रामरहस्योपनिषत् सव्याख्या

रामरहस्योपनिषत् सव्याख्या

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽध्यायः

रामस्य ब्रह्मतारकत्वं सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा । प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ १॥ वायुपुत्र महाबाहो किं तत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ २॥ चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विष्ण्वभिधानेषु विघ्नसूर्येशशक्तिषु ॥ ३॥ एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४॥ हनूमान् होवाच- भो योगीन्द्राश्च ऋषयो विष्णुभक्तास्तथैव च । श‍ृणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥ ५॥ एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् । राम एव परं ब्रह्म राम एव परं तपः । राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥ कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् । प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥ इह स्वलु अथर्वणप्रविभक्तेयं श्रीरामरहस्योपनिषत् श्रीराममन्त्रयन्त्रसाधनप्रपञ्चनपूर्वकं श्रीरामतत्त्वपर्यवसन्ना विजयते । अस्याः सङ्क्षेपतो विवरणमारभ्यते । सनकादिमुनिवृन्दप्रह्लादादिभागवतकदम्बपवनात्मजप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था, जातमात्रेण विदिततत्त्वैः सनकप्रह्लादादिभिरपि इयं पृष्टा परमशिवावतारपवनात्मजेन प्रोक्तेति । आख्यायिकामवतारयति-सनकाद्या इति ॥ १॥ किमिति? वायुपुत्रेति । वायुपुत्रेत्यादिप्रश्नतो हनूमतः सर्ववित्त्वमवगम्यते ॥ २-४॥ तत्कृतप्रश्नोत्तरं हनूमान् होवाच । किमिति? भो इति । भवबन्धविनाशिनीम्-स्वाज्ञलोकस्य, भवतां कृतार्थत्वात् ॥ ५॥ सर्वेषु विष्ण्वभिधानेषु विघ्नसूर्येशशक्तिभेदेषु एतेषु वेदशास्त्रपुराणादिषु अर्थतो विचारितेषु सत्सु अथ स्वातिरिक्तकलनाऽपह्नवसिद्धं यद्ब्रह्ममात्रं निष्प्रतियोगिकमवशिष्यते तदेवायमित्याह-राम एवेति । स्वातिरिक्तकलनाऽसम्भवप्रबोधसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया राजते महीयते इति राम एव परं उत्कृष्टं ब्रह्म स्वमात्रतया सदोपबृंहणात्, राम एव परं उत्कृष्टं तपः तन्मात्रज्ञानमित्यर्थः । राम एव परं तत्त्वं स्वयाथात्म्यं स्वयमेवेत्यर्थः । प्रत्यगभिन्नब्रह्मरूपेण श्रीरामो ब्रह्म तारकं भ्रूमध्यतारकयोगलक्षितत्वात् । यद्वा-श्रीरामस्य ब्रह्मतारकलक्ष्यतुर्यतुरीयरूपत्वात् ब्रह्मतपस्तत्त्वतारकबोध्यं रामाख्यं ब्रह्मैव स्वाज्ञादिदृष्टिमोहे सत्यसति निष्प्रतियोगिकं स्वमात्रमवशिष्यत इत्यर्थः ॥ ६॥ रामस्य अङ्गानि वायुपुत्रादीनि वायुपुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः-रामस्याङ्गानि नो ब्रूहीति ॥ ७॥ हनूमान् होवाच-वायुपुत्रं विघ्नेशं वाणीं दुर्गां क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वासुदेवं वाराहं तत्सर्वान् मन्त्रान् सीतां लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणवमेतान् रामस्याङ्गानि जानीथाः । तान्यङ्गानि विना रामो विघ्नकरो भवति ॥ ८॥ एवं वायुपुत्रात् निर्विशेषब्रह्मतत्त्वमवगम्य मुनयो हृष्टाः सन्तः स्वाज्ञलोकानुकम्पया निर्विशेषब्रह्माप्त्युपायसविशेषं ब्रह्म तदङ्गानि च पृच्छन्तीत्याह-वायुपुत्रेणेति । पप्रच्छुः-किमिति? रामस्येति । परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति स्वप्रतिज्ञापालनाय कर्मज्ञानयोगलक्षणनिष्ठाद्वयपरिपालकनारायणरूपेण राजते महीयते इति रामो दाशरथिः स्वेतरदुर्लभसूनृतभाषणतया यः पुरा आसामास तस्य कानि अङ्गानि तद्गोचरमन्त्राश्च के तत् सर्वं नो ब्रूहि इति ॥ ७॥ तैः पृष्टो हनूमान् होवाच । तानि कानि इत्यत्र तदाह-वायुपुत्रमिति । वायुपुत्रादिजाम्बवदन्ताङ्गदेवतामन्त्रान् त्रेधा अष्टधा षोडशधा वा आदौ जप्त्वा ततो राममन्त्रजपः कार्यः । एवं कृते भगवान् रामः प्रसन्नो भवतीत्यर्थः ॥ ८॥ गृहस्थानां रामाङ्गप्रणवाधिकारः पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः कथं स्यादिति ॥ ९॥ स होवाच-श्रीराम एवोवाचेति । येषामेष षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् । केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् । तस्य प्रणवस्याकारस्योकारस्य मकारस्यार्धमात्रायाश्च ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवं मन्त्राद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥ १०॥ प्रणवस्यापि रामाङ्गत्वे परिव्राजकेतराणां प्रणवाधिकारः कथमिति पृच्छन्तीत्याह-पुनरिति ॥ ९॥ तैः पृष्टो हनूमान् स्वात्मानं प्रति श्रीरामचन्द्रेण यदुक्तं तदेवाह-स होवाचेति । श्रीराम एवोवाचेति-किमिति? येषामिति । ब्रह्मचारी गृही वानप्रस्थः इत्येतेषां केवलप्राधान्येन प्रणवजपाधिकारोनास्त्येव, षडक्षरादिमन्त्राङ्गत्वेन तज्जपाधिकारोऽस्तीत्याह-केवलमिति । प्रणवमूह्य चतुर्मात्राकालमुच्चार्य । आद्यन्तप्रणवयोजनपूर्वकं राममन्त्रजापकानां श्रीरामपदप्राप्त्युपायशुभप्रापको हनूमान् अहं स्यां इत्यर्थः । यो यदि श्रीरामभावापत्तिं वाञ्छति तदाऽयं षडक्षरजपात् पूर्वमेव तस्य प्रणवस्येत्यादि । यस्मादेवं तस्मात् ॥ १०॥ रामनामजपेन सर्वपापनिवृत्तिः विभीषण उवाच- सिंहासने समासीनं रामं पौलस्त्यसूदनम् । प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥ ११॥ रघुनाथ महाबाहो केवलं कथितं त्वया । अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥ १२॥ श्रीराम उवाच-अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपति तेभ्यः पापेभ्यः प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ॥ १३॥ कदाचित् रामं सर्वभूतहितकृत् विभीषण उवाच । किमिति? सिंहासन इति ॥ ११-१२॥ अपापिनां स्वमन्त्रतदङ्गप्रणवानुष्ठानतः केवलं त्वदाप्तिरभिहिता । ब्रह्महत्यादिपातकिनां स्वाप्त्युपायः कथं? इत्याशङ्कमानमालक्ष्य विभीषणं प्रति श्रीराम उवाच । किमिति? अथेति । कानि तानीत्यत्र-पितृघ्न इत्यादि । पित्रादियत्यन्तहननपातकैः नरो दण्ड्यते, तानि पञ्च दण्डकानि । यदि तच्छमनार्थी पुरुषः तदा राम रामेति षण्णवतिकोटिनामजपतो निष्पापो भूत्वा मद्भावमेतीत्यत्र न हि संशयोऽस्तीत्यर्थः ॥ १३॥ रामोपनिषदादिभिरपि सर्वपापशान्तिः पुनरुवाच विभीषणः-तत्राप्यशक्तोऽयं किं करोति ॥ १४॥ स होवाचेमम्-केकसेय पुरश्चरणविधावशक्तो यो ममोपनिषदं मम गीतां मन्नामसहस्रं मद्विश्वरूपं मदष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौति मत्सदृशो भवेन्न किं भवेन्न किम् ॥ १५॥ सुलभोपायबुभुत्सया पुनरुवाच ॥ १४॥ अनेनापि पारायणेन पञ्चदण्डकशान्तिद्वारा मद्भावमेतीत्यत्र न हि संशयोऽस्ति । आवृत्तिः अवधारणार्था प्रथमाध्याय समाप्त्यर्था वा इति ॥ १५॥ इति प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः

एकाक्षरराममन्त्रः सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति ॥ हनूमान् होवाच- वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १॥ ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता । दीर्घार्धेन्दुयुजाऽङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥ २॥ बीजशक्त्यादिबीजेन इष्टार्थे विनियोजयेत् । सरयूतीरमन्दारवेदिकापङ्कजासने ॥ ३॥ श्यामं वीरासनासीनं ज्ञानमुद्रेओपशोभितम् । वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४॥ अवेक्षमाणमात्मानमात्मन्यमिततेजसम् । शुद्धस्फटिकसङ्काशं केवलं मोक्षकाङ्क्षया ॥ ५॥ चिन्तयन् परमात्मानं भानुलक्षं जपेन्मनुम् । एकाक्षरादिश्रीराममन्त्रग्रामबुभुत्सया मुनयो हनूमन्तं पृच्छन्तीत्याह-सनकाद्या इति । किमिति? आञ्जनेयेति । तैरेवं पृष्टो हनूमान् एकाक्षरादिद्वात्रिंशदक्षरान्तमन्त्रतदवान्तर भेदान् तदङ्गगायत्रीमालामन्त्रान् क्रमेण होवाच । आदावेकाक्षरमनुमुद्धरति-वह्निस्थमिति । स्वाभिधेये वह्नौ तदभिधानतया तिष्ठतीति वह्निस्थं ह्रस्वरेफाक्षरं रेति, विष्णोः शयनमिति दीर्घमात्रोच्यते शेषस्य दीर्घाङ्गत्वात्, अर्धेन्दुशब्देन बिन्दुः, आहत्य रामिति ॥ १॥ तस्य ऋष्यादिकमाह-ब्रह्मेति । रेफदीर्घार्धेन्दुयुजा रामित्यादिना कराङ्गन्यासौ कुर्यादित्यर्थः ॥ २॥ ध्यानं तु-सरयूतीरेति ॥ ३-५॥ द्वित्रिचतुरक्षरमन्त्राः वह्निर्नारायणेनाढ्यो जाठरः केवलोऽपि च ॥ ६॥ द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः । एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ७॥ तारमायारमाऽनङ्गवाक्स्वबीजैश्च षड्विधः । त्र्यक्षरो मन्त्रराजः स्यात् सर्वाभीष्टफलप्रदः ॥ ८॥ द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः । ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९॥ रामद्व्यक्षरमुद्धरति-वह्निरिति । रेफो वह्निः, नारायणेनाकारेण योनितश्चेत् रा इति, जाठरो मकारः केवलोऽपि च ह्रस्वमकारयोजनात् रामेति द्व्यक्षरो भवति ॥ ६-७॥ षट्कारतः त्र्यक्षरमुद्धरति-तारेति । ॐ राम, ह्रीं राम, श्रीं राम, क्लीं राम, ऐं राम, रां राम, इति षड्विधः । ऋष्यादिकं एकाक्षरवत् ज्ञेयमित्यर्थः ॥ ८॥ द्विधा चतुरक्षरमुद्धरति-द्व्यक्षर इति । रामचन्द्र रामभद्रेति द्विप्रकारः चतुरक्षरः ॥ ९॥ पञ्चाक्षरमन्त्रः सप्रतिष्ठौ रमौ वायू हृत्पञ्चार्णो मनुर्मतः । विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥ १०॥ रामभद्रो बीजशक्तिप्रथमार्णनति क्रमात् । भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११॥ षडङ्गं पूर्ववद्विद्वान् मन्त्रार्णैर्मनुनास्त्रकम् । मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२॥ लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ १३॥ जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् । लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥ १४॥ दशास्यमथनं शान्तं ससुग्रीवविभीषणम् । एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५॥ एकधा पञ्चाक्षरमुद्धरति-सप्रतिष्ठाविति । इकारदीर्घबिन्दुभ्यां सह प्रतिष्ठिताविति सप्रतिष्ठौ श्रीं श्रीं यं नमः इति पञ्चाक्षरो मनुः ॥ १०॥ बीजशक्तिप्रथमार्णनतिक्रमात् रां नम इत्यादि । न्यासस्तु-भ्रूमध्येति ॥ ११-१२॥ अक्ष्णः कोणेन अपाङ्गेन लक्ष्मणेन सायकं धनुषि प्रगुणितं अवेक्षमाणमिति ॥ १३-१५॥ षडक्षरमन्त्रः स्वकामशक्तिवाग्लक्ष्मीताराद्याः पञ्चवर्णकाः । षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६॥ पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् । लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७॥ श्रीमायामन्मथैकैकं बीजाद्यन्तगतो मनुः । चतुर्वर्णः स एव स्यात् षड्वर्णो वाञ्छितप्रदः ॥ १८॥ स्वाहाऽन्तो हुम्फडन्तो वा नत्यन्तो वा भवेदयम् । अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९॥ ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्त्तिरेव च । अगस्त्यश्च शिवः प्रोक्ता मुनयोऽनुक्रमादिमे ॥ २०॥ छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता । अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥ २१॥ छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता । बीजशक्ती यथापूर्वं षड्वर्णान् विन्यसेत् क्रमात् ॥ २२॥ ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्युरुषु पादयोः । बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैर्वा षडङ्गकम् ॥ २३॥ कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २४॥ अष्टाविंशत्युत्तरशतधा भिन्नषडक्षरमुद्धरति-स्वेति । श्रीं श्रीं यं नमः इति यः पञ्चाक्षरो मनुरुक्तः सोऽयं पञ्चाक्षरः रां क्लीं ह्रीं ऐं श्रीं ॐ इति षड्बीजयोगतः षडक्षरः षड्विधो भवति । प्रातिस्विकेन पञ्चाशद्वर्णयोगतः पञ्चाशद्विधो भवति । लक्ष्मीवागित्यादिबीजयोगतः सप्तविधो भवति । रां रामायेति चतुरक्षराणि स्वाहा हुं फट् नमः इत्यादियोगतः षडक्षरो भवति । पुनश्च क्षकाराद्यकारान्तविलोमेन एकपञ्चाशत् अष्टवर्गश्च षट्स्वराश्च आहत्य अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः इति । यद्वा- पञ्चाशद्वर्णकं वर्गं षोडशस्वरसंयुतम् । वर्गं वर्णं विलोमेन अष्टाविंशच्छतोत्तरम् ॥ इति ॥ १६-१९॥ तद्भेदेन-ब्रह्मेति ॥ २०-२४॥ सप्त-अष्ट-नवाक्षरमन्त्राः रामश्च चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा । सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५॥ तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः । तारं रामश्चतुर्थ्यन्तं क्रोडास्त्रं वह्नितल्पगा ॥ २६॥ अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात् षडर्णवत् । पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७॥ गायत्रं छन्द इत्यस्य देवता राम एव च । तारं श्रीबीजयुग्मौ च बीजशक्त्यादयो मताः ॥ २८॥ षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् । तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥ २९॥ ग्लौमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् । शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३०॥ ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ३१॥ दीर्घया माययाऽङ्गानि तारपञ्चार्णयुक्तया । रामं त्रिणेत्रं सोमार्धधारिणं शूलिनं परम् । भस्मोद्धूळितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ३२॥ रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥ ३३॥ ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः । बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥ ३४॥ स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । पुनरष्टाक्षरस्याथ ब्रह्मगायत्रराघवाः ॥ ३५॥ ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् । तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥ ३६॥ केयूराङ्गदकङ्कणैर्मणिगणैर्विद्योतमानं सदा रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् । हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३७॥ किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृथा किञ्चिल्लोभवितानमात्रविफलैः संसारदुःखावहैः । एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८॥ एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः । रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥ ३९॥ नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् ॥ अथ द्वेधा सप्ताक्षरमुद्धरति-राम इति । रामचन्द्राय नमः रामभद्राय नमः इति द्विधा सप्ताक्षरो भवति । ऋष्यादिकं पूर्ववत् ॥ २५॥ अष्टाक्षरमनुं षोडशधा उद्धरति-तारादीति । ``तारादि'' इत्यादिशब्दतः मायारमाऽनङ्गवाक्स्वबीजानि गृह्यन्ते । तैः योगतः चन्द्रभद्रभेदेन द्विप्रकारो मनुः द्वादशधा भिद्यते । ॐ रामचन्द्राय नमः इत्यादि षट् । ॐ रामभद्राय नमः इत्यादि षट् । आहत्य द्वादश । ऋष्यादिकं पूर्ववत् । पुनः मन्त्रान्तरमाह-तारमिति ॥ २६॥ ॐ रामाय हुं फट् स्वाहा श्रीरामाष्टाक्षरान्तरेण उमामहेश्वरबीजयोगतः शिवोमाराममनुर्भवतीत्याह-पुनरिति । ॐ श्रीं श्रीं रामाय नमः, ग्लौं ॐ ह्रीं नमो रामाय ॥ २७-३०॥ ह्रां ॐ रामाय नम इत्यादि ॥ ३१-३८॥ प्रधानतः सप्तधा परिकीर्तितः । एकधा नवार्णमुद्धरति-रामेति । ॐ रामचन्द्राय नमः ॐ इति ॥ ३९॥ दश-एकादशाक्षरमन्त्राः जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥ ४०॥ दशाक्षरोऽयं मन्त्रः स्यात् सर्वाभीष्टफलप्रदः । दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१॥ छन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः । आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ ४२॥ शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि । नाभ्यूरुजानुपादेषु दशार्णान् विन्यसेन्मनोः ॥ ४३॥ अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४॥ सिंहासने समासीनं पुष्पकोपरि राघवम् । रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५॥ संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् । सीताऽलङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥ ४६॥ श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ४७॥ रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी । दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८॥ छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः । शेषं तु पूर्ववत् कुर्याच्चापबाणधरं स्मरेत् ॥ ४९॥ तारमायारमाऽनङ्गवाक्स्वबीजैश्च षड्विधः । दशार्णो मन्त्रराजः स्यादुद्रवर्णात्मको मनुः ॥ ५०॥ शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः । द्विप्रकारं दशाक्षरमुद्धरति-जानकीति । हुं जानकीवल्लभाय स्वाहेति ॥ ४०-४१॥ आद्यो बीजं हुमिति । द्विठः शक्तिः ठः ठः इति । कामेनाङ्गक्रिया मता क्लीमित्यादि ॥ ४२-४७॥ रामाय धनुष्पाणये स्वाहेति ॥ ४८-४९॥ एकादशाक्षरं षोढा उद्धरति-तारेति । ॐ रामाय धनुष्पाणये स्वाहा इत्यादि ॥ ५०॥ द्वादशाक्षरमन्त्रः द्वादशाक्षरमन्त्रस्य श्रीरामो ऋषिरुच्यते ॥ ५१॥ जगती छन्द इत्युक्तं श्रीरामो देवता मतः । प्रणवो बीजमित्युक्तः क्लीं शक्तिह्रीं च कीलकम् ॥ ५२॥ मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् । तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३॥ रामक्लींवह्निजायाऽन्तं मन्त्रोऽयं द्वादशाक्षरः । ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥ ५४॥ अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादि पूर्ववत् । छन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५॥ ॐ ह्रीं भरताग्रज राम क्लीं स्वाहेति ॥ ५१-५३॥ ॐ नमो भगवते रामचन्द्राय, ॐ नमो भगवते रामभद्राय इति । त्रिप्रकारोऽयं द्वादशाक्षरः ॥ ५४-५५॥ त्रयोदश-चतुर्दश-पञ्चदशाक्षरमन्त्राः श्रीरामेति पदं चोक्त्वा जयराम पदं ततः । जयद्वयं वदेत् प्राज्ञो रामेति मनुराजकः ॥ ५६॥ त्रयोदशार्ण ऋष्यादि पूर्ववत् सर्वकामदः । पदद्वयैर्द्विरावृत्तैरङ्गन्यासं दशार्णवत् ॥ ५७॥ तारादिसहितः सोऽपि स चतुर्दशवर्णकः । त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥ ५८॥ स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः ॥ त्रयोदशार्णमुद्धरति-श्रीरामेति । श्रीराम जयराम जय जय रामेति ॥ ५६-५७॥ स चतुर्दशवर्णकः षड्विध इत्यर्थः । षोडशार्णमुद्धरति-नमश्चेति । नमः सीतापतये रामाय हन हन हुं फट् स्वाहा इति ॥ ५८-६१॥ षोडश-सप्तदशाक्षरमन्त्राः नमश्च सीतापतये रामायेति हनद्वयम् ॥ ५९॥ ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः । तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥ ६०॥ रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् । द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत् क्रमात् ॥ ६१॥ तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः । सप्तदशाक्षरः षड्विधः ॥ ६२॥ अष्टादश-एकोनविंशार्णमन्त्राः तारं नमो भगवते रामं ङेन्तं महा ततः ॥ ६२॥ पुरुषाय पदं पश्चाद्धृदन्तोऽष्टादशाक्षरः । विश्वामित्रो मुनिश्छन्दो गायत्रं देवता च सः ॥ ६३॥ कामादिसहितः सोऽपि मन्त्र एकोनविंशकः । अष्टादशाक्षरः ॐ नमो भगवते रामाय महापुरुषाय नमः ॥ ६३॥ मन एकोनविंशकः षड्विधः ॥ ६४॥ विंशार्णमन्त्रः तारं नमो भगवते रामायेति पदं वदेत् ॥ ६४॥ सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् । वह्निजायां ततोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥ ॐ नमो भगवते रामाय सर्वसौभाग्यं देहि मे स्वाहा ॥ ६५॥ एकविंशार्णमन्त्रः तारं नमो भगवते रामाय सकलं वदेत् । आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥ एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः । ॐ नमो भगवते रामाय सकलापन्निवारणाय स्वाहा ॥ ६६॥ द्वाविंशार्णमन्त्रः तारं रमां स्वबीजं च ततो दाशरथाय च ॥ ६७॥ ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् । ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥ ॐ श्रीं रां दाशरथाय सीतावल्लभाय सर्वाभीष्टदाय नमः ॥ ६७-६८॥ त्रयोविंशार्णमन्त्रः तारं नमो भगवते वीररामाय संवदेत् । कलशत्रून् हनद्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥ त्रयोविंशाक्षरो मन्त्रः सर्वशत्रुनिवर्हणः । विश्वामित्रो मुनिः प्रोक्तो गायत्रं छन्द उच्यते ॥ ७०॥ देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः । मूलमन्त्रविभागेन न्यासान् कृत्वा विचक्षणः ॥ ७१॥ शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् । वज्रपाणिरथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२॥ ॐ नमो भगवते वीररामाय सकलशत्रून् हन हन स्वाहा ॥ ६९-७२॥ चतुर्विंशार्णमन्त्रः तारं नमो भगवते श्रीरामाय पदं वदेत् । तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥ ७३॥ नमस्तारात्मको मन्त्रश्चतुर्विंशतिवर्णकः । बीजादिकं यथापूर्वं सर्वं कुर्यात् षडर्णवत् ॥ ७४॥ ॐ नमो भगवते श्रीरामाय तारकब्रह्मणे मां तारय नम ओमिति ॥ ७३-७४॥ पञ्चविंश-षड्विंश-सप्तविंशार्णमन्त्राः कामस्तारो नतिश्चैव ततो भगवतेपदम् । रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥ ७५॥ जनवश्यकरायेति स्वाहा कामात्मको मनुः । सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६॥ आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः । अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥ ७७॥ क्लीं ॐ नमो भगवते रामचन्द्राय सकलजनवश्यकराय स्वाहा ॥ ७५-७७॥ अष्टाविंश-एकोनत्रिंश-त्रिंश-एकत्रिंशार्णमन्त्राः तारं नमो भगवते रक्षोघ्नविशदाय च । सर्वविघ्नान् समुच्चार्य निवारयपदद्वयम् ॥ ७८॥ स्वाहाऽन्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः । अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥ ७९॥ आदौ स्वबीजसंयुक्तत्रिंशद्वर्णात्मको मनुः । अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८०॥ ॐ नमो भगवते रक्षोघ्नविशदाय सर्वविघ्नान् निवारय निवारय स्वाहा ॥ ७८- ८५॥ रामानुष्टुप् रामभद्र महेष्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१॥ आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता । रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥ ८२॥ पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् । शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३॥ नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते । चापबाणधरं श्यामं ससुग्रीवविभीषणम् ॥ ८४॥ हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् । रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥ ८५॥ रामगायत्री वदेद्दाशरथायेति विद्महेति पदं ततः । सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥ ८६॥ धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् । तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥ ८७॥ मायाऽऽदिरपि वैदुष्यं रामादिश्च श्रियः पदम् । मदनेनापि संयुक्ता सम्मोहयति मेदिनीम् ॥ ८८॥ पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः । चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥ ८९॥ बीजध्यानादिकं सर्वं कुर्यात् षड्वर्णवत् क्रमात् । दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् इति रामगायत्री । प्रणवादिबीजयोजनफलमाह-तारादिरिति ॥ ८६-८९॥ राममालामन्त्रः तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥ ९०॥ रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः । प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥ ९१॥ बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः । प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२॥ ऋषिछन्दोदेवताऽऽदि ब्रह्मानुष्टुभराघवाः । सप्तर्तुसप्तदशषड्रुद्रसङ्ख्यैः षडङ्गकम् ॥ ९३॥ ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् । मालामन्त्रमुद्धरति-तारमिति । ॐ नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय श्रीरामाय विष्णवे नम इति ॥ ९०-९३॥ सीतामन्त्रः श्रियं सीता चतुर्थ्यन्ता स्वाहान्तोऽयं षडक्षरः ॥ ९४॥ जनकोऽस्य ऋषिश्छन्दो गायत्री देवता मनोः । सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५॥ कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् । दीर्घस्वरयुजाऽऽद्येन षडङ्गानि प्रकल्पयेत् ॥ ९६॥ स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् । ध्यायेत् षट्कोणमध्यस्थरामाङ्कोपरि संस्थिताम् ॥ ९७॥ सीताद्यङ्गमन्त्रानुद्धरति-श्रियमिति । श्रीं सीतायै स्वाहेति ॥ ९४-९५॥ श्रीमित्यादि दीर्घस्वरयुजा ॥ ९६-९७॥ लक्ष्मणमन्त्रः लकारं तु समुद्धृत्य लक्ष्मणाय नमोऽन्तकः । अगस्त्यऋषिरस्याथ गायत्रं छन्द उच्यते ॥ ९८॥ लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि । नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ॥ ९९॥ दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् । द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १००॥ धनुर्बाणधरं वन्दे रामाराधनतत्परम् । लं लक्ष्मणाय नम इति ॥ ९८-१००॥ भरतमन्त्रः भकारं तु समुद्धृत्य भरताय नमोऽन्तकः ॥ १०१॥ अगस्त्य ऋषिरस्याथ शेषं पूर्ववदाचरेत् । भरतं श्यामलं शान्तं रामसेवापरायणम् ॥ १०२॥ धनुर्बाणधरं वीरं कैकेयीतनयं भजे । भं भरताय नमः ॥ १०१-१०२॥ शत्रुघ्नमन्त्रः शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोऽन्तकः । ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥ १०३॥ द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तारं सुमित्रातनयं भजे ॥ १०४॥ शं शत्रुघ्नाय नमः ॥ १०३-१०४॥ हनूमन्मन्त्रः हं हनूमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः । रामचन्द्र ऋषिः प्रोक्तो योजयेत् पूर्ववत् क्रमात् ॥ १०५॥ द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति ॥ १०६॥ हं हनूमते नमः ॥ १०५-१०६॥ इति द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः

पूजापीठजिज्ञासा सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल पूर्वोक्तमन्त्राणां पूजापीठमनुब्रूहीति ॥ १॥ एकाक्षरादिद्वात्रिंशदक्षरमन्त्राणां पूजापीठप्रकारं पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किमिति? आञ्जनेयेति ॥ १॥ एकाक्षरादिनवाक्षरान्तमन्त्रपूजायन्त्रं हनूमान् होवाच-आदौ षट्कोणम् । तन्मध्ये रामबीजं सश्रीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे षष्ठ्यन्तं साधकम् । पार्श्वे दृष्टिबीजे । तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सम्मुखोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषु दीर्घभाजि हृदयादिमन्त्राः क्रमेण । रां रीं रूं रैं रौं र इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् । षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वराहं हुमिति । तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् । तेषु दलेषु स्वरान् षड्वर्गान् । प्रतिदलं मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् । तद्दलकपोलेष्वष्टवर्गान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरीमन्त्रः । तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु वासुदेवद्वादशाक्षरीमन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् । ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् । तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्त्रं भ्रं व्रं ज्रं अं श्रं ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहमन्त्रराजानुष्टुभमन्त्रः । तद्दलकपोलेष्वष्टवस्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोऽन्ताश्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् । चतुर्दिक्षु नारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत् सर्वात्मकं यन्त्रं सर्वकामप्रदं मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति ॥ २॥ एकाक्षरादिनवाक्षरान्तानां मन्त्राणां पूजापीठप्रकारमादौ कथयति-आदाविति । आदौ षट्कोणं विलिख्येति सर्वत्रोह्यम् । सश्रीकं श्रीगर्भितमित्यर्थः । द्वितीयान्तं साध्यं सर्वाभीष्टसिद्धिदमिति । षष्ठ्यन्तं साधकं ममेति । पार्श्वे कुरुद्वयलेखनपूर्वकं दृष्टिबीजे इं ईं इति । जीवप्राणशक्तिवश्यबीजानि-हंस इति जीवबीजं, सोऽहमिति प्राणबीजं, ह्रीमिति शक्तिबीजं, क्लीमिति वश्यबीजम् । हृदयाद्यस्त्रान्तं रां नम इत्यादि रः अस्त्राय फट् इत्यन्तम् । षट्कोणपार्श्वे रमामायाबीजे श्रीं ह्रीमिति । कामबीजं क्लीमिति । वाग्भवं ऐमिति । अन्ते पञ्चाक्षरं-सप्तदळेषु द्विचत्वारिंशद्वर्णान् विलिख्य शिष्टाष्टमदळे शिष्टपञ्चाक्षरं विलिखेदित्यर्थः । मेषादिराश्यादिना राश्यादिविभूषितम् । नारसिंहबीजं क्ष्म्र्यौमिति ॥ २॥ आवरणपूजापूर्वकमनुजपः तद्दशावरणात्मकं भवति । षट्कोणमध्ये साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः प्रथमावृतिः । अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले धृष्ट्याद्यावरणम् । तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेषु नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् । भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥ ३॥ षट्कोणेषु हृदयाद्यङ्गैः प्रथमावृतिः ॥ ३॥ दशाक्षरादिद्वात्रिंशाक्षरान्तमन्त्रपूजायन्त्रं अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते-आदौ षट्कोणम् । तन्मध्ये स्वबीजम् । तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु । तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् । ततोऽष्टदलम् । तेषु दलेषु षट्सङ्ख्यया मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरं साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ॥ ४॥ आदौ षट्कोणं लिखित्वेति सर्वत्र समानम् । मध्ये स्वबीजं हु[रा]मिति(?)। मध्ये साध्यनामानि मम सर्वाभीष्टसिद्धिं कुरुकुरु नम इति एतत् सर्वम् । क्रोधं हुमिति । नारसिंहवाराहे क्ष्म्र्यौं हुमिति ॥ ४॥ यन्त्राराधनपूर्वकमनुजपः अङ्गैः प्रथमावृतिः । मध्ये रामम् । वामभागे सीताम् । तत्पुरतः शार्ङ्गं शंरं च । अष्टदलमूले हनूमदादि द्वितीयावरणम् । धृष्ट्यादि तृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधनपूर्वकं दशाक्षरादिमनून् जपेत् ॥ ५॥ हृदयादि-अङ्गैः । द्वितीयावरणं-तदग्रे धृष्ट्यादितृतीयावरणम् ॥ ५॥ इति तृतीयोऽध्यायः ॥।

चतुर्थोऽध्यायः

श्रीराममन्त्रपुरश्चरणविधिः सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति । हनूमान् होवाच- नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् । अथवा पायसाहारो हविष्यान्नाद एव च ॥ १॥ षड्रसैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् । वनिताऽऽदिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २॥ भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् । स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥ ३॥ गुरूपदिष्टमार्गेण ध्यायन् राममनन्यधीः । सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥ ४॥ श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् । व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥ ५॥ तुलसीपारिजातश्रीवृक्षमूलादिकस्थले । पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥ मातृकामालया मन्त्री मनसैव मनुं जपन् । अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७॥ तर्पयेत्तद्दशांशेन पयसा तद्दशांशतः । जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८॥ ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् । ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥ ९॥ एकाक्षरादिमन्त्राणां पुरश्चरणानियमबुभुत्सया पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किं तत्? श्रीराममन्त्राणामिति । पुरश्चरणनियमः कीदृशः इत्यत्र-नित्यमिति ॥ १-१३॥ ऐहिके राममन्त्रविनियोगनिषेधः अणिमादिर्भजत्येनं यूनं वरवधूरिव । ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥ १०॥ नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः । ऐहिके हनूमत्स्मरणविधिः ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११॥ यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः । तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२॥ वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु । सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥ १३॥ इति चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः

रामषडक्षरस्य मन्त्रराजत्वं सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-श्रीराममन्त्रार्थमनुब्रूहीति ॥ हनूमान् होवाच- सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः । एका द्विविधा त्रेधा चतुर्धा पञ्चधा तथा ॥ १॥ षट्सप्तधाऽष्टधा चैव बहुधाऽयं व्यवस्थितः । षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २॥ श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते । नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ॥ ३॥ सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः ॥ मन्त्रार्थबुभुत्सया मुनयः पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किं तत्? श्रीरामेति । तत्प्रश्नोत्तरं हनूमान् होवाच । किमित्यत्र-बहूनां राममन्त्राणां मध्ये षडक्षरस्य मन्त्रराजत्वं तारकत्वात्, तारादिबहुबीजयोगतो बहुत्वं चिन्मात्रगोचरत्वं चाह-सर्वेष्विति ॥ १॥ पञ्चाशद्वर्णतद्विकृतियोगतो बहुत्वं तदर्थरूपेण ब्रह्ममात्रता चोपपद्यते इति ॥ २-३॥ रामबीजार्थः रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ४॥ सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते । व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥ ५॥ व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् । रेफे ज्योतिर्मये तस्मात् कृतमाकारयोजनम् ॥ ६॥ मकारोऽभ्युदयार्थत्वात् स मायेति च कीर्त्यते । सोऽयं बीजं स्वकं यस्मात् समायं ब्रह्म चोच्यते ॥ ७॥ सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् । ज्योतिस्तस्य शिखारूपं नादः सप्रकृतिर्मतः ॥ ८॥ प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ । बिन्दुनादात्मकं बीजं वह्निसोमकलाऽऽत्मकम् ॥ ९॥ अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् । यथैव वटबीजस्थः प्राकृतश्च महान् द्रुमः ॥ १०॥ तथैव रामबीजस्थं जगदेतच्चराचरम् । बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥ ११॥ बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते । तत्रादौ स्वबीजार्थमाह-रकार इति । रेति व्यञ्जनं वह्निवचनं, वह्निगतहेयांशापाये वह्नेः चिद्वह्नित्वेन प्रकाशमात्रं पर्यवस्यति ॥ ४॥ अस्यार्थस्तु सच्चिदानन्दमात्रः परमात्मेत्यर्थः । व्यञ्जनस्य निर्विशेषत्वं तत्र स्वरविशेषयोगतः सविशेषत्वं चाह-व्यञ्जनमिति ॥ ५॥ एतेन किं कृतं स्यादित्यत आह-रेफ इति ॥ ६॥ तत्र बिन्दुयोजनं अभ्युदयार्थमित्याह-मकार इति । समायशब्दार्थमाह-सोऽयमिति ॥ ७॥ बिन्दुनादयोगतो जगत्कारणतामेतीयाह-सबिन्दुरिति । यो बिन्दुना मनसा सह वर्तत इति सबिन्दुः सोऽपि पुरुषो जीवः समष्टिबिन्द्वधिकरणशिवसूर्येन्दुरूपवान् भवति । प्रकृतिस्वरूपं तु तस्य पुरुषस्य ज्योतिः प्रकाश एव शिखास्वरूपं ``तुरीयं मूर्ध्नि संस्थितं'' इति श्रुतेः । मूलादिप्रकृत्या सह वर्तत इति सप्रकृतिः नादोपाधिकः पुरुषो मतः ॥ ८॥ एवं प्रकृतिपुरुषौ समायात् सविशेषात् ब्रह्मणः सकाशाद्विकल्पितौ इति स्मृतौ ॥ ९॥ एवं प्रकृतिपुरुषकलनाकलितं विश्वं रामबीजे प्रतिष्ठितं इत्यत्र दृष्टान्तः वटबीजान्तर्गतवटवृक्षवत् रामबीजस्थं जगदित्यर्थः ॥ १०॥ उपाधियोगतः सविशेषत्वं वस्तुतो निर्विशेषत्वं च स्यादित्यत आह-बीजोक्तमिति ॥ ११॥ द्व्यक्षरार्थः मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥ १२॥ मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः । आद्यो रा तत्पदार्थः स्यान्मकारस्त्वम्पदार्थवान् ॥ १३॥ तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः । एकाक्षरमन्त्रार्थमुक्त्त्वा द्व्यक्षरार्थमाह-मुक्तिदमिति ॥ १२॥ रेफमकारयोः कामाकामधियां भुक्तिमुक्तिप्रदत्वं युज्यते इत्यर्थः । रामनाम्नो मुक्तिहेतुत्वं कथमित्यत्र प्रत्यगभिन्नब्रह्मवाचकत्वात् तत् युज्यत इत्याह-आद्य इति ॥ १३॥ रामाक्षराख्यतत्त्वम्पदगतवाच्यार्थकलनाऽपवादाधिकरणप्रत्यगभिन्नब्रह्मणः स्वाज्ञादिदृष्टिप्रसक्तप्रत्यक्परविभागैक्यकलनाऽसम्भवसम्यज्ज्ञानतो निष्प्रतियोगिकब्रह्ममात्रतया लक्षितत्वात् रामपदार्थो ब्रह्मैवेत्यर्थः, ``रामः सत्यं परं ब्रह्म रामात् किञ्चिन्न विद्यते'' इति स्मृतेः ॥ षडक्षरार्थः नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १४॥ असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् । षडक्षरार्थप्रकटनव्याजेन त्र्यक्षरादिसर्वमन्त्रार्थमाह-नम इति ॥ १४॥ त्र्यक्षरादिमन्त्रजातं त्रेधा विभज्य ``तत्त्वमसि'' इति महावाक्यार्थयोजनं कर्तव्यमित्यर्थः ॥ राममन्त्रमाहात्म्यं तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥ १५॥ भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते । मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १६॥ मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् । प्रणवत्वात् सदा ध्येयो यतीनां च विशेषतः ॥ राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥ १७॥ ``तत्त्वमसि'' इत्यादिमहावाक्यापेक्षया अस्य सर्वोत्कृष्टत्वमाह-तदिति ॥ १५॥ प्राणिमात्रस्य सप्तकोटिमहामन्त्र(त्वा)धिकृतत्वेऽपि यतिभिरसेवितत्वात् राममन्त्रस्य तु प्रणवस्वरूपत्वेन तैरपि ग्राह्यमित्याह-मनुष्विति ॥ १६॥ मन्त्रार्थज्ञानफलमाह-राममन्त्रार्थेति ॥ १७॥ विद्याऽध्ययनफलं य इमामुपनिषदमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यात् पूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ॥ १८॥ तदेतदृचाऽभ्युक्तम्- सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥ १९॥ उपनिषत्पारायणफलमाह-य इति ॥ १८॥ यदुक्तं तदेतदृचा मन्त्रेणाप्युक्तं भवतीत्याह-तदेतदृचाऽभ्युक्तमिति । प्रथमाध्यायादौ ``राम एव परं ब्रह्मं'' इति मन्त्रेण यः परमात्मा निष्प्रतियोगिकस्वमात्रतया अवशिष्यते तत्त्वतः सोऽयं रामोऽहमस्मीति ये सदा अनुभूय यथोक्ताधिकारिभ्यः प्रवदन्ति ते राम एव भवन्तीत्यत्र न हि संशयोऽस्ति । ॐ सत्यमित्यत्र ``श्रीरामो ब्रह्म तारकं'' इत्युक्तत्वात् । इत्युपनिषच्छब्दो रामरहस्योपनिषत्समात्यर्थः ॥ १९॥ इति पञ्चमोऽध्यायः । श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना । रामरहस्योपनिषद्व्याख्यानं लिखितं स्फुटम् ॥ रामरहस्योपनिषद्व्याख्यानग्रन्थविस्तरः । अष्टाशीत्यधिकेनाढ्यद्विशतं परिकीर्तितः ॥ इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे चतुष्पञ्चाशत्सङ्ख्यापूरकं श्रीरामरहस्योपनिषद्विवरणं सम्पूर्णम् । ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Encoded and proofread by Mrityunjay Pandey
% Text title            : Ramarahasya Upanishad with Commentary by Upanishadbrahmayogin
% File name             : rAmarahasyopaniShatsavyAkhyA.itx
% itxtitle              : rAmarahasyopaniShat savyAkhyA (atharvavedokta, upaniShadbrahmayogivirachitA)
% engtitle              : Ramarahasya Upanishad savyAkhyA
% Category              : upanishhat, raama, upaniShat, rAma, atharvaveda, vyAkhyA
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : raama
% Author                : Vedic tradition
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description-comments  :  54 / 108; Atharva Veda - Vaishnava upanishad
% Indexextra            : (Scans vyAkhyA, mUlam, Sanskrit, Hindi, Gujarati, Malayalam)
% Latest update         : October 30, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org