीति तद्ज्ञानात्पुरुषार्थो भवेद्ध्रुवम् ।
अधिकार-मदग्रस्तो न जानाति हि पद्मजः ॥ १२८॥
इत्युक्त्वा शङ्करस्तुष्टः कैलासं प्राप्य पार्वतीम् ।
प्रतिन्यवेदयत्सर्वं साऽपि तुष्टा मुदं ययौ ॥ १२९॥
ॐ जय जय श्रीस्कन्दपुराणे शङ्करसंहितायां सम्भवकाण्डे स्कन्दसप्तशत्यां
प्रणवोपदेशः तृतीयोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ अं उं मं ह्रीं साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय द्वाविंशति-मन्त्रात्मकाय
श्रीस्वामिनाथाय ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-कपित्थ-फलमाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन यमनियमासन-
प्राणायाम-प्रत्याहार-ध्यानयोग-समाधि-
सञ्चिताष्टाङ्ग-सम्पुष्टि-विशिष्टि-योगाकृष्टाणिमादि-
गुणाष्टैश्वर्यसिद्धिः प्रसिद्ध-प्रणवोपदेशः श्रीस्वामिनाथः प्रीयताम् ।
जय श्रीबालस्कन्द जय जय
जय स्कन्दगुरो जय जय
जय सकलमन्त्रमूर्त्ते जय जय
जय ज्ञानदायक जय जय
जय सकलकार्य-जयप्रदे जयजय
नमः पार्वतीपतये हर हर महादेव ॥
२.४ तारकासुरवधः चतुर्थोऽध्यायः ।
ॐ तारकासुरवधासनाय नमः ।
ॐ तारकासुरवधमूर्तये नमः ।
वरदमङ्कुश-ध्वजे च कटक-चाप-वज्रमप्-
यभय-पाश-चक्र-खड्ग-मुसल-शक्ति-मन्वहम् ।
द्विदश-पाणिभिर्दधानमरुण-कोटि-सन्निभं
भजत तारकारिमद्य भवविनाशकारणम् ॥
ॐ श्रीं सौं तारकारये नमः ।
अथ पृष्टो गिरिजया गिरीशः प्राह शाङ्करेः ।
नाम्नां निरुक्तिं माहात्म्यं विभूतिञ्च विशेषतः ॥ १३०॥
सर्वज्ञत्वात् स्कन्द इति हृद्गुहास्थो गुहः स्मृतः ।
सुतरां ब्राह्मणप्रीत्या सुब्रह्मण्य इतीर्यते ॥ १३१॥
वह्निनीतोऽग्निभूश्चैव कृत्तिकाप्रीतिकृत्पुनः ।
कार्त्तिकेयः शरवणे जातः शरवणोद्भवः ॥ १३२॥
विशाख-ऋक्ष-जातत्वाद्विशाख इति कथ्यते ।
सुरनद्यामभिव्यक्तो गाङ्गेय इति कीर्तितः ॥ १३३॥
तत्छ्रुत्वा गीयमानं तु वैणिकैर्विष्णुसद्मनि ।
तत्कन्येऽमृतवल्लीति तथा सौन्दर्यवल्ल्यपि ॥ १३४॥
प्रेमवत्यावभूतां हि षण्मुखे न्यस्तमानसे ।
शरकाननमभ्येत्य तपश्चाचेरतुः स्वयम् ॥ १३५॥
तेन सन्तुष्टहृदयः स्कन्दः प्रादुरभूत्पुनः ।
उवाच चेन्द्रभवने गेहे शिवमुनेरपि ॥ १३६॥
वसतं युवयोः पाणी गृहीष्यामीति सादरम् ।
अथ स्मृतो गिरीशेन गतः कैलासमग्निभूः ॥ १३७॥
अलञ्चकार तस्याङ्कं सोमास्कन्दं शिवं तदा ।
दृष्वाऽऽपुर्जन्म-साफल्यं देवा विष्णुपुरोगमाः ॥ १३८॥
अथ विज्ञाय सन्दर्भमुचितं चिररात्रतः ।
शूरपद्मकृतां पीडां षण्मुखाय व्यजिज्ञपन् ॥ १३९॥
सोऽपि कैलासपतिनाऽनुज्ञातः प्रययौ मुदा ।
तातं प्रदक्षिणीकृत्य तथाम्बां सर्वमङ्गलाम् ॥ १४०॥
नमस्कृत्य परं ताभ्यां दत्तानुज्ञो ऽनुगावृतः ।
अस्त्राण्यनेकरूपाणि लब्ध्वा शक्तिञ्च शङ्करात् ॥ १४१॥
शतयूधं शताङ्गं च मारुतं सारथिं तथा ।
शङ्खभेरी-मृदङ्गादि-वाद्यघोष-पुरःसरम् ॥ १४२॥
गत्वाऽऽदौ पर्वतं गन्धमादनं हेमकूटकम् ।
ययौ पश्चात्तदा विष्णुमुखाः स्कन्दं व्यजिज्ञपन् ॥ १४३॥
भगवन् क्रौञ्च-शैलोऽयमसुरोऽगस्त्य-शापतः ।
भूत्वैवं तारकस्यातिमित्रं देवान् हिनस्ति हि ॥ १४४॥
द्रावयैनं क्षणेनेति प्रार्थितः शङ्करात्मजः ।
वीरबाहुं समाहूय तन्निरोधनमन्वशात् ॥ १४५॥
स यदा न्यरुणत् क्रौञ्चं तदाऽऽगात्तारको युधे ।
अतीव तुमुलं युद्धं वीराणां तारकस्य च ॥ १४६॥
यदा प्रवृत्तमष्टानामसह्यं वीक्ष्य तत्क्षणम् ।
वीरबाहुः स्वयं योद्धुं तेन साकं ययौ तदा ॥ १४७॥
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
अस्त्रप्रत्यस्त्र-योगेन सर्वविस्मय-कारकम् ॥ १४८॥
यदा तु भीतो दैत्येन्द्रः प्राविशत्क्रौञ्च-गह्वरम् ।
तदा पराङ्मुखस्यार्हो वधो नेति विचिन्तयन् ॥ १४९॥
वीरबाहुर्जहारास्त्रं स तु मायाबलेन वै ।
गुहायां न्यक्षिपत्सर्वान् वीरांस्ते तु परिभ्रमम् ॥ १५०॥
कुर्वन्तो निर्गमालाभात् खिन्नचित्ता यदाऽभवन् ।
गणनाथास्तदा दैत्यभीता दुद्रुविरे दिशः ॥ १५१॥
तत्सर्वं नारदेनोक्तं श्रुत्वा स्कन्दो महामनाः ।
प्रस्थाय चतुरङ्गेन सैन्येनायोद्धुमाययौ ॥ १५२॥
तं दृष्ट्वा तारकस्तस्य तेजो-विस्मित-मानसः ।
शिवपुत्र इति ज्ञात्वा तमाह विनयान्वितः ॥ १५३॥
दैवासुरं हि सहजं वैरं तस्य न निष्क्रिया ।
विषयेऽस्मिन् कः प्रसङ्गः शम्भोस्तत्तनयस्य वा ॥ १५४॥
अतो नमस्करोमि त्वां गच्छ कैलासमीश्वरम् ।
पार्वतीञ्च समाराद्धुमुचितं तव षण्मुख ॥ १५५॥
इत्युक्तस्तारकेणेशपुत्रः प्राह शिवाज्ञया ।
वेदातिक्रम-कर्तॄणां निग्रहं कर्तुमागमम् ॥ १५६॥
इत्यन्योन्यं वीरवाद-पुरस्सरमयुध्यताम् ।
देवाः सिद्धाः च मुनयो विस्मयं जग्मुरुत्तमम् ॥ १५७॥
गगनं गगनाकारं सागरः सागरोपमः ।
स्कन्द-तारकार्योर्युद्धं स्कन्द-तारकयोरिव ॥ १५८॥
यदा सर्वाणि चास्त्राणि वृथाजातानि षण्मुखे ।
तदानीं तारको दैत्यः स्कन्देनोरसि ताडितः ॥ १५९॥
मूर्च्छितः पुनरुत्थाय कृत्तशुण्डो गुहेन च ।
अमर्ष-वशमापन्नः पुनरायोद्धुमागतः ॥ १६०॥
षण्मुखश्च शितैर्बाणैरवधीत्तस्य सारथिम् ।
जहृषुश्च तदा देवा विषण्णस्तारकोऽभवत् ॥ १६१॥
अथ मायाबलेनैव योद्धुं निश्चित्य दानवः ।
क्रौञ्चेन सहितः स्कन्दं पुनरभ्युद्ययौ बली ॥ १६२॥
कालानलात्मना भूत्वा यदा लोकांस्तताप सः ।
तदा जघान तं शक्त्या साकं क्रौञ्चेन षण्मुखः ॥ १६३॥
देवा मुमुदिरे सर्वे लोकाश्च जहृषुर्भृशम् ।
वीराश्चोत्तस्थुराकाशात्पुष्पवर्षं पपात च ॥ १६४॥
स्कन्दः पाशुपतास्त्रं तत्तारकीयं स्वहस्तकम् ।
शत्रुप्राणहरं तीक्ष्णं प्रायच्छद्वीरबाहवे ॥ १६५॥
अथ स्कन्दो हिमगिरिं प्राप्य नाकिभिरर्थितः ।
दिव्यसिंहासने विश्वकर्मणा निर्मिते विभुः ॥ १६६॥
उपविष्टो देवतानां सपर्यां प्रतिगृह्य च ।
शिवाभ्यां नन्दितो विष्णुब्रह्ममुखैः सुरैरपि ॥ १६७॥
उवास रात्रौ स्कन्दाद्रौ सर्वेषां दर्शनं ददत् ।
सर्वेऽपि नेत्रैस्तं पीत्वा न्यमज्जन्मोद-सागरे ॥ १६८॥
तारकासुर-पत्न्यस्तु विलपन्त्यो भृशातुराः ।
चितामारोप्य भर्तारं स्वयञ्चारुरुहुर्मुदा ॥ १६९॥
पितरं मातृभिः साकं संस्कृत्य भृशदुःखितः ।
जगाम शूरपद्मस्य समीपं तारकात्मजः ॥ १७०॥
निवेद्य तस्मै वृत्तान्तं प्रत्याय्य शपथेन च ।
दुःखमुत्पातयामास तस्मै सोऽपि चिरं रुदन् ॥ १७१॥
भ्रात्रा सिंह-मुखेनान्यैर्मन्त्रिभिश्च समन्वितः ।
चकार युद्धसन्नाहं वारितोऽमोहमन्त्रिणा ॥ १७२॥
दूतान् स प्राहिणोत्स्कन्द-वार्ता-तत्वोपलब्धये ।
अपश्यच्च जगत् स्कन्दमयं तद्गतमानसः ॥ १७३॥
इति तारक-संहारकथा शत्रुजयप्रदा ।
पठतां शृण्वताञ्चैव सर्वाभीष्टफलप्रदा ॥ १७४॥
अथ स्कन्दगिरेस्तस्माच्छूरपद्म-जिघांसया ।
प्रस्थाय षण्मुखः सर्वैरन्वितो दैवतैः सह ॥ १७५॥
केदारं प्रथमं प्राप्य ततो वाराणसीमपी ।
श्रीपर्वतं वटारण्यं कैलासं दक्षिणं तथा ॥ १७६॥
काञ्चीं चिदम्बरञ्चैतेष्वर्चयित्वा शिवौ स्वयम् ।
गच्छंश्च सह्यजा-तीरमुत्तरं प्राप्य षण्मुखः ॥ १७७॥
सूर्यस्यास्तमयात्तत्र सेनां विश्रमयन्यदा ।
उवास विश्वकर्माऽपि रत्नसौधं तदाऽकरोत् ॥ १७८॥
तत्र मण्णिनदीतीरे स्वनाम्ना नगरीं गुहः ।
प्रतिष्ठाप्य व्रजन्मध्ये मरुभूमिं कटाक्षतः ॥ १७९॥
शीतलीकृत्य वेगेन पराचलमुपागमत् ।
तत्र षट्तापसान् श्रीमत्पराशरमुनेः सुतान् ॥ १८०॥
अनुगृह्य महेन्द्रेण मानितो विबुधैः सह ।
जगाम सेन्तीनगरं तत्क्षणाद्विश्वकर्मणा ॥ १८१॥
निर्मिते मण्डपे तिष्ठन्नन्वयुङ्क्त बृहस्पतिम् ।
दैत्याः कति कुतो जाताः किञ्चैषां वीर्यमित्यपि ॥ १८२॥
तत्सर्वं वक्तुमारेभे गुहायाऽथ बृहस्पतिः ।
इत्थं सम्भवकाण्डोऽयं पूर्णः श्रेयस्करो नृणाम् ॥ १८३॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां सम्भवकाण्डे स्कन्दसप्तशत्यां
तारकासुरवधः चतुर्थोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ श्रीं शौं साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय चतुःपञ्चाशत्-मन्त्रात्मकाय
श्रीतारकारिमूर्तये ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-बीजापूर-फलमाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन सकलसुरासुर-
निकरापेक्षित-सैनापत्यः करषट्कयुग्मधृत-
कालानल-परिज्वलज्ज्वालायमान-ज्योतिर्मय-
महाशक्तियुक्त-शरखड्गचाप-परशुपाश
वज्र-कुक्कुटध्वज-खेटकङ्कट-कार्मुक-विविधायुध-
विदळित-दानव-बाधाविमुक्तः श्रीतारकारिः प्रीयताम् ।
जय श्रीतारकारिमूर्ते जय जय
जय असुरकुलान्तक जय जय
जय यज्ञरक्षक जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.५ श्री वीरबाहुदूतः पञ्चमोऽध्यायः
ॐ कार्तिकेयासनाय नमः ।
ॐ कार्तिकेयमूर्तये नमः ।
वरदकुलिशखेटं वामहस्तत्रये च दधतमभयशक्तिं खड्गमन्यत्रये च ।
तरुणरवि-समाभं साधुभिःपूज्यमानं कमलवदन-षट्कं कार्त्तिकेयं नमामि ॥
ॐ ह्रीं सां कार्तिकेयाय नमः ।
पुरा मङ्गलकेशिन्यामसुरेन्द्रः सुतां शुभाम् ।
सुरसां जनयामास सा च शुक्रप्रसादतः ॥ १८४॥
सर्वाश्च विद्याः सम्पाद्य मायेत्याख्यां जगाम ह ।
असुराणां समृद्ध्यर्थं कश्यपाश्रममेत्य सा ॥ १८५॥
विद्युल्लतेव तच्चितं मोहयन्ती पुनः पुनः ।
प्रार्थिता तेन भोगार्थं कामरूपवरेण च ॥ १८६॥
प्रथमं शूरपद्मञ्च सिंहास्यञ्च द्वितीयकम् ।
तृतीयं तारकञ्चैव चतुर्थीमप्यजामुखीम् ॥ १८७॥
सैन्यैः सह समुत्पाद्य तत्तद्वक्त्रयुता बहु ।
यदैवोपरता तर्हि शूर-सिंहास्य-तारकाः ॥ १८८॥
पप्रच्छुः पितरं नत्वा किन्नः कार्यमिहेति सः ।
तपो दानं मतिर्धर्मे कार्या भूतदया सदा ॥ १८९॥
इत्युदाहरणं भूरि कुर्वन्नुपदिदेश ह ।
माया तु तन्निराकृत्य धर्मोऽयं ननु योगिनाम् ॥ १९०॥
भवद्भिस्तु वटद्वीपं गत्वा शम्भुं प्रसाद्य च ।
दीर्घमायुर्महद्वीर्यमनेकाण्डाधिराजता ॥ १९१॥
केनाप्यवध्यता चैव सम्पाद्येति समन्वशात् ।
तदर्थं यज्ञसम्भारान् तन्त्रं मन्त्रान् दिदेश च ॥ १९२॥
तथैव ते शम्भुमिष्ट्वा महाकुण्ड-विधानतः ।
प्रतीक्षमाणा अपि तत्प्रसादं नैव लेभिरे ॥ १९३॥
संवत्सर-सहस्रान्ते शूरपद्मः स्वकां तनुम् ।
छित्वा जुहाव तेनाऽपि न प्रसन्नो यदा शिवः ॥ १९४॥
तदाऽग्नौ निपपाताऽथ सिंहवक्त्रश्च दुःखितः ।
शिरांसि कर्तयित्वाऽग्नौ जुहाव च पुनः पुनः ॥ १९५॥
तदा महेश्वरः साक्षाद्गौर्या साकं वृषस्थितः ।
दत्वा दर्शनमेतस्मै गङ्गातोयेन चानलम् ॥ १९६॥
शमयित्वा शूरपद्ममुज्जीव्य तदभिष्टुतः ।
तस्मै ददौ वरञ्चाष्ट-सहस्राण्डाधिनेतृताम् ॥ १९७॥
अन्याभ्यामपि सिंहास्य-तारकाभ्यां महेश्वरः ।
यथेप्सितं वरं प्रादात् तपसा तोषितस्तयोः ॥ १९८॥
अष्टाशतयुगञ्चायुः स्वशक्त्यन्यैरवध्यताम् ।
ते पुनः कश्यपं प्राप्य निवेद्य स्वमनोरथम् ॥ १९९॥
तेनावधीरिताः शुक्रमुपेत्याभ्यर्थयन् पुनः ।
स चार्थशास्त्रं लोकस्य पौरुषायत्ततामपि ॥ २००॥
निरूपयन् देवहिंसां कर्तुमेतानचोदयत् ।
अथ ते हृष्टमनसः प्रस्थिता दिग्जिगीषया ॥ २०१॥
न्यरुन्धन्नलकामादौ चतुरङ्गबलैः सह ।
धनदेन च वै तस्य वृत्त्या शूरः सुतोषितः ॥ २०२॥
ईशान-दिशमुत्सृज्य शिवचिह्नस्य धारणात् ।
महेन्द्रनगरीं दग्ध्वा प्रापुः वह्नेः पुरीं ततः ॥ २०३॥
अग्निं विजित्य शमन-नगरीं रोद्धुमागमन् ।
यमोऽपि विविधै रत्नैर्वस्त्रैर्धान्यैश्च सादरम् ॥ २०४॥
प्रत्युद्गम्य प्रणम्यामून् तन्निदेशेन लम्भितः ।
पितृराज्यं जुगोपाथ निरृतेः प्रययुर्दिशम् ॥ २०५॥
तेन ज्ञापित-बन्धुत्वाः तमास्थाप्य निजे पदे ।
वरुणस्य दिशं प्राप्य रुरुधुस्तस्य पत्तनम् ॥ २०६॥
वरुणश्च यदा भीतो विवेशान्तरमम्बुधेः ।
लुण्टयित्वा तदा सर्वं धनं तस्य ययुर्द्रुतम् ॥ २०७॥
वायोः ककुभमेतस्मिन् भीते पातालमीयुषि ।
मुमुषुस्तस्य रत्नानि ललनाश्च सुरेतरे ॥ २०८॥
एवं जित्वा दिशोऽष्टौ च नागलोकमुपेत्य ते ।
नागान्विजित्य तैश्चापि स्वीयरत्नैः प्रसादिताः ॥ २०९॥
सप्तद्वीपां वसुमतीं विजिग्युः क्रमशश्च ते ।
क्षीराम्बुधिमथाऽसाद्य पयः पानैरलोलयन् ॥ २१०॥
श्रीश्च भूमिश्च निद्राणं प्रबोध्य निजनायकम् ।
आसन्नमापदं तस्मा अब्रूतां सोऽपि तैः सह ॥ २११॥
युद्ध्वा चिरं ततस्तेषां वरमीशकृतं स्मरन् ।
सान्त्वयंस्तान् परां मैत्रीं भावयंस्तैश्च मोदितः ॥ २१२॥
अथ द्युलोकं क्रमशः लोकांश्च महरादिकान् ।
अतीत्य सत्यलोकस्थं ब्रह्माणं प्रययुर्द्रुतम् ॥ २१३॥
सोऽपि तैः स्वस्य सम्बन्धं पितामह इतीरयन् ।
अनुज्ञातश्च तैस्सत्यलोकं रक्षन्नवर्तत ॥ २१४॥
अथ ते विष्णुलोकाख्यं वैकुण्ठं प्राप्य तेन च ।
प्रसादिताः शम्भुलोकं जग्मुः सर्वोपरि स्थितम् ॥ २१५॥
तत्र नत्वा नन्दिनं ते तेनेशाज्ञा-पुरःसरम् ।
प्रवेशिताः प्रणेमुश्च शङ्करं साकमम्बया ॥ २१६॥
तेनादिष्टाः सर्वमण्डं निरीक्ष्य पुनरत्र वै ।
स्थातव्यमिति सर्वाणि वीक्ष्याण्डान्यसुरैर्वृताः ॥ २१७॥
मातामहञ्चासुरेन्द्रं शुक्राचार्यं निजं गुरुम् ।
प्रणिपत्य निवेद्याभ्यां सर्वं दिग्विजयादिकम् ॥ २१८॥
अथैत्य दक्षिणे सिन्धुतीरे तिष्ठन् यदाऽसुराः ।
तदा विष्णुमुखा देवा आगतास्तद्-दिदृक्षया ॥ २१९॥
तन्मध्यपतितान् रुद्रान् दृष्ट्वा पप्रच्छ तत्कथाम् ।
शूरस्तदा विष्णुनोक्तां ब्रह्माहन्तां शिवेन च ॥ २२०॥
तद्भङ्गप्रभृतिं वार्तां श्रुत्वाऽभूदतिविस्मितः ।
निर्मिते नगरे सिन्धुमध्ये प्राविशदुज्ज्वले ॥ २२१॥
वीरमाहेन्द्र-नगरे पुर्यष्टक-समावृते ।
निवसन्देवतानां च कार्यं प्रादाद्यथोचितम् ॥ २२२॥
मत्स्य-ग्रहणकार्येऽन्ये नियुक्ता दुःखिताः सुराः ।
दक्षयज्ञ-समुद्भूतं मन्तुं ध्यायन्त आसत ॥ २२३॥
दिने दिने च शूरस्तु प्रातः प्रस्थाय कौतुकात् ।
पातालं मध्यमं स्वर्गं चानुवीक्ष्य न्यवर्तत ॥ २२४॥
तत्र दृष्ट्वा शचीं काममोहितः प्रैषयत्स्वकम् ।
दूतं तस्या आहरणे तज्ज्ञात्वा देवराट् तदा ॥ २२५॥
रूपान्तरेण श्रीकाळी-नगरं प्राप्य भार्यया ।
वेणुरूप-धरोऽतिष्ठन्नारदानुमतश्चिरम् ॥ २२६॥
कदाचिद्दैवयोगेन लोकेऽवग्रह-पीडिते ।
वेणुः शुशोष शक्रश्च शची चाम्लायतां भृशम् ॥ २२७॥
अथ सूतः शौनकाद्यैरजामुख्याः कथां प्रति ।
पृष्टः प्रोवाच वृत्तान्तं तस्या दुरितदूषितम् ॥ २२८॥
दुर्वाससं कदाचित्सा बलादाकृष्य सङ्गता ।
वातापिमिल्वलं चोभावसूत परमोद्धतौ ॥ २२९॥
तौ च तातमयाचेतां तपःसर्वं ददात्विति ।
क्रुद्धेन तेन शप्तौ च नश्यतां ब्राह्मणैरिति ॥ २३०॥
इल्वलस्तु विधातारमिष्ट्वा तस्य प्रसादतः ।
वातापेर्मेषभावेन पाकेऽपि पुनरागमम् ॥ २३१॥
अवृणोच्च तदारभ्य कुटक-प्रान्तभूतले ।
विप्रान्निमन्त्र्य भुक्त्यन्ते वातापिं प्राह्वयन्बली ॥ २३२॥
घातयामास तान् काले गच्छत्येवं कदाचन ।
विन्ध्य-पर्वतमासाद्य नारदो मेरुविक्रमम् ॥ २३३॥
वर्णयित्वा तस्य कोपमुत्पाद्य रविरोधने ।
प्रैरयत्तं ततो देवाः सम्भूयागस्त्यमब्रुवन् ॥ २३४॥
भगवन्नस्त्वमेवाद्य शरणं शम्भुना समः ।
इति तत्प्रार्थनामङ्गीकुर्वन् कलशभूर्ययौ ॥ २३५॥
ईशादादाय कावेरीं कुण्डिकायां मुनीश्वरः ।
वाराणस्यां शिवं नत्वा प्रयास्यन् दक्षिणां दिशम् ॥ २३६॥
विन्ध्यं ममर्द हस्तेन भूधरं मार्गरोधकम् ।
क्रौञ्चं मायाविनं मध्ये शप्त्वा शैलो भवेति च ॥ २३७॥
कुटकं प्राप्य वातापिमिल्वलं च सुरेतरौ ।
भुक्त्यै निमन्त्रितस्ताभ्यां जिघांसू तौ च वञ्चकौ ॥ २३८॥
हत्वा तत्पाप-शुद्ध्यर्थं सह्याद्रौ तप आचरत् ।
तदा गणेशः शक्रेण पूजितः प्राप्य तत्स्थलम् ॥ २३९॥
काकरूपेण तत्रत्य-कुण्डिकामुदचालयत् ।
मुनिनानुद्रुतो ब्रह्मचारि-वेषमुपेत्य सः ॥ २४०॥
जवात् दुद्राव तच्छीर्षे कुट्टितुं मुनिरभ्यगात् ।
सुमुखश्च निजं रूपं मुनये दर्शयन् मुदा ॥ २४१॥
शुण्डयाऽनीय तीर्थाम्भः पूरयित्वा च कुण्डिकाम् ।
प्रावाहयच्च कावेरीं सा च श्रीकाळी-पत्तनम् ॥ २४२॥
वेगादुपेत्य तत्रत्यान् वृक्षान् पुष्टानकारयत् ।
मुमुदे वेणु-रूपेण स्थितः शच्या शतक्रतुः ॥ २४३॥
अथ देवाः सहस्राक्षं तत्रागत्य व्यजिज्ञपन् ।
त्वया नाथेन हीनानां न मनः स्वास्थ्यमृच्छति ॥ २४४॥
तदेहि स्थानमित्युक्तः शचीं निक्षिप्य शास्तरि ।
कैलासमगमच्छक्रः शिवानुग्रह-लिप्सया ॥ २४५॥
नन्दिना च तदा सेवावसरो नेति वारितः ।
तत्रैव शिखरिण्यस्मिन् न्यवसद्विबुधैः सह ॥ २४६॥
तदा त्वजामुखी लोकानटन्त्येव यदृच्छया ।
श्रीकाळी-नगरे देवीमिन्द्राणीमुपलभ्य च ॥ २४७॥
बलाद्-ग्रहीतुमारेभे तदा शास्तुरनुज्ञया ।
महाकालः करौ तस्याः छित्वाऽरक्षच्छचीमपि ॥ २४८॥
अजामुखी छिन्नहस्ता क्रन्दन्ती दारुणं बहु ।
सान्त्व्यमाना च दुर्मुख्या गता शूरान्तिकं क्षणात् ॥ २४९॥
इन्द्राण्यपि च शक्रेण नारद-प्रेरितेन हि ।
नीता मेरुगुहां तस्थौ भयमुत्सृज्य भामिनी ॥ २५०॥
शूरः सभामध्यगतः स्वसारं वीक्ष्य दुःखिताम् ।
पतितां छिन्नहस्ताञ्च क्रोधेन कलुषीकृतः ॥ २५१॥
पृष्ट्वा हेतुं महाकाल-चेष्टितं दुर्मुखीमुखात् ।
ज्ञात्वा तत्रत्य-देवान् स शृङ्खलाभिर्बबन्ध ह ॥ २५२॥
आहूय वेधसं तस्या बाहू सन्धाप्य तेन च ।
प्रार्थितो मोचयामास देवान्निगडितानपि ॥ २५३॥
आहूय भानुकोपञ्च महाकाल-सुरेन्द्रयोः ।
बन्धनार्थं व्यादिदेश सोऽपि गत्वा बलैः सह ॥ २५४॥
अपश्यन्नमरावत्यां देवेन्द्रं न्यरुणत्पुरीम् ।
युद्ध्वा चिरं जयन्तेन बद्ध्वा तं वशमानयत् ॥ २५५॥
ऐरावतं भग्नदन्तं कारयित्वा सुराङ्गनाः ।
बन्दीकृत्य पितुः पार्श्वे परिचर्यामकारयत् ॥ २५६॥
इति गीष्पतिना स्कन्द-सन्निधावासुरी कथा ।
वर्णिता भक्तिनम्रेण सोऽपि श्रुत्वा विसिष्मिये ॥ २५७॥
इत्थमासुरकाण्डीयां कथां शृण्वन्ति ये नराः ।
प्रीतः षड्वदनस्तेषां क्षिप्रारोग्यं प्रयच्छति ॥ २५८॥
अथ षड्वदनः श्रीमान् भीतान् विष्णुमुखान् सुरान् ।
अनुगृह्याभयं दत्वा वीरबाहुं महामतिम् ॥ २५९॥
प्रेषयमास निकटं शूरपद्मस्य दौत्यतः ।
सोऽपि गत्वा समुद्रान्तः दैत्यान् हत्वा बहूनपि ॥ २६०॥
प्राप्य लङ्कां तत्पतिञ्च हत्वाऽयोमुख-संज्ञकम् ।
उत्तरं वीरमाहेन्द्र-नगरद्वारमागमत् ॥ २६१॥
तत्र घोरमघोरञ्च द्वारपालौ ससैनिकौ ।
जागरूकौ निरीक्ष्याथ प्राच्यद्वारमुपागमत् ॥ २६२॥
तत्रापि महिषाक्षौ द्वौ द्वारपालौ निरीक्ष्य सः ।
प्रवेशे विघ्नमुत्प्रेक्ष्य वीरबाहुर्महामतिः ॥ २६३॥
याम्यां दिशमवापाथ तत्रत्येन निरीक्षितः ।
गजासुरेण पृष्टश्च कस्त्वमित्युद्धताक्षरम् ॥ २६४॥
युद्ध्वा सहस्रवक्त्रेण तेन तं विनिहत्य च ।
पश्चिम-द्वारमार्गेण प्रविश्य नगरीं लघु ॥ २६५॥
वीथीरालोकयंस्तत्र सुराणां प्रविलापनम् ।
दृष्ट-सुस्वप्न-सञ्जात-हर्षाणां वचनानि च ॥ २६६॥
शृण्वंस्तांश्च जयन्तादीनाश्वास्य गुहवार्तया ।
शूरपद्मं सभामध्ये सिंहासनगतं विदन् ॥ २६७॥
तत्काल-स्मृत-षट्वक्त्रानुग्रहादागते शुभे ।
दिव्ये सिंहासने स्थित्वा स्वामि-सन्देशमब्रवीत् ॥ २६८॥
त्वत्पीडितैर्विष्णुमुखैर्देवो विज्ञापितः शिवः ।
कुमारं जनयामास त्वद्वधाय स चागतः ॥ २६९॥
श्रीसेन्तिनगरे स्वीय-सैनिकैरावृतः स्थितः ।
दयया त्वयि सन्देशं प्राहिणोच्छ्रुणु तं हितम् ॥ २७०॥
जयन्तादीन् दिविषदो बन्धान्मोचय माचिरम् ।
नोचेत् सबन्धुं त्वामद्य हन्यामिति जगाद च ॥ २७१॥
तत्छ्रुत्वा कुपितः शूरो वीरबाहुवधे भटान् ।
न्ययुङ्क्त तेऽपि षड्वक्त्र-स्मरणात्तेन मारिताः ॥ २७२॥
अथादिदेश तनयं वज्रबाहुं सुरेतरः ।
वीरबाहोर्निग्रहाय सोऽपि युद्ध्वा चिरं बली ॥ २७३॥
अन्ते निषूदितो वीरबाहुना सैनिकैः सह ।
पुत्रशोकेन सन्तप्तः शूरः सम्मन्त्र्य मन्त्रिभिः ॥ २७४॥
प्रोत्साहितश्च बहुभिः सान्त्व्यमानोऽपि धीमता ।
सिंहवक्त्रेणानुजेन तमनादृत्य हेलया ॥ २७५॥
तारकक्रौञ्च-हननं न पौरुषकृतन्त्विति ।
युक्त्योपपाद्य युद्धाय सन्नाहमकरोत्स्वयम् ॥ २७६॥
वीरबाहुस्तु सिद्धार्थो निर्याय पथि सङ्गतम् ।
व्यालिवक्त्रं निहत्याशु श्रीसेन्तिनगरं ययौ ॥ २७७॥
प्रत्युद्गतञ्ज विबुधैः मुदितैः पद्मजादिभिः ।
षड्वक्त्र-सन्निधिं प्राप्य वृत्तं सर्वं न्यवेदयत् ॥ २७८॥
तेनापि श्वः शूरपद्मं हत्वा भीतिं तदुद्भवाम् ।
व्यपनेष्ये देवतानामिति धीरं प्रतिश्रुतम् ॥ २७९॥
वीरमाहेन्द्र-काण्डीयकथैवं वर्णिता द्विजाः ।
शृण्वतां कार्यसिद्धिः स्याद्वीरबाहु-प्रसादतः ॥ २८०॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां
असुर-वीरमाहेन्द्रकाण्डे स्कन्दसप्तशत्यां
वीरबाहुदूतः पञ्चमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ ह्रीं साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय सप्तनवति-मन्त्रात्मकाय
श्रीकार्तिकेयमूर्तये ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-द्राक्षाफलमाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ होमेन पुरहरनन्दनः रिपुकुलभञ्जनः
दिनकरकोटिरूपः परिहृत-लोकतापः
शिखीन्द्रवाहनः महेन्द्रपालनः
निखिलदनुज-तूलवातूलः तापससमाराधितः
नववीरसेवितः रणधीरसम्भावितः
वीरबाहुसोदरः श्रीकार्तिकेयः प्रीयताम् ।
जय श्री कार्तिकेयमूर्ते जय जय
जय वीरबाहुसोदर जय जय
जय असुरकुलमर्दन जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.६ भानुकोपवधः षष्ठोऽध्यायः ।
ॐ सां शिखिवाहनासनाय नमः ।
ॐ सां शिखिवाहनमूर्तये नमः ।
भानुकर-रत्ननिभ-दिव्य-रसवस्त्रं
वज्रधनु-खेट-वरपद्म-करशूलम् ।
शक्तिशर-खड्ग-भय-हृद्-ध्वज-रथाङ्गं
नौमि शिखिवाहन-षडानन-सुरूपम् ॥
ॐ नं सौं श्रीं शिखिवाहनाय नमः ।
श्रुत्वा प्रतिश्रुतं शूरदूतास्तस्मै न्यवेदयन् ।
तथापि युद्धं बालेन न युक्तमिति लज्जया ॥ २८१॥
मन्त्रिभिः सह स म्मन्त्र्य भानुकोपाह्वयं सुतम् ।
आहूय सान्त्वयित्वा तं प्राहिणोदसुराधिपः ॥ २८२॥
स्कन्दोऽपि नारदमुखात् श्रुत्वा युद्धोद्यमं रिपोः ।
प्रतस्थे भूतसङ्घैश्च वृतो ब्रह्मादिभिः सुरैः ॥ २८३॥
वीरमाहेन्द्र-नगरस्योत्तरद्वार-पार्श्वतः ।
शिबिरं प्राविशन्नूत्नं निर्मितं विश्वकर्मणा ॥ २८४॥
ततो युद्धं प्रववृते सैन्ययोर्देवदैत्ययोः ।
