रामरहस्योपनिषत् सव्याख्या
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
प्रथमोऽध्यायः
रामस्य ब्रह्मतारकत्वं
सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।
प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ १॥
वायुपुत्र महाबाहो किं तत्त्वं ब्रह्मवादिनाम् ।
पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ २॥
चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च ।
सर्वेषु विष्ण्वभिधानेषु विघ्नसूर्येशशक्तिषु ॥ ३॥
एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४॥
हनूमान् होवाच-
भो योगीन्द्राश्च ऋषयो विष्णुभक्तास्तथैव च ।
शृणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥ ५॥
एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
राम एव परं ब्रह्म राम एव परं तपः ।
राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥
कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।
प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥
इह स्वलु अथर्वणप्रविभक्तेयं श्रीरामरहस्योपनिषत् श्रीराममन्त्रयन्त्रसाधनप्रपञ्चनपूर्वकं श्रीरामतत्त्वपर्यवसन्ना विजयते । अस्याः सङ्क्षेपतो विवरणमारभ्यते । सनकादिमुनिवृन्दप्रह्लादादिभागवतकदम्बपवनात्मजप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था, जातमात्रेण विदिततत्त्वैः सनकप्रह्लादादिभिरपि इयं पृष्टा परमशिवावतारपवनात्मजेन प्रोक्तेति । आख्यायिकामवतारयति-सनकाद्या इति ॥ १॥ किमिति? वायुपुत्रेति । वायुपुत्रेत्यादिप्रश्नतो हनूमतः सर्ववित्त्वमवगम्यते ॥ २-४॥
तत्कृतप्रश्नोत्तरं हनूमान् होवाच । किमिति? भो इति । भवबन्धविनाशिनीम्-स्वाज्ञलोकस्य, भवतां कृतार्थत्वात् ॥ ५॥ सर्वेषु विष्ण्वभिधानेषु विघ्नसूर्येशशक्तिभेदेषु एतेषु वेदशास्त्रपुराणादिषु अर्थतो विचारितेषु सत्सु अथ स्वातिरिक्तकलनाऽपह्नवसिद्धं यद्ब्रह्ममात्रं निष्प्रतियोगिकमवशिष्यते तदेवायमित्याह-राम एवेति । स्वातिरिक्तकलनाऽसम्भवप्रबोधसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया राजते महीयते इति राम एव परं उत्कृष्टं ब्रह्म स्वमात्रतया सदोपबृंहणात्, राम एव परं उत्कृष्टं तपः तन्मात्रज्ञानमित्यर्थः । राम एव परं तत्त्वं स्वयाथात्म्यं स्वयमेवेत्यर्थः । प्रत्यगभिन्नब्रह्मरूपेण श्रीरामो ब्रह्म तारकं भ्रूमध्यतारकयोगलक्षितत्वात् । यद्वा-श्रीरामस्य ब्रह्मतारकलक्ष्यतुर्यतुरीयरूपत्वात् ब्रह्मतपस्तत्त्वतारकबोध्यं रामाख्यं ब्रह्मैव स्वाज्ञादिदृष्टिमोहे सत्यसति निष्प्रतियोगिकं स्वमात्रमवशिष्यत इत्यर्थः ॥ ६॥
रामस्य अङ्गानि वायुपुत्रादीनि
वायुपुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः-रामस्याङ्गानि नो ब्रूहीति ॥ ७॥
हनूमान् होवाच-वायुपुत्रं विघ्नेशं वाणीं दुर्गां क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वासुदेवं वाराहं तत्सर्वान् मन्त्रान् सीतां लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणवमेतान् रामस्याङ्गानि जानीथाः । तान्यङ्गानि विना रामो विघ्नकरो भवति ॥ ८॥
एवं वायुपुत्रात् निर्विशेषब्रह्मतत्त्वमवगम्य मुनयो हृष्टाः सन्तः स्वाज्ञलोकानुकम्पया निर्विशेषब्रह्माप्त्युपायसविशेषं ब्रह्म तदङ्गानि च पृच्छन्तीत्याह-वायुपुत्रेणेति । पप्रच्छुः-किमिति? रामस्येति ।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
इति स्वप्रतिज्ञापालनाय कर्मज्ञानयोगलक्षणनिष्ठाद्वयपरिपालकनारायणरूपेण राजते महीयते इति रामो दाशरथिः स्वेतरदुर्लभसूनृतभाषणतया यः पुरा आसामास तस्य कानि अङ्गानि तद्गोचरमन्त्राश्च के तत् सर्वं नो ब्रूहि इति ॥ ७॥ तैः पृष्टो हनूमान् होवाच । तानि कानि इत्यत्र तदाह-वायुपुत्रमिति । वायुपुत्रादिजाम्बवदन्ताङ्गदेवतामन्त्रान् त्रेधा अष्टधा षोडशधा वा आदौ जप्त्वा ततो राममन्त्रजपः कार्यः । एवं कृते भगवान् रामः प्रसन्नो भवतीत्यर्थः ॥ ८॥
गृहस्थानां रामाङ्गप्रणवाधिकारः
पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः कथं स्यादिति ॥ ९॥
स होवाच-श्रीराम एवोवाचेति । येषामेष षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् । केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् । तस्य प्रणवस्याकारस्योकारस्य मकारस्यार्धमात्रायाश्च ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवं मन्त्राद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥ १०॥
प्रणवस्यापि रामाङ्गत्वे परिव्राजकेतराणां प्रणवाधिकारः कथमिति पृच्छन्तीत्याह-पुनरिति ॥ ९॥ तैः पृष्टो हनूमान् स्वात्मानं प्रति श्रीरामचन्द्रेण यदुक्तं तदेवाह-स होवाचेति । श्रीराम एवोवाचेति-किमिति? येषामिति । ब्रह्मचारी गृही वानप्रस्थः इत्येतेषां केवलप्राधान्येन प्रणवजपाधिकारोनास्त्येव, षडक्षरादिमन्त्राङ्गत्वेन तज्जपाधिकारोऽस्तीत्याह-केवलमिति । प्रणवमूह्य चतुर्मात्राकालमुच्चार्य । आद्यन्तप्रणवयोजनपूर्वकं राममन्त्रजापकानां श्रीरामपदप्राप्त्युपायशुभप्रापको हनूमान् अहं स्यां इत्यर्थः । यो यदि श्रीरामभावापत्तिं वाञ्छति तदाऽयं षडक्षरजपात् पूर्वमेव तस्य प्रणवस्येत्यादि । यस्मादेवं तस्मात् ॥ १०॥
