केनोपनिषत् शाङ्करभाष्य एवं टिप्पणीसहिता
वचनात् केनोपनिषत् - मन्त्रविवरणम्
प्रथमः खण्डः / अध्यायः १. ।
१. केनेषितं पतति
२. श्रोत्रस्य श्रोत्रं
३. न तत्र चक्षुर्गच्छति
४. यद्वाचानभ्युदितं
५. यन्मनसा न मनुते
६. यच्चक्षुषा न पश्यति
७. यच्छ्रोत्रेण न श्रृणोति
८. यत्प्राणेन न प्राणिति
द्वितीयः खण्डः / अध्यायः २. ।
१. यदि मन्यसे सुवेदेति
२. नाहं मन्ये सुवेदेति
३. यामतं तस्य मतं
४. प्रतिबोधविदितं मतं
५. इह चेदवेदीद् अथ सत्यमस्ति
तृतीय खण्डः / अध्यायः ३. ।
१. ब्रह्म ह देवेभ्यो विजिग्ये
२. त ऐक्षन्त अस्माकमेवायं
३. तेऽग्निमब्रुवन् जातवेद
४. तदभ्यद्रवत् तमभ्यवदत्
५. तस्मिंस्त्वयि किं वीर्यमिति
६. तस्मै तृणं निदधावेतद्दहेति
७. अथ वायुमब्रुवन्
८. तदभ्यद्रवत् तमभ्यवदत्
९. तस्मिंस्त्वयि किं वीर्यमिति
१०. तस्मै तृणं निदधावेतदादत्स्वेति
११. अथ इन्द्रमब्रुवन्
१२. स तस्मिन्नेवाकाशे स्त्रियमाजगाम
चतुर्थः खण्डः / अध्यायः ४. ।
१. सा ब्रह्मेति होवाच
२. तस्माद् वा एते देवाः अतितरामिव
३. तस्माद् वा इन्द्रः अतितरामिव
४. तस्यैष आदेशो यदेतद्विद्युतो
५. अथाध्यात्मं यदेतद् गच्छतीव च मनः
६. तद्ध तद्वनं नाम
७. उपनिषदं भो ब्रूहि
८. तस्यै तपो दमः कर्मेति
९. यो वा एतामेवं वेदापहृत्य
विचारभाष्यानुक्रमणिका
१. उपोद्घात-पद-भाष्यं ज्ञानाधिकारिनिरूपणम्, संन्यासकर्त्तव्यता, समुच्चयवादखण्डनं च (००१-००२)
२. उपोद्घात-वाक्य-भाष्यं अज्ञस्य कर्मारम्भत्वम्, आत्मनः कर्माविषयत्वं च (००३-००४)
३. ब्रह्मणः अहेयत्वानुपादेयत्वेन आत्माभिन्नत्वप्रतिपादनं (न तत्र । केन १.३) (००९-०१२)
४. प्रत्ययसाक्षितया ब्रह्मणोऽभेदप्रतिपादनं (प्रतिबोधविदितम् । केन २.४) (०२१-०२३)
५. ईश्वरसद्भावसिद्धिः, कर्मणः फलदातृत्वानुपपत्तिश्च (वाक्यभाष्य केन ३.१ उपोद्घात) (०२५-०३०)
६. तपःप्रभृतीनां ब्रह्मविद्यायाः अशेषत्वप्रतिपादनं सहकारिसाधनसम्बन्धत्वनिराकरणं च । (केन ४.७) (०३७-०३७)
केनोपनिषत् (१)
शान्तिपाठः (आप्यायन्तु)
ॐ आप्यायन्तु ममाङ्गानि । वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदम् । माऽहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरोत् । अनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
अध्याय १
पदभाष्यं
उपक्रमणिका
``केनेषितम्'' इत्याद्योपनिषत् पर-ब्रह्म-विषया वक्तव्या इति नवमस्याध्यायस्य आरम्भः । प्रागेतस्मात् कर्माण्यशेषतः परिसमापितानि, समस्त-कर्माश्रय-भूतस्य च प्राणस्य उपासनान्युक्तानि, कर्माङ्ग-विषयाणि च । अनन्तरं च गायत्र-साम-विषयं दर्शनं वंशान्तं उक्तं कार्यम् । सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्व-शुद्ध्यर्थं भवति । सकामस्य तु ज्ञान-रहितस्य केवलानि श्रौतानि स्मार्त्तानि च कर्माणि दक्षिण-मार्ग-प्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वादि-स्थावरान्ता अधो-गतिः स्यात् । ``अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्'' (छा. ५.१०.८) इति श्रुतेः । ``प्रजा ह तिस्रोऽत्यायमीयुः'' (ऐ.आ. २.१.१.४) इति च मन्त्र-वर्णात् ।
ज्ञानाधिकारि-निरूपणं
विशुद्ध-सत्त्वस्य तु निष्कामस्य एव बाह्यादनित्यात् साध्य-साधन-सम्बन्धाद् इह कृतात् पूर्वकृताद्वा संस्कार-विशेषोद्भवाद् विरक्तस्य प्रत्यगात्म-विषया जिज्ञासा प्रवर्त्तते । तदेतद्वस्तु प्रश्न-प्रतिवचन-लक्षणया श्रुत्या प्रदर्श्यते ``केनेषितम्'' इत्याद्या । काठके चोक्तं ``पराञ्चि खानि व्यतृणत्स्वयम्भूः तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्त-चक्षुरमृतत्वमिच्छन्'' (क. २.१.१) इत्यादि । ``परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्'' (मु. १.२.१२) इत्याद्याथर्वणे च ।
निवृत्ताज्ञानस्य कृत-कृत्यता-प्रदर्शनं
एवं हि विरक्तस्य प्रत्यगात्म-विषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते, नान्यथा । एतस्माच्च प्रत्यगात्म-ब्रह्म-विज्ञानात् संसार-बीजमज्ञानं काम-कर्म-प्रवृत्ति-कारणमशेषतो निवर्त्तते, ``तत्र को मोहः कः शोकः एकत्वमनुपश्यतः'' (ई. ७) इति मन्त्र-वर्णात् । ``तरति शोकमात्मवित्'' (छा. ७.१.३) इति, ``भिद्यते हृदय-ग्रन्थिः छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे'' (मु. २.२.८) इत्यादि-श्रुतिभ्यश्च ।
समुच्चयवादखण्डनं
आक्षेपः
कर्म-सहितादपि ज्ञानादेतत् सिध्यतीति चेत् ।
समाधानं
न, वाजसनेयके तस्यान्य-कारणत्व-वचनात् (२) । ``जाया मे स्यात्'' (बृ. १.४.१७) इति प्रस्तुत्य ``पुत्रेणायं लोको जय्यो, नान्येन कर्मणा, कर्मणा पितृ-लोको विद्यया देव-लोकः'' (बृ. १.५.१६) इत्यात्मनोऽन्यस्य लोक-त्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारिव्राज्य-विधाने हेतुरुक्तः ``किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः'' (बृ. ४.४.२२) इति । तत्रायं हेत्वर्थः - प्रजा-कर्म-तत्संयुक्त-विद्याभिर्मनुष्य-पितृ-देव-लोक-त्रय-साधनैरनात्म-लोक-प्रतिपत्ति-कारणैः किं करिष्यामः । न चास्माकं लोक-त्रयमनित्यं साधन-साध्यमिष्टम्, येषामस्माकं स्वाभाविकः अजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा, नो कनीयान्, नित्यश्च लोक इष्टः । स च नित्यत्वान्नाविद्या-निवृत्ति-व्यतिरेकेण अन्य-साधन-निष्पाद्यः । तस्मात् प्रत्यगात्म-ब्रह्म-विज्ञान-पूर्वकः सर्वैषणा-संन्यासः एव कर्त्तव्य इति ।
ज्ञानकर्मविरोधप्रदर्शनं
कर्म-सहभावित्व-विरोधाच्च प्रत्यगात्म-ब्रह्म-विज्ञानस्य । न ह्युपात्त-कारक-फल-भेद-विज्ञानेन कर्मणा प्रत्यस्तमित-सर्व-भेद-दर्शनस्य प्रत्यगात्म-ब्रह्म-विषयस्य सहभावित्वं उपपद्यते । वस्तु-प्राधान्ये सति (३) अपुरुष-तन्त्रत्वाद् ब्रह्म-विज्ञानस्य ।
प्रश्नप्रतिवचनरूपकथनतात्पर्यं
तस्माद् दृष्टादृष्टेभ्यो बाह्य-साधन-साध्येभ्यो विरक्तस्य प्रत्यगात्म-विषया ब्रह्म-जिज्ञासेयं ``केनेषितम्'' इत्यादि-श्रुत्या प्रदर्श्यते । शिष्याचार्य-प्रश्न-प्रतिवचन-रूपेण कथनं तु सूक्ष्म-वस्तु-विषयत्वात्, सुख-प्रतिपत्ति-कारणं भवति । केवल-तर्कागम्यत्वं च दर्शितं भवति । ``नैषा तर्केण मतिरापनेया'' (क १.२.९) इति श्रुतेश्च । ``आचार्यवान् पुरुषो वेद'' (छा. ६.१४.२) , ``आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्'' (छा. ४.९.३) इति । ``तद्विद्धि प्रणिपातेन'' (गी. ४.३४) इत्यादि-श्रुति-स्मृति-नियमाच्च कश्चिद् गुरुं ब्रह्म-निष्ठं विधिवदुपेत्य प्रत्यगात्म-विषयादन्यत्र शरणमपश्यन् अभयं नित्यं शिवमचलं इच्छन् पप्रच्छ इति कल्प्यते ॥
वाक्यभाष्यं
उपक्रमणिका
समाप्तं कर्मात्म-भूत-प्राण-विषयं विज्ञानं कर्म चानेकप्रकारम्, ययोर्विकल्प-समुच्चयानुष्ठानाद् दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्वं फल-निरपेक्ष-ज्ञान-कर्म-समुच्चयानुष्ठानात् कृतात्म-संस्कारस्य उच्छिन्नात्म-ज्ञान-प्रतिबन्धकस्य द्वैत-विषय-दोष-दर्शिनो निर्ज्ञाताशेष-बाह्य-विषयत्वात् संसार-बीजमज्ञानं उच्चिच्छित्सतः (४) प्रत्यगात्म-विषय-जिज्ञासोः ``केनेषितम्'' इत्यात्म-स्वरूप-तत्त्व-विज्ञानाय अयमध्यायः आरभ्यते । तेन च मृत्यु-पदमज्ञानम् (५) उच्छेत्तव्यं, तत्तन्त्रो हि संसारो यतः । अनधिगतत्वाद् आत्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा ।
ज्ञानकर्मविरोधः
कर्म-विषये चानुक्तिः (६) , तद्विरोधित्वात् । अस्य विजिज्ञासितव्यस्य आत्म-तत्त्वस्य कर्म-विषयेऽवचनम् । कस्मादिति चेद् आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशय-ब्रह्म-स्वरूपो ह्यात्मा विजिज्ञापयिषितः ``तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते'' (के. १.४) इत्यादि-श्रुतेः । न हि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति । अतो ब्रह्मास्मीति सम्बुद्धो न कर्म कारयितुं शक्यते । न ह्यात्मानं अवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिः । अतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्म-विषये अनुक्तिः, विज्ञान-विशेष-विषया एव जिज्ञासा ।
अज्ञस्य निष्कामस्य कर्मारम्भः, प्राप्तज्ञानस्य न
आक्षेपः
कर्मानारम्भ इति चेत्। (७)
समाधानं
न । निष्कामस्य संस्कारार्थत्वात् ।
आक्षेपस्य विवरणं
यदि ह्यात्म-विज्ञानेन आत्माविद्या-विषयत्वात् परितित्याजयिषितं (८) कर्म, ततः ``प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्'' (म.भा.वन. २.४९) इत्यनारम्भ एव कर्मणः श्रेयान् । अल्प-फलत्वाद् आयास-बहुलत्वात् तत्त्व-ज्ञानादेव च श्रेयः-प्राप्तेः इति चेत् ।
समाधानस्य विवरणं
सत्यम्, एतदविद्या-विषयं कर्म अल्प-फलत्वादि-दोषवद् बन्ध-रूपं च सकामस्य, ``कामान् यः कामयते (९) `` (मु. ३.२.२) , ``इति नु कामयमानः (संसरति) '' (बृ. ४.४.६) इत्यादि-श्रुतिभ्यः । न निष्कामस्य । तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकाश्रय-प्राण-विज्ञान-सहितानि (१०) । ``देवयाजी (११) श्रेयान् आत्मयाजी वा'' इत्युपक्रम्य आत्मयाजी तु करोति ``इदं मेऽनेनाङ्गं संस्क्रियते'' इति संस्कारार्थमेव कर्माणीति वाजसनेयके । ``महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः'' (मनु. २.२८) , ``यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्'' (गी. १८.५) इत्यादि-स्मृतेश्च । प्राणादि-विज्ञानं च केवलं, कर्म समुच्चितं वा, सकामस्य प्राणात्म-प्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्म-ज्ञान-प्रतिबन्ध-निर्मार्ष्ट्यै भवति, आदर्श-निर्मार्जनवत् । उत्पन्नात्म-विद्यस्य त्वनारम्भो निरर्थकत्वात् । ``कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः'' (म.भा.शां. २४२.७) इति । ``क्रियापथश्चैव पुरस्तात् संन्यासश्च तयोः सन्न्यास एवात्यरेचयत्'' इति, ``त्यागेनैके'' (कै. १.३) , ``नान्यः पन्था विद्यते'' (श्वे. ३.८) इत्यादि-श्रुतिभ्यश्च । न्यायाच्च, उपाय-भूतानि हि कर्माणि संस्कार-द्वारेण ज्ञानस्य । ज्ञानेन त्वमृतत्व-प्राप्तिः । ``विद्यया विन्दतेऽमृतम्'' (के. २.४) इत्यादि-श्रुति-स्मृतिभ्यश्च । न हि नद्याः पारगो नावं न मुञ्चति यथेष्ट-देश-गमनं प्रति स्वातन्त्र्ये सति ।
आत्मनः कर्माविषयत्वं
न हि स्वभाव-सिद्धं वस्तु सिषाधयिषति साधनैः । स्वभाव-सिद्धश्चात्मा । तथा न आपिपयिषितः । आत्मत्वे सति नित्याप्तत्वात् । नापि विचिकारयिषितः । आत्मत्वे सति नित्यत्वाद् अविकारित्वादविषयत्वादमूर्त्तत्वाच्च । श्रुतेश्च ``न वर्धते कर्मणा'' (बृ. ४.४.२३) इत्यादि । स्मृतेश्च ``अविकार्योऽयमुच्यते'' (गी. २.२५) इति । न च सञ्चिकीर्षितः ``शुद्धमपाप-विद्धम्'' (ई. ८) इत्यादि-श्रुतिभ्यश्च । अनन्यत्वाच्च । अन्येनान्यत्संस्क्रियते। (१२) न चात्मनोऽन्य-भूता क्रिया अस्ति, न च स्वेनैवात्मना स्वमात्मानं सञ्चिकीर्षेत् । न च वस्त्वन्तराधानं नित्यम् । प्राप्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्न-विद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्यावृत्त-बाह्य-बुद्धेः आत्म-विज्ञानाय ``केनेषितम्'' इत्याद्यारम्भः ॥
मन्त्र १
केनेषितं पतति प्रेषितं मनः । केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति । चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १.१॥
पदभाष्यं
केन इषितं केन कर्त्रा इषितं = इष्टं = अभिप्रेतं सद् मनः पतति (१३) गच्छति स्वविषयं प्रतीति सम्बध्यते । ``इषेः'' आभीक्ष्ण्यार्थस्य (१४) , गत्यर्थस्य च, इहासम्भवाद् इच्छार्थस्यैव एतद्रूपमिति गम्यते । इषितमिति इट्-प्रयोगस्तु च्छान्दसः । तस्यैव प्र-पूर्वस्य नियोगार्थे प्रेषितं इत्येतत् ।
इषित-प्रेषित-शब्द-द्वयार्थविचारः
तत्र प्रेषितमित्येवोक्ते प्रेषयितृ-प्रेषण-विशेष-विषयाकाङ्क्षा स्यात् - केन प्रेषयितृ-विशेषेण कीदृशं वा प्रेषणमिति । इषितमिति तु विशेषणे सति तदुभयं निवर्त्तते । कस्येच्छा-मात्रेण प्रेषितमित्यर्थ-विशेष-निर्धारणात् ।
आक्षेपः
यद्येषोऽर्थोऽभिप्रेतः स्यात् ``केनेषितम्'' इत्येतावतैव सिद्धत्वात् ``प्रेषितम्'' इति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्तमिति इच्छया, कर्मणा, वाचा वा, केन प्रेषितमित्यर्थ-विशेषोऽवगन्तुं युक्तः ।
समाधानं
न, प्रश्न-सामर्थ्यात् । देहादि-सङ्घातादनित्यात् कर्म-कार्याद् विरक्तः, अतोऽन्यत् कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथा इच्छा-वाक्कर्मभिर्देहादि-सङ्घातस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थकः एव स्यात् ।
आक्षेपः
एवमपि प्रेषित-शब्दस्यार्थो न प्रदर्शित एव ।
समाधानं
न, संशयवतोऽयं प्रश्नः इति प्रेषित-शब्दस्यार्थ-विशेष उपपद्यते । किं यथा-प्रसिद्धमेव कार्य-करण-सङ्घातस्य प्रेषयितृत्वं, किं वा सङ्घात-व्यतिरिक्तस्य स्वतन्त्रस्य इच्छा-मात्रेणैव मन-आदि-प्रेषयितृत्वं इत्यस्यार्थस्य प्रदर्शनार्थं ``केनेषितं पतति प्रेषितं मनः'' इति विशेषण-द्वयमुपपद्यते ।
मनःप्रभृतीनां पारतन्त्र्यप्रदर्शनं
आक्षेपः
ननु स्वतन्त्रं मनः स्व-विषये स्वयं पततीति प्रसिद्धम् । तत्र कथं प्रश्न उपपद्यते इति ।
समाधानं
उच्यते - यदि स्वतन्त्रं मनः प्रवृत्ति-निवृत्ति-विषये स्यात्, तर्हि सर्वस्य अनिष्ट-चिन्तनं न स्यात् । अनर्थं च जानन् सङ्कल्पयति । अत्युग्रदुःखे (१५) च कार्ये वार्यमाणमपि प्रवर्त्तत एव मनः । तस्माद्युक्त एव ``केनेषितम्'' इत्यादि-प्रश्नः ।
केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्व-व्यापारं प्रति । प्रथमः इति प्राण-विशेषणं स्यात्, तत्पूर्वकत्वात् सर्वेन्द्रिय-प्रवृत्तीनाम् । केन इषितां वाचं इमां शब्द-लक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते, प्रेरयति ॥ १.१॥
वाक्यभाष्यं
प्रवृत्ति-लिङ्गाद् विशेषार्थः प्रश्न उपपन्नः । रथादीनां (१६) हि चेतनावदधिष्ठितानां प्रवृत्तिर्दृष्टा । न अनधिष्ठितानाम् । मन-आदीनां च अचेतनानां प्रवृत्तिर्दृश्यते । तद्धि लिङ्गं चेतनावतः अधिष्ठातुरस्तित्वे । करणानि हि मन-आदीनि नियमेन प्रवर्त्तन्ते । तन्नासति चेतनावति अधिष्ठातरि उपपद्यते । तद्विशेषस्य च अनधिगमात् चेतनावत्सामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते ।
केनेषितं केनेष्टं कस्येच्छा-मात्रेण मनः पतति गच्छति, स्व-विषये नियमेन व्याप्रियत इत्यर्थः । मनुतेऽनेनेति विज्ञान-निमित्तमन्तःकरणं मनः । प्रेषितं इव इत्युपमार्थः । न तु इषित-प्रेषित-शब्दयोरर्थाविह सम्भवतः । न हि शिष्यान् इव मन-आदीनि विषयेभ्यः प्रेषयत्यात्मा । विविक्त-नित्य-चित्-स्वरूपतया तु निमित्त-मात्रं प्रवृत्तौ, नित्य-चिकित्साधिष्ठातृवत् (१७) । प्राणः इति नासिका-भवः, प्रकरणात् (१८) । प्रथमत्वं प्रचलन-क्रियायाः प्राण-निमित्तत्वात् । स्वतो विषयावभास-मात्रं करणानां प्रवृत्तिः । चलि-क्रिया तु प्राणस्यैव मन-आदिषु । तस्मात् प्राथम्यं प्राणस्य । प्रैति गच्छति । युक्तः प्रयुक्त इत्येतत् । वाचः वदनं किं-निमित्तम् । प्राणिनां चक्षुःश्रोत्रयोश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतनवान् यः स किं-विशेषणः इत्यर्थः ॥ (१.१)
मन्त्र २
पदभाष्यं
एवं पृष्टवते योग्यायाह गुरुः । श्रृणु यत् त्वं पृच्छसि, मन-आदि-करण-जातस्य को देवः स्व-विषयं प्रति प्रेरयिता, कथं वा प्रेरयति इति -
श्रोत्रस्य श्रोत्रं मनसो मनो यत् । वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य घीराः । प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १.२॥
पदभाष्यं
श्रोत्रस्य श्रोत्रं (१९) श्रृणोत्यनेनेति श्रोत्रम् । शब्दस्य श्रवणं प्रति करणम् । शब्दाभिव्यञ्जकं श्रोत्रं इन्द्रियम् । तस्य श्रोत्रं सः यस्त्वया पृष्टः ``चक्षुः श्रोत्रं क उ देवो युनक्ति'' इति ।
प्रतिवचनस्य अनुरूपत्वप्रदर्शनं
आक्षेपः
असावेवं-विशिष्टः श्रोत्रादीनि नियुङ्क्ते इति वक्तव्ये, नन्वेतदननुरूपं प्रतिवचनं ``श्रोत्रस्य श्रोत्रम्'' इति ।
समाधानं
नैष दोषः । तस्यान्यथा विशेषानवगमात् । यदि हि श्रोत्रादि-व्यापार-व्यतिरिक्तेन स्व-व्यापारेण विशिष्टः श्रोत्रादि-नियोक्ता अवगम्येत दात्रादि-प्रयोक्तृवत्, तदा इदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापार-विशिष्टो लवित्रादिवद् अधिगम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेण, आलोचन-सङ्कल्पाध्यवसाय-लक्षणेन, फलावसान-लिङ्गेन अवगम्यते - अस्ति हि श्रोत्रादिभिरसंहतः यत्प्रयोजन-प्रयुक्तः श्रोत्रादि-कलापो गृहादिवद् इति । संहतानां परार्थत्वादवगम्यते श्रोत्रादीनां प्रयोक्ता । तस्माद् अनुरूपमेवेदं प्रतिवचनं ``श्रोत्रस्य श्रोत्रम्'' इत्यादि ।
श्रोत्रस्य श्रोत्रमिति श्रोत्रादीनां प्रकाशकत्वं
आक्षेपः
कः पुनरत्र पदार्थः ``श्रोत्रस्य श्रोत्रम्'' इत्यादेः? न हि श्रोत्रस्य श्रोत्रान्तरेणार्थः (२०) , यथा प्रकाशस्य प्रकाशान्तरेण ।
समाधानं
नैष दोषः । अयमत्र पदार्थः - श्रोत्रं तावत् स्व-विषय-व्यञ्जन-समर्थं दृष्टम् । तच्च स्व-विषय-व्यञ्जन-सामर्थ्यं श्रोत्रस्य चैतन्ये ह्यात्म-ज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति । अतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते । तथा च श्रुत्यन्तराणि - ``आत्मनैवायं ज्योतिषाऽऽस्ते'' (बृ. ४.३.६) , ``तस्य भासा सर्वमिदं विभाति'' (क. २.२.१५, मु. २.२.१०, श्वे. ६.१४) , ``येन सूर्यस्तपति तेजसेद्धः'' (तै.ब्रा. ३.१२.९.७) इत्यादीनि । ``यदादित्य-गतं तेजो जगद्भासयतेऽखिलम्'' (गी. १५.१२) , ``क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत'' (गी. १३.३३) इति च गीतासु । काठके च ``नित्यो नित्यानां चेतनश्चेतनानाम्'' (क. २.२.१३) इति । श्रोत्राद्येव सर्वस्यात्म-भूतं चेतनमिति प्रसिद्धम् । तदिह निवर्त्यते । अस्ति किमपि विद्वद्-बुद्धि-गम्यं सर्वान्तरतमं कूटस्थं अजमजरममृतमभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्य-निमित्तम् (२१) इति प्रतिवचनं शब्दार्थश्च उपपद्यते एव ।
तथा मनसः अन्तःकरणस्य मनः। (२२) न हि अन्तःकरणमन्तरेण चैतन्य-ज्योतिषा दीपितं स्व-विषय-सङकल्पाध्यवसायादि-समर्थं स्यात् । तस्माद् मनसोऽपि मन इति । इह बुद्धि-मनसी एकीकृत्य निर्देशो मनस इति । यद् वाचो ह वाचम् । यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते । यस्माच्छ्रोत्रस्य श्रोत्रं, यस्मान्मनसो मन इत्येवम् ।
वाचो ह वागिति विभक्तिनिर्णयः
``वाचो ह वाचम्'' इति द्वितीया प्रथमात्वेन विपरिणम्यते, ``प्राणस्य प्राणः'' इति दर्शनात् । ``वाचो ह वाचम्'' इत्येतदनुरोधेन ``प्राणस्य प्राणम्'' इति कस्माद् द्वितीयैव न क्रियते? न, बहूनां अनुरोधस्य युक्तत्वात् । ``वाचम्'' इत्यस्य ``वाग्'' इत्येतावद्वक्तव्यं, ``सः उ प्राणस्य प्राणः'' इति शब्द-द्वयानुरोधेन (२३) । एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम् ।
स यस्त्वया पृष्टः प्राणस्य प्राणाख्य-वृत्ति-विशेषस्य प्राणः तत्कृतं हि प्राणस्य प्राणन-सामर्थ्यम् । न हि आत्मना अनधिष्ठितस्य प्राणनमुपपद्यते । ``को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्'' (तै.आ. २.७.१) , ``ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति'' (क. २.२.३) , इत्यादि-श्रुतिभ्यः । इहापि च वक्ष्यते ``येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि'' (के. १.८) इति ।
आक्षेपः
श्रोत्रादीन्द्रिय-प्रस्तावे घ्राणस्यैव ग्रहणं युक्तं, न तु प्राणस्य (२४) ।
समाधानं
सत्यमेवम्, प्राण-ग्रहणेनैव तु घ्राणस्य (२५) ।) ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव (२६) करण-कलापस्य यदर्थ-प्रयुक्ता प्रवृत्तिः तद् ब्रह्मेति प्रकरणार्थो विवक्षितः । तथा चक्षुषश्चक्षुः । रूप-प्रकाशकस्य चक्षुषो यद्रूप-ग्रहण-सामर्थ्यं तदात्म-चैतन्याधिष्ठितस्यैव । अतः चक्षुषश्चक्षुः ।
ज्ञात्वा-पद-अध्याहार-निरूपणं
प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादि-लक्षणं यथोक्तं ब्रह्म ``ज्ञात्वा'' इत्यध्याह्रियते । ``अमृताः भवन्ति'' इति फल-श्रुतेश्च । ज्ञानाद्ध्यमृतत्वं प्राप्यते । ``ज्ञात्वाऽतिमुच्य (२७) ``इति सामर्थ्यात् श्रोत्रादि-करण-कलापं उज्झित्वा । श्रोत्रादौ ह्यात्म-भावं कृत्वा तदुपाधिः सन् तदात्मना जायते, म्रियते, संसरति च । अतः ``श्रोत्रादेः श्रोत्रादि-लक्षणं ब्रह्म आत्मा'' इति विदित्वा अतिमुच्य श्रोत्राद्यात्म-भावं परित्यज्य ।
ये श्रोत्राद्यात्म-भावं परित्यजन्ति ते धीराः धीमन्तः । न हि विशिष्ट-धीमत्वमन्तरेण श्रोत्राद्यात्म-भावः शक्यः परित्यक्तुम् । प्रेत्य व्यावृत्य अस्माद् लोकात् पुत्र-मित्र-कलत्र-बन्धुषु ममाहम्भाव-संव्यवहार-लक्षणात् । त्यक्त-सर्वैषणा भूत्वा इत्यर्थः । अमृताः अमरण-धर्माणो भवन्ति । ``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः'' (कै. १.२) , ``पराञ्चि खानि व्यतृणत्स्वयम्भूः तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्त-चक्षुरमृतत्त्वमिच्छन्'' (क. २.१.१) , ``यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः... अत्र ब्रह्म समश्नुते'' (क. २.३.१४) इत्यादि-श्रुतिभ्यः ।
अथवा अतिमुच्य इत्यनेनैव एषणा-त्यागस्य सिद्धत्वात् अस्माल्लोकात् प्रेत्य अस्माच्छरीरादपेत्य, मृत्वेत्यर्थः ॥ १.२॥
वाक्यभाष्यं
``श्रोत्रस्य श्रोत्रम्'' इत्यादि प्रतिवचनं निर्विशेषस्य निमित्तत्वार्थम् (२८) । (२९) विक्रियादि-विशेष-रहितस्यात्मनो मन-आदि-प्रवृत्तौ निमित्तत्वं इत्येतत् ``श्रोत्रस्य श्रोत्रम्'' इत्यादि-प्रतिवचनार्थः, अनुगमात् । तदनुगतानि ह्यत्रास्मिन्नर्थेऽक्षराणि ।
कथम्? श्रृणोत्यनेनेति श्रोत्रम् । तस्य शब्दावभासकत्वं श्रोत्रत्वम् (३०) । शब्दोपलब्धृ-रूपतया अवभासकत्वं न स्वतः श्रोत्रस्य, अचिद्रूपत्वात् । आत्मनश्च चिद्रूपत्वात्, यच्छ्रोत्रस्य उपलब्धृत्वेन अवभासकत्वं तदात्म-निमित्तत्वात् ``श्रोत्रस्य श्रोत्रम्'' इत्युच्यते । यथा क्षत्रस्य क्षत्रम् (३१) । यथा वा उदकस्यौष्ण्यमग्नि-निमित्तमिति दग्धुरप्युदकस्य दग्धा अग्निरुच्यते । उदकमपि ह्यग्नि-संयोगादग्निरुच्यते तद्वत् । अनित्यं (३२) यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्य इव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वम्, अग्नौ इव औष्ण्यं, स नित्योपलब्धि-स्वरूपत्वाद् दग्धा इव उपलब्धोच्यते । श्रोत्रादिषु श्रोतृत्वाद्युपलब्धिः अनित्या, नित्या चात्मनि । अतः ``श्रोत्रस्य श्रोत्रम्'' इत्याद्यक्षरणां अर्थानुगमात् उपपद्यते निर्विशेषस्य उपलब्धि-स्वरूपस्यात्मनो मन-आदि-प्रवृत्ति-निमित्तत्वमिति । मन-आदिष्वेवं यथोक्तम् ।
``वाचो ह वाचं'' ``प्राणस्य प्राणः'' इति विभक्ति-द्वयं (३३) सर्वत्रैव द्रष्टव्यम् । कथम्? पृष्टत्वात् स्वरूप-निर्देशः, प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात् कर्मत्वमिति द्वितीया । अतो ``वाचो ह वाचं'' ``प्राणस्य प्राणः'' इत्यस्मात् सर्वत्रैव विभक्ति-द्वयम् ।
यदेतच्छ्रोत्राद्युपलब्धि-निमित्तं (३४) ``श्रोत्रस्य श्रोत्रम्'' इत्यादि-लक्षणं नित्योपलब्धि-स्वरूपं निर्विशेषमात्म-तत्त्वं तद् बुद्ध्वा अतिमुच्य अनवबोध-निमित्ताध्यारोपिताद् (३५) बुद्ध्यादि-लक्षणात् संसाराद् मोक्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्माल्लोकात् शरीरात् प्रेत्य वियुज्य अन्यस्मिन् अप्रतिसन्धीयमाने (३६) निर्निमित्तत्वाद् अमृताः भवन्ति । सति ह्यज्ञाने कर्माणि शरीरान्तरं प्रतिसन्दधते । आत्मावबोधे तु सर्व-कर्मारम्भ-निमित्ताज्ञान-विपरीत-विद्याग्नि-विप्लुष्टत्वात् (३७) कर्मणामिति (३८) अनारम्भेऽमृता एव भवन्ति । शरीरादि-सन्तानाविच्छेद-प्रतिसन्धानाद्यपेक्षया (३९) अध्यारोपित-मृत्यु-वियोगात् पूर्वमप्यमृताः सन्तो नित्यात्म-स्वरूपत्त्वात्, (४०) ``अमृता भवन्ति'' इत्युपचर्यते ॥ २॥
मन्त्र ३
यस्मात् श्रोत्रादेरपि श्रोत्राद्यात्म-भूतं ब्रह्म अतः -
न तत्र चक्षुर्गच्छति । न वाग्गच्छति ।
नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात् ।
अन्यदेव तद्विदितादथो अविदितादधि
इति शुश्रुम पूर्वेषां येनस्तद्व्याचचक्षिरे ॥ १.३॥
पदभाष्यं
न तत्र तस्मिन् ब्रह्मणि चक्षुर्गच्छति । स्वात्मनि गमनासम्भवात् । तथा न वाग्गच्छति । वाचा (४१) हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा, तदाऽभिधेयं प्रति वाग्गच्छति इत्युच्यते । तस्य च शब्दस्य तन्निर्वर्त्तकस्य च करणस्य आत्मा ब्रह्म । अतो न वाग्गच्छति । यथा अग्निर्दाहकः प्रकाशकश्चापि सन् न ह्यात्मानं प्रकाशयति दहति वा, तद्वत् । नो मनः मनश्चान्यस्य सङ्कल्पयितृ, अध्यवसायितृ च सद्, नात्मानं सङ्कल्पयति, अध्यवस्यति च, तस्यापि ब्रह्म आत्मेति । इन्द्रिय-मनोभ्यां हि वस्तुनो विज्ञानम् । तदगोचरत्वाद् न विद्मः तद्ब्रह्म ईदृशमिति । अतो न विजानीमः यथा येन प्रकारेण एतद् ब्रह्म अनुशिष्याद् उपदिशेत् शिष्यायेत्यभिप्रायः । यद्धि करण-गोचरं तदन्यस्मै उपदेष्टुं शक्यं जाति-गुण-क्रिया-विशेषणैः । न तज्जात्यादि विशेषणवद् ब्रह्म । तस्माद् विषमं शिष्यानुपदेशेन प्रत्याययितुमिति, उपदेशे तदर्थ-ग्रहणे च यत्नातिशय-कर्त्तव्यतां दर्शयति - न विद्म इत्यादि ।
आगमवाक्यस्य अवतरणिका
अत्यन्तमेव उपदेश-प्रकार-प्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैः न परः प्रत्याययितुं शक्यः, आगमेन तु शक्यत एव प्रत्याययितुमिति । तदुपदेशार्थमागममाह ``अन्यदेव तद्विदितादथो अविदितादधि'' इति ।
व्याकृताव्याकृताभ्यामन्यद् ब्रह्म
अन्यदेव पृथगेव तद् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमविषयश्च तेषां, तद् विदिताद् अन्यदेव हि । विदितं नाम यद्विदि-क्रियया अतिशयेनाप्तं तद्विदि-क्रिया-कर्म-भूतम् । क्वचित् किञ्चित् कस्यचित् विदितं स्यादिति सर्वमेव व्याकृतं विदितमेव । तस्मादन्यदेव इत्यर्थः । अविदितमज्ञातं तर्हि इति प्राप्ते आह - अथो अपि अविदिताद् विदित-विपरीतादव्याकृताविद्या-लक्षणाद् व्याकृत-बीजात्, अधि इति उपर्यर्थे, लक्षणया अन्यदित्यर्थः । यद्धि यस्मादधि उपरि भवति, तत् तस्माद् अन्यदिति प्रसिद्धम् ।
हेयोपादेयव्यतिरिक्तत्वप्रतिपादनद्वारा ब्रह्मणः आत्माभिन्नत्व-प्रतिपादनं
यद्विदितं तदल्पं, मर्त्यं, दुःखात्मकं च (छा. ७.२४.१) इति हेयम् । (४२) तस्माद् विदितादन्यद् ब्रह्म इत्युक्ते (४३) त्वहेयत्वमुक्तम् । तथा अविदितादधि इत्युक्तेऽनुपादेयत्वमुक्तं स्यात्। (४४) कार्यार्थं हि कारणमन्यदन्येन उपादीयते । अतश्च (४५) न वेदितुः अन्यस्मै प्रयोजनाय अन्यदुपादेयं भवतीति । एवं विदिताविदिताभ्यामन्यदिति हेयोपादेय-प्रतिषेधेन स्वात्मनोऽनन्यत्वाद् ब्रह्म-विषया जिज्ञासा शिष्यस्य निवर्त्तिता (४६) स्यात् । न हि अन्यस्य स्वात्मनो विदिताविदिताभ्यामन्यत्वं वस्तुनः सम्भवति इत्यात्मा ब्रह्म इत्येष वाक्यार्थः । ``अयमात्मा ब्रह्म'' (मा. २) , ``य आत्मा अपहतपाप्मा'' (छा. ८.७.१) , ``यत्साक्षादपरोक्षाद् ब्रह्म'' (बृ. ३.४.१) , ``य आत्मा सर्वान्तरः'' (बृ. ३.४.१) इत्यादि-श्रुत्यन्तरेभ्यश्चेति ।
प्रत्यगात्मब्रह्मैक्योपदेशःसम्प्रदायागतः
एवं सर्वात्मनः सर्व-विशेष-रहितस्य चिन्मात्र-ज्योतिषो ब्रह्मत्व-प्रतिपादकस्य वाक्यार्थस्य आचार्योपदेश-परम्परया प्राप्तत्वमाह - इति शुश्रुमेत्यादि । ब्रह्म च एवं आचार्योपदेश-परम्परया एवाधिगन्तव्यं न तर्कतः, प्रवचन-मेधा-बहुश्रुत-तपो-यज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषां आचार्याणां वचनम् । ये आचार्याः नः अस्मभ्यं ब्रह्म व्याचचक्षिरे व्याख्यातवन्तो विस्पष्टं कथितवन्तः, तेषामित्यर्थः ॥ १.३॥
वाक्यभाष्यं
न तत्र चक्षुर्गच्छति इति उक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः (४७) । ``श्रोत्रस्य श्रोत्रम्'' इत्येवमादिना उक्तेऽप्यात्म-तत्त्वेऽप्रतिपन्नत्वात् सूक्ष्मत्व-हेतोः वस्तुनः पुनः पुनः पर्यनुयुयुक्षा (४८) -कारणं (दुर्विज्ञेयत्वम्) आह (४९) - न तत्र चक्षुर्गच्छति इति । तत्र श्रोत्राद्यात्म-भूते चक्षुरादीनि - वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वाद् - न विज्ञानमुत्पादयन्ति । सुखादिवत् तर्हि गृह्येत अन्तः-करणेनात आह - नो मनः । न सुखादिवद् मनसो विषयस्तत् । इन्द्रियाविषयत्वात् (५०) ।
न विद्मो न विजानीमः अन्तःकरणेन यथा एतद् ब्रह्म मन-आदि-करण-जातं अनुशिष्याद् अनुशासनं कुर्यात्, प्रवृत्ति-निमित्तं भवेत् तथा, अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादि-लक्षणं ब्रह्म विशेषेण दर्शय इत्युक्तः आचार्य आह - न शक्यते दर्शयितुम् । कस्मात्? न तत्र चक्षुर्गच्छति इत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्यादिति । यथैतद् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्यान् इतोऽन्येन विधिनेत्यभिप्रायः ।
सर्वथापि ब्रह्म बोधय इत्युक्त आचार्य आह - अन्यदेव तद्विदितादथो अविदितादधि इत्यागमं, विदिताविदिताभ्यामन्यत्वम् । यो हि ज्ञाता स एव सः (५१) , सर्वात्मकत्वात् (५२) । अतः सर्वात्मनो ज्ञातुर्ज्ञात्रन्तराभावाद् विदितादन्यत्वम् । ``स वेत्ति वेद्यं न च तस्यास्ति वेत्ता'' (श्वे. ३.१९) इति च मन्त्र-वर्णात् । ``विज्ञातारमरे केन विजानीयात्'' (बृ. २.४.१४) इति च वाजसनेयके । अपि च व्यक्तमेव (५३) विदितं, तस्मादन्यद् इत्यभिप्रायः । यद्विदितं व्यक्तं तदन्य-विषयत्वादल्पं सविरोधं, ततोऽनित्यम्, अत एवानेकत्वादशुद्धम्, अत एव तद्विलक्षणं (५४) ब्रह्म इति सिद्धम् ।
आक्षेपः
अस्तु तर्ह्यविदितम् ।
सङ्क्षिप्त-समाधानं
न, विज्ञानानपेक्षत्वात् ।
समाधानस्य विवरणं
यद्ध्यविदितं तद्विज्ञानापेक्षम् । अविदित-विज्ञानाय हि लोक-प्रवृत्तिः । इदं तु विज्ञानानपेक्षम् । कस्मात्? विज्ञान-स्वरूपत्वात् । न हि यस्य यत्स्वरूपं तत्तेनान्यतोऽपेक्ष्यते । न च स्वत एवापेक्षा अनपेक्षमेव (५५) सिद्धत्वात् । प्रदीपः स्वरूपाभिव्यक्तौ न प्रकाशान्तरमन्यतोऽपेक्ष्यते स्वतो वा । यद्ध्यनपेक्षं (५६) तत्स्वत एव सिद्धम् । प्रकाशात्मकत्वात् प्रदीपस्य (५७) अपेक्षितोऽप्यनर्थकः स्यात्, प्रकाशे विशेषाभावात् । न हि प्रदीपस्य स्वरूपाभिव्यक्तौ प्रदीप-प्रकाशोऽर्थवान् । न च एवमात्मनोऽन्यत्र विज्ञानं अस्ति, येन स्वरूप-विज्ञानेऽप्यपेक्ष्यते (५८) ।
सङ्क्षिप्ताक्षेपः (विवरणमधस्तात्)
विरोध इति चेत् ।
सङ्क्षिप्त-समाधानं (विवरणमधस्तात्)
न, अन्यत्वात् ।
आक्षेपस्य विवरणं
स्वरूप-विज्ञाने विज्ञान-स्वरूपत्वाद् विज्ञानान्तरं नापेक्षत इत्येतदसत् । दृश्यते हि विपरीत-ज्ञानम् (५९) आत्मनि सम्यग्ज्ञानं च । न जानाम्यात्मानमिति । श्रुतेश्च ``तत्त्वमसि'' (छा. ६.८.७) , ``आत्मानमेवावेत्'' (बृ. १.४.१०) , ``एतं वै तमात्मानं विदित्वा'' (बृ. ३.५.१) इति च सर्वत्र श्रुतिषु आत्म-विज्ञाने विज्ञानान्तरापेक्षत्वं दृश्यते । तस्मात् प्रत्यक्ष-श्रुति-विरोधः (६०) इति चेत् ।
समाधानस्य विवरणं
न, कस्मात्? अन्यो हि स आत्मा बुद्ध्यादि-कार्य-करण-सङ्घाताभिमान-सन्तानाविच्छेद-लक्षणोऽविवेकात्मको बुद्ध्यवभास-प्रधानः चक्षुरादि-करणो नित्य-चित्स्वरूपात्मान्तःसारो यत्रानित्यं विज्ञानमवभासते । बौद्ध-प्रत्ययानां आविर्भाव-तिरोभाव-धर्मकत्वात् तद्धर्मतयैव विलक्षणमपि चावभासते । अन्तः-करणस्य (६१) मनसोऽपि मनोऽन्तर्गतत्वात् सर्वान्तर-श्रुतेः (६२) । अन्तर्गतेन नित्य-विज्ञान-स्वरूपेण आकाशवद् अप्रचलितात्मना अन्तर्गर्भ-भूतेन बाह्यो बुद्ध्यात्मा तद्विलक्षणः, अर्चिभिः इव अग्निः प्रत्ययैराविर्भाव-तिरोभाव-धर्मकैर्विज्ञानाभास-रूपैः अनित्यैः अनित्य-विज्ञानः, आत्मा, सुखी, दुःखी, इत्यभ्युपगतो लौकिकैः (६३) । अतोऽन्यो नित्य-विज्ञान-स्वरूपादात्मनः । तत्र (६४) हि विज्ञानापेक्षा विपरीत-ज्ञानत्वं चोपपद्यते, न पुनः नित्य-विज्ञाने ।
बोधोपदेशस्य अध्यासनिरासार्थत्वं
आक्षेपः
``तत्त्वमसि'' इति बोधोपदेशो न उपपद्यते इति चेत् । ``आत्मानमेवावेत्'' (बृ. १.४.१०) इत्येवमादीनि च नित्य-बोधात्मकत्वात् । न हि आदित्योऽन्येन प्रकाश्यते । अतः तदर्थ-बोधोपदेशः अनर्थक इति चेत् ।
समाधानं
न, लोकाध्यारोपापोहार्थत्वात् । सर्वात्मनि हि नित्य-विज्ञाने बुद्ध्याद्यनित्य-धर्माः (६५) लोकैरध्यारोपिता आत्माविवेकतः । तदपोहार्थो बोधोपदेशो बोधात्मनः । तत्र (६६) च बोधाबोधौ समञ्जसो । अन्य-निमित्तत्वाद् (६७) उदक इव औष्ण्यं अग्नि-निमित्तं, रात्र्यहनी इव आदित्य-निमित्ते । लोके नित्यावौष्ण्य-प्रकाशावग्न्यादित्ययोः अन्यत्र (६८) भावाभावयोः निमित्तत्वाद् अनित्यौ इव उपचर्येते । धक्षत्यग्निः, प्रकाशयिष्यति सविता, इति तद्वत् । एवं च सुख-दुःख-बन्ध-मोक्षाद्यध्यारोपो लोकस्य, तदपेक्ष्य ``तत्त्वमसि'', (छा. ६.८.७) ``आत्मानमेवावेत्'', (बृ. १.४.१०) इत्यात्मावबोधोपदेशेन श्रुतयः केवलं अध्यारोपापोहार्थाः । यथा सविताऽसौ प्रकाशयति आत्मानम् (६९) इति तद्वद् बोधाबोध-कर्त्तृत्वं (७०) च नित्य-बोधात्मनि । तस्माद् (७१) अन्यदविदितात् । अधि-शब्दश्च अन्यार्थे । यद्वा यद्धि यस्याधि तत्ततोऽन्यत् सामर्थ्यात् (७२) । यथा अधि भृत्यादीनां राजा । अव्यक्तमेव अविदितं ततोऽन्यदित्यर्थः ।
विदितमविदितं च व्यक्ताव्यक्ते कार्य-कारणत्वेन विकल्पिते । ताभ्यामन्यद् ब्रह्म विज्ञान-स्वरूपं सर्व-विशेष-प्रत्यस्तमितमित्ययं समुदायार्थः । अत एवात्मत्वाद् न हेय उपादेयो वा (७३) । अन्यद् हि अन्येन हेयमुपादेयं वा । न तेनैव (७४) तद् यस्य कस्यचिद् हेयमुपादेयं वा भवति । आत्मा च ब्रह्म सर्वान्तरात्मत्वाद् अविषयम् । अतः (७५) अन्यस्यापि न हेयमुपादेयं वा । अन्याभावाच्च (७६) ।
इति शुश्रुम पूर्वेषां इत्यागमोपदेशः । व्याचचक्षिरे इत्यस्वातन्त्र्यं तर्क-प्रतिषेधार्थम् । ये नः तद् ब्रह्म उक्तवन्तः ते नित्यमेवागमं ब्रह्म-प्रतिपादकं व्याख्यातवन्तः, न पुनः स्व-बुद्धि-प्रभवेण तर्केण उक्तवन्त इत्यागम-पारम्पर्याविच्छेदं दर्शयति विद्या-स्तुतये । तर्कस्तु अनवस्थिताः (ब्र.सू. २.१.११) भ्रान्तोऽपि भवति इति ॥ ३॥
मन्त्र ४
पदभाष्यावतरणिका
``अन्यदेव तद्विदितादथो अविदितादधि'' इत्यनेन वाक्येन ``आत्मा ब्रह्म'' इति प्रतिपादिते श्रोतुराशङ्का जाता - तत्कथं न्वात्मा ब्रह्म? आत्मा हि नामाधिकृतः कर्मण्युपासने च, संसारी, कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादि-देवान् स्वर्गं वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यः ``विष्णुः'' ``ईश्वरः'' ``इन्द्रः'' च ``प्राणः'' वा ब्रह्म भवितुमर्हति, नत्वात्मा । लोक-प्रत्यय-विरोधात् । यथा अन्ये तार्किकाः ``ईश्वरादन्य आत्मा'' इत्याचक्षते तथा कर्मिणः ``अमुं यज, अमुं यज'' इत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद् ब्रह्म भवेत् । ततोऽन्य उपासकः इति । तामेतामाशङ्कां शिष्य-लिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह, मैवं शङ्किष्ठाः -
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.४॥
पदभाष्यं
यत् चैतन्य-मात्र-सत्ताकम्, वाचा वागिति जिह्वामूलादिष्वष्टसु (७७) स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणम् । वर्णाश्च अर्थ-सङ्केत-परिच्छिन्ना एतावन्त एवं क्रम-प्रयुक्ता इति । एवं तदभिव्यङ्ग्यः (७८) शब्दः पदं वागिति उच्यते । ``अकारौ वै सर्वा वाक्, सैषा स्पर्श (७९) -अन्तःस्थ (८०) -ऊष्मभिः (८१) व्यज्यमाना बह्वी नाना-रूपा भवति'' (ऐ.आ. २.३.७.१३) इति श्रुतेः । मितम् (८२) अमितं (८३) स्वरः (८४) सत्यानृते (८५) एष विकारो यस्यास्तया वाचा पदत्वेन परिच्छिन्नया करण-गुणवत्या अनभ्युदितं अप्रकाशितमनभ्युक्तम् । येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाग् अभ्युद्यते चैतन्य-ज्योतिषा प्रकाश्यते प्रयुज्यते इत्येतत् । ``यद्वाचो ह वाग्'' इत्युक्तम् । ``वदन्वाक्'' (बृ. १.४.७) , ``यो वाचमन्तरो यमयति'' (बृ. ३.७.१७) , इत्यादि च वाजसनेयके । ``या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः'' इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तं ``सा वाग्यया स्वप्ने भाषते (८६) ``इति । सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्य-ज्योतिः-स्वरूपा । ``न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते'' (बृ. ४.३.२६) इति श्रुतेः । तदेव आत्म-स्वरूपं ब्रह्म निरतिशयं भूमाख्यं, बृहत्त्वात् ब्रह्मेति विद्धि विजानीहि त्वम् । यैर्वागाद्युपाधिभिः वाचो ह वाक्, चक्षुषश्चक्षुः, श्रोत्रस्य श्रोत्रं, मनसो मनः, कर्त्ता, भोक्ता, विज्ञाता, नियन्ता, प्रशासिता, विज्ञानमानन्दं ब्रह्म, इत्येवमादयः संव्यवहाराः असंव्यवहारे निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्त्तन्ते तान् व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एव-शब्दार्थः । नेदं ब्रह्म यदिदं इत्युपाधि-भेद-विशिष्टं अनात्मेश्वरादि उपासते ध्यायन्ति । ``तदेव ब्रह्म त्वं विद्धि'' इत्युक्तेऽपि (८७) ``नेदं ब्रह्म'' इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते, नियमार्थम् (८८) , अन्य-ब्रह्म-बुद्धि-परिसङ्ख्यानार्थं (८९) वा ॥ १.४॥
वाक्यभाष्यं
वागविषयत्वं वाक्प्रकाशकत्वं च ब्रह्म
यद्वाचा इति मन्त्रानुवादो (९०) दृढ-प्रतीतेः । ``अन्यदेव तद्विदितात्'' इति योऽयमागमार्थो ब्राह्मणोक्तोऽस्यैव द्रढिम्ने मन्त्राः ``यद्वाचा'' इत्यादयः पठ्यन्ते । यद् ब्रह्म वाचा शब्देन अनभ्युदितं अनभ्युक्तं अप्रकाशितमित्येतत् । येन वाग् अभ्युद्यते इति वाक्प्रकाश-हेतुत्वोक्तिः । येन प्रकाश्यते इति वाचोऽभिधानस्य अभिधेय-प्रकाशकत्वस्य हेतुत्वमुच्यते (९१) ब्रह्मणः । उक्तं च ``केनेषितां वाचमिमां वदन्ति'', ``यद्वाचो ह वाचम्'' इति । ``तदेव ब्रह्म त्वं विद्धि'' इत्यविषयत्वेन ब्रह्मण आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं, वाक्प्रकाश-निमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तर-जिघृक्षां (९२) निवर्त्य स्वात्मन्येव अवस्थापयति आम्नायः, ``तदेव ब्रह्म त्वं विद्धि'' इति यत्नतः (९३) उपरमयति, ``नेदम्'' इत्युपास्य-प्रतिषेधाच्च (९४) ॥ ४॥
मन्त्र ५
यन्मनसा न मनुते । येनाहुर्मनोमतम् ।
तदेव ब्रह्म त्वं विद्धि । नेदं यदिदमुपासते ॥ १.५॥
