आदिश्रीविद्योपनिषत् प्रथमः पटलः

आदिश्रीविद्योपनिषत् प्रथमः पटलः

ॐ आपो ह वै इदं सर्वमासीत् । तासु चिद्रूपा परा शक्तिरवर्तत । सा शक्तिर्महालक्ष्मीर्नारायणस्य हृदये ज्योतिरिव स्थित्वा स्वेनैव प्रकाशेन जगदिदमसृजत् । एकदा देवर्षिर्नारदः क्षीरसागरतीरे पद्मासनां जगन्मातरं महालक्ष्मीं प्रणम्य पप्रच्छ । नारद उवाच । भगवति कमले देवि आदिशक्ते सनातनि । किं तत्त्वं श्रीरिति ख्यातं कथं ब्रह्म त्वमिष्यसे ॥ १॥ किं वित्तं किं च सौन्दर्य किं राज्यं किं च मेधया । किं मोक्षः किमहङ्कारः श्रीं त्वं देवि मे बोधय ॥ २॥ श्रीदेव्युवाच । साधु पृष्टं त्वया वत्स श‍ृणु तत्त्वं सनातनम् । श्रीरहं ब्रह्मरूपेण चिदानन्दैकलक्षणा ॥ ३॥ नाहं जातिर्न वा नारी न पुंसो न च देवता । नाहं नाम न रूपं च स्वप्रकाशा परा स्थितिः ॥ ४॥ नारायणः परः पुंसां सनातनः पुमान् मतः । तस्य शक्तिरहं देवी न मत्तोऽन्यः स विद्यते ॥ ५॥ शक्तिशक्तिमतोर्भेदो यथा वह्नेः सदा दाहः । नारायणोऽहमित्येकं द्वैतं भक्तेः कृपामयम् ॥ ६॥ मयि सर्वं प्रतिष्ठाति मयि सर्वं प्रलीयते । मयि विश्वमिदं पूर्णं सूत्रे मणिगणा इव ॥ ७॥ अहमेव परं ब्रह्म अहमेव परा गतिः । अहमेव जगन्माता चिदाकाशे व्यवस्थितम् ॥ ८॥ अन्नेऽहं प्राणरूपेण मनसि ज्ञानरूपिणी । वाचि सत्यस्वरूपाऽहं निद्रायां शान्तिरूपिणी ॥ ९॥ भूत्वा भूमिर्भराम्येतदापो भूत्वा प्रसूयते । दीप्तिर्भूत्वा प्रकाशामि सर्वभूतहितैषिणी ॥ १०॥ श्रीः प्रथमं तु जीवनं द्वितीयं कमलं वपुः । तृतीयं राज्यसौभाग्यं चतुर्थं ज्ञानमुत्तमम् ॥ ११॥ ज्ञानादूर्ध्वं परा श्रीश्च ज्ञानं यत्र न लीयते । स्वात्मबोधो महालक्ष्मीः पूर्णानन्दप्रकाशिनी ॥ १२॥ धनं साधनमित्युक्तं न तु धन्यं धनं स्मृतम् । येन धर्मः प्रवर्धेत तद्धनं मे प्रियं सदा ॥ १३॥ भोगो दोषो न मे देवि यदा भुङ्क्ते न लोभतः । भोगो बन्धो भवेद् यस्य स दरिद्रोऽपि मानवः ॥ १४॥ त्यागेन भुज्यते श्रीश्च दानेन वर्धते ध्रुवम् । नदीव वहते लक्ष्मीर्न स्थिरा लोभबन्धने ॥ १५॥ यत्रान्नं बहुभिर्भुक्तं तद्गृहं मे तपोवनम् । यत्रैकः क्षुधितो याति तद्गृहं शून्यमेव हि ॥ १६॥ नारीणां मानसं रक्षेत् स्त्रीणां वाक्यमनुस्मरेत् । यत्र नार्यः समं पूज्याः तत्र श्रीर्नित्यमासते ॥ १७॥ वृद्धान् बालांश्च दुर्बलान् सर्वभूतानि पालयेत् । मयि भक्तिः परा तस्य न पुष्पैर्न च चन्दनैः ॥ १८॥ नारायणीति मां विद्धि विष्णोर्हृदयवासिनीम् । श्रीवत्साङ्के व्यवस्थितां नित्यं प्रेमस्वरूपिणीम् ॥ १९॥ ब्रह्मणो जननी चाहं रुद्रस्यापि जनन्यहम् । सृष्टिसंहारमध्यस्था नारायणी परा शिवा ॥ २०॥ ब्रह्मरूपेण सृजामि विष्णुरूपेण पालये । रुद्ररूपेण संहर्त्री त्रिधा शक्तिरहं शिवा ॥ २१॥ अम्बिका जगतां माता जननी ब्रह्मरुद्रयोः । विष्णोर्हृदयनिलया नारायणीति विश्रुता ॥ २२॥ ध्यायेत् पद्मासनां देवीं चन्द्रकोटिसमप्रभाम् । हस्ताभ्यां वरदां शान्तां हृदये ज्ञानदायिनीम् ॥ २३॥ न सुवर्णं न रत्नानि न बाह्यं मे प्रियं धनम् । शुद्धचित्तं मम स्थानं निर्मलं प्रेम मे वपुः ॥ २४॥ मां भजेत् कर्मणा नित्यं न मन्त्रजापमात्रतः । यः करोति हितं लोके स मां नित्यं समर्चयेत् ॥ २५॥ विद्यया विनयः श्रीमान् विनयेन दया भवेत् । दयया सर्वभूतेषु आत्मैकत्वं प्रजायते ॥ २७॥ यदा द्रष्टा च दृश्यं च दर्शनं चैकतां गतो । तदा लक्ष्मीः परा विद्या तदा मोक्षः प्रजायते ॥ २८॥ नारद उवाच । त्वमेव श्रीस्त्वमेवेशी त्वमेव ब्रह्म शाश्वतम् । त्वयि विश्वं त्वयि प्राणाः त्वयि चित्तं प्रतिष्ठितम् ॥ २९॥ श्रीदेव्युवाच । एवं मां यो विजानीयाद् ब्रह्मरूपां सनातनीम् । न स शोचति न द्वेष्टि न लोभेनाभिभूयते ॥ ३०॥ इदं रहस्यं वेदान्तं न धनार्थं न कीर्तये । चेतसो विमलार्थाय सर्वभूतहिताय च ॥ ३१॥ य इमां पठते नित्यं श्रद्धया शुद्धमानसः । तस्य श्रीर्वर्धते नित्यं धर्मे बुद्धिश्च वर्धते ॥ ३२॥ इत्यादिशक्तिमहालक्ष्म्युपनिषदि आदिशक्तितत्त्वे प्रथमः पटलः समाप्तः । Only the first paTala is available in the linked scanned print. In case anyone has rest of the tantra or upaniShad, please send a note. Encoded and proofread by June
% Text title            : AdishrIvidyopaniShat1
% File name             : AdishrIvidyopaniShat1.itx
% itxtitle              : AdishrIvidyopaniShat paTalaH 1 athavA AdishaktimahAlakShmyupaniShad
% engtitle              : AdishrIvidyopaniShat 1 athavA AdishaktimahAlakShmyupaniShad
% Category              : upanishhat, devii, devI, dashamahAvidyA, lakShmI
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : June
% Proofread by          : June
% Description/comments  : The other paTalas are not available so do not know if this is standalone or has more related parts.
% Indexextra            : (Scan)
% Latest update         : October 3, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org