रामनामजपेन सर्वपापनिवृत्तिः
विभीषण उवाच-
सिंहासने समासीनं रामं पौलस्त्यसूदनम् ।
प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥ ११॥
रघुनाथ महाबाहो केवलं कथितं त्वया ।
अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥ १२॥
श्रीराम उवाच-अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपति तेभ्यः पापेभ्यः प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ॥ १३॥
कदाचित् रामं सर्वभूतहितकृत् विभीषण उवाच । किमिति? सिंहासन इति ॥ ११-१२॥ अपापिनां स्वमन्त्रतदङ्गप्रणवानुष्ठानतः केवलं त्वदाप्तिरभिहिता । ब्रह्महत्यादिपातकिनां स्वाप्त्युपायः कथं? इत्याशङ्कमानमालक्ष्य विभीषणं प्रति श्रीराम उवाच । किमिति? अथेति । कानि तानीत्यत्र-पितृघ्न इत्यादि । पित्रादियत्यन्तहननपातकैः नरो दण्ड्यते, तानि पञ्च दण्डकानि । यदि तच्छमनार्थी पुरुषः तदा राम रामेति षण्णवतिकोटिनामजपतो निष्पापो भूत्वा मद्भावमेतीत्यत्र न हि संशयोऽस्तीत्यर्थः ॥ १३॥
रामोपनिषदादिभिरपि सर्वपापशान्तिः
पुनरुवाच विभीषणः-तत्राप्यशक्तोऽयं किं करोति ॥ १४॥
स होवाचेमम्-केकसेय पुरश्चरणविधावशक्तो यो ममोपनिषदं मम गीतां मन्नामसहस्रं मद्विश्वरूपं मदष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौति मत्सदृशो भवेन्न किं भवेन्न किम् ॥ १५॥
सुलभोपायबुभुत्सया पुनरुवाच ॥ १४॥ अनेनापि पारायणेन पञ्चदण्डकशान्तिद्वारा मद्भावमेतीत्यत्र न हि संशयोऽस्ति । आवृत्तिः अवधारणार्था प्रथमाध्याय समाप्त्यर्था वा इति ॥ १५॥
इति प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः
एकाक्षरराममन्त्रः
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति ॥
हनूमान् होवाच-
वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् ।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १॥
ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता ।
दीर्घार्धेन्दुयुजाऽङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥ २॥
बीजशक्त्यादिबीजेन इष्टार्थे विनियोजयेत् ।
सरयूतीरमन्दारवेदिकापङ्कजासने ॥ ३॥
श्यामं वीरासनासीनं ज्ञानमुद्रेओपशोभितम् ।
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४॥
अवेक्षमाणमात्मानमात्मन्यमिततेजसम् ।
शुद्धस्फटिकसङ्काशं केवलं मोक्षकाङ्क्षया ॥ ५॥
चिन्तयन् परमात्मानं भानुलक्षं जपेन्मनुम् ।
एकाक्षरादिश्रीराममन्त्रग्रामबुभुत्सया मुनयो हनूमन्तं पृच्छन्तीत्याह-सनकाद्या इति । किमिति? आञ्जनेयेति । तैरेवं पृष्टो हनूमान् एकाक्षरादिद्वात्रिंशदक्षरान्तमन्त्रतदवान्तर भेदान् तदङ्गगायत्रीमालामन्त्रान् क्रमेण होवाच । आदावेकाक्षरमनुमुद्धरति-वह्निस्थमिति । स्वाभिधेये वह्नौ तदभिधानतया तिष्ठतीति वह्निस्थं ह्रस्वरेफाक्षरं रेति, विष्णोः शयनमिति दीर्घमात्रोच्यते शेषस्य दीर्घाङ्गत्वात्, अर्धेन्दुशब्देन बिन्दुः, आहत्य रामिति ॥ १॥ तस्य ऋष्यादिकमाह-ब्रह्मेति । रेफदीर्घार्धेन्दुयुजा रामित्यादिना कराङ्गन्यासौ कुर्यादित्यर्थः ॥ २॥ ध्यानं तु-सरयूतीरेति ॥ ३-५॥
द्वित्रिचतुरक्षरमन्त्राः
वह्निर्नारायणेनाढ्यो जाठरः केवलोऽपि च ॥ ६॥
द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः ।
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ७॥
तारमायारमाऽनङ्गवाक्स्वबीजैश्च षड्विधः ।
त्र्यक्षरो मन्त्रराजः स्यात् सर्वाभीष्टफलप्रदः ॥ ८॥
द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।
ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९॥
रामद्व्यक्षरमुद्धरति-वह्निरिति । रेफो वह्निः, नारायणेनाकारेण योनितश्चेत् रा इति, जाठरो मकारः केवलोऽपि च ह्रस्वमकारयोजनात् रामेति द्व्यक्षरो भवति ॥ ६-७॥ षट्कारतः त्र्यक्षरमुद्धरति-तारेति । ॐ राम, ह्रीं राम, श्रीं राम, क्लीं राम, ऐं राम, रां राम, इति षड्विधः । ऋष्यादिकं एकाक्षरवत् ज्ञेयमित्यर्थः ॥ ८॥ द्विधा चतुरक्षरमुद्धरति-द्व्यक्षर इति । रामचन्द्र रामभद्रेति द्विप्रकारः चतुरक्षरः ॥ ९॥
पञ्चाक्षरमन्त्रः
सप्रतिष्ठौ रमौ वायू हृत्पञ्चार्णो मनुर्मतः ।
विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥ १०॥
रामभद्रो बीजशक्तिप्रथमार्णनति क्रमात् ।
भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११॥
षडङ्गं पूर्ववद्विद्वान् मन्त्रार्णैर्मनुनास्त्रकम् ।
मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२॥
लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ १३॥
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ।
लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥ १४॥
दशास्यमथनं शान्तं ससुग्रीवविभीषणम् ।
एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५॥
एकधा पञ्चाक्षरमुद्धरति-सप्रतिष्ठाविति । इकारदीर्घबिन्दुभ्यां सह प्रतिष्ठिताविति सप्रतिष्ठौ श्रीं श्रीं यं नमः इति पञ्चाक्षरो मनुः ॥ १०॥ बीजशक्तिप्रथमार्णनतिक्रमात् रां नम इत्यादि । न्यासस्तु-भ्रूमध्येति ॥ ११-१२॥ अक्ष्णः कोणेन अपाङ्गेन लक्ष्मणेन सायकं धनुषि प्रगुणितं अवेक्षमाणमिति ॥ १३-१५॥
षडक्षरमन्त्रः
स्वकामशक्तिवाग्लक्ष्मीताराद्याः पञ्चवर्णकाः ।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६॥
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् ।
लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७॥
श्रीमायामन्मथैकैकं बीजाद्यन्तगतो मनुः ।
चतुर्वर्णः स एव स्यात् षड्वर्णो वाञ्छितप्रदः ॥ १८॥
स्वाहाऽन्तो हुम्फडन्तो वा नत्यन्तो वा भवेदयम् ।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९॥
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्त्तिरेव च ।
अगस्त्यश्च शिवः प्रोक्ता मुनयोऽनुक्रमादिमे ॥ २०॥
छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता ।
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥ २१॥
छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता ।
बीजशक्ती यथापूर्वं षड्वर्णान् विन्यसेत् क्रमात् ॥ २२॥
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्युरुषु पादयोः ।
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैर्वा षडङ्गकम् ॥ २३॥
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २४॥
अष्टाविंशत्युत्तरशतधा भिन्नषडक्षरमुद्धरति-स्वेति । श्रीं श्रीं यं नमः इति यः पञ्चाक्षरो मनुरुक्तः सोऽयं पञ्चाक्षरः रां क्लीं ह्रीं ऐं श्रीं ॐ इति षड्बीजयोगतः षडक्षरः षड्विधो भवति । प्रातिस्विकेन पञ्चाशद्वर्णयोगतः पञ्चाशद्विधो भवति । लक्ष्मीवागित्यादिबीजयोगतः सप्तविधो भवति । रां रामायेति चतुरक्षराणि स्वाहा हुं फट् नमः इत्यादियोगतः षडक्षरो भवति । पुनश्च क्षकाराद्यकारान्तविलोमेन एकपञ्चाशत् अष्टवर्गश्च षट्स्वराश्च आहत्य अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः इति । यद्वा-
पञ्चाशद्वर्णकं वर्गं षोडशस्वरसंयुतम् ।
वर्गं वर्णं विलोमेन अष्टाविंशच्छतोत्तरम् ॥
इति ॥ १६-१९॥ तद्भेदेन-ब्रह्मेति ॥ २०-२४॥
सप्त-अष्ट-नवाक्षरमन्त्राः
रामश्च चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा ।
सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५॥
तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः ।
तारं रामश्चतुर्थ्यन्तं क्रोडास्त्रं वह्नितल्पगा ॥ २६॥
अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात् षडर्णवत् ।
पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७॥
गायत्रं छन्द इत्यस्य देवता राम एव च ।
तारं श्रीबीजयुग्मौ च बीजशक्त्यादयो मताः ॥ २८॥
षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् ।
तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥ २९॥
ग्लौमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् ।
शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३०॥
ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते ।
शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ३१॥
दीर्घया माययाऽङ्गानि तारपञ्चार्णयुक्तया ।
रामं त्रिणेत्रं सोमार्धधारिणं शूलिनं परम् ।
भस्मोद्धूळितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ३२॥
रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् ।
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥ ३३॥
ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः ।
बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥ ३४॥
स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ।
पुनरष्टाक्षरस्याथ ब्रह्मगायत्रराघवाः ॥ ३५॥
ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् ।
तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥ ३६॥
केयूराङ्गदकङ्कणैर्मणिगणैर्विद्योतमानं सदा
रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३७॥
किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृथा
किञ्चिल्लोभवितानमात्रविफलैः संसारदुःखावहैः ।
एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः
श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८॥
एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः ।
रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥ ३९॥
नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् ॥
