दशोपनिषत्सारः रत्नपञ्चकम् ४
(रत्नपञ्चके चतुर्थं रत्नम् ।)
ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ॥
ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ Oम् ॥
शान्तिः -
शं नो मित्रो न इन्द्रो ह्यवतु पवन ! मां ब्रह्म साक्षाद्भवान्नु
प्रत्यक्षं नौ भुनक्तु ज्ञ ! सहगुणिगणैर्वीर्यकार्यं करिष्ये ।
छन्दोभ्यो विश्वरूपोऽभवदहमधुना विश्रुवं भूरिसौख्यं
वृक्षस्याहं सुमूलं ह्यद इदमखिलं पूर्ण पूर्ण स्वरूपम् ॥ १॥
आप्यायन्त्विन्द्रियाणि, त्विह बलमखिलं स्वात्मधर्माश्च सन्तु,
श्रौतं मे मा प्रहासीर्मनसि वसतु तत्सत्यविज्ञानरूपम् ।
भद्रं नः सर्वतः स्यान्नरसुरगणतः, स्वस्ति भूयाज्जनेभ्यो
ब्रह्मात्मानं प्रपद्ये नम इति गुरवे, प्रत्यगर्थोऽस्मि वस्तु ॥ २॥
१. ईश- (ईशोपनिषत्)
ईशावास्यं बहुविधजगत्सर्वमेकांशतो वै
तज्ज्ञानार्थं प्रथमत इह स्वस्य चित्तस्य शुद्धिः ।
तत्कर्तव्या नियतमनसा ब्रह्मयाथात्मसिद्धिः
शोको मोहो भवति न तदा ह्येकमेवाद्वितीयम् ॥ ३॥
२. केन- (केनोपनिषत्)
श्रोत्रश्रोत्रं यदिह जगति प्राणचक्ष्विन्द्रियाणां
व्यापारो हि प्रचलति निजो यस्य सामर्थ्ययोगात् ।
अग्निर्वायुः सुरपतिरपि ज्ञातुमासन्न यद्वै
विज्ञानं तद्विमलमृतं ब्रह्म साक्षात्कुरुष्व ॥ ४॥
३. कठ- (कठोपनिषत्)
श्रेयो धीरो वृणीते, विषयसुरमणं पण्डितम्मन्यमानाः
कुर्वन्तु ज्ञानहीना, इहपरसुखिता नैव तेषां कदाऽपि ।
लभ्यो वै नायमात्मा प्रवचनविधिना मेघया सुश्रुतेन,
प्रज्ञानेनाप्नुयात्तन्निरुपमममलं ब्रह्मकल्याणरूपम् ॥ ५॥
४. प्रश्न- (प्रश्नोपनिषत्)
प्रजासृष्टिं ब्रह्माऽकुरुत सकलां प्राणविभवां
मनो वाक्प्राणस्य स्तवनमिह कुर्वन्ति च सुराः ।
स कर्ता द्रष्टादिः परमपुरुषे तिष्ठति सदा
तमात्मानं ज्ञात्वाऽक्षरमजमखण्डं भवति ना ॥ ६॥
५. मुण्डक- (मुण्डकोपनिषत्)
यस्मिन्विज्ञात एके भवति च सकलं ज्ञातमेवेह पूर्णं
यं साक्षाद्ब्रह्मविद्याऽक्षरमजमचलं प्रापयन्ती परा स्यात् ।
तज्ज्ञानार्थं स गच्छेद्गुरुमिह शरणं श्रोत्रियं ब्रह्मनिष्ठं
ब्रह्मैवेदं विजानन् शमदमसहितो ब्रह्मभूतो भवेत्सः ॥ ७॥
६. माण्डूक्य- (माण्डुक्योपनिषत्)
त्रिकालातीतः सन्सकलसमयो यस्त्रिविधतः
स एवोङ्कारश्चिद्विमलपरमात्मा शिवतमः ।
स आत्मा विज्ञेयस्त्रिपदरहितः शान्तिपरमो
ह्यदृष्टोऽग्राह्योऽजो हृदयकमलेऽन्तर्बहिरपि ॥ ८॥
७. तैत्तिरीय- तैत्तिरीयोपनिषत्)
सत्यं ज्ञानं ह्यनन्तं शतशतगुणितं पूर्णमानन्दमेकं
यस्मात्प्राणो मनो वाक्सकलसुरगणो दूरमत्यन्तमस्ति ।
सर्वे धावन्ति भीत्या रवियमपवनाः पञ्चकोशातिदूरं
ह्यप्राप्यं भेदबुद्ध्याऽभयमचलमयं ब्रह्मवित्प्राप्नुयात्तत् ॥ ९॥
८. ऐतरेय - (ऐतरेयोपनिषत्)
सर्व्ं प्रज्ञानमेव क्रतुघृतिमतयः कामसंज्ञानमेधाः
सङ्कल्पोऽज्ञानजूती स्मृतिहृदयवशा नामधेयानि तस्य ।
प्रज्ञानं ब्रह्मसाक्षात्सुरनरसहितः स्थावरो जङ्गमश्च
प्रज्ञाने सर्वलोकोऽमृतमिह स भजेज्ज्ञानविज्ञानपूर्णः ॥ १०॥
९. छान्दोग्य- (छान्दोग्योपनिषत्)
सर्वं ब्रह्मैव नान्यद्धृदि बहिरखिलं श्लिष्यते नापि केन
प्राणः कं खं मनो वै जगदिदमखिलं भावयेद्ब्रह्म पूर्णम् ।
मृत्पिण्डान्मृण्मयं तत्कलशमुखमिदं नामरूपं च मिथ्या
तस्माद्ब्रह्मैव साक्षात्त्वमसि विमलतत्सच्चिदानन्दभूमा ॥ ११॥
१०. बृहदारण्यक- (बृहदारण्यकोपनिषत्)
ओतःप्रोतोऽयमात्मा, सकलनरवरैः पूर्णवैराग्ययुक्तै -
र्बाल्यं मौनं च कृत्वाऽक्षरमजममनो ब्रह्म वेद्यं प्रयत्नैः ।
नानाभानं विहाय प्रवचनमतिसंलापनं शास्त्रवेदान्
शान्तो दान्तस्तितिक्षुः परमसुखधनं ब्रह्म भूयात्स्वसंराट् ॥ १२॥
वेदान्तार्थातिसारोपनिषदमृततद्ब्रह्मपीयूषपानं
कृत्वाऽहङ्कारशून्यो ममतवरहितः सच्चिदानन्दपूर्णः ।
आचार्यं शङ्करं सद्गुरुमहमनमं नित्यकल्याणमासं
शान्तिः शान्तिः सुशान्तिर्भवभयगलितं ब्रह्मसाम्राज्यमाप्तम् ॥ १३॥
एतत्सारस्य पाठात्सततसुमननाध्यासतः पूर्णसाक्षा-
त्कारादूब्रह्मैव भूयाच्छमदमसहितः शुद्धसत्त्वो विरागी ।
कष्टं नैवात्र किञ्चिन्न्वखिलमुषनिषद्भाष्यजालं च मास्तु
कल्याणःसेवकोऽयं त्रिगुणविरहितं केवलं ब्रह्म वस्तु ॥ १४॥
इति श्रीसमर्थरामदास-कल्याणपदान्वित-
कल्याणसेवकप्रणीत रत्नपञ्चके चतुर्थं रत्नं
दशोपनिषत्सारो नाम सम्पूर्णम् ।
Proofread by Brahatha Mohan