श्रीसुब्रह्मण्यकवचम् ३
ॐ श्रीगणेशाय नमः ।
नारद उवाच-
देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वतः ।
सुब्रह्मण्यस्य कवचं कृपया वक्तुमर्हसि ॥ १॥
ब्रह्मोवच
महर्षे शृणु मद्वाक्यं बहुना किं तवानघ ।
मन्त्राश्च कोटिशः सन्ति शम्भुविष्ण्वादिदेवताः ॥ २॥
सहस्रनाम्नां कोट्यश्च ह्यङ्गन्यासाश्च कोटिशः ।
उपमन्त्रास्त्वनेके च कोटिशः सन्ति नारद ॥ ३॥
मालामन्त्राः कोटिशश्च ह्यश्वमेधफलप्रदाः ।
कुमारकवचं दिव्यं भुक्तिमुक्तिफलप्रदम् ॥ ४॥
सर्वसम्पत्करं श्रीमद्वज्रसारसमन्वितम् ।
सर्वात्मके शम्भुपुत्रे मतिरस्त्यत्र किं तव ॥ ५॥
धन्योऽसि कृतकृत्योऽसि भक्तोऽसि त्वं महामते ।
यस्येदं शरजं जन्म यदि वा स्कन्द एव च ॥ ६॥
तेनैव लभ्यते चैतत्कवचं शङ्करोदितम् ।
ऋषिश्छन्दो देवताश्च कार्याः पूर्ववदेव च ॥ ७॥
ध्यानं तु ते प्रवक्ष्यामि येन स्वामिमयो भवेत् ।
ओङ्कांररूपिणं देवं सर्वदेवात्मकं प्रभुम् ॥ ८॥
देवसेनापतिं शान्तं ब्रह्मविष्णुशिवात्मकम् ।
भक्तप्रियं भक्तिगम्यं भक्तानामार्तिभञ्जनम् ॥ ९॥
भवानीप्रियपुत्रं च महाभयनिवारकम् ।
शङ्करं सर्वलोकानां शङ्करात्मानमव्ययम् ॥ १०॥
सर्वसम्पत्प्रदं वीरं सर्वलोकैकपूजितम् ।
एवं ध्यात्वा महासेनं कवचं वज्रपञ्जरम् ॥ ११॥
पठेन्नित्यं प्रयत्नेन त्रिकालं शुद्धिसंयुतः ।
सत्यज्ञानप्रदं दिव्यं सर्वमङ्गलदायकम् ॥ १२॥
अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य परब्रह्म ऋषिः ।
देवी गायत्री छन्दः । प्रसन्नज्ञानसुब्रह्मण्यो देवता । ॐ बीजं,
श्रीं शक्तिः, सौं कीलकम् । प्रसन्नज्ञानसुब्रह्मण्य प्रसादसिद्ध्यर्थे
जपे विनियोगः ।
करन्यासः-श्रीसुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः ।
शक्तिधराय तर्जनीभ्यां नमः । षण्मुखाय मध्यमाभ्यां नमः ।
षट्त्रिंशत्कोणसंस्थिताय अनामिकाभ्यां नमः । सर्वतोमुखाय
कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः । भूर्भुवस्सुवरोम् (इति दिग्बन्धः) ।
ध्यानम् -
षड्वक्त्रं शिखिवाहनं त्रियनं चित्राम्बरालङ्कृतं
शक्तिं वज्रमयीं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सितसिद्धये शिवसुतं स्कन्दं सुराराधितम् ॥
द्विषड्भुजं षण्मुखमम्बिकासुतं
कुमारमादित्यसमानतेजसम् ।
वन्दे मयूरासनमग्निसम्भवं
सेनान्यमद्याहमभीष्टसिद्धये ॥
गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं
ब्रह्मेशानामरेड्यं गुहमचलसुतं रुद्रतेजः स्वरूपम् ।
सोनान्यं तारकघ्नं सकलभयहरं कार्तिकेयं षडास्यं
सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥
कनककुण्डलमण्डितषण्मुखं वनजराजिविराजितलोचनम् ।
निशितशस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥
(लमित्यादि पञ्चपूजा ।)
अथ कवचम् ।
सुब्रह्मण्यः शिरः पातु शिखां पातु शिवात्मजः ।
शिवः पातु ललाटं मे भ्रूमध्यं क्रौञ्चदारणः ॥ १३॥