अथ द्वेधा सप्ताक्षरमुद्धरति-राम इति । रामचन्द्राय नमः रामभद्राय नमः इति द्विधा सप्ताक्षरो भवति । ऋष्यादिकं पूर्ववत् ॥ २५॥ अष्टाक्षरमनुं षोडशधा उद्धरति-तारादीति । ``तारादि'' इत्यादिशब्दतः मायारमाऽनङ्गवाक्स्वबीजानि गृह्यन्ते । तैः योगतः चन्द्रभद्रभेदेन द्विप्रकारो मनुः द्वादशधा भिद्यते । ॐ रामचन्द्राय नमः इत्यादि षट् । ॐ रामभद्राय नमः इत्यादि षट् । आहत्य द्वादश । ऋष्यादिकं पूर्ववत् । पुनः मन्त्रान्तरमाह-तारमिति ॥ २६॥ ॐ रामाय हुं फट् स्वाहा श्रीरामाष्टाक्षरान्तरेण उमामहेश्वरबीजयोगतः शिवोमाराममनुर्भवतीत्याह-पुनरिति । ॐ श्रीं श्रीं रामाय नमः, ग्लौं ॐ ह्रीं नमो रामाय ॥ २७-३०॥ ह्रां ॐ रामाय नम इत्यादि ॥ ३१-३८॥ प्रधानतः सप्तधा परिकीर्तितः । एकधा नवार्णमुद्धरति-रामेति । ॐ रामचन्द्राय नमः ॐ इति ॥ ३९॥
दश-एकादशाक्षरमन्त्राः
जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥ ४०॥
दशाक्षरोऽयं मन्त्रः स्यात् सर्वाभीष्टफलप्रदः ।
दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१॥
छन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः ।
आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ ४२॥
शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि ।
नाभ्यूरुजानुपादेषु दशार्णान् विन्यसेन्मनोः ॥ ४३॥
अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४॥
सिंहासने समासीनं पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५॥
संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।
सीताऽलङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥ ४६॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ४७॥
रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी ।
दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८॥
छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ।
शेषं तु पूर्ववत् कुर्याच्चापबाणधरं स्मरेत् ॥ ४९॥
तारमायारमाऽनङ्गवाक्स्वबीजैश्च षड्विधः ।
दशार्णो मन्त्रराजः स्यादुद्रवर्णात्मको मनुः ॥ ५०॥
शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः ।
द्विप्रकारं दशाक्षरमुद्धरति-जानकीति । हुं जानकीवल्लभाय स्वाहेति ॥ ४०-४१॥ आद्यो बीजं हुमिति । द्विठः शक्तिः ठः ठः इति । कामेनाङ्गक्रिया मता क्लीमित्यादि ॥ ४२-४७॥ रामाय धनुष्पाणये स्वाहेति ॥ ४८-४९॥ एकादशाक्षरं षोढा उद्धरति-तारेति । ॐ रामाय धनुष्पाणये स्वाहा इत्यादि ॥ ५०॥
द्वादशाक्षरमन्त्रः
द्वादशाक्षरमन्त्रस्य श्रीरामो ऋषिरुच्यते ॥ ५१॥
जगती छन्द इत्युक्तं श्रीरामो देवता मतः ।
प्रणवो बीजमित्युक्तः क्लीं शक्तिह्रीं च कीलकम् ॥ ५२॥
मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् ।
तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३॥
रामक्लींवह्निजायाऽन्तं मन्त्रोऽयं द्वादशाक्षरः ।
ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥ ५४॥
अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादि पूर्ववत् ।
छन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५॥
ॐ ह्रीं भरताग्रज राम क्लीं स्वाहेति ॥ ५१-५३॥ ॐ नमो भगवते रामचन्द्राय, ॐ नमो भगवते रामभद्राय इति । त्रिप्रकारोऽयं द्वादशाक्षरः ॥ ५४-५५॥
त्रयोदश-चतुर्दश-पञ्चदशाक्षरमन्त्राः
श्रीरामेति पदं चोक्त्वा जयराम पदं ततः ।
जयद्वयं वदेत् प्राज्ञो रामेति मनुराजकः ॥ ५६॥
त्रयोदशार्ण ऋष्यादि पूर्ववत् सर्वकामदः ।
पदद्वयैर्द्विरावृत्तैरङ्गन्यासं दशार्णवत् ॥ ५७॥
तारादिसहितः सोऽपि स चतुर्दशवर्णकः ।
त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥ ५८॥
स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः ॥
त्रयोदशार्णमुद्धरति-श्रीरामेति । श्रीराम जयराम जय जय रामेति ॥ ५६-५७॥ स चतुर्दशवर्णकः षड्विध इत्यर्थः । षोडशार्णमुद्धरति-नमश्चेति । नमः सीतापतये रामाय हन हन हुं फट् स्वाहा इति ॥ ५८-६१॥
षोडश-सप्तदशाक्षरमन्त्राः
नमश्च सीतापतये रामायेति हनद्वयम् ॥ ५९॥
ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।
तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥ ६०॥
रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् ।
द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत् क्रमात् ॥ ६१॥
तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः ।
सप्तदशाक्षरः षड्विधः ॥ ६२॥
अष्टादश-एकोनविंशार्णमन्त्राः
तारं नमो भगवते रामं ङेन्तं महा ततः ॥ ६२॥
पुरुषाय पदं पश्चाद्धृदन्तोऽष्टादशाक्षरः ।
विश्वामित्रो मुनिश्छन्दो गायत्रं देवता च सः ॥ ६३॥
कामादिसहितः सोऽपि मन्त्र एकोनविंशकः ।
अष्टादशाक्षरः ॐ नमो भगवते रामाय महापुरुषाय नमः ॥ ६३॥ मन एकोनविंशकः षड्विधः ॥ ६४॥
विंशार्णमन्त्रः
तारं नमो भगवते रामायेति पदं वदेत् ॥ ६४॥
सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् ।
वह्निजायां ततोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥
ॐ नमो भगवते रामाय सर्वसौभाग्यं देहि मे स्वाहा ॥ ६५॥
एकविंशार्णमन्त्रः
तारं नमो भगवते रामाय सकलं वदेत् ।
आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥
एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः ।
ॐ नमो भगवते रामाय सकलापन्निवारणाय स्वाहा ॥ ६६॥
द्वाविंशार्णमन्त्रः
तारं रमां स्वबीजं च ततो दाशरथाय च ॥ ६७॥
ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।
ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥
ॐ श्रीं रां दाशरथाय सीतावल्लभाय सर्वाभीष्टदाय नमः ॥ ६७-६८॥
त्रयोविंशार्णमन्त्रः
तारं नमो भगवते वीररामाय संवदेत् ।
कलशत्रून् हनद्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥
त्रयोविंशाक्षरो मन्त्रः सर्वशत्रुनिवर्हणः ।
विश्वामित्रो मुनिः प्रोक्तो गायत्रं छन्द उच्यते ॥ ७०॥
देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः ।
मूलमन्त्रविभागेन न्यासान् कृत्वा विचक्षणः ॥ ७१॥
शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् ।
वज्रपाणिरथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२॥
ॐ नमो भगवते वीररामाय सकलशत्रून् हन हन स्वाहा ॥ ६९-७२॥
चतुर्विंशार्णमन्त्रः
तारं नमो भगवते श्रीरामाय पदं वदेत् ।
तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥ ७३॥
नमस्तारात्मको मन्त्रश्चतुर्विंशतिवर्णकः ।
बीजादिकं यथापूर्वं सर्वं कुर्यात् षडर्णवत् ॥ ७४॥
ॐ नमो भगवते श्रीरामाय तारकब्रह्मणे मां तारय नम ओमिति ॥ ७३-७४॥
पञ्चविंश-षड्विंश-सप्तविंशार्णमन्त्राः
कामस्तारो नतिश्चैव ततो भगवतेपदम् ।
रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥ ७५॥
जनवश्यकरायेति स्वाहा कामात्मको मनुः ।
सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६॥
आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः ।
अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥ ७७॥
क्लीं ॐ नमो भगवते रामचन्द्राय सकलजनवश्यकराय स्वाहा ॥ ७५-७७॥
अष्टाविंश-एकोनत्रिंश-त्रिंश-एकत्रिंशार्णमन्त्राः
तारं नमो भगवते रक्षोघ्नविशदाय च ।
सर्वविघ्नान् समुच्चार्य निवारयपदद्वयम् ॥ ७८॥
स्वाहाऽन्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः ।
अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥ ७९॥
आदौ स्वबीजसंयुक्तत्रिंशद्वर्णात्मको मनुः ।
अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८०॥
ॐ नमो भगवते रक्षोघ्नविशदाय सर्वविघ्नान् निवारय निवारय स्वाहा ॥ ७८- ८५॥
रामानुष्टुप्
रामभद्र महेष्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१॥
आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता ।
रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥ ८२॥
पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् ।
शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३॥
नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते ।
चापबाणधरं श्यामं ससुग्रीवविभीषणम् ॥ ८४॥
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ।
रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥ ८५॥
रामगायत्री
वदेद्दाशरथायेति विद्महेति पदं ततः ।
सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥ ८६॥
धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् ।
तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥ ८७॥
मायाऽऽदिरपि वैदुष्यं रामादिश्च श्रियः पदम् ।
मदनेनापि संयुक्ता सम्मोहयति मेदिनीम् ॥ ८८॥
पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः ।
चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥ ८९॥
बीजध्यानादिकं सर्वं कुर्यात् षड्वर्णवत् क्रमात् ।
दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् इति रामगायत्री । प्रणवादिबीजयोजनफलमाह-तारादिरिति ॥ ८६-८९॥
राममालामन्त्रः
तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥ ९०॥
रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः ।
प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥ ९१॥
बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः ।
प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२॥
ऋषिछन्दोदेवताऽऽदि ब्रह्मानुष्टुभराघवाः ।
सप्तर्तुसप्तदशषड्रुद्रसङ्ख्यैः षडङ्गकम् ॥ ९३॥
ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ।
मालामन्त्रमुद्धरति-तारमिति । ॐ नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय श्रीरामाय विष्णवे नम इति ॥ ९०-९३॥
सीतामन्त्रः
श्रियं सीता चतुर्थ्यन्ता स्वाहान्तोऽयं षडक्षरः ॥ ९४॥
जनकोऽस्य ऋषिश्छन्दो गायत्री देवता मनोः ।
सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५॥
कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् ।
दीर्घस्वरयुजाऽऽद्येन षडङ्गानि प्रकल्पयेत् ॥ ९६॥
स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ।