दैत्यसेनां यदाऽपश्यन्मूर्छितां शूरपद्मजः ॥ २८५॥
तदाऽवर्षद्बाणवृष्टिं भूतसैन्योपरि क्रुधा ।
भूतानि च तथा मूर्छामापुश्छिन्नाङ्गसन्धयः ॥ २८६॥
वीरबाहुरपि प्रेक्ष्य तादृशीं भूतदुर्दशाम् ।
प्रेषयामास वेगेन भूतसेनापतीन् नव ॥ २८७॥
प्रथमं भूतसेनानीः सिंहो योद्धुं प्रचक्रमे ।
अनलश्चासुरचमू-नाथस्तं प्रत्ययुध्यत ॥ २८८॥
अनले निहते चण्डः सिंहमभ्यद्रवद्रुषा ।
सोऽपि सिंहेन निहतः ततस्त्वजमुखो ययौ ॥ २८९॥
तस्मिन्नपि हते मायी नीलेनायुध्यत क्रुधा ।
निहतश्च ततः सेना भृशमुग्रेण ताडिताः ॥ २९०॥
निरीक्ष्य भानुकोपस्तु प्रयातः समराङ्गणम् ।
वीरबाहुञ्च बहुधा न्यक्चक्रे तर्जयन् रिपुम् ॥ २९१॥
दूतस्त्वं न मया साकं युद्धार्ह इति सोऽपि तम् ।
दूतो वा यदि वा स्वामी बली योद्धेत्यतर्जयत् ॥ २९२॥
ततश्च तुमुलं युद्धं प्रावर्तत तयोर्मिथः ।
अष्टावपि यदा वीरा मूर्छां प्राप्ता रणाजिरे ॥ २९३॥
तदा कोपेन महता वीरबाहुः पुरः स्थितः ।
किरीटं भानुकोपस्य बभञ्ज कवचं तथा ॥ २९४॥
तदानीं भानुरहसत् मुनयश्च जयं जगुः ।
वीरश्च षण्मुखं ध्यायन् भानुकोपमताडयत् ॥ २९५॥
मूर्छिते भानुकोपे च भूतसेना मुदाऽन्विताः ।
ममर्दुरासुरीं सेनां सा च भीता विदुद्रुवे ॥ २९६॥
गतमोहो भानुकोपः स्वसेनां वीक्ष्य विद्रुताम् ।
मोहास्त्रं प्रेरयामास वीरबाहुं प्रति क्रुधा ॥ २९७॥
तेन मोहं गताः सर्वे भूतेशा भुव्यशेरत ।
तच्छ्रुत्वा षण्मुखश्चास्त्रममोहं समकल्पयत् ॥ २९८॥
वीतमोहास्ततः सर्वे जाताः सुप्तोत्थिता इव ।
वीरबाहुश्च भूयोपि भानुकोपोपरि क्रुधा ॥ २९९॥
अस्त्रं पाशुपतं क्षेप्तुमुपक्रान्तो यदा तदा ।
भानुकोपस्तदेवास्त्रं गृहादाहर्तुमुद्यतः ॥ ३००॥
निर्गतो नगरीं प्राप सूर्यश्चास्तमितस्ततः ।
शूरपद्मस्तु तं दृष्ट्वा स्वयं गत्वा रणाजिरम् ॥ ३०१॥
युद्धाय सज्जस्तं शक्रः षण्मुखाय न्यवेदयेत् ।
सोऽपि वीरैः सहागत्य यदा योद्धुं मनो दधे ॥ ३०२॥
तदोग्रो नाम सेनानीः शूरं वृक्षैरविध्यत ।
शूरेणाप्यस्त्रमाग्नेयं वारुणं ब्राह्ममेव च ॥ ३०३॥
अस्त्रं नारायणीयञ्च मुक्तं सर्वञ्च सोग्रसात् ।
ततः पाशुपते मुक्ते शूरेणोग्रस्तु षण्मुखम् ॥ ३०४॥
ध्यायन् पञ्चाक्षरं मन्त्रं जजाप विहिताञ्जलिः ।
तदस्त्रं तु क्षणाच्छम्भोः हस्तं प्राप तदाज्ञया ॥ ३०५॥
ततश्च शूरो व्यथितः भूतसेनां प्रकम्पयन् ।
अस्त्राणि वर्षयामास षण्मुखश्च विसिष्मिये ॥ ३०६॥
ततः सुतुमुले युद्धे प्रवृत्त उभयोरपि ।
सेनयोस्तत्र सिंहास्य-सुतौ दृप्तावयुध्यताम् ॥ ३०७॥
अतिशूरासुरेन्द्राख्यौ निहतौ वीरबाहुना ।
तौ दृष्ट्वा शूरपद्मस्तु क्रुद्ध आशीविषोपमः ॥ ३०८॥
अद्रावयद्भूतसेनां वीरांश्च मूर्छयन्निव ।
ततः स्कन्दः स्वयं तेन योद्धुमभ्याययौ तदा ॥ ३०९॥
बालोऽसीति प्रहसितः रुद्रनेत्र-स्फुलिङ्गवत् ।
स्वल्पोऽपि नाशयेल्लोकानिति प्रत्यवदत् स्मयन् ॥ ३१०॥
प्रवृत्ते शस्त्रसम्पाते भगवान् षण्मुखस्तदा ।
किरीटं शूरपद्मस्य रथमश्वांश्च वर्म च ॥ ३११॥
धनुश्च हारकेयूराद्यच्छिनत्तादृशं च तम् ।
दृष्ट्वा भूतानि सर्वाणि चक्रुः कोलाहलं मुदा ॥ ३१२॥
भर्त्स्यमानां च सेनां स्वां दृष्ट्वा निर्विण्ण-मानसम् ।
शूरं याहि श्व आयाहि युद्धायेत्याह षण्मुखः ॥ ३१३॥
देवान् विष्णुमुखांश्चापि शूरपद्मवधार्थिनः ।
आश्वास्य शूरसंहारं श्वः कुर्यामित्यगाद्गृहम् ॥ ३१४॥
वीराश्च देवसेनाश्च मुक्त्वा मूर्च्छां समुत्थिताः ।
एतस्मिन्नन्तरे भूतसेनाः शूरस्य पत्तनम् ॥ ३१५॥
लुण्टयित्वाऽतिघोराख्यं द्वारपालं निहत्य च ।
उत्पाट्य गोपुरं वार्द्धौ प्राक्षिपन् मन्दरं यथा ॥ ३१६॥
तच्छ्रुत्वा भानुकोपस्तु मायां ध्यात्वा पितामहीम् ।
तया च निर्बन्धित या दत्तं मोहास्त्रमाप्य च ॥ ३१७॥
युद्धाय प्रस्थितो दूतं प्रैषयद्वीरबाहवे ।
सोऽपि न्यवेदयद्-भानुकोपोक्तिं वीरबाहवे ॥ ३१८॥
पुनर्युद्धाय निर्याहि वीरबाहो इतीरितः ।
सोऽपि स्कन्दस्य पदयोर्नत्वाऽनुज्ञामवाप्य च ॥ ३१९॥
अन्यैश्च सहितो वीरैर्भूतसेना-समावृतः ।
गत्वा युद्धमहीं तेन साकं चिरमयुद्ध्यत ॥ ३२०॥
अस्त्रप्रत्यस्त्र-सङ्ग्रामे सत्युभाभ्यां प्रयोजिते ।
उभे पाशुपते चास्त्रे व्योम्नि युद्ध्वा चिरं मिथः ॥ ३२१॥
ऋषिभिः प्रार्थिते लोकपीडा माभूदिति स्वयम् ।
निवृत्ते रविरप्यस्तमगाच्छूरात्मजः पुनः ॥ ३२२॥
मायया मोहयित्वा तान् नववीरान् पयोनिधौ ।
प्रक्षिप्य शूरपद्मस्य निकटं प्राप्य तान्मृतान् ॥ ३२३॥
निवेद्य च परेद्युस्तं हनिष्यामि गुहं रिपुम् ।
इति विज्ञाप्य तेनापि सत्कृतः स्वगृहं ययौ ॥ ३२४॥
स्कन्दोऽपि ज्ञातवृत्तान्तः स्वीकां शक्तिं प्रयुज्य च ।
वीरान् पयोनिधौ मग्नान् प्राबोधयदुमासुतः ॥ ३२५॥
प्रबुध्य च परेष्वात्ममोहं सञ्चिन्तयत्सु च ।
वीरबाहुः क्षणादेव सर्वसैन्य-समावृतः ॥ ३२६॥
लुण्टयामास नगरं वीरमाहेन्द्रमृद्धिमत् ।
पश्चिम-द्वारपालञ्च बहुसेना-समावृतम् ॥ ३२७॥
विनिहत्य व्याघ्र-वक्त्रं सहाग्नेयेन मारुतम् ।
अस्त्रं प्रयोज्य नगरीं दाहयामास कृत्स्नतः ॥ ३२८॥
दह्यमानां पुरीं दृष्ट्वा शूरपद्मः क्रुधा ज्वलन् ।
आहूय मेघांस्तैरग्निं शमयित्वाऽतिवेगतः ॥ ३२९ ।
वीरबाहुं स्वनगरी-दाहकं तत्प्रभुं गुहम् ।
हन्तुं कृतमतिस्तूर्णमभियातुं मनो दधे ॥ ३३०॥
तदा हिरण्यनामाऽस्य पुत्रः पातालपालकः ।
ईशस्य महिमानं तत्पुत्र-तच्छक्ति-वैभवम् ॥ ३३१॥
महत्वं वीरबाहोश्च वर्णयित्वाऽऽशु संसदि ।
न्यषेधद्-युद्धसङ्कल्पं प्रार्थयच्छरणागतिम् ॥ ३३२॥
यदा च शूरो वार्तां तां नाशृणोत् क्रोधमाप च ।
तदा स्वयं हिरण्योऽगाद्युद्धाय शिवसूनुना ॥ ३३३॥
प्रवृत्ते तुमुले युद्धे नीलस्तं प्रत्ययुध्यत ।
तस्मिन् पराजिते वीरबाहुः स्वयमयुध्यत ॥ ३३४॥
भग्ने रथे सारथौ च नष्टे ध्वस्तेऽखिलायुधे ।
मायाहिरण्यं युद्धाय कृत्वा पूर्वस्तिरोदधे ॥ ३३५॥
तेन साकं चिरं युद्ध्वा वीरबाहुश्च मूर्च्छितः ।
तत्छ्रुत्वा नारदात् स्कन्दः ज्ञानास्त्रेणावबोधयत् ॥ ३३६॥
ततो भीतो हिरण्यस्तु धारयन् मत्स्यरूपताम् ।
समुद्रसलिले मग्नो जुगोप प्राणमात्मनः ॥ ३३७॥
अथाग्निमुखनामाऽन्यः शूरपुत्रो महाबलः ।
चन्द्राय कुपितो भानुकोप-स्पर्धायुतो हि यः ॥ ३३८॥
ययौ ससैन्यस्तं हन्यां वीरबाहुं क्षणादिति ।
तं च युद्धेऽमूर्छयत्स धीरो वीरपुरन्दरः ॥ ३३९॥
ततोऽसुरो भद्रकालीं सस्मारागत्य सा पुनः ।
युद्ध्वा चिरं वीरबाहु-प्रमुखैश्च्छिन्नबाहुका ॥ ३४०॥
दत्त्वा जयाशिषं वीरबाहवे विन्ध्यमाययौ ।
अथाग्निवदनो माया-बलेनाघातयत् क्रुधा ॥ ३४१॥
अष्टौ वीरांस्तदाकर्ण्य वीरबाहुर्यमं प्रति ।
सन्देश-चीटीमनयत् तेषां जीवनहेतवे ॥ ३४२॥
यमेनागत्य ते वीराः जीविताश्च पुनः क्रुधा ।
युद्ध्वाऽग्निमुखमाजघ्नुः सद्य एव ससैनिकम् ॥ ३४३॥
शूरस्त्वग्निमुखं पुत्रं मृतं श्रुत्वाऽतिदुःखितः ।
विनिःश्वसन् नम्रवक्त्रः पुनश्चिन्तापरोऽभवत् ॥ ३४४॥
त्रिसहस्रं ततः पुत्रास्तस्य पातालवासिनः ।
सान्त्वयित्वा स्वपितरं योद्धुमभ्याययुः क्षणात् ॥ ३४५॥
तैः साकं भूतसेनाधिपतीनां च महद्रणम् ।
बभूव तुमुलं देवमुनि-विस्मय-कारकम् ॥ ३४६॥
वीरबाहुश्च बाणौघैस्तच्छिरांस्यच्छिनद्यदा ।
तदा पुनः प्ररूढानि तानि भूयोऽच्छिनद्रुषा ॥ ३४७॥
असकृच्छिद्यमानानि यदा नान्तं गतानि च ।
दध्यौ गुहं तदा वीरबाहुः शक्तिधरं प्रभुम् ॥ ३४८॥
प्रादुर्भूय क्षणात् सोऽपि तानि ब्रह्मवरेण हि ।
छिन्नान्यपि प्ररोहन्ति छिद्यन्ते युगपद्यदि ॥ ३४९॥
अन्तं गच्छेयुरत्यन्तमित्युपादिशदग्निभूः ।
तथैव युगपत्तानि छित्वा वीरो मुदं ययौ ॥ ३५०॥
शूरेऽथ त्रिसहस्राणां आकर्ण्य निधनं शुचा ।
निध्यायति महामेधा धर्मकोप-समाह्वयः ॥ ३५१॥
सचिवस्तं सान्त्वयित्वा स्वयं युद्धाय निर्ययौ ।
पुण्डरीकं गजश्रेष्ठमारुह्यान्यैश्च मन्त्रिभिः ॥ ३५२॥
तं वीरबाहुर्बहुभिर्बाणैर्हत्वा गजं तदा ।
निर्मदं कृतवान् सोऽपि स्तुत्वा तं स्वां दिशं गतः ॥ ३५३॥
एतत्सर्वं निशम्याथ भानुकोपो-ऽतिखिन्नधीः ।
माऽभूदायोधनं तावदिति तातं व्यजिज्ञपत् ॥ ३५४॥
क्रुद्धं ज्ञात्वा च पितरं पुनर्युद्धाय निर्ययौ ।
जाते च तुमुले युद्धे शस्त्र-प्रत्यस्त्र-वर्षिणि ॥ ३५५॥
मायायुद्धे समारब्धे विज्ञानास्त्रेण वारिते ।
खड्ग-युद्धं प्रचक्राते तदा स्कन्दं हृदि स्मरन् ॥ ३५६॥
छित्वाऽऽदौ भानुकोपस्य हस्तं सव्यं तथेतरम् ।
शिरश्च्छित्वा वीरबाहुः जयं प्राप मुदान्वितः ॥ ३५७॥
ततो देवाश्च ऋषयः जहृषुः पुष्पवर्षिणः ।
स्कन्दश्च प्रणतं दोर्भ्यां आलिङ्ग्यान्वग्रहीन्मुदा ॥ ३५८॥
भानुकोपवधं वीरबाहुना कृतमद्भुतम् ।
शृण्वन्ति ये ते विजयं सर्वत्र प्राप्नुयुर्ध्रुवम् ॥ ३५९॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां वीरमाहेन्द्रकाण्डे स्कन्दसप्तशत्यां
भानुकोपवधः षष्ठोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ नं सौं श्रीं साङ्गाय सायुधाय सशक्तिकाय सपरिवाराय
सवाहनाय एकोनशीति-मन्त्रात्मकाय शिखिवाहनमूर्तये ताम्बूल-
कुङ्कुमाक्षत-पुष्प-सघृत-इक्षुखण्ड-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळहोमेन सुरवरनुत-दर्शितात्मीय-दिव्यस्वरूपः
अमर-स्तोम-सम्पूज्य-भुजबल-निर्जितानेकः गीर्वाण-भीध्वान्त-मार्ताण्डः
षड्वक्त्रः गौरीश-फालेक्षित-सञ्जात-तेजस्-सम्भूतः श्रीशिखिवाहनः प्रीयताम् ।
जय श्री शिखिवाहनमूर्ते जय जय
जय वीरबाहुसोदर जय जय
जय असुरमर्दन जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.७ सिंहमुखवधः सप्तमोऽध्यायः ।
ॐ सां स्कन्दासनाय नमः ।
ॐ सां स्कन्दमूर्तये नमः ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं रक्ताम्बरालङ्कृतम् ।
शक्तिं चर्म च खड्ग-शूल-विशिखाभीतिं धनुश्चक्रकम् ॥
पाशं कुक्कुटमङ्कुशञ्च वरदं दोर्भिदधानं तथा ।
ध्यायेदीप्सित-सिद्धिदं शशिधरं स्कन्दं सुराराधितम् ॥
ॐ सां स्कन्दाय नमः ।
भानुकोपं हतं श्रुत्वा शूरपद्मासुरो भृशम् ।
विललाप चिरं तत्र पद्मकोमलया सह ॥ ३६०॥
विष्णुशक्रमुखा देवा विहरेयुरितः सुखम् ।
इत्यादि प्रलपंस्तस्य गुणान् वीर्यकृतान्बहून् ॥ ३६१॥
ततः कोपेन महता समाहूय निजानुजम् ।
सिंहवक्त्रं प्रैषयच्च हन्तुं पुत्रहणं रणे ॥ ३६२॥
सोऽपि शम्भुकुमारस्य प्रभावं बहुधा तदा ।
वर्णयित्वाऽन्ततः शूर-निदेशाद्योद्धुमाययौ ॥ ३६३॥
प्रवृत्ते तुमुले युद्धे भूतदैत्येश-सेनयोः ।
सिंहाभिधानो भूतेशः सिंहास्यं प्रत्ययुध्यत ॥ ३६४॥
अस्त्र-प्रत्यस्त्र-वर्षेण दारुणं युध्यतोर्द्वयोः ।
तनुजाः सिंहवक्त्रस्य समायाताः क्रुधा रणम् ॥ ३६५॥
कनकेऽग्निमुखे चापि युधा श्रममवाप्तयोः ।
खड्गेन वीरबाहुस्तान् चिच्छेद युगपत्क्रुधा ॥ ३६६॥
ततः खिन्नमनाः सिंहमुखः क्रोधमवाप्य च ।
मोहास्त्रेण निरास्थत्तान् वीरबाहुमुखान् गिरौ ॥ ३६७॥
उदयेऽथ गुहः कुत्रेत्यन्विष्यन् प्राप वेगतः ।
हेमकूटं षण्मुखश्च मारुतेन निवेदितः ॥ ३६८॥
अवरुह्यासनात् सैम्हात् ब्रह्मविष्णु-पुरस्कृतः ।
ऋषिभिः स्तूयमानश्च वन्दिभिर्मागधैरपि ॥ ३६९॥
चन्द्रसूर्य-धृतच्छत्रः वीज्यमानो मरुत्वता ।
शङ्ख-दुन्दुभिनिर्घोषैः प्रययौ रथमास्थितः ॥ ३७०॥
ततः प्रववृत्ते युद्धं तुमुलं रोमहर्षणम् ।
जगद्भयकरं घोरं सिंहवक्त्र-षडास्ययोः ॥ ३७१॥
पाशमोचक-संज्ञास्त्रं प्रयुज्य प्रथमं गुहः ।
उदयाद्रि-गतान् वीरबाह्वादीनानयत्क्षणात् ॥ ३७२॥
सिंहवक्त्रं क्रुधा भूतसेना-निगरणोद्यतम् ।
दृष्ट्वा तत्कर-साहस्रं चिच्छेद भगवान् गुहः ॥ ३७३॥
प्ररूढेषु पुनस्तेषु मूर्ध्नश्चिच्छेद सायकैः ।
ते चारोहन् पुनः, स्कन्दः पुनश्चिच्छेद तानपि ॥ ३७४॥
ततोऽस्य वरमाहात्म्यं विदित्वा पार्वतीसुतः ।
मुखमेकं भुजौ द्वौ च शेषयित्वाऽन्यदाच्छिनत् ॥ ३७५॥
कूर्माङ्गानीव तान्याशु बहिर्निःसरणं प्रति ।
प्रवृत्तानि समालोक्य हुङ्कारेण न्यवारयत् ॥ ३७६॥
अथोद्यतं दण्डहस्तं योद्धुं सिंहमुखं गुहः ।
कुलिशेन विदार्याशु प्राणैस्तं च व्ययूयुजत् ॥ ३७७॥
कुलिशस्तु रिपुं हत्वा गङ्गाम्भसि निमज्ज्य च ।
पुनः प्रपेदे स्कन्दस्य हस्तं देवाश्च तत्क्षणात् ॥ ३७८॥
ऋषिभिः सह सेनान्यं तुष्टुवुः पुष्पवृष्टिभिः ।
ववर्षुश्च जयारावैरभ्यनन्दंश्च शाङ्करिम् ॥ ३७९॥
निधनं सिंहवक्त्रस्य गुहेन कृतमद्भुतम् ।
ये शृण्वन्ति जयस्तेषामीप्सितार्थश्च सिद्ध्यति ॥ ३८०॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां युद्धकाण्डे स्कन्दसप्तशत्यां
सिंहमुखवधः सप्तमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय सपरिवाराय
सवाहनाय एकविंशति-मन्त्रात्मकाय स्कन्दमूर्तये
ताम्बूल-कुङ्कुमाक्षत-पुष्प-सघृत-इक्षुखण्ड-महाहुतिं
समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन शूलचक्र-शरचाप-
खड्गखेटक-शङ्खपाश-वज्रशक्ति-वरदाभय-
द्वादश-भुजालङ्कृतः,अकुण्ठ-कण्ठध्वनि-गम्भीर-महारम्भ-
सिंहमुखासुर-सैन्य-विषाद-पेषण-धुरीण-भीषण-निपुण-
प्रभाव-निजवैभवः स्कन्दमूर्तिः प्रीयताम् ।
जय श्री स्कन्दमूर्ते जय जय
जय वीरबाहुसोदर जय जय
जय सिंहमुखासुरहन्त्रे जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.८ शूरसंहार अष्टमोऽध्यायः ।
ॐ सां शूरसंहारमूर्त्यासनाय नमः ।
ॐ सां शूं संहारमूर्ति मूर्तये नमः ।
हरमुख-खरभानुं रक्तवर्णं तमीडे
धनु-वर-पवि-खेटं पद्म-पाशं दधानम् ।
शर-भयहर-शक्तिं खड्ग-चक्राङ्कुशं च
सुर-वरमुनि-शंस्यं शूरसंहार-मूर्तिम् ॥
ॐ शिं श्रीं श्रौं शूरसंहारमूर्तये नमः ।
श्रुत्वा भ्रातृवधं वीरः शूरपद्मोऽपतद्भुवि ।
विललाप चिरं दुःखात्ततः संज्ञामवाप्य च ॥ ३८१॥
क्रोधेन महताऽऽविष्टः दैत्यानण्डान्तरस्थितान् ।
सद्य एवानयामास ते च दृप्ता महाबलाः ॥ ३८२॥
सिंहवक्त्राधिक-स्थूलदेहा योद्धुं समागताः ।
तांश्च दृष्ट्वा भृशं भीता देवा इन्द्रादयो गुहम् ॥ ३८३॥
व्यजिज्ञपन् प्रभो शूरपद्मं जहि सहानुगम् ।
रक्षाऽस्मानिति सोऽपि च स्मयंस्तेभ्योऽभयं ददौ ॥ ३८४॥
ततः प्रवृत्ते तुमुले युद्धे स्कन्दाभिमन्त्रितः ।
एकोऽपि बाणः शतधा भूत्वा दैत्यानहन् क्षणात् ॥ ३८५॥
ततस्त्वन्याण्डगान् दैत्यानाहूयासुरनायकः ।
योद्धुं प्रवृत्तस्तांश्चापि क्षणेनैवावधीद्गुहः ॥ ३८६॥
कृत्वैवं बहुकृत्वश्च क्रोधाविष्टो गुहस्तदा ।
पिदधेऽण्डान्तर-द्वारं बाणैस्तच्चासुरेश्वरः ॥ ३८७॥
ज्ञात्वा स्वयं ययौ योद्धुं वीरवादान् वदन् बहून् ।
षण्मुखश्च वृथा वादो माभूदिति समादधत् ॥ ३८८॥
योद्धुमारभतात्यन्तं लोकविस्मय-कारकम् ।
देवाश्च मुनयश्चैव शशंसुर्विजयं तदा ॥ ३८९॥
अस्त्रप्रत्यस्त्र-वर्षेण प्रवृत्ते तुमुले रणे ।
ध्वजं चिच्छेद देवस्य शूरपद्मः शरैः क्रुधा ॥ ३९०॥
अग्निस्तु कुक्कुटो भूत्वा ध्वजेऽतिष्ठत्सुरेच्छया ।
गुहोऽपि शूरपद्मस्य ध्वजचापं तथाऽच्छिनत् ॥ ३९१॥
दैत्यांश्च कोटिसङ्ख्याकान् जघान क्षणमात्रतः ।
ततः शूरो नभस्थः सन् युयुधे मायया खलः ॥ ३९२॥
स्वामी च विज्ञानास्त्रेण मायां नाशमनीनयन् ।
अटन्नण्डान्तरं शूरः द्वीपान्तरमवाप च ॥ ३९३॥
गुहोऽपि तत्र तत्रैव प्राहरत्तं बलोद्धतम् ।
तदानीं विबुधान् भीतान् पर्यसान्त्वयदच्युतः ॥ ३९४॥
क्षणात्तु वीरमाहेन्द्र-पर्यन्तेऽयुध्यतां तदा ।
शूरपद्मस्य सैन्यं च रथमश्वांश्च सायकैः ॥ ३९५॥
चिच्छेद भगवान् स्कन्दो देवाः सर्वे मुदं ययुः ।
तुष्टुवुश्च गुहं भक्तिनम्रा विष्ण्वादयः समम् ॥ ३९६॥
जय गौरीसुत, स्वामिन्, तारकक्रौञ्चदारण, ।
कारागार-विनिक्षिप्त-चतुर्मुख, शिवात्मज ॥ ३९७॥
गाङ्गेय, कार्तिकेयाग्नि-गर्भ, लोकार्तिनाशन ।
शरकानन-सञ्जात, सुब्रह्मण्य, जयेति च ॥ ३९८॥
शूरस्त्वथ स्वकं सैन्यं भस्मीभूतं विलोकयन् ।
मायां सस्मार जननीं सापि चागत्य तद्धितम् ॥ ३९९॥
पृष्ट्वा सैन्यं जीवयितुं सुधाद्यानयनाय तम् ।
प्रबोध्याऽगान्निजं स्थानं शूरपद्मोस्ततो मुदा ॥ ४००॥
इन्द्रलोकरथं शीघ्रं प्रेषयित्वा सुधागिरिम् ।
आनाय्य तेन सिंहास्य-भानुकोप-मुखासुरान् ॥ ४०१॥
अजीवयत्तदा देवाः विषण्णास्तानुमासुतः ।
सान्त्वयित्वाऽऽसुरीं सेनामवधीत् क्षणमात्रतः ॥ ४०२॥
मुक्त्वा पाशुपतास्त्रं तद्-दृष्ट्वा शूरस्ततस्ततः ।
भूमिः, मेघः, समुद्रश्च, वह्निः, वात्या, महीधरः ॥ ४०३॥
इत्यादि रूपं स्वीचक्रे तत्तत्प्रत्यहरद्गुहः ।
स्वकीयं विश्वरूपं च तस्मै दर्शयति स्म सः ॥ ४०४॥
सर्वतःपाणिपादं च सर्वतोऽक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोकं सर्वमावृत्य भाति यत् ॥ ४०५॥
स दृष्ट्वा विश्वरूपं तदतिविस्मित-मानसः ।
तद्भक्तत्वं यथा चैच्छत् तदा तदकुचद्विभुः ॥ ४०६॥
ततश्चूतमहीरुद्ध्वं स्वीकृत्याति-भयानकम् ।
त्रीन्लोकान् व्याप्य तिष्ठन्तं षण्मुखः प्रेक्ष्य विस्मितः ॥ ४०७॥
प्राहिणोच्च निजां शक्तिं साऽपि द्वेधा विदार्य तम् ।
प्रागाद्भगवतो हस्तं हाहाकारस्तदा ह्यभूत् ॥ ४०८॥
एकः कुक्कुटरूपेण शिखिरूपेण चेतरः ।
भूत्वा स्कन्दस्य केतुत्वं वाहनत्वं च भेजतुः ॥ ४०९॥
देवाश्च तुष्टुवुः सर्वे मोदमाना गुहं तदा ।
शूरपत्नी तु तच्छ्रुत्वा नाम्ना या पद्मकोमला ॥ ४१०॥
विवेशाग्निं हिरण्यश्च दुःखितः शुक्रवाक्यतः ।
और्ध्वदेहिक-कर्माणि पितुः कृत्वाऽचरत्तपः ॥ ४११॥
षण्मुखश्च सुरैः सार्धं हेमकूटपुरं ययौ ।
इति शूरस्य संहारं भक्त्या शृण्वन्ति ये नराः ॥ ४१२॥
तेषां शत्रुजयः स्वार्थ-सिद्धिः सर्वाश्च सम्पदः ।
रामोऽपि शूरसंहारं श्रुत्वाऽगस्त्य-मुखात्पुरा ॥ ४१३॥
रावणं समरे हत्वा सीतां प्रत्यानयत्पुरीम् ।
कथैवं युद्धकाण्डीया कथिता मुनिपुङ्गवाः ॥ ४१४॥
शृण्वतां शत्रु-चोराग्नि-विषभीति-विनाशिनी ।
बहवश्च कथामेतां श्रुत्वाऽरीनजयन् पुरा ॥ ४१५॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां युद्धकाण्डे स्कन्दसप्तशत्यां
शूरसंहारः अष्टमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय सपरिवाराय
सवाहनाय पञ्चत्रिंशत्-मन्त्रात्मकाय स्कन्दमूर्तये
ताम्बूल-कुङ्कुमाक्षत-पुष्प-सघृतदाडिमीफल-
महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन निखिलदेव-ऋषिमुनिवर-
हृदयध्यान-विमल-जलावगाहन-हेलातरळ-रुचिरनयनः
भक्तार्ति-निकृन्तन--कलित-शूरसंहारमूर्तिः प्रीयताम् ।
जय श्रीशूरसंहारमूर्ते जय जय
जय भक्तरक्षण जय जय
जय कुक्कुटध्वज जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.९ श्री देवसेना-विवाहः नवमोऽध्यायः ।
ॐ देवसेनान्यासनाय नमः ।
ॐ देवसेनानीमूर्तये नमः ।
अभयमसि-रथाङ्गञ्चाङ्कुशं शक्तिशूलं वरदकुलिशपाशं पद्मदण्डौ गदाञ्च ।
दधतमुभयपक्ष-द्वादशोद्दाम-हस्तैः द्विदश-कमलनेत्रं देवसेनेशमीडे ॥
ॐ श्रीं सौं ह्रीं देवसेनामूर्तये नमः ।
ततो गुहो जयन्तादीन् विबुधान् वीरबाहुना ।
मोचयित्वा स्तुतः सर्वैः हेमकूटपुरे स्थितः ॥ ४१६॥
आदिश्य सागरं शूरनगरीं प्लावयेति च ।
श्रीसेन्तिनगरं प्राप ब्रह्मविष्ण्वादि-पूजितः ॥ ४१७॥
तत्रोषित्वा निशां प्रातः प्रतिष्ठाप्य शिवं स्वयम् ।
पूजयित्वा विधानेन प्रतस्थे परपर्वतम् ॥ ४१८॥
तत्रादिश्य शिवज्ञानं पराशरभुवां स्वयम् ।
इन्द्रेण प्रार्थितः स्वीयकन्या-पाणिग्रहं प्रति ॥ ४१९॥
अङ्गीकृत्य च तत्रैव कारयामास पत्तनम् ।
निर्ममे विश्वकर्मा च पुरप्रासाद-गोपुरम् ॥ ४२०॥
मेरोर्गुहात आनीय पुत्रीं शच्या समं वृषा ।
ब्रह्माविष्णू पुरस्कृत्य कृत्वा वैवाहिकोचितम् ॥ ४२१॥
जामातरं मयूराधिरूढं तत्पुरवीथिषु ।
प्रदक्षिणं कारयित्वा स्वगेहे द्वारि मण्डपे ॥ ४२२॥
अवतार्य पुरन्ध्रीभिः कारयित्वाऽष्टमङगलम् ।
डोलाधिरोहणं माला-व्यत्ययं च विशेषतः ॥ ४२३॥
कारयित्वा शुभे मञ्चे उपवेश्य शचीपतिः ।
धारापूर्वमदात्कन्यां सुब्रह्मण्याय शोभनम् ॥ ४२४॥
पार्वतीपरमेशौ च तस्मिन्नेव क्षणे मुदा ।
तत्रागत्य सुतं प्रीत्या प्रतिनन्द्य स्नुषामपि ॥ ४२५॥
ब्रह्मादिभिः स्तूयमानौ कैलासं ययतुर्गिरिम् ।
गुहोऽपि लाजहोमादीन् कृत्वा सर्वान् यथाविधि ॥ ४२६॥
प्रवेशहोमे भार्यायै दर्शयित्वा ध्रुवं स्वयम् ।
अरुन्धतीञ्च चत्वारि दिनान्यौपासनं व्यधात् ॥ ४२७॥
निर्वर्त्य शेषहोमं च गुहः प्राप्यामरावतीम् ।
दग्धां तां नूतनां त्वष्ट्रा कारयित्वा शतक्रतुम् ॥ ४२८॥
सिंहासने स्थापयित्वा साकं शच्या सुतेन च ।
पट्टाभिषेचनं तस्य कारयामास वेधसा ॥ ४२९॥
मयूरमधिरुह्याथ प्राप्य कैलासपर्वतम् ।
पितरौ प्रणिपत्याभ्यामाशीर्भिरभिनन्दितः ॥ ४३०॥
देवसेनासमेतः सन् गत्वा स्कन्दगिरिं प्रति ।
सुखं न्यवात्सील्लोकानां योगक्षेम-विधायकः ॥ ४३१॥
विवाहमित्थं स्कन्दस्य कल्याणं देवसेनया ।
ये शृण्वन्ति नरास्ते स्युः पुत्रपौत्रादि-संयुताः ॥ ४३२॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां देवकाण्डे स्कन्दसप्तशत्यां
देवसेनाविवाहः नवमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय सप्तदशमन्त्रात्मकाय
श्री देवसेनापतिमूर्तये ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-कदळीफल-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान्
अखण्ड-जगदण्ड-पुण्डरीक-विकसनः सकलसुरासुर-
मितरेतरापेक्षित-सुधावितरण-समयसमाधित-
निखिलजन-हृदयरञ्जक-सकलप्रपञ्च-
प्रत्यूह-रम्भा-मेनकादि-तिलोत्तमा-ऊर्वशीमुख्य-
सुरयुवतीनां करताळनाद-समय-समेधित-
नटनपर-दरकुञ्चितचरणः श्री देवसेनापतिः प्रीयताम् ।
जय श्री देवसेनापतिमूर्ते जय जय
जय कल्याणप्रदायक जय जय
जय इन्द्राणीमाङ्गळ्यरक्षक जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१० श्री वल्लीविवाह दशमोऽध्यायः ।
ॐ वल्लीकल्याणसुन्दरमूर्तासनाय नमः ।
ॐ वल्लीकल्याणसुन्दरमूर्तये नमः ।
हस्तद्वन्द्वेऽक्षमालामभयमपिधृतं कुण्डिकाश्रोणिबद्धं
सव्ये वामे निषण्णं स्रुवधृतविधिना हूयमानेन युक्तम् ।
सर्वालङ्कारयुक्तं जलकलशधृता विष्णुणा चारुणाभं
वल्लीकल्याणमूर्तिं सकलसुरगणैः स्तूयमानं प्रपद्ये ॥
