श्रीसुब्रह्मण्यकर्णामृतम्

श्रीसुब्रह्मण्यकर्णामृतम्

शिवं नश्शर्वाणीस्तनजनितमन्दोष्णमधुरं पयः षड्भिर्वक्त्रैरुपचितकपोलैरपि पिबन् । हसन्हर्यश्वादींश्चिरभवसुधालुब्धधिषणान् कुमारः पूर्वेषां कलयतु गुरूणामपि गुरुः ॥ १॥ विलज्जन्तामज्ञाः पुरहरकुमारस्तुतिविधौ न जिह्रीमश्चास्मिन्नपि बहु बिभीमः कथमपि । पुराणी वाण्येतत्सविधसरणक्लान्तचरणा मुहुः सुब्रह्मण्योमिति न किमवादीत्प्लुतयुतम् ॥ २॥ कथापीयूषं तेऽसदृशरसमातृप्ति पिबतां सतां स्तोकास्वादा शरभवमुधा नूतनसुधा । जनश्रुत्यामेवं परिवृतजगत्यां च बहुधा प्रवर्तेरन् के वा न तव विततेऽपि स्तवपथे ॥ ३॥ अभीष्टं याचत्सु द्रुहिणहरिवाहादिषु पुरो यतस्त्रातुं प्राप्तो ननु भवसि मामेव झटिति । ततस्ते पादाब्जं परिवहतु तान्तं मम मतिः प्रपञ्चे विख्याता ध्रुवमुपकृतौ प्रत्युपकृतिः ॥ ४॥ सकृन्नत्वा हि त्वां भजति कुटिलो वाऽप्यभिमतं तथापि क्लिश्नाति प्रकृतिगहने कर्मविपिने । जनोऽस्मिन्को हेतुर्भवति न विजने त्रिभुवने न चोल्लङ्घ्या दैवी सरणिरिह केनापि विषमा ॥ ५॥ वचोबाला यस्यामलगुणमनीषासहचरी रहस्स्थाने ध्याने विहरति तवाङ्घ्रिप्रणयिना । स सन्तोषाम्भोधेरधिजठरमामज्जति चिरं निजापत्यामोदादपि च परितोषो जगति कः ॥ ६॥ मया ते विक्रीतश्चलहृदयदूतः पदतटी- निषेवार्थं स्वार्थं बहुकृप कृपामाप्य भवतः । समीकृत्य स्वार्थे घटनमुचितं तेऽस्य चलतो विधिर्विक्रेतुर्मे ध्रुवमवगुणाच्छादनमपि ॥ ७॥ दुराराध्याः साध्याः कथमिव भवेयुर्मखभुजः पदं ते पूर्वेषां वचसामप्यविषयः । शुचा क्रूरेऽपारे भवजलधिपूरे परिपतन् निरालम्बो लम्बोदरसहज कं यामि शरणम् ॥ ८॥ समाधानैर्ध्यानैर्बहुविधविधानैरपि शुचीन् परित्रातुं शक्ता जगति विबुधास्सन्ति बहुधा । अपि त्याज्यान्व्रात्याधमपतितपाषण्डपिशुनैः परित्रातुं शक्तस्त्वमिव जगति त्वं प्रभवसि ॥ ९॥ तवाधाराच्छूरासुरदमन सर्वामरवरान् तृणाग्रेभ्यो मत्वा सुखमवसमाजन्मदिवसम् । विलम्बश्चेदद्याप्यहह तव देवास्मदवने कुमारत्वं ख्यातं तव सदसि जायेत महताम् ॥ १०॥ सदा सेवं सेवं सुरपरिवृढत्वाध्यवसितान् परिश्रान्तेरन्यत्फलमहमवापं न किमपि । इदानीं त्वत्पादव्यतिषजितकर्मव्रजममुं परित्रायञ्छम्भोः प्रकटय सुतत्त्वं तव विभो ॥ ११॥ पुरः प्रादुर्भूत्वा न भवसि भवांश्चेन्मम मुदे कुमार प्रक्रीडन् झटिति गलति ख्यातिरनघा । पुनः प्राप्तुं नेदृक्किल मिषति कालस्तव मना- गियं ते विज्ञप्तिः पुनरपि पुनस्ते पुनरपि ॥ १२॥ मयि क्रोशत्येवं सपदि न दयां यद्वितनुषे निदानं किं तत्र ज्वलनजनिमत्त्वं नु भवतः । उताद्रेः कन्यायाः कठिनजठरान्तर्विलुठनं न वै जाने म्लानेप्सितकुशलयोनेऽल्पधिषणः ॥ १३॥ अयन्ते भद्राप्त्यै कतिचन समाधीन्शुभधियो जयं ते कामादेर्विदधति शमाद्यैः प्रहरणैः । स्मयन्ते यागाद्यैः कतिचन विधानैरुपचितैः वयं तेषु श्रान्तास्तव विरचयामोऽञ्जलिममुम् ॥ १४॥ नगास्ते पञ्चत्वं दधति जडतां दैवतमणिः पशुत्वं सा धेनुस्तव चरणदातृत्वयशसा । विना तं त्वां को नु स्पृहयति धनान्धान्नरपशून् समाराद्धुं धीमानिह जगति सर्वामरगुरो ॥ १५॥ श्रुतेर्वज्रायन्ते प्रथममतिथीनां किल कथाः यमायन्ते देहि त्वमिति लिपयो यस्य कुधियः । कुरुक्षेत्रायन्ते नटविटसमाजाः सगणिकाः कथं नाथन्त्येनं त्वयि सति जगन्नाथ कृपणाः ॥ १६॥ विधत्तां व्यासङ्गं सरसिजभवः श्रौतशिखरे समाधत्तां निद्रां जलधिजठरे श्रीपतिरपि । समेधन्तां लीलानटनचटुला धूर्जटिकृताः विधीयन्ते दीक्षा गुहचरणधूल्यास्मदवने ॥ १७॥ प्रतिष्ठन्तां सार्धं सपदि मधुमत्या दिविषदो न चाद्याकाङ्क्षामस्तदनुसरणं तत्कृतफलम् । अपाङ्गाः स्वर्गङ्गाचटुलतरवीचीसहचराः तिरश्चक्रुस्तृष्णाकलितपरितापं मम विभोः ॥ १८॥ नमस्ते स्वर्धेनोऽमरपुरतरुभ्योऽञ्जलिरियं नमश्चिन्तारत्नापसरत यथायातमधुना । प्रसादे सेनान्यस्सति जगति कः प्रार्थयति वः सुधासिन्धोस्तीरे कथमिव भवेत्काञ्जिककथा ॥ १९॥ स्वपादस्मर्तारं सपदि कलयन्नात्मसदृशं पुनस्तोषाभावान्मृगयति वरं दातुमपरम् । यदाख्यापीयूषं पिबति सवने दिव्यपरिषत् स सुब्रह्मण्यो नः स्फुरति पुरतः पूर्णकरुणः ॥ २०॥ प्रभावस्मिन्दीक्षां वहति मम रक्षाध्वरविधौ लभन्ते शोकाग्नौ सपदि पशुतां शात्रवजनाः । भजन्ते मोदाब्धाववभृथविधां बन्धुनिवहाः दिवान्धाश्चक्राड्गाः कथमिव समानप्रकृतयः ॥ २१॥ सुपर्याप्ता गोप्तुं जनमतिविपन्नं सुरगणाः पटीयान् रेणुर्वा गुहचरणपाथोजमथितः । न सन्दिग्धेऽद्यास्मान् जगति जनताऽऽलोक्य तव तद्- रजोलेशप्राप्ताखिलसुरवराकाङ्क्षितशिवान् ॥ २२॥ चिरं भ्रामं भ्रामं क्कचन मरुदेशे भवमिषे परिश्रान्ताः शान्ताः शऋणुत वचनं किञ्चन शिशोः । समाप्यैतत्सर्वं सपदि विधिवाक्यादधिगतं पदे भूमानन्दे ददत हृदयं धूर्जटिभुवः ॥ २३॥ प्रियच्छायापायांस्त्यजत कुशलायातिमहते फलायामोहायार्जयत सदुपायानपि च वः । उमादायादाङ्घ्रेरतिभयदमायामयमयात् अपायादुद्धर्ता न भवति परस्त्रिर्ननु शपे ॥ २४॥ अभूम प्रागेते वयममितकाङ्क्षाजलनिधौ अहो मज्जं मज्जं भृशमलभमानास्तटभुवम् । इदानीं स्वाराज्यं तृणमपि समं यच्चरणजात् प्रसादात्पश्यामः किमिह वरयामोऽद्य वरदम् ॥ २५॥ पतन्ती रुद्राद्रेः श्रुतिभुवि गलन्ती क्षितरुजो दलन्ती शूरादीनपि परिकृषन्ती तटतरून् । हरन्ती सन्तापान्पुनरपि पुनन्ती स्मृतिवशात् स्रवन्ती काप्येषा विलसति वहन्ती मम पुरः ॥ २६॥ अतिक्रूरोऽरातिष्वमितशमपूरो मुनिजने कठोरो वीरत्वे कुसुमसुकुमारोऽपि हृदये । रुचोद्यत्सूरोऽसावमृतकरपूरोऽल्पहसिते सुमन्दारोऽस्माकं जयति स कुमारो गिरिभुवः ॥ २७॥ नमोवाकं ब्रूमो नयनरमणीयाय शिवयोः तदङ्कालङ्कारं कमपि विदधानाय च मुहुः । तयोः प्रेमाम्भोधेः शरदुदितराकाशशभृते परस्मै कस्मैचित्त्रियुगवदनायादिमहसे ॥ २८॥ तुलाकोटिक्वाणस्फुरणललिताभ्यां त्रिजगतां परं पित्रोर्नेत्रोत्सवदनटनाभ्यां च कृतिनाम् । मनोहर्म्ये राजत्कनककलशाभ्यां श्रुतिशिरो- विमृग्याभ्यां पद्भ्यां नतसुरतरुभ्यां नतिरियम् ॥ २९॥ क्कणद्भ्यां पाणिभ्यां रणितचरणाभ्यां मणितले स्खलद्भ्यां जानुभ्यां कलितगमनं सार्धवचनम् । अनाद्योर्दम्पत्योः सुकृतमिव मूर्तं नयनयोः अदृष्ट्वेदं तेजः कथमिव कृती खल्विह जनः ॥ ३०॥ पायात्कुशलकरण्डः पुष्करमालापरीवृतशिखण्डः । ताडिततामसषण्डः तारकतामिस्रतरुणमार्ताण्डः ॥ ३१॥ नेत्रीभूतः शिवयोः कश्चन पत्रीकृतोरगाहारः । पात्रीभवतु पुरो मे धात्रीकृतकृत्तिकोऽक्षियुगळस्य ॥ ३२॥ अम्भोजपत्रनेत्रः कुम्भोद्भूतादितामरसमित्रः । शम्भोः प्रमोदपुत्रः स्तम्भो जगतां समेधतां चित्रः ॥ ३३॥ क्षन्ता नतमन्तूनां गन्ता गजराजमदभरं भञ्जन् । कान्त्या कनकनियन्ता क्रौञ्चनिहन्ता कदा नु हृदि रन्ता ॥ ३४॥ निगमशिखरालवालो वल्लीमल्लीलताञ्चितस्कन्धः । कश्चन सुरसालो नो वृश्चतु पाश्चात्यजन्मसन्तापम् ॥ ३५॥ शासितदैत्यकदम्बः शमधनचेतस्तटाककादम्बः । आसीन्ममावलम्बः शक्रतनूजालसाक्ष्यलिकदम्बः ॥ ३६॥ यज्ञावघुष्टनामा प्राज्ञालापाभिरामगुणसीमा । परमेश्वरयोः प्रेमालङ्कृतसामा ममास्तु शुभभूमा ॥ ३७॥ सनकादिसिद्धसेव्यो जनको जगतां शिवङ्करः शिवयोः । कनकद्रवनीकाशः शनकैः शनकैरुदेति पुरतो नः ॥ ३८॥ षण्मुख! मुखजितशशधर! धरजाङ्कवास! वासवाद्यर्च्य । अर्चिष्मदधिककान्ते कान्ते जगतां पदे विधेह्यस्मान् ॥ ३९॥ कञ्जभववचनगेहं काञ्चनसहकारिकिरणसन्दोहम् । श्रितरक्षासन्नाहं शिवयोर्मूर्तं श्रयामहे स्नेहम् ॥ ४०॥ वन्देमहि मन्देहासुरहरसन्देहदायि देहरुचिम् । कुरुविन्दकान्तिचेलं बालं शिवयोः किमन्यदवशिष्टम् ॥ ४१॥ मण्डितवेदशिखण्डैः खण्डितदनुजौघचण्डभुजदण्डैः । चण्डीशभाग्यषण्डैः दण्डितदुरितोऽस्मि मङ्गलकरण्डैः ॥ ४२॥ फुल्लारविन्ददाम्ना कल्हाराद्रीन्द्रशऋङ्गकृतधाम्ना । नाम्ना रञ्जितसाम्ना केनचिदाराजि मङ्गलमहिम्ना ॥ ४३॥ अलमलमशक्तिहस्तैः अमुकुटमस्तैरवेदविन्यस्तैः । भक्तानामसमस्तैः अपरैरमहेश्वराङ्कतलशस्तैः ॥ ४४॥ दूराददाहि दुरितं शूराद्यसुरौघतूलदहनेन । सारेण केनचिन्मे मारारातेर्गृहस्थभावस्य ॥ ४५॥ आशास्महे सदा वयमाशाधीशोच्चमौलिपीठाय । श्रुतिचूडोत्तंसाय प्रमथाधीशात्मजाङ्घ्रिकमलाय ॥ ४६॥ आम्नायशिखरवेद्यादानतसल्लोकभवरुजां वैद्यात् । आद्याच्चराचराणां हृद्यात्पित्रोः किमन्यदवलम्बे ॥ ४७॥ अमराभयङ्कराणां तिमिरारीणामपाङ्गसुषमासु । चमराणां श्रुतिवन्या वयमिह दासाश्चिदिन्दुकिरणानाम् ॥ ४८॥ पर्याप्तचन्द्रवदने पर्वतपुत्रीशुभाङ्कमणिसदने । परिहृतसुरारिकदने मदने वल्ल्या मनोऽवलग्नं नः ॥ ४९॥ तरुणारुणकिरणावलिपरिणामस्फुरणचरणतरुणाब्जे । चरणायुधध्वजेऽहं करुणाम्भोधौ निमग्नभावोऽस्मि ॥ ५०॥ यस्मिंस्त्रेधा विलसति मृषा जागती वृत्तिरेषा यस्य स्फूर्त्यां व्रजति सहसा चिन्मयी तन्मयीत्वम् । योऽस्तं याते स्फुरति हृदये निर्विकल्पे समाधौ प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५१॥ यस्यैकांशाज्जगति सकलाः प्राणिनः प्राणवन्तः यस्याख्याने निगमशिखरं नाप कां कामवस्थाम् । नान्तश्शोको भवति भजतां यस्य लेशोपलब्धेः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५२॥ क्लान्ताः क्लान्ता यमनु निगमाः सङ्गिरन्ते गिरं ते यन्निर्णेतुं सपदि मुनयः साध्वसं ते लभन्ते । मौनेनैवाभिनयति जगद्देशिको यस्य तत्त्वं प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५३॥ यस्यावाप्त्यै शमधनततिर्याति नानापथेन प्राप्तो यो यैर्जगति विरळाः सर्वथा सर्वदा ते । यः प्राप्येताश्रितशमदमैः संयमे स्वात्मरूपः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५४॥ नाशापाशाकुलितमनसां भासते यत्प्रभावो- ऽप्यात्माधारं निखिलकरणं नेक्षते यं पराक्त्वात् । जानन्त्यन्ये क्वचन समये यन्मयानेव सर्वान् (जानतेऽन्ये) प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५५॥ प्राणापानौ गलितगमनौ यत्र यत्रान्तरङ्गं निर्व्यासङ्गं निखिलकरणं यत्र लुप्तप्रमाणम् । तत्रासीना ददृशुरपरे भासुरान्यत्प्रसादान् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५६॥ किं नीहारः किममृतकरः किं रविः किं नु धूमः किं खद्योतः किमु हुतवहः किं तटित् किं नु हीरः । इत्युल्लेख्यो भवति यमिभिर्यत्प्रसादः समाधौ प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५७॥ मूलाधारे हृदि मणिपुरे स्वास्पदे तालुमूले चेतस्स्थाने ध्रुवशशिगृहे नैकधा सिद्धिलुब्धाः । यं कुर्वन्तः सपदि कृतिनः स्वेप्सितान्याप्नुवन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५८॥ ब्राह्मीं ग्रन्थिं प्रथममथ तां वैष्णवीं तां च रौद्रीं भित्त्वा केचिन्नियतमरुदाबद्धचेतश्शलाक्या । प्रौढोन्मन्न्यास्सुरतसमये यत्स्वरूपा भवन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५९॥ मुग्धस्मेराननकमलया नागराजन्यपुत्र्या सौधे ज्योत्स्नास्फुरणविशदे निर्भयं केऽपि रन्त्वा । पादाब्जीयां मधुरमधुरां यस्य माध्वीं पिबन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६०॥ उत्तिष्ठन्त्यामुरगयुवतौ मञ्जुमञ्जीरनादं मन्दं मन्दं मुखसरसिजं मुक्तिमादर्शयन्तीम् । आलिङ्गन्तं सुलभमितरे यत्कृपापाङ्गसङ्गात् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६१॥ प्राज्ये राज्ये कलितहृदयाः केऽपि केऽप्यध्वराज्ये योगैश्वर्ये कतिचन निजावाप्तिसौख्येऽपि केऽपि । सम्प्राप्तेष्टास्सपदि सकला यत्कृपापाङ्गसङ्गात् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६२॥ तारं तारं भवजलनिधेर्यन्मनोरग्रभागे निक्षिप्यान्ये शरवणभवेत्यन्तरेवालपन्तः । आलिङ्गन्ते स्वयमुपनतां मुक्तिकान्तां प्रसन्नां प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६३॥ मायानूरुर्मनुवररविर्देशिकेन्द्रो दयाद्रेः उद्यन्नेनस्तिमिरपटलीं शोचयन्शोकघूकान् । यस्यानन्दं दिशति परमं भक्तकोकावलीनां प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशन्त्यै ॥ ६४॥ यन्मन्त्रस्यामरपुरतरोः काममूलस्य मूले तिष्ठन्तो ये निखिलतरुणीनेत्रनीलोत्पलानाम् । जायन्ते तेऽप्यमृतरुचयो मूर्तिमन्तश्च कामाः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६५॥ वागास्वाद्या मनुनवसुधा लिह्यते यैर्यदीया तेषां वक्त्राद्वहति कविताकैतवात्स्वः स्रवन्ती । किञ्चाशेषं भुवनमयते दासतामीक्ष्यमाणं प्रेमसारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६६॥ यन्मन्त्रेन्दुर्जलधितनयाज्योत्स्नया द्योत्यमानः चित्ताकाशे स्फुरति विमले यस्य तस्योत्तमस्य । आपत्तापः प्रशममयते वृद्धिमामोदसिन्धुः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६७॥ मन्त्राकाराममरतटिनीं चन्द्रशैलाद्वहन्तीं यस्याचार्यप्रसृमरकृपासारपीयूषपूराम् । दिष्ट्या दृष्ट्या जगति विषयीकुर्वतां क्वाभितापाः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६८॥ त्रेधा साध्यं ज्वलनललनावर्मपाशाङ्कुशादीन् शिष्टादिष्टे वपुषि विदधन् यन्मनोः कामधेनोः । दुग्धं दुग्धं पिबति कुशलं स्वेष्टमायासशून्यं प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६९॥ षट्त्रिंशारैस्सहितमनुभिर्नागपत्रैस्सवीरैः साङ्भिः पर्णैः सकमलवरास्त्रादिभिर्वृत्तभौमैः । युक्तं यन्त्रं दिशति भजतां यस्य सर्वान्पुमर्थान् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ७०॥ नाकाधीशविरोधिवामनयना कोकवळीविस्फुर- च्छोकाम्भोनिधिशारदाभ्रविलसद्राकानिशानायकम् । केकामञ्जुलपक्षिपुङ्गवरथं पाकारिजाकामुकं प्राकारं दृढमाश्रये दिविषदामेकाक्षरार्धं परम् ॥ ७१॥ पाराशर्यवचः प्रपञ्चतटिनीपूरात्मकेळीलवो दूरान्मुक्तशरप्रवाहशमितक्रूरासुरोषर्बुधः । मारारातिवधूशुभोदरसुधावाराशिचिन्तामणिः घोरा दुःखपरम्पराः शमयतु स्मेरामृतैरद्य नः ॥ ७२॥ शेषाद्रीश्वरमौलिकेलिसदना भाषाधिदेव्युल्लसद्- भाषा भूतगणामरारिपरिषद्द्वेषा परा देवता । एषाऽऽस्तां मम मानसे शिवशिवोन्मेषा तुराषाड्भवद्- योषाऽऽलिङ्गितविग्रहा प्रतिदिनं तोषाय भूषा श्रुतेः ॥ ७३॥ कान्त्या न्यक्कृतबालभानुसुमुखः शान्त्यादिभिस्सेवितः क्षान्त्या काचन भूमिरेव भजतां भ्रान्त्यापदिध्मानलः । भान्त्याऽव्याजकृपारसैरभिमुखं यान्त्या दृशां मादृशां हन्त्याधीन्यदसौ किमन्यदिह नो मान्त्यालमिन्द्रश्रिया ॥ ७४॥ भीमारातिवनानलस्सुरपुरीरामाभिरामाकृतिः सामाभिष्टुतपादपद्मविभवस्सीमा दयासम्पदाम् । सोमानन्दकरः परं सुमनसां क्षेमावहप्रक्रियः कामानेष तनोतु नः प्रतिदिनं प्रेमालसैर्वीक्षणैः ॥ ७५॥ आदावाहितचेतसामनुदिनं वेदावलीनां सतां नादाविष्करणक्षणे प्रकटयन्पादारुणं पावनम् । खेदान् खण्डयति स्म योऽतिविषमान् भेदान्धकारोदितान् श्रीदाकाङ्क्षितसम्पदं दिशतु मे मोदाकरः शूलिनः ॥ ७६॥ नेता धर्मपथे सदैव चरतां जेताऽन्यथावर्तिनां केतावाहितकुक्कुटः प्रतिरणं वेताळसङ्घस्तुतः । आताम्रैर्नयनाञ्चलैर्यदि स मां शीतांशुबिम्बस्पृशैः प्रीतान्तःकरणो निरीक्षितुमहं क्रेतास्मि शक्रश्रियाम् ॥ ७७॥ हेलाभर्जितसर्वलोकदितिभूहालाहलेनाङ्गुली- लीलाभिः शिवयोः प्रमोदजलधेर्वेलावलीं प्लावयन् । ज्वालाजालजटालशक्तिविलसत्सालाभभास्वद्भुजः खेलां नः पुरतस्तनोतु सुरराड्बालाविलोलान्तरः ॥ ७८॥ रम्भादिस्फुरदाभिरूप्यविलसद्दम्भावलोपिप्रभा- जम्भारातिसुताघनस्तनपरीरम्भावगाढोरसे । स्तम्भायाखिलविष्टपस्य कुशलारम्भाय नाकौकसां शुम्भादित्रिदशारितूलहुतभुग्डिम्भाय भूयो नमः ॥ ७९॥ क्षुद्राणां दनुजन्मनां च विनताभद्रावलीनामपि छिद्राण्यप्रतिलभ्य बालकतया विद्रावणे दीक्षितः । रुद्राणीस्तननूतनामृतघटीमुद्रायितौष्ठाधरः निद्रां द्रावयतान्ममाद्य बहुधाऽभद्रां स रुद्रात्मजः ॥ ८०॥ भासा सारसबान्धवं नयसुधाकासारमेवाशये नासाप्रीणनसायकं तनुरुचा दासायिताशाधिपम् । या सानन्दमपेक्षते न रहसे का सात्र सोऽस्मन्मनो- वासायाद्य कृतादरो वयमतः कासां श्रियां नाश्रयाः ॥ ८१॥ गङ्गाविश्रुत कर्मनर्मसचिवापाङ्गामृतोर्मिच्छटा- सङ्गामृष्टविशिष्टशिष्टजनतातुङ्गाघसङ्घानलम् । शऋङ्गारोज्ज्वलकेलिसंहतिनटीरङ्गायितेन्द्रात्मजा- नङ्गाद्वैतमुपास्महे वयममी भङ्गाय तुङ्गापदाम् ॥ ८२॥ शान्तान्तःकरणालये वृषसुताकान्ताभिरूप्ये कृपा- ऽऽक्रान्तान्दोलितशोणलोचनदलप्रान्तावधूतापदि । स्वान्तान्यादधते न ये शिवसुते भ्रान्तास्तु ते संशय- श्रान्ताः सन्तु पदे पदे भवपथे किं तावता नः क्षतिः ॥ ८३॥ स्वेक्षाधीनचराचरोदयलयो लाक्षासदृक्षच्छविः साक्षान्निर्जरकाननक्षितिरुहः प्रेक्षावतां काङ्क्षितः । दीक्षामद्य दधातु दातुमति मे द्राक्षासदृक्षां गिरं रूक्षामाधिविजृम्भितां शमयितुं दाक्षायणीनन्दनः ॥ ८४॥ वाचातीतपदाम्बुजातविभवं प्राचामृषीणां पुनः नीचारिव्रजजीर्णपर्णदहनं खेचारिकेलीरथम् । मोचामर्मकृषा मनोज्ञवचसा याचामहे कं वरं धीचाञ्चल्यमपाकरोतु जगतामाचार्यवर्यो मम ॥ ८५॥ संसारामयभेषजं शमदमाहिंसापराराधितं हंसालङ्कृतकोमलश्रुतिशिरोत्तंसाङ्घ्रिपाथोरुहम् । पुंसानादिमता प्रकाशितभुजाशंसापदानक्रमं कंसारातिसुताकपोलरुचिरोच्चांसाग्रमाराध्नुमः ॥ ८६॥ चापासित्रिशिखादिभूषितभुजव्यापारतुष्टामर- स्त्रीपाण्यब्जविकीर्णकल्पकुसुमश्रीपाटलाङ्गद्युतिः । पापात्मानुपलभ्य दिव्यनगरीभूपात्मजाकामुकः तापान्नस्समपाकरोतु महितैः श्रीपादपद्मामृतैः ॥ ८७॥ बाहासञ्जिततीक्ष्णहेतिरुचिभिः स्वाहासहायो मुहुः हाहाङ्गीकृतवन्दिभावसरणिर्वाहायिताखण्डलः । नीहाराद्रिसुतात्मजो दिविषदां साहाय्यकारी मृधे दाहानाशु धुनोतु नस्सुमनसामाहाररीत्या गिरा ॥ ८८॥ ईशानाङ्कमनोज्ञसौधममितक्लेशान्धकारारुणं कोशागारमपेक्षितार्थविततेः पाशायुधाराधितम् । काशाच्छस्मितचूर्णमोहितहृषीकेशात्मजालोलुपं धीशान्त्यादि शुभाय सर्वविपदां नाशाय चाशास्महे ॥ ८९॥ अङ्के कल्पितदेवराजतनयं लङ्केशदर्पच्छिदं सङ्केतालयमादिवाङ्मृगदृशां पङ्केरुहं पादयोः । कङ्केलिद्रुमकुञ्जकेलिसदनं तं केशवानन्दनं किं केल्या नमतां च मुक्तिरिति चेच्छङ्केऽनलश्शीतलः ॥ ९०॥ सम्पातेन निजायुधस्य विलसच्छम्पासनाभेर्जग- त्किम्पाकं कलयन्तमन्तकसभासम्पातुकं तारकम् । कम्पाक्रान्तधिया न धर्तुमनिशं यं पारयन्ते जनाः तं पारे तमसां स्थितं कलयतां किं पामरैः पार्थिवैः ॥ ९१॥ गत्या शिक्षितदृप्तसिंहगमनैः शक्त्या स्फुरद्बाहुभिः प्रीत्या पोषितभक्तलोकनिवहैः श्रुत्याऽऽत्तबन्दिक्रमैः । रत्याऽऽप्तैर्निजकान्तिभिः कतिपयैरेत्यात्र यद्भूयते तत्या किं मम साम्प्रतं दिविषदां भूत्याणिमाद्यापि च ॥ ९२॥ कालं दैवतविद्विषां गलवलन्मालं सुरेन्द्रात्मजा- लोलं शक्तिशिखाविदारितमहाशैलं दिवश्चारिणाम् । सालं पादरुचाहताश्रुततमोजालं भवेद्रक्षितुं कोऽलं नो जगतां त्रयेऽपि च परो बालं विना शूलिनः ॥ ९३॥ धर्मान्तध्वनदभ्रविभ्रमधनुश्चर्मासिभास्वद्भुजो वर्मालङ्कृतविग्रहः प्रतिदिनं शर्मापहो विद्विषाम् । धर्माद्यर्थशुभालयो मुनिमनोभर्मासनाधिष्ठितो नर्माणि प्रतिपद्यतां मनसि मे मर्मादिवाक्सन्ततेः ॥ ९४॥ स्वर्वासिश्रमशऋङ्खलाः शिथिलयन्सर्वाश्च शर्वाज्ञया कुर्वाणो विपदः प्रकाममवनीगीर्वाणविद्वेषिणाम् । अर्वाचीनवचस्सुदूरमहिमा दुर्वाससाभ्यर्चितः गुर्वाज्ञावशवर्तिनो हरतु मे दुर्वारदुर्वासनाः ॥ ९५॥ शिष्टानां विशिनष्टि तुष्टिममितां कष्टानि नष्टं नय- त्यष्टाङ्गस्य पुरस्तनोति नयनाभीष्टान् शिशुत्वक्रमान् । क्लिष्टाक्लिष्टगतीः पिनष्टि मनसस्तुष्टात्मनां संयमे स्पष्टास्पष्टगिराद्य तेन शिशुना नष्टाखिलापन्मम ॥ ९६॥ आधाराम्बुजमध्यकेलिसदनो बाधावहोऽहङ्कृतेः बोधानन्दविवर्तभासुरतनुर्मेऽधोऽधिमूर्धं ज्वलन् । राधावल्लभमानितात्मविभवोऽगाधां विधत्तां श्रियं क्रोधाधेर्विजयं शचीप्रियतमासाधारणीं च प्रथाम् ॥ ९७॥ गाढाभ्यासविनिद्रितोरगसुतालीढानिलानां सतां गूढावासमुपेत्य चेतसि परं सोढा समस्तैनसाम् । बाढाज्ञानपिशाचिकावृतमहामूढात्मनां दुर्लभः षोढास्याम्बुरुहश्शुभानि जगतां वोढा विधत्तां मम ॥ ९८॥ आगोपालविधातृतुल्यविभवे यागोपगेयप्रथे वेगोद्भिन्नपुनर्भवाङ्कुरमहायोगोपसर्गापदि । रोगोत्सिक्तजनानवाप्य चरणेनागोपगीतात्मजे (वीतानुजे) भूगोळेऽभिरतिं न को नु कलयेद्रोगो न चेद्राजसः ॥ ९९॥ ओष्ठासञ्जितलोचनाय दिविजश्रेष्ठात्मजाया जग- ज्ज्येष्ठानङ्गविवर्तविग्रहवते प्रेष्ठाय शिष्टावने । गोष्ठायादिगवां ततेर्भुवनवर्षिष्ठाय सभ्यान्तरे निष्ठायाश्रितलोचनाब्जयुगनेदिष्ठाय कुर्मोऽञ्जलिम् ॥ १००॥ सीम्ने सद्गुणसम्पदां नवमणीधाम्ने श्रितापद्द्विष- न्नाम्ने शासितदैवतारिपरिषत्स्थेम्ने च हेम्ने श्रिया । व्योम्ने चिद्विमलाय सर्वजगतां धाम्ने निकेतीभव- त्साम्नेऽनादिकुटुम्बिभाग्यलहरीभूम्ने परस्मै नमः ॥ १०१॥ परयुवतिरतं मां शङ्कयित्वाऽप्युदासे तदपि मदवनं ते साम्प्रतं साम्प्रतं हि । त्यजति गुरुकलत्रव्यापृतं त्वत्पिता किं विमलकमलसम्पद्द्रोहिणं रोहिणीशम् ॥ १०२॥ परधनापहृतौ यतमाने नोचिता मयि तवेयमुपेक्षा । विस्मृतं किमु हिरण्यहरत्वं तत्त्वया तव विभोः श्वशुरस्य ॥ १०३॥ अहिंसकानामिह हिंसकोऽपि न तेऽच्छिदं ब्रह्मशिरः पितेव । अतीव लुब्धं किमुपेक्षते मां लुब्धात्मजा सापि तवाङ्कसंस्था ॥ १०४॥ मलिनसङ्गतिदूषितमेव मां किमु विलोकयितुं परिशङ्कसे । न हि भवानिव भूतपिशाचिकासदसि सन्ततमासितुमुत्सहे ॥ १०५॥ निष्किञ्चनोऽयमिति किं ननु मय्युदासे भिक्षाशनस्तव पिता भगवंस्तदास्ताम् । त्वं चापि भैक्षमटसि प्रकटं फलिन्यां तन्मां भजस्व सदृशी खलु बन्धुता नौ ॥ १०६॥ परिपालयितुं तवाभिकाङ्क्षा यदि दृप्तान्कृपणोत्तमाग्रवृत्त्या । किमु कीर्तिरितस्तवाप्यपूर्वा विमला दीनदयालुतोपक्लृप्ता ॥ १०७॥ अङ्गीकृतं मृगशिशुं न शशी जहाति फालं तपन्तमपि नो दहनं त्रिणेत्रः । आशीविषं च विषमं न हि शेषशायी तीक्ष्णस्वभावमपि मां न जहीहि पाल्यम् ॥ १०८॥ कण्ठे गडुर्भवति यच्छरदिन्दुकान्तेः अर्धासनं भजति यत्सुरभोज्यलक्ष्म्याः । आचार्यतां भजति यन्नवमल्लिकानां आनन्दमावहति ते स्मितमेव तन्नः ॥ १०९॥ अथवा क्षणिकाचलालवालो गुणपुष्पः परिसेवितो द्विजेन्द्रैः । श्रुतिमुग्धलताञ्चितोऽङ्घ्रिशाखी तव दिव्यः फलतीप्सितं ममैषः ॥ ११०॥ किं वा विपदि विधेयं ध्येयं ते ध्यातृमङ्गलं चरणम् । सम्पदि किं करणीयं भूयो भूयोऽपरोक्षणीयं तत् ॥ १११॥ बद्धादराः श्रितविपत्परितापशान्त्यै दुग्धाब्धिगर्भभरितामृतवीचिवन्द्याः । मुग्धाब्जजन्मविफलीकरणस्वभावाः श्रद्धालवोऽवितुममी तव मां कटाक्षाः ॥ ११२॥ अमृतमिव सुराणां ब्राह्मणानां त्रयीव प्रणव इव यतीनां योगिनामुन्मनीव । श्रुतिपथपथिकस्य श्रीमदेकं निदानं मम तु किमपि लब्धं लुब्धकन्याभिलुब्धम् ॥ ११३॥ पातय वा घातय वा पालय वा समवलोक्य लालय वा । लब्धं तव पदयुग्मं नाहं मुञ्चामि नापि दुर्वृत्तीः ॥ ११४॥ नमो नमस्ते नगदम्भभेदिन् नमो नमस्ते निगमान्तचारिन् । नमो नमस्ते खगराजयायिन् नमो नमस्ते भगवन् परात्मन् ॥ ११५॥ श्रीशङ्करात्मजगुणगणग्रथिता तदीय- पादारविन्दमकरन्दकणावसिक्ता । मोदावहा भवतु सज्जनषट्पदानां गोपालकृष्णकविवाक् सुरपुष्पमाला ॥ ११६॥ इति श्रीगोपालकृष्णकविविरचितं श्रीसुब्रह्मण्यकर्णामृतं सम्पूर्णम् । Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran
% Text title            : Subrahmanya Karnamritam
% File name             : subrahmaNyakarNAmRRitam.itx
% itxtitle              : subrahmaNyakarNAmRitam (gopAlakRiShNakavivirachitam)
% engtitle              : subrahmaNyakarNAmRRitam
% Category              : subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Gopalakrishnakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran
% Description-comments  : Subramanya Sthuthi Manjari
% Indexextra            : (Scan)
% Latest update         : February 6, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org