ध्यायेत् षट्कोणमध्यस्थरामाङ्कोपरि संस्थिताम् ॥ ९७॥
सीताद्यङ्गमन्त्रानुद्धरति-श्रियमिति । श्रीं सीतायै स्वाहेति ॥ ९४-९५॥ श्रीमित्यादि दीर्घस्वरयुजा ॥ ९६-९७॥
लक्ष्मणमन्त्रः
लकारं तु समुद्धृत्य लक्ष्मणाय नमोऽन्तकः ।
अगस्त्यऋषिरस्याथ गायत्रं छन्द उच्यते ॥ ९८॥
लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि ।
नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ॥ ९९॥
दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् ।
द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १००॥
धनुर्बाणधरं वन्दे रामाराधनतत्परम् ।
लं लक्ष्मणाय नम इति ॥ ९८-१००॥
भरतमन्त्रः
भकारं तु समुद्धृत्य भरताय नमोऽन्तकः ॥ १०१॥
अगस्त्य ऋषिरस्याथ शेषं पूर्ववदाचरेत् ।
भरतं श्यामलं शान्तं रामसेवापरायणम् ॥ १०२॥
धनुर्बाणधरं वीरं कैकेयीतनयं भजे ।
भं भरताय नमः ॥ १०१-१०२॥
शत्रुघ्नमन्त्रः
शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोऽन्तकः ।
ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥ १०३॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
लवणासुरहन्तारं सुमित्रातनयं भजे ॥ १०४॥
शं शत्रुघ्नाय नमः ॥ १०३-१०४॥
हनूमन्मन्त्रः
हं हनूमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः ।
रामचन्द्र ऋषिः प्रोक्तो योजयेत् पूर्ववत् क्रमात् ॥ १०५॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति ॥ १०६॥
हं हनूमते नमः ॥ १०५-१०६॥
इति द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः
पूजापीठजिज्ञासा
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-आञ्जनेय महाबल पूर्वोक्तमन्त्राणां पूजापीठमनुब्रूहीति ॥ १॥
एकाक्षरादिद्वात्रिंशदक्षरमन्त्राणां पूजापीठप्रकारं पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किमिति? आञ्जनेयेति ॥ १॥
एकाक्षरादिनवाक्षरान्तमन्त्रपूजायन्त्रं
हनूमान् होवाच-आदौ षट्कोणम् । तन्मध्ये रामबीजं सश्रीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे षष्ठ्यन्तं साधकम् । पार्श्वे दृष्टिबीजे । तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सम्मुखोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषु दीर्घभाजि हृदयादिमन्त्राः क्रमेण । रां रीं रूं रैं रौं र इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् । षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वराहं हुमिति । तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् । तेषु दलेषु स्वरान् षड्वर्गान् । प्रतिदलं मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् । तद्दलकपोलेष्वष्टवर्गान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरीमन्त्रः । तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु वासुदेवद्वादशाक्षरीमन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् । ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् । तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्त्रं भ्रं व्रं ज्रं अं श्रं ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहमन्त्रराजानुष्टुभमन्त्रः । तद्दलकपोलेष्वष्टवस्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोऽन्ताश्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् । चतुर्दिक्षु नारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत् सर्वात्मकं यन्त्रं सर्वकामप्रदं मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति ॥ २॥
एकाक्षरादिनवाक्षरान्तानां मन्त्राणां पूजापीठप्रकारमादौ कथयति-आदाविति । आदौ षट्कोणं विलिख्येति सर्वत्रोह्यम् । सश्रीकं श्रीगर्भितमित्यर्थः । द्वितीयान्तं साध्यं सर्वाभीष्टसिद्धिदमिति । षष्ठ्यन्तं साधकं ममेति । पार्श्वे कुरुद्वयलेखनपूर्वकं दृष्टिबीजे इं ईं इति । जीवप्राणशक्तिवश्यबीजानि-हंस इति जीवबीजं, सोऽहमिति प्राणबीजं, ह्रीमिति शक्तिबीजं, क्लीमिति वश्यबीजम् । हृदयाद्यस्त्रान्तं रां नम इत्यादि रः अस्त्राय फट् इत्यन्तम् । षट्कोणपार्श्वे रमामायाबीजे श्रीं ह्रीमिति । कामबीजं क्लीमिति । वाग्भवं ऐमिति । अन्ते पञ्चाक्षरं-सप्तदळेषु द्विचत्वारिंशद्वर्णान् विलिख्य शिष्टाष्टमदळे शिष्टपञ्चाक्षरं विलिखेदित्यर्थः । मेषादिराश्यादिना राश्यादिविभूषितम् । नारसिंहबीजं क्ष्म्र्यौमिति ॥ २॥
आवरणपूजापूर्वकमनुजपः
तद्दशावरणात्मकं भवति । षट्कोणमध्ये साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः प्रथमावृतिः । अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले धृष्ट्याद्यावरणम् । तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेषु नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् । भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥ ३॥
षट्कोणेषु हृदयाद्यङ्गैः प्रथमावृतिः ॥ ३॥
दशाक्षरादिद्वात्रिंशाक्षरान्तमन्त्रपूजायन्त्रं
अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते-आदौ षट्कोणम् । तन्मध्ये स्वबीजम् । तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु । तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् । ततोऽष्टदलम् । तेषु दलेषु षट्सङ्ख्यया मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरं साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ॥ ४॥
आदौ षट्कोणं लिखित्वेति सर्वत्र समानम् । मध्ये स्वबीजं हु[रा]मिति(?)। मध्ये साध्यनामानि मम सर्वाभीष्टसिद्धिं कुरुकुरु नम इति एतत् सर्वम् । क्रोधं हुमिति । नारसिंहवाराहे क्ष्म्र्यौं हुमिति ॥ ४॥
यन्त्राराधनपूर्वकमनुजपः
अङ्गैः प्रथमावृतिः । मध्ये रामम् । वामभागे सीताम् । तत्पुरतः शार्ङ्गं शंरं च । अष्टदलमूले हनूमदादि द्वितीयावरणम् । धृष्ट्यादि तृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधनपूर्वकं दशाक्षरादिमनून् जपेत् ॥ ५॥
हृदयादि-अङ्गैः । द्वितीयावरणं-तदग्रे धृष्ट्यादितृतीयावरणम् ॥ ५॥
इति तृतीयोऽध्यायः ॥।
चतुर्थोऽध्यायः
श्रीराममन्त्रपुरश्चरणविधिः
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति । हनूमान् होवाच-
नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् ।
अथवा पायसाहारो हविष्यान्नाद एव च ॥ १॥
षड्रसैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् ।
वनिताऽऽदिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २॥
भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् ।
स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥ ३॥
गुरूपदिष्टमार्गेण ध्यायन् राममनन्यधीः ।
सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥ ४॥
श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् ।
व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥ ५॥
तुलसीपारिजातश्रीवृक्षमूलादिकस्थले ।
पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥
मातृकामालया मन्त्री मनसैव मनुं जपन् ।
अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७॥
तर्पयेत्तद्दशांशेन पयसा तद्दशांशतः ।
जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८॥
ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् ।
ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥ ९॥
एकाक्षरादिमन्त्राणां पुरश्चरणानियमबुभुत्सया पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किं तत्? श्रीराममन्त्राणामिति । पुरश्चरणनियमः कीदृशः इत्यत्र-नित्यमिति ॥ १-१३॥
ऐहिके राममन्त्रविनियोगनिषेधः
अणिमादिर्भजत्येनं यूनं वरवधूरिव ।
ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥ १०॥
नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।
ऐहिके हनूमत्स्मरणविधिः
ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११॥
यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः ।
तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२॥
वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु ।
सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥ १३॥
इति चतुर्थोऽध्यायः ।
पञ्चमोऽध्यायः
रामषडक्षरस्य मन्त्रराजत्वं
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः-श्रीराममन्त्रार्थमनुब्रूहीति ॥ हनूमान् होवाच-
सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः ।
एका द्विविधा त्रेधा चतुर्धा पञ्चधा तथा ॥ १॥
षट्सप्तधाऽष्टधा चैव बहुधाऽयं व्यवस्थितः ।
षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २॥
श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते ।
नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ॥ ३॥
सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः ॥
मन्त्रार्थबुभुत्सया मुनयः पृच्छन्तीत्याह-सनकाद्या इति । पप्रच्छुः-किं तत्? श्रीरामेति । तत्प्रश्नोत्तरं हनूमान् होवाच । किमित्यत्र-बहूनां राममन्त्राणां मध्ये षडक्षरस्य मन्त्रराजत्वं तारकत्वात्, तारादिबहुबीजयोगतो बहुत्वं चिन्मात्रगोचरत्वं चाह-सर्वेष्विति ॥ १॥ पञ्चाशद्वर्णतद्विकृतियोगतो बहुत्वं तदर्थरूपेण ब्रह्ममात्रता चोपपद्यते इति ॥ २-३॥
रामबीजार्थः
रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ४॥
सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते ।
व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥ ५॥
व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् ।
रेफे ज्योतिर्मये तस्मात् कृतमाकारयोजनम् ॥ ६॥
मकारोऽभ्युदयार्थत्वात् स मायेति च कीर्त्यते ।
सोऽयं बीजं स्वकं यस्मात् समायं ब्रह्म चोच्यते ॥ ७॥
सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् ।
ज्योतिस्तस्य शिखारूपं नादः सप्रकृतिर्मतः ॥ ८॥