भुवौ पातु कुमारो मे नेत्रे पातु त्रिनेत्रकः ।
पायाद्गौरीसुतः श्रोत्रे गण्डयुग्मं हरात्मजः ॥ १४॥
दक्षनासापुटद्वारं प्राणरूपी महेश्वरः ।
सर्वदेवात्मकः पातु जिह्वां सारस्वतप्रदः ॥ १५॥
दन्तान् रक्षतु देवेशः तालुयुग्मं शिवात्मजः ।
देवसेनापतिः पातु चुबुकं चाद्रिजासुतः ॥ १६॥
पार्वतीनन्दनः पातु द्वावोष्ठौ मम सर्वदा ।
षण्मुखो मे मुखं पातु सर्वदेवशिखामणिः ॥ १७॥
सिंहगर्वापहन्ता मे ग्रीवां पातु सनातनः ।
तारकासुरसंहन्ता कण्ठं दुष्टान्तकोऽवतु ॥ १८॥
सुभुजो मे भुजौ पातु स्कन्धमग्निसुतो मम ।
सन्धियुग्मं गुहः पातु करौ मे पातु पावनः ॥ १९॥
कराङ्गुलीः श्रीकरोऽव्यात् सुररक्षणदीक्षितः ।
वक्षः स्थलं महासेनः तारकासुरसूदनः ॥ २०॥
कुक्षिं पातु सदा देवः सुब्रह्मण्यः सुरेश्वरः ।
उदरं पातु रक्षोहा नाभिं मे विश्वपालकः ॥ २१॥
लोकेशः पातु पृष्ठं मे कटिं पातु धराधरः ।
गुह्यं जितेन्द्रियः पातु शिश्नं पातु प्रजापतिः ॥ २२॥
अण्डद्वयं महादेव ऊरुयुग्मं सदा मम ।
सर्वभूतेश्वरः पातु जानुयुग्ममघापहः ॥ २३॥
जङ्घे मे विश्वभुक्पातु गुल्फौ पातु सनातनः ।
वल्लीश्वरः पातु मम मणिबन्धौ महाबलः ॥ २४॥
पातु वल्लीपतिः पादौ पादपृष्ठं महाप्रभुः ।
पादाङ्गुलीः श्रीकरो मे इन्द्रियाणि सुरेश्वरः ॥ २५॥
त्वचं महीपतिः पातु रोमकूपांस्तु शाङ्करिः ।
षाण्मातुरः सदा पातु सर्वदा च हरप्रियः ॥ २६॥
कार्तिकेयस्तु शुक्लं मे रक्तं शरवणोद्भवः ।
वाचं वागीश्वरः पातु नादं मेऽव्यात्कुमारकः ॥ २७॥
पूर्वस्यां दिशि सेनानीर्मां पातु जगदीश्वरः ।
आग्नेय्यामग्निदेवश्च क्रतुरूपी परात्परः ॥ २८॥
दक्षिणस्यामुग्ररूपः सर्वपापविनाशनः ।
खड्गधारी च नैरृत्यां सर्वरक्षोनियामकः ॥ २९॥
पश्चिमास्यां दिशि सदा जलाधारो जितेन्द्रियः ।
वायव्यां प्राणरूपोऽव्यान्महासेनो महाबलः ॥ ३०॥
उत्तरस्यां दिशि सदा निधिकर्ता स पातु माम् ।
शम्भुपुत्रः सदा पातु दिश्यैशान्यां महाद्युतिः ॥ ३१॥
ऊर्ध्वं ब्रह्मपतिः पातु चतुर्मुखनिषेवितः ।
अधस्तात्पातु विश्वात्मा सदा ब्रह्माण्डभृत्परः ॥ ३२॥
मध्यं पातु महासेनः शूरसंहारकृत्सदा ।
अहङ्कारं मनो बुद्धिं स्कन्दः पातु सदा मम ॥ ३३॥
गङ्गातीरनिवासी मामादियामे सदाऽवतु ।
मध्ययामे सुरश्रेष्ठस्तृतीये पातु शाम्भवः ॥ ३४॥
दिनान्ते लोकनाथो मां पुर्वरात्र्यां पुरारिजः ।
अर्धरात्रे महायोगी निशान्ते कालरूपधृत् ॥ ३५॥
मृत्युञ्जयः सर्वकालमन्तस्तु शिखिवाहनः ।
बहिः स्थितं शक्तिधरः पातु मां योगिपूजितः ॥ ३६॥
सर्वत्र मां सदा पातु योगविद्यो निरञ्जनः ।
पातु मां पञ्चभूतेभ्यः पञ्चभूतात्मकस्तदा ॥ ३७॥
तिष्ठन्तमग्निभूः पातु गच्छन्तं शूरसूदनः ।
विशाखोऽव्याच्छयानं मां निषण्णं तु सुरेश्वरः ॥ ३८॥
मार्गे मे नीलकण्ठश्च शैलदुर्गेषु नायकः ।
अरण्यदेशे दुर्गे चाभयं दद्याद्भयापहः ॥ ३९॥
भार्यां पुत्रप्रदः पातु पुत्रान् रक्षेत् हरात्मजः ।
पशून् रक्षेन्महातेजा धनं धनपतिर्मम ॥ ४०॥
राजराजार्चितः पातु ह्रस्वदेहं महाबलः ।
जीवनं पातु सर्वेशो महामणिविभूषणः ॥ ४१॥
सूर्योदये तु मां सर्वो ह्यश्विन्याद्याश्च तारकाः ।
मेषाद्या राशयश्चैव प्रभवाद्याश्च वत्सराः ॥ ४२॥
अयने द्वे षडृतवो मासाश्चैत्रमुखास्तथा ।
शुक्लकृष्णौ तथा पक्षौ तिथयः प्रतिपन्मुखाः ॥ ४३॥
अहोरात्रे च यामादि मुहूर्ता घटिकास्तथा ।
कलाः काष्ठादयश्चैव ये चान्ये कालभेदकाः ॥ ४४॥
ते सर्वे गुणसम्पन्नाः सन्तु सौम्यास्तदाज्ञया ।
ये पक्षिणो महाक्रूराः उरगाः क्रूरदृष्टयः ॥ ४५॥
उलूकाः काकसङ्घाश्च श्येनाः कङ्कादिसंज्ञकाः ।
शुकाश्च सारिकाश्चैव गृध्राः कङ्का भयानकाः ॥ ४६॥
ते सर्वे स्कन्ददेवस्य खड्गजालेन खण्डिताः ।
शतशो विलयं यान्तु भिन्नपक्षा भयातुराः ॥ ४७॥
ये द्रव्यहारिणश्चैव ये च हिंसापरा द्विषः ।
ये प्रत्यूहकरा मर्त्या दुष्टमर्त्या दुराशयाः ॥ ४८॥
दुष्टा भूपालसन्दोहाः ये भूभारकराः सदा ।
कायविघ्नकरा ये च ये खला दुष्टबुद्धयः ॥ ४९॥
ये च मायाविनः क्रूराः सर्वद्रव्यापहारिणः ।
ये चापि दुष्टकर्माणो म्लेच्छाश्च यवनादयः ॥ ५०॥
नित्यं क्षुद्रकरा ये च ह्यस्मद्बाधाकराः परे ।
दानवा ये महादैत्याः पिशाचा ये महाबलाः ॥ ५१॥
शाकिनीडाकिनीभेदाः वेताला ब्रह्मराक्षसाः ।
कूष्माण्डभैरवाद्या ये कामिनी मोहिनी तथा ॥ ५२॥
अपस्मारग्रहा ये च रक्तमांसभुजो हि ये ।
गन्धर्वाप्सरसः सिद्धा ये च देवस्य योनयः ॥ ५३॥
ये च प्रेताः क्षेत्रपालाः ये विनायकसंज्ञकाः ।
महामेषा महाव्याघ्रा महातुरगसंज्ञकाः ॥ ५४॥
महागोवृषसिंहाद्याः सैन्धवा ये महागजाः ।
वानराः शुनका ये च वराहा वनचारिणः ॥ ५५॥
वृकोष्ट्रखरमार्जाराः ये चातिक्षुद्रजन्तवः ।
अगाधभूता भूताङ्गग्रहग्राह्यप्रदायकाः ॥ ५६॥
ज्वालामालाश्च तडितो दुरात्मानोऽतिदुःखदाः ।
नानारोगकरा ये च क्षुद्रविद्या महाबलाः ॥ ५७॥
मन्त्रयन्त्रसमुद्भूताः तन्त्रकल्पितविग्रहाः ।
ये स्फोटका महारोगाः वातिकाः पैत्तिकाश्च ये ॥ ५८॥
सन्निपातश्लेष्मकाश्च महादुःखकरास्तथा ।
माहेश्वरा वैष्णवाश्च वैरिञ्चाश्च महाज्वराः ॥ ५९॥
चातुर्थिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये ।
सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ ६०॥
सृष्टका ये महोत्पाता ये जाग्रत्स्वप्नदूषकाः ।
ये ग्रहाः क्रूरकर्तारो ये वा बालग्रहादयः ॥ ६१॥
महाशिनो मांसभुजो मनोबुद्धीन्द्रियापहाः ।
स्फोटकाश्च महाघोराः चर्ममांसादिसम्भवाः ॥ ६२॥
दिवाचोरा रात्रिचोरा ये सन्ध्यासु च दारुणाः ।
जलजाः स्थलजाश्चैव स्थावरा जङ्गमाश्च ये ॥ ६३॥
विषप्रदाः कृत्रिमाश्च मन्त्रतन्त्रक्रियाकराः ।
मारणोच्चाटनोन्मूलद्वेषमोहनकारिणः ॥ ६४॥
गरुडाद्याः पक्षिजाता उद्भिदश्चाण्डजाश्च ये ।
कूटयुद्धकरा ये च स्वामिद्रोहकराश्च ये ॥ ६५॥
क्षेत्रग्रामहरा ये च बन्धनोपद्रवप्रदाः ।
मन्त्रा ये विविधाकाराः ये च पीडाकरास्तथा ॥ ६६॥
