श्रीस्कन्दस्तवम्
(शिवमहापुराणे)
वामदेव उवाच ।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।
प्रणवाक्षरबीजाय प्रणवाय नमोनमः ॥ २२॥ १
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।
वेदान्तार्थविदे नित्यं विदिताय नमोनमः ॥ २३॥ २
नमो गुहाय भूतानां गुहासु निहिताय च ।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ २४॥ ३
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ २५॥ ४
स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ २६॥ ५
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।
शिवप्रियाय शिवयोरानन्दनिधये नम ॥ २७॥ ६
गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।
उमापुत्राय महते शरकाननशायिने ॥ २८॥ ७
षडक्षरशरीराय षड्विधार्थविधायिने ।
षडध्वातीतरूपाय षण्मुखाय नमोनमः ॥ २९॥ ८
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।
द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ३०॥ ९
चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।
वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ ३१॥ १०
गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।
नमो गजाननानन्दमहिमानन्दितात्मने ॥ ३२॥ ११
ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिन्तितकीर्तिधाम्ने ।
वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ ३३॥ १२
इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ ३४॥ १३
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम् ।
आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ ३५॥ १४
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ।
प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ३६॥
साष्टाङ्गं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ।
अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥ ३७॥
वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ।
श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ॥ ३८॥
तमुवाच महासेनः प्रीतोऽस्मि तव पूजया ।
भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ॥ ३९॥
मुने त्वं योगिनांमुख्यः परिपूर्णश्च निस्पृहः ।
भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ४०॥
तथापि धर्मरक्षायै लोकानुग्रहकाङ्क्षया ।
त्वादृशा साधवस्सन्तो विचरन्ति महीतले ॥ ४१॥
श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् ।
तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे ॥ ४२॥
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः ।
प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥ ४३॥
वामदेव उवाच ।
भगवन्परमेशस्त्वं परापरविभूतिदः ।
सर्वज्ञसर्वकर्ता च सर्वशक्तिधरः प्रभुः ॥ ४४॥
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।
तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ॥ ४५॥
कृतार्थोऽहं महाप्राज्ञ विज्ञानकणमात्रतः ।
प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥ ४६॥
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।
वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७॥
वाचकेन समाहूतः पशून्मोचयते क्षणात् ।
तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८॥
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ।
ओमिति ब्रह्म सर्वं हि ब्रह्मेति च समब्रवीत् ॥ ४९॥
देवसेनापते तुभ्यन्देवानाम्पतये नमः ।
नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥ ५०॥
एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ।
सर्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥ ५१॥
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।
न जातुचिन्महासेन सम्प्राप्तस्त्वादृशो गुरुः ॥ ५२॥
अतः कृत्वानुकम्पां वै तमर्थं वक्तुमर्हसि ।
उपदेशविधानेन सदाचारक्रमेण च ॥ ५३॥
स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ।
अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥ ५४॥
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं
प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम् ।
सहितमुनया शश्वत्पार्श्वे मुनिप्रवरान्वितं
गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां
वामदेवब्रह्मवर्णनंनामैकादशोऽध्यायान्तर्गतम् स्कन्दस्तवं सम्पूर्णम् ॥
shivapurANam, saMhitA 6 (kailAsasaMhitA), adhyAyaH 11
Although the initial stotra ends at verse 35, verse 44 onwards
also constitute relevant praise of Skanda, so is included
for reference.
NA