श्रीसुब्रहमण्यस्य षोडशमूर्तिध्यानभेदाः

श्रीसुब्रहमण्यस्य षोडशमूर्तिध्यानभेदाः

ज्ञानशक्तिधरः स्कन्दो देवसेनापतिस्तथा । सुब्रह्मण्यो गजारूढः शरकाननसम्भवः ॥ १॥ कार्तिकेयः कुमारश्च षण्मुखस्तारकान्तकः । सेनानीर्ब्रह्मशास्ता च वल्लीकल्याणसुन्दरः ॥ २॥ बालश्च क्रौञ्चभेत्ता च शिखिवाहन एव च । एतानि स्वामिनामानि षोडश प्रत्यहं नरः ॥ ३॥ यः पठेत्सर्वपापेभ्योः स मुच्येत महामुने । एतेषां प्रतिरूपाणां ध्यानभेदमथोच्यते ॥ ४॥ (१) अथ शक्तिधरस्वामिध्यानम्- एकास्यं द्विभुजं वामे वज्रं दक्षिणजे करे । इच्छाज्ञानक्रियाशक्तिरूपं शक्तिधरं भजे ॥ ५॥ (२) स्कन्दस्वामिध्यानम् - कल्पद्रुमं प्रणमतां कमलारुणाभं स्कन्दं भुजद्वयमनामयमेकवक्त्रम् । कात्यायनीसुतमहं कटिबद्धदाम कौपीनदण्डधरदक्षिणहस्तमीडे ॥ ६॥ (३) सेनापतिध्यानम्--- नौम्यादित्यप्रदीप्तं द्विदशनयनकं षण्मुखं मन्दहासं वामाङ्के सुस्थितायास्सरसिरुहधृतालिङ्गितायाः प्रियायाः । उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटादिशूल- ह्रादिन्युद्दीप्तशक्तीष्वसनवनगदाकुक्कुटाब्जेषु हस्तम् ॥ ७॥ (४) सुब्रह्मण्यस्वामिध्यानम्- सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि- र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं (रक्ताङ्गरागांशुकं) सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ८॥ अन्यच्च- एकवक्त्रं द्विदोर्दण्डं कटिबद्धाभयान्वितम् । तरुणारुणसङ्काशं सुब्रह्मण्यमुपास्महे ॥ ९॥ (५) गजवाहनस्वामिध्यानम्- एकाननं द्विनयनं वरकुक्कुटौ च वामद्वये निशितशक्त्यभयद्वयं च । बिभ्राणमीश्वरसुतं तपनायुताभं नित्यं नमामि गजवाहनमिष्टसिद्ध्यै ॥ १०॥ (६) शरवणभवस्वामिध्यानम्- शक्तिं घण्टां ध्वजसरसिजे कुक्कुटं पाशदण्डौ टङ्कं बाणं वरदमभयदं कार्मुकं चोद्वहन्तम् । पीतं सौम्यं द्विदशनयनं देवसङघैरुपास्यं सद्भिः पूज्यं शरवणभवं षण्मुखं भावयामि ॥ ११॥ (७) कार्तिकेयस्वामिध्यानम्- वरदकुलिशखेटं वामहस्तत्रये च दधतमभयशक्तिं खण्डमन्यत्त्रये च । तरुणरविसमाभं साधुभिः पूज्यमानं कमलवदनषट्कं कार्तिकेयं नमामि ॥ १२॥ (८) कुमारस्वामिध्यानम्- सव्यद्वये निशितशक्त्यसिमादधानं वामद्वयेऽभिमतकुक्कुटखेटकं त्वाम् । (खेटकं च) वल्लीपतिं विबुधलोचनपूर्णचन्द्रं कल्याणदाननिरतं कलये कुमारम् ॥ १३॥ (९) षण्मुखस्वामिध्यानम्- वन्दे सिन्दूरकान्तिं शरविपिनभवं श्रीमयूराधिरूढं षड्वक्त्रं देवसैन्यं मधुरिपुतनयावल्लभं द्वादशाक्षम् । शक्तिं बाणं कृपाणं ध्वजमपि च गदां चाभयं सव्यहस्तैः चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥ १४॥ (१०) तारकारिस्वामिध्यानं वरदमङ्कुशध्वजे च कटकौ चापवज्र- मभयपाशचक्रखड्गमुसलशक्तिमन्वहम् । द्विदशपाणिभिर्दधानमरुणकोटिसन्निभं भजत तारकारिमत्र भवविनाशकारणम् ॥ १५॥ (११) सेनापतिस्वामिध्यानम्- अभयमसिरथाङ्गं चाङ्कुशं शक्तिशूलं वरदकुलिशपाशं पद्मदण्डौ गदां च । दधतमुभयपक्षद्वादशायामहस्तै- र्द्विदशकमलनेत्रं देवसेनान्यमीडे ॥ १६॥ (१२) ब्रह्मशास्तृध्यानम्- वामे करे च युगले वरकुण्डिके च सव्येऽक्षसूत्रमभयं दधतं विशाखम् । वल्ल्यायुतं वनजलोचनमेकवक्त्रं वन्दामहे वनजसम्भवशासितारम् ॥ १७॥ (१३) वल्लीकल्याणसुन्दरस्वामिध्यानम्- हस्तद्वन्द्वेऽक्षमालामभयमपि धृतं कुण्डिकां श्रोणिबन्धं सव्ये वामे निषण्णः श्रवधृतविधिनाहूयमानेन युक्तम् । सर्वालङ्कारयुक्तं जलकलशधृता विष्णुना चारुणाभं वल्लीकल्याणमूर्तिं सकलसुरगणैः स्तूयमानं प्रपद्ये ॥ १८॥ (१४) बालस्वामिध्यानम्- पद्मसव्यकटिसंयुतवामं पद्मकान्तिनिभमेकमुखं च । बालवृद्धिकरमीश्वरसूनुं बालमुन्नतभुजं प्रणतोऽस्मि ॥ १९॥ अन्यच्च- एकवक्त्रं द्विनयनं पद्मद्वयकरद्वयम् । विप्रप्रियकरं वन्दे बालरूपं रविप्रभम् ॥ २०॥ (१५) क्रौञ्चभेदनस्वामिध्यानं - अभयशितकृपाणौ शक्तिबाणौ च सव्ये वरदकुलिशचापं खेटके चान्यहस्ते । दधतममरसेनानायकं चाष्टबाहुं कमलवदनषट्कं क्रौञ्चभेत्तारमीडे ॥ २१॥ (१६) शिखिवाहनस्वामिध्यानं विद्रुमप्रभमेकमुखं विभुं वज्रशक्तिवरदाभयपाणिम् । देवलोकरिपुघ्नमविघ्नदं नौमि रुद्रभवं शिखिवाहम् ॥ २२॥ ॥ इति श्रीकुमारतन्त्रे द्वितीयपटले श्रीसुब्रह्मण्यस्य षोडशमूर्तिध्यानभेदाः समाप्ताः ॥ Proofread by Preeti N Bhandare
% Text title            : Subrahmanya ShoDashamurti Dhyana Bhedah
% File name             : subrahmaNyaShoDashamUrtidhyAnabhedAH.itx
% itxtitle              : subrahmaNyaShoDashamUrtidhyAnabhedAH (kumAratantrAntargatAH)
% engtitle              : subrahmaNyaShoDashamUrtidhyAnabhedAH
% Category              : subrahmanya, ShoDasha, dhyAnam
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti N. Bhandare pnbhandare at gmail.com
% Description/comments  : Kumaratantra Dvitiyapatala Shloka 60+
% Indexextra            : (kumAratantram)
% Latest update         : December 23, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org