प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।
बिन्दुनादात्मकं बीजं वह्निसोमकलाऽऽत्मकम् ॥ ९॥
अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् ।
यथैव वटबीजस्थः प्राकृतश्च महान् द्रुमः ॥ १०॥
तथैव रामबीजस्थं जगदेतच्चराचरम् ।
बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥ ११॥
बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते ।
तत्रादौ स्वबीजार्थमाह-रकार इति । रेति व्यञ्जनं वह्निवचनं, वह्निगतहेयांशापाये वह्नेः चिद्वह्नित्वेन प्रकाशमात्रं पर्यवस्यति ॥ ४॥ अस्यार्थस्तु सच्चिदानन्दमात्रः परमात्मेत्यर्थः । व्यञ्जनस्य निर्विशेषत्वं तत्र स्वरविशेषयोगतः सविशेषत्वं चाह-व्यञ्जनमिति ॥ ५॥ एतेन किं कृतं स्यादित्यत आह-रेफ इति ॥ ६॥ तत्र बिन्दुयोजनं अभ्युदयार्थमित्याह-मकार इति । समायशब्दार्थमाह-सोऽयमिति ॥ ७॥ बिन्दुनादयोगतो जगत्कारणतामेतीयाह-सबिन्दुरिति । यो बिन्दुना मनसा सह वर्तत इति सबिन्दुः सोऽपि पुरुषो जीवः समष्टिबिन्द्वधिकरणशिवसूर्येन्दुरूपवान् भवति । प्रकृतिस्वरूपं तु तस्य पुरुषस्य ज्योतिः प्रकाश एव शिखास्वरूपं ``तुरीयं मूर्ध्नि संस्थितं'' इति श्रुतेः । मूलादिप्रकृत्या सह वर्तत इति सप्रकृतिः नादोपाधिकः पुरुषो मतः ॥ ८॥ एवं प्रकृतिपुरुषौ समायात् सविशेषात् ब्रह्मणः सकाशाद्विकल्पितौ इति स्मृतौ ॥ ९॥ एवं प्रकृतिपुरुषकलनाकलितं विश्वं रामबीजे प्रतिष्ठितं इत्यत्र दृष्टान्तः वटबीजान्तर्गतवटवृक्षवत् रामबीजस्थं जगदित्यर्थः ॥ १०॥ उपाधियोगतः सविशेषत्वं वस्तुतो निर्विशेषत्वं च स्यादित्यत आह-बीजोक्तमिति ॥ ११॥
द्व्यक्षरार्थः
मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥ १२॥
मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।
आद्यो रा तत्पदार्थः स्यान्मकारस्त्वम्पदार्थवान् ॥ १३॥
तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः ।
एकाक्षरमन्त्रार्थमुक्त्त्वा द्व्यक्षरार्थमाह-मुक्तिदमिति ॥ १२॥ रेफमकारयोः कामाकामधियां भुक्तिमुक्तिप्रदत्वं युज्यते इत्यर्थः । रामनाम्नो मुक्तिहेतुत्वं कथमित्यत्र प्रत्यगभिन्नब्रह्मवाचकत्वात् तत् युज्यत इत्याह-आद्य इति ॥ १३॥ रामाक्षराख्यतत्त्वम्पदगतवाच्यार्थकलनाऽपवादाधिकरणप्रत्यगभिन्नब्रह्मणः स्वाज्ञादिदृष्टिप्रसक्तप्रत्यक्परविभागैक्यकलनाऽसम्भवसम्यज्ज्ञानतो निष्प्रतियोगिकब्रह्ममात्रतया लक्षितत्वात् रामपदार्थो ब्रह्मैवेत्यर्थः, ``रामः सत्यं परं ब्रह्म रामात् किञ्चिन्न विद्यते'' इति स्मृतेः ॥
षडक्षरार्थः
नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १४॥
असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् ।
षडक्षरार्थप्रकटनव्याजेन त्र्यक्षरादिसर्वमन्त्रार्थमाह-नम इति ॥ १४॥ त्र्यक्षरादिमन्त्रजातं त्रेधा विभज्य ``तत्त्वमसि'' इति महावाक्यार्थयोजनं कर्तव्यमित्यर्थः ॥
राममन्त्रमाहात्म्यं
तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥ १५॥
भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते ।
मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १६॥
मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् ।
प्रणवत्वात् सदा ध्येयो यतीनां च विशेषतः ॥
राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥ १७॥
``तत्त्वमसि'' इत्यादिमहावाक्यापेक्षया अस्य सर्वोत्कृष्टत्वमाह-तदिति ॥ १५॥ प्राणिमात्रस्य सप्तकोटिमहामन्त्र(त्वा)धिकृतत्वेऽपि यतिभिरसेवितत्वात् राममन्त्रस्य तु प्रणवस्वरूपत्वेन तैरपि ग्राह्यमित्याह-मनुष्विति ॥ १६॥ मन्त्रार्थज्ञानफलमाह-राममन्त्रार्थेति ॥ १७॥
विद्याऽध्ययनफलं
य इमामुपनिषदमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यात् पूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ॥ १८॥
तदेतदृचाऽभ्युक्तम्-
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥
ॐ सत्यमित्युपनिषत् ॥ १९॥
उपनिषत्पारायणफलमाह-य इति ॥ १८॥ यदुक्तं तदेतदृचा मन्त्रेणाप्युक्तं भवतीत्याह-तदेतदृचाऽभ्युक्तमिति । प्रथमाध्यायादौ ``राम एव परं ब्रह्मं'' इति मन्त्रेण यः परमात्मा निष्प्रतियोगिकस्वमात्रतया अवशिष्यते तत्त्वतः सोऽयं रामोऽहमस्मीति ये सदा अनुभूय यथोक्ताधिकारिभ्यः प्रवदन्ति ते राम एव भवन्तीत्यत्र न हि संशयोऽस्ति । ॐ सत्यमित्यत्र ``श्रीरामो ब्रह्म तारकं'' इत्युक्तत्वात् । इत्युपनिषच्छब्दो रामरहस्योपनिषत्समात्यर्थः ॥ १९॥
इति पञ्चमोऽध्यायः ।
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
रामरहस्योपनिषद्व्याख्यानं लिखितं स्फुटम् ॥
रामरहस्योपनिषद्व्याख्यानग्रन्थविस्तरः ।
अष्टाशीत्यधिकेनाढ्यद्विशतं परिकीर्तितः ॥
इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे चतुष्पञ्चाशत्सङ्ख्यापूरकं
श्रीरामरहस्योपनिषद्विवरणं सम्पूर्णम् ।
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Encoded and proofread by Mrityunjay Pandey