ॐ वं सौं ह्रीं वल्लीकल्याणसुन्दरमूर्तये नमः ।
अथ सूतः पुनः पृष्टः नैमिषीयैस्तपोधनैः ।
तिष्ठन् स्कन्दगिरौ स्कन्दः किमकार्षीद्वदेति च ॥ ४३३॥
सोऽपि प्रमोदभरित-मानसः पार्वतीसुतः ।
व्यवहल्लवलीं येन वैभवेनाह तां कथाम् ॥ ४३४॥
काञ्चीपुरी-परिसरे लवलीपर्वतो महान् ।
अस्ति तन्निकटे कश्चित्पट्टणः शबरेशितुः ॥ ४३५॥
व्याधराट् सोऽनपत्यस्तु पूजयन् षण्मुखं प्रभुम् ।
व्रतोपवास-नियमैः पर्यतोषयदन्वहम् ॥ ४३६॥
तस्याद्रेर्निकटे कश्चिच्छिवयोगी तपोऽचरत् ।
यः कण्वशापतो विष्णुर्मर्त्यभावमुपागतः ॥ ४३७॥
तत्समीपं गता लक्ष्मीर्बिभ्रती हरिणीतनुम् ।
तां दृष्ट्वा मोहितो विप्रः तया साकमरीरमत् ॥ ४३८॥
ततः सा गर्भिणी भूत्वा सुषुवे कन्यकां शुभाम् ।
विजातीयां सुतां दृष्ट्वा ऽपलायत मृगोऽन्यतः ॥ ४३९॥
विजने रुदतीं कन्यां वीक्ष्य व्याधपतिर्वने ।
आदाय दोर्भ्यामाघ्राय मूर्ध्नि भार्याकरे ददौ ॥ ४४०॥
साऽपि तां पोषयामास निधिं लब्ध्वेव निर्धनः ।
लवली-मूलजातत्वाद्वल्लीत्याख्यां गता च सा ॥ ४४१॥
पुपोष चन्द्रलेखेव कलावृद्धिं दिने दिने ।
वयसि द्वादशे प्राप्ते व्याधराजो न्ययोजयत् ॥ ४४२॥
प्रियङ्गु-पालनार्थं तां सखीभिः सह कानने ।
भगवान् षण्मुखश्चापि गत्वा श्रीपूर्णपर्वतम् ॥ ४४३॥
तामुद्वोढुमना आसीन्नारदोऽप्याययौ तदा ।
तेनावेदितवृत्तान्तो लवलीनिकटं गुहः ॥ ४४४॥
गत्वा तया समवदत् व्याधेशश्चाययौ तदा ।
झटित्यसन-वृक्षोऽयमासीद्-व्याधा विलोक्य तम् ॥ ४४५॥
छेत्तुमारेभिरे व्याधराजस्त्वाहातिशीतलः ।
एष वृक्षो लवल्या मे वर्ततां तापहारकः ॥ ४४६॥
इत्युक्त्वा गतवत्स्वेषु पुनः स्कन्दोऽतिसुन्दरम् ।
तरुणं वेषमास्थाय लवली-सङ्गकामुकः ॥ ४४७॥
तया साकं समलपत् तदाऽऽगाद्-व्याधराट् पुनः ।
गुहोऽपि जरठो भूत्वा दण्डी पलितमूर्धजः ॥ ४४८॥
रुद्राक्ष-विलसद्गात्रः प्रादाद्-व्याधाय भस्म च ।
व्याधस्तुष्टमना वल्ल्या रक्षार्थं तं तदन्तिके ॥ ४४९॥
अवस्थाप्य गतः स्वामी क्षुधं तस्यै न्यवेदयत् ।
साऽपि प्रैयङ्गवं पिष्टं मधु पक्वफलानि च ॥ ४५०॥
अदात् पिपासुना तेन जले पृष्टे जलाशयम् ।
अदर्शयदशक्तेन प्रार्थिता च निनाय तम् ॥ ४५१॥
पीत्वा तत्रोदकं वृद्धः तदीयमधरामृतम् ।
चकमे सा प्रत्यषेधत् तदा हेरम्बमस्मरत् ॥ ४५२॥
सोऽपि द्विपो महान् भूत्वा लवल्याः पदवीं श्रितः ।
सा च भीता समाश्लिष्यद्वृद्धं सोऽपि निजां तनुम् ॥ ४५३॥
गृहीत्वा रमयामास तां गन्धर्वविवाहतः ।
गणेशेऽन्तर्हिते तावप्याश्रमं जग्मतुर्मुदा ॥ ४५४॥
व्याधाश्च ज्ञातवृत्तान्ताः क्रुधा योद्धुं समागताः ।
गुहोऽपि कुक्कुटं स्मृत्वा तेन तान् समघातयत् ॥ ४५५॥
लवल्या प्रार्थितश्चाथ गुहस्तानुदजीवयत् ।
अथ व्याधपतिः स्कन्दमुद्वोढुं विधिना सुताम् ॥ ४५६॥
प्रार्थयामास देवोऽपि पार्वतीपरमेश्वरौ ।
स्मृत्वा देवान्मुनीद्रांश्च समस्तैर्विभवैः सह ॥ ४५७॥
शुभे मुहुर्ते व्याधेन विष्ण्वंशेन श्रिया सह ।
धारापूर्वं प्रदत्तां तामुदुवाह यथोचितम् ॥ ४५८॥
माङ्गल्य-तन्तुनानेन मम जीवन-हेतुना ।
कण्ठे बध्नामि सुभगे लवलीति मनुं जपन् ॥ ४५९॥
कण्ठे बबन्ध माङ्गल्यसूत्रं तस्यास्तदा विधिः ।
कारयित्वा सप्तपदीं लाजहोमाद्यकारयत् ॥ ४६०॥
दिव्यदुन्दुभयो नेदुः पुष्पवृष्टिर्महत्यभूत् ।
ऋग्यजुःसाममन्त्रैश्च ऋषयः प्रोचुराशिषः ॥ ४६१॥
जगत्प्रमुदितं सर्वं स्कन्दस्तु स्कन्दपर्वतम् ।
गत्वा द्वाभ्यां च कान्ताभ्यां सह रेमे मुदान्वितः ॥ ४६२॥
इदीतं लवलीदेव्याः विवाह-चरितं शुभम् ।
ये शृण्वन्ति नरास्तेषां भूयासुस्सर्वसम्पदः ॥ ४६३॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां देवकाण्डे स्कन्दसप्तशत्यां
वल्लीविवाहः दशमोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय एकत्रिंशत्-मन्त्रात्मकाय
श्रीवल्लीकल्याण-सुन्दरमूर्तये
ताम्बूल-कुङ्कुमाक्षत-पुष्प-सघृत-
कदळीफल-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान्
कदळीक्रमुक-वितान-ध्वजपताकातोरण-नानाविध
दीपमाल्यच्छन्दनालङ्कृत-मण्डपे, हारकेयूररत्न-
कुण्डलाभरण-विचित्रवस्त्र-पुष्पमालादिभिरलङ्कृतः
श्रीवल्लीकल्याणसुन्दरः प्रीयताम् ।
जय श्रीवल्लीकान्तस्मरणं जय जय
जय भक्तपरिपालन जय जय
जय कल्याणसुन्दर जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हरहर महादेव ॥
२.११ श्रीत्यागराजमहिमा एकादशोऽध्यायः ।
ॐ हां हौं त्यागराजासनाय नमः ।
ॐ हां हौं त्यागराजमूर्तये नमः ।
दक्षालम्बित-वामनिद्रित-पदं कृष्णं मृगंञ्चाभयं
टङ्कांश्चादधतं वरञ्च कटकं बिभ्राणकं वामके ।
वामालम्बित-निद्रितान्यपदया देव्या युतं मध्यतः ।
स्कन्देनाब्ज-करद्वयेन सहितं सोमागुहेशं भजे ॥
ॐ हां हौं त्यागराजाय नमः ।
लवलीं देवसेनां च पर्यणैषीद्यदा गुहः ।
मुचुकुन्दश्च राजर्षिरासीत्सन्निहितस्तदा ॥ ४६४॥
इति तस्य प्रसङ्गेन ऋषयः शौनकादयः ।
सूतं पप्रच्छुरेतस्य वृत्तान्तं भक्तिभाविताः ॥ ४६५॥
सोऽपि नत्वा गुरुं सूतः सम्प्रहृष्ट-तनूरुहः ।
मुचुकुन्दस्य वृत्तान्तं सर्वं वक्तुं प्रचक्रमे ॥ ४६६॥
पुरा कदाचित्कैलासे पार्वत्यै परमेश्वरः ।
कथा उपदिशन्नास्त तदा बिल्वोपरिस्थितः ॥ ४६७॥
वानरो बिल्वपत्राणि व्याकिरच्छङ्करोपरि ।
तं दृष्ट्वा शङ्करस्तस्मै व्यतरच्चक्रवर्तिताम् ॥ ४६८॥
पश्चाद्गणपतित्वं च तथैव स रवेः कुले ।
सम्भूय देवराजस्य साह्यं कृत्वा सहस्रशः ॥ ४६९॥
तेन प्रत्युपकारार्थं प्रार्थितस्तेन पूजितम् ।
देवं वव्रे स तु प्राह विष्णोः स इति सोऽप्यथ ॥ ४७०॥
विष्णुं गत्वा तदीयां च लब्ध्वाऽनुज्ञां पुनर्दिवम् ।
शक्रं गत्वा प्रार्थयत स तु वञ्चयितुं नृपम् ॥ ४७१॥
मूर्तीः पञ्च विनिर्माय तेष्वेका गृह्यतामिति ।
अवोचन्मुचुकुन्दस्तु सोमास्कन्दस्य पूर्णया ॥ ४७२॥
कृपया प्राप्य सत्यां तां मूर्तिं तां कमलालये ।
प्रतिष्ठाप्य विशेषेण पूजयामास भक्तितः ॥ ४७३॥
सैव त्यागेश इति खल्वधुना पूज्यते जनैः ।
सकृद्दर्शन-मात्रेण मुक्तिदा विष्णुपूजिता ॥ ४७४॥
पुरा विष्णुर्विना शक्तिं शिवं सम्पूज्य तद्वशात् ।
पुत्रं दग्धं विदित्वाऽथ तद्दोषविनिवृत्तये ॥ ४७५॥
सोमास्कन्दं स्वहृदये विनिवेश्य स्वपन् शनैः ।
स्वकीयोच्छ्वास-निःश्वासैरान्दोलयति तं सदा ॥ ४७६॥
कदाचिज्जिष्णवे तां हि दत्वा दभ्रसभां गतः ।
शिश्ये तं च महेन्द्रोऽपि चिरं सम्पूज्य भूभृते ॥ ४७७॥
मुचुकुन्दाय विष्ण्वाज्ञामवलम्ब्य ददाविति ।
स एष भगवद्भक्तः शिवपार्षदतां गतः ॥ ४७८॥
सन्निदधौ विवाहेऽपि षण्मुखस्येत्यवर्णयत् ।
देवकाण्डकथा सेयं शृण्वतां मङ्गलप्रदा ॥ ४७९॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां देवकाण्डे स्कन्दसप्तशत्यां
श्रीत्यागराजमहिमा एकादशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय षोडश-मन्त्रात्मकाय
श्रीत्यागराजमूर्तये ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-बिल्वफल-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान् शरदभ्र-शुभ्रः
पुरन्दर-बृन्दारक-बृन्दवन्दितः जटामकुट-कोटितट-
घटित-किशोरचन्द्र-चन्द्रिका-समुन्मूलित-शोकसन्तापः
समस्त-भुवनसन्तानः श्रीत्यागराजः प्रीयताम् ।
जय श्री त्यागराजमूर्ते जय जय
जय सोमास्कन्देश्वर जय जय
जय राजाधिराज जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१२ दक्षचरितः द्वादशोऽध्यायः ।
ॐ हां हौं ह्रीं पार्वतीशासनाय नमः ।
ॐ हां हौं ह्रीं पार्वतीशमूर्तये नमः ।
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रञ्च खड्गं परशुमभयदं सव्यभागे वहन्तम् ॥
नागं पाशञ्च घण्टां प्रळयहुतवहं चाङ्कुशं वामभागे ।
नानालङ्कार-युक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
ॐ हां हौं ह्रीं पार्वतीशाय नमः ।
अथ सूतः पुनः पृष्टः मुनिभिः शौनकादिभिः ।
दक्षस्य चरितं वक्तुं सर्वमारभताऽऽदितः ॥ ४८०॥
सत्यलोके पुरा ब्रह्मा पुत्रैर्दशभिरन्वितः ।
तस्थौ तदा सुतो ज्येष्ठः दक्षः प्रपच्छ पद्मजम् ॥ ४८१॥
त्रिमूर्तिषूत्तमः को वेत्यथ ब्रह्मा जगाद तम् ।
शिव एवोत्तम इति सप्रमाणं सयुक्तिकम् ॥ ४८२॥
तदाकर्ण्याऽथ दक्षोऽपि सम्प्राप्तो मानसं सरः ।
तत्तीरे तप आतिष्ठत् शिवे विन्यस्तमानसः ॥ ४८३॥
बहुवर्षेष्वतीतेषु प्रसन्नाद्वृषवाहनात् ।
पुत्रान् बहूंश्च दुहितॄः शिवश्वशुरतामपि ॥ ४८४॥
लेभेऽथ वेदवल्याख्यां मुनिपुत्रीमुद्वाह्य च ।
तस्यां सहस्र-सङ्ख्याकान् तनयानप्यजीजनत् ॥ ४८५॥
तान् स्वसृष्टि-सहायार्थं प्राहिणोत्तपसे तदा ।
नारदस्तत्वमुद्बोध्य तान्न्यवारयदीहितात् ॥ ४८६॥
पुनः सहस्रमुत्पाद्य तेष्वप्येवं गतेषु च ।
मुनिभ्यो दुहितॄर्दत्वा तद्द्वारा जगतो विधिः ॥ ४८७॥
सृष्टिमिच्छन् तथा चक्रे कन्यकाः सप्तविंशतिम् ।
चन्द्राय प्रददौ तास्तं कृत्तिका-मात्ररागिणम् ॥ ४८८॥
पित्रे निवेदयामासुः सोपि तं क्षयमेत्विति ।
शशापाथ शशी शम्भुमारराध स्वमूर्धनि ॥ ४८९॥
अबिभ्रत् तं शिवस्तत्तु श्रुत्वा दक्षः स्वहेलनम् ।
मन्यमानः द्विषन् शम्भुं निन्दितुं च प्रचक्रमे ॥ ४९०॥
दक्षाय वरदानाच्च जामाता भवितुं शिवः ।
गौरीं पद्मसरोमध्ये शङ्खाकारा तपश्चर ॥ ४९१॥
इत्याख्यात् सा तथा दक्षहस्तं प्राप्ता स्म तेन च ।
वेदवल्ल्याः करं नीता पुत्री दाक्षायणीत्यभूत् ॥ ४९२॥
अथ तां द्वादशसमां चरन्तीं नियमान् शिवः ।
भिक्षुब्राह्मण-वेषेण वव्रे तद्भर्त्सितश्च सः ॥ ४९३॥
स्वकं रूपं समालम्ब्य पाणौ जग्राह तां सतीम् ।
विवाहसमये चापि शिवः कल्याणमण्डपात् ॥ ४९४॥
अन्तर्हितस्तदा दक्षः क्रोधं द्विगुणमाहरत् ।
निनिन्द च शिवं भूयः स तु दाक्षायणीं रहः ॥ ४९५॥
गृहीत्वा प्राप्य कैलासं तया साकमरीरमत् ।
दक्षस्तु मुनिवाक्येन सान्त्वयिष्यन् शिवं ययौ ॥ ४९६॥
कैलासं नन्दिना रुद्धः क्रुद्धेन च विमानितः ।
परावृत्य क्रतुं कञ्चित् आजहार तदध्वरे ॥ ४९७॥
शिवप्रतिनिधिर्नन्दी सदस्यैर्बहुमानितः ।
तद् दृष्ट्वा रुषितो दक्षः निनिन्द बहुधा शिवम् ॥ ४९८॥
नन्दिकेशस्तदा तत्र वर्तमानान् दिवौकसः ।
शप्त्वा जगाम कैलासं दक्षस्तु क्रतुलोपतः ॥ ४९९॥
दृष्ट्वा विहव्यान्विबुधान् अरुद्रं यज्ञमाहरत् ।
तत्रागतेषु मुनिषु दधीचिः पुरतस्तदा ॥ ५००॥
न्यषेधद्-रुद्रहीनस्य यज्ञस्यारम्भमात्मवित् ।
दक्षोऽपि तद्गतान् दोषान् उपन्यास्यद्-बहून् भ्रमात् ॥ ५०१॥
दधीचिरपि सर्वांस्तान् गुणानुक्त्वा सहेतुकम् ।
निर्ययौ यज्ञशालातः तत्र किञ्चिदिहोच्यते ॥ ५०२॥
दक्षः -
यदि शम्भुर्महेशानः कथमेष दिगम्बरः ।
दधीचिः -
ऋषिपत्नी-मोहनार्थं दिग्वासस्त्वं गृहीतवान् ॥ ५०३॥
कथं बिभर्ति शूलं सः सात्विकैरतिगर्हितम् ।
प्रलये सर्वसंहार-कृतिचिह्नमवेहि तत् ॥ ५०४॥
कपालं वा कथं धत्ते शिष्टैरति-विगर्हितम् ।
भैरवः सन् ब्रह्मशीर्षमच्छिनत् तत्प्रसिद्धये ॥ ५०५॥
मुक्तलज्जः कथं वीथ्यां भिक्षामटति दुर्मतिः ।
वैराग्य बोधनार्थं तल्लोकानां दक्ष बुध्यताम् ॥ ५०६॥
कर्कशं व्याघ्रचर्मापि कथं धत्तेऽतिमूढधीः ।
अभिचारागतं व्याघ्रं हत्वा तदजिनं दधौ ॥ ५०७॥
पिनाकं वा कथं मन्दो बिभर्त्यजगवं धनुः ।
श्रुतिसिद्धं धनुरिदं शृणु दक्ष विशेषवत् ॥ ५०८॥
मृगञ्च परशुं घोरं पाण्योर्धत्ते कुतो वृथा ।
अभिचारागतौ तौ हि वशीकृत्य दधौ स्वयम् ॥ ५०९॥
आशीविषैः कुतो घोरैः सर्पैर्वेष्टितविग्रहः ।
दारुकावन-निर्यातान् निजग्राह दयानिधिः ॥ ५१०॥
भूतसेनाभिरनिशं भीषणाभिः कुतो वृतः ।
भक्त-शत्रुविनाशाय भूतैरटति भूतकृत् ॥ ५११॥
मूर्ध्ना कथं मुण्डमालां बिभर्ति विशदां शिवः ।
बहूनां द्रुहिणानां हि संहार-ज्ञापनाय तत् ॥ ५१२॥
धत्ते डमरुकं चापि किं महाराव-भीषणम् ।
प्रलये स्वस्य शेषित्वं घोषयंस्तन्निनादतः ॥ ५१३॥
अपस्मारमधः कृत्वा पादस्यास्ते कथं सदा ।
असुरं सर्वलोकानां भीकरं हि तथाऽकरोत् ॥ ५१४॥
धृत्वा करतले वह्निं कुतो नृत्यति भीषणम् ।
अभिचारे प्रयुक्तोऽग्निः सोयं करतले धृतः ॥ ५१५॥
निष्ठुरं गजचर्मापि कुतो धत्तेऽतिरङ्कवत् ।
गजासुरं घातयित्वा दधौ तच्चर्म शङ्करः ॥ ५१६॥
वाराहं दन्तमुत्पाट्य मुक्तलज्जो बिभर्ति किम् ।
भङ्गादादि-वराहस्य तच्चिह्नं स बिभर्त्यजः ॥ ५१७॥
धीयते तेन घोरेण कमठास्थि कथं मुने ।
हरेः कूर्मावतारस्य भङ्गादेतद्-दधात्प्रभुः ॥ ५१८॥
अपिबत्कालकूटञ्च विषमुन्मत्तवत्कथम् ।
समुद्रमथने भीतलोक-रक्षणहेतवे ॥ ५१९॥
तुन्दिलं वृषभं वृद्धं किमर्थमधिरोहति ।
भीतं धर्मं पालयितुं तं स्ववाहमकल्पयत् ॥ ५२०॥
मुण्डमालाभिरन्याभिर्वेष्टिताङ्गः कथं सदा ।
बहुकल्प-ब्रह्मविष्णु-नाशसूचनमेव तत् ॥ ५२१॥
अशुचीनि सदाऽस्थीनि धत्तेऽङ्गे पुष्पवत्कथम् ।
इदं च प्रलये स्वस्य शेषित्वस्यैव सूचकम् ॥ ५२२॥
धत्ते यज्ञोपवीतं च शिरोरुहकृतं कथम् ।
सर्वसंहार-कारित्वप्रथायै दक्ष विद्धि तत् ॥ ५२३॥
शूलाग्र-प्रोतमनिशं प्रेतं कृत्वा कुतोऽटति ।
कोटिशो विधिविष्णूनां मृतिसंसूचनाय तत् ॥ ५२४॥
श्मशान-भस्मभिर्गात्रं उद्धूलयति किन्त्वसौ ।
शुद्धभस्मावशेषित्वं जगतो बोधयत्यतः ॥ ५२५॥
महाटोपेन सततं ताण्डवं कुरुते कथम् ।
आनन्दभरितः शम्भुरत एव प्रसिध्यति ॥ ५२६॥
संहर्ता सर्वजगतां निष्ठुरश्च कथं मुने ।
दुःखितस्यास्य जगतो विश्रमार्थमवेहि तत् ॥ ५२७॥
कामान्धीकृतचक्षुः सन् शिरसा किं वहेत् स्त्रियम् ।
भगीरथ-प्रार्थनया लोकक्षेमाय चावहत् ॥ ५२८॥
अपरां तु शरीरार्धे कथं वहति मन्दधीः ।
शिवशक्ति-समाविष्टं सर्वं जगदितीरयन् ॥ ५२९॥
स ईश्वरः कुटुम्बी च पुत्रवांश्च कथं मुने ।
गजवक्त्राख्य-दैत्यस्य नाशाय हि गजाननम् ॥ ५३०॥
शूरपद्मादि-दैत्यानां संहाराय षडाननम् ।
अजीजनत् कालकालो मेरुधन्वा महेश्वरः ॥ ५३१॥
तमोमयगुणः केन सर्वेषामुपकारकः ।
नास्ति स्वतस्तमस्तत्र किन्तु सात्विकमेव तत् ॥ ५३२॥
कथमेतादृशो विप्रैः परं ब्रह्मेति कथ्यते ।
ॐ तत्सदिति निर्देशः सर्वस्तत्र श्रुतौ कृतः ॥ ५३३॥
ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ।
ब्रह्मा चाधिपतिर्ब्रह्म ब्रह्मणोऽधिपतिश्च सः ॥ ५३४॥
शिवों तत्पुरुषायेति सन्महस्ते नमो नमः ।
इति गौरीपतिः साक्षाद्-गीयते श्रुतिमौलिषु ॥ ५३५॥
इत्युक्त्वा तं च तत्रान्यान् शप्त्वा भूमिसुरानपि ।
दधीचिर्निययौ द्रष्टुं शम्भुं कैलासपर्वतम् ॥ ५३६॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां दक्षकाण्डे स्कन्दसप्तशत्यां
दक्षचरितः द्वादशोद्ध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डळं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय सपरिवाराय सवाहनाय
सप्तपञ्चाशत्-मन्त्रात्मिकाय श्रीपार्वतीशाय ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-पनसफल महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान् विधिमधुमथन-
शतमखनिखिल-सुरवर-भवकरणभरणः यन्त्र-
नियन्त्रित-स्वान्त-सङ्कल्प-भूतभविष्य-वर्तमान-
कालत्रय-समस्तवस्तु-तत्वविषयः नित्यनिर्मल-
ज्ञानात्मकः मन्त्र-पदवर्णभुवन-तत्वकलात्मकः
श्रीपार्वतीशः प्रीयताम् ।
जय श्री पार्वतीपते जय जय
जय परमेश्वर जय जय
जय सकलकार्य जय प्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१३ दक्षयज्ञः त्रयोदशोऽध्यायः ।
ॐ हां वीरभद्रासनाय नमः ।
ॐ हां वीरभद्रमूर्तये नमः ।
नीलाभं रक्तवस्त्रं भ्रुकुटियुतमुखं ज्वालकेशं त्रिनेत्रम् ।
सव्ये खड्गञ्च दण्डं च विशिखपरशुं वामभागे कपालम् ।
खेटङ्घण्टां वहन्तं मुसलमपिदधत् किङ्किणी-मालयाढ्यम् ।
सिंहाखेटैकवृत्ति स्फुरतु मम पुरो वीरभद्र-स्वरूपम् ।
ॐ क्लीं ह्रीं वीरभद्राय नमः ।
गते मुनिवरे तस्मिन् दक्षस्यास्य दुरात्मनः ।
बलं वीर्यं धृतिः कीर्तिः निर्ययुः सर्वसम्पदः ॥ ५३७॥
तथापि दैववशगः रुद्रेण रहितं क्रतुम् ।
कर्तुमारभ्य सर्वेषां आह्वाने प्रैषयद्भटान् ॥ ५३८॥
न शिवाय जनः कोपि प्रेषितो नापि पत्रिका ।
प्रहिता स्वस्य जामात्रे सर्वयज्ञभुजेऽपि च ॥ ५३९॥
दाक्षायण्यस्तु सर्वाश्च भूषिता रमणैः सह ।
समारुह्य विमानानि गच्छन्ति शतशस्तदा ॥ ५४०॥
सती व्यजिज्ञपच्छम्भु-निकटे स्वमनोरथम् ।
पितुर्यज्ञमहं द्रष्टुं गन्तुमिच्छामि भो इति ॥ ५४१॥
निषिद्धाऽपि महेशेन स्त्रीचापल्यात्पितुर्गृहम् ।
गता यतोऽध्वरं गच्छेदनाहूत इति स्मृतिः ॥ ५४२॥
विमानिता च दक्षेण मात्रा यद्यपि मानिता ।
न सत्कृता च ऋत्विग्भिः दक्षभीत्या च दैवतैः ॥ ५४३॥
तदा रुद्रो वीरभद्रं प्रेषयित्वा च कालिकाम् ।
यज्ञं विध्वंसयामास मृगो भूत्वा क्रतुस्तदा ॥ ५४४॥
ययौ स तमनुद्रुत्य हत्वा तत्रत्य-नाकिनाम् ।
अङ्गच्छेदं विधायापि यजमानस्य वै शिरः ॥ ५४५॥
चिच्छेद वेदवल्ल्याश्च करं दन्तांश्च तिग्मगोः ।
भगस्य नेत्रे बिभिदे निष्पिपेष च शीतगुम् ॥ ५४६॥
अलुञ्चच्च भृगोः श्मश्रु न्यकृन्तच्च यमस्य कम् ।
अखण्डयच्च रसनां हस्तांश्चैव हविर्भुजः ॥ ५४७॥
एवं ध्वस्ते मखे देवैः प्रार्थितः परमेश्वरः ।
योजयित्वाऽजशिरसा यजमानं पुनः क्रतुम् ॥ ५४८॥
समापय्याऽथ तेनापि चमकेन स्तुतः शिवः ।
प्राजापत्यं पदं तस्मै दत्वा स्वस्थानमाययौ ॥ ५४९॥
देवाश्च शङ्करं स्तुत्वा पुनर्लब्धाङ्गकास्ततः ।
स्वं स्वं स्थानं प्रतिययुः पुनस्तत्पापशेषतः ॥ ५५०॥
शूरेण पीडिता आसन् भूयः स्कन्देन मोचिताः ।
ऋषयश्च तथा शप्ता नन्दिना वेदनिन्दिते ॥ ५५१॥
मार्गेऽभूवन् रताः शम्भु-भस्म-रुद्राक्ष-दूषकाः ।
पुनरीशप्रसादेन मुक्तिमेष्यन्ति कालतः ॥ ५५२॥
इत्येवं दक्षकाण्डस्य कथा समुपवर्णिता ।
श्रुता पापहरी नृणां शिवभक्ति-विवर्द्धिनी ॥ ५५३॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां दक्षकाण्डे स्कन्दसप्तशत्यां
दक्षयज्ञः त्रयोदशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय सप्तदश-मन्त्रात्मकाय
श्रीवीरभद्राय ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-कुष्माण्ड-खण्ड-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान् दूषणदूषित-
जन्ममरण-जराभय-वितरण-वरसाहसः शिक्षारूक्ष-
स्वभावः करकमल-कल्लोलोल्लसित-कपालशूलायुधः
त्रिभुवन-भयङ्कर-कराळवदनः पापिजन-दुर्जन-
तर्जनपटु-गर्जनभीषणः वीरभद्रः प्रीयताम् ।
जय श्री वीरभद्र जय जय
जय शत्रुमर्दन जय जय
जय दुष्टनिग्रह जय जय
जय शिष्टपरिपालन जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१४ उपदेशकाण्डेकैलासवर्णना चतुर्दशोऽध्यायः ।
ॐ हां योगगुर्वासनाय नमः ।
ॐ हां योगगुरुमूर्तये नमः ।
कैलासाद्रि-निभं शशाङ्क-धवळं स्फूर्जज्जटामण्डितं
नासालोकन-तत्परं त्रिनयनं वीरासने संस्थितम् ।
मुद्रा-टङ्क-कुरङ्ग-जानुविलसत्-पाणिं प्रसन्नाननं
कट्यासक्त-भुजङ्गमं मुनिवर-ध्येयं गुरुं भावये ॥
ॐ हां योगगुरवे नमः ।
अथोपदेश-काण्डीयकथा-सङ्ग्रहमारभे ।
वैदिको निखिलो धर्मो यत्र विस्पष्टमुच्यते ॥ ५५४॥
अथ तं सूतमामन्त्र्य शौनकाद्या मुनीश्वराः ।
पप्रच्छुः किल कैलासः कीदृगित्यथ सोऽवदत् ॥ ५५५॥
प्राकारैः सप्तभिश्चैव परीतो रत्नगोपुरैः ।
धार्मिकैर्मुनिभिर्ब्रह्मविष्ण्वादिभिरुपासितः ॥ ५५६॥
अन्नदाः प्रथमे सन्ति द्वितीये शिवपूजकाः ।
तृतीये शिवकैङ्कर्यपरास्सन्ति चतुर्थके ॥ ५५७॥
सोमवारव्रतपराः प्रदोषव्रतिनस्ततः ।
पञ्चमे त्वथ षष्ठे ये शिवरात्रिव्रतं दधुः ॥ ५५८॥
प्राकारे सप्तमे तत्र पञ्चाक्षर-परायणाः ।
ततोऽन्तरे शिवज्ञानपरैर्वेदान्तनिष्ठितैः ॥ ५५९॥
सदाशिवेन सततं सर्वमङ्गलया सह ।
अधिष्ठितः पापिनां तु दुरारोहः शिवद्विषाम् ॥ ५६०॥
सुलभो भस्मरुद्राक्ष-धारिणां शिवयाजिनाम् ।
शिवपुण्यकृतां शैवव्रतानुष्ठायिनामपि ॥ ५६१॥
शिवभक्तान्न-दातॄणां श्रीपञ्चाक्षर-जापिनाम् ।
उमा-विघ्नेश-षड्वक्त्र-व्रतानुष्ठानशालिनाम् ॥ ५६२॥
इत्याकर्ण्याथ मुनिभिः शिवपुण्यानि कीर्तय ।
इति सम्प्रार्थितः सूतः क्रमाद्वक्तुं प्रचक्रमे ॥ ५६३॥
भर्त्सनात्सर्वपापानां स्मारणाच्च शिवस्य यत् ।
भस्मेति खलु विख्यातं भुक्तिमुक्ति-फलप्रदम् ॥ ५६४॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां उपदेशकाण्डे स्कन्दसप्तशत्यां
कैलासवर्णना चतुर्दशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय एकादश-मन्त्रात्मकाय
श्रीयोगगुरुमूर्तये ताम्बूल-कुङ्कुमाक्षत-पुष्प-सघृत
चूतफल-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान्मेरुमन्दर-
निषद-गन्धमादन-हिमाचलाचलरत्न-नवरत्न-निकर-धगद्धगितशृङ्ग-
कैलास-शिखरः दिक्पाल-मौळि-
पाळि-मल्लिकामन्दार-कुसुम-मकरन्द-सान्द्र-
सुन्दर-चरणारविन्दः पुस्तकाक्षमाला-वह्नि-
चिन्मुद्रहस्तः वाणीश-भूमीश-अमरेश-प्रमुख-
निखिल-मुनिवर-ध्यानोपासन-वेदान्त-सिद्धान्त-
-उपदेश-श्रीगुरुमूर्तिः प्रीयताम् ।
जय श्रीज्ञानमूर्त्ते जय जय
जय ज्ञानदायक जय जय
जय चित्स्वरूप जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१५ उपदेशकाण्डे भस्मधारण-प्रभावः पञ्चदशोऽध्यायः ।
ॐ कामेश्वरासनाय नमः ।
ॐ कामेश्वरमूर्तये नमः ।
भस्मोद्धूळित-विग्रहं शशिधरं वेणीजटा-मण्डितं
टङ्कं कृष्णमृगं दधानमभयं वीरासने संस्थितम् ।
अङ्के सव्यतलेऽपरं करतलं विन्यस्य योगेश्वरं
व्याघ्र-त्वग्वसनं ललाटजदृशा दग्ध-स्मरेशं भजे ॥
ॐ कामेश्वराय नमः ।
तद्भस्मोद्धूलनं तादृक् त्रिपुण्ड्रं च न लङ्घयेत् ।
श्रुत्वा विधीयते यस्मात् तत्त्यागी पतितो भवेत् ॥ ५६५॥
किञ्चाज्ञानस्य विच्छित्तिः ज्ञानादेव न चान्यथा ।
तत्ज्ञानसाधनं भस्म-धारणं मुण्डके श्रुतम् ॥ ५६६॥
शिवदत्तं भस्म धृत्वा विष्णुः शक्तिमवाप्य च ।
जगत्सृष्ट्वा पालयति जागरूकोऽधुनापि हि ॥ ५६७॥
द्रविडेषु द्विजः कश्चित् सर्वाशी कुत्सिताशयः ।
सर्वस्त्रीनिरतः पापी मृतः शृङ्गाटके क्वचित् ॥ ५६८॥
सारमेयास्तदाऽऽगत्य जग्धुं तस्य कलेवरम् । द ?
भस्मस्पृष्टपदं न्यस्यन् तदानीं तत्प्रभावतः ॥ ५६९॥
सर्वपाप-विनिर्मुक्तः कैलासमगमद्-द्विजः ।
किमुताहो बुद्धिपूर्वं विरजा-भस्मधारिणः ॥ ५७०॥
तथा वङ्गे नृपः कश्चित् दानशौण्डः सदा द्विजान् ।
आहूय तेभ्यो दानानि विततार तदा द्विजः ॥ ५७१॥
विदर्भादागतः कश्चिद्-दृष्ट्वा फालं महीपतेः ।
भस्मशून्यं जगादैनं भस्मधारण-पूर्वकम् ॥ ५७२॥
दानानि देहि राजेन्द्र तद्विना निष्फलं यतः ।
कर्मेत्यथ महीपस्तु तमनादृत्य गर्वतः ॥ ५७३॥
दानान्यदात्ततो नातिचिरेणैव स शत्रुभिः ।
पराजितो भ्रष्टराज्यः व्याधिभिः परिपीडितः ॥ ५७४॥
अटन्स भार्यया साकं वैदर्भद्विजमेत्य च ।
धृत्वा भस्म पुना राज्यं प्राप्यान्ते शङ्करं ययौ ॥ ५७५॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां उपदेशकाण्डे स्कन्दसप्तशत्यां
भस्मधारण-प्रभावः पञ्चदशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय एकादश-मन्त्रात्मकाय
श्रीयोगगुरुमूर्तये ताम्बूल-कुङ्कुमाक्षत-पुष्प-
सघृत-द्राक्षाफल-महाहुतिं समर्पयामि नमःस्वाहा ॥
अनेन दिव्यमङ्गल-होमेन भगवान् स्वस्ति-समस्त
विस्तीर्ण-भुवनरक्षा-दक्षविचक्षणः दाक्षायणीकर-
पल्लवाकलित-गल-लक्षित-गीर्वाणराज-मणिखचितः
भस्मोद्धूलित-त्रिपुण्ड्र-विभूषितः श्रीकामेश्वरः प्रीयताम् ।
जय श्री कामेश्वर जय जय
जय भस्मोद्धूलित जय जय
जय ऐश्वर्यप्रद जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१६ उपदेशकाण्डे रुद्राक्षमहिम्न षोडशोऽध्यायः ।
ॐ हां दक्षिणामूर्त्यासनाय नमः ।
ॐ हां दक्षिणामूर्ति-मूर्तये नमः ।
शीतागं वह्निहस्तं द्विजपतिसहितं भस्मनोद्धूलिताङ्गं
रुद्राक्षोल्लासिपीठं हुतवहनयनं मूर्ध्नि गङ्गां दधानम् ।
ॐकारं मूलमन्त्रं मुनिवरसहितं वेदसारं शिवाख्यं
वन्दे कैलासनाथं सुरवरविनुतं दक्षिणामूर्तिमीशम् ॥
ॐ नमो दक्षिणामूर्तये श्रद्धां मेधां मह्यं प्रयच्छ स्वाहा
अथ रुद्राक्ष-माहात्म्यं वर्णयन् रोमहर्षणः ।
प्रथमं तत् समुद्भूतिं तत्सङ्ख्या-नियमानपि ॥ ५७६॥
सहस्रं धारयेद्यद्वा बाह्वोः षोडश षोडश ।
एकं शिखायां करयोः द्वादश द्वादश द्वयोः ॥ ५७७॥
द्वात्रिंशत्कण्ठदेशे तु प्रत्येकं कर्णयोश्च षट् ।
धारयेद्यस्तु रुद्राक्षान् रुद्रवत्पूज्यते हि सः ॥ ५७८॥
इत्युक्त्वा वर्णभेदेन धारणं तत्फलं तथा ।
प्रोच्य तत्र कथा वह्निरब्रवीत्तां ब्रवीम्यहम् ॥ ५७९॥
नन्दिग्रामे पुरा काचिद्वारयोषा शिवाश्रिता ।
स्वयं रुद्राक्षभरणा स्वकीयौ कपिमर्कटौ ॥ ५८०॥
विभूषयन्ती रुद्राक्षैः क्रीडयन्ती बभूव ह ।
प्रयाता सा च कैलासं तौ च जन्मान्तरे क्वचित् ॥ ५८१॥
देशे राजा च मन्त्री च भूत्वा रुद्राक्षधारिणौ ।
क्रमेण शिवसारूप्यं गतौ तद्वैभवेन हि ॥ ५८२॥
पुरा पुष्करदेशेऽभूत्सौम्यनामा महीपतिः ।
तस्य भार्या वसुमती रूपयौवनशालिनी ॥ ५८३॥
तथापि वेश्यानिरत आसीन्नरपतिस्तदा ।
दुःखिता राजपत्नी तां दृष्ट्वा भार्या पुरोधसः ॥ ५८४॥
रुद्राक्षमेकं तत्कण्ठे धारयामास तद्दिने ।
राजा स्वभवनादन्यद्गेहं प्रति ययौ नहि ॥ ५८५॥
रममाणः स्वगेहिन्या शुद्धान्तेऽभूद्यदा तदा ।
शत्रुरुद्धां पुरीं श्रुत्वा पुनश्चिन्तापरोऽभवत् ॥ ५८६॥
तथा राज्ञी तस्य कण्ठे रुद्राक्षं तदधारयत् ।
तन्महिम्ना तदा सर्वान् विद्राव्य स्वरिपून्नृपः ॥ ५८७॥
सुखं भुक्त्वा चिरं राज्यं अन्ते कैलासमाप च ।
अहो रुद्राक्षमहिमा मनोवाचामगोचरः ॥ ५८८॥
रुद्राक्ष-धारणात्कश्चित् मार्जारोपि दिवं गतः ।
पुनरागत्य तत्रत्यं वृत्तान्तं चाप्यवर्णयत् ॥ ५८९॥
सिन्धुदेशे द्विजः कश्चित्सुप्रतीपाह्वयोऽभवत् ।
नित्यान्नदान-निरतः किन्तु रुद्राक्ष-धारिणाम् ॥ ५९०॥
प्रवेशो भक्तशालायां नान्यस्तत्र विशेदिति ।
नियमं कृतवानेवं काले गच्छति जातुचित् ॥ ५९१॥
अरुद्राक्षधरः कश्चित् यतिस्तद्गेहमागमत् ।
अस्तु नाम यतिर्विष्णुतुल्यो वा विष्णुरेव वा ॥ ५९२॥
रुद्राक्ष-धारणमृते न मुक्तिमिह सोऽर्हति ।
इतीरितस्तस्य पुत्रैस्तर्जितश्च स मस्करी ॥ ५९३॥
राज्ञे विज्ञापयामास राजाप्याहूय तांश्च तम् ।
व्यचारयन्-नीतितत्वं यतिरेवं तदाब्रवीत् ॥ ५९४॥
यतिश्च ब्रह्मचारी च पक्वान्न-स्वामिनावुभौ ।
तस्मा अन्नमदत्त्वायं तस्करो दण्डमर्हति ॥ ५९५॥
सुप्रतीपस्तदोवाच प्रणिपत्य सभासदः ।
न वेषेण यतिर्भूयात् नारुद्राक्षधरो यतिः ॥ ५९६॥
सशरीरो दिवं यातुं शक्यते किं त्वया द्विज ।
इति क्रुद्धेन यतिना प्रोक्तः प्रोवाच तं द्विजः ॥ ५९७॥
रुद्राक्ष-भृद्बिडालोपि सदेहो मे दिवं व्रजेत् ।
इत्युक्त्वा स्वगृहान्तःस्थं ओतुं रुद्राक्षधारिणम् ॥ ५९८॥
प्रैषयत् त्रिदिवं सोऽपि तत्रत्यैर्बहुमानितः ।
पुनरेत्य कृतान्तस्य रुद्राक्षाद्भीतिमब्रवीत् ॥ ५९९॥
ततो यतिः स रुद्राक्षं धृत्वा भुक्त्वा च तद्गृहे ।
ध्यायन् सदाशिवं चित्ते शिवसायुज्यमा प च ॥ ६००॥
रुद्राक्षवैभवं श्रुत्वा मुनयो रोमहर्षणम् ।
पञ्चाक्षरस्य माहात्म्यं पप्रच्छुः प्राह सोऽपि तत् ॥ ६०१॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां उपदेशकाण्डे स्कन्दसप्तशत्यां
रुद्राक्षमहिमा षोडशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय सपरिवाराय
सवाहनाय षड्विंशति-मन्त्रात्मिकाय श्रीदक्षिणामूर्तये
ताम्बूल-कुङ्कुमाक्षत-पुष्प-सघृत-पूगीफल-महाहुतिं
समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान् कनकशिखरि-
निपतदमर-सरित्-स्रोतस्सञ्जात-कनकमय-कोकनद-
मृणाळतन्तु-सन्तान-समानोपवीत-विराजमानः
निखिलचराचर-वर्गसर्गनिपुण-प्रशस्त-
प्रणवमुख-ऋग्यजुस्सामाथर्वण-वेदशिवागम-शास्त्रोपदेशः
पुराणस्मृति-प्रभृति-चतुष्षष्टिकला-सकलमन्त्रोपदेश-प्रशस्तः
पुस्तकाक्षमाला-कमण्डलु-वल्कलालङ्कृतः श्रीदक्षिणामूर्तिः प्रीयताम् ।
जय श्री दक्षिणामूर्त्ते जय जय
जय रुद्रमूर्त्ते जय जय
जय ज्ञानप्रद जय जय
जय सकलविद्याप्रद जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१७ उपदेशकाण्डे पञ्चाक्षरमहिमा सप्तदशोऽध्यायः ।
ॐ हां हौं सदाशिवासनाय नमः ।
ॐ हां हौं सदाशिवमूर्तये नमः ।
ध्यायेन्निरामयं देवं जगत्सृष्ट्यादि-कारणम् ।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम् ॥
गङ्गाधरं शशिधरं जटामकुट-मण्डितम् ।
श्वेतभूति-त्रिपुण्ड्रेन ललाटेन विराजितम् ॥
लोचन-त्रयसम्पन्नं स्वर्ण-कुण्डलमण्डितम् ।
दिव्याम्बरं रत्नभूषं रत्नसिंहासन-स्थितम् ॥
सर्वाभीष्ट-प्रदातारं वटमूले-निवासिनम् ।
सनातनं साम्बमूर्तिं परमात्मानमव्ययम् ॥
ॐ हां हौं साम्बसदाशिवाय नमः ।
ईषत्तदीय-माहात्म्यमिहापि प्रोच्यते स्पुटम् ।
पञ्चाक्षरः परो मन्त्रः पञ्चपातकनाशनः ॥ ६०२॥
सद्गुरोरुपदेशेन लब्ध्वा तं नियतो जपेत् ।
तज्जपस्य प्रभावेन बहवः सिद्धिमागताः ॥ ६०३॥
काशीराजस्य दुहिता पञ्चाक्षरपराऽभवत् ।
तद्भर्ता तदभावेन नाशक्नोत्क्रीडितुं तया ॥ ६०४॥
ततो गुरोः स तल्लब्ध्वा तया साकमरीरमत् ।
काकरूपेण तद्देहान्निरगुः पापराशयः ॥ ६०५॥
शुद्धसत्वो बहून् भोगान् भुक्तवेह नरदुर्लभान् ।
अन्ते शिवस्य सायुज्यं प्रपेदे भार्यया सह ॥ ६०६॥
एवं बाडवदेशे च द्वावास्तां सोदरौ द्विजौ ।
तयोरन्यतरः प्राप्तः सन्न्यासं यतिवाक्यतः ॥ ६०७॥
अन्योऽपि तत्प्रपित्सुः स्वपित्रा न्यायेन वारितः ।
पञ्चाक्षरं मन्त्रराजं लब्ध्वा तज्जप-वैभवात् ॥ ६०८॥
महिमानं यतीनामप्यत्यक्रामत्स जातुचित् ।
न्यक्कृतो यतिना भ्रात्रा तत्प्रभावमदर्शयत् ॥ ६०९॥
अन्येप्येवं हि बहवः महापातक-दूषिताः ।
पतिताश्चाभिशस्ताश्च मुक्तास्तन्मन्त्रजापतः ॥ ६१०॥
इति पञ्चाक्षरी-मन्त्रजप-वैभवमंशतः ।
वर्णितं शिवनाम्नां च माहात्म्यं वर्ण्यतेऽधुना ॥ ६११॥
ज्ञानतोऽज्ञानतो वापि शिवनामातिपावनम् ।
उच्चरन्तीह ये मर्त्याः नास्ति तेषामघं ध्रुवम् ॥ ६१२॥
कश्चिद्द्विजकुले जातः मद्यविक्रय-जीवनः ।
मृतिकाले स्वपुत्रस्य निकटे स्वमुदीरयन् ॥ ६१३॥
उत्तमर्णाधमर्णत्वं केनचिद्धार्यते शिवम् ।
इति ब्रुवन् जहौ प्राणान् तच्छिव-स्मृतिमात्रतः ॥ ६१४॥
ध्वस्तपापः शिवगणैः कैलासं द्रागनीयत ।
तथैव कश्चन व्याधः प्रहराहर- संहर ॥ ६१५॥
इति ब्रुवन्नन्तकाले प्रतिपेदे हरान्तिकम् ।
धर्मराजोऽपि शर्वेण शिक्षितस्तत्र नेङ्गते ॥ ६१६॥
कश्चित्सङ्करजातीयः शङ्करेति पृथग्जनैः ।
आहूतस्तेन ते सर्वेप्यध्यारोहन् शिवं पदम् ॥ ६१७॥
इति नाम्नां प्रभावो वो वर्णितोऽथ मुनीश्वराः ।
शिवव्रतानां माहात्म्यं वर्ण्यते चित्तशुद्धिदम् ॥ ६१८॥
तदीय-व्रतमाहात्म्यं शृण्वतां पापमोचनम् ।
मर्त्यः सन् यदनुष्ठानात्सुखं शिवपदं व्रजेत् ॥ ६१९॥
सोमवार-व्रतं चोमामहेशान-व्रतं तथा ।
प्रदोष-व्रतमन्यच्च केदार-व्रतमुत्तमम् ॥ ६२०॥
एवं गौर्याः षण्मुखस्य दन्तिवक्त्रस्य नन्दिनः ।
भैरवस्य व्रतं वाऽपि कृत्वा सिद्धिमवाप्नुयात् ॥ ६२१॥
शुक्रवार-व्रतंश्चैव पूर्णिमा-व्रतमेव च ।
नवरात्र-व्रतंश्चैव गौर्या मुख्यान्यमूनि हि ॥ ६२२॥
षष्ठी-व्रतं कृत्तिकर्क्ष-व्रतं कुजदिन-व्रतम् ।
षण्मुखस्य व्रतान्येवं बहूनि श्रेयसे नृणाम् ॥ ६२३॥
चतुर्थी-व्रतमन्यच्च शुक्रवार-व्रतं तथा ।
एकदन्त-प्रीतिकरं सर्वसम्पत्करं शुभम् ॥ ६२४॥
नन्दिनस्तु प्रदोषेषु पूजनं व्रतमुत्तमम् ।
तेन वन्ध्या सुतं विन्देत्सौमाङ्गल्यं सती चिरम् ॥ ६२५॥
कार्तिके भानुवारे तु भैरव-व्रतमुत्तमम् ।
सर्वरोग-प्रशमनं सकृच्चीर्णमपीष्टदम् ॥ ६२६॥
शूलव्रतं तथा पुण्यं वृषभ-व्रतमेव च ।
अनुष्ठितं सर्वकाम-सिद्धिदं बहुभिः पुरा ॥ ६२७॥
मुनिभिर्विबुधैर्मर्त्यैः अनुष्ठितमिदम्परैः ।
बहुधा श्रूयते विप्राः लब्धं च परमं पदम् ॥ ६२८॥
एवं व्रतानि विप्रेन्द्रा वर्णितान्यथ कीर्त्यते ।
शिवपुण्यस्य माहात्म्यं यत्कृतं खलु मुक्तिदम् ॥ ६२९॥
शिवलिङ्गस्य गौर्यादिमूर्त्तीनां च मुनीश्वराः ।
निर्माणं स्वर्ण-रजत-ताम्र-दारु-शिलादिभिः ॥ ६३०॥
तत्प्रतिष्ठा तथा तेषां क्लृप्तिरायतनस्य च ।
वस्त्र-स्रग्भूषणैश्चापि पूजनं सति वैभवे ॥ ६३१॥
दीपानां स्थापनं तत्र गवां च प्रतिपादनम् ।
क्षेत्राराम-तटाकादि निर्माणं विभवोचितम् ॥ ६३२॥
रथवाहन-निर्माणं उत्सवस्य प्रकल्पनम् ।
जीर्णालयोद्धारणं च प्रादक्षिण्यं नमस्कृतिः ॥ ६३३॥
शिवार्चकाय गेहादिदानं सोपस्करं द्विजाः ।
दानं च शिवभक्तेभ्यो वस्त्रादीनां विशेषतः ॥ ६३४॥
वाचनं च पुराणानां वाचकाय यथार्हतः ।
वस्त्रालङ्करणादीनां दानं तस्य नमस्कृतिः ॥ ६३५॥
शिवभक्त-जनानां च प्रत्युत्थानं नमस्क्रिया ।
तत्कार्याप्रतिबन्धश्च तत्साह्यञ्च यथोचितम् ॥ ६३६॥
एतानि शिवपुण्यानि ये कुर्वन्ति नरोत्तमाः ।
भुक्त्वा ते विपुलान् भोगान् पुत्रपौत्रादि-संयुताः ॥ ६३७॥
काञ्चनेन विमानेन शिवलोकमवाप्य च ।
कल्पकोटि-सहस्राणि मोदन्ते शिवसन्निधौ ॥ ६३८॥
अत्र चोदाहरन्तीमान् इतिहासान् पुरातनान् ।
शृणुध्वमृषयः सर्वे शिवपुण्यकृतां शुभान् ॥ ६३९॥
देवेषु दैत्येषु मुनीश्वरेषु मर्त्येषु विप्रेषु च भूमिपेषु ।
वैश्येषु शूद्रेष्वपि सङ्करेषु सन्त्येव नारीष्वपि शम्भुभक्ताः ॥ ६४०॥
तेषां बाह्यानि चिह्नानि दश सन्ति मुनीश्वराः ।
त्रीण्यान्तराणि चोक्तानि त्रयोदश भवन्ति हि ॥ ६४१॥
प्रथमं भस्मरुद्राक्ष-धारणं समुदीरितम् ।
गुरुसेवा द्वितीया स्यात् तृतीया च शिवस्तुतिः ॥ ६४२॥
नामोच्चारणमीशस्य चतुर्थं परिपठ्यते ।
पञ्चमं देवदेवस्य पूजनं ब्राह्मणोत्तमाः ॥ ६४३॥
शिवालयस्य पुण्यस्य दर्शनं षष्ठमीरितम् ।
तथा शिवपुराणानां श्रवणं सप्तमं विदुः ॥ ६४४॥
शिवभक्त-नमस्कारमष्टमं कथयन्ति हि ।
नवमं शिवभक्तेभ्यो दानमन्नस्य चक्षते ॥ ६४५॥
तेभ्यो वस्त्रादिदानं स्यात् दशमं गुरवे तथा ।
एवं बाह्यानि चिह्नानि कथितानि दश द्विजाः ॥ ६४६॥
अथान्तराणि कथ्यन्ते मानसः प्रथमो जपः ।
द्वितीया मानसी पूजा साक्षात्कृतिरथापरा ॥ ६४७॥
वाग्गद्गदाङ्ग-कम्पश्च रोमहर्षोऽश्रुपातनम् ।
येषां ते शिवभक्तास्तान् प्रणमन् पूजयन्नपि ॥ ६४८॥
भुक्त्तवेह विपुलान् भोगान् दृढाङ्गः पुत्रपौत्रवान् ।
अमुत्र ब्रह्मविष्ण्वादि-प्रत्युद्यातः शिवान्तिकम् ॥ ६४९॥
प्रपद्य सन्निधौ शम्भोः स्थित्वा प्राप्य सरूपताम् ।
अन्ते च शिवसायुज्यं लभेत ब्राह्मणोत्तमाः ॥ ६५०॥
एतद्गौर्यै शिवेनोक्तं नान्यस्तद्वक्तुमर्हति ।
अथापि किञ्चित् वक्ष्येऽहं शृणुध्वं मुनिसत्तमाः ॥ ६५१॥
कोसलाधिपतेः पुत्र्यश्चतस्रः कौशिकेन हि ।
शप्ता अन्धत्वमापन्ना अरण्ये रमणैः सह ॥ ६५२॥
कुम्भोद्भवेन मुनिना शिवधर्मोपदेशतः ।
तथैव शिवपुण्यानि कुर्वाणा अचिरेण च ॥ ६५३॥
लब्धनेत्राश्चिरम्भोगान् अनुभूयैहिकानपि ।
अन्ते प्रापुश्च कैलासं तथा कश्चन चूर्णकम् ॥ ६५४॥
शिष्टं शिवालयप्रान्ते पाषाणेऽलेपयत्ततः ।
पिनद्धं तद्भित्तिगतं रन्ध्रं तत्पुण्य-योगतः ॥ ६५५॥
स ययौ शिवलोकञ्च महिषोऽपि वने क्वचित् ।
शृङ्गाभ्यां तरुगुल्मादींश्छित्वा तत्रत्यमालयम् ॥ ६५६॥
शोधयामास तत्पुण्य-बलात्स च दिवं ययौ ।
अन्या च जारिणी काचिदन्धा दण्डेन सर्पती ॥ ६५७॥
तद्दण्डं प्रददौ देवगृह-निर्माण-हेतवे ।
तेन पुण्यप्रभावेन ध्वस्तापापा ययौ शिवम् ॥ ६५८॥
एवं कश्चित्छिवागार-निर्माणायाभियाचितः ।
ददानीति प्रतिज्ञाय श्वः श्वः श्वः श्व इति ब्रुवन् ॥ ६५९॥
मृतः प्रतिज्ञा-मात्रेण राजत्वं प्राप्य तत्र तु ।
अन्धोऽभवत् ततो देवगृहं निर्माय विस्तृतम् ॥ ६६०॥
आन्ध्यान्मुक्तः बहून् भोगान् भुक्त्वाऽन्ते शिवमाप सः ।
एवं वः कथितं विप्राः शिवपुण्यस्य वैभवम् ॥ ६६१॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां
उपदेश काण्डे स्कन्दसप्तशत्यां पञ्चाक्षर-शिवपुण्यमहिमा नाम
सप्तदशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय षष्टि-मन्त्रात्मिकाय
श्रीसाम्बशिवमूर्तये ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-मातुलिङ्गफलं-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गल-होमेन भगवान् सर्वज्ञत्व-
सर्वभोक्तृत्व-सर्वकर्तृत्व-सर्वमन्त्रत्व-
सर्वेश्वरत्व-सर्वपरिपालकत्व-अखण्डशक्तिकत्व-
अलुप्तशक्तित्व-सर्वस्वतन्त्रत्व-अनादिबोधकत्व-
नित्यसाद्गुण्यपरिपूर्ण-सच्चिदानन्द-श्रीसाम्बशिवः प्रीयताम् ।
जय श्री परमेश्वर जय जय
जय महादेव जय जय
जय भक्तानुग्रहकारक जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
२.१८ उपदेशकाण्ड-मुक्तिफलप्रदान अष्टादशोऽध्यायः ।
ॐ हां हौं परशिवासनाय नमः ।
ॐ हां हौं परशिवमूर्तये नमः ।
विश्वव्यापिनमादि-देवममलं नित्यं परं निष्कलं
नित्योद्बुद्ध-विशुद्धपत्र-कमले व्याप्ताक्षरैर्मण्डितम् ।
नित्यानन्दमनेक-पूर्णमनिशं नीवार-शूकोपमं
शब्दब्रह्ममयं हृदम्बुजपुटे नित्यं सदाऽहं भजे ॥
ॐ हां हौं परशिवाय नमः ।
अथ शैवपुराणानां शृणुत श्रवणे फलम् ।
तदियत्ता-परिच्छित्यै नालमीशोऽपि भूसुराः ॥ ६६२॥
ये शैवानि पुराणानि शृण्वन्ति श्रद्धयाऽन्वितः ।
पदं तेषां विनिर्दिष्टं शाङ्करं विमलात्मनाम् ॥ ६६३॥
बहवः शाम्भवीं गाथां श्रुत्वा भक्ति-पुरःसरम् ।
स्त्रियः शूद्राश्च पापिष्ठा लेभिरे सद्गतिं पराम् ॥ ६६४॥
एवं वः कथितः शम्भुपुण्यं विदधतां शुभम् ।
विपर्यये भवेद्यच्च यच्च तद्-द्रोहिणां भवेत् ॥ ६६५॥
तदप्यहं प्रवक्षामि हानार्थं मुनिपुङ्गवाः ।
शिवापराधः स्वल्पोऽपि महानरक-पातकृत् ॥ ६६६॥
शिवालयेष्टका-चौर्यात् कालसूत्रे पतेन्नरः ।
तैलं शिवस्य मुष्णंस्तु रौरवे पीड्यते चिरम् ॥ ६६७॥
शिवालय-पशून् हृत्वा कुम्भीपाकेषु पच्यते ।
शिवक्षेत्रापहारेण पात्यतेऽवीचिनारके ॥ ६६८॥
शिवनिन्दापरा ये च भस्मरुद्राक्ष-निन्दकाः ।
आब्रह्मकल्पं तेऽश्नन्ति निरयानेकविंशतिम् ॥ ६६९॥
आराधनं शिवस्यातः कर्तव्यं भूतिमिच्छता ।
इत्युक्ते मुनयः सूतं पुनः पप्रच्छुरादरात् ॥ ६७०॥
केषु स्थलेषु देवाश्चर्षयश्चापूजयच्छिवम् ।
इति पृष्टोऽब्रवीत्सूतः काश्यां काञ्च्यां चिदम्बरे ॥ ६७१॥
वृद्धाद्रौ श्रीकालहस्ति-शैले मध्यार्जुने तथा ।
श्वेतारण्ये पञ्चनदे वल्मीकेऽप्यरुणाचले ॥ ६७२॥
गजारण्येऽथ हालास्ये मातृभूतेश्वराचले ।
रामेश्वरेऽपि सम्पूज्य शिवं प्रापुः शुभां गतिम् ॥ ६७३॥
ब्रह्मा विष्णुश्च शक्रश्च ध्रुवश्चोत्तानपादजः ।
जमदग्निसुतो रामो मार्कण्डेयादयस्तथा ॥ ६७४॥
शिवलिङ्गं प्रतिष्ठाप्य पूजयन्ति युगे युगे ।
केचित्स्वायम्भुवं लिङ्गं पूजयामासुरादरात् ॥ ६७५॥
लिङ्गस्य यस्य कस्यापि पूजनं पापनाशनम् ।
आर्षं दैवं तथा स्वायम्भुवमेषां विशिष्यते ॥ ६७६॥
इत्युक्तवन्तं मुनयः सूतमूचूः कुतूहलात् ।
कथं नु शूरपद्मोऽगाद्दैत्यः स्कन्दस्य वाहताम् ॥ ६७७॥
ध्वजतां च कृतं पुण्यं तेन किं पूर्वजन्मनि ।
इति तच्छ्रोतुकामानां संशयं छेत्तुमर्हसि ॥ ६७८॥
इति पृष्टस्तदा सूतः तत्पूर्वचरितं जगौ ।
येनासुरत्वं षड्वक्त्र-वाहनत्वञ्च केतुता ॥ ६७९॥
पुरा विष्णुमुखा देवाः स्वं स्वं वाहं बहिःस्थले ।
निधायान्तर्ययुः शम्भुदर्शनाय तथा गुहः ॥ ६८०॥
तदीयस्ताम्रचूडश्च मयूरश्चेत्युभौ तदा ।
मत्तावयुध्यतां लोकान् ध्वंसयन्तौ तदा गुहः ॥ ६८१॥
क्रुद्धस्तावशपद्दैत्यभावं यास्यथ इत्युभौ ।
अनुनीतः पुनस्ताभ्यां मत्पार्श्वं प्राप्स्यथस्त्विति ॥ ६८२॥
अन्वगृह्णाद्गुहस्तस्मात् शूरो द्वेधा बभूव हि ।
न कदाचित् स्कन्दभक्तः दुर्गतिं गन्तुमर्हति ॥ ६८३॥
इति सर्वं वर्णयित्वा शिवज्ञानं च मुक्तिदम् ।
नान्यो हि विद्यते पन्थाः अयनायेत्यचीकथत् ॥ ६८४॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ ६८५॥
निष्काम-कर्मणा सत्व-शुद्धिर्भवति देहिनाम् ।
भक्तिश्च परमेशाने दृढा सम्पद्यते ततः ॥ ६८६॥
गुरुं प्रपद्य वेदान्त-श्रवणान्मननादपि ।
निदिध्यासनतश्चेश-साक्षात्कार उदेति हि ॥ ६८७॥
किञ्चिज्ज्ञत्वं सर्ववित्त्वमुभयं चाप्युपाधिजम् ।
यदोपाधि-लयाल्लीनं शुद्धाभेदस्तदा स्फुरेत् ॥ ६८८॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परे शिवे ॥ ६८९॥
ज्ञानाग्निना च भस्मत्वं नीयते कर्म सञ्चितम् ।
आगामिनां च न श्लेषः जीवन्मुक्तस्तदा भवेत् ॥ ६९०॥
प्रारब्धस्यापि भागेन क्षपणे तावदेव हि ।
अथ सम्पत्स्यते ब्रह्म विमुक्तश्च विमुच्यते ॥ ६९१॥
दह्राद्युपासकानां च ब्रह्मलोके शतं समाः ।
वासोऽथ ब्रह्मणा सार्धं मुक्तिरात्यन्तिकी भवेत् ॥ ६९२॥
एषैव क्रममुक्तिः स्यात् पञ्चाग्न्यादिविदां पुनः ।
पुनरावृत्तिरेवेह श्रूयते श्रुतिमौलिषु ॥ ६९३॥
कर्मिणश्चन्द्रलोके स्वमनुभूय सुखं फलम् ।
घटीयन्त्रवदावृत्तिं लभन्ते सुकृतक्षये ॥ ६९४॥
जायस्व च म्रियस्वेति परे स्थानं पुनः पुनः ।
प्रयाताः सुखदुःखाब्धौ मग्ना दुष्कृतकर्मिणः ॥ ६९५॥
अतः पदाम्बुजं शम्भोर्भजनीयं विवेकिना ।
यद्ददाति स्वभक्तानां कैवल्यं सर्वमङ्गलम् ॥ ६९६॥
इति सूतः शौनकादि-मुनिभ्यः प्रोच्य तैः स्तुतः ।
प्रत्यर्चितो वस्त्रगन्ध-पुष्पाद्यैर्मानितो बहु ॥ ६९७॥
सत्कृतो धन्यवादैश्च शिवं हृदि विचिन्तयन् ।
गौरीञ्च षण्मुखं चैव ययौ कैलासभूधरम् ॥ ६९८॥
कथोपदेशकाण्डीया कथिता भक्तिदा नृणाम् ।
शिवज्ञानञ्च कैवल्यं या ददात्यविशेषतः ॥ ६९९॥
इति श्रीरङ्गनाथेन लघ्वी शङ्करसंहिता ।
रचिता शिवभक्तानां मुदे तुष्यतु शङ्करः ॥ ७००॥
अधीते य इमां भक्त्या नियतं सोमवासरे ।
सर्वान् कामानवाप्येह शम्भोः सायुज्यमाप्नुयात् ॥ ७०१॥
ॐ जय जय स्कन्दपुराणे शङ्करसंहितायां उपदेशकाण्डे स्कन्दसप्तशत्यां
मुक्ति-फलप्रदानः अष्टादशोऽध्यायः ।
सत्यास्सन्तु यजमानस्य कामाः ।
शक्त्या विभूषितकरान्नव-कुङ्कुमाभात् ।
दिव्याम्बरात् शशिनिभामल-वक्त्रषट्कात् ॥
वल्ली-सुरेन्द्रतनयाश्रित-पार्श्व-युग्मात् ।
स्कन्दात्परं किमपि तत्वमहं न जाने ॥
उत्पत्ति-शूरसंहार-लीला-परिणयादिकम् ।
जिज्ञासूनां पुराणादि-पठनालस-चेतसाम् ॥
सुखेन स्कन्द-चरितमनुसन्धित्सतां कृते ।
रचिता शाङ्करी लघ्वी संहितेश-पदेऽर्पिता ॥
उमाकोमळ-हस्ताब्ज-सम्भावित-ललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥
ॐ सां साङ्गाय सायुधाय सशक्तिकाय
सपरिवाराय सवाहनाय चतुर्मन्त्रात्मिकाय
भगवते परशिवाय ताम्बूल-कुङ्कुमाक्षत-
पुष्प-सघृत-पूर्णफल-महाहुतिं समर्पयामि नमःस्वाहा ।
अनेन दिव्यमङ्गळ-होमेन भगवान् नित्योत्सव-
नित्यमङ्गल-नित्यकल्याण-निर्विकार-निराधार-
निराकुल-नित्यनिष्कल-निष्प्रपञ्च-नित्यशुद्ध
निरीश्वर-निर्मोह-नित्यमुक्तिप्रद-श्रीपरब्रह्म परशिवः प्रीयताम् ।
जय श्रीपरमेश्वर जय जय
जय पार्वतीपते जय जय
जय स्कन्दमूर्ते जय जय
जय सच्चिदानन्दमूर्ते जय जय
जय सकलकार्य-जयप्रदे जय जय
नमः पार्वतीपतये हर हर महादेव ॥
॥ इति स्कन्दसप्तशती सम्पूर्णा ॥
॥ ॐ तत्सत् ब्रह्मार्पणमस्तु ॥
Proofread by Aruna Narayanan, Rajani Arjun Shankar