पदभाष्यं
यत्२.१ मनसा न मनुते । मनः इत्यन्तःकरणं बुद्धि-मनसोरेकत्वेन गृह्यते । मनुतेऽनेन इति मनः, सर्व-करण-साधारणं (९५) , सर्व-विषय-व्यापकत्वात् । ``कामः (९६) सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा, धृतिरधृतिर्ह्रीर्धीरित्येतत् सर्वं मन एव'' (बृ. १.५.३) इति श्रुतेः कामादि-वृत्तिमन्मनः । तेन मनसा यत् चैतन्य-ज्योतिर्मनसोऽवभासकं न मनुते न सङ्कल्पयति, नापि निश्चिनोति (९७) , मनसोऽवभासकत्वेन (९८) नियन्तृत्वात् । सर्व-विषयं प्रति (९९) प्रत्यगेवेति स्वात्मनि न प्रवर्त्ततेऽन्तः-करणम् । अन्तःस्थेन हि चैतन्य-ज्योतिषा अवभासितस्य मनसो मनन-सामर्थ्यम् । तेन (१००) सवृत्तिकं मनः येन ब्रह्मणा मतं विषयी-कृतं व्याप्तं आहुः कथयन्ति ब्रह्म-विदः । तस्मात् तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्रह्म विद्धि । नेदं इत्यादि पूर्ववत् ॥ १.५॥
वाक्यभाष्यं
यन्मनसा इत्यादि समानम् । मनो मतं इति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्य-विज्ञान-स्वरूपेण इत्येतत् । सर्वकरणानामविषयं तानि (१०१) च सव्यापाराणि सविषयाणि नित्य-विज्ञान-स्वरूपावभासतया येनावभास्यन्ते (१०२) इति श्लोकार्थः । ``क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति'' (गी. १३.३३) इति स्मृतेः । ``तस्य भासा'' (मु. २.२.१०) इति चाथर्वणे ॥ ५॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि । नेदं यदिदमुपासते ॥ १.६॥
पदभाष्यं
यत्२.१ चक्षुषा न पश्यति न विषयी-करोति अन्तः-करण-वृत्ति-संयुक्तेन (१०३) लोकः । येन चक्षूंषि (१०४) अन्तः-करण-वृत्ति-भेद-भिन्नाः (१०५) चक्षुर्वृत्तीः२.३ पश्यति (१०६) लोकः चैतन्यात्म-ज्योतिषा विषयी-करोति व्याप्नोति । तदेव इत्यादि पूर्ववत् ॥ १.६॥
यच्छ्रोत्रेण न श्रृणोति । येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि । नेदं यदिदमुपासते ॥ १.७॥
पदभाष्यं
यत् यत्२.१ श्रोत्रेण न श्रृणोति दिग्देवताधिष्ठितेन आकाश-कार्येण मनो-वृत्ति-संयुक्तेन न विषयी-करोति लोकः । येन श्रोत्रमिदं श्रुतं यत्प्रसिद्धं (१०७) चैतन्यात्म-ज्योतिषा विषयी-कृतं (१०८) । तदेव इत्यादि पूर्ववत् ॥ १.७॥
यत्प्राणेन न प्राणिति । येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि । नेदं यदिदमुपासते ॥ १.८॥
पदभाष्यं
यत् प्राणेन ध्राणेन पार्थिवेन नासिका-पुटान्तरवस्थितेन अन्तः-करण-प्राण-वृत्तिभ्यां सहितेन यद् न प्राणिति गन्धवन्न विषयी-करोति । येन चैतन्यात्म-ज्योतिषा अव-भास्यत्वेन स्व-विषयं प्रति प्राणः प्रणीयते । तदेव इत्यादि सर्वं समानम् ॥ १.८॥
वाक्यभाष्यं
``येन प्राणः'' इति क्रिया-शक्तिरप्यात्म-विज्ञान-निमित्तेत्यतत् ॥ ६-८॥
॥ इति प्रथमः खण्डः ॥
अध्याय २
मन्त्र १
एवं ``हेयोपादेय-विपरीतः त्वमात्मा ब्रह्म'' इति प्रत्यायितः शिष्यः ``अहमेव ब्रह्म इति सुष्ठु वेदाहं माम्'' इति गृह्णीयाद् इत्याशङ्क्य (१०९) आचार्यः शिष्य-बुद्धि-विचालनार्थं यदीत्याह ।
ब्रह्मणोऽवेद्यत्वे हेतुः
आक्षेपः
ननु इष्टैव सुवेदाहमिति निश्चिता प्रतिपत्तिः ।
समाधानं
सत्यं इष्टा निश्चिता प्रतिपत्तिः, न हि सुवेदाहमिति । यद्धि वेद्यं वस्तु विषयीभवति, तत् सुष्ठु वेदितुं शक्यम् । दाह्यं इव दग्धुं अग्नेर्दग्धुः, न त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्व-वेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्न-प्रतिवचनोक्त्या ``श्रोत्रस्य श्रोत्रम्'' इत्याद्यया । ``यद्वाचानभ्युदितम्'' इति च विशेषतः अवधारितम् । ब्रह्मवित्सम्प्रदाय-निश्चयश्चोक्तः ``अन्यदेव तद्विदितादथो अविदितादधि'' इति । उपन्यस्तमुपसंहरिष्यति च ``अविज्ञातं विजानतां विज्ञातं अविजानताम्'' इति । तस्माद्युक्तमेव शिष्यस्य ``सुवेद'' इति बुद्धिं निराकर्त्तुम् ।
न हि वेदिता वेदितुः (११०) वेदितुं शक्योऽग्निः इव दग्धुमग्नेः दग्धुः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत् स्याद् ब्रह्म । ``नान्यदतोऽस्ति विज्ञातृ'' (बृ. ३.८.११) इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात् ``सुष्ठु वेदाहं ब्रह्म'' इति प्रतिपत्तिर्मिथ्यैव । तस्माद् युक्तमेवाहाचार्यो यदीत्यादि -
यदि मन्यसे सुवेदेति दहरमेवापि (१११) नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं
यदस्य देवेषु । अथ नु मीमांस्यमेव ते । मन्ये विदितम् ॥ २.१॥
यदि मन्यसे इत्यस्य प्रयोग-कारण-द्वारा ब्रह्मप्रतिपत्तेः प्रतिबन्धदर्शनः
पदभाष्यं
यदि कदाचिद् मन्यसे सुवेदेति ``सुष्ठु वेदाहं ब्रह्म'' इति । कदाचिद् यथा-श्रुतं दुर्विज्ञेयमपि क्षीण-दोषः सुमेधाः कश्चित् प्रतिपद्यते, कश्चिन्न, इति साशङ्कमाह ``यदि'' इत्यादि । दृष्टं च ``य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच । एतदमृतमभयं एतद् ब्रह्म'' (छा. ८.७.४) इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुर-राड् विरोचनः स्वभाव-दोष-वशाद् अनुपपद्यमानमपि विपरीतमर्थं ``शरीरमात्मा'' इति प्रतिपन्नः । तथेन्द्रो देव-राट् सकृद् द्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभाव-दोष-क्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद् गुरोः श्रृण्वतां कश्चिद्यथावत् प्रतिपद्यते, कश्चिदयथावत्, कश्चिद्विपरीतं, कश्चिन्न प्रतिपद्यते । किमु वक्तव्यं अतीन्द्रियमात्म-तत्त्वं (११२) । अत्र हि विप्रतिपन्नाः सदसद्वादिनः तार्किकाः सर्वे । तस्माद् ``विदितं ब्रह्म'' (११३) इति सुनिश्चितोक्तमपि विषम-प्रतिपत्तित्वाद् (११४) ``यदि मन्यसे'' इत्यादि साशङ्कं वचनं युक्तमेव आचार्यस्य ।
दहरं अल्पं एव अपि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् ।
ब्रह्मण औपाधिकभेदनिरूपणं स्वतो निर्धर्मकत्वप्रतिपादनं च
आक्षेपः
किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च, येनाह दहरमेवेत्यादि?
समाधानं
बाढम् । अनेकानि हि नाम-रूपोपाधि-कृतानि ब्रह्मणो रूपाणि, न स्वतः । स्वतस्तु ``अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्'' (क. १.३.१५ नृ.उ.ता. ९, मुक्तिकोप. २.७२) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते ।
आक्षेपः
ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्याद् अतः (११५) उच्यते । चैतन्यं (११६) पृथिव्यादीनां अन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति । तथा श्रोत्रादीनामन्तः-करणस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा चोक्तं ``विज्ञानमानन्दं ब्रह्म'' (बृ. ३.९.२८) , ``विज्ञान-घन एव'' (बृ. २.४.१२) , ``सत्यं ज्ञानमनन्तं ब्रह्म'' (तै. २.१.१) , ``प्रज्ञानं ब्रह्म'' (ऐ. ३.१.३) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु ।
समाधानं
सत्यमेवम् । तथापि तद् अन्तःकरण-देहेन्द्रियोपाधि-द्वारेणैव विज्ञानादि-शब्दैर्निर्दिश्यते, तदनुकारित्वाद् देहादि-वृद्धि-सङ्कोचोच्छेदादिषु नाशेषु च, न स्वतः । स्वतस्तु ``अविज्ञातं विजानतां विज्ञातमविजानताम्'' (के. २.३) इति स्थितं भविष्यति ।
यद् अस्य ब्रह्मणो रूपमिति पूर्वेण सम्बन्धः । न केवलमध्यात्मोपाधि-परिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वं अल्पं वेत्थ, यद् अपि अधिदैवतोपाधि-परिच्छिन्नस्य अस्य ब्रह्मणो रूपं देवेषु वेत्थ त्वं, तदपि नूनं दहरमेव वेत्थ इति मन्येऽहम् । यदध्यात्मं यदधिदैवं (११७) तदपि च देवेषु उपाधि-परिच्छिन्नत्वाद् दहरत्वाद् न निवर्त्तते । यत्तु विध्वस्त-सर्वोपाधि-विशेषं शान्तं अनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म न तत् सुवेद्यमित्यभिप्रायः । यत एवं अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यं एव ते तव ब्रह्म ।
एवमाचार्योक्तः शिष्य एकान्ते उपविष्टः समाहितः सन् यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कतश्च निर्धार्य स्वानुभवं कृत्वा, आचार्य-सकाशमुपगम्य, उवाच - मन्ये अहं अथेदानीं विदितं ब्रह्मेति ॥ २.१॥
वाक्यभाष्यं
सूत्रवाक्यं
``यदि मन्यसे सुवेद'' इति शिष्य-बुद्धि-विचालना गृहीत-स्थिरतायै ।
विवरणवाक्यं
विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य, स्वात्मन्यवस्थाप्य, ``तदेव ब्रह्म त्वं विद्धि'' इति स्वाराज्ये (११८) अभिषिच्य उपास्य-प्रतिषेधेन, अथास्य बुद्धिं विचालयति ।
यदि मन्यसे सुवेद अहं ब्रह्म इति त्वं, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वं इति नूनं निश्चितं मन्यते इत्याचार्यः (११९) । सा पुनः विचालना किमर्था? इत्युच्यते - पूर्व-गृहीते वस्तुनि बुद्धेः स्थिरतायै ।
देवेषु अपि ``सुवेदाहम्'' इति मन्यते यः, सोऽपि अस्य ब्रह्मणो रूपं दहरमेव वेत्ति नूनम् । कस्मात्? अविषयत्वात् कस्यचिद् ब्रह्मणः । अथवा अल्पमेवास्य आध्यात्मिकं मनुष्येषु (१२०) , देवेषु च आधिदैविकम्, अस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः (१२१) ।
सूत्रवाक्यं
अथ नु-इति हेतुः मीमांसायाः ।
विवरणवाक्यं
यस्माद् दहरमेव सुविदितं ब्रह्मणो रूपम्, अन्यदेव तद्विदिताद् इत्युक्तत्वात् । सुवेदेति च मन्यसे । अतोऽल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मादथ नु तस्माद् मीमांस्यं एव अद्यापि ते तव ब्रह्म । विचार्यमेव यावद् विदिताविदित-प्रतिषेधागमार्थानुभव इत्यर्थः ।
सूत्रवाक्यं
``मन्ये विदितम्'' इति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्यय-त्रय-सङ्गतेः ।
विवरणवाक्यं
सम्यग्वस्तु-निश्चयाय विचालितः शिष्यः, आचार्येण मीमांस्यमेव त इति चोक्तः, एकान्ते समाहितो भूत्वा विचार्य, यथोक्तं सुपरिनिश्चितः सन् आह आगमाचार्यात्मानुभव-प्रत्यय-त्रयस्य एक-विषयत्वेन सङ्गत्यर्थम् । एवं हि सुपरिनिष्ठिता विद्या सफला स्याद्, न अनिश्चितेति न्यायः प्रदर्शितो भवति । ``मन्ये विदितम्'' इति परिनिष्ठित-निश्चित-विज्ञान-प्रतिज्ञा-हेतूक्तेः ॥ १॥
मन्त्र २
कथमिति श्रृणु -
नाहं (१२२) मन्ये सुवेदेति । नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद । नो न वेदेति वेद च ॥ २.२॥
पदभाष्यं
न अहं मन्ये सुवेदेति । नैवाहं मन्ये सुवेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्ते आह - नो न वेदेति, वेद च । ``वेद च'' इति च-शब्दाद् ``न वेद च'' ।
गुरुः
ननु विप्रतिषिद्धं ``नाहं मन्ये सुवेद'' इति, ``नो न वेद'' इति, ``वेद च'' इति । यदि ``न मन्यसे सुवेद'' इति, कथं ``मन्यसे वेद च'' इति । अथ ``मन्यसे वेद एव'' इति, कथं ``न मन्यसे सुवेद'' इति । एकं वस्तु येन ज्ञायते तेनैव तदेव वस्तु न सुविज्ञायते इति विप्रतिषिद्धं, संशय-विपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं, विपरीतत्वेन वेति नियन्तुं शक्यम् । संशय-विपर्ययौ हि सर्वत्रानर्थकरत्वेन एव प्रसिद्धौ ।
एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, ``अन्यदेव तद्विदितादथो अविदितादधि'' इत्याचार्योक्तागम-सम्प्रदाय-बलाद् उपपत्त्यनुभव-बलाच्च । जगर्ज च ब्रह्म-विद्यायां दृढ-निश्चयतां दर्शयन्नात्मनः । कथम्? इत्युच्यते -
शिष्यः
यः यः कश्चिद् नः अस्माकं सब्रह्मचारिणां मध्ये तद् मदुक्तं वचनं तत्त्वतो वेद, स तद् ब्रह्म वेद । किं पुनस्तद्वचनमित्यत आह - ``नो न वेदेति, वेद च'' इति । यदेव ``अन्यदेव तद्विदितादथो अविदितादधि'' इत्युक्तं तदेव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण ``नो न वेद'' इति ``वेद च'' इत्यवोचत् । आचार्य-बुद्धि-संवादार्थं मन्द-बुद्धि-ग्रहण-व्यपोहार्थं (१२३) च । तथा च (१२४) गर्जितमुपपन्नं भवति ``यो नस्तद्वेद तद्वेद'' इति ॥ २.२॥
वाक्यभाष्यं
परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्म-निश्चययोः तुल्यतायै यस्माद् हेतुमाह ``नाह मन्ये सुवेद'' इति । ``अह''-इत्यवधारणार्थो निपातो न ``एव'' मन्ये इत्येतत् । यावद् अपरिनिष्ठितं विज्ञानं तावद् सुवेद सुष्ठु वेद अहं ब्रह्म इति विपरीतो मम निश्चय आसीत् । स अपजगाम भवद्भिर्विचालितस्य, यथोक्तार्थ-मीमांसा-फल-भूतात् स्वात्म-ब्रह्मत्व-निश्चय-रूपात् सम्यक्प्रत्ययाद् विरुद्धत्वात् । अतो ``नाहं मन्ये सुवेद'' इति ।
यस्माच्च तन्नैव न वेद इति ``मन्ये'' इत्यनुवर्त्तते (१२५) । (१२६) अविदित-ब्रह्म-प्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह - वेद च । च-शब्दाद् वेद च, न वेद च इत्यभिप्रायः । विदिताविदिताभ्यामन्यत्वाद् ब्रह्मणः । तस्माद् मया विदितं ब्रह्म इति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्य-विज्ञान-ब्रह्म-स्वरूपतया नो न वेद, वेदैव चाहं स्वरूप-विक्रियाभावात् । विशेष-विज्ञानं च पराध्यस्तं न स्वतः, इति परमार्थतो न च वेदेति ।
सूत्रवाक्यं
``यो नस्तद्वेद तद्वेद'' इति पक्षान्तर-निरासार्थमाम्नाय उक्तार्थानुवादात् ।
विवरणवाक्यं
यो (१२७) नः अस्माकं मध्ये यथा अहं वेद इति स एव तद् ब्रह्म वेद नान्यः । उपास्य-ब्रह्म-वित्त्वाद् अतोऽन्यस्य । ``वेद च'' इति पक्षान्तरे ब्रह्म-वित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयते? इत्युच्यते - उक्तानुवादात् । उक्तं ह्यनुवदति ``नो न वेद'' इति, ``वेद च'' इति ॥ २॥
मन्त्र ३
पदभाष्यं
शिष्याचार्य-संवादात् प्रतिनिवृत्त्य स्वेन रूपेण श्रुतिः समस्त-संवाद-निर्वृत्तमर्थमेव बोधयति यस्यामतमित्यादिना -
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ २.३॥
पदभाष्यं
यस्य ब्रह्म-विदः अमतं अविज्ञातं ``अविदितं ब्रह्म'' इति मतं = अभिप्रायः निश्चयः तस्य मतं ज्ञातं सम्यग्ब्रह्म इत्यभिप्रायः । यस्य पुनः मतं ज्ञातं ``विदितं मया ब्रह्म'' इति निश्चयः न वेद एव सः । न ब्रह्म विजानाति सः ।
विद्वदविदुषोर्यथोक्तौ पक्षौ अवधारयति - अविज्ञातं विजानतामिति । अविज्ञातं अमतं अविदितमेव ब्रह्म विजानतां सम्यग् विदितवतामित्येतत् । विज्ञातं विदितं ब्रह्म अविजानतां (१२८) असम्यग्दर्शिनां इन्द्रिय-मनो-बुद्धिष्वेवात्म-दर्शिनामित्यर्थः । न त्वत्यन्तमेवाव्युत्पन्न-बुद्धीनाम् । न हि तेषां ``विज्ञातं अस्माभिर्ब्रह्म'' इति मतिर्भवति । इन्द्रिय-मनो-बुद्ध्युपाधिष्वात्म-दर्शिनां तु ब्रह्मोपाधि-विवेकानुपलम्भात्, बुद्ध्याद्युपाधेश्च विज्ञातत्वाद्, ``विदितं ब्रह्म'' इत्युपपद्यते भ्रान्तिः इत्यतोऽसम्यग्दर्शनं पूर्वपक्षत्वेन उपन्यस्यते - विज्ञातमविजानतामिति । अथवा हेत्वर्थः (१२९) उत्तरार्धोऽविज्ञातमित्यादिः ॥ २.३॥
वाक्यभाष्यं
सूत्रवाक्यं
यस्यामतं इति श्रौतं आख्यायिकार्थोपसंहारार्थम् ।
विवरणवाक्यं
शिष्याचार्योक्ति-प्रत्युक्ति-लक्षणया अनुभव-युक्ति-प्रधानया आख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेन आगम-प्रधानेन (१३०) निगमन-स्थानीयेन सङ्क्षेपत उच्यते ।
यदुक्तं विदितादन्यद् वागादीनामगोचरत्वात्, मीमांसितं च अनुभवोपपत्तिभ्यां ब्रह्म (१३१) तत् तथैव ज्ञातव्यम् (१३२) । कस्मात्? यस्यामतं यस्य विविदिषा-प्रयुक्त-प्रवृत्तस्य साधकस्य अमतमविज्ञातमविदितं ब्रह्म इत्यात्म-तत्त्व-निश्चय-फलावसानावबोधतया विविदिषा निवृत्ता इत्यभिप्रायः । तस्य मतं ज्ञातम् । तेन विदितं ब्रह्म येनाविषयत्वेन आत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञानानन्तरमेव ब्रह्मात्भावस्यावसितत्वात् (१३३) सर्वतः कार्याभावः (१३४) । विपर्ययेण मिथ्याज्ञानो भवति । कथम्? मतं विदितं ``ज्ञातं मया ब्रह्म'' इति यस्य विज्ञानं स मिथ्या-दर्शी विपरीत-विज्ञानो विदितादन्यत्वाद् ब्रह्मणः । न वेद सः न विजानाति ।
ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वं अब्रह्म-विषयतया निन्दितत्वात् । तथा कपिल-कणभुगादि-समयस्यापि विदित-ब्रह्म-विषयत्वाद् अनवस्थित-तर्क-जन्यत्वाद् विविदिषाऽनिवृत्तेश्च मिथ्यात्वमिति । स्मृतेश्च ``या वेद-बाह्याः स्मृतयो याश्च काश्च कृदृष्टयः । सर्वास्ता निष्फलाः प्रोक्ताः तमोनिष्ठा हि ताः स्मृताः'' (मनु. १२.९५) इति विपरीत-मिथ्या-ज्ञानयोः (१३५) अनष्टत्वात् ।
सूत्रवाक्यं
``अविज्ञातं विजानतां विज्ञातमविजानताम्'' इति पूर्व-हेतूक्तिः अनुवादस्यानर्थक्यात् ।
विवरणवाक्यं
अनुवादमात्रेऽनर्थकं वचनमिति पूर्वोक्तयोर्यस्यामतमित्यादिना ज्ञानाज्ञानयोः हेत्वर्थत्वेन इदमुच्यते । अविज्ञातं अविदितमात्मत्वेन अविषयतया ब्रह्म विजानतां यस्मात् तस्मात् तदेव ज्ञानम् । यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्ध्यादि-विषयं ब्रह्म अविजानतां ``विदिताविदित-व्यावृत्तं आत्मभूतं नित्य-विज्ञान-स्वरूपमात्मस्थमविक्रियममृतमजरं अभयं अनन्यत्वादविषयम्'' इत्येवं अविजानताम् । बुद्ध्यादि-विषयात्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिताविदित-व्यक्ताव्यक्त-धर्माध्यारोपेण कार्य-कारण-भावेन (१३६) (१३७) सविकल्पं अयथार्थ-विषयत्वात् । शुक्तिकादौ रजताद्यध्यारोपण-ज्ञानवद् मिथ्याज्ञानं तेषाम् ॥ ३॥
मन्त्र ४
पदभाष्यं
``अविज्ञातं विजानताम्'' इत्यवधृतम् । यदि ब्रह्म अत्यन्तमेवाविज्ञातं, लौकिकानां ब्रह्म-विदां चाविशेषः प्राप्तः । ``अविज्ञातं विजानताम्'' इति च परस्पर-विरुद्धम् । कथं तु तद्-ब्रह्म सम्यग्विदितं भवति इत्येवमर्थं (१३८) आह -
प्रतिबोधविदितं मतं अमृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ २.४॥
पदभाष्यं
प्रतिबोधविदितं बोधं बोधं प्रति विदितम् । बोध-शब्देन बौद्धाः प्रत्ययाः उच्यन्ते । सर्वे प्रत्यया विषयी-भवन्ति यस्य स आत्मा सर्व-बोधान् प्रतिबुध्यते ।
प्रत्ययसाक्षितया ब्रह्मणोऽभेदप्रतिपादनं
सर्व-प्रत्यय-दर्शी चिच्छक्ति-स्वरूप-मात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते । नान्यद् द्वारमात्मनो विज्ञानाय । अतः प्रत्यय-प्रत्यगात्मतया विदितं ब्रह्म यदा, तदा तद् मतं तत् सम्यग्दर्शनमित्यर्थः । सर्व-प्रत्यय-दर्शित्वे चोपजननापाय-वर्जित-दृक्-स्वरूपता, नित्यत्वं, विशुद्ध-स्वरूपत्वम्, आत्मत्वं, निर्विशेषता, एकत्वं च सर्व-भूतेषु, सिद्धं भवेत् । लक्षण-भेदाभावाद् व्योम्नः इव घट-गिरि-गुहादिषु । विदिताविदिताभ्यामन्यद् ब्रह्म इत्यागम-वाक्यार्थः एवं परिशुद्ध एवोपसंहृतो भवति । ``दृष्टेर्द्रष्टा, श्रुतेः श्रोता, मतेर्मन्ता विज्ञातेः विज्ञाता'' (बृ ३.४.२) इति हि श्रुत्यन्तरम् ।
बोधक्रियाकर्त्ता आत्मेत्यस्य एकदेशि-मतस्य दूषणं
यदा पुनः बोध-क्रिया-कर्त्तेति बोध-क्रिया-लक्षणेन तत्कर्त्तारं विजानाति इति बोध-लक्षणेन विदितं प्रतिबोध-विदितमिति व्याख्यायते, यथा यो वृक्ष-शाखाश्चालयति स वायुरिति तद्वत्, तदा बोध-क्रिया-शक्तिमानात्मा द्रव्यं, न बोध-स्वरूप एव । बोधस्तु जायते, विनश्यति च । यदा बोधो जायते तदा बोध-क्रियया सविशेषः । यदा बोधो नश्यति तदा नष्ट-बोधो द्रव्य-मात्रं निर्विशेषः । तत्रैवं सति विक्रियात्मकः (१३९) सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्त्तुं शक्यन्ते ।
काणादमतखण्डनं
यदपि काणादानां आत्म-मनःसंयोगजो बोधः, आत्मनि समवैति । अत आत्मनि बोद्धृत्वम्, न तु विक्रियात्मकः (१४०) आत्मा, द्रव्य-मात्रस्तु भवति, घट इव राग-समवायी । अस्मिन् पक्षेऽप्यचेतनं द्रव्य-मात्रं ब्रह्मेति ``विज्ञानमानन्दं ब्रह्म'' (बृ. ३.९.२८) इत्याद्याः (१४१) श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावाद् नित्य-संयुक्तत्वाच्च मनसः, (१४२) स्मृत्युत्पत्ति-नियमानुपपत्तिरपरिहार्या स्यात् । संसर्ग-धर्मित्वं चात्मनः श्रुति-स्मृति-न्याय-विरुद्धं कल्पितं स्यात् । ``असङ्गो न हि सज्जते'' (बृ. ३.९.२६) , ``असक्तं सर्वभृत्'' (गी. १३.१४) इति हि श्रुति-स्मृती । न्यायश्च गुणवद् गुणवता संसृज्यते, नातुल्य-जातीयम् । अतः निर्गुणं निर्विशेषं सर्व-विलक्षणं केनचिदप्यतुल्य-जातीयेन संसृज्यत इत्येतद् न्याय-विरुद्धं भवेत् । तस्मात् नित्यालुप्त-विज्ञान-स्वरूप-ज्योतिरात्मा ब्रह्म इत्ययमर्थः सर्व-बोध-बोद्धृत्वे आत्मनः सिध्यति, नान्यथा । तस्मात् ``प्रतिबोध-विदितं मतम्'' इति यथा-व्याख्यात एवार्थोऽस्माभिः ।
बौद्धपक्षस्य खण्डनं
यत्पुनः स्व-संवेद्यता ``प्रतिबोध-विदितम्'' इत्यस्य वाक्यस्यार्थो (१४३) वर्ण्यते, तत्र भवति सोपाधिकत्वं आत्मनः। (१४४) बुद्ध्युपाधि-स्वरूपत्वेन भेदं परिकल्प्य, आत्मना आत्मानं वेत्ति इति संव्यवहारः (१४५) । ``आत्मन्येवात्मानं पश्यति'' (१४६) (बृ. ४.४.२३) , ``स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम'' (गी. १०.१५) इति । न तु निरुपाधिकस्यात्मन एकत्वे स्व-संवेद्यता पर-संवेद्यता वा सम्भवति । संवेदन-स्वरूपत्वात् संवेदनान्तरापेक्षा च न सम्भवति । यथा प्रकाशस्य प्रकाशान्तरापेक्षायाः न सम्भवः, तद्वत् ।
बौद्ध-पक्षे स्व-संवेद्यतायां तु क्षण-भङ्गुरत्वं, निरात्मकत्वं च विज्ञानस्य स्यात् । ``न हि विज्ञातुर्विज्ञातेः विपरिलोपो विद्यतेऽविनाशित्वात्'' (बृ. ४.३.३०) , ``नित्यं विभुं सर्वगतम्'' (मु. १.१.६) , ``स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयः'' (बृ. ४.४.२५) इत्याद्याः श्रुतयो बाध्येरन् ।
अन्यमतानां खण्डनं
यत्पुनः प्रतिबोध-शब्देन निर्निमित्तो (१४७) बोधः प्रतिबोधः, यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोधः इत्यपरे, निर्निमित्तः सनिमित्तः सकृद्वा असकृद्वा प्रतिबोधः एव हि सः ।
अमृतत्वं अमरण-भावं, स्वात्मन्यवस्थानं, मोक्षं हि यस्माद् विन्दते लभते यथोक्तात् प्रतिबोधात्, प्रतिबोध-विदितात्मकात्, तस्माद् प्रतिबोध-विदितमेव मतमित्यभिप्रायः । बोधस्य हि प्रत्यग् आत्मा । आत्म-विषयं च मतमृतत्वे हेतुः । न ह्यात्मनोऽनात्मत्वम् (१४८) अमृतत्वं भवति । आत्मत्वादात्मनोऽमृतत्वं निर्निमित्तमेव । एवं मर्त्यत्वमात्मनो यदविद्यया अनात्मत्व-प्रतिपत्तिः (१४९) ।
ज्ञानेन अमृतत्वप्राप्तिप्रकारः
कथं (१५०) पुनर्यथोक्तया आत्म-विद्यया अमृतत्वं विन्दते इत्यत आह - आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं, सामर्थ्यम् । धन (१५१) -सहाय-मन्त्रौषधि-तपो-योग-कृतं वीर्यं मृत्युं न शक्नोत्यभिभवितुम्, अनित्य-वस्तु-कृतत्वात् । आत्म-विद्या-कृतं तु वीर्यमात्मनैव विन्दते, नान्येन इत्यतः अनन्य-साधनत्वाद् आत्म-विद्या-वीर्यस्य, तदेव (१५२) वीर्यं मृत्युं शक्नोत्यभि-भवितुम् । यत एवमात्म-विद्या-कृतं वीर्यमात्मनैव विन्दते अतः (१५३) विद्यया आत्म-विषयया विन्दते अमृतं अमृतत्वम् । ``नायमात्मा बलहीनेन लभ्यः'' (मु ३.२.४) इत्याथर्वणे । अतः (१५४) समर्थो हेतुः ``अमृतत्वं हि विन्दते'' इति ॥ २.४॥
वाक्यभाष्यं
सूत्रवाक्यं
``प्रतिबोध-विदितं मतम्'' इति वीप्सा प्रत्ययानाम् (१५५) आत्मावबोध-द्वारत्वात् ।
विवरणवाक्यं
``बोधं प्रति, बोधं प्रति'' इति वीप्सा सर्व-प्रत्यय-व्याप्त्यर्था । बौद्धाः (१५६) हि सर्वे प्रत्ययाः तप्त-लोहवद् नित्य-विज्ञान-स्वरूपात्म-व्याप्तत्वाद् (१५७) विज्ञान-स्वरूपावभासाः, तदन्यावभासश्चात्मा तद्विलक्षणः अग्निवद् उपलभ्यते इति तेन ते द्वारीभवन्ति आत्मोपलब्धौ । तस्मात् प्रतिबोधावभास-प्रत्यगात्मतया यद्विदितं तद् ब्रह्म, तदेव मतं ज्ञातं तदेव सम्यग्ज्ञानं यत् प्रत्यगात्म-विज्ञानं (१५८) , न विषय-विज्ञानम् । आत्मत्वेन ``प्रत्यगात्मानमैक्षत्'' (क. २.१.१) इति च काठके ।
आत्मज्ञानममृतत्वनिमित्तं
सूत्रवाक्यं
``अमृतत्वं हि विन्दते'' इति हेतु-वचनम्, विपर्यये मृत्यु-प्राप्तेः ।
विवरणवाक्यं
विषयात्म-विज्ञाने हि मृत्युः प्रारभत इति आत्म-विज्ञानममृतत्व-निमित्तमिति युक्तं हेतु-वचनं ``अमृतत्वं हि विन्दते'' इति ।
अमृतत्वस्य अनुत्पादकत्वं
आत्म-ज्ञानेन किममृतत्वमुत्पाद्यते? न । कथं तर्हि? आत्मना विन्दते स्वेनैव नित्यात्म-स्वभावेन (१५९) अमृतत्वं विन्दते । नालम्बन-पूर्वकम् । विन्दत इति आत्म-विज्ञानापेक्षम् । यदि हि विद्योत्पाद्यं अमृतत्वं स्याद्, अनित्यं भवेत् कर्म-कार्यवत् । अतो न विद्योत्पाद्यम् ।
विद्यायाः अमृतत्वनिमित्तं
यदि च आत्मनैवामृतत्वं (१६०) विन्दते किं पुनर्विद्यया क्रियते? इत्युच्यते - अनात्म-विज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्तमिति कल्प्यते । यत आह ``वीर्यं विद्यया विन्दते''। वीर्यं सामर्थ्यं अनात्माध्यारोप-माया-स्वान्त-ध्वान्तानभिभाव्य-लक्षणं बलं विद्यया विन्दते । तच्च किं-विशिष्टम्? अमृतं अविनाशी । अविद्याजं हि वीर्यं विनाशि । विद्ययाऽविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति । विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्त-मात्रं भवति । ``नायमात्मा बलहीनेन लभ्यः'' (मु. ३.२.४) इत्याथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति, न शरीरादि-सामर्थ्यं यथा (१६१) हस्त्यादेः ।
अथवा प्रतिबोध-विदितं मतमिति सकृदेवाशेष-विपरीत-निरस्त-संस्कारेण स्वप्न-प्रतिबोधवद् (१६२) यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः (१६३) प्रतिबोधः, तेन वा विदितं मतमिति । उभयत्र प्रतिबोध-शब्द-प्रयोगोऽस्ति, सुप्त-प्रतिबुद्धो गुरुणा प्रतिबोधित इति । पूर्वं तु यथार्थम् ॥ ४॥
मन्त्र ५
पदभाष्यं
कष्टा खलु सुर-नर-तिर्यक्-प्रेतादिषु संसार-दुःख-बहुलेषु प्राणि-निकायेषु (१६४) जन्म-जरा-मरण-रोगादि-सम्प्राप्तिरज्ञानम् । अतः -
इह चेदवेदीद् अथ सत्यमस्ति । न चेदिहावेदीद् महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २.५॥
पदभाष्यं
इह एव चेद् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीद् आत्मानं यथोक्त-लक्षणं (१६५) विदितवान् यथोक्तेन प्रकारेण (१६६) , अथ तदा अस्ति सत्यं मनुष्य-जन्मन्यस्मिन् अविनाशोऽर्थवत्ता वा, सद्भावो वा, परमार्थता वा, सत्यं विद्यते । न चेदिहावेदीदिति । न चेद् इह जीवन् चेदधिकृतः अवेदीद् न विदितवान्, तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्म-जरा-मरणादि-प्रबन्धाविच्छेद-लक्षणा संसार-गतिः । तस्माद् एवं गुण-दोषौ (१६७) विजानन्तो ब्राह्मणाः (१६८) भूतेषु भूतेषु सर्व-भूतेषु, स्थावरेषु चरेषु च, एकमात्म-तत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहम्भाव-लक्षणाद् अविद्या-रूपाद् अस्माल्लोकाद् उपरम्य, सर्वात्मैकत्व-भावमद्वैतमापन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ``स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति'' (मु. ३.२.९) इति श्रुतेः ॥ २.५॥
वाक्यभाष्यं
सूत्रवाक्यं
इह चेदवेदीद् इत्यवश्यकर्त्तव्यतोक्तिर्विपर्यये विनाश-श्रुतेः ।
विवरणवाक्यं
इह मनुष्य-जन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम्? इह चेदवेदीद् (१६९) विदितवान् अथ सत्यं परमार्थ-तत्त्वमस्त्यवाप्तम् । तस्य जन्म सफलमित्यभिप्रायः । न चेदिहावेदीद् न विदितवान् वृथैव जन्म । अपि च महती विनष्टिः महान् विनाशो जन्म-मरण-प्रबन्धाविच्छेद-प्राप्ति-लक्षणः स्यात्, यतस्तस्माद् अवश्यं तद्विच्छेदाय ज्ञेय आत्मा ।
ज्ञानेन तु किं स्यात् (१७०) ? इत्युच्यते - भूतेषु भूतेषु चराचरेषु सर्वेषु इत्यर्थः । विचित्य पृथङ् निष्कृष्य एकमात्म-तत्त्वं संसार-धर्मैः अस्पृष्टं आत्म-भावेन उपलभ्य इत्यर्थः । अनेकार्थत्वाद् धातूनां न पुनः चित्वेति सम्भवति विरोधात् । धीराः धीमन्तो विवेकिनो विनिवृत्त-बाह्य-विषयाभिलाषाः प्रेत्य मृत्वा अस्माल्लोकात् शरीराद्यनात्म-लक्षणाद् व्यावृत्त-ममत्वाहङ्काराः सन्त इत्यर्थः । अमृताः अमरण-धर्माणो नित्य-विज्ञानामृतत्व-स्वभावा एव भवन्ति ॥ ५॥
॥ इति द्वितीयः खण्डः ॥
अध्याय ३
मन्त्र १
पदभाष्यावतरणिका
आख्यायिकायाः प्रयोजनं
१) ब्रह्म ह देवेभ्यो विजिग्ये (१७१) । ``अविज्ञातं विजानतां विज्ञातमविजानताम्'' इत्यादि-श्रवणाद्, यदस्ति तद्विज्ञातं प्रमाणैः, यन्नास्ति तदविज्ञातं, शश-विषाण-कल्पमत्यन्तमेवासद् दृष्टम् । तथेदं ब्रह्म अविज्ञातत्वाद् असदेवेति मन्द-बुद्धीनां व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते । तदेव हि ब्रह्म सर्व-प्रकारेण प्रशास्तृ, देवानामपि परो देवः, ईश्वराणामपि ईश्वरः, दुर्विज्ञेयः, देवानां जय-हेतुः, असुराणां पराजय-हेतुः, तत्कथं नास्तीत्येतस्यार्थस्यानुकूलानि ह्युत्तराणि वचांसि दृश्यन्ते. २) अथवा ब्रह्म-विद्यायाः स्तुतये । कथम्? ब्रह्म-विज्ञानाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः । ततोऽप्यतितरामिन्द्र इति. ३) अथवा दुर्विज्ञेयं ब्रह्म इत्येतत् प्रदर्श्यते येन अग्न्यादयोऽतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तः, तथेन्द्रो देवानामीश्वरोऽपि सन्निति. ४) वक्ष्यमाणोपनिषद् (१७२) -विधिपरं वा सर्वम्. ५) ब्रह्म-विद्या-व्यतिरेकेण प्राणिनां कर्त्तृत्वाद्यभिमानो मिथ्या इत्येतद् दर्शनार्थं वा आख्यायिका । यथा देवानां जयाद्यभिमानः तद्वदिति ।
ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्त
अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ ३.१॥
पदभाष्यं
ब्रह्म यथोक्त-लक्षणं परं ह किल देवेभ्यः (१७३) अर्थाय विजिग्ये जयं लब्धवत् । देवानामसुराणां च सङ्ग्रामे असुरान् जित्वा जगदरातीन् ईश्वर-सेतु-भेत्तृन्, देवेभ्यो जयं तत्फलं च प्रायच्छद् जगतः स्थेम्ने । तस्य ह किल ब्रह्मणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः ।
तदा आत्म-संस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्व-क्रिया-फल-संयोजयितुः प्राणिनां सर्व-शक्तेः जगतः स्थितिं चिकीर्षोः ``अयं जयो महिमा च'' इत्यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः ``अग्न्यादि-स्वरूप-परिच्छिन्नात्म-कृतः अस्माकमेवायं विजयः, अस्माकं एवायं महिमा अग्नि-वाय्विन्द्रत्वादि-लक्षणो जय-फल-भूतः अस्माभिरनुभूयते, न अस्मत्प्रत्यगात्म-भूतेश्वर-कृतः'' इति ॥ ३.१॥
वाक्यभाष्यं
यक्षोपाख्यानस्य प्रयोजने विकल्पाः
``ब्रह्म ह देवेभ्यः'' इति -
सूत्रवाक्यं
१) ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था ।
विवरणवाक्यं
समाप्ता ब्रह्म-विद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति ।
सूत्रवाक्यं
२) शमाद्यर्थो वा आम्नायोऽभिमानशातनात् ।
विवरणवाक्यं
शमादि वा ब्रह्म-विद्या साधनं विधित्सितं, तदर्थोऽयमर्थवादाम्नायः । न हि शमादि-साधन-रहितस्य अभिमान-राग-द्वेषादि-युक्तस्य ब्रह्म-विज्ञाने सामर्थ्यमस्ति, व्यावृत्त-बाह्य-मिथ्या-प्रत्यय-ग्राह्यत्वाद् (१७४) ब्रह्मणः । यस्माच्च अग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्म-विज्ञानं दर्शयति अभिमानोपशमे, तस्मात् शमादि-साधन-विधानार्थोऽयमर्थवाद इत्यवसीयते ।
सूत्रवाक्यं
३) सगुणोपासनार्थो वा, अपोदितत्वात् ।
विवरणवाक्यं
``नेदं यदिदमुपासते'' इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वाद् अनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेन अधिदैवमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वा । ``इत्यधिदैवतम्'' ``तद्वनं इत्युपासितव्यम्'' इति हि वक्ष्यति ।
ब्रह्मपदाभिप्रायः
सूत्रवाक्यं
ब्रह्मेति (१७५) परो लिङ्गात् ।
विवरणवाक्यं
न हि अन्यत्र परादीश्वराद् नित्य-सर्वज्ञात् परिभूयाग्न्यादीन् तृणं वज्री-कर्त्तुं सामर्थ्यं अस्ति । ``तन्न शशाक दग्धुम्'' इत्यादि-लिङ्गाद् ब्रह्म-शब्द-वाच्य ईश्वर इत्यवसीयते । न हि अन्यथा अग्निः तृणं दग्धुं नोत्सहते, वायुर्वा आदातुम् । ईश्वरेच्छया तृणमपि वज्री-भवति इत्युपपद्यते ।
ईश्वरस्य सद्भावसिद्धिः
सूत्रवाक्यं
तत्सिद्धिर्जगतो नियत-प्रवृत्तेः ।
विवरणवाक्यं
श्रुति-स्मृति-प्रसिद्धिभिः नित्य-सर्व-विज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थ-निश्चयार्थमुच्यते । तस्येश्वरस्य सद्भाव-सिद्धिः कुतो भवति? इत्युच्यते - यदिदं जगद् देव-गन्धर्व-यक्ष-रक्षः-पितृ-पिशाचादि-लक्षणं द्यु-वियत्-पृथिव्यादित्य-चन्द्र-ग्रह-नक्षत्र-विचित्रं विविध-प्राण्युपभोग-योग्य-स्थान-साधन-सम्बन्धि तद् अत्यन्त-कुशल-शिल्पिभिः अपि दुर्निर्माणं देश-काल-निमित्तानुरूप-नियत-प्रवृत्ति-निवृत्ति-क्रमं एतद्-भोक्तृ-कर्म-विभागज्ञ-प्रयत्न-पूर्वकं (१७६) भवितुमर्हति, कार्यत्वे सति यथोक्त-लक्षणत्वात्, गृह-प्रासाद-रथ-शयनासनादिवत् । विपक्षे आत्मादिवत् (१७७) ।
कर्मणः फलदातृत्वानुपपत्तिः
आक्षेप-सङ्ग्रहः (विवरणमधस्तात्)
कर्मण एव इति चेत् ।
समाधान-सङ्ग्रहः (विवरणमधस्तात्)
न, पर-तन्त्रस्य निमित्त-मात्रत्वात् ।
आक्षेपस्य विवरणं
यदिदं उपभोग-वैचित्र्यं प्राणिनां, तत्साधन-वैचित्र्यं च, देश-काल-निमित्तानुरूप-नियत-प्रवृत्ति-निवृत्ति-क्रमं च, तन्न नित्य-सर्वज्ञ-कर्त्तृकम् । किं तर्हि? कर्मण एव । तस्याचिन्त्य-प्रभावत्वात् (१७८) । सर्वैश्च फल-हेतुत्वाभ्युपगमात् । सति कर्मणः फल-हेतुत्वे, किमीश्वराधिक-कल्पनयेति, न नित्यस्येश्वरस्य नित्य-सर्वज्ञ-शक्तेः फल-हेतुत्वं च इति चेत् ।
समाधानस्य विवरणं
न कर्मण एवोपभोग-वैचित्र्याद्युपपद्येत । कस्मात्? कर्त्तृ-तन्त्रत्वात् कर्मणः । चितिमत्-प्रयत्न-निर्वृत्तं हि कर्म । तत्प्रयत्नोपरमाद् उपरतं सद् देशान्तरे कालान्तरे वा नियत-निमित्त-विशेषापेक्षं कर्त्तुः फलं जनयिष्यतीति न युक्तम् (१७९) , अनपेक्ष्य अन्यदात्मनः (१८०) प्रयोक्तृ ।
आक्षेपः
कर्त्तैव फल-काले प्रयोक्तेति चेद् ``मया निर्वर्त्तितोऽसि । त्वां प्रयोक्ष्ये फलाय, यदात्मानुरूपं फलम्'' इति ।
समाधानं
न, देश-काल-निमित्त-विशेषानभिज्ञत्वात् । यदि हि कर्त्ता देश-विशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात्, ततोऽनिष्ट-फलस्याप्रयोक्ता स्यात् ।
न च निर्निमित्तं (१८१) तदनिच्छया आत्म-समवेतं तच्चर्मवत् विकरोति कर्म । न च आत्म-कृतं अकर्त्तृ-समवेतं अयस्कान्त-मणिवद् आकृष्ट भवति, प्रधान-कर्त्तृ-समवेतत्वात् कर्मणः ।
आक्षेपः
भूताश्रयमिति (१८२) चेत् ।
समाधानं
न, साधनत्वात्। (१८३) कर्त्तृ-क्रियायाः साधन-भूतानि भूतानि क्रिया-काले (१८४) अनुभूत-व्यापाराणि, समाप्तौ च हलादिवत् कर्त्रा परित्यक्तानि, न फलं कालान्तरे कर्त्तुमुत्सहन्ते । न (१८५) हि हलं क्षेत्राद् व्रीहीन् गृहं प्रवेशयति । भूत-कर्मणोश्च (१८६) अचेतनत्वात् स्वतः प्रवृत्त्यनुपपत्तिः ।
आक्षेपः
वायुवदिति (१८७) चेत् ।
समाधानं
न, अप्रसिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा (१८८) , रथादिष्वदर्शनात् ।
आक्षेपः
शास्त्रात् कर्मण एवेति चेत् । शास्त्रं हि क्रियातः फल-सिद्धिमाह, नेश्वरादेः (१८९) । ``स्वर्ग-कामो यजेत'' इत्यादि । न च प्रमाणाधिगतत्वाद् आनर्थक्यं युक्तम् । न च ईश्वरास्तित्वे प्रमाणान्तरमस्ति इति चेत् ।
समाधानं
न, दृष्ट-न्याय-हानानुपपत्तेः । क्रिया हि द्वि-विधा दृष्ट-फला, अदृष्ट-फला च । दृष्ट-फलापि द्वि-विधा अनन्तर-फला, आगामि-फला च । अनन्तर-फला गति-भुजि-लक्षणा । कालान्तर-फला च कृषि-सेवादि-लक्षणा । तत्र अनन्तर-फला फलापवर्गिण्येव (१९०) । कालान्तर-फला तूत्पन्न-प्रध्वंसिनी । आत्म (१९१) -सेव्याद्यधीनं हि कृषि-सेवादेः फलं यतः । न च उभय-न्याय-व्यतिरेकेण (१९२) स्वतन्त्रं कर्म, ततो वा फलं दृष्टम् । तथा (१९३) च कर्म-फल-प्राप्तौ न दृष्ट-न्याय-हानं उपपद्यते । तस्मात् (१९४) शान्ते यागादि-कर्मणि नित्यः कर्तृ-कर्म-फल-विभागज्ञ ईश्वरः सेव्यादिवद् यागाद्यनुरूप-फल-दाता (१९५) उपपद्यते । स च आत्म-भूतः सर्वस्य (१९६) , सर्व-क्रिया-फल-प्रत्यय-साक्षी (१९७) नित्य-विज्ञान-स्वभावः, संसार-धर्मैः असंस्पृष्टः ।
श्रुतेश्च । ``न लिप्यते लोक-दुःखेन बाह्यः'' (क. २.२.११) , ``जरामृत्युमत्येति'' (बृ. ३.५.१) , ``विजरो विमृत्युः'' (छा. ८.७.१) , ``सत्यकामः सत्यसङ्कल्पः'' (छा. ८.७.१) , ``एष सर्वेश्वरः'' (मा. ६) , ``साधु कर्म कारयति'' (कौ. ३.९) , ``अनश्नन् अन्योऽभिचाकशीति'' (श्वे. ४.६) , ``एतस्य वा अक्षरस्य प्रशासने'' (बृ. ३.८.९) इत्याद्या असंसारिण (१९८) एकस्यात्मनो नित्य-मुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् । अनन्य-योगित्वे सति (१९९) विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते ।
अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति ।
आक्षेपसङ्ग्रहः (विवरणमधस्तात्)
प्राप्त्यभावादिति चेत् ।
समाधान-सङ्ग्रहः (विवरणमधस्तात्)
न, उक्तत्वात् ।
आक्षेपस्य विवरणं
``न हिंस्यात्'' इतिवत् प्राप्त्यभावात् प्रतिषेधो नारभ्यत इति चेत् ।
समाधानस्य विवरणं
न, ईश्वर-सद्भावे न्यायस्योक्तत्वात् (२००) ।
अथवा अप्रतिषेधादिति कर्मणः फलदान ईश्वर-कालादीनां न प्रतिषेधोऽस्ति । न च निमित्तान्तर-निरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् (२०१) । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति ।
कर्मफलप्रदाने ईश्वरस्य प्राधान्यं
सेव्य-बुद्धिवत् सेवकेन (२०२) सर्वज्ञेश्वर (२०३) -बुद्धौ तु संस्कृतायां यागादि-कर्मणा विनष्टेऽपि कर्मणि सेव्याद् इव ईश्वरात् फलं कर्त्तुः भवति इति युक्तम् । न तु पुनः पदार्था वाक्य-शतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देश-कालान्तरेषु च अग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्वि-प्रकारमेवोपलभ्यते ।
बीज-क्षेत्र-संस्कार-परिरक्षा-विज्ञानवत् कर्त्रपेक्ष-फलं कृष्यादि, विज्ञानवत् सेव्य-बुद्धि-संस्कारापेक्ष-फलं च सेवादि । यागादेः कर्मणः तथाऽविज्ञानवत्कर्त्रपेक्ष-फलत्वानुपपत्तौ, कालान्तर-फलत्वात्, कर्म-देश-काल-निमित्त-विपाक-विभाग-बुद्धि-संस्कारापेक्षं फलं भवितुमर्हति, सेवादि-कर्मानुरूप-फलज्ञ-सेव्य-बुद्धि-संस्कारापेक्ष-फलस्य इव । तस्मात् सिद्धः सर्वज्ञ ईश्वरः सर्व-जन्तु-बुद्धि-कर्म-फल-विभाग-साक्षी सर्व-भूतान्तरात्मा । ``यत्साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः'' (बृ. ३.४.१) इति श्रुतेः ।
स एव च अत्र आत्मा जन्तूनां, ``नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता'', ``नान्यदतोऽस्ति विज्ञातृ'' (बृ. ३.८.११) , इत्याद्यात्मान्तर-प्रतिषेध-श्रुतेः । ``तत्त्वमसि'' (छा. ६.८.७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेन उपदिश्यते ।
ईश्वरात्मभेदनिरासः
आक्षेपः
ज्ञान-शक्ति-कर्मोपास्योपासक-शुद्धाशुद्ध-मुक्तामुक्त-भेदाद् आत्मभेद एवेति चेत् ।
समाधानं
न, भेद-दृष्ट्यपवादात् ।
पूर्वपक्षी
यदुक्तं संसारिण ईश्वरादनन्या इति तन्न ।
सिद्धान्ती
किं तर्हि?
पूर्वपक्षी
भेद एव संसार्यात्मनाम् ।
सिद्धान्ती
कस्मात्?
पूर्वपक्षी
लक्षणभेदाद् अश्व-महिषवत् ।
सिद्धान्ती
कथं लक्षणभेदः इति?
पूर्वपक्षी
उच्यते - ईश्वरस्य तावद् नित्यं सर्व-विषयं ज्ञानं सवितृ-प्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्य इव । तथैव शक्ति-भेदोऽपि । नित्या सर्व-विषया च ईश्वर-शक्तिः । विपरीतेतरस्य । कर्म च चित्स्वरूपात्म-सत्ता-मात्र-निमित्तं ईश्वरस्य । औष्ण्य-स्वरूप-द्रव्य-सत्ता-मात्र-निमित्त-दहन-कर्मवत् । राजाऽयस्कान्त-प्रकाश-कर्मवच्च स्वात्माविक्रिया-रूपम् । विपरीतमितरस्य । ``उपासीत'' इति वचनादुपास्य ईश्वरो गुरु-राजवत् । उपासकश्च इतरः शिष्य-भृत्यवत् । अपहत-पाप्मादि-श्रवणाद् (छा. ८.७.१) नित्य-शुद्ध ईश्वरः । ``पुण्यो वै पुण्येन (कर्मणा भवति) '' (बृ. ३.२.१३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त एव ईश्वरः । नित्याशुद्धि-योगाद् संसारी इतरः । अपि च (२०४) यत्र ज्ञानादि-लक्षण-भेदोऽस्ति तत्र भेदो दृष्टः, यथा अश्व-महिषयोः । तथा ज्ञानादि-लक्षण-भेदाद् ईश्वरादात्मनां भेदोऽस्तीति चेत् ।
सिद्धान्ती
न ।
पूर्वपक्षी
कस्मात्?
सिद्धान्ती
``अन्योऽसावन्योऽहमस्मीति न स वेद'' (बृ. १.४.१०) ``ते क्षय्य-लोका भवन्ति'' (छा. ७.२५.२) , ``मृत्योः स मृत्युमाप्नोति'' (क. २.१.१०) इति भेद-दृष्टिर्हि अपोह्यते । एकत्व-प्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते ।
यदुक्तं ज्ञानादि-लक्षण-भेदादिति अत्रोच्यते - न, अनभ्युपगमात् (२०५) । बुद्ध्यादिभ्यो व्यतिरिक्ताः (२०६) विलक्षणाश्च ईश्वराद्भिन्न-लक्षणा आत्मानो न सन्ति । एकः (२०७) एव ईश्वरश्चात्मा सर्व-भूतानां नित्य-मुक्तोऽभ्युपगम्यते । बाह्यः (२०८) चक्षुर्बुद्ध्यादि-समाहार-सन्तानाहङ्कार-ममत्वादि-विपरीत-प्रत्यय-प्रबन्धाविच्छेद-लक्षणः (२०९) नित्य-शुद्ध-बुद्ध-मुक्त-विज्ञानात्मेश्वर-गर्भः, नित्य-विज्ञानावभासः (२१०) , चित्त-चैत्य-बीज-बीजि-स्वभावः (२११) , कल्पितोऽनित्यविज्ञान ईश्वर-लक्षण-विपरीतोऽभ्युपगम्यते यस्याविच्छेदे संसार-व्यवहारः, विच्छेदे च मोक्ष-व्यवहारः ।
अन्यश्च मृत्प्रलेपवत् प्रत्यक्ष-प्रध्वंसो देव-पितृ-मनुष्यादि-लक्षणो भूत-विशेष-समाहारः । न (२१२) पुनः चतुर्थोऽन्यो भिन्न-लक्षण ईश्वराद् अभ्युपगम्यते । बुद्ध्यादि-कल्पितात्म-व्यतिरेकाभिप्रायेण तु लक्षण-भेदादिति आश्रयासिद्धो हेतुः ।
पूर्वपक्षी
ईश्वराद् अन्यस्यात्मनोऽसत्त्वाद् ईश्वरस्यैव विरुद्ध-लक्षणत्वमयुक्तमिति चेत् सुख-दुःखादि-योगश्च ।
सिद्धान्ती
न, निमित्तत्वे सति लोक-विपर्ययाध्यारोपणात् सवितृवत् । यथा हि सविता नित्य-प्रकाश-रूपत्वाद् लोकाभिव्यक्त्यनभिव्यक्ति-निमित्त्वे सति लोक-दृष्टि-विपर्ययेण उदयास्तमयाहोरात्रादि-कर्त्तृत्वाध्यारोपभाग् भवति । एवं ईश्वरे नित्य-विज्ञान-शक्ति-रूपे लोक-ज्ञानापोह-सुख-दुःख-स्मृत्यादि-निमित्तत्वे सति लोक-विपरीत-बुद्ध्याऽध्यारोपितं विपरीत-लक्षणत्वं सुख-दुःखादयश्च, न स्वतः ।
आत्म-दृष्ट्यनुरूपाध्यारोपाच्च । यथा घनादि-विप्रकीर्णेऽम्बरे येनैव सवितृ-प्रकाशो न दृश्यते स आत्म-दृष्ट्यनुरूपमेवाध्यस्यति, सवितेदानीमिह न प्रकाशयति इति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवं इह बौद्धादि-वृत्त्युद्भवाभिभवाकुल-भ्रान्त्याऽध्यारोपितः सुख-दुःखादि-योग उपपद्यते ।
तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणं - ``मत्तः स्मृतिर्ज्ञानमपोहनं च'' (गी. १५.१५) , ``नादत्ते कस्यचित् पापम्'' (गी. ५.१५) इत्यादि । अतो नित्य-मुक्ते एकस्मिन् सवितरि इव लोकाविद्याध्यारोपितं ईश्वरे संसारित्वम्, शास्त्रादि-प्रामाण्याद् अभ्युपगतमसंसारित्वम्, इत्यविरोध इति ।
आत्मनः एकत्वं
एतेन प्रत्येकं ज्ञानादि-भेदः प्रत्युक्तः । सौक्ष्म्य-चैतन्य-सर्वगतत्वाद्यविशेषे च भेद-हेत्वभावात् । विक्रियावत्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् । अभ्युपगमे च अनित्यत्व-प्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षये अनुपपत्तिरिति सिद्धं एकत्वम् ।
तस्मात् (२१३) शरीरेन्द्रिय-मनोबुद्धि-विषय-वेदना-सन्तानस्य अहङ्कार-सन्बन्धाद् अज्ञान-बीजस्य (२१४) नित्य-विज्ञानान्यनिमित्तस्य आत्म-तत्त्व-याथात्म्य-विज्ञानाद्विनिवृत्तौ अज्ञान-बीजस्य (२१५) विच्छेद आत्मनो मोक्ष-संज्ञा, विपर्यये च बन्ध-संज्ञा । स्वरूपापेक्षत्वादुभयोः (२१६) ।
ब्रह्म ह इत्यैतिह्यार्थः । पुरा किल देवासुर-सङ्ग्रामे जगत्-स्थिति-परिपिपालयिषया आत्मानुशासनानुवर्त्तिभ्यो देवेभ्यः अर्थिभ्योऽर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मण इच्छा-निमित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादि-लोक-स्थित्यपहारिष्वसुरेषु पराजितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः ।
सूत्रवाक्यं
``त ऐक्षन्त'' इति मिथ्या-प्रत्ययत्वाद् हेयत्व-ख्यापनार्थमाम्नायः (२१७) ।
विवरणवाक्यं
ईश्वर-निमित्ते विजये स्व-सामर्थ्य-निमित्तः अस्माकमेवायं विजयोऽस्माकमेवायं महिमा इति आत्मनो जयादि श्रेयो-निमित्तं सर्वात्मानमात्मस्थं सर्व-कल्याणास्पदमीश्वरमेवात्मत्वेनाबुद्ध्वा पिण्ड-मात्राभि-मानाः सन्तो यं मिथ्या-प्रत्ययं चक्रुः तस्य पिण्ड-मात्र-विषयत्वेन मिथ्या-प्रत्ययत्वात् सर्वात्मेश्वर-याथात्म्यावबोधेन हातव्यता-ख्यापनार्थः ``तद्धैषाम्'' इत्याद्याख्यायिकाम्नायः । . १॥
मन्त्र २
तद्धैषां विजज्ञौ । तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानत किमिदं यक्षमिति ॥ ३.२॥
पदभाष्यं
ब्रह्मणो रूपविशेषेण प्रादुर्भावः
एवं मिथ्याभिमानेक्षणवतां तद् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञातवद् ब्रह्म । सर्वेक्षितृ हि तत् सर्व-भूत-करण-प्रयोक्तृत्वात् । देवानां च मिथ्या-ज्ञानमुपलभ्य, ``मैवासुरवद् देवा मिथ्याभिमानात् पराभवेयुः'' इति तदनुकम्पया ``देवान् मिथ्याभिमानापनोदनेन अनुगृह्णीयाम्'' इति तेभ्यः देवेभ्यो ह किल अर्थाय प्रादुर्बभूव स्व-योग-माहात्म्य-निर्मितेन अत्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रिय-गोचरे प्रादुर्बभूव प्रादुर्भूतवत् । तत् प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तो देवाः ``किमिदं यक्षं पूज्यं (२१८) महद्भूतम्'' इति ॥ ३.२॥
वाक्यभाष्यं
तद् ब्रह्म ह किल एषां देवानामभिप्रायं मिथ्याहङ्कार-रूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्याभिमान-शातनेन तदनुजिघृक्षया (तेभ्यः) देवेभ्योऽर्थाय तेषामेवेन्द्रिय-गोचरे नातिदूरे प्रादुर्बभूव महेश्वर-शक्ति-मायोपात्तेन अत्यन्ताद्भुतेन प्रादुर्भूतं किल केनचिद्रूप-विशेषेण । तत् किल उपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः, किमिदं यदेतद्यक्षं पूज्यमिति ॥ २॥
मन्त्र ३
तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति । तथेति ॥ ३.३॥
पदभाष्यं
ते तदजानन्तो देवाः सान्तर्भयाः तद्विजिज्ञासवः अग्निं अग्र-गामिनं (२१९) जात-वेदसं (२२०) सर्वज्ञ-कल्पं (२२१) अब्रुवन् उक्तवन्तः । हे जातवेद एतद् अस्मद्-गोचरस्थं यक्षं विजानीहि विशेषतो बुध्यस्व । त्वं नः तेजस्वी । किमेतद्यक्षमिति । तथा अस्तु इति ॥ ३.३॥
वाक्यभाष्यं (३-१०)
तद्विज्ञानायाग्निमब्रुवन् । तृणनिधानेऽयमभिप्रायः - अत्यन्त-सम्भावितयोरग्नि-मारुतयोः तृण-दहनादानाशक्त्या आत्म-सम्भावना (२२२) शातिता भवेदिति ॥ ३-१०॥
मन्त्र ४
तदभ्यद्रवत् तमभ्यवदत् । कोऽसीति ।
अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ३.४॥
पदभाष्यं
तद् यक्षं अभि अद्रवत् तत्प्रति गतवानग्निः । तं च गतवन्तं पिपृच्छिषुं तत्समीपे अप्रगल्भत्वात् तूष्णीं-भूतं तद्यक्षं अभ्यवदत् अग्निं प्रति अभाषत । कोऽसीति । एवं ब्रह्मणा पृष्टोऽग्निः अब्रवीत् अग्निर्वा अग्निनाम अहं प्रसिद्धो जातवेदाः इति च नाम-द्वयेन प्रसिद्धतया आत्मानं श्लाघयन् (२२३) इति ॥ ३.४॥
मन्त्र ५
तस्मिंस्त्वयि किं वीर्यमिति ।
अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ३.५॥
पदभाष्यं
एवमुक्तवन्तं ब्रह्म अवोचत् तस्मिन् एवं प्रसिद्ध-गुण-नामवति त्वयि किं वीर्यं सामर्थ्यं इति । सोऽब्रवीत् इदं जगत् सर्वं दहेयं भस्मी-कुर्यां यदिदं स्थावरादि पृथिव्यामिति । पृथिव्यामित्युपलक्षणार्थम्, यतोऽन्तरिक्षस्थमपि दह्यत एवाग्निना ॥ ३.५॥
मन्त्र ६
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् ।
स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ३.६॥
पदभाष्यं
तस्मै एवमभिमानवते ब्रह्म तृणं निदधौ पुरः अग्नेः स्थापितवत् । ब्रह्मणा ``एतत् तृण-मात्रं ममाग्रतः दह, न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र'' इत्युक्तः तत् तृणं उपप्रेयाय तृण-समीपं गतवान् सर्वजवेन सर्वोत्साह-कृतेन वेगेन गत्वा तद् न शशाक नाशकद् दग्धुम् । स जातवेदाः तृणं दग्धुमशक्तो व्रीडितो हत-प्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान् प्रति निववृते निवृत्तः प्रतिगतवान् । न एतद् यक्षं अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति ॥ ३.६॥
मन्त्र ७-१०
अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति । तथेति ॥ ३.७॥
तदभ्यद्रवत् तमभ्यवदत् । कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीत् ।
मातरिश्वा वा अहमस्मीति ॥ ३.८॥
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं आददीय यदिदं पृथिव्यामिति ॥ ३.९॥
तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुम् ।
स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ३.१०॥
पदभाष्यं
अथ अनन्तरं वायुमब्रुवन् । हे वायो एतद्विजानीहि इत्यादि समानार्थं पूर्वेण । वानाद्, गमनाद्, गन्धनाद्वा वायुः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । इदं सर्वं अपि आददीय गृह्णीयां यदिदं पृथिव्यां इत्यादि समानमेव ॥ ३.७-१०॥
मन्त्र ११
अथ इन्द्रमब्रुवन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति । तथेति ।
तदभ्यद्रवत् । तस्मात्तिरोदधे ॥ ३.११॥
पदभाष्यं
अथ इन्द्रमब्रुवन् मघवन्नेतद्विजानीहि इत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवान् (२२४) बलवत्त्वात् । तथेति । तदभ्यद्रवत् । तस्माद् इन्द्राद् (२२५) आत्म-समीपं गतात् तद् ब्रह्म तिरोदधे तिरोभूतम् । इन्द्रस्य इन्द्रत्वाभिमानोऽतितरां निराकर्त्तव्य इत्यतः संवादमात्रमपि नादाद् ब्रह्म इन्द्राय ॥ ३.११॥
वाक्यभाष्यं
इन्द्रः आदित्यः (२२६) वज्रभृद् वा अविरोधात् (२२७) । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्यत्रायमभिप्रायः - ``इन्द्रः अहम्'' इत्यधिकतमोऽभिमानोऽस्य सः ``अहमग्न्यादिभिः प्राप्तं वाक्-सम्भाषण-मात्रमप्यनेन न प्राप्तोऽस्मि'' इत्यभिमानं कथं नु नाम जह्यादिति तदनुग्रहाय एवान्तर्हितं तद् ब्रह्म बभूव ॥ ११॥
मन्त्र १२
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम् ।
तां होवाच किमेतद्यक्षमिति ॥ ३.१२॥
पदभाष्यं
तद्यक्षं यस्मिन्नाकाशे आकाश-प्रदेशे आत्मानं दर्शयित्वा तिरोभूतम्, इन्द्रश्च ब्रह्मणः तिरोधान-काले यस्मिन्नाकाशे आसीत् स इन्द्रः तस्मिन्नेवाकाशे तस्थौ, किं तद्यक्षमिति ध्यायन् । न निववृतेऽग्न्यादिवत् । तस्येन्द्रस्य यक्षे भक्तिं बुद्ध्वा विद्या (२२८) उमारूपिणी प्रादुरभूत् स्त्री-रूपा । स इन्द्रः तां उमां बहुशोभमानाम् । सर्वेषां हि शोभमानानां शोभनतमा विद्या । तदा (२२९) बहुशोभमानेति विशेषणमुपपन्नं भवति । हैमवतीं हेम-कृताभरणवतीं इव (२३०) बहुशोभमानामित्यर्थः । अथवा उमैव हिमवतो दुहिता हैमवती । नित्यमेव सर्वज्ञेन ईश्वरेण सह वर्त्तते इति ज्ञातुं समर्थेति कृत्वा तां उपजगाम इन्द्रः । तां ह उमां किल उवाच पप्रच्छ - ब्रूहि किमेतद् दर्शयित्वा तिरोभूतं यक्षमिति ॥ ३.१२॥
वाक्यभाष्यं
स शान्ताभिमान इन्द्रः, अत्यर्थं ब्रह्म विजिज्ञासुः, यस्मिन्नेवाकाशे ब्रह्मणः प्रादुर्भावः आसीत् तिरोधानं च तस्मिन्नेव स्त्रियमतिरूपिणीं (२३१) विद्यामाजगाम । अभिप्रायोद्बोध-हेतुत्वाद् (२३२) रुद्रपत्न्युमा हैमवती इव सा शोभमाना विद्यैव । विरूपोऽपि विद्यावान् बहु शोभते (२३३) ॥ १२॥
॥ इति तृतीयः खण्डः ॥
अध्याय ४
मन्त्र १
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ।
ततो हैव विदाञ्चकार ब्रह्मेति ॥ ४.१॥
पदभाष्यं
सा ब्रह्मेति ह किल उवाच । ब्रह्मणो वै ईश्वरस्यैव विजये - ईश्वरेणैव जिता असुराः । यूयं तत्र निमित्तमात्रम् । तस्यैव विजये - यूयं महीयध्वं महिमानं प्राप्नुथ । एतद् इति क्रिया-विशेषणार्थम् (२३४) । मिथ्याभिमानस्तु युष्माकं ``अस्माकमेवायं विजयोऽस्माकमेवायं महिमा'' इति । ततः तस्मादुमावाक्याद् ह एव विदाञ्चकार ब्रह्मेति इन्द्रः । अवधारणात् ततो हैव इति, न स्वातन्त्र्येण ॥ ४.१॥
वाक्यभाष्यं
तां च पृष्ट्वा तस्या एव वचनाद् विदाञ्चकार विदितवान् । अत इन्द्रस्य बोध-हेतुत्वाद् विद्यैव उमा। (२३५) ``विद्या-सहायवानीश्वरः'' इति स्मृतिः ॥ ४.१॥
मन्त्र २
पदभाष्यं
यस्माद् अग्निवाय्विन्द्रा एते देवा ब्रह्मणः संवाद-दर्शनादिना सामीप्यमुपगताः -
तस्माद् वा एते देवाः अतितरामिवान्यान्देवान् यदग्निर्वायुरिन्द्रस्ते
ह्येनन्नेदिष्ठं पस्पृशुः ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ४.२॥
पदभाष्यं
ब्रह्मज्ञानस्य दृष्टं फलं
तस्माद् ऐश्वर्यर्गुणैः अतितरामिव शक्ति-गुणादि-महा-भाग्यैः अन्यान् देवान् अतितरां अतिशयेन शेरते (२३६) इव एते देवाः । इव शब्दोऽनर्थकोऽवधारणार्थो वा । यदग्निर्वायुरिन्द्रः ते हि देवा यस्माद् एनद् ब्रह्म नेदिष्ठम् (२३७) अन्तिकतमं प्रियतमं (२३८) पस्पृशुः स्पृष्टवन्तो यथोक्तैः ब्रह्मणः संवादादि-प्रकारैः । ते हि यस्माच्च हेतोः एनद् ब्रह्म प्रथमः (२३९) प्रथमाः प्रधानाः सन्त इत्येतत् । विदाञ्चकार विदाञ्चक्रुः इति एतद् ब्रह्म इति ॥ ४.२॥
वाक्यभाष्यं
यस्मादिन्द्र-विज्ञान-पूर्वकं अग्नि-वाय्विन्द्राः ते ह्येनद् नेदिष्ठं अति-समीपं ब्रह्म-विद्यया ब्रह्म प्राप्ताः सन्तः पस्पृशुः स्पृष्टवन्तः, ते हि प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुः इत्येतत् । तस्माद् अतितरां अतीत्यान्यानतिशयेन दीप्यन्ते अन्यान् देवान् । ततोऽपि इन्द्रोऽतितरां दीप्यते, आदौ ब्रह्म-विज्ञानात् ॥ २-३॥
मन्त्र ३
पदभाष्यं
यस्मादग्नि-वायू अपि इन्द्र-वाक्यादेव विदाञ्चक्रतुः, इन्द्रेण हि उमा-वाक्यात् प्रथमं श्रुतं ब्रह्मेति अतः -
तस्माद् वा इन्द्रः अतितरामिवान्यान्देवान् स ह्येनन्नेदिष्ठं पस्पर्श ।
स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ४.३॥
पदभाष्यं
इन्द्रस्य सर्वदेवश्रेष्ठत्वे हेतुः
तस्माद् वै इन्द्रः अतितरां अतिशयेन शेते इव अन्यान्देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । यस्मात् स ह्येनत्प्रथमो विदाञ्चकार ब्रह्म इति उक्तार्थं वाक्यम् ॥ ४.३॥
मन्त्र ४
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥
४.४॥
पदभाष्यं
देवता-विषयः ब्रह्मण उपासनोपदेशः
तस्य प्रकृतस्य ब्रह्मणः एष आदेशः उपमोपदेशः । निरुपमस्य (२४०) ब्रह्मणो येनोपमानेन (२४१) उपदेशः सोऽयमादेश इत्युच्यते। (२४२) किं तत्? यदेतत् प्रसिद्धं लोके विद्युतो व्यद्युतत् (२४३) । ``विद्योतनं कृतवत्'' इत्येतदनुपपन्नमिति ``विद्युतो विद्योतनम्'' इति कल्प्यते । आ ३ इत्युपमार्थः । विद्युतो विद्योतनं इव इत्यर्थः । ``यथा सकृद् विद्युत्तम्'' (बृ. २.३.६) इति श्रुत्यन्तरे च दर्शनात् । विद्युद् इव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतः ``तेजः'' इत्यध्याहार्यम् । व्यद्युतद् विद्योतितवत् आ ३ इव । विद्युतः (२४४) तेजः सकृद् विद्योतितवद् इव इत्यभिप्रायः । इति-शब्दः (२४५) आदेश-प्रतिनिर्देशार्थः । इत्ययमादेश इति । इत्-शब्दः समुच्चयार्थः ।
अयं च अपरस्तस्यादेशः । कोऽसौ? न्यमीमिषत् (२४६) । यथा चक्षुः न्यमीमिषद् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाश-तिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवता-विषयं ब्रह्मण उपमान-दर्शनम् ॥ ४.४॥
वाक्यभाष्यं
तस्यैष आदेशः । तस्य ब्रह्मणः एषः वक्ष्यमाण आदेशः उपासनोपदेशः इत्यर्थः । यस्माद् देवेभ्यः विद्युद् इव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत् तस्माद् विद्युतो विद्योतनं यथा यदेतद् ब्रह्म व्यद्युतद् विद्योतितवत् । आ इव इत्युपमार्थः आ-शब्दः । यथा घनान्धकारं विदार्य विद्युत् सर्वतः प्रकाशते एवं तद् ब्रह्म देवानां पुरतः सर्वतः प्रकाशवद् व्यक्ती-भूतम् । अतो व्यद्युतद् इव इत्युपास्यम् । ``यथा सकृद्विद्युत्तम्'' (बृ. २.३.६) इति च वाजसनेयके ।
यस्माच्च इन्द्रोपसर्पण-काले न्यमीमिषत् । यथा कश्चिच्चक्षुर्निमेषणं कृतवान् इति । इतीत्-इत्यनर्थकौ निपातौ । निमिषितवद् इव तिरोभूतम् । इति एवं अधिदैवतं देवताया अधि यद्दर्शनमधिदैवतं तत् ॥ ४॥
मन्त्र ५
अथाध्यात्मं यदेतद् गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णꣳसङ्कल्पः ॥ ४.५॥
पदभाष्यं
प्रत्यगात्म-विषयः ब्रह्मण उपासनोपदेशः
अथ अनन्तरं अध्यात्मं (२४७) प्रत्यगात्म-विषयः आदेश उच्यते । यदेतद् गच्छतीव च मनः एतद् ब्रह्म ढौकते इव विषयी-करोति इव । यत् च (२४८) अनेन मनसा एतद् ब्रह्म उपस्मरति समीपतः स्मरति साधकः । अभीक्ष्णं भृशं सङ्कल्पः च मनसो ब्रह्म-विषयः। (२४९) मन-उपाधिकत्वाद् हि मनसः सङ्कल्प-स्मृत्यादि-प्रत्ययैरभिव्यज्यते ब्रह्म, विषयी-क्रियमाणम् (२५०) इव । अतः स एष ब्रह्मणोऽध्यात्ममादेशः ।
विद्युन्निमेषणवद् अधिदैवतं द्रुत-प्रकाशन-धर्मि, अध्यात्मं च मनः-प्रत्यय-सम-कालाभिव्यक्ति-धर्मि - इत्येष आदेशः । एवमादिश्यमानं (२५१) हि ब्रह्म मन्द-बुद्धि-गम्यं भवतीति ब्रह्मण आदेशोपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्द-बुद्धिभिराकलयितुं शक्यम् ॥ ४.५॥
वाक्यभाष्यं
अथ अनन्तरमध्यात्मम् । आत्म-विषयमध्यात्मम्, ``उच्यते'' इति वाक्य-शेषः । यदेतद् यथोक्त-लक्षणं ब्रह्म (२५२) गच्छति इव प्राप्नोति इव, विषयी-करोति इव इत्यर्थः । न पुनः विषयी-करोति, मनसोऽविषयत्वाद् ब्रह्मणः । अतो मनो न गच्छति । ``येनाहुर्मनो मतम्'' (के. १.५) इति हि चोक्तम् । गच्छति इव इति तु मनसोऽपि मनस्त्वात् । आत्म-भूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्त्तते इति । उपस्मरति (२५३) अनेन मनसैव तद् ब्रह्म विद्वान् यस्मात् तस्माद् ब्रह्म गच्छति इव इत्युच्यते । अभीक्ष्णं पुनः पुनः च सङ्कल्पः ब्रह्म-प्रेषितस्य मनसः । अत उपस्मरण-सङ्कल्पादिभिः लिङ्गैः (२५४) ब्रह्म मनोऽध्यात्म-भूतम् (२५५) उपास्यम् (२५६) इत्यभिप्रायः ॥ ५॥
मन्त्र ६
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳसर्वाणि
भूतानि संवाञ्छन्ति ॥ ४.६॥
पदभाष्यं
तद् ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं, तस्य प्राणि-जातस्य प्रत्यगात्म-भूतत्वाद् (२५७) वनं वननीयं सम्भजनीयम् । अतः तद्वनं नाम । प्रख्यातं ब्रह्म तद्वनमिति यतः तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन (२५८) उपासितव्यं चिन्तनीयम् । अनेन नाम्ना (२५९) उपासनस्य फलमाह - स यः कश्चिद् एतद् यथोक्तं ब्रह्म एवं यथोक्त-गुणं वेद उपास्ते अभि ह एनं उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्ते एव, यथा ब्रह्म ॥ ४.६॥
वाक्यभाष्यं
तस्य च अध्यात्ममुपासने गुणो विधीयते - तद्ध तद्वनम् । तद् एतद् ब्रह्म तच्च तद्वनं च तत्परोक्षं वनं सम्भजनीयम् । वनतेः तत्कर्मणः (२६०) तस्मात् तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन (२६१) तद्वनमित्युपासितव्यम् । स यः कश्चित् एतद् यथोक्तं एवं यथोक्तेन गुणेन वनमित्यनेन नाम्ना अभिधेयं ब्रह्म वेद उपास्ते तस्यैतत्फलमुच्यते । सर्वाणि भूतानि एनं उपासकं अभिसंवाञ्छन्ति इह अभिसम्भजन्ते सेवन्ते स्मेत्यर्थः । यथागुणोपासनं (२६२) हि फलम् ॥ ६॥
मन्त्र ७
एवमनुशिष्टः शिष्यः आचार्यमुवाच -
उपनिषदं भो ब्रूहि इत्युक्ता त उपनिषद् ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ४.७॥
पदभाष्यं
उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आह आचार्यः उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह - ब्राह्मीं ब्रह्मणः परमात्मनः इयं ब्राह्मी तां परमात्म-विषयत्वादतीत-विज्ञानस्य वाव एव ते उपनिषदमब्रूम इति । उक्तामेव परमात्म-विद्यामुपनिषदमब्रूम इत्यवधारयत्युत्तरार्थम् ।
तपःप्रभृतीनां ब्रह्मविद्यायाः अशेषत्वप्रतिपादनं
परमात्म-विषयामुपनिषदं श्रुतवत ``उपनिषदं भो ब्रूहि'' इति पृच्छतः शिष्यस्य कः अभिप्रायः? यदि तावच्छ्रुतस्यार्थस्य प्रश्नः कृतः, ततः पिष्ट-पेषणवत् पुनरुक्तोऽनर्थकः प्रश्नः स्यात् । अथ सावशेषा उक्ता उपनिषत्स्यात् ततस्तस्याः फलवचनेनोपसंहारो न युक्तः ``प्रेत्यास्माल्लोकादमृता भवन्ति'' (के. २.५) इति । तस्मादुक्तोपनिषच्छेषविषयोऽपि प्रश्नः अनुपपन्न एव, अनवशेषितत्वात् । कस्तर्ह्यभिप्रायः प्रष्टुः?
इत्युच्यते - किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारि-साधनान्तरापेक्षा, अथ निरपेक्षैव । सापेक्षा चेदपेक्षित-विषयामुपनिषदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवद् ``नातःपरमस्ति'' इत्येवमभिप्रायः । एतदुपपन्नमाचार्यस्यावधारण-वचनं ``उक्ता ते उपनिषत्'' इति ।
आक्षेपः
ननु नावधारणमिदं, यतोऽन्यद्वक्तव्यमाह ``तस्यै तपो दमः'' इत्यादि ।
समाधानं
सत्यं वक्तव्यमुच्यते आचार्येण, न तु उक्तोपनिषच्छेषतया तत्सहकारि-साधनान्तराभिप्रायेण वा । किन्तु ब्रह्म-विद्या-प्राप्त्युपायाभिप्रायेण । वेदैः तदङ्गैश्च सहपाठेन समीकरणात् तपः-प्रभृतीनाम् । न हि वेदानां शिक्षाद्यङ्गानां च साक्षाद् ब्रह्म-विद्या-शेषत्वं तत्सहकारि-साधनत्वं वा सम्भवति ।
आक्षेपः
सहपठितानामपि यथा-योगं विभज्य विनियोगः स्यादिति चेत् । यथा सूक्त-वाकानुमन्त्रण-मन्त्राणां यथा-दैवतं विभागः (२६३) , तथा तपो-दम-कर्म-सत्यादीनामपि ब्रह्म-विद्या-शेषत्वं, तत्सहकारि-साधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थ-प्रकाशकत्वेन कर्मात्म-ज्ञानोपायत्वं इति । एवं ह्ययं विभागो युज्यते अर्थ-सम्बन्धोपपत्ति-सामर्थ्यादिति चेत् ।
समाधानं
न, अयुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्व-क्रिया-कारक-फल-भेद-बुद्धि-तिरस्कारिण्या ब्रह्म-विद्यायाः शेषापेक्षा, सहकारि-साधन-सम्बन्धो वा युज्यते । सर्व-विषय-व्यावृत्त-प्रत्यगात्म-विषय-निष्ठत्वाच्च ब्रह्म-विद्यायाः, तत्फलस्य च निःश्रेयसस्य । ``मोक्षमिच्छन् सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्'' (भाल्लवीश्रुतिः) । तस्मात् कर्मणां सहकारित्वं कर्म-शेषापेक्षा (२६४) वा न ज्ञानस्योपपद्यते । ततोऽसदेव ``सुक्तवाकानुमन्त्रणवद् यथा-योगं विभागः'' इति । तस्माद् अवधारणार्थतैव प्रश्न-प्रतिवचनस्योपपद्यते । एतावती एव (२६५) इयमुपनिषद् उक्ताऽन्य-निरपेक्षा अमृतत्वाय् ॥ ४.७॥
वाक्यभाष्यं
``उपनिषदं भो ब्रूहि'' इत्युक्तायामप्युपनिषदि शिष्येणोक्त आचार्य आह - उक्ता कथिता ते तुभ्यं उपनिषद् आत्मोपासनं च । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मण-जातेः उपनिषदं अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि (२६६) । ब्राह्मी (२६७) नोक्ता । उक्ता (२६८) त्वात्मोपनिषत् । तस्माद् (२६९) न भूताभिप्रायोऽब्रूम इत्ययं शब्दः ॥ ७॥
मन्त्र ८
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि
सत्यमायतनम् ॥ ४.८॥
पदभाष्यं
यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽब्रूम (२७०) तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपाय-भूतानि तप-आदीनि । तपः कायेन्द्रिय-मनसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्व-शुद्धि-द्वारा तत्त्व-ज्ञानोत्पत्तिर्दृष्टा । दृष्टा ह्यमृदित-कल्मषस्य उक्तेऽपि ब्रह्मणि, अप्रतिपत्तिर्विपरीत-प्रतिपत्तिश्च, यथेन्द्र-विरोचन-प्रभृतीनाम् । तस्मादिह वा अतीतेषु वा बहुषु जन्मान्तरेषु तप-आदिभिः कृत-सत्त्व-शुद्धेः ज्ञानं समुत्पद्यते यथा-श्रुतम् । ``यस्य देवे परा-भक्तिः (२७१) यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ '' (श्वे. ६.२३) इति मन्त्र-वर्णात् । ``ज्ञानमुत्पद्यते पुंसां क्षयात् (२७२) पापस्य कर्मणः'' (म.भा.शां. २०४.८) इति स्मृतेश्च ।
इति-शब्दः उपलक्षणत्व-प्रदर्शनार्थः । इति एवमाद्यन्यदपि ज्ञानोत्पत्तेरुपकारकं ``अमानित्वमदम्भित्वम्'' (गी. १३.७) इत्याद्युपदर्शितं भवति । प्रतिष्ठा पादौ (२७३) , पादौ इव अस्याः । तेषु हि सत्सु प्रतितिष्ठति ब्रह्म-विद्या, प्रवर्त्तते पद्भ्यां इव पुरुषः । वेदाः चत्वारः सर्वाणि च अङ्गानि शिक्षादीनि षट् । कर्म-ज्ञान-प्रकाशकत्वाद् वेदानां, तद्रक्षणार्थत्वाद् अङ्गानां, प्रतिष्ठात्वम् । अथवा प्रतिष्ठा-शब्दस्य पाद-रूपक-कल्पनार्थत्वाद् वेदाः तु इतराणि सर्वाङ्गानि शिर-आदीनि (२७४) । अस्मिन् (२७५) पक्षे शिक्षादीनां वेद-ग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीते अङ्गानि गृहीतान्येव भवन्ति, तदायतनत्वादङ्गानाम् (२७६) । सत्यं आयतनं यत्र तिष्ठत्युपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्-मनः-कायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविनः साधवः, न आसुर-प्रकृतिषु मायाविषु । `` (२७७) न येषु जिह्ममनृतं न माया च'' (प्र. १.१६) इति श्रुतेः । तस्मात् सत्यमायतनमिति कल्प्यते । तप-आदिषु एव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्व-ज्ञापनार्थम् । ``अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध-सहस्राच्च सत्यमेकं विशिष्यते'' (विष्णुस्मृतिः ८) इति स्मृतेः ॥ ४.८॥
वाक्यभाष्यं
तस्या वक्ष्यमाणायाः (२७८) उपनिषदः तपः ब्रह्मचर्यादि, दमः उपशमः, कर्म अग्निहोत्रादि इति एतानि प्रतिष्ठा आश्रयः । एतेषु हि सत्सु ब्राह्म्युपनिषत् प्रतिष्ठिता भवति । वेदाः चत्वारः अङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्त्तते । ब्रह्माश्रया हि विद्या । सत्यं यथा-भूत-वचनमपीडा-करं आयतनं निवासः । सत्यवत्सु हि सर्वं यथोक्तम् (२७९) आयतने इव अवस्थितम् ॥ ८॥
मन्त्र ९
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये
प्रतितिष्ठति प्रतितिष्ठति ॥ ४.९॥
पदभाष्यं
यो वै एतां ब्रह्म-विद्यां ``केनेषितम्'' इत्यादिना यथोक्तां एवं महा-भागां, ``ब्रह्म ह देवेभ्यः'' इत्यादिना स्तुतां, सर्व-विद्या-प्रतिष्ठां (२८०) वेद ``अमृतत्वं हि विन्दते'' इत्युक्तमपि ब्रह्म-विद्या-फलमन्ते निगमयति - अपहत्य पाप्मानं अविद्या-काम-कर्म-लक्षणं संसार-बीजं विधूय अनन्ते अपर्यन्ते स्वर्गे (२८१) लोके सुखात्मके ब्रह्मणि इत्येतत् । अनन्ते इति विशेषणान्न त्रिविष्टपे । अनन्त-शब्दः औपचारिकोऽपि स्याद् इत्यत आह - ज्येये इति । ज्येये ज्यायसि सर्व-महत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभिप्रायः ॥ ४.९॥
वाक्यभाष्यं
तां एतां तप-आद्यङ्गां (२८२) तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सायतनं आत्म-ज्ञान-हेतु-भूतां एवं यथावद् यो वेद अनुवर्त्ततेऽनुतिष्ठति, तस्यैतत्फलमाह - अपहत्य पाप्मानं अपक्षीय धर्माधर्मौ इत्यर्थः । अनन्ते अपारे, अविद्यमानान्ते स्वर्गे लोके सुख-प्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्व-महत्तरे प्रतितिष्ठति सर्व-वेदान्त-वेद्यं ब्रह्म आत्मत्वेन अवगम्य तदेव ब्रह्म प्रतिपद्यते इत्यर्थः ॥ ९॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो
बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदम् ।
माहं ब्रह्म निराकुर्याम् । मामा ब्रह्म निराकरोत् ।
अनिराकरणमस्त्वनिराकरणं मे अस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ।
ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ केनोपनिषद्भाष्यं सम्पूर्णम् ॥
टिप्पणी
(१) सामवेदीयान्तर्गत-तलवकार-शाखायाः नवमोऽध्यायः इयमुपनिषत् ।
(२) अन्यकारणत्वं अन्यफलत्वमित्यर्थः । फलमपि हेतुः ।
(३) वस्तुप्रमाणाधीनत्वादिति यावत् । प्रमाणस्य वस्त्वनुसारित्वात् प्रमाणापेक्षया विषयवस्तुनः प्राधान्यां इति यावत् ।
(४) उच्छेत्तुमिच्छतः ।
(५) पुनः पुनः मृत्युसाधकम् । अथवा मृत्युरितिपदं पर्यायशब्दः यस्य इत्यर्थः ।
(६) यद्यपि स्वर्गकामो अग्निष्टोमेन यजेत इत्यादिश्रुतिप्रामाण्यात् मनुष्यत्वदेहत्वादिव्यतिरिक्तः आत्मा स्वर्गफलभुग् अङ्गीक्रियते कर्मणि तथापि न ब्रह्मात्मतत्वं तत्र आदर्त्तुं शक्यते । साधनसाध्यादिविरोधात् ।
(७) कर्मणः ज्ञानेन त्यज्यत्वे सति कर्म न आरब्धव्यमेव इति शङ्कते ।
(८) पूर्वं कर्म कृत्वा ततः त्यक्तुमिष्टम् ।
(९) स कामभिर्जायते तत्र तत्र ।
(१०) तन्निर्वर्तकः संस्कार-सम्पादकः आश्रयभूतः यः प्राणः तद्विज्ञानं तदुपासनं तत्सहितानि । प्राणोपासनसहितानि कर्माणि ।
(११) फलकामनया देवान् यो यजते सः श्रेयान् उत आत्मशुद्ध्यर्थमेव यो यजते सः आत्मयाजी श्रेयान् इति प्रश्नं कृत्वा आत्मयाजी श्रेयानिति निरूपितं शतपथाख्ये शुक्लयजुर्वेदब्राह्मणे ।
(१२) अन्येन मृदादिचूर्णेन अन्यत् भाण्डादि संस्क्रियते ।
(१३) पतति इत्यनेन पक्षिवत् मनः वेगेन स्वविषयं पतति इति व्यजयते ।
(१४) इष आभीक्ष्ण्ये (१५२५ सेट्) नवमगणक्र्यादिः इष्णाति । इषितम् । आभीक्ष्ण्यं पौनःपुन्यं भृशार्थो वा । तद्विषयायां क्रियायाम् । इष गतौ (११२७ सेट्) चतुर्थगणदिवादिः इष्यति । इषितम् । अत्र इष (इषु वा) इच्छायां (१३५१) षष्ठगणतुदादिः इच्छति । इष्टमिति । इषितं तु छान्दसम् । तौदाकस्य तीषसहलुभरुषरिषः (७.२.४८) इति विकल्पेन इड्विधानेऽपि यस्य विभाषा (७.२.१५) इति निष्ठायाः इड्-निषेधेन इष्टमित्येव रूपं स्यात् । (इट्प्रयोगे तु गुणेन भवितव्यम् । एषितव्यमिति स्यात् तदभावः छान्दसत्वाभिधानमिति आनन्दगिरिः । तस्य मते वेट् । अन्विष्टमन्वेषितमिति प्रयोगद्वैविध्योपपत्तये ।
(१५) पाठभेद - अभ्यग्रदुःखे इति वा ।
(१६) मनादीनां प्रवृत्तिः चेतनाधिष्ठानपूर्विका अचेतनप्रवृत्तित्वात् रथादिप्रवृत्तिवत् इति प्रयोगः । हेतौ अचेतनप्रवृत्तित्वं असिद्धं मनसः चेतनत्वात् इतिशङ्कावारणाय मनादीनामचेतनत्वमाह ।
(१७) यथा राज्ञः भोजने प्रवृत्तिर्भवति चकोरपक्षिणः सन्निधिमात्रेण । चकोरस्यायं विशेषः यत् विषसंयुक्तान्नं दृष्ट्वा तस्य नेत्रे वर्णविकारो भवति ।
(१८) इन्द्रियाणां हि प्रकरणमिदम् ।
(१९) शब्दग्राहकत्वसामर्थ्यप्रदम् । अनेन श्रोत्रादिग्राह्यत्वं निरस्तम् ।
(२०) अर्थः प्रयोजनम् । करणस्य करणान्तरापेक्षायामनवस्थानादिति भावः ।
(२१) तस्माच्छ्रोत्रादौ आत्मबुद्धिः सन्त्यक्तव्या इति शेषः ।
(२२) चैतन्य-ज्योतिषा दीपितं अन्तरेण अन्तःकरणं स्व-विषय-सङकल्पाध्यवसायादि-समर्थं न हि स्यादित्यन्वयः ।
(२३) सः, प्राणः इति शब्दद्वयमस्ति प्रथमायाम् ।
(२४) श्रोत्रादीन्द्रिय-प्रस्तावे घ्राणप्राणस्य ननु युक्तं ग्रहणं इति पाठभेदः ।
(२५) घ्राणप्राणस्य इति वा । (घ्राणात्मकप्राणस्य इत्यर्थः ।
(२६) श्रुतेः एवं मननं तु कुतोऽवगम्यते तत्राह - सर्वस्यैव इति । (केनेषितमिद्याद्युपक्रमस्थप्रश्न एव गमकः अत्र ।) । इन्द्रियमात्रोक्तौ हि प्राणव्यापारः अनन्यशेषः आपद्येत इति भावः ।
(२७) ज्ञात्वा विमुच्यते इति वा पाठः ।
(२८) निमित्तत्वं अर्थः अभिधेयं यस्येति विग्रहः ।
(२९) सङ्क्षेपेणोक्तं विवृणोति - विक्रियेति ।
(३०) तद्यदधीनं स आत्मा इति श्रोत्रस्य श्रोत्रमित्युक्त्या श्रोत्रस्य शब्दावभासकत्वेन आत्मा उपलक्ष्यते इति शेषः ।
(३१) क्षत्त्रस्यापि नियन्तृ, उग्रादप्युग्रम् । (बृ.भा. १.४.१४) (बलवदपि क्षत्त्रं मर्यादां नातिक्रामति धर्मेण नियमितत्वात् ।
(३२) येन आत्मना संयोगात् सान्निध्यरूपाद् अनित्यं शब्दाद्युपलब्धृत्वं यत्र श्रोत्रादौ प्रतीयते तत्करणमित्यर्थः । उपलब्धृत्वमिति करणस्यैव सतः स्वव्यापारे कर्तृत्वादिति द्रष्टव्यम् ।
(३३) प्रथमा, द्वितीया च ।
(३४) श्रोत्रादेः शब्दाद्युपलब्धौ निमित्तम् ।
(३५) तादात्म्येन अध्यारोपितो योऽनवबोधनिमित्तः अज्ञाननिमित्तः बुद्ध्यादिः संसारः ततः मोक्षणं तादात्म्याध्यास-निवृत्तिः दृष्टं फलं (जीवन्मुक्तिः) ।
(३६) अनारभ्यमाणे इत्यर्थः । प्रतिसन्दधते - संयोजयन्ति, आरभन्ते इति यावत् ।
(३७) सर्व-कर्मारम्भ-निमित्ताज्ञानस्य (सर्वेषां यज्ञादिकर्मणां यः आरम्भः तत्र निमित्तभूतं वर्णाश्रम-वयोऽवस्थाद्यभिमान-रूपमज्ञानं तस्य) तद्विपरीत-विद्याग्निना विप्लुष्टत्वात् दग्धत्वात् ।
(३८) कर्मणामपि दग्धत्वमिति इति व्याख्येयम् । कर्मणामनारम्भे इति वा पाठः । तदा कर्मणां ``सम्बन्धः न उपपद्यते'' इत्यध्याहृतेन सम्बन्धः ।
(३९) अनादिसंसारपरम्परया अहं पूर्वं शरीरी अभवं पश्चाच्च भविष्यामि इति यः शरीरादिप्रवाहः तत्सातत्यं यत् तस्य प्रतिसन्धानं धर्माद्यधिकारित्वाध्यासः कामादिदोषकल्पनं च एतदपेक्ष्य अध्यारोपितो यो मत्युः तद्वियोगापेक्षया अमृतत्वोक्तिः तेषामौपचारिकी इत्यर्थः ।
(४०) स्वरूपवत्त्वात् इति वा पाठः ।
(४१) ननु चक्षुरादिवद् वागिन्द्रियस्य (कर्मेन्द्रियभूतस्य) स्वविषयं प्रति गमनस्य अप्रसिद्धेः अप्रसक्तप्रतिषेधोऽयं न वाग् गच्छति इत्याशङ्क्याह - वाचा इति ।
(४२) विदितस्य अल्पादिरूपत्वादित्यर्थः ।
(४३) इत्युक्तत्वाद् अहेयत्वमुक्तं भवति इति यावत् । एवमग्रेऽपि ।
(४४) अविदितस्य उपादेयत्वमुपपादयति - कार्यार्थं हि इति ।
(४५) अविदिताद् अधि इत्यनेन ब्रह्मणि उपादेयत्वनिषेधात् वेदितुः आत्मनः स्वतः अन्यस्मै कस्मैचित्प्रयोजनाय स्वतः अन्यत् तद्ब्रह्म न उपादेयं भवति इत्यर्थः ।
(४६) निर्वर्त्तिता इति वा ।
(४७) अनुयोगः प्रश्नः । परीत्युपसर्गेण तद्विपरीतता बोध्यते । प्रश्नविपरीतः इत्यर्थः । उत्तर इति यावत् । अप्रतिपत्तेः इति हेत्वर्थे पञ्चमी । उक्तेऽपि तत्वे अप्रतिपत्तेः इति पर्यनुयोगे हेतुः इत्यन्वयः । आचार्येण उक्तेऽपि तत्वे शिष्यस्य तत्प्रतिपत्तिः नासीत् । अतः पुनः उत्तरं दीयते । तस्य व्याख्यानमेव द्वितीयवाक्यः ।
(४८) परि अ अनु अ युज् अ सन् अ आप् - पर्यनुयुयुक्षा ।
(४९) आचार्य एव शिष्यस्य पर्यनुयुयुक्षाकारणमात्मनः इन्द्रियाग्राह्यत्वं आह इत्यर्थः । तथा च न तत्र इत्यादिना आचार्य एव निर्विशेषस्य पूर्वमुक्तमिन्द्रियप्रेरकत्वं अवस्तुत्वादाक्षिप्यते इति गम्यते ।
(५०) मनसोऽपि इन्द्रियत्वमुपादाय एवं वचनं स्यात् । (गीता १५.७)
(५१) ज्ञाता एव हि आत्मेत्यर्थः । अहमस्मि जानान इति ज्ञातर्येव आत्मत्वानुभवस्य सार्वलौकिकत्वादिति भावः ।
(५२) ननु अस्तु ज्ञातैवात्मा । ततापि एकं ज्ञाता आत्मा अपेरणात्मना ज्ञात्रा ज्ञायेतैव इति विदितान्यत्वमसम्भवि इत्याशङक्याह - सर्वात्मकत्वात् इति । सर्वं ज्ञातृजातं आत्मा स्वरूपं यस्य तत्वात् । एको देवः, नान्यदतोऽस्ति द्रष्टृ इत्यादिश्रुतिभ्यः ज्ञातुः भेदाभावात् । युक्तिः - आत्मा विदितान्यः ज्ञातृत्वाद् व्यतिरेकेण घटवत् । विदितान्यत्वे श्रुतिः - स वेत्ति ।
(५३) अभिव्यक्तनामरूपं कार्यमेव इत्यर्थः ।
(५४) अनल्पमविरोधमित्यादि । एवमेव पदार्थशोधनं जिज्ञासुना कर्तव्यमिति दर्शितम् ।
(५५) अपेक्षां विनैव सम्पन्नत्वादित्यर्थः ।
(५६) अभिव्यक्तौ ।
(५७) ननु स्वरूपाभिव्यक्तौ स्वरूपं तावदपेक्ष्यते एवान्तरेण तु स्वरूपं कस्याभिव्यक्तिः स्यादिति प्रदीपस्य स्वरूपं च प्रकाश एव ततः प्रदीपस्य स्वरूपाभिव्यक्तौ आगतैव प्रकाशापेक्षा इत्यत आह - अपेक्षितोऽपि इति ।
(५८) न केवलं आत्मनो विज्ञानस्वरूपत्वाद् विज्ञानान्तरस्य आनर्थक्यं स्यात्, किं तर्हि नास्त्यपि विज्ञानान्तरं यदपेक्ष्यते इत्यर्थः ।
(५९) ज्ञानाद्विपरीतं विपरीतज्ञानं राजदन्तादित्वात् विपरीतम् । अज्ञानमित्यर्थः ।
(६०) प्रत्यक्षेण श्रुत्या (ज्ञानार्थज्ञानं वदन्त्या श्रुत्या) च विरोधः इत्यर्थः ।
(६१) साक्षीत्यर्थः । तथा च साक्षित्वमेव तस्य परमार्थरूपं तच्च चिन्मात्रत्वमेव पर्यवसितं साक्षित्वव्यपदेशस्यापि साक्ष्यतापेक्षत्वादिति बोध्यम् ।
(६२) एष त आत्मा सर्वान्तरः (बृ. ३.४.१)
(६३) नित्यविज्ञानरूपस्य आत्मनः सन्निधौ तदाभासाः प्रत्ययाः विज्ञानशब्दवाच्याः आविर्भवन्ति तिरोभवन्ति च । तैरनित्यविज्ञानात्मा आभाति । यो जीवः सुखी दुःखी इत्यादिभिर्विशेषणैः युक्तः अभ्युपगम्यते लौकिकैः सः ।
(६४) नित्यविज्ञानस्वरूपाद् भिन्ने जीवात्मनि ।
(६५) बुद्ध्यादय एव बुद्ध्यादीनां वा कर्तृत्वादयोऽनित्याः धर्माः इत्यर्थः ।
(६६) तत्र - बोधस्वरूपे आत्मनि इति विषयसप्तमीयम् । आत्मविषयौ एव बोधाबोधौ युक्तौ इत्यर्थः ।
(६७) अन्यस्मिन् अहङ्कारादौ निमित्तत्वात् ।
(६८) अन्यत्र - पटादिविषयेषु, अनित्यौ इव उपचर्येते इति सम्बन्धः । तथा व्यवहारे हेतुं दर्शयति - भावाभावयोः इति । विषयसद्भावासद्भावौ एव तत्र निमित्तमित्यर्थः । अनात्मनि बोधविषयत्व-तदभावयोः अनित्यत्वात्, विषयप्रकाशाप्रकाशापेक्षया आत्मनि बोधाबोधौ अनित्यौ इव उपचर्येते यथा नित्यौष्ण्यः अपि अग्निः विषयापेक्षया धक्ष्यति इति अविषयवद् उपचर्यते इति भावः ।
(६९) स्वम् । अन्यप्रकाशानपेक्षः इत्यर्थे वा प्रयोगः । अथवा यथा आदित्यप्रकाशस्य नित्यत्वेऽपि प्रकाशयिष्यति घटमिति घटनिमित्तं प्रकाशे अनित्यवोपचारः तद्वद् आत्मनः बोधस्य नित्यत्वेऽपि अध्यारोपापेक्षया उपदेशः ।
(७०) अबोधकर्तृत्वं - बोधकर्तृत्वाभावः इति ।
(७१) मुख्यबोधाविषयत्वात् ।
(७२) अभिन्नयोः उपर्यधोभावानुपपत्तेः ।
(७३) आत्मा इति शेषः ।
(७४) हस्तादिना एव हस्तादि इत्यर्थः ।
(७५) अतः - अविषयत्वात् । अन्यस्यापि - इन्द्रियादेरपि ।
(७६) आत्मैवेदं सर्वमिति श्रुतेश्च ।
(७७) जिह्वामूलः, हृदयं, कण्ठः, मूर्धा, दन्तः, नासिका, ओष्ठौ, तालु च ।
(७८) करणाभिव्यङ्ग्यः ।
(७९) कादयो मावसानाः ।
(८०) य-र-ल-वाः ।
(८१) श-ष-स-हाः ।
(८२) स्फोटाख्यायाः वाचः व्यञ्जकवर्णोपाधिभेदेनोक्तं नानात्वमेव प्रपञ्चयति - मितमित्यादिना । नियताक्षर-पादावसानाः गायत्र्यादि-च्छन्दो-विशिष्टा मन्त्राः (ऋग्वेदः) ।
(८३) अनियताक्षर-पादावसानानि वाक्य-रूपाणि (यजुर्वेदः) ।
(८४) पाञ्च-भक्तिकं च साप्त-भक्तिकं च स्तोभादि-गीत-विशिष्टं (सामवेदः) ।
(८५) वाक् सत्यं वा अनृतं वा भवति । विकारः विवर्त्तः ।
(८६) तच्चक्षुः पुरुषे येन स्वप्ने पश्यति (ऐ.भा. २.१) इति एतदाकारस्थं दृश्यते ।
(८७) इत्युक्त्या एव आत्मनो ब्रह्मत्वे प्रतिपादिते अनात्मनोऽब्रह्मत्वमर्थात् सिध्यत्येव इति तदेवं, नेदं इत्यनयोः वाक्ययोः पोनरुक्त्यमापन्नं तत्राह ।
(८८) विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति कीर्त्यते (तन्त्र.वा.सू.१.२.४२) इति । पक्षे प्राप्तस्य अप्राप्तांशपरिपूरणो विधिर्नियमः । निरुपाधिक आत्मा ब्रह्म इत्यद्वैतिनां मतिः । द्वैतिनां च सोपाधिक ईश्वरादिः ब्रह्म इति ज्ञानम् । एवं च आत्मनः तथा अनात्मनः ईश्वरादेः उपास्यस्य च ब्रह्मत्वे प्राप्ते नेदमिति अनात्मनः अब्रह्मत्वे अभिहिते आत्मैव ब्रह्म इति नियम्यते । आत्मनः ब्रह्मत्वे या पाक्षिक्यप्राप्तिरासीत् साऽपगता । तथा च अप्राप्तांशपरिपूरणाद् नियमः सिध्यति ।
(८९) नेदमित्यत्र निषेधार्थस्य प्राधान्याद् निषेधफलकः परिसङ्ख्या लब्धप्रसरेत्यभिप्रेत्य पुनराह - अन्येति । द्वयोः नित्यप्राप्तौ एकस्य निवृत्तिफलको विधिः परिसङ्ख्या । सर्वं खल्विदं ब्रह्म इति श्रुत्या आत्मन्यनात्मन्यपि द्वयोः युगपद् ब्रह्मबुद्धौ प्राप्तायामनात्मन्यनुपास्ये ब्रह्मबुद्धिं निराचिकीर्षुः श्रुतिराह - नेदमिति । तथा च अत्र परिसङ्ख्या पदं लभते ।
(९०) मन्त्रैः क्रियमाणानुवादः । वागाद्यविषयत्व-तत्प्रकाशकत्वयोः अनुवादः इत्यर्थः ।
(९१) अभिधेयप्रकाशनसामर्थ्यम् । वाचः अभिधानस्य वा यदभिधेयप्रकाशकत्वमस्ति तद् ब्रह्मणः एव ।
(९२) ग्रहीतुमिच्छा । ग्रहणं च अत्र ज्ञानार्थे । जिज्ञासामित्यर्थः ।
(९३) इतरबोधाय यत्नं मा कार्षीः इत्यर्थकेन लक्षणया विद्धीति पदेन वेदाचार्यो बुभुत्सुं इतरबोधयत्नाद् निवर्तयति इत्याह - विद्धीति ।
(९४) ननु मा तावद् इतरबोधाय कारि यत्नः ब्रह्मबोधाय तु तदुपासनयत्नोऽपेक्षतव्यः एव । न इत्याह - नेदमिति । शद्धधियः सर्वेन्द्रियप्रयत्नोपरमे यः स्वाभाविकः चित्ताकारः स एव ब्रह्मबोध इति भावः । (अनेन निरोधः निरस्तः यत्नसाध्यत्वात्तस्य।)
(९५) मनुतेऽनेन इति व्युत्पादनाद् मननक्रियां प्रत्येव मनसः करणत्वं न तु रूपादिदर्शनादिक्रियां प्रति इत्याशङ्कां वारयितुमाह - सर्वकरणेति । सर्वेन्द्रियसहकारित्वेन इन्द्रियक्रियासामान्यं प्रति करणमिति यावत् । तत्र हेतुमाह - सर्वविषयेति । सर्वेन्द्रियविषयज्ञाने जननीये तत्सम्बन्धापेक्षत्वादिति यावत् ।
(९६) मनसः करणलक्षणमुक्त्वा श्रुतिमुखेन स्वरूपं दर्शयति - काम इत्यादिना ।
(९७) लोकः इति शेषः ।
(९८) अवभासकत्वात्मक-नियन्तृत्वात् । अभेदार्था तृतीया । चैतन्यज्योतिषः इति शेषः ।
(९९) स्वभास्यं सर्वं प्रति प्रत्यगात्मैव चैतन्यमिति स्वात्मनि तस्मिन् न अन्तःकरणं प्रवर्त्तते इत्यर्थः ।
(१००) तेन अन्तःस्थेन ज्योतिषा... सामर्थ्यम् । अथवा पञ्चम्यर्थे तृतीया । यस्माद् अन्तःस्थेन...सामर्थ्यं तस्मात् सवृत्तिकम् ।
(१०१) करणानि ।
(१०२) यत् सर्वकरणानामविषयं येन नित्य-विज्ञान-स्वरूपावभासतया तानि (इन्द्रियाणि) सव्यापाराणि सविषयाणि अवभास्यन्ते इत्यन्वयः ।
(१०३) संयुक्तेन चक्षुषा इति पूर्वत्र सम्बन्धः ।
(१०४) चक्षुरिन्द्रियस्य एकत्वेऽपि अन्तःकरणवृत्तिभेदात् चक्षुर्वृत्तयोऽपि भिन्नाः । ताः चाक्षुषवृत्तीः ।
(१०५) भिन्नाः सम्भिन्नाः संयुक्ताः । नानेति वा ।
(१०६) येन आत्मज्योतिषा लोकः चक्षुर्वृत्तीः पश्यति विषयीकरोति । As one cannot see the eyes it means the acts of seeing ।
(१०७) श्रोत्रमिदमिति श्रोत्रस्य इदमा निर्देशं स्फुटयति - यत्प्रसिद्धमिति । यदिदं प्रसिद्धं श्रोत्रं तद्येन श्रुतमित्यर्थः ।
(१०८) प्रकाशितम् ।
(१०९) सुष्ठु वेदाहमिति मा गृह्णीयादित्याशयादाहाचार्यः... यदीत्यादि इति वा पाठः
(११०) वेदितुः स्वरूपमिति यावत् ।
(१११) दभ्रमेवापि इति पाठान्तरम् ।
(११२) न प्रतिपद्यते इति ।
(११३) अविदितं ब्रह्म इति वा पाठः ।
(११४) दुर्बोधत्वाद्वस्तुनः इत्यर्थः ।
(११५) कथं ब्रह्मणः रूपं नास्ति इति मया आक्षिप्यते इति यावत् ।
(११६) पृथिव्यादीनामित्यादि न भवति इत्यन्तं हेतुवाक्यम् ।
(११७) यदि (मनुष्येषु) अध्यात्मं यदि वा देवेषु अधिदैवतं तदपि च (उभयम्) दहरत्वाद् न निवर्त्तते, उपाधि-परिच्छिन्नत्वहेतोः इत्यर्थः । यदध्यात्मं यदपि देवेषु तदपि च उपाधि-परिच्छिन्नत्वाद् इति वा पाठः ।
(११८) निरङ्कुशे स्वातन्त्र्ये इति यावत् ।
(११९) इति आचार्यः मन्यते ।
(१२०) आध्यात्मिकं मनुष्येषु इति त्वं इत्यस्य अयमर्थः ।
(१२१) तदल्पमेव इति सम्बन्धः ।
(१२२) नाह इति पाठान्तरम् । वाक्य-भाष्य-पाठानुसारी च । न अह इति पदच्छेदः । अह इत्येवार्थः निपातः ।
(१२३) अगर्जनो हि मन्दबुद्धिः असौ मौनावलम्बनाद् इत्याचार्यस्य बुद्धिः स्यात् तन्निरसनार्थमित्यर्थः ।
(१२४) इत्याचार्यबुद्धिसंवादे सति अर्थान्तरानभिधाने सति इत्यर्थः ।
(१२५) तद्ब्रह्म न वेद इति च नैव मन्ये ।
(१२६) तत्र हेतुमाह - अविदितेति । अविदितादधि इत्यागमेन ब्रह्मणोऽविदितत्वस्य निषेधात् ।
(१२७) यो नः अस्माकं मध्ये स एव तद् ब्रह्म वेद नान्यः । उपास्य-ब्रह्म-वित्त्वाद् अतोऽन्यस्य यथा अहं वेद इति । इति वा पाठः ।
(१२८) विजानतां मतं किम्? अविज्ञातं ब्रह्म इति, विदितादन्यद् ब्रह्म इति । अविजानतां मतं किम्? मया ब्रह्म विज्ञातं इति । कथं विज्ञातम्? उपाधिमिश्रितत्वेन ।
(१२९) यस्माद्विदितवतां अमतं तस्माद् अज्ञानां मतं इति हेत्वर्थः । वा।भा - अविज्ञातम्...तदेव ज्ञानम् ।
(१३०) आचार्यपरम्परोपदेशः आगमः तन्मात्रप्रधानेन ।
(१३१) यद् ब्रह्म विदितादन्यद् उक्तं वागादीनामगोचरत्वात्, मीमांसितं च अनुभवोपपत्तिभ्यां तत् तथैव ज्ञातव्यमिति अन्वयः ।
(१३२) इति प्रत्यायनार्थं इति शेषः ।
(१३३) पूर्णतया निश्चितत्वात् । ज्ञातुमनवशिष्टत्वादिति वा ।
(१३४) सर्वतः कार्याभावः इति - इह वा परत्र वा फलाय कर्तव्याभावः इत्यर्थः ।
(१३५) कर्तृत्वाद्यध्यासनिवृत्तिः इति वा । कार्यस्य प्रपञ्चस्य अभावः मिथ्यात्वनिश्चयः इति वा । अनिष्टत्वादिति वा पाठः ।
(१३६) कार्यकारणभावस्य स्थितत्वात् ।
(१३७) अज्ञैः विदितं ब्रह्म सविकल्पमेव भवति ।
(१३८) उक्तशङ्कानिवृत्त्यर्थम् ।
(१३९) विक्रिया आत्मा स्वरूपं यस्य । विकारवान् ।
(१४०) बोधगुणस्य उत्पत्तिविनाशवत्वेऽपि तदाश्रय-द्रव्यभूतस्य आत्मनः यथावद् अवस्थितत्वात् स निर्विकार एवेति भावः ।
(१४१) ``प्रज्ञानं ब्रह्म'' (ऐ. ३.१.३) इत्यादिपदात् ।
(१४२) स्मृतिरिति ज्ञानादेः उपलक्षणम् । स्मृतेः उत्पत्तिः नियमश्च तयोः अनुपपत्तिः ।
(१४३) स हि श्रुतिस्मृत्यनुकूलो भवति इति वर्णयितुः अभिप्रायः ।
(१४४) पूर्ववाक्योक्तमुपपादयति - बुद्धीत्यादि ।
(१४५) इत्यर्थको व्यवहारः । तमेव दर्शयति - आत्मन्येवेति ।
(१४६) आत्मनैवात्मानं पश्यति इति वा ।
(१४७) प्रमाणवृत्तिनिरपेक्षः ।
(१४८) अनात्मप्राप्तिः ।
(१४९) यदविद्यया अनात्मत्व-प्रतिपत्तिः आत्मनः एवं मर्त्यत्वम् ।
(१५०) न हि मृत्युं अमारयित्वा अमृतत्वं नाम सुलभं, न च अन्तरेण तादृशं बलं मारणं मृत्योः इत्याशयः ।
(१५१) मुख्यामृतत्वलाभानुकूल-मृत्य्वभिभवौपयिकबलाय नाविद्या अनुसर्तव्या तस्याः तत्र असामर्थ्यादित्याशयेनाह - धनेति ।
(१५२) मृत्योराविद्यकत्वात् आत्मवीर्ये सति अविद्यानवस्थानात् सुकरो वीर्येण यथोक्तेन मृत्योरभिभव इति भावः ।
(१५३) अमृतत्वौपयिकमृत्युतरणानुकूल-वीर्योत्पादने विद्यायाः सहकार्यन्तरानपेक्षत्वादिति यावत् ।
(१५४) मृत्य्वभिभावकबलस्य विद्ययैव लभ्यत्वात् प्रतिबोधविदितस्य मतत्वसाधको हेतुः सूपपन्नः इत्यर्थः ।
(१५५) आत्मना व्याप्यत्वादिति हेतुः ।
(१५६) व्याप्तिं व्यञ्जन् तया व्यापकलब्ध्युक्त्या यथोक्तद्वारतां स्फुटयति - बौद्धा इत्यादिना ।
(१५७) आत्मव्याप्यत्वात् - व्याप्तिरिह तादात्म्यं तथा च तादात्म्यापन्नत्वादित्यर्थः । तप्तलोहवदिति दृष्टान्तानुरोधात् ।
(१५८) प्रत्यगात्मत्वेन ब्रह्मणो विज्ञानम् । न विषयविज्ञानं - विषयत्वेन ब्रह्मणो विज्ञानम् ।
(१५९) स्वात्म-स्वरूपत्वेन एवावस्थानं अमृतत्वं विन्दते । स्वात्मरूपतया स्वाभाविकमेव अमृतत्वं विद्यया विन्दते न तया उत्पाद्यं इत्यर्थः ।
(१६०) आत्मना स्वाभाविकेन एव अमृतत्वम् ।
(१६१) बलाधिकोऽपि हस्त्यादिः अङ्कुशादिविद्यावतो हस्तिपकादेः भृशं बिभेत्येव इति सुव्यक्तं लोके ।
(१६२) यथा स्वप्नसगर्भात् स्वापात् केनचिन्महता शब्देन झटिति प्रबोधितस्य सद्य एव निःशेषस्वाप्नाभावोपलक्षितः आत्मा एव विदितो भवति । तथा तत्त्वमसीति महता शब्देन गुर्वादिप्रतिबोधितस्य द्रागेव (quickly) कृत्स्नाविद्या-तत्कार्याभावोपलक्षिते ब्रह्म अनुभूयते येन बोधेन स बोधः प्रतिबोधशब्दार्थः तेनैव विदितं ब्रह्म मतं भवति इत्यर्थः ।
(१६३) मुक्तिविलम्बः एवात्र पूर्वस्माद्विशेषः ।
(१६४) सधर्मिणां समुदायो निकायः इत्यमरः । प्राण्यन्तर्गतसुरादिसजातीयानां समूहेषु इत्यर्थः ।
(१६५) श्रोत्रस्य श्रोत्रमित्यादिनोक्तरूपम् ।
(१६६) तद्विदिताविदिताभ्यामन्यदित्येवंरूपेण ।
(१६७) वेदनावेदनयोः ।
(१६८) पूर्वं मनुष्यः अधिकृतः इति सामान्यमुक्त्वा सम्प्रति ब्राह्मणाः इति विशेषं ब्रुवन् वेदनभारं (नावेदीत् चेत् महती घृणा इति) निक्षिपति ।
(१६९) सत्यं अवेदीत् चेत् सत्यमस्ति इत्यन्वयः ।
(१७०) येन जन्मसाफल्यमुच्यते इति ।
(१७१) इत्यस्य सम्बन्धः कथ्यते इति शेषः ।
(१७२) उपनिषत् - उपास्तिः (रहस्यम्) ।
(१७३) तादर्थ्ये चतुर्थी । देवानां कृते ।
(१७४) व्यावृत्ताः निवृत्ताः बाह्यगोचराः (घटादिविषयाः) मिथ्याप्रत्ययाः देहादिगोचराभिमानादिरूपाः यस्य तेनैव अधिकारिणा साक्षात्कर्त्तुं शक्यत्वाद् ब्रह्मणः इत्यर्थः ।
(१७५) ब्रह्म ह देवेभ्यः'' इत्यत्र ।
(१७६) एतस्य जगत्सम्बन्धिनः ये भोक्तारः प्राणिनः कर्माणि च तेषां विभागज्ञः यः निर्माता स एव ईश्वरः इत्यर्थः । तस्य प्रयत्नः पूर्वः यस्मिन् जगति एतादृशं विचित्रं जगत् भोक्तृकर्मविभागज्ञेन निर्मितम् । यश्च असौ निर्माता तस्य नित्यत्वेन प्राकृतेषु अनन्तर्भावाद् ईश्वरत्वं इति भावः ।
(१७७) आदिना आकाशादिग्रहणः । तथा च आत्मनः रूपमाकाशादिभ्यो विचित्रं विलक्षणं (आकाशादिरूपं च आत्मविलक्षणम्) न च प्रयत्नपूर्वकमिति व्यभिचारः (साध्याभावे हेतोः उपस्थितिः) स्यात् इत्यर्थः । अनादिरनिर्वाच्या मायैव वा आदिशब्दग्राह्या । आत्माकाशयोः तार्किकमते नित्यत्त्वम् ।
(१७८) अचिन्त्यः प्रभावः यस्य । गहना कर्मणो गतिरिति भगवता उक्तत्वात् ।
(१७९) प्रयोक्तृ अनपेक्ष्य कर्म कर्तुः फलं जनयिष्यति इति न युक्तम् । न हि धनुः निर्मात्रा निर्मितमेव धनुर्धानुष्क-चोदनां (धनुर्धारिप्रवृत्तिं) विना प्रहरणं भवति इति प्रसिद्धमेव ।
(१८०) स्वस्य स्वस्माद्वा । आत्मनः५.१ (स्वस्मात्) (कर्मणः) अन्यत् प्रयोक्तृ इति पञ्चमी । आत्मनः६.१ (स्वस्य) (कर्मणः) अन्यत् प्रयोक्तृ इति षष्ठी । स्वव्यतिरिक्तमिति यावत् ।
(१८१) ननु यथा शरीरे चर्म कालान्तरेण निमित्तं विना वर्धते अपक्षीयते च शोफस्फोटादिविकारं च लभते । न च तत्र कर्तुः शरीरिणः इच्छादिनिमित्तं भवति । तद्वत् कर्मविकारः निर्निमित्तः एव स्याद् (जगद्रूपं विकारं लभते । अतो नास्ति प्रयोक्तुः अपेक्षा) इत्याशङ्क्य परिहरति - न च निर्निमित्तं इत्यादिना । निर्निमित्तं आत्म-समवेतं (आत्मसम्बद्धम्) तत् कर्म तदनिच्छया न विकरोति चर्मवत् इत्यन्वयः । चर्मविकारस्यापि कर्मनिमित्तकत्वात् (आतपवाय्वादिनिमित्तकत्वात्) दृष्टान्तासिद्धिः इति भावः ।
(१८२) चार्वाकमते चत्वारि भूतानि सम्भूय शरीरमुत्पादयन्ति । किण्वादिभ्यः (substance used to cause fermentation in the production of alcohol is called किण्व) मदशक्तिवत् अचेतनेभ्यः अपि भूतेभ्यः चेतनोत्पत्तिः इति । तन्मतस्य श्रुतियुक्तिविरुद्धत्वादग्रहणम् । पञ्चभूतानां जगदुत्पत्तेः साधनभूतत्वात्, साधनानां च क्रियावसाने उपरतव्यापारवत्वात् च इति चार्वाक-कर्मवादिपक्षयोः दूषणम् ।
(१८३) शरीराकारेण परिणतानि भूतानि न कर्ता भवितुमर्हन्ति करणत्वाद् लाङ्गलादिवदिति भावः ।
(१८४) भूतानां करणत्वं स्फुटयति अनुभूतेति । सव्यापाराणि इति यावत् । परित्यक्तानि - प्रस्तुतव्यापार-पराङमुखीकृतानि ।
(१८५) करणत्वेन अनुभूयमानस्यापि कर्माश्रयत्वाभ्युपगमे कर्तृत्वापत्त्या नेदमुपपद्येत इत्याशयेनाह - न हि इति ।
(१८६) इतश्च भूतकर्मप्रयोक्ता चेतनोऽभ्युपगन्तव्यः इत्याह - भूतेति । स्वतः - चेतनाधिष्ठानमनपेक्ष्य ।
(१८७) वायोः चलनदर्शनाद् भूतानामचेतनत्वेऽपि स्वतः प्रवृत्तिः स्यादिति ।
(१८८) सिद्धा निश्चिता प्रमाणेन ।
(१८९) सकाशात् ।
(१९०) या फलोदय-समये एव नष्टा भवति ।
(१९१) स्वयं, कर्षकः इत्यर्थः ।
(१९२) यथोक्तनियमद्वयमनपेक्ष्य जायमानमिति समुदायार्थः ।
(१९३) कालान्तरिता दृष्टफला वागादिक्रिया । कालान्तरदृष्टफलसेवादि-साम्यातिक्रमं नार्हति इत्युक्तमुपसंहरति ।
(१९४) सेवाफलवद् व्यवहितफलत्वात् दृष्टन्यायानुसारेण कर्मफलस्य कल्पयितव्यत्वात् ।
(१९५) ईश्वरः फलदाता उपपद्यते इति पूर्वत्र अन्वयः ।
(१९६) जीवेश्वरयोः अभेदात् । संसारिजीवेन अभेदात् संसारधर्माः सम्भवेयुः इति चेन्न । भेदस्य कल्पितत्वात् । न हि सर्पाभेदेऽपि तदात्मभूता रज्जुः सर्पधर्मैः संस्पृश्यते ।
(१९७) साक्षाद् द्रष्टरि संज्ञायां (पा. ५.२.९१) साक्षाच्छब्दोऽव्ययम् । तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये । संज्ञाग्रहणमिधेयनियमार्थम् । तस्मादुपद्रष्टा एव उच्येत न तु दाता ग्रहीता वा ।
(१९८) ननु एतदसङ्गतम् । यावतोदाहृताः सर्वा अपि श्रुतयो जीवेषु उपपद्यमानान् एव धर्मान् दर्शयन्त्यः जीवात्म-परमात्मभेदमेव व्यञ्जन्ति इति चेद् मैवम् । ब्रह्मैवेदं सर्वं तत्वमसि इत्यादिश्रुतिस्वारस्यानुरोधात् बिम्बप्रतिबिम्बयोः इव कल्पितभेदमात्रेणापि विरुद्धधर्मावभासोक्तेः सम्पन्नत्वादिति ।
(१९९) अन्यविध्यशेषत्वात् ।
(२००) इदं जगद् भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवतीति अनुमानस्य उक्तत्वात् ।
(२०१) कर्मणः इति शेषः ।
(२०२) सेवकेनेति सेवकस्य सेवया । सेवया यथा सेव्यबुद्धौ संस्कारः उत्पद्यते तथा ।
(२०३) ननु सेव्यबुद्धिवत् सेवकेन इति विषमोपन्यासः । सेव्यस्य हि सेवकसन्निधानाद् भवेद् इयं बुद्धिः अनेन अहं सेवितः इति । ईश्वरस्तु कथं विद्याद् अनेन अहमिष्टः इति । अत ईश्वरं विशिनष्टि - सर्वज्ञेति । स हि नित्यं सर्वसन्निहितः । ईश्वरः सर्वभूतानां हृद्देशे इति स्मृतेः ।
(२०४) उक्तमर्थं निगमयति - अपि च इति । तथा च इत्यर्थः ।
(२०५) ज्ञानादिलक्षणभेदादित्यत्र लक्षणभेदादिति यदुच्यते तन्न सङ्गतं लक्षणभेदस्य अद्वैतिमते अस्वीकृतत्वादित्याह ।
(२०६) यादृशाः तार्किकैः उपगम्यन्ते तादृशाः । विलक्षणाः इत्यस्यैव व्याख्यानं ईश्वराद् भिन्नलक्षणा इति ।
(२०७) स्वाभिमतं जीवस्वरूपं निरूपयितुं तदङ्गं ईश्वरस्वरूपमाह - एक इत्यादिना ।
(२०८) बाह्यः जीवः ।
(२०९) चक्षुरादीनां समाहारः सङ्घातः तत्सन्तानः तत्परम्परा तत्र अहङ्कारादि-विपरीत-प्रत्यय-प्रबन्धाविच्छेदेन (अहङ्कार-ममत्वादयो ये विपरीतप्रत्ययाः तेषां प्रबन्धस्य सातत्यस्य यः अविच्छेदः तेन) लक्ष्यते इति तथा । यद्वा तदविच्छेदो लक्षणं धर्मः यस्य इति व्युत्पत्त्या तादृशाविच्छेदवानित्यर्थः ।
(२१०) नित्यविज्ञानेन विशेष्यभूतेन चैतन्यज्योतिषा अवभासते इति तथा ।
(२११) बीजोऽविद्यादि । बीजी शरीरादि ।
(२१२) असत्त्वात् तुरीयकल्पस्य निषेधोक्तिरियं न पुनः इत्यादिः । बुद्ध्यादि-इत्यादि-तृतीयोक्त्यनन्तरं योज्या अर्थानुरोधात् ।
(२१३) श्रुतियुक्तिभिः वास्तवाभेदस्य एव सिद्धत्वाद् औपाधिकी बन्धमोक्षव्यवस्थापि अविरुद्धा इत्युपसंहारव्याजेन आह - तस्मादित्यादि ।
(२१४) अज्ञानमात्माविद्या बीजमुपादानं यस्य तस्य इत्यर्थः । निमित्तमाह - नित्येति । नित्यविज्ञानं ब्रह्मचैतन्यमेव अन्यद् उपादानादतिरिक्तं निमित्तं यस्य तस्य इत्यर्थः ।
(२१५) अज्ञानाख्यस्य बीजस्य विनिवृत्तौ सत्यां इत्यन्वयः ।
(२१६) बुद्ध्याद्युपाधिविशिष्टस्य स्वरूपस्य । स्वरूपस्य बन्धमोक्षौ वक्तव्यौ । उभयोरप्यवस्थयोः अनुवृत्तेः तस्य । स्वरूपस्य च विशेषाभावे अविद्यातन्निवृत्तिकृतौ एव बन्धमोक्षौ इत्यायाति इति भावः ।
(२१७) तद्धैषामित्यादिः ब्रह्म-प्रादुर्भावविषयः आम्नायः ।
(२१८) यक्ष पूजायामित्यतः कर्मणि घञ् इत्यभिप्रायेणाह - यक्षं पूज्यमिति । महद्भूतं - महत् सत्त्वम् ।
(२१९) तदुक्तं निरुक्ते - अग्निः कस्मात्? अग्रणीर्भवति इति । (उत्तरषट्के दैवतकाण्डे चतुर्थपादे) ।
(२२०) तदुक्तं निरुक्ते - जातवेदाः कस्मात्? जातानि वेद इति । (उत्तरषट्के दैवतकाण्डे पञ्चमपादे १) ।
(२२१) ईषदसमाप्तौ कल्पप्-देश्य-देशीयरः इति सूत्रेण (पा. ५.३.६७) कल्पप्रत्ययः । किञ्चित् न्यूनः सर्वज्ञः सर्वज्ञकल्पः । ईश्वरः जातं वा न जातं वा सर्वं जानाति इति सर्वज्ञः । स एक एव ।
(२२२) आत्मनि महत्वाभिप्रायः ।
(२२३) परिच्छिन्नात्माभिमानस्य लिङ्गमेतत् ।
(२२४) मह पूजायां उणादि कन्नि प्रत्ययः (१.१५६) हस्य घः वुगागमश्च ।
(२२५) अन्तर्धौ७.१ येन अदर्शनमिच्छति (पा. १.४.२८) इति पञ्चमीयम् । व्यवधानमन्तर्धिः । अन्तर्धिनिमित्तं येन अदर्शनमात्मनः इच्छति तत्कारकमपादानसंज्ञं भवति ।
(२२६) द्वादशादित्यानां मध्ये ज्यैष्ठमासिकः (मासे भवः मासिकः) आदित्यः इन्द्रनामा स्मर्यते । तदभिप्रायेणाह । महाभारते धातार्यमा चेति आरभ्य द्वादश नामानि दत्तानि । आदित्यहृदये च इत्थं दृश्यते - अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा चैत्रे मासि च वेदज्ञो वैशाखे तपनः स्मृतः । ज्यैष्ठे मासि भवेदिन्द्रः आषाढे तपते रविः । गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा । इषे हिरण्यरेताश्च कार्त्तिके च दिवाकरः । मार्गशीर्षे तपेच्चित्रः पौषे विष्णुः सनातनः । इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः ॥ इति । वज्रभृद् प्रसिद्धः देवराट् ।
(२२७) ब्रह्म ह देवेभ्यो विजिग्ये इति देवानां प्रस्तावे इन्द्रपदं उक्तान्यतरपरं न विरुध्यते उभयोः देवत्वाविशेषात् ।
(२२८) विद्या स्त्रीरूपा सती प्रादुरभूदित्यन्वयः । स्त्रीरूपेति सामान्योक्तेः विशेषे पर्यवसानमाह - उमारूपिणी इति ।
(२२९) प्रकृतायाः स्त्रियाः विद्यात्वे सत्येव इति ।
(२३०) छान्दसं इवशब्दलोपं मत्वाह - इवेति ।
(२३१) स्त्रीपदं लक्षितलक्षणया विद्यापरमित्याशयेनाह ।
(२३२) स्त्री विद्या अत्र विवक्षिता इत्यत्र हेतुमाह - अभिप्रायोद्बोधहेतुत्वादिति । किमिदं यक्षमिति च इन्द्रस्य अभिप्रायः = विशयविषयः इति यावत् । बोधहेतुत्वात् स्त्री अत्र विद्याबोधहेतुः । सत्त्वप्रधाना शक्तिः इत्यर्थः । (बोधः तदीयः सम्यग्बोधः) ।
(२३३) अष्टावक्रेऽत्र निदर्शयितव्यः । केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला । न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणमिति । वाक् च सरस्वती विद्येति यावत् ।
(२३४) एतदिति न विजयशब्दस्य विशेषणम् । तथा च ब्रह्मणः एव विजये यूयं एवं महीयध्वमिति योजना ।
(२३५) विद्याया एवोमात्वे स्मृतिं प्रमाणयति - विद्येति । उमासहायं परमेश्वरं प्रभुमिति कैवल्यस्मृतिमूला स्मृतिः ।
(२३६) वर्तन्ते अन्येभ्यः उत्कृष्यन्ते इति यावत् ।
(२३७) अन्तिकबाढयोः नेदसाधौ (पा. ५.३.६३) । अजाद्यौः परतः । अन्तिक इष्ठन् = नेद इष्ठ ।
(२३८) प्रियतमत्वमेव वास्तवान्तिकतमत्वम्, अप्रियस्य समीपस्थस्यापि दूरस्थकल्पत्वात् इत्याशयेनाह - प्रियतममिति ।
(२३९) प्रक्रमानुरोधेण वचनपरिणामः कार्यः इति ।
(२४०) जात्याद्यभावाद् वस्तुतः सादृश्यादिरहितस्य ।
(२४१) उपमानेन कल्पनया ।
(२४२) तदुपमानं किं इत्यन्वयः ।
(२४३) वि द्युत लुङ् । अत्र तु विद्योतनं इत्यर्थः कल्प्यते ।
(२४४) विद्युतः तेज इव सकृद् विद्योतितवद् ब्रह्म इत्यन्वयः ।
(२४५) विद्युतः विद्योतनं इव इति इयती एव उपासना इति प्रदर्श्यते ।
(२४६) निमिष् स्वार्थे णिच् चङ् लुङ् । (पा. ३.१.४८, ७,४,९४)
(२४७) एतद्ब्रह्म प्रति मनः गच्छति इव इत्येवमनेन मनसा साधकः एतद्ब्रह्म उपस्मरति = उपस्मरेत्, ध्यायेदिति यत् तदध्यात्मं (सामान्ये नपुंसकम् । इति यः आदेशः स आध्यात्मिकः इति यावत्।) इति एकः अन्वयः । सङ्कल्पश्च अभीक्ष्णं ब्रह्मविषयः इति च अनेन मनसा उपस्मरेदिति यत् तदध्यात्ममिति अपरः ।
(२४८) यच्च इत्यस्मिन् स्थाने यथा इति वा पाठः ।
(२४९) यथा तोयोपाधिकः भास्वान् तोयस्य वीच्यादिभिः अभिव्यज्यते तत्र प्रतिबिम्बम् । एवं मनउपहितं ब्रह्म तत्प्रत्ययैरेव तत्साक्षितया अभिव्यज्यते इत्यर्थः ।
(२५०) सा च अभिव्यक्तिः ध्यानमपि अनुसरति इत्याह - विषयीक्रियमाणमिव इति । वस्तुतः साक्षित्वेन एव अभिव्यज्यमानमपि तं यथा यथा उपासते इति न्यायाद् विषयीभवदिव आभाति इति भावः ।
(२५१) उपास्यतया उपदिश्यमानम् । उपासनया बुद्धिमान्द्यापगमे सति सुगमं भवति इति ।
(२५२) आध्यात्मिकं तादात्म्यं (अध्यासम्) उररीकृत्याह - गच्छति इव इति ।
(२५३) अनेन समीपवर्त्तित्वेन मनसा स्मर्यमाणं (स्मरणविषयं) अभीक्ष्णं सङ्कल्पयमानं मनसः प्रत्यग्रूपं ब्रह्म अहमस्मि इत्यध्यात्मोपासनस्वरूपम् ।
(२५४) आत्मानुगतिमन्तरेण जडस्य मनसः स्मरणादिपरिणामासम्भवात् तेषां (उपस्मरणसङ्कल्पादीनां) तल्लिङ्गत्वं (ब्रह्मलिङ्गत्वम्) इति भावः ।
(२५५) अत्र मनसः अध्यात्मभूतमिति पाठं संयञ्चं प्रतिपद्ये । भूतं - स्वरूपम् ।
(२५६) मनसः अध्यात्मभूतं ब्रह्म अहमस्मि इत्येवमुपासितव्यमित्यर्थः ।
(२५७) आत्मनः परमप्रेमास्पदत्वात् ।
(२५८) तद्वनत्वगुणबोधकेन नाम्ना इत्यर्थः ।
(२५९) उपलक्षणमिदम् । गुणवत्त्वेनापि इति ।
(२६०) सम्भजनं कर्मा यस्य धातोः सः । तत्कर्मणः । सम्भजनार्थकः ।
(२६१) परोक्षत्वे सति सम्भजनीयत्वेन रूपेण इत्यर्थः ।
(२६२) तं यथा यथोपासते (मुद्गलश्रुतिः) इत्यादिश्रुतेः ।
(२६३) समस्त-यज्ञानां परिसमाप्तौ सूक्तवाकमन्त्रद्वारा देवतानुमन्त्रणकर्म क्रियते । तत्र यद्यपि सूक्तवाके बह्व्यः देवताः निर्दिष्टाः तथापि आवाहित-देवतानुसारेण मन्त्राणां विनियोगो भवति ।
(२६४) कर्मरूपो यः शेषः अङ्गं सहकारी वा तदपेक्षेत्यर्थः ।
(२६५) पिप्पलादोक्तिवदेव ।
(२६६) ब्राह्मीं इति शेषः ।
(२६७) कुतो वक्ष्यति इत्यत आह - ब्राह्मी नोक्ता इति । ब्राह्मणानुष्ठेय-साधनविद्या यतो नाधुना अवध्युक्ता इत्यर्थः ।
(२६८) का तर्हि अधुनाऽवधि उक्ता इत्यत्राह - उक्तेति । साध्यविद्यैव उक्ता एतावदित्यर्थः ।
(२६९) ब्राह्म्याः वक्ष्यमाणत्वात् ।
(२७०) अब्रूम इति तस्यै - इति वा पाठः ।
(२७१) भक्तिद्वारा अन्तःकरणशुद्धिः भवति । तस्माद् अर्थाः प्रकाशन्ते ।
(२७२) स च तपायत्तः एव इति भावः ।
(२७३) प्रतिष्ठते याभ्याम् ।
(२७४) प्रथमपक्षे तपोदमकर्मणां सह वेदैः साङ्गैः प्रतिष्ठात्वं, द्वितीयपक्षे तपादित्रयस्य पादत्वं वेदानां तु साङ्गानां शिरादित्वमिति विशेषः ।
(२७५) सर्वाङ्गानि इत्यनेन (अङ्गपदेन वेदाङ्गग्रहणं विहाय) शिराद्यवयव-ग्रहणे शिक्षादीनां ग्रहणं कथं अत आह - अस्मिन् इति । वेदपदेन शिक्षादिग्रहणे युक्तिमाह - अङ्गिनि इति ।
(२७६) तदायत्तत्वादङ्गानां इति वा पाठः । यत्र तिष्ठति तदायतनम् ।
(२७७) तेषामसौ विरजो ब्रह्मलोकः न येषु...इति ।
(२७८) उक्तायाः एव उपनिषदः साध्यत्वेन वक्ष्यमाणतपःप्रभृति-साधन-विशिष्टत्वोक्त्यभिप्रायाद् वक्ष्यमाणत्वम् । अनन्तरं तपःप्रभत्यतिरिक्तायाः उपनिषदः अनुक्तेः इत्यवधेयम् । (साधनविशिष्टसाध्यत्वेन वक्ष्यमाणा इति यावत्) । यद्वा वक्ष्यमाणतपःप्रभृत्यङ्गकलापः एव । अङ्गिनी उपनिषद् ब्राह्मी । अङ्गसमूहानतिरिक्तत्वाद् अङ्गिनः । तदा च सर्वं यथोक्तमित्यस्य तपःप्रभृत्येवार्थः । अङ्गिनीत्वेन वक्ष्यमाणायाः इति यावत् ।
(२७९) आत्मज्ञानं आत्मोपासनं च तपःप्रभृत्यपि ।
(२८०) सर्वविद्याभिव्यक्तिहेतुत्वात्, सर्वविद्यावेद्यवस्तुज्ञापकत्वात् वा । सर्वासु विद्यासु प्रतिष्ठा पूज्यत्वमुत्कर्षः यस्याः ताम्, अध्यात्मविद्या विद्यानामित्युक्तेः । सर्वासां विद्यानां प्रतिष्ठा परिसमाप्तिः यत्र तां, सर्वं कर्माखिलं पार्थ... इत्युक्तेः कर्मणश्च विद्योपलक्षणत्वात् ।
(२८१) यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च ॥ स्वर्गपदवाच्यम् । किन्तु न सुखात्मकम् ।
(२८२) द्वितीयकल्पे (विद्यायाः) तपाद्यङ्गसमूहात्मकतया तपादिरूपां इत्यर्थः ।
Prepared by svAminI tattvapriyAnanda tattvapriya3108 at gmail.coM