यो चोक्ता ये ह्यनुक्ताश्च भूपातालान्तरिक्षगाः ।
ते सर्वे शिवपुत्रस्य कवचोत्तारणादिह ॥ ६७॥
सहस्रधा लयं यान्तु दूरादेव तिरोहिताः ।
फलश्रुतिः ।
इत्येतत्कवचं दिव्यं षण्मुखस्य महात्मनः ॥ ६८॥
सर्वसम्पत्प्रदं नृणां सर्वकायार्थसाधनम् ।
सर्ववश्यकरं पुण्यं पुत्रपौत्रप्रदायकम् ॥ ६९॥
रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत् ।
सर्वेदेवप्रियकरं सर्वानन्दप्रदायकम् ॥ ७०॥
अष्टैश्वर्यप्रदं नित्यं सर्वरोगनिवारणम् ।
अनेन सदृशं वर्म नास्ति ब्रह्माण्डगोलके ॥ ७१॥
सत्यं सत्यं पुनः सत्यं शृणु पुत्र महामुने ।
एकवारं जपन्नित्यं मुनितुल्यो भविष्यति ॥ ७२॥
त्रिवारं यः पठेन्नित्यं गुरुध्यानपरायणः ।
स एव षण्मुखः सत्यं सर्वदेवात्मको भवेत् ॥ ७३॥
पठतां यो भेदकृत्स्यात् पापकृत्स भवेद्ध्रुवम् ।
कोटिसङ्ख्यानि वर्माणि नानेन सदृशानि हि ॥ ७४॥
कल्पवृक्षसमं चेदं चिन्तामणिसमं मुने ।
सकृत्पठनमात्रेण महापापैः प्रमुच्यते ॥ ७५॥
सप्तवारं पठेद्यस्तु रात्रौ पश्चिमदिङ्मुखः ।
मण्डलान्निगडग्रस्तो मुच्यते न विचारणा ॥ ७६॥
विद्वेषी च भवेद्वश्यः पठनादस्य वै मुने ।
कृत्रिमाणि च सर्वाणि नश्यन्ति पठनाद्ध्रुवम् ॥ ७७॥
यं यं च याचते कामं तं तमाप्नोति पूरुषः ।
नित्यं त्रिवारं पठनात्खण्डयेच्छत्रुमण्डलम् ॥ ७८॥
दशवारं जपन्नित्यं त्रिकालज्ञो भवेन्नरः ।
इन्द्रस्येन्द्रत्वमेतेन ब्रह्मणो ब्रह्मताऽभवत् ॥ ७९॥
चक्रवर्तित्वमेतेन सर्वेषां चैव भूभृताम् ।
वज्रसारतमं चैतत्कवचं शिवभाषितम् ॥ ८०॥
पठतां शृण्वतां चैव सर्वपापहरं परम् ।
गुरुपूजापरो नित्यं कवचं यः पठेदिदम् ॥ ८१॥
मातुः स्तन्यं पुनः सोऽपि न पिबेन्मुनिसत्तम ।
कुमारकवचं चेदं यः पठेत्स्वामिसन्निधौ ॥ ८२॥
सकृत्पठनमात्रेण स्कन्दसायुज्यमाप्नुयात् ।
सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः ॥ ८३॥
षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः ।
मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः ॥ ८४॥
विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा ।
षोडशैतानि नामानि शृणुयात् श्रावयेत्सदा ॥ ८५॥
तस्य भक्तिश्च मुक्तिश्च करस्थैव न संशयः ।
गोमूत्रेण तु पक्त्वान्नं भुक्त्वा षण्मासतो मुने ॥ ८६॥
सहस्रं मूलमन्त्रं च जप्त्वा नियमतन्त्रितः ।
सप्तविंशतिवारं तु नित्यं यः प्रपठेदिदम् ॥ ८७॥
वायुवेगमनोवेगौ लभते नात्र संशयः ।
य एवं वर्षपर्यन्तं पूजयेद्भक्तिसंयुतः ॥ ८८॥
ब्रह्मलोकं च वैकुण्ठं कैलासं समवाप्स्यति ।
तस्मादनेन सदृशं कवचं भुवि दुर्लभम् ॥ ८९॥
यस्य कस्य न वक्तव्यं सर्वथा मुनिसत्तम ।
पठन्नित्यं च पूतात्मा सर्वसिद्धिमवाप्स्यति ।
सुब्रह्मण्यस्य सायुज्यं सत्यं च लभते ध्रुवम् ॥ ९०॥
इति श्रीस्कन्दपुराणानतः श्रीसुब्रह्मण्यकवचं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran