अद्वैतभावनोपनिषत्
अद्वैतभावनां वक्ष्ये शृणुष्व कमलानने।
यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्वयम्॥
अहं स्त्री । पुरुषोऽहम् । सदाशिवोऽहम् । परमप्रकृत्योऽहम् । var परमप्रकृतिरहम् ।
परमपुरुषोऽहम् । नादोऽहम् । बिन्दुरहम् । कलाश्चाहम् ।
शब्दब्रह्माहम् । क्रियायागोऽहम् । ब्रह्माहम् । विष्णुरहम् । सौरोऽहम् ।
ब्राह्मोऽहम् । वैष्णवोऽहम् । शिवाऽहम् । नानाशक्त्यहम् । असुरोऽहम् ।
सुरोऽहम् । उच्चाररहितोऽहम् । विद्याऽहम् । वेदाश्चाहम् ।
वेदशाखिनश्चाहम् । वेदक्रियाऽहम् । var वेदसाक्षिणश्चाहम्
कर्मयोगोऽहम् । धर्मकर्मोऽहम् । पिताऽहम् । माताऽहम् । पुत्रोऽहम् ।
गुरुरहम् । आचार्योऽहम् । आगमोऽहम् । रामायणोऽहम् । महाभागवतोऽहम् ।
महाभारतोऽहम् । श्रीभागवतोऽहम् । श्रुतिशास्त्राण्यहम् ।
मन्त्रोऽहम् । मन्त्रार्थोऽहम् । स्तवोऽहम् । कवचोऽहम् । अहं
सहस्रनामानि । अहं गायत्री । बीजान्यहम् । कूटाक्षरोऽहम् ।
त्र्यक्ष्रोऽहम् । पञ्चाशन्मातृकाऽहम् । पञ्चभूतान्यहम् ।
पञ्चमहाभूतान्यहम् । तत्त्वान्यहम् । स्थूलोऽहम् । सूक्ष्मोऽहम् ।
कुलाकुलाश्चाऽहम् । कुलाचलश्चाऽहम् । प्रमाणादि षोडशपदार्थोऽहम् ।
ऋषयश्चाऽहम् । मुनयश्चाऽहम् । लक्ष्मीरहम् । स्त्रियोऽहम् ।
श्रियोऽहम् । प्रियोऽहम् । गौर्यहम् । भूतोऽहम् । कुष्माण्डोऽहम् ।
प्रेतोऽहम् । लोकपालाश्चाऽहम् । ग्रहाश्चाऽहम् । दिग्गजाश्चाऽहम् ।
दशदिशोऽहम् । ऊर्ध्वोऽहम् । अधोऽहम् । चतुर्दशभुवनान्यहम् ।
तत्स्थोऽहम् । तदसम्प्रदर्च्चाश्रद्धानन्तरम् । तदहं सम्प्रकुर्यात् ।
जपेन्मन्त्रं विधानेन सङ्ख्यां कुर्वन् विधानतः ।
न दोषो मानसे जापे इत्याह भगवान् शिवः ॥
इति सदाशिवप्रणीतं अद्वैतभावं समाप्तम् ।
Encoded Vineet Menon mvineetmenon at gmail.com
Proofread by Vineet Menon, anonymous456an at gmail.com