हंसषोढोपनिषत्
अथाह वै हंसषोढान्यासी शिवो भवेत् । सर्वसिद्धीश्वरो भवेत् ।
एतत्फलं वक्तुं सदाशिवोऽपि न समर्थः । षोढान्यासस्य
विरूपाक्षमहाकाल ऋषिः । अनुष्टुप् छन्दः । काली देवता । कालीदेहार्थे
विनियोगः । हंसेनाङ्गषट्कम् । स निर्वाणरूपो भवेत् । हंसः कं खं
गं घं ङं महामुण्डमालाधारिणि महाकालप्रिये मां रक्ष रक्ष ।
षट्चक्रवासिनि वागीश्वरि जिह्वाग्रे वस । हं नमः शिरसि प्रोतं
वेद शिवो भवेत् । हंसः चं छं जं झं ञं महात्रिपुरभैरवि
पुस्तकाक्षमालाधारिणि शत्रुमुखस्तम्भनं कुरु कुरु स्वाहेति महापद्मे ।
हंसः टं ठं डं ढं णं डां डीं डं डाकिनि मां रक्ष रक्ष
स्वाहेत्यनाहते न्यसेत् । तृतीयारूपो भवेत् । हंसः तं थं दं धं
नं महामारि मारहारिणि हुं हुं दारिद्र्यं हर हर स्वाहा । गुं न्यसेत् ।
स ब्रह्मकालीत्वं गच्छति । चतुर्थत्वं गच्छति । हंसः पं
फं बं भं मं मार्जारि वीरावलि ममालस्यं नाशय नाशय । हंसः
यं रं लं वं शं षं सं हं लम्बोदरि मातर्महामङ्गलप्रिये मम
जाड्यं छेदय छेदय । भ्रंश भ्रंश । भगवति मां रक्ष रक्ष ।
भुवनधारिणि मां धारय धारय । स्वाहापदद्वयं न्यस्य शिवो भवेत् ।
अथ वै षष्ठीं न्यसेत् । हंसः लं क्षं महालक्ष्मि राजराजेश्वरि
महाकालप्रिये कालखण्डिनि खण्डिनि खण्डय खण्डय खां खीं खूं खैं
खों खौं खः खनित्रि समे स्वाहेति सर्वाङ्गे न्यसेत् । हंसः पञ्चाशत्
व्यापकं कुर्यात् । इति षष्ठी । स शिवो भवेत् । स सोमयाजी भवेत् ।
स विरक्तो भवेत् । स सर्वदीक्षितो भवेत् । सोऽमृतत्वं गच्छति ।
स सर्वकालत्वं गच्छति । स सर्वन्यासकारी भवेत् । अनधीतगतिर्विद्यां
लभेत् । कर्तव्याकरणादिकर्ता भवेत् । सर्वसिद्धीश्वरो भवेत् ।
कालीरूपो भवेत् । सोऽहं हंस इत्याह भगवान् सदाशिव इति प्रोतं वेद ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे हंसषोढोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti