कुब्जिकोपासनामृतपूर्णोपनिषत्

कुब्जिकोपासनामृतपूर्णोपनिषत्

अथ कुब्जिकोपासनामृतपूर्णोपनिषत् ।

॥ १॥

श्रीगणेशाय नमः ॥ ॐ परामृतरूपिण्यै सच्चिदानन्दकन्दायै श्रीमहाकुब्जिकायै नमो नमः ॥ अथ हैनां ब्रह्मरन्ध्रे परब्रह्मस्वरूपिणीं पश्चिमाम्नायेश्वरीं महाकुब्जिकामाप्नोति ॥ १॥ प्राणेशः सुग्रीवः संवर्तको वैकुण्ठो धरा त्रिधातुर्वह्निर्व्यापको महाविद्येश्वरीसंयुतं प्रथमम् । द्वितीयं सहजः परमात्मा नृसिंहं कालरुद्रं खड्गी शङ्करं वह्निवर्णं चामुण्डा तूर्यस्वरभूषितं नादबिन्दुयुतम् ॥ २॥ महाकूटं कूटराजं सर्वकूटोत्तमं महाकुब्जिकाकूटराजं यो जानाति स महादेवो भवति स सर्वदेवमयो भवति स सर्वदेवसमो भवति ॥ ३॥ सोऽर्यमा स वरुणः स रुद्रः स महादेवः । सो अग्निः स उ सूर्यः स उ एवं महायमः ॥ ४॥ स चन्द्रः सेन्द्रः स प्राणः सोऽक्षरः परमः सर्वेश्वरः स्वराट् । स कालः स पृथ्वी सात्मा सोऽन्तरिक्षः प्रजापतिः ॥ ५॥ प्रजापतिरब्रवीत् ॥ पश्चिमसिंहासनस्थां महाकुब्जिकां गुह्यकुब्जिकां रुद्रकुब्जिकां वीरकुब्जिकां श्मशानकुब्जिकां घोरकुब्जिकां संहारकुब्जिकां प्रचण्डोग्रकुब्जिकां व्याख्यास्यामः ॥ ६॥ स सर्वेषु वेदेषु सारं स सर्वेषु देवेषु सारं सारात्सारतरां महाविद्याराज्ञी सिद्धिकुब्जिकां श्रीलक्ष्मीकुब्जिकां श्रीसिद्धिलक्ष्मीकुब्जिकां यो वेत्ति स खे- चरत्वं प्राप्नोति स रुद्रत्वं प्राप्नोति स निर्वाणेश्वरो भवति स सर्वसिद्धेश्वरो भवति स परकायप्रवेशकरणसामर्थो भवति स महाणिमाद्यष्टसिद्धिभाग्भवति स महाकविर्भवति स देवेन्द्रसमो भवति ॥ ७॥ त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः । तुभ्यं यज्ञो विजायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहुधा वीर्याणि ॥ स महाविष्णुर्भवति ॥ ८॥ पिप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वणं भगवन्तं पप्रच्छ भगवान्सनत्कुमार- श्वाथर्वण कुब्जिकामहापश्चिमाम्नायेश्वर्याः किं मन्त्रं किं यन्त्रं केन तन्त्रेण पूजनं किं देवं कान्यङ्गानि देवतानि किं छन्दः क ऋषिरिति ॥ ९॥ स होवाच भगवान्सनत्कुमारः ॥ प्रत्यङ्गिरे महाराजविद्ये कुब्जिकामहापश्चिमाम्नायेश्वर्या यन्त्रराजं सर्वयन्त्रमयं सर्वमन्त्रमयं महासाम्राज्यसिद्धिप्रदं राज्यदं भोगदं मोक्षदं महानिर्वाणदं देवीसादेहसारूप्यसायुज्यसालीनमोक्षदं महाकुब्जिकायन्त्रं महामन्त्रराजं प्राणान्तसङ्कटोपद्रवेऽपि सर्वथा न प्रकाशयेत् । प्रकाशान्महाकुब्जिका क्रुद्धा भवति । पञ्चत्वं प्राप्नोति । तस्माद्यत्नेन गोपयेन्न प्रकाशयेत् ॥ १०॥ महायन्त्रराजम् । बिन्दुस्त्रिकोणं षट्कोणमष्टदलमष्टकोणाकृति चतुरश्रं द्वारशोभाढ्यम् । कुब्जिकापूजायन्त्रराजं महाप्रत्यङ्गिरे सर्वदा स्वहृदये शिखायां बाहौ यो धारयेत्स वेतालभैरवो भवति स प्रचण्डभैरवो भवति । शिखायां यो धारयति स सर्वपापैः प्रमुच्यते । बाहौ यो धारयति स सर्वान् शत्रून्मारयति त्रैलोक्यविजयी भवति सृष्टिं स्थितिं संहारं करोति स सर्वेश्वरो भवति स वीरेश्वरो भवति स नाटेश्वरो भवति स राजराजेश्वरो भवतीति वदन्ति ब्रह्मवादिनः ॥ ११॥ कुब्जनाथं यजेदादौ कुब्जिनीं च ततो यजेत् । कुब्जिकां च यजेत्पश्चात्कुब्जिकाख्यातविनायकम् ॥ १२॥ सम्पूज्य विधिवन्नित्यं भोगमोक्षमवाप्नुयात् । विना यन्त्रेण चेत्पूजा कुब्जिका न प्रसीदति ॥ १३॥ तस्मात्सर्वप्रयत्नेन यन्त्रपूजां समाचरेत् । कुब्जेशं च यजेद्वामे कुब्जिकां दक्षिणे यजेत् ॥ १४॥ अथ कुब्जेश्वरस्य महात्रयोदशार्णमन्त्रोद्धारं व्याख्यास्यामः ॥ प्रथमं सर्वबी- जोत्पादकं महाबीजम् । द्वितीयं प्रासादबीजम् । प्रासादबीजं तु परमात्मा ग्रहेशस्वरसंयुतं कलाबिन्दुमिलितम् । प्रासादबीजं द्वितीयम् । तृतीयं क्रोधबीजम् । क्रोधबीजं तु परमात्मा त्रिविक्रमस्वरभूषितं कलाविश्वयोनिमिलितम् । क्रोधबीजं तृतीयम् । चतुर्थं कुब्जेश्वराय । नृसिंहबीजम् । नृसिंहबीजं तु क्षेत्रपालः प्रकाशारूढश्च ग्रहेशस्वरभूषितं नादबिन्दुमिलितम् । महानृसिंहबीजं नवमम् । दशमं कामरूपी प्रयागः प्रकाशारूढाधारशक्तिस्वरभूषितं कलाबिन्दुयुतम् । महारावबीजम् । ततोऽङ्कुशबीजम् । अङ्कुशबीजं तु माहेश्वरी रेवतीसमारूढा पश्चिमास्यस्वरभूषितं नादबिन्दुयुतम् । महाबीजराजम् । द्वादशं शब्दात्मा । महाजीवः कलापूर्णस्वरभूषितम् ॥ १५॥ महाकुब्जेश्वरमन्त्रराजं यो जानाति स भूर्भुवः स्वर्लोकं महर्लोकं जनर्लोकं तपोलोकं सत्यलोकं जयति स सर्वलोकं जयति । य एवं वेद महाकुब्जिकोपनिषत्सर्वोपनिषत्सारम् । स सहस्रायुष्यमाप्नोति ॥ १६॥ प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥ १७॥ स दीर्घायुष्यमाप्नोति स सर्वान्कामानवाप्नोति स सर्वान्भोगानवाप्नोति स स- र्वान्देवान् जयति स सर्वान् लोकान् जयति य एवं वेद महाकुब्जिकोपनिषत् ॥ १८॥

॥ २॥

महायन्त्रं महामन्त्रं कुब्जिकोपनिषदं परम् । महाध्यानं महापात्रं महामालां तथैव च ॥ १॥ गोपयेच्च प्रयत्नेन सर्वथा न प्रकाशयेत् । प्रकाशात्सिद्धिहानिः स्यात्प्रकाशान्मरणं ध्रुवम् । तस्मात्सर्वप्रयत्नेन गोपयेन्न प्रकाशयेत् ॥ २॥ सनत्कुमारश्चाथर्वणः पिप्पलादशौनकतौदमौदतौदायनजाबालब्रह्मपलशाकुन- खीदेवदृशीचारणविद्याश्चेत्यथर्वणस्य नवशाखापारज्ञः सनत्कुमारोवाच । महाकुब्जेश्वरयन्त्रराजं व्याख्यास्यामः ॥ ३॥ पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ ४॥ नवद्वारं नवकोणम् । पुण्डरीकमष्टपत्तम् । त्रिभिर्गुणेभिरावृतं वृत्तत्रयमिति । तस्मिन्यद्यक्षं बिन्दुचक्रमात्मन्वद्ब्रह्मविद्ब्रह्मचक्रं कुब्जेश्वरयन्त्रराजं ब्रह्मचक्रं विदुः ॥ ५॥ यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः । कुब्जः कामदुहो विराजः स गुहा चक्रे तन्वः पराचैः ॥ ६॥ यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्नेकं युज्यते यस्मिन्नेकम् ॥ ७॥ योनिं कृत्वादौ त्रिकोणं बिन्दुचक्रं भवति । तद्बहिर्नवकोणं तद्बाह्ये रसकोणं पुण्डरीकमष्टपत्त्रं चक्रं ततः षोडशपत्त्रं चक्रं त्रिभिर्गुणेभिरावृतं बहिरष्टकोणं चतुरस्रचक्रराजं तद्बहिः सन्ध्यावृत्तं तद्बाह्ये द्वात्रिंशतिपत्त्रं चक्रं ततश्चतुःषष्टिपत्त्रं चक्रं बहिर्माययावृत्तत्रयं मायाकामकूर्चबीजेन भूपुरं संलिखेदिति ॥ ८॥ अष्टकोणं नवद्वारं त्रिभिर्गुणेभिरावृतम् । द्वात्रिंशतिदलं पद्मं चतुःषष्टिदलं तथा ॥ ९॥ मायाकामक्रोधबीजेन वेदद्वारं समालिखेत् । इदं कुब्जेश्वरं यन्त्रं सर्वयन्त्रोत्तमं परम् ॥ १०॥ सेवकानां मोक्षकरमायुरारोग्यवर्धनम् । अपुत्रीणां पुत्रदं च बहुना किमनेन वै । इदं रहस्यं परममीश्वरस्यापि दुर्गमम् ॥ ११॥ इदं कुब्जेश्वरं यन्त्रं शठाय कुटिलाय महानिन्दकाय परशिष्याय प्राणान्तेऽपि सर्वथा न प्रकाशयेदिति वदन्ति ब्रह्मवादिनः शौनकाः ॥ १२॥ महोग्रं विरूपाक्षं नीलकण्ठं कुब्जेश्वरं घोररूपं महाकालरूपं शेषयज्ञोपवीतधरं विश्वरूपं विरूपं विराडूपं महाकुब्जिकार्धाङ्गधरं पश्चिमसिंहासनस्थं पश्चिमा- म्नायक्रमपूजनप्रियं रक्तपानप्रियं महामांसचर्वणप्रियं नरचर्मासनप्रियं चतुर्दिक्षु श्मशाने महामांसचिताङ्गारास्थिशय्यासनस्थं कङ्कालमालाभूषितं वीरमुण्डमा- लाधरं महाभूतवेतालकरतालप्रेतमण्डलमध्यस्थं महायन्त्रसिंहासनस्थं पञ्चम- हाप्रेतासनस्थं प्रेताट्टहासप्रियं प्रेतमालाधरं पश्चिमाभिमुखं महाकुब्जेश्वरं शतवक्त्रं त्रिंशल्लोचनं सहस्रबाहुपुरुषं महाकुब्जेश्वरं ध्यायेत् ॥ १३॥ सहस्रशीर्षं रुद्रं सहस्राक्षम् । ते पञ्चर्च्यः । तस्याः शिखाया मध्ये पुरुषः कुब्जेश्वरः स्थितः ॥ १४॥ एक एव रुद्रोऽवतस्थे न द्वितीयः । असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ॥ एकमेवाद्वितीयं ब्रह्म । ब्रह्मस्वरूपा कुब्जिका ॥ १५॥ कत्यक्षरा कतिपदा महाविद्या ॥ सनत्कुमारः प्रोवाच ॥ महासप्तदशाक्षरी सिद्धिकुब्जिका । षोडशाक्षरी महोग्रकुब्जिका । द्वाविंशत्यक्षरी महावीरकुब्जिका । द्वादशाक्षरी महाज्ञानकुब्जिका । सप्ताक्षरी महाभीमकुब्जिका । नवाक्षरी सिद्धिलक्ष्मीकुब्जिका । षडक्षरी महाप्रचण्डकुब्जिका । पञ्चाक्षरी परा रुद्रकुब्जिका । महाकूटाष्टादशाक्षरी श्रीकुब्जिका ॥ एता एव महाकुब्जाभेदविद्याः प्रकाशिताः ॥ १६॥ य एवं वेद कुब्जिकाभेदमन्त्रराजं स सर्वदेवपूज्यो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्देवैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति स सर्वमन्त्रजापको भवति स सर्वयन्त्रपूजको भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति य एवं वेद महाकुब्जिकोपनिषत् ॥ १७॥

॥ ३॥

अथ महासप्तदशाक्षरीं व्याख्यास्यामः ॥ प्रथमं वेदादिबीजम् । द्वितीयं मायाबीजम् । तृतीयं क्रोधबीजम् । चतुर्थं रावबीजम् । पञ्चमं नृसिंहबीजम् । महाङ्कुशं षष्ठमम् । महाकुब्जिकेत्येवं समुच्चार्य ततोऽङ्कुशबीजं नृसिंहबीजं रावबीजं क्रोधबीजं मायाबीजं वेदादिबीजमिति सप्तदशाक्षरी ॥ १॥ महामन्त्रराज्ञीं यो जानाति सर्वलोकं जयति स त्रैलोक्यविजयी भवति सर्वसिद्धेश्वरो भवति चिदाचार्यमुखेन गृह्णीयान्महाकुब्जिकामन्त्रराजं सर्वपापैः प्रमुच्यते स कुब्जिकाप्रत्यक्षदेवतादर्शनं करोति स ब्रह्महत्यां तरति स वीरहत्यां तरति स भ्रूणहत्यां तरति स गोहत्यां तरति स स्त्रीहत्यां तरति स बालहत्यां तरति स सर्वहत्यां तरति गर्भजन्मजरामरणतापत्रयात्मकं दुःखं तरति स खेचरति स खेचरत्वं प्राप्नोत्येवं वेद ॥ २॥ अथ महाकुब्जिकां षोडशाक्षरीं व्याख्यास्यामः ॥ प्रथमं भुवनेश्वरीबीजम् । भुवनेश्वरीबीजं तु व्योमज्वलनेन्दिरा कलाबिन्दुमेलनरूपा । तद्द्वयम् । ततः क्रोधबीजम । क्रोधबीजं तु महालक्ष्मीः षष्ठस्वरभूषितं नादबिन्दुमिलितम् । तद्द्वयम् । नृसिंहबीजम् । नृसिंहबीजं तु क्षेत्रपालः पश्चिमास्यस्वरभूषितं नादबिन्दुयुतम् । तद्द्वयम् । ततोऽङ्कुशबीजम् । अङ्कुशबीजं तु महाकालं रेफारूढं ज्वालामुखीभूषितं कलाबिन्दुमिलितं बीजद्वयं समुच्चार्य महाकुब्जिकेत्यभिमुखगता । तदनु नृसिंहबीजमङ्कशबीजं भुवनेश्वरीबीजम् ॥ ३॥ इति श्रीकुब्जिकामहाविद्येश्वर्या महाषोडशार्णं महामन्त्रराजं महाशङ्खमालया नियमेन लतापीठे यो लक्षमावर्तयति स विश्वाधीशो भवति स ब्रह्ममयो भवति स रुदेश्वरः स लोकेश्वरः स सर्वदेवेश्वरो भवति स सर्वान् शत्रून्मारयति स सर्वज्ञो भवति स सिद्धिकब्जिकाप्रियो भवति ॥ ४॥

॥ ४॥

अथ द्वाविंशत्यक्षरीं व्याख्यास्यामः ॥ प्रथमं पञ्च लक्ष्मीबीजम् । द्वितीयं क्रोधबीजम् । क्रोधबीजं तु लक्ष्मीर्हरषष्ठस्वरभूषितं नादबिन्दुमिलितम् । तद्द्वयम् । ततो भुवनेश्वरीबीजम् । भुवनेश्वरीबीजं तु प्राणसन्धिर्रेफारूढं मोहिनीस्वरभूषितं नादबिन्दुमिलितम् । तद्द्वयम् । ततो लक्ष्मीबीजम् । लक्ष्मीबीजं तु कामरूपं वन्हयारूढं बिन्दुमालिनीभूषितं कलाबिन्दुमिलितम् । तद्द्वयम् । ततो नृसिंहबीजम् । नृसिंहबीजं तु युगान्तकं ब्रह्मसूत्रभूषितं नादबिन्दुमिलितम् । तद्द्वयम् । ततोऽङ्कुशबीजम् । अङ्कुशबीजं तु महाकाली त्रिपुरसुन्दर्यारूढं त्रैलोक्यविजयस्वरभूषितं नादबिन्दुयुतं समुच्चार्य कुब्जिकेत्यभिमुखगता । तदनु महाङ्कशबीजं नृसिंहबीजद्वयं कूर्चबीजद्वयमिति द्वाविंशत्यक्षरी ॥ १॥ महाकुब्जिका यो जानाति स महानिर्वाणमाप्नोति शुपुत्रकीर्तिज्ञानैश्वर्यवान्भवति स महाकविर्भवति महामेधावी भवति स तर्कागमपुराणपातञ्जलसाङ्ख्ययोगमीमांसाधर्मशास्त्रवेदान्तज्योतिषव्याकरणालङ्कारकाव्यदिव्यौघाधीशो भवति सकलवेदार्थभाष्यकारको भवति स महाणिमाद्यष्टसिद्धि प्राप्नोति स सकलसाम्राज्येश्वरो भवति स सर्वमन्त्रार्थं जानाति स सर्वयन्त्रार्थं जानाति स सर्वदेवसमो भवति स सर्वदेवमयो भवति स सर्वमयो भवति ॥ २॥

॥ ५॥

अथ कुब्जिकापञ्चाक्षरीं षडक्षरीं द्वादशाक्षरीं महाष्टादशाक्षरीं व्याख्यास्यामः ॥ प्रथमं प्राणेशो धारा वारुणी वह्निश्चामुण्डा महाविद्येश्वरीभूषितम् । प्रथमं कूटराजं पठित्वा कुब्जिकेत्यभिमुखगता । तदनु परमात्मा ब्रह्म पृथ्वी वारुणी रेफ बिन्दुमालिनीमिलितम् । द्वितीयं कूटराजम् । तृतीयं जगद्बीजं क्रोधीशः पृथ्वी मायाबीजम ॥ १॥ इत्येषा महाकुब्जिकाष्टादशाक्षरीं यो जानाति स महाखेचरो भवति स ब्रह्ममयो भवति स विष्णुमयो भवति स रुद्रमयो भवति स सर्वज्ञानमयो भवति स तत्त्वज्ञानवान्भवति स सर्वप्रयोगसिद्धिमाप्नोति स सर्वमन्त्रजापको भवति स सर्वयन्त्रपूजको भवत्येवं वेद ॥ २॥ क्रोधबीजं समुच्चार्य कुब्जिकायै पठित्वा बृहद्भानुजायामुच्चरेत् । इति सप्ताक्षरी महाकुब्जिका भवति ॥ ३॥ एतस्या ज्ञानमात्रेण जीवन्मुक्तो भवति स महाचक्रवर्तीन्द्रो भवति स नवद्वीपेश्वरो भवति चतुःसमुद्रपर्यन्तं महाराज्यं प्राप्नोति सार्वभौमो भवति महामहीपतीन्द्रो भवति स महाराजराजेश्वरो भवति ॥ ४॥ क्रोधबीजं पठित्वा तु ततोऽङ्कुशं पठेत्सदा । मायाबीजं पठेत्तत्र अस्त्रबीजं पठेत्सुधीः । एषा पञ्चाक्षरी विद्या कुब्जिका या प्रकाशिता ॥ ५॥ एतस्या ज्ञानमात्रेण सकलसिद्धिभाग्भवति महासार्वभौमपदं प्राप्नोत्येवं वेद ॥ ६॥ मायाबीजं समुच्चार्य कूर्चबीजं ततः पठेत् । लक्ष्मीबीजं पठेत्पश्चात्कुब्जिके सिद्धिपूर्वकम् । अन्ते कूर्चं वदेत्तत्र नवार्णा कुब्जिका स्मृता ॥ ७॥ नवार्णां कुब्जिकां यो जानाति स महाभैरवो भवति स प्रत्यक्षकुब्जिकादर्शनं करोति स मन्त्रसिद्धिं कुरुते स प्रयोगसिद्धिं कुरुते स खेचरत्वं प्राप्नोत्येवं वेद ॥ प्रणवं पूर्वमुच्चार्य लक्ष्मीबीजं पठेत्ततः । कामराजं पठेत्पश्चात्क्रोधबीजं ततः पठेत् ॥ ९॥ प्रचण्डकुब्जिकेऽप्यत्र मायान्ते परिकल्पयेत् । द्वादशार्णा महाकुब्जा सर्वविद्यात्मिका परा ॥ १०॥ एतस्या ज्ञानमात्रेण मन्त्रसिद्धिः प्रजायते । सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ॥ ११॥ न हि कुब्जासमा विद्या न हि कुब्जासमा स्तुतिः । न हि कुब्जासमो मन्त्रो नास्ति ब्रह्माण्डगोलके ॥ १२॥ द्वादशार्णां महाकुब्जिकां यो जानाति स नक्षत्राणां यथा सोमो ज्योतिषामिव भास्करो भाति सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु देवेष्विति ॥ १३॥ महाकुब्जिके धनपति धनं मे देहि यशस्पति यशो मे देहि सौभाग्यवति सौभाग्यं मे देहि । राजपुत्रो राज्यकामो महाराज्यं लभते कन्याः पतिकामाः सुपतिं लभन्ते स्त्रियः पुत्रकामाः सुपुत्रपौत्रान्लभन्ते श्रोत्रियाध्यापकाचार्यत्वं लभन्ते ॥ १४॥ यो कुब्जिकां नित्यमर्चयति स ब्रह्मसमो भूत्वा सर्वान्लोकान्संसृजति स विष्णुसमो भूत्वा सर्वान्लोकान्सर्वानृषीन्सर्वात्मानं पालयति स रुद्रसमो भूत्वा सर्वान्देवान्सर्वान्लोकान्सर्वानृषीन्सर्वात्मानं संहारयति स महाप्रलयं कृत्वा पुनः सृष्टिं स्थितिं संहारं कल्पे कल्पे स सर्वं करोति सर्वान्कामानवाप्नोति स सर्वान्भोगानवाप्नोति स सर्वान शत्रून्मारयति जृम्भयति स्तम्भयत्युदकं स सोमं स्तम्भयति स सूर्यं स्तम्भयति स सर्वं जयतीत्येवं वेद महाकुब्जिकार्चनतत्त्वसारामृतोपनिषत् ॥ १५॥

॥ ६॥

परमेष्ठीगुरुं पूज्य परापरगुरुं यजेत् । परमगुरुं ततः पूज्य स्वगुरुं नित्यमर्चयेत् ॥ एवं गुरुं प्रपूज्यादौ प्रातःकृत्यादिकं कुर्यात् ॥ १॥ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥ २॥ उषाकाले समुत्थाय प्रातर्यागं समाचरेत । उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥ ३॥ उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिरुषस्पतिना संविदानः ॥ ४॥ इति मन्त्रेण समयोदकेनाचमनं कृत्वा समयोदकं ध्यात्वा पीत्वा रात्रिमातरं प्रार्थयेत् ॥ ५॥ रात्रि मातरुषसं नः परि देहि । उषा नो अह्ने परि ददादहस्तुभ्यं विभावरि ॥ ६॥ रात्रिं रात्रिमरिष्यन्त तरेव तन्वा वयम् । गम्भीरमप्लवा इव न तरेयुररातयः ॥ ७॥ वयं तन्वा निद्रावशाद्रात्रिं रात्रिमितिं प्रतिरात्रं प्रतिमरिष्यन्त । यथारातयः शत्रवः पारे तिष्ठन्ति अप्लवा गम्भीरमतरेयुः । क इव । तरेव तरशब्देन पतङ्गोपलक्ष्यते । यथा पतङ्गो दीपकं दृष्ट्वा दीपमध्ये स्वदेहं दाहयति मरिष्यति तथा वयं तन्वा निद्रया मोहयति मरिष्यति । किमपि कर्तुं न शक्यते शववद्भाति । अप्लवा गम्भीरमतरेयुः । प्लवमिति नौकां विना यथा महागम्भीरसागरं न तरति तथा श्रीकुब्जिकाराधनं विना सम्यग्वेदार्थज्ञानं विना निद्राहारभयमैथुनं न त्यजति महाज्ञानान्धकारवशात्स सर्वं करोतीत्यर्थः ॥ ८॥ ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति । पशून्ये सर्वानृक्षन्ति ते न आत्मसु जाग्रति ते न पशुषु जाग्रति ॥ ९॥ ये साधका रात्रिमनुतिष्ठन्ति रात्रौ जागरणं करोति ये महाकुब्जिकाराधनतत्परा रात्री जागरणं कृत्वा महाभूतशुद्धिं करोति ते भूतेषु जाग्रति ते पशुषु जाग्रति । यः पशुजागरणं करोति ते पशूनृक्षन्ति स पशुवज्जागरणं करोति ते पशुवद्भाति ते पशुत्वं प्राप्नोति । ये रात्रौ जागरणं कृत्वा महापञ्चभूतशुद्धिं (??पिप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वणं भगवन्तं पप्रच्छ भगवान्सनत्कुमारश्वाथर्वण कुब्जिकामहापश्चिमाम्नायेश्वर्याः किं मन्त्रं किं यन्त्रं केन तन्त्रेण पूजनं ??not in the book) कृत्वा इन्द्रियाणि पशून्हत्वात्मानं सम्पूज्य कुब्जिकादीक्षावान्पुरुषः परमात्मनि जाग्रति परमात्मज्ञानसिद्धिं प्राप्नोत्येवं वेद कुब्जिकोपनिषत् ॥ १०॥ अकामो धीर अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चनोनः । तमेव विद्वान्न विभाय मृत्योरात्मानं धीरमजरं युवानम् ॥ ११॥ नः आत्मकं परमात्मानं षट् मधुराम्लतिक्तकटुकषायलवणषड्रसेनापि न तृप्तं स्वयम्भू पुरुषमकामं धीरममृतमयं पुरुषममृतवाचममृतमुखा वदन्ति । तमजरं युवानं परमात्मानं विद्वान्पण्डितो वेदार्थज्ञः पुरुषो महाधीरो मृत्योः सकाशान्न विभाव्य सम्भावनापि न विद्यतेत्यर्थः ॥ १२॥ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ १३॥ तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते । सर्वा ह्यस्मिन्देवता गावो गोष्ठ इवासते ॥ १४॥ प्रथमेन प्रमारेण त्रेधा विश्वं विगच्छति । अज एकेन गच्छत्यज एकेन गच्छतीहैकेन निषेवते ॥ १५॥ एवं स्वात्मानं गुरुं स्वेष्टदेवीं चैक्यं सम्भाव्य प्रातःकृतिं कुर्यात् । पराशरेणोक्तं सम्यग्ब्रह्मज्ञानं विना वेदमन्त्रार्थज्ञानं विना न कुब्जिकां यजेत्प्रातःकृत्यादिकं न कुर्यात् । तस्माद्ब्रह्मज्ञानस्यावश्यकत्वमुक्तं पराशरेण महाथर्वणरहस्यकुब्जिकोपनिषदेऽप्युक्तं य एवं वेद महाकुब्जिकोपनिषत् ॥ १६॥

॥ ७॥

सहस्राब्जचन्द्रमण्डलमध्ये भ्रमरगुम्फितगुहायां श्रीसच्चिदानन्दमयं परब्रह्मस्वरूपं स्वगुरुं परमगुरुं परापरगुरुं परमेष्ठीगुरुं विलोमेन पश्चिमाम्नायक्रमेण सहस्राब्जे महाचक्रैकचक्रे मानवौघागुरुं सिद्धौघागुरुं दिव्यौघागुरुं दिव्यरूपं शिवशक्त्यात्मकमग्नीषोमात्मकं ब्रह्मस्वरूपं परमव्योम्निकं पञ्चभूतजनकं सर्वदेवजनकं सर्ववेदजनकं सर्वेन्द्रियजनकं सर्वतेजोजनकं सृष्टिस्थितिसंहारकारकं स सूर्यजनकं स सोमजनकं सर्वजनकं स सर्वजनकमिति ॥ १॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ २॥ स विष्णुजनकं स रुद्रजनकं स ब्रह्मजनकं स भूर्भुवःस्वर्जनकं महर्जनकं तपःसत्यजनकम् । श्रीगुरुं शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयम् । तत्र न दुःखं न सुखम् । प्रतिबुद्धः सर्वतः स्वयं विभाति ॥ ३॥ न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाता न च यान्ति देवताः । यत्र देवः क्रतुभिर्भूतभावनः स्वयं विभूत्या विरजः प्रकाशते ॥ ४॥ न तत्र सूर्यो भाति न चन्दतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति नित्यं तस्य भासा सर्वमिदं विभाति ॥ ५॥ दिव्यो ह्यमूर्तिः पुरुषः सबाह्याभ्यन्तरे ह्यजः । अप्राणो ह्यमनाः शुभ्रोऽक्षरात्परतः परः ॥ ६॥ तत्परं ब्रह्म परिपूर्णं नित्यं निरञ्जनमद्वयम् । तत्त्वमसि । अहं ब्रह्मास्मि । अयमात्मा ब्रह्म । योऽसावादित्ये पुरुषः सोऽसावहम् । खं ब्रह्मरूपं श्रीगुरुं सहस्रदलमहाचक्रैकचक्रराजे महाचन्द्रपीठे स्वगुरुं ध्यायेत् ॥ ७॥ एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चात् । अर्धेन विश्वं भुवनं जजान यदस्यार्धं गुरुरूपमुग्रम् ॥ ८॥ ऊर्ध्वः सुप्तेषु जागर ननु तिर्यङ्गिपद्यते न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥ शिवशक्त्यात्मकं श्रीगुरुं ध्यायेत् ॥ ९॥ यदस्य दक्षिणमक्ष स उ स आदित्यो यदस्य सव्यमक्ष स उ स चन्द्रमाः । योऽस्य दक्षिणः कर्णो हि सोऽग्निर्योऽस्य सव्यः कर्णो हि स पवमानः । अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥ १०॥ ब्रह्मास्य शीर्ष बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य । छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥ ११॥ तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥ १२॥ द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्त ऋषयः प्राणापानाः ॥ १३॥ प्राणमाहुर्मातरिश्वानं वातो ह प्राणमुच्यते । प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥ १४॥ सूर्यश्चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । अस्तृतो नामाहमयमस्मि स आत्मानं निदधे द्यावापृथिवीभ्यां गोपीथाय ॥ १५॥ तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते ॥ १६॥ ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वजः ॥ १७॥ तत्परं ब्रह्म तत्सत्यं तत्सलिलं तदव्यक्तं तदस्पर्श तदरूपं तदगन्धं तदरसं तदमृतम् । तन्निष्ठो भूतात्मा सैषा पञ्चमहाभूतः ॥ १८॥ प्रकृतिजनक श्रीपरमेष्ठीगुरुं सच्चिदानन्दरूपं ध्यात्वा मानसाद्युपचारैः सम्पूज्य सञ्जप्य तर्प्य समर्प्य श्रीसिद्धिकुब्जिकारूपं स्वगुरुं ध्यात्वा स्वात्मानं गुरु स्वेष्टदेवीं चैक्यं ज्ञात्वा प्रार्थयेत् ॥ १९॥ कुब्जिका परमेष्ठिनी वाग्देवी ब्रह्मसंश्रिता । ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥ २०॥ इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंश्रितम । येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥ २१॥ इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संश्रितानि । यैरेव ससृजे घोर तैरेव शान्तिरस्तु नः ॥ २२॥ अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥ इति सम्प्रार्थ्य कुलवृक्षं प्रणम्य ॥ २३॥ मधुमन्मूलं मधुमदग्रमासां मधुमन्मध्यं वीरुधां बभूव । मधुमत्पर्ण मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतं घृतमन्नं दुहुतां कुब्जिकात्मकम् ॥ कुलवृक्षं प्रणम्याजपं समर्पयेत् ॥ २४॥ अजपा वैष्णवी माया जप्येन साजिता परा । कुब्जिका ब्रह्मविद्या सा या वेदैरुपगीयते ॥ २५॥ अनाख्येयमिदं गुह्य योगीकेशसमं निभम् । हंसस्य गतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ २६॥ हंस परमहंसनिर्वाणं व्याख्यास्यामः ॥ ब्रह्मचारिणे शान्ताय गुरुभक्ताय कुब्जिकासाधकाय प्रकाशयेत् । शठाय गुरुमन्त्रयन्त्रतन्त्रमार्गनिन्दकाय न दर्शयेत् ॥ २७॥ हंसः परमात्मा परं ज्योतिः सर्वेषु देहेषु कीटकपतङ्गादिषु देहेषु व्याप्नोति । यथा काष्ठे ह्यग्निस्तिलेषु तैलमिव तं विदित्वाति मृत्युमेति । नान्यः परमपन्था विद्यतेऽयनाय ॥ २८॥ आधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरं गत्वानाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञाचक्रे द्विदले हक्षद्वितत्त्वमये वर्णमये स्थित्वा ब्रह्मरन्धं ध्यायन् त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन्नादमादाय हंसेति कुण्डलिनीमुत्थाप्य सोऽहमिति मन्त्रेण परमशिवेन सह संयोज्य ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशं निराभासं परमगुरुं ध्यायेत् ॥ २९॥ न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाता न च यान्ति देवताः । यत्र देवः क्रतुभिर्भूतभावनः स्वयं विभूत्या विरजः प्रकाशते ॥ ३०॥ न तत्र सूर्यो भाति न चन्दतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भातिमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ३१॥ हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हमिति बीजकम् । समिति शक्तिः । सोऽहमिति कीलकम् । अद्याहोरात्रयोर्मध्ये श्वासोच्छवासरूपेण एकविंशतिसहस्राणि षट्शतान्यधिकानि भवन्ति ॥ ३२॥ सूर्याय सोमाय गणेशाय निरञ्जनाय निराभासाय तनु सूक्ष्मः प्रचोदयादित्यग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः ॥ ३३॥ एवं कृत्वा हृदयेऽष्टदले हंसात्मानं ध्यायेत् ॥ अग्नीषोमौ पक्षौ । ओङ्कारः शिरो बिन्दुर्नेत्रं सत्यं मुखं कुब्जेश्वरमहाकुब्जिकाश्चरणौ बाहौ महाकालकरालौ द्वौ शिखा प्रजापतिः ॥ ३४॥ प्रजापतिश्च परमेष्ठी च श‍ृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥ ३५॥ सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥ ३६॥ विद्युज्जिह्वा मरुतो दन्ता रेवतीईवाः कृत्तिका स्कन्धा घर्मो वहः ॥ ३७॥ विश्वं वायुः स्वर्गो लोकः कृष्णदं विधरणी निवेष्यः ॥ ३८॥ श्येनः क्रोडोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुधतीः कीकसाः ॥ ३९॥ देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥ ४०॥ मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥ ४१॥ इन्द्राणी भसद्वायुः पुच्छं पवमानो वालाः ॥ ४२॥ ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥ ४३॥ धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥ ४४॥ चेतो हृदयं यकृन्मेधा व्रतं पुरीतत् ॥ ४५॥ क्षुत्कुक्षिरिरा वनिष्ठः पर्वताः लाशयः ॥ ४६॥ क्रोधो वृक्कौ मन्युराण्डौ प्रजाः शेपः ॥ ४७॥ नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥ ४८॥ विश्वव्यचाश्चर्मोषधयो लोमानि नक्षत्राणि रूपम् ॥ ४९॥ देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥ ५०॥ रक्षांसि लोहितमितर्जना ववन्धम् ॥ ५१॥ अभ्रं पीबो मज्जा निधनम ॥ ५२॥ अग्निरासीन उत्थितोऽश्विना ॥ ५३॥ इन्द्रः प्राङितष्ठन्दक्षिणा तिष्ठन्यमः ॥ ५४॥ प्रत्यङ्तिष्ठन्धातोदङ्तिष्ठन्सविता ॥ ५५॥ तृणानि प्राप्तः सोमो राजा ॥ ५६॥ मित्र ईक्षमाण आवृत्त आनन्दः ॥ ५७॥ युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥ ५८॥ एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥ ५९॥ उपैनं विश्वरूपात्सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥ ६०॥ परमहंसो भानुकोटिप्रतीकाशो येनेदं व्याप्तं भुवनं भूतं भवद्भविष्यादि ॥ ६१॥ मूलाधारे चतुर्दले ॐ गं गणपतये नमः । वं शं षं सं बीजात्मने नमः । स्वाधिष्ठानषड्दलचक्राय नमः । बं भं मं यं रं लं बीजात्मने नमः । मणिपूरचक्राय नमः । दिग्दले डं ढं णं तं थं दं धं नं पं फं बीजात्मने नमः । अनाहतचक्राय नमः । श्रीसूर्यदले क ख ग घ ङ च छ ज झं अं टं ठं बीजपुरुषाय नमः । विशुद्धचक्राय नमः । षोडशदले अं आ इ ई उ ऊ ऋ ऋ लं लू ए ऐ ॐ औं अं अः बीजपुरुषाय नमः । आज्ञाचक्राय नमः । पद्मदले ह क्ष द्विवर्णमन्त्रासनस्थाय हंसःपरमात्मने नमः ॥ ६२॥ पूर्वदले पुण्यमतिः । आग्नेय्यां निद्रालस्यादयो भवन्ति । याम्ये क्रूरमतिर्भवति । नैरृत्ये यदा हंसः परमात्मा तिष्ठति तदा पापमतिर्भवति महापञ्चपातकानि करोति । वारुण्यां हंसो यदा याति तदा रत्यादिचुम्बनालिङ्गनं करोति । गीतवाद्यनृत्यादिनानाविधिक्रीडाकरणेच्छा भवति । वायव्ये गमनादौ बुद्धिः । सौम्ये रतिप्रीतिः । ईशाने जपपूजादानकरणेच्छा भवति । मध्ये हंसो यदा याति तदा महावैराग्यं चोत्पद्यते । मृत्तिकेत्येव सत्यम् ॥ ६३॥ सर्वं भस्म । अग्निरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । सर्वं ह वा इदं भूतं भवद्भविष्यत्सर्वं स्थावरजङ्गमं सर्वं भस्म । न एतानि चक्षूसि यस्माद्बतमिदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तदेतत्पशुपाशविमोक्षणाय तद्भस्मधारणं करोति ॥ ६४॥ स्वप्नमायास्वरूपेण सृष्टिरन्यैर्विकल्पिता । इच्छामात्र प्रभोः सृष्टिरिति सृष्टिर्विकल्पिता ॥ ६५॥ अर्धमात्रात्मकेनेदं विश्वं व्याप्य व्यवस्थिता ॥ ६६॥ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ ६७॥ यदा चक्रमध्ये हंसः परमात्मा याति तदा महावैराग्यवशाद्ब्रह्मज्ञानं चोत्पद्यते सद्ब्रह्ममयो भवति । केसरे यदा हंसात्मा याति तदा जाग्रदवस्थावशाद्विश्व व्याप्य विश्वरूपेण विराडूपेण तिष्ठति ॥ ६८॥ विराड्वाग्निर्विराट्पृथिवी विराडन्तरिक्षं विराटप्रजापतिः । विरामृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥ कर्णिकामध्ये हंसात्मा यदा याति तदा स्वप्नवशाद्धिरण्यगर्भो भवति ॥ ७०॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥ ७१॥ आपो अग्रे विश्वभावाद् गर्भं दधाना अमृता शतज्ञाः । यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥ ७२॥ लिङ्गे यदा हंसात्मा याति तदा सुषुप्तिवशात्सर्वं शून्यमिदं जगत् । ॐ खं ब्रह्ममयो भवति ॥ यदा हंसात्मा पद्मत्यागं करोति तदा तुरीयावस्थावशाद्ब्रह्मास्म्यहं ब्रह्मास्मि । तत्त्वमसीति निश्चयार्थः प्रतिपादयति ॥ ७३॥ स्वयं माता पिता प्रोक्ताः स्वयं भ्राता स्वयं गुरुः ॥ सचराचरं स्वयं व्याप्तं तत्त्वमसीति स्वयं स्वयं तत्त्वमसीति स्वयं स्वयमित्यर्थः ॥ यदा हंसो नादे लीनो भवति तदा तुरीयातीतावस्थावशान्निराभास निरञ्जनं निर्विकल्पं चिन्मयं चिद्रूपं चिदाकारं नित्यं ज्योतिरूपमणुरूपं भाति ॥ ७५॥ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ ७६॥ य एतां तुरीयरूपां तुरीयातीतां महाकुब्जिका पश्चिमसिंहासनस्थां महापञ्चप्रेतासनां महाघोरां सिद्धिकुब्जिकां कूटमन्त्रासनां महाकूटेश्वरीकुब्जिकां स्वहृधये पूजाचक्र सम्भाव्य मानसाद्युपचारैः समभ्यर्च्य सञ्जप्य तर्प्य समम् ॥ ७७॥ ॐ ह स ख फ्रे ॐ परमेष्ठीगुरुपादुकां पूजयामि नमः स्वाहेति मन्त्रेण परमेष्ठीगुरु पूजयेत् । ऐं हसं स्फ्रें ऐं परापरगुरुपादुकां पूजयामि इत्यनेन परापरगुरुं पूजयेत् । श्रीं ह्रीं ह्सफ्रें श्रीं ह्रीं परमगुरुपादुकां पूजयामि इत्यनेन परमगुरु पूजयेत् । हसं कह हसं ख्फ्रें शं कह इति मन्त्रेण कुब्जेशानन्दनाथ श्रीगुरु श्रीसिद्धिकुब्जाम्बापादुकां पूजयामि । ॐ नमः स्वाहेति मन्त्रेण श्रीगुरु समभ्यर्च्य । ऋल व र यूं इति सिद्धिकूटेन दिव्यौघागुरुं समभ्यर्च्य । श्क हू ख्फ्रें ड्क ह इति मन्त्रेण सिद्धौघागुरुं सम्पूज्य । क च ट व र यी मन्त्रेण मानवौघागुरु सम्पूज्यानुलोमविलोमेन नवधा सम्पूजयेत् ॥ ७८॥ ॐ कुब्जिकादेव्यै विद्महे कुलदीपायै धीमहि ह्रीं तन्नः कुब्जिः प्रचोदयात् ॥ महाकुब्जिकागायत्रीमन्त्रेण महाकुब्जिकां पूजयेत् ॥ ७९॥ ॐ ब्रह्मविष्णुमहेश्वरादि ऋषिः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्यादि छन्दांसि । रुद्रकुब्जिकामहाकुब्जिकावीरकुब्जिकाश्मशानकुब्जिकागुह्यकुब्जिकासिद्धिकुब्जिकाभीमकुब्जिकाभद्रकुब्जिकाप्रचण्डकुब्जिकाज्ञानकुब्जिकामहोग्रकुब्जिका देवता । हृदये विनियोगः ॥ ८०॥ हृदिस्था कालिका विद्या महाकुब्जा हृदि स्थिता । सिद्धिकुब्जा महाविद्या कुब्जानाथेन सेविता ॥ ८१॥ कुब्जेश्वरं विरूपाक्षं नीलकण्ठं त्रिलोचनम । ऊर्ध्वकेशं ज्योतिरूपं व्यालयज्ञोपवीतकम् ॥ ८२॥ सहस्रशीर्ष रुद्रं सहस्राक्षं विश्वशम्भुवम् । विश्वतः परमं विश्वं कुब्जेशं विश्वतोमुखम् ॥ ८३॥ गजचर्मपरीधानं पश्चिमाभिमुखे स्थितम् । देवं भवं पशुपतिं शिवम् । कुब्जेश्वर महादेवं सर्वमुग्रं शिखण्डिनम् ॥ ८४॥ सहस्राक्षः सहस्रपात्सहस्रशीर्षा पुरुषम् । सहस्रबाहुभूषितं कुब्जेश्वरम् ॥ ८५॥ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः शिवो मेऽस्तु सदाशिवोम् ॥ ८६॥ ॐ ज्योतीरूपाय विद्महे परब्रह्मेश्वराय धीमहि तन्नः कुब्जेश्वरः प्रचोदयात् ॥ इत्यनेन कुब्जेश्वरं समभ्यर्च्य सञ्जप्य तर्प्य समर्प्य प्रणमेत् ॥ ८७॥ नमः सायं नमः प्रातर्नमो रात्रौ नमो दिवा । शिवाय च कुब्जाय चोभाभ्यामकरं नमः ॥ इति कुब्जेश्वरं प्रणम्य पृथिवीं प्रणमेत् ॥ ८८॥ पृथिव्यामग्नये समनमन्त्स आओत् । यथा पृथिव्यामग्नये समनमन्नेवा मह्यं सन्नमः सन्नमन्तु ॥ ८९॥ पृथिवी धेनुस्तस्या अग्निर्वत्सः । सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथम प्रजा पोषं रयिं स्वाहा ॥ ९०॥ अन्तरिक्षे वायवे समनमन्त्स आओत । यथान्तरिक्षे वायवे समनमन्नेवा मह्यं सन्नमः सन्नमन्तु ॥ ९१॥ अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः । सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ९२॥ दिव्यादित्याय समनमन्त्स आओत । यथा दिव्यादित्याय समनमन्नेवा मह्यं सन्नमः सन्नमन्तु ॥ ९३॥ द्यौर्धेनुस्तस्या आदित्यो वत्सः । सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ९४॥ दिक्षु चन्द्राय समनमन्त्स आधोत । यथा दिक्षु चन्द्राय समनमन्नेवा मह्यं सन्नमः सन्नमन्तु ॥ ९५॥ दिशो धेनवस्तासां चन्द्रो वत्सः । ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहाम् । आयुः प्रथमं प्रजा पोषं रयिं स्वाहा ॥ ९६॥ अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ । नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥ इति मन्त्रेण नमस्कारं कुर्यात् ॥ ९७॥ स्वात्मानं गुरुं स्वेष्टदेवीं चैक्यं सम्भाव्य कुब्जेश्वरोऽहं महाकुब्जिकास्वरूपोऽहं निरञ्जनोऽहं निराकारोऽहं निर्विकल्पोऽहं तत्त्वरूपोऽहं तत्त्वमसि । अयमात्मा ब्रह्म योऽसावादित्येकपुरुषः सोऽसावह ॐ खं ब्रह्मरूपोऽहमित्येवं सम्भाव्य स्नानार्थ बहिर्निर्गच्छेदिति वदन्ति ब्रह्मवादिनः ॥ ९८॥ श्रीसिद्धिकुजिकां शून्यालये श्मशाने नदीतीरे गोपीते पर्वतेऽप्येकलिङ्गे गङ्गागर्भे लतागृहे महापीठोपपीठे पूर्णगिरिपीठे महोड्यानपीठे जालन्धरपीठे महाकामरूपे वृषशून्यशिवालये स्वयम्भुसदाशिवसन्निधाने नियमेनानियमेन वा महाशङ्खमालया वा वर्णमालया यो लक्षमावर्तयति स विश्वाधीशो भवति स त्रैलोक्याधीशो भवति स ब्रह्ममयो भवति स तत्त्वमयो भवति स सर्वदेवमयो भवति स सर्वदेवमयो भवतीति ॥ ९९॥

॥ ८॥

कुब्जेश्वरं यजेद्वामे कुजिकां दक्षिणे यजेत् ॥ १॥ ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् । यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ॥ २॥ प्रजापतिरब्रावीत ॥ प्रणवस्य चोत्पत्तिर्विप्रो यो न जानाति तत्पुनरुपनयनम् । प्रणवस्य चोत्पत्तिः कुब्जिकोपासको यो न जानाति स कथं कुब्जिकाराधनं करोति सहस्राब्दकोटिलक्षपुरश्चरणेनापि न मन्त्रसिद्धिर्भवति । तस्मान्महाकुजिकोपासको सर्वथा प्रणवोत्पत्तिज्ञानं प्रणवार्थज्ञानं कर्तव्यमिति ॥ ३॥ प्रणवार्थज्ञानं विना महाविद्यां न यजेदिति ब्रह्मवादिनः । चतुर्णां वेदानामादिपूर्वा ॐ भूर्भुवःस्वरिति व्याहृतयो भवन्ति । सर्वमन्त्राणामादिपूर्व ओङ्कारो भवति । ओङ्काराद्या विद्या ब्रह्मविद्योच्यते ॥ ४॥ ओङ्कारं पृच्छामः ॥ को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्ग कि वचनं का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरण को विकारः को विकारी कतिमात्रः कत्यक्षरः कतिपदः कः संयोगः कि स्थानानुप्रदानकरणं शिक्षुकाः किमुच्चारयन्ति किं छन्दः को वर्ण इति पूर्वे प्रश्नाः । अथोत्तरे मन्त्रः कल्पो ब्राह्मणमृग्यजुः साम । कस्माद्ब्रह्मवादिन ओङ्का रमादितः कुर्वन्ति । कि दैवतं कि ज्योतिषं कि निरुक्तं कि स्थान का प्रकृतिः किमध्यात्ममिति षट्त्रिंशत्प्रश्नाः । पूर्वोत्तराणां त्रयो वर्गा द्वादशका एतैरोङ्कार व्याख्यास्यामः ॥ ५॥ ॐ इत्येतदक्षरस्य पादाश्चत्वारो वेदाश्चत्वारः । चतुष्पादमेतदक्षरं द्विवर्ण चतुर्मात्रं सर्वव्यापि सर्वविभवयातयामं ब्रह्म ब्राह्मी ब्रह्म दैवतम् ॥ ६॥ तस्य पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः । द्वितीयान्तरिक्षमुकारः स यजुर्भिर्यजुर्वेदो रुद्रो रुद्रा त्रिष्टुब्दक्षिणाग्निः । तृतीया द्यौर्मकारः स सामभिः सामवेदो विष्णुरादित्या जगत्याहवनीयः । यावसानेऽस्य चतुर्थ्यर्धमात्रा सालुप्तमकारः सोऽथर्वणैरथर्ववेदः संवर्तको ऽग्निर्मरुतो विराडेकऋषिरङ्गिरा भास्वती स्वभा ॥ ७॥ प्रथमा रक्ता ब्राह्मी ब्रह्मदैवत्या । द्वितीया शुभशुक्ला रौद्री रुद्रदैवत्या । तृतीया कृष्णा विष्णुमती विष्णुदैवत्या । चतुर्थी विद्युन्मती सर्ववर्णा पुरुषदैवत्या । स एष ओङ्कारो भवति ॥ ८॥ ॐ इत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालं लयं तथा ॥ ९॥ तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य च ॥ १०॥ ऋग्वेदो गार्हपत्यश्च पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ११॥ यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ १२॥ सामवेदस्तथा द्यौचाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ १३॥ सूर्यमण्डलमाभात्य अकारः शङ्खमध्यगः । उकारश्चन्द्रसङ्काशस्तस्य मध्ये व्यवस्थितः ः ॥ १४॥ मकारस्त्वग्निसङ्काशो विधूमो विद्युतोपमः । तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसा ॥ १५॥ शिखा च दीपसङ्काशा यस्मिंस्तु परिवर्तते । अर्धमात्रा तु सा ज्ञेया प्रणवस्योपरि स्थिता । ब्रह्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा ॥ १६॥ या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता, वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वाभ्यं पदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी मात्रा सर्वदेवत्या । व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स कुब्जेश्वरत्वं प्राप्नोत्येवं वेद महाकुब्जिकोपनिषत् ॥ १७॥

॥ ९॥

महाभूतदिनार्धरात्रे श्मशाने गत्वासनं संशोध्य महापात्रं संस्थाप्य महायन्त्रं प्रपूज्य महाशङ्खमालया दिक्सहस्रं सम्ञप्य सन्तर्प्य समर्प्य पिष्टमयप्रतिमां कृत्वा हृदये स्वशत्रोः साध्यं संलिख्य पृथ्वीबीज विसर्गबिन्दुयुतं सर्वाङ्गे संलिख्य दक्षिणाभिमुखं संस्थाप्य जीवन्यासं कुर्यात् ॥ १॥ जीवला नघारिषां जीवन्तीमोषधीमहम् । त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥ २॥ इहायन्तु प्रचेतसो मेदिनीर्वचसो मम । यथेमं पारयामसि पुरुषं दुरितादधि ॥ ३॥ प्राणमाहुर्मातरिश्वानं वातो ह प्राणमुच्यते । प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥ ४॥ प्राणाय नमो यस्य सर्वमिदं वशे । यो भूतः सर्वस्येश्वरो यस्मिन्सर्वं प्रतिष्ठितम् ॥ ५॥ आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत । ओषधयः प्रजायन्ते यदा त्वं प्राण जिन्वसि ॥ ६॥ यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः । अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥ इत्यनेन प्राणप्रतिष्ठां कृत्वा ध्यात्वा पूजयेत् ॥ ७॥ गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि । जहि शत्रून्त्रिशूलेन कुद्धास्य पिब शोणितम् ॥ ८॥ कृष्णवर्णि बृहदूपि बृहत्स्कन्धि महयि । देवि देवि महादेवि मम शत्रून्विनाशयों नमः ॥ ९॥ यदा केशानस्थि स्नाव मांसं मज्जानमाभरत् । शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत् ॥ १०॥ कुतः केशान्कुतः स्नाव कुतो अस्थीन्याभरत् । अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत् ॥ ११॥ संसिचो नाम ते देवा ये सम्भारां समभरन् । सर्वं संसिच्य मर्त्य देवाः पुरुषमाविशन् ॥ १२॥ ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् । पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥ १३॥ शिरो हस्तावथो मुख जिहां ग्रीवाश्च कीकसाः । त्वचा प्रावृत्य सर्वं तत्सन्धा समदधान्मही ॥ १४॥ यत्तच्छरीरमशयत्सन्धया सहितं महत् । येनेदमदा रोचते को अस्मिन्वर्णमाभरत ॥ १५॥ सर्वे देवा उपाशिक्षन्तदजानाद्वधूः सती । ईशा वशस्य या जाया सास्मिन्वर्णमाभरत ॥ १६॥ यदा त्वष्टा व्यतृणत्पिता त्वष्ट्रय उत्तरः । गृहं कृत्वा मर्यं देवाः पुरुषमाविशन् ॥ १७॥ कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत । कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥ १८॥ इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत । त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥ १९॥ स्वप्नो वै तन्द्री निरृतिः कुब्जिका नाम देवताः । जरा खारत्यं पालित्यं शरीरमनु प्राविशन् ॥ २०॥ स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञं यशो बृहत् । बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥ २१॥ भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः । क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥ २२॥ निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च । शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥ २३॥ विद्याप वा अविद्याश्च यच्चान्यदुपदेश्यम् । शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥ २४॥ आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥ २५॥ आलापाश्च प्रलापाश्चाभीलापलपाश्च ये । शरीरं सर्वे प्राविशन्नायुजः प्रयुजो यजुः ॥ २६॥ प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥ २७॥ आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः । चित्तानि सर्वे सङ्कल्पाः शरीरमनु प्राविशन् ॥ २८॥ आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः । गुह्याः शुक्राः स्थूला आपस्ता बीभत्सावसादयन ॥ २९॥ अस्थि कृत्वा समिधं तदष्टापो असादयन् । रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥ ३०॥ इत्यनेन जीवन्यासं कृत्वा अनेन मन्त्रेण प्रतिमां पूजयेत् । स्वात्मानं ब्रह्मस्वरूपं ध्यात्वा प्रज्वलच्चिताग्नौ पुत्तलिकां लोमेनेति मन्त्रेण जुहुयात् ॥ ३१॥ या आपो याश्च देवता या विराड्ब्रह्मणा सह । शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥ ३२॥ सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य विभेजिरे । अथास्येतमात्मानं देवाः प्रायच्छन्नग्नये ॥ इत्यनेन ब्रह्मस्वरूपोऽयमात्मा ब्रह्मेति ॥ ३३॥ तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते । ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ॥ एवं ब्रह्मात्मानं ज्ञानं ज्ञात्वा लोम लोम्नेति मन्त्रेण होमयेत् ॥ ३४॥ लोम लोम्ना सङ्कल्पया त्वचा सङ्कल्पया त्वचम् । असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥ ३५॥ अमुकस्य दह गात्राणि दह मांसं दह त्वचम । दह त्वगस्थ्यसृग्लोमानि अस्थिभ्यो मज्जिकां दह ॥ इति मन्त्रेण होमयेत् ॥ ३६॥ अर्चित्वा कृष्णपुष्पैस्तां दग्ध्वा धूपं बलिं हरेत् । बलिमालोमिका धानां शकुल्यः पललं सुराम् ॥ ३७॥ पिष्टकुल्माषमांसानि मधुलोडाफलानि च । पुष्पानि कृशरं मत्स्यानपूपानुपहारयेत् ॥ ३८॥ यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत् । तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नवृद्धिः प्रसूतः ॥ ३९॥ नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान्विन्ता बन्धपाशान् । यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥ ४०॥ ॐ नमो यमाय पञ्चमहाप्रेताधिपतये ह्रीं मम शत्रून्मारय २ शोषय २ ताडय २ भेदय २ छेदय २ दह २ पच २ मथ २ विध्वंसय २ ममामुकशत्रोः सपरिवारं नाशय २ कहफ्रें फट् स्वाहा ॥ इत्यनेन यमराजं पूजयेत् । स सर्वान् शत्रून्मारयति स सर्वशत्रुच्चाटनं करोति स सर्वलोक जयतीति ॥ ४१॥

॥ १०॥

यदि कश्चिदनर्थविदो ज्ञात्वा प्रमादाद्वा लोभाद्वा यः प्रयोगं कुरुते विपरीतफलभाग्भवति पञ्चत्वमाप्नोति स वातुलो भवति ॥ १॥ अथर्ववेदोक्तः पिप्पलादशौनकीशाखाध्यापको पाराशरगोत्रोत्पन्नब्राह्मणो वा कुब्जिकोपासकस्विरात्र्युपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रं कृत्वावर्तयेत्सिध्यन्त्यस्यार्था सर्वकर्माणि सर्वप्रयोगादीनि । वश्यं विद्वेषणं चैव मारणं मोहनं तथा ॥ २॥ य एवं वेद महाकुब्जिकारहस्योपनिषत्सर्वोपनिषत्सारतत्त्वार्थं वेद । स सर्वकाणि करोति परसेनास्तम्भनं करोति परसेनान्विद्रावयति शोषयति मारयति मोहयति स्तम्भयति य एवं वेद ॥ ३॥ म्स्स् कृते पूर्वाम्नायोर्ध्वाम्नायोपासनं कुर्यात् । त्रेतायां दक्षिणोत्तराम्नायोपासनं कुर्यात् । द्वापरेऽधाम्नायोपासनं कलौ पश्चिमाम्नायोपासनं कुर्यात् ॥ ४॥ महाकुब्जिके पश्चिमाम्नायेश्वरि सर्वभूतेश्वरि महाविद्येश्वरि देवि शरणं त्वाहमागतो दौर्भाग्य मे जहि सौभाग्यवति सर्वसौभाग्यं मे देहि धनवति धनं मे देहि यशस्वति यशो मे देहि पुत्रवति पुत्रपौत्रान्मे देहि सर्ववति सर्वान्मे कामान्मे देहि ॥ ५॥ इति मन्त्रेण कुब्जिकां प्रणम्य भौमाष्टम्यां महानिशार्धे श्मशाने गत्वा प्रेतासनोपविश्य कपालपात्रं घृतपूरितं षट्कोणाष्टकोणं चतुरस्रं कृत्वा पूर्णपात्रं संस्थाप्य वीरनाड्येन षोडशतन्तुभिर्वर्तिकां कृत्वा पश्चिमाभिमुखं दीप प्रज्वाल्याहोरात्रपर्यन्तं ``अमुकं मे वशमानय ॐ हस्फ्रें आं ह्रीं क्रों शफ्रें ओं'' इति शतमष्टोत्तरसहस्रं सनपात्प्रत्यक्षं कुब्जिकादर्शनं करोति त्रैलोक्यं वशमानयति य एवं वेदेति महाकुब्जिकापूजनोपनिषत् ॥ ६॥

॥ ११॥

कालिका च महाकुब्जा तारापि कुब्जिका स्मृता । षोडशी सिद्धिकुब्जा च कुब्जिका भुवनेश्वरी ॥ १॥ कुब्जा भैरवी विख्याता कुब्जिका छिन्नमस्तका । धूमावती स्मृता कुब्जा कुब्जिका बगलामुखी । मातङ्गी वीरकुब्जा च कुब्जिका कमलापरा ॥ २॥ पूर्वाम्नायेश्वरी कुब्जा पश्चिमाम्नायस्वरूपिणी । उत्तराम्नायेश्वरी कुब्जा दक्षिणाम्नायस्वरूपिणी ॥ ३॥ अधाम्नायेश्वरी कुब्जा महोम्निआयस्वरूपिणी । षसिंहासनगा कुब्जा रत्नसिंहासनस्थिता ॥ ४॥ ब्रह्माणीसहितो ब्रह्मा माहेशीसहितः शिवः । वैष्णवीसहितो विष्णुः कुब्जिकां समुपासते ॥ ५॥ कालिकाद्या महादशविद्याः कुब्जिकापूजायन्त्रराजोपरि बाह्यादिक्रमेण षट्कोणे बिन्दुचक्रे गुरूपदिष्टमार्गेण यजेत् । द्वारदेवता ह्यादौ सम्पूज्य ततोऽष्टकोणदेवतां यजेदिति ॥ ६॥ कालिका महोग्रतारां षोडशी भुवनेश्वरी भैरवी प्रचण्डोग्रचण्डिका धूमावती मातङ्गीं बगलामुखीं श्रीसिद्धिलक्ष्मी यथाक्रमेणोक्तमन्त्रेण यजेत् । श्रीसिद्धिलक्ष्म्या महानवार्णामूलेन श्रीसिद्धिलक्ष्मी यजेत् । बिन्दुचक्रराजोपरि श्रीसिद्धिलक्ष्मी महाषोडशोपचारैः प्रपूजयेत् । कालिकोग्रताराः प्रचण्डचण्डिका त्रिकोणे स । म्पूजयेत् । द्वाविंशत्यक्षरेण महाकालिकां यजेत् । पश्चिमादिक्रमेण षट्कोणचक्रे षोडशीभुवनेश्वरीभैरवीधूमावतीमातङ्गीबगलामुखीर्यजेत् । तारां त्र्यक्षरेण भुवनेश्वरीं ह्येकाक्षरेण चैतन्यभैरव्या महाषट्कटमहामन्त्रराजेन धूमावती सप्ताक्षरेण मातङ्गी महाष्टाक्षरेण षट्त्रिंशतिरक्षरीमहाब्रह्मास्त्रमन्त्रराजेन बगलामुखीं यजेत् । पश्चिमादिवामावर्तेन तद्यन्त्रं तच्चक्रमण्डले यथोक्तक्रमेण कुब्जिका यजेत् । महानिशार्धे महापञ्चमकारेण सर्वदा प्रपूजयेदिति ॥ ७॥ शाक्तेषु दिव्यब्रह्मचारी रात्रौ नग्नः सदा मैथुनासक्तो मधुनासक्तो मनसा जपपूजादिनियमो योषितां प्रियकरो भगोदकेन तर्पणं योनिक्षतेन तोयेन तर्पण तेनैव पूजनं सर्वदा कुब्जिकारूपमात्मानं विभाव्य महार्घपात्रं संस्थाप्य महायन्त्र प्रपूज्य महाशङ्खमालया शतमष्टोत्तरं साप्य तर्प्य समर्प्य लेह्यचोष्यपेयात्मक भक्ष्यभोज्यमाचरेदिति ॥ ८॥ एवं यः क्रियते कुब्जिकाराधनं स नक्षत्राणां यथा सोमो ज्योतिषामिव भास्करः । भाति सर्वेषु लोकेष्विति ॥ ९॥ चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ॥ १०॥ तं त्वा प्रपद्ये तं त्वा प्रविशामि सर्वगुः सर्वपुरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥ ११॥ स सर्वात्मा स सर्वभूतात्मा स ज्ञानात्मा स विश्वात्मा स परमात्मा स अन्तरात्मा स अन्तरान्तरात्मा स जीवात्मा स देवात्मा स वेदात्मा स लोकात्मा स परब्रह्मात्मा स ज्योतिरूपात्मा स सर्वव्यापिपुरुषो भवति । स साक्षिमात्रोऽवतिष्ठति स पुण्यपापैर्न लिप्यते । यन्त्र नादुःखं सुखं शान्तं नित्यानन्द ब्रह्मादिवन्दितं निर्वाणं लब्ध्वा पुनरावर्तति ॥ १२॥ महापूर्णाभिषेकं कृत्वा कुब्जिकोपासनं कुर्यान्नो चेद्वातुलो भवति पञ्चत्वं प्रा पोत्येवं वेद । पूर्णात्पूर्णमुदजति पूर्णं पूर्णेन सिच्यते । स सर्वमन्त्रोपदेशं गृह्णीयात् । केचिच्चिदाचार्यमुखेन सौर्यं गाणपत्यं शैवं वैष्णवं शक्तिमन्त्रं वेदोक्तमन्त्रं नवग्रहमन्त्रमष्टाविंशतिनक्षत्रमन्त्रं सर्वमन्त्रं गृह्णीयात्तस्य सर्वयन्त्रपूजनेऽप्यधिकारः स सर्वतन्त्राध्यापको भवति ॥ १३॥ सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ॥ १४॥ यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्रणयति ॥ १५॥ या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥ १६॥ यत्तर्पणमाहरन्ति य एवाग्निषोमीयः पशुर्बध्यते स एव सः ॥ १७॥ एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांस वा तदेव नाश्नीयात् ॥ १८॥ श्रियं च वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरनाति ॥ १९॥ अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविच्छेदाय तद्वतम् ॥ २०॥ ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम ॥ २१॥ अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणं मध्वो अग्रमुभावपांशु प्रथमा पिबाव ॥ २२॥ यस्य पिता पितामहः सोमं न पिबति स पशुत्वं प्राप्नोति य एवं वेद महाकुब्जिकापूजनतत्त्वोपनिषत् ॥ २३॥

॥ १२॥

अथ महाकालिकां व्याख्यास्यामः ॥ कामरेफेन्दिरासमष्टिरूपिणीमेतत्तिगुणितामादौ । तदनु कूर्चद्वयम् । कूर्चबीजं तु व्योमषष्ठस्वरबिन्दुमेलनरूपम् । तदेव द्विरुच्चार्य । भुवनाद्वयम् । भुवना तु व्योमज्वलनेन्दिराकलाबिन्दुमेलनरूपा । तद्द्यम् । दक्षिणा कालिका चेत्यभिमुखगता । तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुद्धरेत् । स तु शिवमयो भवेत् । स तु सर्वसिद्धीश्वरो भवेत् । गतिस्तस्यास्तीति । नान्यस्य गतिरस्तीति । स तु वागीश्वरः स तु नारीश्वरः स तु देवेश्वरः स तु लोकेश्वरः स तु सर्वेश्वर इति ॥ १॥ भैरवोऽस्य ऋषिः प्रोक्त उष्णिक्छन्द उदाहृतः । हृदिस्था च महाविद्या कालिका गुह्यकालिका ॥ २॥ काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ३॥ अभिनवजलदसङ्काशामुन्नतस्तनी कुटिलदंष्ट्रा शवासना कालिका ध्येया । त्रि कोणं त्रिकोणं नवकोणं पद्मम् । तस्मिन्देवीं सर्वाङ्गेनाभ्यर्च्य पञ्चमहामकारेण रात्रौ सर्वदा यजेदिति ॥ ४॥ जीवन्मुक्तः स विज्ञेयो यः स्मरेत्कालिकां पराम् ॥ ५॥ पञ्चमकारेण भुक्तिमुक्तिकवित्वपुत्रपशुकीर्तिज्ञानैश्वर्यवान्भवति य एवं वेदेति महाकुब्जिकोपनिषत् ॥ ६॥

॥ १३॥

अथ महोग्रतारां व्याख्यास्यामः ॥ प्रथमं वेदादिबीजम । द्वितीयं त्रपाबीजम । तृतीयं क्रोधबीजमिति ॥ १॥ वागाद्यां कमलाद्या कामाद्यां वा जगत्तारिणीमेतां यो विन्द्यात्स वागीशो भवति सर्वश्रवणो भवति सर्वां सम्पदमीष्टे ॥ २॥ शुद्धा निष्कलां त्रिवर्णपूतां यो जानाति स पाप्मानं तरति स ब्रह्महत्यां तरति स वीरहत्यां तरति स भ्रूणहत्यां तरति स मृत्यु तरति । मुक्तिं लभते गर्भजन्मजरामरणतापत्रयात्मकं दुःखं तरति ॥ ३॥ य एतां भुवनाद्यां स्मरति चिन्तयति धारयति गुरुमुपास्ते स चतुर्वर्गफलभाग्भवति ॥ ४॥ यो महाचीनक्रमेण लतागादे महाशङ्खमालया लक्षमावर्तयति स विश्वाधीशो भवति स सर्वविद्यावान्भवति स ब्रह्मधामवान्भवति स निर्लेपो निष्कलो द्वन्द्ववर्जितो विगतज्वर आसन्तत्त्वविषयो अमृतत्वपदमश्नुते स निर्वाणपदमाप्नोति ॥ ५॥ पूजास्थानमस्या अन्तः षट्कोणमष्टदलं भूपुरमिति । षट्कोणेषु षडङ्ग मध्ये तारामष्टपत्ते योगिन्यः ॥ ६॥ योगिन्यो यथा । महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च । घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी । भैरवी चाष्टमी प्रोक्ता योगिनीस्ताश्च पूजयेत् ॥ ७॥ इत्थं यो भजते देवीं स भवेत्कल्पपादपः । सर्वकाममवाप्नोति प्राप्नोति परमं पदम् । ॐ तत्सत् ॥ ८॥ इमामधीयानस्तर्क आगमपुराणकाव्यदिव्यौषधीशो भवति स सर्वमन्त्रजापको भवति स सर्वयन्त्रपूजको भवति स सर्वदेवसमो भवति स सर्वदेवसमो भवति य एवं वेद कब्जिकाराधनक्रमतत्त्वोपनिषत ॥ ९॥

॥ १४॥

अथ राजराजेश्वर्या महाषोडशार्णमन्त्रोद्धारं व्याख्यास्यामः ॥ प्रथमं महालक्ष्मीबीजम् । महालक्ष्मीबीजं तु कुलकौलिनी विश्वतोमुख्यारूढं मायास्वरभूषितं कलाकुब्जिकाभूषितम् । श्रीबीजम् । द्वितीयं भुवनेश्वरीबीजम् । भुवनेश्वरीबीज तु परात्मा व्यापकारूढं बिन्दुमालिनीभूषितं कलाकुब्जिकायुतम् । भुवनेश्वरीबीजम् । तृतीयं कामराजम् । कामराजं तु महाकाली मांसारूढं मोहिनीभूषितं कलाकुब्जिकायुतम् । कामराजम् । चतुर्थं वाग्भवम् । वाग्भवं तु ज्ञानामृता व्योमरूपीभूषितं कलाकुब्जिकायुतम् । वाग्भवम् । पञ्चमं शक्तिबीजम् । शक्तिबीज तु जगबीजं ज्वालामालिनीभूषितं कलामृतावर्षणीयुतम् । शक्तिबीजम् । षष्ठमं वेदादिबीजम् । वेदादिबीजं तु पश्चिमास्यः पूर्णिमाभूषितं कलाकुब्जिकायुतम् । वेदादिबीजम् । सप्तमं ह्यष्टमं लज्जाबीजं श्रीबीजं समुच्चार्य । त्रिकूटात्मा महापञ्चदशाक्षरी नवमं दशमैकादशमं बीजं भवति । पञ्चदशाक्षरी तु महाकालः कुण्डली पावकः पिनाकीशः । समुच्चार्य भुवनाबीजं पठेत् । परात्मापरमात्मामहाकालीचैतन्यवेदास्त्रकूटं पठित्वा मायाबीजं पठेत् । नीलकण्ठः स्थाणुः क्रोधीशो बीजात्मा लज्जाबीजम् । द्वादशमं शक्तिबीजम् । त्रयोदशमं चतुर्दशमं वाग्भवं मन्मथाख्यम् । पञ्चदशमं भुवनेश्वरीबीजम् । लक्ष्मीबीजं षोडशमम् ॥ १॥ एषा महात्रिपुरेश्वर्या महाषोडशार्णमन्त्रराज यो जानाति स सादेहसारौप्यसायुज्यसालीनत्वं प्राप्नोति स निर्वाणेशो भवति स सर्वसाम्राज्यवान्भवति स चित्तानाकर्षयति स जीवानाकर्षयति स नामाकर्षयति स बुध्यानाकर्षयति स धैर्यानाकर्षयति स रूपानाकर्षयति स प्राणानाकर्षयति स देवानाकर्षयति स । लोकानाकर्षयति स सर्वानाकर्षयति ॥ २॥ ऋषिश्च दक्षिणामूर्तिः पश्छिन्दस्तु सम्मुखे । देवता च महाविद्या षोडशी त्रिपुरेश्वरी ॥ ३॥ बीजं च वाग्भवं प्रोक्त शक्तिश्च शक्तिबीजकम । कामराज महाबीज कीलके विनियोजयेत् ॥ ४॥ पूजास्थानमस्या बिन्दुस्त्रिकोणमष्टकोणं दशकोणं दशकोणं मनुकोणमष्टपत्तं षोडशपत्त वृत्तत्रयं सन्ध्यावृत्तैरिशोभायम । महाश्रीचक्रराजं सर्वयन्त्रोत्तम मोक्षद्वारं ब्रह्माण्डाकाररूपं भूगोलचक्र श्रीचक्रम् । यः श्रीचक्र वेत्ति स सर्वं वेत्तीति ॥ ५॥ आधारनवक मुद्राशक्तयः । पृथिव्यप्तेजवाय्वाकाशशब्दस्पर्शरसरूपगन्धवाक्पाणिपादपायुपस्थमनोविकाराः कामाकर्षिण्यादयः षोडशशक्तयः । वचनादानगमनविसर्गानन्दहानोपादानोपेक्षाख्यबुद्धयो अनङ्गकुसुमाद्यष्टौ । कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्मयाद्यष्टशक्तयः । अलम्बुसा कुहूर्विश्वोदरी वारुणी हस्तिनी गान्धारी यशोवती पयस्विनी पूषा शङ्खिनी सरस्वती इडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः सर्वसङ्क्षोभण्यादि चतुर्दशशक्तयः । प्राणापानव्यानोदानसमाननागकूर्मकृकलासदेवदत्तधनञ्जयादयो दश वायवः सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा देवताः । एतद्वायुदशसंसर्गोपाधिभेदेन रेचकः पोषकः शोषको दाहकः प्लावकः प्राणमुख्यत्वेन पञ्चधा जठराग्निर्भवति । सरिको हारिको क्षोभको जृम्भक मोहक इति नागप्राधान्येन पञ्चविधास्ते मनुष्याणां देहगाः । भक्ष्यभोज्यचोष्यलेह्यपेयात्मकं पञ्चविधमन्नं पाचयन्ति । एतद्दश वहिकलाः सर्वज्ञाद्या अन्तर्दशारगा देवताः । शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणान्विता वशिनीवाग्देवताद्यष्टशक्तयः । शब्दादिपञ्चतन्मात्राः पञ्चपुष्पबाणाः । मन इक्षुधनुः । रागः पाशः । द्वेष अङ्कुशः । अव्यक्ताहकारमहत्तत्त्वमिति । कामेश्वरीवजेश्वरीभगमालिन्योऽन्तस्त्रिकोणगा देवताः । शुद्धा निरुपाधिका सा च देवी कामेश्वरी । सदानन्दघनः स्वात्मैव परदेवता । एतस्य सर्वस्य विमर्शः अनन्यचित्तत्वेन च सिद्धिः । भावनायाः क्रिया उपचारः कर्तव्यमकर्तव्यमुपासितव्यमिति य एवं वेद कुब्जिकापूजनोपनिषत् ॥ ६॥

॥ १५॥

अथ भुवनेश्वरी व्याख्यास्यामः ॥ प्राणेशः प्रकृत्यारूढं बिन्दुमालिनीभूषितं कलाकुब्जिकायुतम् ॥ १॥ महाभुवनेश्वर्या महामन्त्रैकाक्षरमन्त्रराजं यो जानाति स त्रैलोक्याधीशो भवति स सकलसाम्राज्येश्वरो भवति ॥ २॥ पूजास्थानमस्या अन्तःषट्कोणमष्टदलं षोडशदलं भूपुरमिति ॥ ३॥ श्रीभुवनेश्वर्या पूजायन्त्रराजं यो जानाति स सर्वैश्वर्यवान्भवति खेचरत्वं प्राप्रोत्येवं वेद महाकुब्जिकाध्यानतत्त्वोपनिषत् ॥ ४॥

॥ १६॥

अथ चैतन्यभैरवीं महामन्नपूर्णेश्वरी भैरवीं व्याख्यास्यामः ॥ प्रथमं चैतन्येश्वरी त्रिपुरसुन्दर्यारूढं माहेश्वरीभूषितं कलामृताकर्षणीयुतं प्रथमम् । द्वितीयं नीलकण्ठं महाकालं पिनाकीशं समुच्चार्य मायाबीजम् । ततोऽम्बिकापति वृकोदरी दीपारूढं ज्वालामालिनीभूषितं कलाकुब्जिकामेलनं क्वचित्सुन्दरीयुतम् । चैतन्यभैरव्या महामन्त्रराजम् ॥ १॥ ह्रीं नमो भगवतीति माहेश्वरी पदं पुनः । अन्नपूर्णे ठयुगलं वागीशत्वप्रदं परम ॥ २॥ त्रिकोणं बिन्दुचक्र तु दलवेदसमन्वितम् । वसुपत्तुं षोडशाब्ज भूपुर द्वारभूषितम् ॥ ३॥ इदं यन्त्रं यन्त्रराजं सर्वदेवैः प्रपूजितम् । बालाभैरवीविद्यापि ऐं क्लीं सौः त्र्यक्षरी परा ॥ ४॥ रात्रौ ताम्बूलपूर्णमुखं कृत्वा साधकसत्तमः । लक्षमेकमनुजप्त्वा स कैवल्यं पदमश्नुतेति ॥ य एवं वेद महाकुब्जिकोपासनोपनिषत ॥ ५॥

॥ १७॥

अथ प्रचण्डोग्ररूपां कर्तृकपालहस्तां प्रत्यालीढपदा विपरीतासनस्था स्वमुण्डधरां ललज्जिह्वां महाघोरां डाकिनीवर्णिनीसहितां महाछिन्नमस्तां व्याख्यास्यामः ॥ १॥ प्रथमं महालक्ष्मीबीजम् । महालक्ष्मीबीजं तु विस्फुलिङ्गिनी विश्वमुख्यारूढं बिन्दुमालिनीभूषितं कलामृताकर्षणीयुतम् । महालक्ष्मीबीजम् । द्वितीयं मनोभवबीजम् । मनोभवबीजं तु महाकाली धरारूढं गोविन्दस्वरभूषितं कलाकलानिधियुतम् । मनोभवबीजम् । तृतीयं त्रपाबीजम् । त्रपाबीजं तु प्राणेशो वेदकण्ठारूढं तूर्यस्वरभूषितं कलाकुब्जिकायुतम् । त्रपाबीजम् । चतुर्थं वाग्भवम् । वाग्भवं तु सङ्कर्षणः कलाचेतनभूषितम् । वाग्भवं समुच्चार्य वज्रवैरोचनीये पठित्वा भुवनाद्वयम् । ततोऽस्त्रबीजम् । ततः शक्तिर्वरेण्ययुत प्रचण्डस्वरभूषित परमात्मा विनायकभूषितम् ॥ २॥ महामन्त्रराजं सप्तदशाक्षरी यो जानाति स सप्तद्वीपेश्वरो भवति स त्रिलोकेश्वरो भवति स देवेन्द्रो भवति स प्रचण्डोग्रछिन्नमस्ताप्रत्यक्षदेवतादर्शनं करोति स छिन्नमस्तास्वरूपो भवति स सर्वदुष्टान्मारयति शोषयति स्तम्भयति जृम्भयति स चतुर्दशभुवनाधीशो भवति ॥ ३॥ ज्वलच्चितामध्यसंस्था मदाघूर्णितलोचनाम । विद्युत्कोटिप्रतीकाशां दाडिमीकुसुमोपमाम् । एवं ध्यात्वा यजेच्छिन्नां घोररूपां दिगम्बराम ॥ ४॥ पूजास्थानमस्या अन्तः क्रोधबीजं विलिख्य ततस्त्रिकोणं द्वारत्रयभूषितं वृत्तत्रयं त्रिकोणं संलिख्य वसुपत्तू भूपुरम् ॥ ५॥ प्रचण्डोग्रचण्डिकामहाछिन्नमस्तापुजायन्त्रराजं यो जानाति नित्यं योऽर्चयति योपासनं सर्वदा करोति स्वशिखायां यो धारयति स ब्रह्मत्वं प्राप्नोति स विष्णुत्वं प्राप्नोति स रुद्रत्वं प्राप्नोति स ब्रह्मसमो भूत्वा सर्वान्देवान्सर्वांल्लोकान्सर्वात्मानं संसृजति विष्णुसमो भूत्वा स सर्वान्देवान्सर्वांल्लोकान्सर्वात्मानम् । प्रतिपालयति स रुद्रसमो भूत्वा सर्वान्देवान्सर्वांल्लोकान्सर्वात्मानं जगत्स्थावरजङ्गमं भूतं भवद्भविष्यत्सर्वं संहारयति स सर्वशास्त्रार्थं जानाति स वेदार्थं करोति स सर्वशास्त्राध्यापको भवति न्यायमीमांसासाङ्ख्यपातञ्जलव्याकरणवेदागमज्योतिषधर्मशास्त्रार्थं जानाति स आयुर्वेदधनुर्वेदगान्धर्ववेदार्थशास्त्रं जानाति स सकलशास्त्रार्थं जानाति य एवं वेद ॥ ६॥ महाभूतदिनार्धरात्रौ गत्वा श्मशाने निर्जने महोग्रपीठालये बीजेन स्नात्वा प्रचण्डचण्डिका ध्यात्वा पीत्वा भुक्त्वा नत्वा स्मृत्वा प्रचण्डोग्रचण्डिकाछिन्नमस्तापूजाचक्रराजं पश्चिमाभिमुखं संस्थाप्य महापञ्चमकारैः सम्पूज्य विधिवत्सन्तर्प्य जप्य समर्प्य महामांसं मधुनाभिघारितं साज्यं रक्तचन्दनं रक्तोत्पलसहस्रं करवीरसहस्रं जुहयात् । शक्ति सन्तोष्य पञ्चमं कृत्वा स्वरेतसा छिन्नमस्तां सन्तर्प्य कुण्डगोलोद्भवेन स्वयम्भूपुष्पेन सर्वदा यजेत् ॥ ७॥ स नवद्वीपेश्वरो भवति स महाराजराजेश्वरो भवति स चतुर्दशभुवनाधीशो भवति स महाकविर्भवति स महाकवीन्द्रेश्वरो भवति य एवं वेद महाकुब्जिकापूजनोपनिषत् ॥ ८॥

॥ १८॥

अथ धूमावतीं व्याख्यास्यामः ॥ प्रथमं वक्रतुण्डं महाविद्येश्वरीभूषितं कलाकुब्जिकायुतम् । ततः शब्दात्मा कुब्जस्वरभूषितम् । तृतीयं वैखुण्ठं पितामहभूषितम् । चतुर्थं वरेण्यम् । पञ्चमं वाराही सर्वेश्वरी मोहिनीभूषितम् । आगमः प्रमत्तः शरीराकर्षणीसंयुतम् ॥ १॥ महाधूमावती यो जानाति स सर्वसौभाग्यारोग्यधनधान्यपुत्रपशुकीर्तिज्ञानेश्वर्यवान्भवति स त्रैलोक्यं जयति स रुद्रत्वं प्राप्नोत्येवं वेद ॥ २॥ पूजायन्त्रमस्या अन्तःषट्कोणं वसुपत्तं भूपुरम् ॥ ३॥ धूमावत्याः पूजाचक्रराज श्मशाने नररक्तेन विलिख्य महाशकोपरि महापञ्चमकारैः पञ्चोपचारैः स्वयम्भूकुसुमैः समभ्याक्षमालया नियमेन यो लक्षमावर्तयति स ब्रह्मादिमारणं करोति स सर्वान शत्रून्मारयत्युच्चाटयति स्तम्भयति द्वेषयति षटप्रयोगसिद्धिभाग्भवति स खेचरत्वं प्राप्नोत्येवं वेद महाकुब्जिकार्चनतत्त्वामृतसारोपनिषत् ॥ ४॥

॥ १९॥

अथ महाब्रह्मास्त्रविद्या षट्विंशतिरत्नाक्षरी महापीताम्बरा पीतसिंहासनस्था पीतगन्धानुलेपना पीतपुष्पाञ्जलिरता स्वर्णालङ्कारभूषिता महापीतवर्णा पीताम्बरा ब्रह्मास्त्रविद्या । महाबगलामुख्याः षट्विंशतिरत्नाक्षरी व्याख्यास्यामः ॥ १॥ प्रथमं वेदादिबीजम् । वेदादिबीजं तु ज्वालामालिनी कामकलावृषध्वजभूषितम् । वेदादिबीज प्रथमम् । द्वितीयं स्थिरमायाबीजम् । स्थिरमायाबीजं तु परमात्मा व्यापकारूढं बिन्दुमालिनीभूषितं कलामृताकर्षणीयुतं समुच्चार्य कपर्दिनी [ ॥ ।] पिनाकीशः काशीश्वरभूषितं पुरुषोत्तमः शत्रुघ्नस्वरभूषितं कपाली परापरभूषितं दुर्गोत्तारिणी सागरः शिरसि वहूयारूढं योगिनी मोहिनीभूषितं परमेष्ठी खेचरीभूषितं भगमालिनीयुतं शब्दात्मा विघ्नराजभूषितं पूर्णिमायुतं नर्तकः ः सुरान्तकस्वरभूषितं चतुर्मूर्तिस्वरूपिण्यमृताकर्षणीयुतं वैकुण्ठः षड्वकृस्वरभूषितं प्रचण्डः कुब्जिकाभूषितं सहजाषाढी कुब्जिकाभूषितं विश्वमूर्तिः सङ्कर्षणश्चतुराननं नेपालस्वरभूषितं प्राणेशं वारुणीयुतं काशीश्वरभूषितं कुब्जिकायुतं महाकालं महामायाभूषितं व्यापकं सुमुखेश्वरी महाकाली परापरभूषितं परायणः प्रकाशं पठित्वा बुद्धिं नाशय इत्युच्चार्य स्थिरमायां पुनः प्रणवं स्वाहान्ते च योजयेत् ॥ २॥ महाबगलामुख्याः षट्विंशतिरत्नाक्षरी यो जानाति स शत्रुसेनास्तम्भनं करोति स देवान्स्तम्भयति स लोकान्स्तम्भयति स सोमं स्तम्भयति स सूर्यं स्तम्भयति स सर्वं जयति ॥ ३॥ पूजायन्त्रमस्या बिन्दुस्त्रिकोणं षट्कोणं वृत्तं वसुपत्तुं चतु`रशोभितं ब्रह्मास्त्रयन्त्रराज भवति ॥ ४॥ योऽर्चयति स सर्वदेवपूज्यो भवति स सर्वदेवसमो भवति य एवं वेद महाकुब्जिकापूजनतत्त्वामृतोपनिषत् ॥ ५॥

॥ २०॥

अथ राजमातङ्गिनीं नीलोत्पलनिभां नीलवस्त्रपरीधानां नीलगन्धानुलेपनां नीलसिंहासनस्थां नीलशुकहस्तां नीलाभरणभूषितां महानीला सर्व विद्याराज्ञी महामातङ्गी व्याख्यास्यामः ॥ १॥ प्रथमं वेदादिबीजम् । द्वितीयं त्रपाबीजम् । तृतीयं कामराजं पठित्वा मातङ्गिन्यै समुच्चार्य फट्स्वाहान्तेऽपि योजयेत् ॥ २॥ महामातङ्गी योऽर्चयति स्मरति धारयति गुरुमुपास्ते स सर्वसाम्राज्यवान्भवति स चतुर्वर्गफलभाग्भवति य एवं वेद ॥ ३॥ पूजाचक्र बिन्दुस्त्रिकोणं वसुपत्त्रं षोडशाब्ज चतुर्धारहीनम् ॥ ४॥ राजमातङ्गीमहाविद्यश्वर्याः पूजायन्त्रराजं यो जानाति स खेचरो भवति । महानिशार्धे महापञ्चमकारैः सर्वदा यजेदिति वदन्ति ब्रह्मवादिनः शौनकाः ॥ ५॥ मेषमार्जाररक्तेन स्वयम्भूकुसुमेन च । कुण्डगोलोद्भवैर्मीसैर्मातङ्गीं सर्वदा यजेत् ॥ ६॥ एवं योऽर्चयति स महाराजेन्द्रो भवति स त्रैलोक्याधीशो भवति स ब्रह्मानन्दमयो भवति स ज्ञानानन्दमयो भवति स तत्त्वानन्दमयो भवति स पूर्णानन्दमयो भवति स सर्वानन्दमयो भवति स निर्वाणेश्वरो भवति स कैलासाधिपो भवति स लोकाधिपो भवति स सर्वविद्याधिपो भवति य एवं वेद महाकुब्जिकोपनिषत् ॥ ७॥

॥ २१॥

अथ महासिद्धिलक्ष्मी सर्व विद्येश्वरी महासुभगां पञ्चाननां त्रिपञ्चायताक्षीं दशभुजां रत्नसिंहासनस्थां रत्नाभरणभूषितां सर्वलक्षणसम्पन्नां सिद्धिलक्ष्मी व्याख्यास्यामः ॥ १॥ प्रथमं तारबीजम् । तारबीजं तु पश्चिमास्यः कुब्जिकाभूषितम् । तारबीजम् । द्वितीयं भुवनेश्वरीबीजम् । भुवनेश्वरबीजं तु चैतन्यं वेदकण्ठारूढं कामकलाभूषितं कलाकुब्जिकायुतम् । भुवनेश्वरीबीजम् । तृतीय क्रोधबीजम् । क्रोधबीजं तु परात्मा महाविद्येश्वरीभूषितं कलाकुब्जिकायुतम् । क्रोधबीजम् । चतुर्थं प्राणेशः पितामहभूषितं कलाकुब्जिकायुतम् । पञ्चमं रावबीजम् । रावबीजं तु प्रयागः प्रकृत्यारूढं भगवतीभूषितं कलाकुब्जिकायुतम् । रावबीजम् । षष्ठं नृसिंहबीजम् । नृसिंहबीजं तु क्षेत्रपाल ः पश्चिमास्यस्वरभूषितं कलाकुब्जिकायुतम् । नृसिंहबीजम् । सप्तमं महाङ्कुशबीजम् । महाङ्कशबीजं तु महाकालः सद्योजातस्वरभूषितं कलाकुब्जिकायुतम् । महाङ्कुशबीजम् । अष्टमं शब्दात्मा । नवम महाजीवः शरीराकर्षणीयुतम् । नवमम् ॥ २॥ श्रीसिद्धिलक्ष्म्या महानवार्णमूलमन्त्रराज यो जानाति स सिद्धिलक्ष्मीस्वरूपो भवति स नवद्वीपेश्वरो भवति स सर्वसिद्धिभाग्भवति स महादेवेन्द्रो भवति स सर्वविदोश्वरो भवति य एवं वेद ॥ ३॥ पूजायन्त्रमस्या अन्तस्त्रिकोणं बिन्दुचक्र बहिःषट्कोणं द्वादशदलं वसुदलं वीथीशोभाभूषितं द्वारचतुष्कम् ॥ ४॥ श्रीसिद्धिलक्ष्म्या महापूजायन्त्रराजं सर्वयन्त्रोत्तमं सर्वयन्त्रमयं महासिद्धियन्त्रं मोक्षद्वारं यद्योगिन्य उद्दिश्य निर्वाणमुपविशन्ति बाह्यादिक्रमेण कुब्जिकायन्त्र पूजयेत् । कराङ्गन्यासं कृत्वा द्वारदेवतां पूजयेत् । वामहस्तेन पूजनं वाममार्गेणोपासनं वामकरमालया सर्वदा कुब्जिकामनुजपेत् । स्वशक्त्या युक्तो वा कुलाष्टको यत्नतः शक्तिसहितः साधको सर्वदा कुब्जिकां यजेत् ॥ ५॥ ॐ स क ल वागूपिण्यै श्रीमहाकुब्जिकायै कनिष्ठाभ्यां नमः । ह्रीं स क ल ब्रह्मवानपिण्यै श्रीब्रह्मकब्जिकायै अनामिकाभ्यां नमः । क्लीं स क ल विष्णुवाग्रूपिण्यै श्रीविष्णुकुब्जिकार्य मध्यमाभ्यां नमः । ह्स्ख्लैं स क ल रुद्रवामूपिण्यै श्रीसिद्धिकुब्जिकायै तर्जनीभ्यां नमः । चौं अघोरवागूपिण्यै श्रीश्मशानकुब्जिकाय करतलपृष्ठाभ्यां नमः ॥ एवं हृदयादिषु न्यासमाचरेत् ॥ इन्द्र त्वेति मन्त्रेण महेन्द्र महागजराजैरावतं सम्पूज्य ॥ ७॥ येऽदृह्यनृजवेति मन्त्रेण यमं पूजयेत् ॥ ८॥ वरणो वारयेति मन्त्रेण वरुणमभ्यर्चयेत् ॥ ९॥ धन्वना गा मन्त्रेण कुबेरं पश्चिमादिवामावर्तेन यजेत् ॥ १०॥ जया विजया अपराजिता मोहिनी स्तम्भिनी जृम्भिनी सर्वाकर्षणी सर्वविद्राविणीं पश्चिमादिवामावर्तेनाष्टकोणे समभ्यर्च्य । हां हाकिनी रां राकिनी डां डाकिनी का काकिनी शां शाकिनी ला लाकिनी षट्कोणेषु सम्पूज्य । ॐ गं गङ्गायै ॐ यं यमुनायै ॐ सं सरस्वत्यै नमः । इति त्रिकोणचके यजेत् ॥ ११॥ मूलेन बिन्दुचक्रोपरि । ॐ श्रीं ऐं ऊं श्रीं महाकुब्जेश्वराङ्कस्थायै श्रीकुलकुब्जिकायै नमो नमो । इत्यनेन कुब्जिकां यजेत् ॥ पूर्वोक्तक्रमेण कालिका तारा महाषोडशी भुवनेश्वरी भैरवी छिन्नमस्ता धूमावती बगलामुखी मातङ्गी श्रीसिद्धिलक्ष्मी पूर्वोक्तमन्त्रेण तत्तर्पणं त्रिकोणे तद्विद्यायन्त्रभावना कर्तव्यमिति । वदन्ति ब्रह्मवादिनः शौनकाः ॥ १२॥ विकल्पानामात्मनि विलयं होमः । भावनाविषयानामभेदभावना तर्पणम् । इन्द्रियरूपपशुच्छेदनमनिन्द्या सर्वजीवदया ब्राह्मणभोजनं सर्वं खल्विदं ब्रह्मानन्दमयं सत्यं ज्ञानमनन्तं ब्रह्म ह वा इदमग्र आसीत । स्वयं त्वेकमेवात्मानं ज्ञानं जाग्रत्स्वप्नसुषुप्तिध्यानं दक्षिणादानम् । पूर्णब्रह्मैकरसानन्दरसाभिषेकम् ॥ १३॥ एवं मुहूर्तत्रितयं मुहूर्त द्वितयं मुहूर्तेकमात्रं कुब्जिकाभावनपरो जीवन्मुक्तो भवति । तस्य कुब्जिकात्मैक्यं सिद्धिः । चिन्तितकार्याप्ययत्नेन च सिध्यति । स ब्रह्मा स शिवः सेन्द्रः सोऽग्निः सोऽक्षरः संराटस्वराटपुरुषो भवति स सर्वदेवसमो भवति य एवं वेद महाकुब्जिकापूजामृतोपनिषत् ॥ १४॥

॥ २२॥

इन्द्रः प्रजाप्तिमपृच्छत् । कि मोहनं कथं त्रिजगद्वशीकरणं केनोपायेन शत्रुसेनास्तम्भनं कथं दुन्दुभिविधानम् ॥ १॥ प्रोवाच भगवान्प्रजापतिः । पञ्चशताङ्गुलिप्रमाणोर्ध्वविस्तारं पञ्चशताङ्गुलिप्रमाणं मध्यविस्तारं बालमृदुकोमलचर्मेण वा श‍ृगालचर्मेण वा संवेष्टनं कृत्वा श्मशाने महानिशार्धे गत्वा प्रत्यङ्गिरां वा रुद्रकुब्जिकां ध्यात्वा सङ्कल्पं कृत्वा पीत्वा मेधसूक्तेन नरबलिदानं कुर्यात् ॥ २॥ उच्चै? षो दुन्दुभिः सूक्तद्वयेन सम्पूज्य सहस्रक सम्ञप्य तर्प्य समर्प्य जवासहस्रं करवीरायुतं ज्वलच्चितायां जुहुयात् ॥ ३॥ पश्चिमाभिमुखे स्थित्वा उलूकभैरवं श‍ृगालभैरवं काकभैरवं गृध्रभैरवं वेतालभैरव संहारभैरवं विद्रावणभैरवं महोड्डीशभैरवं पञ्चमकारेण पूजयित्वा प्रार्थयेत् ॥ ४॥ ख फट जहि महाकृत्ये विधूमाग्निसमप्रभे । देवीदेवि महाकुब्जे मम शत्रून्विनाशय मम शत्रून्विनाशयों नमः ॥ ५॥ प्रत्यङ्गिरासूक्तगणेन दुन्दुभिवाद्यं कुर्यात् । स दुन्दुभिवाद्यं श्रुत्वा सर्वशत्रुसेनाः पलायति स निद्रया मोहयति महाशूरोऽपि शिथिलो भवति तस्य पराजयो भवति य एवं वेद महादुन्दुभिविधानम् । स सर्वशत्रुसेनान्मारयति स त्रैलोक्यं जयति स देवलोक जयति स मृत्युलोक जयति स रुद्रलोक जयति स ब्रह्मलोक जयति स विष्णुलोक जयति स भूर्लोक जयति सभुवर्लोक जयति स स्वर्लोक जयति स महर्लोक जयति स जनलोक जयति स तपोलोक जयति स सत्यलोक जयति स सर्वलोक जयति य एवं वेद महाकुब्जिकापूजनप्रयोगोपनिषत् ॥ ६॥

॥ २३॥

अथ महामोहनं देवमोहनं लोकमोहन राज्यमोहन शक्तिमोहनं सर्वमोहनं व्याख्यास्यामः ॥ १॥ महाभूतदिनार्धरात्रौ एकाकी साधको गत्वा पश्चिमाभिमुखे स्थित्वा महाकुब्जिकायन्त्रराजमष्टगन्धेन महाशङ्खोपरि संलिख्य शवासनोपविश्य महासम्मोहनभैरवं स्वच्छन्दभैरवं वज्रभैरवं भूतभैरवं कपालभैरवं महाकालभैरवं महोन्मत्तभैरवं महाकाशभैरवं पञ्चामृतेन पञ्चमकारेण सम्पूज्य महासवेन सन्तर्प्य मेषमहिषबलिदानं समर्प्य कुमारी समभ्यर्च्य कुलशक्ति सन्तोष्य मृदुकोमलासनोपविश्य दशमहाविद्यासहितां महाकुब्जिकां चतुःषष्ट्युपचारेण पञ्चमकारेणाभ्यर्च्य इन्द्रचित्तानि मोहयति ॥ २॥ महात्रैलोक्यमोहनसूक्तमन्त्रेण महाप्रत्यङ्गिरां वा महाकुब्जिका सम्पूज्य मोहनसूक्तमन्त्रमयुतमेकं सञ्जप्य वीरमुण्डपात्रं महाशवोपरि संस्थाप्य पुष्पवासिततैलेन सम्पूज्य वीरनायेन षोडशतन्तुभिर्वर्तिकां कृत्वा पश्चिमाभिमुखं दीप प्रज्वाल्य मोहनसूक्तेनाभ्यर्च्य मोहनसूक्त सहस्रैक सञ्जप्य तत्कज्जलं ललाटे तिलक कृत्वा ॥ ३॥ देवलोक मोहयति स सर्वलोक मोहयति स ब्रह्मलोक मोहयति स रुद्रलोक मोहयति स विष्णुलोक मोहयति स सर्वान्देवान्मोहयति स सर्वांल्लोकान्मोहयति य एवं वेद कुब्जिकापूजनतत्त्वामृतप्रयोगबीजसागरोपनिषत् ॥ ४॥

॥ २४॥

अथ ब्रह्मादिमारणं महामारणप्रयोगं व्याख्यास्यामः ॥ १॥ तत्रासुरी महाप्रत्यङ्गिरां यजेत् । भौमाष्टम्यां वामावास्यायां प्रयोगं कारयेत् ॥ २॥ पितृभूमौ महानिशार्धे गत्वासुरी चक्रे प्रथमेदं किलेत्येकर्मन्त्रेणासुरीराजिका रोपणं कृत्वा चतुर्दिक्षु चण्डोग्रशूलपाणिभैरवं प्रेताकर्षणभैरवं स्वर्णाकर्षणभैरवं वीराकर्षणभैरवं जीवाकर्षणभैरवं महोग्रविरूपानन्दभैरवं कुब्जभैरवं चण्डभैरवं पञ्चोपचारैः पञ्चमकारैः समभ्यर्च्य महासवेन सन्तर्प्य महामांसं समर्प्य कुलसुन्दरी सन्तोष्य कुमारी सम्पूज्य ईशानां त्वेति सूक्तत्रयं यां कल्पयन्ति सूक्तत्रयं सहस्रैक सञप्य समल् ॥ ३॥ क्सं भक्ष ज्वालाजिह्वे करालदंष्ट्र प्रत्यङ्गिरे क्षं ह्रीं नमः ॥ ४॥ इति विंशत्यक्षरी । महायन्त्रराजपुटितं वा प्रत्यङ्गिरासूक्तगणमन्त्रपुटितेन वा शत्रुनामपुटितं शतमष्टोत्तरसहस्रं सम्मप्य समल् ॥ ५॥ अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वीर्यवान्सपत्नहा शूरवीरः परिपाणः सुभङ्गजः ॥ इत्यनेन कृष्णापराजितापुष्पाञ्जलिं दद्यात् ॥ ६॥ कुब्जिका ऊपनिषद् ख्फ्रे नमः सकलशत्रुसंहारिणि रुद्रकुब्जिके ममामुकशत्रु सपरिवारं नाशय २ मारय २ शोषय २ लेदय २ छेदय २ विध्वंसय २ पच २ मथ २ दह २ हैं महावीरकुब्जिके हस्तै विपरीतकुब्जिके हैं संहारकुब्जिके हैं शत्रुशिरस्फोटनं कुरु फट् स्वाहा ॥ ७॥ इत्यनेन ज्वलति चिताग्नौ सैन्धवं श्वेतसर्षपं लवणसूक्तेन होमयेत्सहस्रक महानिशायाम् ॥ ८॥ एकरात्रिप्रयोगेन ब्रह्मादिशत्रून्मारयति । सप्तरात्रिप्रयोगेन शत्रुपरिवारक्षयं करोति ॥ ९॥ यथा विद्युद्धतो वृक्ष आ मूलादनुशुष्यति । एवं सम्प्रति शुष्यतु यो मे पापं चिकीर्षति ॥ इत्यनेन सम्प्रार्थयेत् । ध्यात्वा कृष्णापराजितापुष्पाञ्जलिपञ्चकं दद्यात् ॥ १०॥ कृष्णवर्णा बृहदूपा बृहत्स्कन्धि महद्भयि । सिद्धिकुब्जे महादेवि मम शत्रून्विनाशयों नमः ॥ ११॥ ॐ फ्रें हौं अं अबन्द्धद्विषो जहि ॥ इत्यनेन बलिदानं कुर्यात् । ध्यात्वा समर्पयेत् ॥ १२॥ गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि । जहि शत्रु त्रिशूलेन क्रुद्धास्य पिब शोणितम् ॥ इत्यनेन प्रार्थयेत् ॥ १३॥ घटिमात्र प्रयोगेन सद्यः शत्रून्मारयति य एवं वेद महाकुब्जिकार्चनामृतबीजपूर्णोपनिषत् ॥ १४॥

॥ २५॥

अथ ग्रामवशीकरणं देववशीकरणं लोकवशीकरणं महाराजवशीकरणं त्रैलोक्यवशीकरणं व्याख्यास्यामः ॥ १॥ पितृभूमौ गत्वा शवासने स्थित्वा । यथेयं पृथिवी मही भूतानां गर्भमादधे । एवा ते ध्रियतां गर्भो अनु सूतं सहितवे ॥ २॥ यथेयं पृथिवी मही दाधारेमान्वनस्पतीन । एवा ते ध्रियतां गर्भो अनु सूतं सहितवे ॥ ३॥ यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् । एवा ते ध्रियतां गर्भो अनु सूतं सहितवे ॥ ४॥ यथेयं पृथिवी मही दाधार विष्ठितं जगत् । एवा ते ध्रियतां गर्भो अनु सूतं सहितवे ॥ इत्यनेनाधारशक्ति संशोध्य विघ्नविघाताय अभयं रक्षां कुर्यात् ॥ ५॥ अभयं यावापृथिवी इहास्तु नो अभयं सोमः सविता नः कृणोतु । अभयं नोऽस्तूर्वन्तरिक्ष सप्त ऋषीणां च हविषाभयं नोऽस्तु ॥ इत्यनेन रक्षां कुर्यात् ॥ ६॥ ईर्माभ्यामयनं जातं सक्थिभ्यां चेति सूक्तं षटसहस्रं सम्ञप्य तर्प्य समल् महाकुब्जिका सम्पूज्य बलिदानं कुर्यात् । स्वर्णपुष्पाञ्जलिं दद्यात् ॥ ७॥ मारणोच्चाटनविद्वेषणवशीकरणाकर्षणमोहनस्तम्भनादिषट्प्रयोगसिद्धिदं कुब्जिकासूक्तं व्याख्यास्यामः ॥ ८॥ कुब्जः श्रोत्रियमाप्नोति कुब्जैक परमेष्ठिनम । कुब्जैकमग्निपुरुषो कुब्जः संवत्सरं ममे ॥ ९॥ कुब्जेदमनुक्षयति कुब्ज देवजनैर्विषः । कुब्जैकमन्यं नक्षत्रं कुब्जिका सत्यमुच्यते ॥ १०॥ द्यौः पिता कुब्जिका सत्यमाता मृत्युर्दहति देवि भद्रम् । भद्रं वद कुब्जिके त्वं भद्रं नित्यं कुरुष्व मे ॥ ११॥ कुब्जिकापरं युज्यतां कुब्ज पूर्वं कुब्जिकान्ततो मध्यतो ब्रह्म कुब्जिका ॥ इति सिद्धिकुब्जिकासूक्तम् ॥ १२॥ कुब्जिकोपासकस्त्रिरात्र्युपोषितः पश्चिमाभिमुखो वाग्यतः शवासनोपविश्य कुब्जिकासूक्त सहस्रं कृत्वावर्तयेत् । सिद्धिं तस्यार्थाः सर्वकर्माणि वश्यविद्वेषणोच्चाटनाकर्षणमोहनमारणानि सर्वकर्माणि सिध्यन्ति स दैवमानुषो भूत्वा स्वर्गे म] पाताले विचरति स खेचरो भवति य एवं वेद कुब्जिकोपासनामृतपूर्णोपनिषत् ॥ १३॥ प्राणान्तेऽपि न प्रकाशयेत् । सर्वदा प्राणातिप्रियं कुब्जिकोपनिषदं सर्वोपनिषत्सारं गोपयेत । यथोक्तसाधनप्रयोगपूजनं कृत्वा यथोक्तसिद्धिभाग्भवतीति वेदः ॥ १४॥ इत्यथर्वणरहस्ये महाकुब्जिकाकाण्डे कुब्जिकोपासनामृतपूर्णोपनिषत् समाप्ता ॥ Proofread by Mandar Kulkarni
% Text title            : Kubjika Upasanamrita Purnopanishad
% File name             : kubjikopAsanAmRRitapUrNopaniShat.itx
% itxtitle              : kubjikopAsanAmRitapUrNopaniShat athavA kubjikoupaniShat
% engtitle              : kubjikopAsanAmRRitapUrNopaniShat or kubjikA upaniShad
% Category              : upanishhat, devii, devI, dashamahAvidyA, upaniShat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Source                : The Kubjika Upanishad, T. Goudriaan and J. A. Schoterman (Eds) archive.org 1994
% Latest update         : January 26, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org