आनन्दवनविरचिता श्रीरामतापिनीयोपनिषदानन्दनिधिटीका
॥ श्रीगणेशाय नमः ॥
॥ श्रीरामाय नमः ॥
श्रीरामपूर्वतापिनी ।
आनन्दवनकृतया रामकाशिकाख्यया व्याख्यया सहिता ।
सत्यं सत्यतया हि यस्य निखिलं रज्जौ यथा कुण्डली
यस्यानन्दतया प्रपञ्चरचना सानन्दथुर्भ्राजते ।
यच्चिद्रूपतया चिदात्मकमिवाऽऽभाति प्रपञ्चादिकं
सत्यानन्दचिदात्मकं श्रुतिवचोगीतं भजे राघवम् ॥
एकेनैव करेण शिष्यशिरसि व्यापारितेन क्षणा-
दाविच्छेदमतुच्छप्रस्यति तमःसङ्घातमाभ्यन्तरम् ।
तस्यैतस्य गुरोरपूर्वदिवसाधीशस्य पादाम्बुज-
द्वन्द्वाधिश्रवणीः परागकणिका भक्त्या नतामस्तमाम् ॥
आसीद्वासिष्ठवंश्यो नृहरिरिति पुरा केशवाह्वस्य सूनुस्तस्मात्कृष्णाह्वयोऽभूद्धरणिसुरवरः पत्तने कुण्डिनाख्ये ।
तस्मात्सूनुर्गुणाब्धिः समजनि कमलाम्बः प्रभुत्वाद्यतीनामानन्दाद्यः स रामोपनिषदि विदधे साधु टीकां वनाख्यः ॥
श्रीरामोपनिषद्वृत्तिं विधास्ये रामकाशिकाम् ।
रामभक्त्या प्रयुक्तोऽहं रामावाप्त्यै तदर्थिनाम् ॥
अथ प्रथमोपनिषत् ।
इह खलु सुखदुःखलाभालाभयोरन्यतरस्य पुरुषार्थत्वावगमात्केवलनिखिलदुःखजालमायाऽपारसंसारपारावारपर्यटनपरिश्रान्तमनसां सुमनसामुभयविधस्यापि पुरुषार्थस्याऽनुपलम्भाद्दर्शपूर्णमासादि- वेदविहितकर्मनिर्माणं निर्माय प्रवृत्तानां स्वर्गसुखलाभेऽपि तस्य क्षयित्वसातिशयत्वादिदोषोन्मेष- रूपितत्वेन पुरुषार्थत्वाऽनुपपत्तेः स्वर्गादावप्यनभिरतिमासेदुषां प्रचुरतरदुःखपटलविपरिलोपनित्यनिरति- शयानन्दप्रतिलम्भलक्षणपुरुषार्थमपेक्षमाणानां दुःखमयस्य संसारस्याविद्याविद्यमानत्वादविद्याविच्छेदमन्तरेणाञ्च्छेदाऽसम्भवादविद्यायाश्च ब्रह्मात्मैकत्वसाक्षात्काररूपविद्यैकापनोद्यत्वात् श्रीरामाख्यां ब्रह्मविद्यां रमणीयतरामुपजनयितुं श्रीरामतापिनीयोपनिषत्पूर्वोत्तरसगुणनिर्गुणोपासनभेदेनाऽधिकारितारतम्यात्प्रववृते । तत्र चोपनिपूर्वात्सदेर्निष्पन्नस्य क्विबन्तस्योपनिषत्पदस्य मुख्यतः श्रीरामचन्द्रब्रह्मविद्यापरत्वेऽपि ब्रह्मविद्यार्थायां श्रुतौ लक्षणया प्रवृत्तिः । नह्यभिधैव शब्दस्य वृत्तिर्न लक्षणेति वक्तुं युक्तम् । वृद्धैरुभयोरपि शब्दवृत्तित्वेन स्वीकारात् । नन्वेवमस्तु श्रीरामतापिनीयमप्युपनिषत्, तथापि नेयं व्याख्यानमर्हति प्राचीनैरेवाऽऽचार्यैर्व्याकृतत्वात् । सत्यम्, तथापि प्राचीनव्याख्याया विक्षिप्तविस्तृतदुरवगाहतयाऽलसप्राणानां मन्दमतीनामनुग्राह्यतया विक्षिप्ता च सङ्क्षिप्तसुबोधा च श्रीरामपूर्वतापिनी- योपनिषदो व्याख्येयं सङ्ख्यावतां हृदयङ्गमाऽऽरभ्यते । अत्र चोत्तमाधिकारिणां सगुणोपासनामन्तरेणैव निर्गुणस्य प्रतिपत्तुं शक्यत्वेऽपि मन्दाधिकारिभिस्तामन्तरेणैव प्रतिपत्तुमशक्यत्वात् ``ब्रह्मणो रूपकल्पने'त्यादिना सगुणोपासनां वदिष्यंस्तया प्राप्तव्यं निर्गुणं रामनाम निरुक्तिव्याजेन षड्भिः श्लोकरूपाभिः कण्डिकाभिर्निरूपयति-चिन्मय इत्यादिना ।
ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ ॥
रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥
स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ॥
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥
ननु ``रमन्ते योगिन'' इत्यस्यामेव कण्डिकायां निर्गुणमुपलभ्यते, नतु प्राचीनासु कण्डिकासु । तासु च ``जाते दशरथ'' इत्यादिना सगुणस्यैव प्रतीतेः । मैवम्, सगुणनिर्गुणयोः प्रधानभूतस्य निर्गुणस्यैव निरूपणौपयिकत्वेन सगुणस्य प्रत्यायनात् । ननु तर्हि सगुणनिर्गुणे रूपे निरूपयतीति संहतिर्वक्तव्या । न वक्तव्या, प्रधानाप्रधानयोः प्रधानस्यैवाऽऽदर्तव्यत्वात् । प्रधानं चेह निर्गुणमप्रधानं सगुणम् । ननु तर्ह्य- प्रधानत्वादेव सङ्गुणं न निरूपणीयम् । मैवम्, प्रधाननिरूपणार्थत्वेनाऽप्रधाननिरूपणेऽपि दोषाभावात् । यदाहुराचार्याः-
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
इति । चिन्मये- चिद्धने । अत्र च प्राचुर्यार्थे मयट् । नतु विकारार्थे, चितेर्निर्विकारत्वात् । नच निर्विकारत्वम- प्रमाणकम् । ``न जायते म्रियते'' इत्यादिश्रुतेरेवात्र प्रमाणत्वात् । स्वार्थे चायं मयट् । तेन चिन्मय इत्यनेन चिद्रूपत्वमुक्तं स्यात् । तथा च काणादाक्षपादादिभिर्यदात्मनश्चिद्गुणत्वमजल्पि, तच्चूर्णितं भवति । अस्मिन्-'अयमस्मी''त्यनुभवादपरोक्षे । तदुक्तं भट्टपादैः-
इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् ।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥
इति । यदि परोक्षः स्यादात्मा, तदा तस्य जडत्वेन प्रकाशत्वाऽनुपपत्तौ जगदान्ध्यं प्रसज्येतेति ।
``अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे''
इति न्यायात् । तस्य देशकालावच्छेदमपनेतुं विशिनष्टिमहाविष्णाविति । ``वेवेष्टि व्याप्नोती'ति विष्णुः । ``विषॢव्याप्ता'वितस्य धातोः ष्णुप्रत्ययान्तस्य रूपम् । महांश्चासौ विष्णुश्चेति तथा । विष्णुरित्येवोक्तौ गगनादेरपि सर्वभूतसंयोगितालक्षणव्यापकत्वाङ्गीकारात्तादृशं विष्णुत्वमस्य मा प्रभाङ्क्षीदिति महत्त्वेन विभुत्वं विशेष्यते । महाविष्णुरिति महत्त्वेन च विशेषितं विष्णुत्वं परिच्छेदत्रयशून्यत्वे पर्यवस्यति । नह्यात्मा देशतः परिच्छिन्नः, सर्वत्रैव सत्त्वात् । नापि कालतः सर्वदैव सत्त्वात् । नापि वस्तुतः, कस्यचिदपि वस्तुनस्तद्व्यतिरेकेणाऽसत्त्वात् । यद्वा ``विशति व्यश्नोती''ति वा विष्णुः । विशतेर्व्यश्नोतेर्वेति यास्कवचनात् । अयमर्थः- व्यापकत्वपर्यवसायी महांश्चासौ विश्चेति महाविः महापक्षी । विशब्दस्य पक्षिवाचकत्वात्, जीवात्मा । परमात्मन इव जीवात्मनोऽपि ``द्वासुपर्णे'त्यादिश्रुत्योपचारवृत्त्या पक्षित्वस्याऽभिधानात् । महावेर्जीवात्मनः करुणामृतं स्नुतं प्रस्नुतं येन स महाविष्णुः । ननु स्नुशब्द एव महाविष्णुपदेऽस्ति न स्नुतशब्दः, तत् कथमेवं व्याख्या । स्नुतशब्दे तकारलोपस्य छान्दसत्वेनाऽनुप- पत्त्यभावात् ।
यो महान् पूजितो व्यापी महावेः करुणामृतम् ।
स्नुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥
इति हनुमद्वचनात् । अयं च विष्णुशब्द उग्रादिपदानामप्युपलक्षणम् । नचाऽस्य तैः सह सम्बन्धाभावात्तदुपलक्षणत्वमनुपपन्नमिति वाच्यम्, अस्य तेषां च श्रीनृसिंहमन्त्रराजे समवेतत्वात् । एवं च श्रीनृसिंहश्रीरामचन्द्रयोरभेदोऽभिहितो भवति । नरविग्रहसाम्येऽपि सिंहास्यत्वं कार्यानुरोधेन । ईदृशेऽस्मिन् जाते- जन्मभाजि सति । ननु जात इत्ययुक्तम्, परस्य ब्रह्मणो जन्माऽभावात् । ``न जातो न जनिष्यत'' इति श्रुतेः, ``न जायते म्रियते वे'ति स्मृतेश्च, ``आत्मा न जायते विभुत्वादाकाशव'दित्यनुमानाच्चेति चेत् । सत्यम्, वस्तुतो जन्माऽभावेऽपि लोकाऽनुग्रहकाम्यया प्रातिभासिकजन्मस्वीकारात् । यद्वा जाते आविर्भूते इति व्याख्येयम् । ननु जातशब्दस्य जन्मवाचिन आविर्भावार्थत्वमयुक्तमिति चेत् । न, लक्षणया तत्त्वोपपत्तेः । अस्तु वा मुख्यत एव, जातशब्द आविर्भावार्थो भविष्यति । ``जनीप्रादुर्भावे'' इति स्मरणात् । ननु स्वयम्प्रकाश- स्वात्मन आविर्भावो न घटते । आविर्भावो हि नाम-प्रागप्रकाशस्य पश्चात्प्रकाशः । नच नित्यस्य स्वप्रभवस्य प्रागप्रकाशः पश्चात्प्रकाश इति सम्भवति । उच्यते- नित्यप्रकाशमपि ब्रह्म अनाद्यनिर्वाच्याऽविद्ययाऽघटमान- घटनपटीयस्या अप्रकाशमिव सम्पाद्यते । विद्यया तु तस्यामपनोदितायामाविर्भूतमिव भवति । ततो नानुपपत्तिः ।
भक्तानुजिघृक्षया भगवता जन्म स्वीकृतमित्युक्तं, तदयुक्तम् । विकृत्यसहत्वात् । तथाहि-प्रागसतः सत्तासमवायः, कारणसमवायो वा जन्म? नाद्यः, नित्यसतः प्रागसत् इत्थंशभावेन तद्विशिष्ट- जन्मानुपपत्तेः । नान्त्यः, निष्कारणस्य कारणसमवायायोगात् । किञ्च कारणसमवायः- कारणमात्रसमवायो वा, समवायिकारणसमवायो वा? नाद्यः, घटादीनां जन्माभावप्रसङ्गात् । नहि तेषां निमित्तकारणे कुलालादौ असमवायिकारणेऽवयवसंयोगे च दृष्ट इष्टो वा समवायः । न द्वितीयः, कारणमात्रविरहिणः समवायिकारणसमवायवाचोयुक्तेरवकाशाभावात् । प्रध्वंसजन्मन्यव्याप्तेश्च । उच्यते- देहसम्बन्ध एव जन्म । भगवतश्च लोकानुजिघृक्षया देहसम्बन्धः श्रुतिस्मृतिपुराणेतिहासप्रसिद्धः । ननु तर्ह्यङ्कुरादीनां देहसम्बन्धविरहिणां अजन्मतैव प्रसज्येत । स्यादेवं, यदि जन्ममात्रस्यैतल्लक्षणं स्यात् । नत्वेवं, किन्तर्ह्या-त्मजन्मनएव । आत्मनो घटादिवत्स्वरूपतो जन्मरहितस्यापि देहसङ्गतिलक्षणजन्माङ्गीकारेऽप्यनुप- पत्त्यभावात् । तदुक्तं अक्षचरणोपजीविभिः- ``उत्पत्तिर्देहसङ्गति'रिति ।
नन्वयोनिजव्यतिरिक्तदेहसङ्गतेरेवेयं जनकापेक्षा । तस्माज्जनको वक्तव्य इत्यतस्तमाह-दशरथेइति । ``दशभी रथैरेक एव युध्यतीति'' दशरथस्तस्मिन् । ननु रामस्य कौशल्यादशरथोभयजन्मत्वे सति केवलदशरथ- जन्यत्वाभिधाने युवनाश्वस्य मान्धातृजन्माभिधानवत्कारणं न पश्यामः । मात्रपेक्षया पितुः प्राधान्यमेव कारणमिति चेत्, ``एभ्यो माता गरीयसीति'' पित्रादिभ्यो मातुरेव प्राधान्यस्मरणात् । सत्यम्, तथापि मात्रवयवापेक्षया भूयसामेव पित्रवयवानां पुत्रे सङ्क्रमादिह पितृमात्रसङ्कीर्तनम् । तदाह परमर्षिः-
``पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः''
इति । किञ्च श्रुतिरपि पितुः प्राधान्यमाह- ``आत्मा वै पुत्रनामासीति'। नचायमात्मशब्दो मातापित्रो- रुभयोरपि स्वरूपस्य पुत्रनामकत्वं दर्शयतीति वाच्यम्, श्रुतिव्याख्यानरूपः या स्मृत्याऽपि पितृरूपस्यैव पुत्रनामकत्वप्रतिपादनात् ।
``पितैव पुत्ररूपेण जायते श्रुतिवाग् यतः''
इति हि स्मृतिः । अयमेवार्थः पाद्मेऽपि दृश्यते-
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥
इति । ननु तर्हि ``एभ्यो माता गरीयसी'' इत्येतदनवकाशं स्यात् । न स्यात्, मातुर्गर्भधारणादिक्लेशादि- सहिष्णुत्वाभिप्रायेण प्राधान्यव्यपदेशोपपत्तिरिति । मनुष्यान्तरवदेव मनुष्यावतारस्य श्रीरामचन्द्रस्यापि प्रसक्तं परमार्तिपराकर्तृत्वाभावं वारयति-हराविति । ``परमार्तिं हरतीति'' हरिस्तस्मिन् । ``भिद्यत'' इत्यादिश्रुतिरस्मिन्नर्थेऽनुसन्धेया ।
तथाच श्रीमद्भागवतेऽपि-
लोकत्रयस्य महतीमहरद्य आर्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्तः ।
इति । वस्तुतोऽपितृकस्य पितरमिव परमार्थतः कुलरहितस्यापि कुलं निर्दिशति- रघोः कुल इति । एवं जन्मकुलरहितस्यापि कुलजन्मनी आविद्यके अनया श्रुत्याऽभिहिते ।
स्मृतिरप्याह-
चैत्रमासे नवम्यां तु शुक्लपक्षे रघूत्तमः ।
प्रादुरासीत् पुरा ब्रह्मन्! परं ब्रह्मैव केवलम् ॥
इति । ``रघोः कुले दशरथे चिन्मयेऽस्मिन् महाविष्णौ हरौ जाते सति विद्वद्भिः आत्मतत्वज्ञैर्लोकेषु स राम इति प्रकटीकृतः'' इति योजना । यो- हरि राति- ददाति अभीष्टमनभीष्टं च स्वकर्मानुसारेण, महीस्थितः सन् राजते महीस्थः सन्निति वा । एतेन रामनाम्नो द्वे निरुक्ती ज्ञातव्ये । एका- रातीत्यत्रत्ये राक्षरे, महीस्थित इत्यत्रत्वे मकारे च योजिते सति रामो भवतीति । अपरा-राजतेर्धातो राक्षरे महीशब्दगतमकारे च योजिते सति भवतीति । पदद्वयगतैकाक्षरग्रहणेन पदद्वयप्रतिपाद्योऽर्थः कथं प्रतिपत्तव्य इति चेत्, ``अप्यक्षर- सामान्यान्निर्ब्रूया'दिति यास्कवचनादिति ब्रूमः । यद्वा महीपदगतमकारासंस्पर्शेन रातीति राम इत्येव निर्वक्तव्यम् । तर्हि राम इत्यत्रत्यो मकारो व्यर्थः स्यादिति चेन्न, मकाराभावे कर्तृत्वस्य लाभाभावात् । कर्तरि ह्यौणादिको मकारप्रत्ययो विहितोऽस्ति । अथवा ``रा दीप्तौ'' इति धातोः क्विपि ``रा'' इत्येव निष्पद्यते । मः शिवः चन्द्रो वेधाः । ``मः शिवश्चन्द्रमा वेधा'' इत्यभिधानात् । राश्चासौ मश्चेति रामः । शिवाद्यात्मकत्वं च सर्वात्मकत्वादस्योपपद्यते ।
विधान्तरेण रामनाम निर्वक्ति-राक्षसाइति । ``येन हेतुना राक्षसाः स्वोद्रेकतो मरणं यान्ति स राम'' इत्यन्वयः । राक्षसा-रावणादयःस्वोद्रेकतः- स्वस्य शक्राद्यतिक्रमहेतुभूतादुद्रेकत आधिक्यात् । नहि भगवानुद्रेकमात्रात्तान् मारितवान्, अपितु शक्राद्यतिक्रमकरात्तस्मात् । ``रा'' इत्यनेन राक्षसा लक्ष्यन्ते, ``म'' इत्यनेन च मरणं यान्तीति । एकदेशेन समुदायलक्षणया बहुलमुपलम्भात् । अथवा स्वशब्देन भगवन्तं परामृश्य तस्योद्रेकतः सर्वातिशयत्वेन राक्षसा म्रियन्ते इति व्याख्येयम् । नच भगवत उद्रेकोऽप्रामाणिकः । ``अत्यतिष्ठद्दशाङ्गुल'मिति श्रुतेस्तत्र प्रमाणत्वात् ॥ १-२॥
निरुक्त्यन्तरमाह-रामनामेति ।
रामनाम भुवि ख्यातमभिरामेण वा पुनः ॥
राक्षसान् मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥
प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ॥
धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥
तस्य ध्यानेन वैराग्यमैश्वर्यं यस्य पूजनात् ॥
तथा रामस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥
अभिरामेण- सुन्दरेण वपुषा तस्य रामनाम भुवि- भूशब्दोपलक्षितलोकत्रये ख्यातम् । अत एवपूर्वमप्युक्तं -लोकेष्विति । इममेवार्थं हृदि निधाय कालिदासोऽपि कविः रचयति स्म-
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥
इति । प्रकारान्तरेण रामाख्यां निर्वक्ति- ``राक्षसा'नित्यादिना ``भुवि स्या''दित्यन्तेन । अयमत्र योजनाप्रकारः -राहुः पर्वसन्धौ मनसिजं यथा प्रभाहीनं करोति, तथा राक्षसान् रावणादीन् मर्त्यरूपेण मनुष्यात्मना प्रभाहीनान् कृत्वा राज्यार्हाणां महीभृतां सूर्यसोमवंश्यानां राज्ञां चरित्रादिभिश्चतुर्भिर्धर्ममार्गादिचतुष्टयं राति भगवानिति हेतोः श्रीराघवस्य भुवि रामाख्या स्यादिति । मनसिजश्चन्द्रः । ``चन्द्रमा मनसो जात'' इति श्रुतेः । राक्षसैर्हि सूर्यसोमवंश्यानां राज्ञां राज्यापहारेण धर्मज्ञानवैराग्यैश्वर्यहीनता जाता । श्रीरामेण तु राक्षसान् हत-वता राज्ञां स्वस्वराज्ये च स्थितिं सम्पादितवता स्वचरित्रादिना धर्मादिकं सम्पादितम् । तदाह वाल्मीकिः-
``राजवंशान् शतगुणान् स्थापयिष्यति राघवः''
इति । पारमेश्वरेण चरित्रादिना कथं राज्ञां धर्मादिसिद्धिरिति चेदुच्यते- चरित्रं नाम सदाचारः, स च धर्महेतुः । तथाच राजानोऽपि श्रीरामस्य चरित्रमाकलयन्तस्तत्कृपयैव तादृशचरित्रभाजोऽभवन् । परमात्मपररामनाम्नोऽनवरतमर्थतोऽनुसन्धानेन ज्ञानभाजो (ज्ञान?)ध्यानेन निदिध्यासनाऽपरपर्यायेण परमानन्दमनुभवन्तो वैराग्यं- स्रक्चन्दनसुन्दरीप्रभृतिविषयपरिषदभिलाषविरहं च भजन्तः पूजनात्- गुर्वादिनमस्कारपुरःसरया विस- र्जनान्तया वैष्णवागमोक्तया सपर्यया ऐश्वर्यं चाऽभजन् । अत्र च रामनाम्नस्तिस्रो निरुक्तयोऽनुसन्धेयाः । एका-'राहुर्मनसिजं यथे''ति दृष्टान्तवाक्यस्थपदद्वयादिभूतस्य ``रा'' इत्यस्य ``म'' इत्यस्य चाक्षरद्वयस्य संयोजनेन । अपरा तु ``राक्षसान् मर्त्यरूपेणे'ति दार्ष्टान्तिकवाक्यगतयो ``राम'' इत्यक्षरयोः । तृतीया तु- ``राज्यार्हाणां महीभृता'मिति वाक्यगतयोः ।
ननु ``प्रभाहीनान् कृत्वे'ति क्त्वाप्रत्ययो नोपपद्यते, क्रियान्तरानुपादानात् । नहि क्रियान्तरमनुपादाय क्त्वा शक्यप्रयोगः । तथा सति व्रजतीत्यनुपादाय भुक्तेत्यस्य केवलस्यैव प्रयोगापत्तेः । मैवम्, रातीत्यस्य क्रियान्तरस्योपादानात् । ननु तर्हि ``कृत्वा राती''ति वाक्यं पर्यवस्यति । एवमप्यनुपपत्तिः, प्रभाहीनान् कृत्वा रातीति ``रा'धात्वर्थदानक्रियाया अनिवर्तमानत्वात् । स हि सेतुबन्धादिना रावणादीन् प्रभाहीनान् कृत्वा प्राणैर्व्ययोजयत्, नतु राज्ञां धर्मादिकं समपादयत् । सत्यम्, तथापि न क्त्वानुपपत्तिः । नह्यानन्तर्यार्थे क्त्वा विहितः, किं तर्हि पौर्वापर्येण । नच पौर्वापर्यं क्रिययोरव्यवधानेनैव भवति, अपितु व्यवधानेन च । अत एव पौर्वापर्यमात्रेपाणिनिःक्त्वाप्रत्ययं सस्मार - ``समानकर्तृकयोः पूर्वकाले क्त्वे'ति ।
धर्ममार्गं ज्ञानमार्गमित्यत्र मार्गशब्द उपायपरः । उभयत्रापि कर्मधारयः । धर्मश्चासौ मार्गश्च, ज्ञानं चासौ मार्गश्चेति । धर्मेण हि सुखमुपेयते, ज्ञानेन चाऽज्ञाननिवृत्तिः । तदाहुः श्रीशङ्करभगवत्पूज्यपादाः - ``यतो ज्ञानमज्ञानस्य निवर्तक'मिति । धर्मस्य मार्गं ज्ञानस्य मार्गमिति न षष्ठीसमासो युक्तः । एतत्समानकक्षतयोपन्यस्तयोर्वैराग्यैश्वर्ययोरप्युपायोपदिदिक्षया मार्गशब्दप्रयोगापत्तेः । तथेति तद्वत्त्वोक्तेश्च । यथाऽखिलं राति तथा धर्मादिकमपीति द्वितीय ``तथा'' शब्दार्थः ।
विधान्तरेणापि निर्वक्ति-अथ तत्त्वत इति । तस्य भावस्तत्त्वम्, तस्माद्रामत्वादित्यर्थः । ``रश्चासौ अश्चासौ मश्चे''ति रामः । र-इत्यग्निः, अ-इति विष्णुः, म- इति शिव एतत्त्रयरूपत्वाद्रामः । अनेन रेफाऽकारमकार- देवतात्मकत्वमस्यैवोक्तं स्यात् । नहि सर्वात्मकस्य त्र्यात्मकत्वमयुक्तम् । अथवा उक्ता निरुक्तीरुपसंहरति-अथ तत्त्वत इति । यस्मादेवम्, अथ तत्त्वतो रामाख्या स्यात् । अव्ययानामनेकार्थत्वादथशब्दोऽत्र हेत्वर्थः । अयमाशयः-रेफः स्वप्रकाशं ब्रह्म वक्ति, ``रादीप्ता'वित्यस्य धातोराश्रयणात् । मकारो माया । तथाच मायावच्छिन्नस्वप्रकाशं ब्रह्म रामपदार्थः । तदेव जगत्कारणम् । अनवच्छिन्नस्य कारणत्वानुपपत्तेः । जगत्कारणत्वादेव च जगदात्मकं ब्रह्म, कार्यकारणयोर्भेदाभावात् । अत एवं ``सर्वं खल्विदं ब्रह्मे''ति श्रुतिः ।
ननु सर्वं ब्रह्मेति सर्वमनूद्य ब्रह्मात्मताविधिः, अथवा ब्रह्माऽनूद्य सर्वात्मताविधिः? नाद्यः, मिथ्यात्वेनाऽभिमतस्य सर्वस्य ब्रह्मात्मतायाममिध्यात्वापत्तेः । नहि ब्रह्म मिथ्या । न द्वितीयः, ब्रह्मणो मिथ्यात्वापत्तेः । नहि मिथ्याभूतात्सर्वस्मादभिन्नममिथ्या भवितुमर्हति ।
अत्रोच्यते- सर्वमनूद्य तस्य ब्रह्मात्मता विधीयते । नच ब्रह्मात्मतायां सर्वस्य सत्यत्वापत्तिर्दोषाय । सर्वस्यापि ब्रह्मात्मना सत्यत्वस्येष्टत्वात् । तर्हि ``प्रपञ्चो मिथ्ये'ति वाचोयुक्तिरयुक्ता स्यादिति चेन्न, स्वरूपतो मिथ्यात्वस्य ब्रह्मरूपेण सत्यभूतत्वस्याऽप्यप्रत्यूहत्वात् । नहि स्वरूपेण मिथ्याभूतमपि रजतं शुक्तिरूपेणापि मिथ्या भवति । ननु तर्हि ``सुवर्णं कुण्डल'मित्यत्रापि केनचिद्रूपेण सत्यत्वं केनचिद्रूपेण मिथ्यात्वमापद्येतेति चेन्मैवम्, वैषम्यात् । तत्र हि सुवर्णकुण्डलांशयोरन्यतरस्यापि बाधाभावाद्विनैव बाधं सामानाधिकरण्यप्रयोगात् । सर्वं ब्रह्मेत्यत्र च सर्वस्य स्वरूपतो बाध्यतया बाधे सामानाधिकरण्य- प्रयोगाऽनुपपत्तिः । चारः स्थाणुरिति वत् । यद्वा ``अथ तत्त्वत'' इति ``रमन्त'' इत्यग्रिमनामनिरुक्त्या सम्बध्यते ॥ ३-५॥
पूर्वं सगुणपरतया रामनाम निरुच्य सगुणोपासनोपेयानिगुर्णब्रह्मपरतया निर्वक्ति-रमन्त इत्यादिना । अथवा शब्दार्थो द्विविधः, वाच्यो लक्ष्यश्चेति । तत्र वाच्यपरत्वेन रामनाम निरुच्य लक्ष्यपरत्वेनापि निर्वक्ति -रमन्त इत्यादिना ।
रमन्ते योगिनोऽनन्ते नित्यानन्दचिदात्मनि ॥
इति रामपदेनासौ परं ब्रह्माऽभिधीयते ॥ ६॥
इति- अनेन प्रकारेण यन्निरुक्तं रामपदं, तेनाऽसौ-दाशरथिः परं ब्रह्म- परमात्मैवाभिधीयते । इतिशब्दपरामृष्टं निरुक्तिप्रकारं दर्शयति-रमन्त इति । योगः-चित्तवृत्तेर्बाह्यविषयेभ्यो निरोधः । ``योगश्चित्तवृत्तिनिरोध'' इति सूत्रयामास भगवान् पतञ्जलिः । स एषामस्ती'ति योगिनः रमन्ते-क्रीडन्ति, तत्पराः सन्तो हृष्यन्तीत्यर्थः । रति र्नाम इष्टार्थसंयोगजा क्रीडेत्याहुराचार्याः । कुत्र, अनन्ते-अन्तः परिच्छेदस्तद्रहिते । नह्यस्य देशतो दीपप्रभाया इव परिच्छेदः, सर्वत्र सत्त्वात् । नापि कालतः, विद्युत इव सदा सत्त्वात् । नापि वस्तुतः, स्थले जले वा तदतिरेकेण कस्यचिदप्यभावादित्यवोचाम । अथ मतम्, सर्वस्यापि तदतिरेकेणाऽसत्त्वे योगिनोऽपि कथं स्युः । नहि ते सर्वस्मादतिरिक्ताः । अतिरेके वा सिद्धं नः समीहितम् । अस्माभिर्हि रमणक्रियायां कर्तृविरहं प्रतिपादयितुमनन्तपदार्थपर्यालोचनातो योगिविरह उपन्यस्यते । स च असत्सर्वान्तर्गतत्वहेतुकः । अथ योगिविरहाभावाय असत्सर्वान्तर्गतत्वं यदि नेष्यते, तर्ह्यनन्तर्गतत्वं ब्रह्मत्वे वा पर्यवस्येत्तुच्छत्वे वा । प्रथमे- ब्रह्मात्मनां योगिनां ब्रह्मणि रमणानुपपत्तिः । नहि स्वयमेव स्वस्मिन् रमते, रमकरमणीयभावस्य भेदगर्भत्वात् । चरमे-रमणं किमाश्रयं स्यादिति ।
अत्राऽभिदध्महे- किं सर्वस्यापि तदतिरेकेणाऽसत्त्वं पारमार्थिकमभिप्रेत्याऽयमाक्षेपः क्रियते व्यावहारिकं वा? आद्यमङ्गीकुर्मः । नचाङ्गीकारे परमतमनिरस्तं स्यादिति वाच्यम् । सिद्धसाधनत्वेन निरासात्, तस्य चाऽसिद्धौ पर्यवसानात् । यदाहुः अक्षचरणोपजीविनः-
``आश्रयासिद्धता हेतोः सिद्धधर्मस्य साधने''
इति । न द्वितीयः, व्यावहारिकस्य निरासाऽयोगात् । नहि प्रपञ्चो वस्तुतोऽसन्नपि व्यवहारतोऽप्यसन्निति वक्तुं शक्यते । ननु ब्रह्मण उक्तमनन्तत्वमयुक्तम्, दृश्यत्वेन ब्रह्मणो विनाशानुमानादित्यत आह-नित्येति । नच नित्यत्वमप्रामाणिकम् । ``सर्वगतश्च नित्य'' इति श्रुतेः । अत एव दृश्यत्वानुमानमतीतकालमसिद्धं च । दृग्विषयं हि दृश्यत्वम् । नच ब्रह्मणो दृग्विषयता, स्वप्रकाशस्य तदनुपपत्तेः । नच स्वयम्प्रकाशत्वमसिद्धम्, ``अत्रायं पुरुषः स्वयञ्ज्योति'रिति श्रुतेः ।
ननु न ब्रह्मणि रमणं पुरुषार्थः, सुखाप्तिरूपत्वस्य दुःखनिवृत्तिरूपत्वस्य चाभावात् । नहि ब्रह्म सुखरूपम्, सुखस्य गुणत्वाद्ब्रह्मणश्च द्रव्यत्वात् । नच द्रव्यगुणयोरभेदः सम्भवति, विरुद्धधर्माक्रान्तत्वात् । अन्यथा मिहिरतिमिरयोरप्यभेदापत्तिः । नापि दुःखनिवृत्तिरूपम्, भावरूपस्य ब्रह्मणोऽभावरूप- त्वाऽनुपपत्तेः । अन्यथा भावोऽभावश्चेति पदार्थद्वैविध्योपन्यासस्योन्मत्तप्रलपितत्वापत्तेरित्यत आह-आनन्देति । अयमाशयः -ब्रह्मण आनन्दत्वेन तस्मिन् रमणमानन्दावाप्तिरूपतया पुरुषार्थ एव । स्यादेतदेवम्, यदि ब्रह्मण आनन्दरूपता स्यात् । नच ब्रह्मण आनन्दात्मकताऽस्ति प्रमाणाभावात् । मैवम्, ``आनन्दं ब्रह्मणो रूप'मिति श्रुतेरेव प्रमाणत्वात् । ननु आनन्दोऽस्तीत्यानन्दः । ``अर्श- आदिभ्यो'ऽजिति मत्वर्थीयाऽच्प्रत्ययान्तो ह्ययमानन्दशब्दः । अन्यथा नियतपुंल्लिङ्गस्याऽऽनन्दशब्दस्य ``आनन्द'मिति नपुंसकत्वेन प्रयोगानुपपत्तेः । तत्कथमानन्दरूपं ब्रह्मोच्यते । ननु बहुलग्रहणाल्लिङ्गव्यत्ययेन ``आनन्द'मिति नपुंसकतोपपत्स्यते । मैवम्, सत्यां गत्यामीदृशपरिहारोपन्यासानवकाशात् ।
अत्रोच्यते-'आनन्दो ब्रह्मे''त्यादि श्रूयमाणबहुतरश्रुत्यनुरोधेनाऽऽनन्दमिति नपुंसकतायां छान्दसत्वेनैवोपपादनीयत्वावश्यम्भावात् । ``आत्मा आनन्दरूपः परप्रेमास्पदत्वा'दित्यनुमानाच्च । नतु यथा ज्ञानमात्मगुणस्तथाऽऽनन्दोऽपि स्यात्, अन्यथा ज्ञानमपि नात्मगुणः स्यादित्यत आह-चिदिति । नहि चिदपरपर्यायं ज्ञानमप्यस्माभिरात्मगुणत्वेनेष्यते, येनैव दृष्टान्तावष्टम्भेनाऽऽनन्दस्याप्यात्मगुणत्वमाचष्टे भवान् । तथाऽऽचक्षाणश्च ``असिद्धमसिद्धेन साधयतो महानैयायिकत्व'मिति वचनस्यविषयत्वान्ननिवर्तते । नच ज्ञानस्यात्मरूपतायां मानाभावः, ``सत्यं ज्ञान'मिति श्रुतेर्मानत्वात् । नचेयमुपचरितार्था श्रुतिः, मुख्यार्थे बाधाभावात् । अज्ञानात्मकत्वे वा आत्मनो जाड्यं प्रसज्येत । तथाच जगदान्ध्यमसङ्ग इत्युक्तमेव । नहि जडेनात्मना जडः प्रपञ्चः शक्यप्रकाशनः । तथा सति पटो जडं घटं प्रकाशयेत् । अत एवात्मनो जडस्वाभावाय ज्ञानात्मकत्वमकामेनाऽप्येषितव्यम् । आत्मपदमन्ते श्रूयमाणं नित्यादिपदैः प्रत्येकमेभिः सम्बध्यते- नित्यात्मनि आनन्दात्मनीति । अत्रास्मशब्दः स्वरूपवचनः ।
ननु ``नित्यमानन्दश्चिद्ब्रह्मे'ति सामानाधिकरण्यप्रयोगेणैव नित्यादीनां ब्रह्मस्वरूपत्वोपपत्तावात्मशब्दो व्यर्थ इति चेन्न व्यर्थः । यदि हि वैयर्थ्यमभिधेयराहित्यम्, तन्न । स्वरूपार्थताया इदानीमेव निवेदितत्वात् । अहो! महतीयं भवतो विस्मरणशीलता, यदिदानीमेव निवेदितमप्यर्थं नास्मार्षीत् । अर्थ प्रयोजनराहित्यम्, एतदपि न । सामानाधिकरण्यप्राप्तस्यैव स्पष्टीकरणार्थत्वात् । अथवा जीवब्रह्मणोः स्पष्ट एव भेदः । संसारित्वाऽसंसारित्वादिविरुद्धधर्माक्रान्तत्वादित्यत आह- आत्मनीति । आत्मभूते नतु जीवाव्यतिरिक्ते । व्यतिरेके ``तत्त्वमस्या'दिवचननिचयव्याकोपापत्तेः नच तस्यान्यपरत्वम्, उपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गत्वात् । विरुद्धधर्मसंसर्गलक्षणो हेतुरनैकान्तिकः । बिम्बप्रतिबिम्बयोरस्य सत्त्वेऽपि भेदलक्षणस्य साध्यस्याभावात् । ननु तयोरपि भेदो दृश्यते । दृश्यताम् । तर्हि अनैकान्तिकत्वोद्भावन- मुन्मत्तप्रलपितं स्यात् । न स्यात्, पारमार्थिकभेदाभावाभिप्रायेण तदुद्भावनात् । अथ विरुद्धधर्मसंसर्गेण जीवब्रह्मणोरपारमार्थिक एव भेदः सिषाधयिषितस्तत्कथं सव्यभिचारतेति । मैवम्, सिद्धसाध्यतापत्तेः । अङ्गीकुर्म एवं हि वयमपि । तयोरपारमार्थिकभेदमेवमङ्गीकुर्वता पारमार्थिकभेदस्य स्वसिद्धान्तस्य परित्यजनात् । क्वचित् ``सत्यानन्दे'त्यपि पाठः । तत्र ``सत्यमबाध्यं बाध्यं मिथ्ये'ति आचार्यैः सत्यशब्दार्थोपपादनादिति ।
नन्वेते सत्यादयः शब्दा एकमर्थमभिदधत्यनेकं वा? न प्रथमः, एतेषां पर्यायतापत्तेः । एकार्थाभिधायकतैव हि पर्यायता । पर्यायत्वे सहप्रयोगोऽनुपपन्नः स्यात् । यदाहुः-
पर्यायाणां प्रयोगो हि यौगपद्यं तु नेष्यते''
इति । इह च सहप्रयोगः स्फुटमेव दृश्यते-'नित्यानन्दचिदात्मनी'ति । नतु क्वेह सहप्रयोगः, नित्यादिपदानां क्रमेणैवोच्चारणात् । मैवम्, नहि युगपदुच्चारणं सहप्रयोगः । अपितु तर्हि एकस्यैवार्थस्य प्रतिपत्त्यर्थं तद्वाचकानेकशब्दप्रयोगः । स चानुपपन्नः, एकेनैव कृतत्वादितरानर्थक्यादिति । न द्वितीयः, विकल्पासहत्वात् । किं परस्परमसम्बद्धाननेकार्थानभिदध्युः सम्बद्धान् वा? नाद्यः, दशदाडिमादिपदानामिव वाक्यत्वेनाऽनुपादेयत्वापत्तेः । नान्त्यः, सम्बद्धा अनेकेऽर्था एकमेव विशिष्ट- मनेकं वा? नाद्यः नित्यादिपदवेदनीयब्रह्मणो वैशिष्ट्यापत्तेः । नच तस्य तदिष्यते, अखण्डैकरसत्वात् । न द्वितीयः, वाक्यभेदापत्तेः । अर्थैकत्वेन ह्येकवाक्यता भवति । तदुक्तं परमर्षिणा- ``अथैकत्वादेकं वाक्य'मिति ।
अत्र ब्रूमः-सत्यादिपदानामनेकार्थत्वं यन्निराकार्षीः, तदस्मदभिमतमेवाऽकार्षीः । यत्त्वेकार्थत्वपक्षं प्रत्याक्षेपस्तन्न सहामहे । पर्यायत्वापत्तेरिति चेन्न । किमेकार्थत्वमात्रेण पर्यायत्वमापादयसि, अभिधेयार्थैक्येन वा? नाद्यः, ``प्रकृष्टप्रकाशश्चन्द्र'' इत्यत्र प्रकृष्टप्रकाशपदयोः प्रकर्षप्रकाशत्वलक्ष्यवाच्यार्थद्वारा लक्ष्यभूतचन्द्रप्रातिपदिकरूपैकार्थपरयोरपि पर्यायत्वानुपलम्भात् । न द्वितीयः, अभिधेयानामर्थानामैक्यं चभवतोऽपसिद्धान्तः । तयोरपारमार्थिक- भेदभिन्नत्वात् । तर्ह्यनेकार्थत्वपक्षोक्तदोषापत्तिरिति चेन्न, अभिधेयाऽनेकार्थद्वारैकाखण्डैकरसब्रह्मपरत्वे तदनुपपत्तेः । ननु किमिदमर्थस्याखण्डत्वम्? निरवयवत्वमिति चेत्तर्हि ``शब्दगुणविशिष्टमाकाश'' मित्यादेरपि वाक्यस्याखण्डार्थत्वप्रसङ्गः । नित्यत्वमिति चेत्तर्हि ``परमाणवः सत्यात्मानः सन्ती'' त्याद्यानामपि वाक्यानां तत्त्वप्रसङ्गः । निर्विभागार्थत्वमिति चेत्, किमिह विभागो गुणविशेषो भेदो वा? नाद्यः, ``रूपरसगन्धस्पर्शा गुण'' इत्यादेरपि वाक्यस्य निर्विभागार्थत्वेनाखण्डार्थत्वापत्तेः । नहि रूपादीनां विभागोऽस्ति, विभागस्य गुणत्वेन द्रव्यमात्रनिष्ठस्य गुणाधिकरणरूपादिषु समवायायोगात् । नापि द्वितीयः, ``पदार्थानां भेदोऽस्ती''त्यादेरपि वाक्यस्याखण्डार्थत्वापत्तेः । नहि भेदस्य भेदोऽस्ति, अनवस्थानात् । नापि अविशिष्टार्थत्वं ब्रह्मणः सत्त्वादिविशिष्टस्याऽविशिष्टत्वानुपपत्तेः । तस्मात् सत्यादिपदानां ब्रह्मणि प्रयुज्यमानानामखण्डार्थत्वमिति वचो रिक्तमेवेति ।
अत्राऽभिधीयते- अपर्यायानेकशब्दप्रकाशितमविशिष्टमित्यखण्डलक्षणमभिमतमस्माकम् । तच्च ब्रह्मणि वर्तते । तद्धि अपर्यायैरेव सत्यादिपदैः प्रकाश्यते । नच विशिष्यते केनचिद्धर्मेण, तस्य निर्धर्मकत्वात् । अत एवाहुः-
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥
``इति । ``तत्त्वमस्या'देः कथमखण्डार्थत्वमिति चेत्, उपाधिभेदभिन्नस्यार्थस्यैकत्वप्रतिपादकत्वादिति ब्रूमः । एतदप्यभिहितमाचार्यैः-
उपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते ।
तदपि स्यादखण्डार्थं महत्खं कुम्भकं यथा ॥
इति । ननुनित्यत्वादिधर्मविशिष्टनित्यादिरूपधर्मिप्रवर्तमानतानित्यादिपदार्थः, तत्कथं नित्यादिपदानामखण्डपरत्वमिति । मैवम्, अन्यत्र धर्मावशिष्टे धर्मिणि प्रवर्तमानानां पदानामखण्डपरत्वाभावेऽपि ब्रह्मणि प्रवर्तमानानां ब्रह्मण्यखण्डपरत्वाभ्युपगमस्यावश्यकत्वात् । तत्कस्य हेतोः, ब्रह्मणो निर्धर्मकत्वात् । अथ सधर्मकमेव ब्रह्म किं न स्यात्, अद्वैतभङ्गप्रसङ्गादिति ब्रूमः । नहि धर्मो धर्मी चेति द्वैते जाग्रति अद्वैतमुल्लसितुं शक्नोति । नचाऽद्वैतानुल्लासे किं नश्छिन्नमिति वाच्यम्, तत्प्रतिपादकश्रुतीनां प्रामाण्यस्य छिन्नत्वात् । नन्वेवमिष्टमेव नश्चेष्टितं स्यात् । नहि वयम- द्वैतश्रुतीनां प्रामाण्यसभ्युपगच्छमामः । कथं हि द्वैतवादिनस्तासां प्रामाण्यमभ्युपगच्छेयुरिति । सत्यमेवम् । स्वाङ्गीकृतद्वैतानुरोधादेव किमद्वैतश्रुतीनां प्रामाण्यं भवता नाभ्युपेयम्? आहोस्विदभूषामद्वैते तात्पर्याभावात्? नाद्यः, काचादिदोषरूषितलोचनेनापि स्वप्रतीतरजतभुजगाद्यनुरोधेन ``नेदं रजतं नायं भुजग'' इत्यादिप्रत्ययानामपि प्रामाण्यानभ्युपगमापातात् । तत्किमिदानीं द्वैतप्रतीती रजतादिप्रतीति- वद्विभ्रमः? कः सन्देहः । बाधविधुराया द्वैतप्रतीतेः कथं विभ्रमत्वमिति चेन्मैवम्, बाधविधुरत्वरहेतोरसिद्धत्वात् । सन्ति हि भेदप्रत्तीतेरपरोक्षत्वादियौक्तिकबाधाः, तेचेह विस्तरभिया नोपन्यस्यन्ते । नापि द्वितीयः, अद्वैते तात्पर्याभावस्याऽसिद्धत्वात् । नहि तात्पर्यलिङ्गेषु सत्स्वपि तात्पर्यविरहः शक्याभिधानः । नच तात्पर्यलिङ्गानि न सन्ति, उपक्रमोपसंहारैकरूप्यादीनां षण्णामपि तेषां श्रुतिशिखरवचननिचयेषूप- लम्भात् । अपिच ब्रह्मण्यभ्युपगम्यमाना धर्मास्ततो भिन्ना अभिन्ना भिन्नाभिन्ना वा? आद्ये सम्बन्धोऽस्ति न वा? न चेत्, न ते ब्रह्मधर्माः स्युः । असम्बन्धेऽपि तद्धर्मत्वे-सर्वः सर्वधर्मः स्यात् । अस्तिचेत्, तत्र वक्तव्यम्-सम्बन्धस्य सम्बन्धिभ्यां सह सम्बम्धोऽस्ति न वा? न चेत्, कथं सम्बन्धिता स्यात् । अस्ति चेत्, तस्यापि सम्बन्धान्तराभाभावे तदीयत्वानुपपत्तौ सम्बन्धान्तरस्याऽवश्याभ्युपगम्यत्वेऽनवस्थापातात् । द्वितीये-धर्म्येव न धर्म इत्यस्मदभिमतसिद्धिः । इदमेवाभिप्रेत्य प्रथमभाष्यव्याख्यानावसरे पञ्चपादिकाचार्यैरभिहितं - ``आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा'' इत्यादिना । तृतीयस्तु विरोधग्रस्ततयाऽनुपपन्न एव । नहि भेदोऽभेदश्च सहावस्थातुं शक्नुतः । तस्मान्निर्धर्मकमेव ब्रह्मेति तत्र प्रवर्तमानानामुक्तन्यायेनाखण्डार्थत्वमेष्टव्यम् ॥ ६॥
एवं रामपदनिरुक्तिव्याजेन निर्गुणब्रह्म ``चिन्मय'' इत्या'द्यभिधीयत'' इत्यन्तेन प्रतिपाद्य तदेव सगुणत्वेन कल्पितमित्याह - ``चिन्मयस्ये'' त्यादिभिश्चतसृभिः कण्डिकाभिः ।
चिन्मयस्याद्वितीयस्य निष्कलस्याऽशरीरिणः ॥
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥
चिन्मयस्य- चिदेकरसस्य अद्वितीयस्य- सजातीयविजातीयस्वगतभेदशून्यस्य निष्कलस्य-वस्तुतो मायारहितस्य । दशरथादाविर्भूतत्वेन शरीरित्वशङ्कां वारयति-अशरीरिणः- मायाविराहिणोऽहङ्कारा- भावान्मायाकार्यदेहाऽनाकलितस्यैवम्भूतस्य श्रीरामशब्दाभिधेयस्य परस्य वस्तुनो रूपकल्पना- चतुर्भुजादिवक्ष्यमाणरूपकल्पना क्रियते ।
नन्वियं कल्पना नावकल्पते फलवैकल्यादत आह-उपासकानामिति । ननु किमिदं कार्यम् । फलमिति ब्रूमः । कथं कार्यपदं फले प्रवर्तते । कृतिविषयत्वात् । ननु तर्हि भारवहनादिकमपि फलं स्यात्, नहि तस्य कृत्यविषयत्वमस्ति । अस्तु भारवहनादेरपि कृतिविषयत्वम्, नैतावतापि तस्य फलत्वापत्तिः । कृत्युद्देशत्वरूपस्य विषयत्व- स्याऽभावात् । कृत्युद्देशत्वमेव च फलत्वमिति नानुपपत्तिः । ननूपासका इह सगुणोपासका उत निर्गुणोपासकाः? प्रथमे- तेषां कस्मै फलाय रूपकल्पना? किं सगुणस्य प्राप्तये निर्गुणस्य वा?आद्ये- सगुणं पारमार्थिकमपारमार्थिकं वा? प्रथमेऽपि - तयोर्भेदः पारमार्थिकोऽस्ति न वा? प्रथमेऽद्वैत- भङ्गप्रसङ्गः । न द्वितीयः, सगुणत्वं निर्गुणत्वं चोभयं पारमार्थिकमङ्गीकृत्य सगुणनिर्गुणयोः पारमार्थिक- भेदानङ्गीकारे विरोधापत्तेः । अथ अपारमार्थिकमेव सगुणं रूपमिति पक्षं श्रेयांसं मन्यसे, तथापि न तादृशरूपावाप्तिः फलकोटौ निवेष्टुं शक्नोति । अपारमार्थिकरूपावाप्तेः केनचिदनभिलष्यमाणत्वात् । नापि निर्गुणत्वप्राप्तये रूपकल्पनेति पक्षः । सगुणोपासकानां निर्गुणप्राप्त्यनुपपत्तेः । नो खलु चित्राकारीर्याद्यनुष्ठायिनो ज्योतिष्टोमादिसाध्यस्वर्गाद्यवाप्तिः । अथोपासकशब्देन निर्गुणरूपनिष्ठा एव विवक्षितास्तर्हि तेषामपि फलायैव रूपं परस्य ब्रह्मणः कल्पनीयम् । तञ्च फलं न पश्यामः । न तावत्सगुणावाप्तिः, तदर्थं तैरुपायाननुष्ठानात् । अननुष्ठितोपायानामभ्युपेयप्राप्तावतिप्रसङ्गात् । अस्तु वा यथा तथा, तथाप्युच्चाभिलाषिणां नीचावाप्तिः कथं नाम फलतामाकलयेत्? अथ निर्गुणावाप्तिरेव फलमिति मन्यसे, न । तस्या गगनकुसुमायमानत्वात् । गगनकुसुमायमानत्वाभावेऽपि वा दुर्लभत्वात् । नहि दृढतरसंसारवासनावासितमनाःसौलभ्येनाकलयितुंशक्नोति । नचाऽत्यन्तदुर्लभस्य फलत्वमुपपद्यते । महाराजेन भुज्यमानस्यापि राज्यस्य राज्यप्रापकाऽदृष्ट- विरहितानपि प्रति फलत्वापत्तेः । तस्मात् ``उपासकानां कार्यार्थ''मित्यनुपपन्नमेवेति ।
अत्रोच्यते- उपासकशब्देनेह न निर्गुणनिष्ठा अभिधीयते, किं तर्हि सगुणनिष्ठा । ``ब्रह्मणो रूपकल्पना'' इत्युक्तेः । नह्युपासनाय कल्पितरूपोपासना निर्गुणनिष्ठा भवितुमर्हति । नच सगुणोपासनायाः फलाभावः, सगुणप्राप्तेः फलत्वात् । ननु सगुणमपारमार्थिकं अपारमार्थिकं च न फलं भवितुमर्हतीत्युक्तम् । सत्यम्, तथापि तस्य व्यावहारिकपारमार्थिकत्वाङ्गीकारेण फलत्वमुपपद्यत एव । नहि व्यवहारतः सत्यं स्वर्गादिकं न दर्शपूर्णमासादेः फलम् । ननु सांसारिकाणामनित्यमपि स्वर्गादिकमस्तु, मुमुक्षूणां नित्यनिरतिशयफलार्थिनां कथमीदृशसगुणप्राप्तिः फलमिति । भवेदेवम्, यदि सगुणप्राप्तिः परमं फलमिति ब्रूमः । किं तर्हि अवान्तरफलमिति वदामः । किं तर्हि परमफलम्? नित्यनिरतिशयानन्दनिर्गुणावाप्तिः । नत्वस्याः सगुणोपासना-साध्यत्वमनुपपन्नम् । अन्तःकरणशुद्धिद्वारा तदुपपत्तेः । श्रूयते ``हि- ``तमेतं वेदानुवचनेन'' इति । ननु तर्हि अन्तःकरणशुद्धिद्वाराऽन्यत्र विनियुक्तायाः सगुणोपासनाया निर्गुणप्राप्त्युपायता नोपपद्यते । नह्यन्यत्र विनियुक्तमन्यत्र शक्यविनियोगम् ।
मैवम्, संयोगपृथक्त्वेन तदुपपत्तेः । तथाचाऽऽह परमर्षिः- ``एकस्य तूभयत्वे संयोगपृथक्त्व'' मिति । ननु अभिलषितफलं नित्यं रूपकल्पना चाऽनित्या, तया तदवाप्तिः कथं फलम् । नहि गन्धर्वनगरराज्याभिषिक्तेन सुतेन मुखसम्पत्तिर्वन्ध्यायाः । न, ब्रह्मव्यतिरिक्तसत्यत्वाङ्गीकारे द्वैतापत्तिः । ननु द्वैतभीत्या प्रमात्रादिसत्यत्वमनङ्गीकुर्वतः शास्त्रानर्थक्यं दुर्वारमिति चेन्न, युक्तिभिरस्य चोद्यस्य परिहरणीयत्वात् । तथाहि-प्रमातर्यसति प्राप्तव्यस्य प्राप्तिः सति वा? नाद्यः, प्राप्तुरभावे प्राप्तिक्रियाया एवानुपपत्तेः । नहि छेत्तुरभावे छिदिक्रिया सत्यपि च्छेत्तव्ये वृक्षादौ दृष्टचरी । अतः सति प्रमातरि प्राप्तव्यस्य प्राप्तिरिति वक्तव्यम् । तदा श्रुत्याचार्यादिरूपकल्पनाया अस्त्येव सत्यत्वम् । तत्तु प्रातीतिकं, व्यावहारिकं, पारमार्थिकं चेति त्रिविधम् । तत्र पारमार्थिकं नाम - सत्यसति वा प्रमातरि सर्वथा बाधरहितत्वम्, तद्ब्रह्मण एव । सति प्रमातर्यबाध्यत्वं व्यावहारिकम्, यथाऽऽकाशादेः । सति प्रमातरि बाध्यत्वं प्रातीतिकम्, यथा प्रतिबिम्बादौ । तदस्त्येव रूपकल्पनायाः । तस्यां चार्थक्रियाकारित्वमपि युक्तम् । भास्करप्रतिबिम्ब, तस्करपदान्वेषण, स्वप्नकामिन्यादीनां भास्करतस्करोपस्करादिप्राप्तिहेतुत्वात् ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने ॥
इति श्रुतेः । बन्ध्यासुतादेस्तुच्छत्वान्न दृष्टान्तता ।
तथाचोक्तं वार्तिककृद्भिः-
अक्षमा भवतः केयं साधकत्वप्रकल्पने ।
किं न पश्यसि संसारं तत्रैवाऽज्ञानकल्पितम् ॥
इति । तस्माद्रूपकल्पनयोपासकस्य श्रीरामाख्यस्य परब्रह्मणोऽवाप्तिः सुलभेत्यलमतिकुतर्केण ॥ ७॥
सामान्येनोक्ताया रूपकल्पनाया विशेषमन्तरेणापर्यवसानाद्विशेषे पर्यवसानमाह-रूपस्थानामिति ।
रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ॥
द्विचत्वारिषडष्टाऽऽसां दश द्वादश षोडश ॥ ८॥
अष्टादशाऽमी कथिता हस्ताः शङ्खादिभिर्युताः ॥
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥
शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ॥
कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥
रूपमिह सगुणं हिरण्यगर्भादिशब्दितम् । ``ब्रह्मणो रूपकल्पने'ति कल्पनाविषयत्वेनोक्तस्य रूपस्य निर्गुणत्वानुपपत्तेः । अतो रूपकल्पनेत्युक्तम् । तस्यैव रूपस्य प्रत्यभिज्ञानात्सान्निध्याच्च ``रूपस्थानामि''त्यत्रापि ग्रहणमुचितम् । रूपे तिष्ठन्तीति रूपस्यास्तासां देवतानां यथारुचि विष्ण्वादीनां पुंस्त्र्यङ्गास्त्रादिकल्पना-पुमान् ``विष्णुः शिवो ब्रह्मे''त्यादिरूपेण स्त्री ``लक्ष्मीर्गौरी सरस्वती'त्यादिरूपेण अङ्गानि हृदयाद्यात्मना अस्त्राणि सुदर्शनाद्यात्मना आदिपदगृहीताऽऽवृतिदेवतात्मना च कल्पना स्यात् । किञ्च द्व्यादिसहस्रान्ता हस्ताः शङ्खादिभिरायुधैर्युता अमी आसां-कल्पितदेवतानां कथिता-उक्ताः श्रुत्यनुरोधेन कल्पविद्भिः । अत्र च ``रूपस्थाना'मित्यादि ``सहस्रान्ता'' इत्यन्तैका कल्पना, तथा- तेनैव प्रकारेण शुक्लादिवर्णकल्पना द्वितीया, गरुडादिवाहनकल्पना तृतीया, चतुर्थी विष्वक्सेनादिसेनाकल्पना, विमलादिशक्तिकल्पना पञ्चमी । एवं पञ्चविशिष्टां सङ्ख्यां वाचकशब्देनोपसंहरति- ब्रह्मणि- श्रीरामे एवम्- उक्तेन प्रकारेण । हिशब्दः प्रसिद्धिद्योतकः । पञ्चधा- पञ्चभिः प्रकारैः कल्पना भवतीत्यर्थः ।
अनेन विष्णुशिवादिसाधारणदेवताकल्पना दर्शिता । इदानीं प्रकृत्य श्रीरामाख्यस्यैव परस्य ब्रह्मण उपासनोपयोगिनीं कल्पनामनुसन्धत्ते-'कल्पितस्य शरीरस्य तस्य सेनादिकल्पने'त्यर्धेन । तस्य शरीरस्येति व्यधिकरणे षष्ठ्यौ । तस्य- श्रीरामस्य यत् शरीरं कल्पितं वक्ष्यमाणचतुर्भुजादिरूपेण, तस्य सेनादिकल्पना भवति । वर्णादिरादिशब्दार्थः । नचेयं कल्पना- निरर्थिका, उपासनार्थत्वादिति ब्रूमः ॥ ८-१०॥
ननूपासनमिदं न रूपकल्पनामात्रेण सिध्यति, किन्तु मन्त्रानुष्ठानेन । अतो वक्ष्यमाणं राममन्त्रानुष्ठानं कर्तव्यं चेत्तर्हि ब्रह्मादिदेवतामन्त्रानुष्ठानमवज्ञातं स्यादत आह-ब्रह्मादीनामिति ।
ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः ॥
जप्तव्यो मन्त्रिणा नैनं विना देवः प्रसीदति ॥ ११॥
अयमित्यनेन वक्ष्यमाणषडक्षरो मन्त्रराजः प्रतिसन्धीयते । ब्रह्मादीनां देवतानां श्रीरामाद्भेदाभावेन श्रीराममन्त्रो ब्रह्मादिवाचक एव । अतो राममन्त्रानुष्ठानेन ब्रह्मादिमन्त्रानुष्ठानमपि भवति, इति न भवति ब्रह्मादिमन्त्रानुष्ठानावज्ञेति भावः । मन्त्रराजस्य सर्वेभ्यो मन्त्रेभ्य उत्कर्षादि दर्शयिष्यन् विशिनष्टि अन्वर्थादिसंज्ञक इति । सर्वान् अर्थान्-आकाशादीन् वाच्यात्वाचकत्वेनाऽनुगतवती आदिः - श्रेष्ठा संज्ञा रामानामरूपा यस्मिन् स तथा । ``शेषाद्विभाषे''ति बहुव्रीहौ कप्रत्ययः । अनेन ब्रह्मादिमात्रविषयत्वेन प्रापितमस्य मन्त्रस्य वाचकत्वसङ्कोचं सर्वार्थवाचकत्वोपन्यासेन वारयति । नन्वेवमस्तु मन्त्रराजो ब्रह्मादिवाचकः सर्वत्रस्तुवाचको वा, तथापि प्रवृत्तिनिवृत्त्यन्यतरानुपदेशाद्वाचकत्वप्रतिपादकवचनस्य न शास्त्रत्वं स्यात् । यदाहुः-
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥
इति । तत्राह- जप्तव्य इति । लिङ्लोट्तव्यप्रत्यया हि विधायकाः । अतो ``जप्तव्य'' इत्ययं तव्यप्रत्ययान्तो विधिरेव । अत एव तद्विधिप्रतिपिपादयिषयैवोपन्यस्तं वाचकत्वप्रतिपादकं वचनं पुरुषप्रवृत्तिपर्यवसायितया शास्त्रं भवतीति भावः । ननु ``जप्तव्य'' इति न विधिः, विधित्वे प्रमाणाभावात् । तव्य- प्रत्यय एव प्रमाणमिति चेन्न, तस्य व्यभिचारात् । कथमिति चेत्, ``विष्णुरुपांशु यष्टव्य'' इत्यादीनां विधित्वे प्रामाण्यानभ्युपगमात् । कुतो न प्रामाण्यमभ्युपगम्यते इति चेत्, विष्ण्वादियागविधीनामभ्युपगमे वाक्यभेदापत्तेः । वाक्यैक्यासम्भवे वाक्यभेदो न दोषायेति चेत् - भवेदेवम्, यदि वाक्यैक्यासम्भवः स्यात् । नचेह वाक्यैक्यासम्भवः, वाक्यैक्यस्यावश्यकत्वात् । कुतोऽस्यावश्यकत्वमितिचेत्, उपक्रमोपसंहारैकरूप्यतात्पर्यलिङ्गेनैकवाक्यत्वमतीतेर्दुर्बाधत्वात् । ``जामि वा एतद्यज्ञस्ये'त्यत्र हि जामितादोषेणोपक्रमः अजामित्वायेति प्रतिसमाधीयमानो जामितादिदोषेणैवोपसंहारः । नन्वेवं ``यष्टव्य'' इत्यादौ विधिविरहश्चेत्तव्यप्रत्ययस्य का गतिः? विधिस्वरूपत्वमिति ब्रूमः । नन्वेवं ``जप्तव्य'' इत्यत्रापि विधिविरहे विधिस्वरूपत्वमस्तु । मैवम्, विधित्वे बाधाभावाद्विधिविरहवाचोयुक्तेरनुपपत्तेः । तस्मात् श्रोतव्य इतिवत् जप्तव्य इत्यपि विधिरेव । नत्वनागतोत्पाद्यभावनाविषयो विधिः । स च न विषयभूतभावनानभ्युपगमे शक्याभ्युपगमः । विषयाभावे विषयिणात्मलाभासम्भवात् । अतो विषयभूता भावना अवश्याभ्युपगन्तव्या । सा च ``किं केन कथम्'' इत्यंशत्रयवती । तत्र किं भावयेदित्याकाङ्क्षायां मोक्षं भावयेत् । केन कथं ब्रह्मचर्यादिभिरुपकृत्य ।
नतु भावना भवनप्रयोजको व्यपारः, स च प्रयत्नः परिस्पन्दो वा । अत्र जपविधौ न तावत्पुरुषप्रयत्नो भावना । भवितुमर्हति, भाव्याभावात् । ननु ``मोक्षो भाव्य'' इत्युक्तम्, सत्यमुक्तम् । नित्यस्य तस्य भाव्यत्वं न सम्भवतीति ब्रूमः । नहि मोक्षस्य नित्यत्वे कस्यापि विप्रतिपत्तिरस्ति । अत एव न परिस्पन्दो भावनेत्यपि सुवचम् । मानसजपाव्याप्तेश्च । नहि मानसेन जपेन मोक्षे भाव्ये शरीरपरिस्पन्दोऽपेक्ष्यते । तस्माद्भावनाया असम्भवात्तद्विषयको विधिरिह न सम्भवतीति ।
अत्रोच्यते- किं मोक्षस्य घटादेरिव पारमार्थिकं भाव्यत्वं न सम्भवतीत्यभिधत्से? किं वाऽनाद्यनिर्वाच्याविद्यातिरोहितस्य मोक्षस्य श्रीरामसाक्षात्कारावान्तरव्यापारवता जपेनाभिव्यक्तिलक्षणमपि भाव्यत्वं न सम्भवतीति । आद्ये-सम्प्रतिपत्तिरेवोत्तरम् । नहि वयं न मोक्षस्य नित्यत्वमभ्युपगच्छामः । द्वितीयं तु न सहामहे । नहि मोक्षस्याभिव्यक्तिलक्षणभाव्यत्वाङ्गीकारे नित्यत्वव्याघातः । तस्माद्भाव्यसद्भावेन भावनासद्भावात्तद्विषयो विधिरवश्याभ्युपगन्तव्य इति सिद्धम् । प्रयोगश्च ``जप्तव्य इत्ययं विधिः अंशत्रयवत्त्वात् दर्शपूर्णमासाभ्यां यजेते'तिवत् । नच त्रितन्तुकपटेनाऽनैकान्तिकता शङ्क्या, अंशशब्देनेह ``किङ्केनकथमा'मेवात्र विवक्षितत्वात् । नच पटस्य भावनाया इव ``किङ्केनकथ'' मंशवत्ता सम्भाविनी । नच किमाकाङ्क्षोपशमकभाव्यांशाभावादसिद्धो हेतुरितिवाच्यम्, सम्प्रत्येव भाव्यस्य प्रतिपादितत्वादिति ।
ननु कोऽयं विधिरित्यस्य विधिरेवेत्युत्तरम्, को घट इत्यस्यघट एवेत्युत्तरमनुसरतीति चेत्-अथ कथमिदमुत्तरम्, यदुदाहरणोपन्यासेन विधिप्रश्नोत्तरस्याभावसत्त्वमापादयति । जिज्ञासितार्थविषयानवबोधाऽनवधूननादिति ब्रूमः । नहि जिज्ञासितस्य घटस्यानवबोधो घट इत्यभिधानमात्रेण शक्यावधूननः ।
अत्र ब्रूमः - प्रश्नवाक्यगतो विधिशब्दो विधिमाह, उत्तरवाक्यगतस्तु तद्विशेषम् । अपूर्वत्वेन विशेषितो हि विधिरुत्तरवाक्यगतविधिपदार्थः अतो विधिरेवेत्युत्तरं नानुपपन्नमिति । मैवम्, जप्तव्य इति विधेरपूर्वविधित्वस्याशक्याभिधानत्वात् । अत्यन्ताप्राप्तप्रापणं ह्यपूर्वविधिः । नच जप्तव्य इत्यनेनात्यन्तमप्राप्तं जपस्य मोक्षसाधनत्वं प्राप्यते । ``जप्येनैव तु संसिद्धि'रित्यादिना प्राप्तत्वात् । नच प्राप्ते वाऽपूर्वविधिरिति वक्तुं शक्यते, ``विधिरत्यन्तमप्राप्ते'' इति तल्लक्षणाभिधानात् । अथ नियमविधिरस्तु । मैवम्, नियमो हि पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणमिष्यते । नच जप्तव्य इत्यत्रैतल्लक्षणमिति, येनायं नियमविधिः स्यात् । मोक्षस्य हि न जपव्यतिरेकोपायसाध्यतापक्षोऽस्ति, येन तं परित्यज्य मोक्षो जपोपा-यसाध्यत्वपक्षेऽवस्थाप्यते । यथा हि भोजनस्य दिगन्तरावच्छेदं यदृच्छया प्राप्तं परिहायाऽप्राप्तपूर्वदिगवच्छेदपक्षे प्राप्यते तत् ``प्राङ्मुखोऽन्नानिभुञ्जीते'ति, न तथेहेति वैषम्यम् । ``नियमः पाक्षिके सती'ति तल्लक्षणाभिधानात् । तर्हि परिसङ्ख्यैव भवतु प्रकारान्तराभावादिति चेत्, इदमपि न सुन्दरम् । तल्लक्षणलक्षितस्य हि तत्त्वं वक्तव्यम् । अन्यथा घटस्यापि पटत्वापत्तेः । नच जप्तव्यमित्यत्र परिसङ्ख्यालक्षणमस्ति । तत्खलु - एकस्यानेकत्र प्राप्तस्यान्यतो विनिवृत्त्यर्थमेकत्र पुनर्वचनं परिसङ्ख्येति । नच जप्तव्य इत्यत्रैतल्लक्षणं योजयितुं शक्यते । तथाहि- गर्दभाभिधान्यादानेऽश्वाभिधान्यादाने च ``इमामगृभ्णन् रशनामृतस्ये'स्यस्य मन्त्रस्य रशनाप्रकाशनसामर्थ्यलक्षणेन लिङ्गेन विनियोगे प्राप्ते ``इत्यश्वाभिधानीमादत्ते'' इति ब्राह्मण- वाक्यं विधिरूपमश्वाभिधान्यादाने विनियुङ्क्ते गर्दभाभिधान्यादानाद्विनिवर्तनाय । अन्यथा ब्राह्मणवाक्यस्य लैङ्गिकार्थानुवादित्वेनाप्रामाण्यापत्तेर्विधित्वभङ्गप्रसङ्गात् । नच लिङ्गादीनामभावाद्ब्राह्मणवाक्यं न विधिः, आदत्ते इत्यस्य पञ्चमलकारत्वेनात्र विधेरावश्यकत्वात् । एवमत्र मोक्षस्य जपतदितरोभयसाध्यत्वप्राप्तौ जपसाध्यताभिधानं साधनान्तरसाध्यत्वनिवृत्त्यर्थं भवतीति परिसङ्ख्या स्यात् । तथाच नास्ति, तस्मान्न परिसङ्ख्याविधिरिति स्थितम् ।
``तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते''
इति तल्लक्षणस्योक्तत्वात् । अतो जप्तव्य इत्यस्य त्रिविधविध्यनन्तर्भावाद्विध्यन्तराभावाच्च न विधिनाऽपि जप्तव्य इति शक्याभिधानमिति प्राप्तम् ।
अत्रोच्यते- यदुक्तम्- न नियमविधिर्नच परिसङ्ख्याविधिरिति, तदनुमन्यामहे । यत्तु-नापूर्वविधिरिति, तत्तु न मृष्यामः । जप्तव्य इत्यस्य प्रमाणान्तराप्राप्तं यद्राममन्त्रस्य मोक्षसाधनत्वं तत्प्रापकत्वात् । नच ``जप्येनैव हि संसिद्ध्ये'दित्यादिना तत्प्राप्तमिति वाच्यम्। ``जप्येने'त्यादेः स्मृतित्वेन जप्तव्य इति प्रापणीयार्थप्रापकत्वोपपत्तेः । नहि श्रुतिः स्मृतिप्रापितमर्थं प्रापयति, किं तर्हि स्मृतिरेव श्रुतिमापितार्थप्रापिका । मन्वादयो हि स्मर्तारः श्रुतितोऽवगतमेवार्थं स्मृत्योपनिबध्नन्ति । इतरथा हि तद्वचनानामफलत्वेन कल्पितत्वापत्तेः । नहि पौरुषेयाणां वचनानां, वैफल्ये प्रामाण्यं दृष्टमिष्टं वा । नच श्रुतावप्ययं प्रसङ्गः, तस्या अपौरुषेयत्वात् । पौरुषयत्वे च पुरुषस्य सम्भावितरागादिदोषतया तत्प्रणीताया अप्रामाण्यापत्त्यवश्यम्भावात् । तस्मात् प्रमाणान्तराप्राप्तार्थप्रापकत्वेन ``जप्तव्य'' इत्ययमपूर्वविधिरिति सिद्धम् ।
जपविधेरधिकारिविरहेऽनुपपत्तेरधिकारिणमाह-मन्त्रिणेति । गुरुतो गृहीतमन्त्रेणेत्यर्थः । जप्तव्य इति वैधस्य जपस्य विपक्षे बाधकप्रदर्शनेनाऽवश्यकर्तव्यतां द्रढयति- नैनं विनेति । एनं-राममन्त्रजपं विना देवो -द्योतनात्मकः स्वयम्प्रकाशो रामो न प्रसीदति । सविलासाविद्यालक्षणमकाऽपगमेन स्वाभिन्नतया न प्रकाशत इत्यर्थः ॥ ११॥
ननु क्रियाभेदोऽस्ति न वा? नाद्यः, अद्वैतमङ्गप्रसङ्गात् । न द्वितीयः । क्रियाभेदाभावेन तद्गर्भस्योपासनस्यानुपपत्तेरत आह- क्रियेत्यादिना ।
क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ ॥
मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥
क्रिया च कर्म च इज्यश्च कर्ता च तानि तथा तेषाम् । क्रिया - मन्त्रोपासना, कर्म- तदङ्गभूतं होमादि; इज्यः- यजनीयो भगवान् रामः, कर्ता-उपासकः एतेषामर्थनिवृत्तिं भेदापाकरणरूपां मन्त्रो वदति । सर्वात्मरामपरस्य मन्त्रस्येतरभेदप्रपञ्चनिवृत्तिनान्तरीयकत्वात् ।
``अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु''
``इति'' कोशकारः । अधुना राममन्त्रशब्दनिरुक्तिं दर्शयन् ``ब्रह्मादीना'मित्यत्र स्पष्टमुक्तं सर्ववाचकत्वं विशदयति-अथेति । अथ - गुरूपदेशानन्तरं यन्मननं-तत्वस्यानुचिन्तनं तस्मात्, त्राणं रक्षणं सहेतुकात्संसारादुपासकस्य तस्य करणं त्राणनं तस्माच्चेति व्याख्येयम् । अन्यथा त्राणादियेव वक्तव्यं स्यात् । यदाहुः शङ्करभगवत्पूज्यपादाः-
``मननात्तत्त्वपदस्य त्रायत इति मन्त्रमुच्यते भयतः''
इति । तत्त्वपदस्येत्यबाध्यस्वरूपस्येत्यर्थः ॥ १२॥
ब्रह्मादिभेदप्रपञ्चः श्रीरामाद्भिन्नतया निरूपयितुमशक्यो वाच्यः, मन्त्रराजो वाचक इत्युभयविशिष्टस्य श्रीरामस्य बाह्यपूजोपयोगि यन्त्रं शरीरत्वेन निरूपयति-सोभयस्येति ।
साभयस्याऽस्य देवस्य विग्रहो यन्त्रकल्पना ॥
विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥
यन्त्र कल्पना- कल्प्यमानं यन्त्रं वक्ष्यमाणं विग्रहः शरीरमित्यर्थः । शङ्खचक्रादिमत्त्वेन कल्पितं शरीरम्, तस्मिन्नेव पूजोपपत्तौ किं यन्त्रेणेति तत्रहि - विनेति । अलौकिके ह्यर्थेशास्त्रमेव प्रमाणमिति भावः । प्रसीदतीति व्याकृतम् । इतिशब्दः प्रथमोपनिषत्समाप्तौ ॥ १३॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्य-आन्दवनविरचितायां श्रीरामपूर्वतापिनीयटीकायां रामकाशिकायां प्रथमोपनिषत्
समाप्ता ।
अथ द्वितीयोपनिषत् ।
नैनं विना देवः प्रसीदती'ति ``देवता न प्रसीदती'त्यनयोर्देवदेवताशब्दयोः श्रीरामस्य परमात्मनो ज्ञानाधारतया द्योतनात्मकत्वोपस्थापकत्वेनापि चरितार्थयोर्न नियमेन स्वयम्प्रकाशोपस्थापकत्वं सिध्यतीत्यनन्यथासिद्धेन शब्देन स्वयम्प्रकाशत्वसाधनव्याजादुपक्षिप्तस्य मायाऽनुपहितस्य प्रकृतस्यैव रामनामधेयस्य परमात्मनस्त्रिगुणात्मकमायोपाधिवशाज्जगत्सृष्टिस्थितिलयकारणेन विराठिरण्यगर्भाऽव्याकृता- वस्थायोगित्वं दर्शयन्नैव रामनामपरमात्माऽभिन्नस्य मन्त्रराजावयवस्य रेफाऽकारमकाराक्षस्त्रयात्मकस्य बीजस्यार्थं दर्शयितुं द्वितीयामुपनिषदमारभते- स्वभूरित्यादिना ।
स्वभूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ॥
जीवत्वेनेदमों यस्य सृष्टिस्थितिलयस्य च ॥ १॥
ननु घटादिवद्रामस्य वस्तुत्वात्सकारणता स्यात् । रामस्य दशरथं पितरमभ्युपगच्छतामवश्याभ्युपगन्तव्या सेत्याशङ्क्याह - स्वभूरिति । ननु ``स्वयमेव भवती'ति स्वभूः, ``स्वत एव भवती'ति वा? नाद्यः, भवतेः कारणमन्तरेण भवनानुपपत्तेः । उपपत्तौ वा सर्वदा भवनापत्तेः, नियामकाभावात् । कारणमेव हि कार्यस्य कादाचित्कत्वे नियामकम् । नच स्वयमेव भवतीति ब्रुवता कारणमिष्यते । न द्वितीयः, स्वस्यैव स्वं प्रति कारणत्वे विरोधात् । कारणत्वं नियतपूर्वभावित्वं कार्यत्वं च नियतपश्चाद्भावित्वम् । नच तदेव स्वं प्रति पूर्वभावि पश्चाद्भावि च भवितुमर्हति । तस्मात् ``स्वभू'रित्युक्तिरयुक्तेति ।
अत्रोच्यते- उभयथापि नानुपपत्तिः । नच स्वयमेव भवतीति विग्रहवाक्यस्य विना कारणमुत्पद्यत इत्यर्थः, किं तर्हि स्वसत्तायां कारणं नापेक्षत इत्यर्थः । नहि नित्यस्य कारणापेक्षा सम्भवति । नापि ``स्वस्मादेव भवती'त्यस्यापि वाक्यस्य स्वस्य स्वयं कारणमित्यर्थः, येन विरोधः । किं तर्हि कारणान्तरान्नोत्पद्यत इत्यर्थः । तर्हि स्वस्मादुत्पद्यत इति प्राप्तमेवेति चेन्न, ``स्वयं दासास्तपस्विन'' इत्यत्रेवाऽत्राप्याक्षेपाऽनवकाशात् । तस्मात् स्वभूरियनेन अकारणत्वमेव विवक्षितम् । नच सकारणत्वानुमानव्याकोपः, वस्तुस्वहेतोर- नैकान्तिकत्वात् । अस्ति ह्याकाशादौ वस्तुत्वं नास्ति सकारणत्वमिति । यदि कश्चित् ब्रूयात्- आकाशादयोऽपि पक्षतुल्या इति तं प्रति वस्तुत्वस्याप्रयोजकत्वमुद्भावनीयम् । घटादौ सकारणतायाः परिच्छिन्नत्वप्रयुक्तत्वात् । नच पक्षीकृते भगवति परिच्छिन्नता । किं च दृष्टान्तस्य साधनवैकल्येनापि नेदमनुमानं साधु । नहि वस्तुत्वं घटादौ समस्ति, परिच्छिन्नत्वात् ``अतोऽन्यदार्त'मिति श्रुतेश्च । यथोक्तम्- दशरथः पितेति रामस्य सकारणत्वमिति, तत्र वक्तव्यम्- किं शरीरस्य सकारणत्वमुत तदधिष्ठातृरामस्य? आद्यमभ्युपगच्छामः । नहि तदभ्युपगमे किमप्यभिलषितमपगमिष्यति । द्वितीयं तु न सहामहे, शरीराधिष्ठातॄणामशेषाणामप्यात्मनां सकारणत्वापत्तेः । सकारणत्वनिषेधकबहुत्तरनिगमवचननिचयोपलम्भादपि न भगवतः सकारणत्ववाचोयुक्तिर्युक्तिमती । तस्मान्न सकारणो भगवानिति ``स्वभू'रिति युक्तमुक्तमिति ॥
तस्य स्वपुत्रो घटादिवत् परप्रकाश्यतां व्यावर्तयति-ज्योतिर्मय इति । ज्योतिरेव ज्योतिर्मय इति स्वार्थिको मयट् । ज्योतीरूप इत्यर्थः । मयटो विकारार्थत्वं हि न समाश्रयितुं युक्तम्, वस्तुतः कार्यकारणत्वविरहितस्य ज्योर्तिर्विकारित्वेन कार्यत्वापत्तेः । तस्य परिच्छेदं वारयति-अनन्तरूपीति । अनन्तानि रूपाण्यस्य सन्तीति तथा । सर्वात्मक इत्यर्थः । अयमर्थः पूर्वमनेकश ईरितोऽप्यत्र पुनरीर्यते, श्रुतेस्त्रार्थे तात्पर्यप्रदर्शनात् । अभ्यासो हि तात्पर्यलिङ्गमिष्यते । यदाहुः- ``उपक्रमोपसंहारावभ्यास'' इत्यादि । ननु न ``ज्योतिर्मय'' इत्यनेन स्वयम्प्रकाशताप्राप्त्यवश्यम्भावः, सूर्यादीनां ज्योतिष्ट्वेऽपि स्वप्रकाशत्वाभावात् । ननु स्वयं प्रकाशन्ते सूर्यादयः, न । घटादिवत्तेषामपि ज्ञानप्रकाश्यत्वात् । ननु घटादयः स्वपरिस्फुरणे तेजोऽपेक्षन्ते न सूर्यादय इत्यस्ति विशेष'' इति चेत्, को ब्रूते नास्तीति । सूर्यादीनां न घटादिवत् ज्ञानेन प्रकाश्यत्वं विहन्तुं शक्यतैतिः । अतो ज्योतीरूपत्वेन कथं स्वप्रकाशतासिद्धिः परमात्मन इत्यत्राह- स्वेनैवेति । स्वयम्प्रकाशश्चिन्मात्र इत्यर्थः ।
ननु स्वप्रकाशत्वमतिदुर्लभम्, तल्लक्षणाविरहात् । लक्षणतो हि वस्तुसिद्धिमिच्छन्ति लाक्षणिकाः । लक्षणं च न भवता स्वप्रकाशस्य स्ववाचि । ``स्वसत्तायां प्रकाशाव्यतिरेकित्वमेव स्वप्रकाशार्थ इति चेन्न, सुखादावतिव्याप्तेः । नहि सुखादिकं स्वसत्तायां घटादिवत् प्रकाशव्यतिरेकिः । समानजातीय- प्रकाशाऽप्रकाश्यत्वमिति चेन्न । किमिदं समानजातीयप्रकाशाप्रकाश्यत्वं विजातीयप्रकाशप्रकाश्यत्वे पर्यवस्यति, न वा? प्रथमे- न स्वप्रकाशत्वसिद्धिः । नहि प्रकाश्यत्वं स्वप्रकाशतां न विनिहन्ति । प्रकाश्यस्य प्रकाशविषयत्वाव्यतिरेकात्, विषयत्वस्य जडत्वनान्तरीयकत्वात् । न चेत्, दीपादावतिव्याप्तिः । नहि दीपादि सजातीयेन दीपादिना प्रकाश्यते । दीपादिः स्वप्रकाश एवेति चेन्न, तस्य चक्षुरादिविषयत्वात् विषयस्य स्वप्रकाशतानुपपत्तेः । अपिच सत्तया सजातीयेन प्रकाशेन प्रकाश्यत्वम्, अवान्तरजात्या वा? आद्ये- सामान्यादावतिव्याप्तिः । नह्यनुवृत्तप्रकाशादिना प्रकाश्यस्यापि सामान्यादेः सजातीयेन प्रकाशेन प्रकाश्यत्वमस्ति, उत्तरत्रिकस्य निर्जातित्वेन कस्मिन्नपि प्रकाशेन तज्जातीयत्वस्य वक्तुमशक्यत्वात् । अत एव न द्वितीयोऽपि । अपिच किमवान्तरञ्जातिः- द्रव्यत्वं गुणत्वं कर्मत्वं ज्ञानत्वं वा? न प्रथमतृतीयौ, ज्ञाने तदसम्भवात् । न द्वितीयः, तत्र हि- गुणत्वजात्या सजातीयेन प्रकाशेनाऽप्रकाश्यत्वमिति स्वप्रकाशकणार्थः स्यात् । तस्येह न कुशलं विलोकयामः । गगनादिष्वतिव्याप्तेः । नहि गगनादिषु द्रव्येषु गुणत्त्वगन्धोऽपि सम्भविता, येन गुणत्वजात्या सजातीयैः प्रकाशैः प्रकाश्यानि गगनादीनि न स्युः । नापि चतुर्थः, अव्याप्तेः । नहि ज्ञानत्वजात्या सजातीयप्रकाश्यत्वं सर्वस्य ज्ञानस्येति स्वमकाशे सम्भवति । अनुव्यवसायज्ञानेन व्यवसायज्ञानस्य प्रकाशनात् । अनुव्यवसायो हि-व्यवसायप्रकाशकं ज्ञानम् । स्वस्य स्वयमेव प्रकाश इति स्वप्रकाशार्थ इति चेत् स्ववृत्त्यापत्तेः । नहि स्वयमेव क्रिया कर्म चेति सम्भवति । अथ स्वयं चासौ प्रकाशश्चेति स्वप्रकाश इति चेन्नैतदपि, ईदृशस्वप्रकाशत्वस्य ज्ञानजडत्वाप्रत्यनीकत्वात् । तार्किकाणामपि हि मते ज्ञानं स्वयम्प्रकाशस्य भवत्येव । तस्मात् स्वप्रकाशे लक्षणाभाव इति सिद्धम् ।
अथ लक्षणाऽभावेऽपि प्रमाणेन भविष्यति स्वप्रकाशसिद्धिरिति चेत्- एतदपि रिक्तम्, प्रमाणाभावात् । न तावत्प्रत्यक्षं स्वप्रकाशे प्रमाणम्, भवन्मते स्वप्रकाशस्येन्द्रियाविषयत्वात् । विषयत्वे वाऽस्य प्रकाशत्वव्याकोपात् । अपिच प्रत्यक्षं प्रमाणं भवेदान्तरं, बाह्यं वा भवेत्? नाद्यः, ज्ञानस्य वेद्यत्वापत्तेः । नह्यान्तरेणावगाह्यमानं ज्ञानमवेद्यं भवितुमर्हतीति । न द्वितीयः, चक्षुरादेर्बाह्यविषयैकरसिकस्याऽभ्यन्तर- स्वप्रकाशप्रकाशकत्वासम्भवात् । अथ योगिप्रत्यक्षं प्रमाणमस्तु, न । भवद्वचनेऽस्माकं विश्वासानुदयात् । व्यवहारे भट्टनयानुसारिभिरित्थमाख्यातुमुचितत्वाच्च । यद्युच्यते-स्वयम्प्रकाशत्वेऽनुमानमेव मानमिति, तन्न । तादृगनुमानाऽनुपलम्भात् । ``अनुभूतिः स्वप्रकाशा अनुभूतित्वात् यन्नैवं तन्नैवं यथा घट'' इत्यनुमानमस्तीति चेन्न, अप्रसिद्धविशेषणतया पक्षस्याऽऽभासत्वात् । नहि पक्षीकृताया अनुभूतेः स्वप्रकाशत्वविशेषणं क्वचिदपि प्रसिद्धम् । अथ पक्षव्यतिरिक्ते क्वापि प्रसिद्धं भविष्यतीति चेत्तर्हि वक्तव्यं - किं तत्र हेतुरस्ति नवा? अस्ति चेत्, केवलव्यतिरेकित्वभङ्गप्रसङ्गः । नहि सपक्षवतो हेतोः केवलव्यतिरेकित्वं भवति । ``पक्षव्यापको विद्यमानसपक्षो विपक्षाद्व्यावृत्त'' इति केवलव्यतिरेकिणो लक्षणात् । न चेत्, अनुभूतित्वहेतोरसाधारणता प्रसज्येत । ``सति सपक्षे पक्षमात्रवृत्तिरसाधारण'' इति तल्लक्षणात् । तस्मान्नेदमनुमानमिह स्वप्रक्राशे प्रक्रमेत । एवमनुमानान्तरनिकारणेऽपि युक्तयः स्वयमुन्नेयाः । नचोपमानं स्वप्रकाशत्वे (प्रमाणम्), उपमानस्य सादृश्यैकविषयत्वात्, स्वयम्प्रकाशत्वस्य च सादृश्याऽनात्मकत्वात् । अर्थापत्तिस्तर्हिस्वप्रकाशतायां मानमस्तु, न । स्वप्रकाशत्वं विनाऽनुपपद्यमानस्य कस्यचिदभावात् । ``अनुपपद्यमानार्थदर्शनादुपपादकभूतार्थान्तरकल्पनमर्थापत्ति'रिति तल्लक्षणम् । नाप्यागमः स्वप्रकाशत्वे साधकोऽस्ति, तादृगागमाऽनुपलम्भात् । ननूपलभ्यत एव ``अत्रायं पुरुषः स्वयञ्ज्योति'रिति । सत्यमुपलभ्यते, न पुनरयं ज्ञानस्वप्रकाशत्वसाधनाय प्रभवति । ज्योतिःशब्देन मनसोऽभिधानात् । नाप्यैतिह्यं स्वप्रकाशत्वे प्रमाणम्, तस्य प्रामाण्यानभ्युपगमात् । अभ्युपगमेऽपि वा प्रकाशप्रवादपारम्पर्यस्य वक्तव्यत्वात् । नच स्वप्रकाशे प्रवादपारम्पर्यं श्रूयते । सम्भवस्तावत् स्वयम्प्रकाशे प्रमाणमस्तु, मैवम् । तत्र ह्याधिकेन चाऽविनाभूतं न्यूनं साध्यते, सहस्रादिनेव शतादि । नचेह तथाविधमधिकं न्यूनं वाऽस्ति, येन सम्भवप्रमाणप्रसरः स्यात् । नप्यभावः स्वप्रकाशत्वे प्रमाणतया शक्याभिधानः । अभावगोचरस्य तस्य भावस्वरूपस्वप्रकाशगोचरत्वाभिधानानुपपत्तेः । उपपत्तौ वा स्वप्रकाशस्याऽभावरूपत्वापत्तेः । नच नवमं किञ्चित्प्रमाणमृषिभिरिष्यते, यत् स्वप्रकाशत्वे प्रमाणतयोपन्यस्येत । तस्मादप्रामाणिकं स्वप्रकाशत्वं शशशृङ्गादिवदनुन्मत्तेन भवता न शक्याभ्युपगमम् ।
अथोच्येत-अप्रकाशरूप एवायमस्तीति, नैतत्साधीयः । तथा सति जगदान्ध्यप्रसङ्गात् । तथाहि- जगन्न तावन्न प्रकाशते, ``घटः प्रकाशते, ``पटः प्रकाशते'' इत्येवंरूपेण सर्वत्र प्रकाशानुगमात् । प्रकाशमानं च जगत् केन प्रकाशताम् । न तावत् स्वतः, जगतो जढत्वात् । अथ परतः प्रकाशातमित्युच्येत - कथय, स कः परः प्रकाशः? येन प्रकाशितं जगत् प्रकाशते इति सुवचं स्यात् । आत्मेति चेत् - अहो! विस्मरणशीलता देवानां प्रियस्य, यदिदानीमेवात्मनोऽप्रकाशरूपतामुदीरितामपि नानुसन्धत्से । अनुसन्धाने - तद्विपरीतप्रकाशतोपन्यासानुपपत्तेः । अथात्मनोऽप्रकाशरूपतामभिहितामननुसन्धायैवप्रकाशरूपतोपन्यस्तेति
मन्यसे, एवं तर्हि अनुसन्धानं निजुह्नुषोस्तव परस्परपराहतार्थवादित्वमपरिहार्यमापतितम्- आत्मा प्रकाशरूपोऽप्रकाशरूपश्चेति । अस्तु वा यथा तथा । प्रकाशरूपतामस्मदभिमतामनुभूतवानसीति त्वामस्मदनुकूलमनुमन्यामह एव । अथ आत्मातिरिक्त एष कश्चन प्रकाशो जगदान्ध्यप्रसङ्गभङ्गकृदस्तु । मैवम्, तादृशप्रकाशानुपलम्भात् । ज्ञानमेव तादृशप्रकाश उपलभ्यत इति चेत्तर्हि प्राप्तमेवात्मनः प्रकाशरूपत्वम्, ज्ञानस्याऽनात्मकत्वाभावादिति । आत्मनश्च ज्ञानात्मता ``सत्यं ज्ञान'मित्यादिश्रुतिसिद्धा न व्यासेद्धुं शक्या शाक्यपादपद्मानुपजीविना । अथात्मनोऽप्रकाशरूपत्वाय तदात्मकज्ञानस्याऽप्यप्रकाशरूपतेष्यते, तर्हि जगदान्ध्यापादानमप्रत्यूहमेव । तथाचाऽऽभाणकः -
``अन्धस्येवाऽन्धलग्नस्य विनिपातः पदे पदे''
इति । अपिच ``अतोऽन्यदार्त'मित्यादिश्रुतिवशाज्जगदारोपसिद्धमिति वक्तव्यम् । नचारोपो निरधिष्ठानो दृष्ट इष्टो वा । अतो जगदध्यासस्य चाऽधिष्ठानमवश्यमभिधेयम् । अधिष्ठानं च गवेष्यमाणमात्मातिरिक्तं नोपलभामहे । अत आत्मैवाधिष्ठानमुचितम् । सचेदयमात्माऽप्रकाशरूपः, कथं सप्रकाशता! जडत्वाऽनवस्थानादिना स्वतः परतो वा प्रकाशमानतानुपपत्तेः । अप्रकाशमानस्य चात्मनोऽध्यासाधिष्ठानत्वमनुपपन्नं स्यात् । नह्यप्रकाशमानं पुरोवर्तिरज्जुभुजङ्गादि अध्यासस्याधिष्ठानं भवति । अतो जगदध्यासाधिष्ठानत्वसिद्धये वक्तव्यैवात्मनः प्रकाशमानता । सा च प्रकाशमानत्वेनेति स्वप्रकाशत्वमभिमतमभेदवादिनाम् । तच्च प्रागुक्तरीत्या लक्षणप्रमाणाभावादनुपपन्नमितिः पूर्वपक्षसङ्क्षेपः ।
अत्राऽभिदध्महे - न तावल्लक्षणाऽभावः, स्वव्यवहारेऽन्यानपेक्षत्वस्यैव तल्लक्षणत्वात् । ननु घटादयोऽपि स्वव्यवहारे पटादीन्नापेक्षन्ते इति चेत्, नापेक्षन्ते । लक्षणेन तु न दोषमभाषिष्ठाः । नहि घटादीनां पटाद्यनपेक्षत्वोपन्यासमात्रेणाऽन्यानपेक्षा भवति । स्वव्यवहारे ज्ञानापेक्षिणां तेषामन्यानपेक्षत्वस्याऽसम्भवात् । अतो भवतो लक्षणातिव्याप्त्यभिप्रायो वृथाप्राय एव । अनुव्यवसायाधीनव्यवहारे व्यवसाये नास्तीदं लक्षणमिति चेन्न, अनुव्यवसायस्यैवानभ्युपगमात् । अथानुव्यवसायः किमर्थमभ्युपगन्तव्यः । व्यवसायासिद्धिपरिहारायेति चेत्, अथानुव्यवसायः सिद्धोऽसिद्धिं परिहरिष्यत्यसिद्धो वा? न तावदसिद्धः, असिद्धस्याऽन्यासिद्धिपरिहारसामर्थ्यासम्भवात् । सम्भवे - व्यवसाय एवासिद्ध आत्मासिद्धिं परिहरतु, किमिति पराक्रम्यतेऽनुव्यवसायेन व्यवसायसिद्धौ । नापि सिद्धः, स्वतः सिद्धताऽनङ्गीकारात् । अङ्गीकारे वा व्यवसायेन किमपराद्धम् । स एव स्वतः सिद्धोऽस्तु । अथानुव्यवसायः परतः सिद्धस्तर्हि अनवस्था वार्थपर्यन्तं असिद्धापत्तिर्वा स्यात् । तस्मादनुव्यवसायसमाश्रयणं परिश्रमायैव भवतः ।
ननु अभिवदनव्यवहारो हानोपादानादिरूपः, स च क्रियात्वात् पाकादिवत् कार्य एव । कार्यं च सामग्रीसापेक्षोत्पत्तिकम् । ज्ञाने । चाऽभिवदनव्यवहारस्य सामग्रीसापेक्षत्वमवश्यमभिधातव्यम् ।
ततश्च अन्यानपेक्षत्वमभिधीयमानं न सम्भवतीति चेन्मैवम्, अन्यशब्देन ज्ञानान्तरस्यैव विवक्षितत्वात् । समाध्यादौ व्यवहाराभावादव्याप्तिरिति चेत्, अस्तु । तथापि लक्षणं न दोक्ष्यति । गुणाश्रयो द्रव्यमिति चेत्, नहि गुणाश्रयो द्रव्यमिति अत्राव्याप्तिर्नास्ति । उत्पन्नस्य द्रव्यस्य क्षणमात्रमगुणत्वस्य भवद्भिरेवेष्यमाणत्वात् । ननु गुणाश्रयो द्रव्यमित्यत्र गुणाश्रययोग्यतैव लक्षणार्थः । सा च द्रव्यस्य निगुर्णत्वावस्थायामपि विद्यत एव । योव्यताया यावद्द्रव्यभावित्वात् । अत एवैतद्दृष्टान्तावष्टम्भेन भवल्लक्षणस्योपादेयत्वोपन्यासोऽनुचित इति । नानुचितः, स्वलक्षणे विहितस्य दोषसमाधानस्याऽस्मल्लक्षणेऽपि विधातुं शक्यत्वात् । समाध्यादौ व्यवहाराभावेऽपि हि संविदन्तरानपेक्षतया व्यवहर्तुं योग्यता विद्यत एव । नतु व्यवहाराभाववत् तद्योग्यतापि समाध्यादौ न विद्यत इति चेत्तर्हि समयान्तरे व्यवहारदर्शनात्तद्योग्यता समाध्यादावप्यङ्गीकर्तव्येति समम् । तस्मात् स्वप्रकाशलक्षणमिदमुक्तप्रकारेणाऽदुष्टमस्तीति न लक्षणाऽभावकृता स्वप्रकाशत्वासिद्धिरिति सिद्धम् ।
नापि स्वप्रकाशे प्रमाणाभावचोद्यमनवद्यम्, अनुमानादेरेव प्रमाणत्वात् । तथाहि - अनुभूतिःस्वप्रकाशा अनुभूतित्वात् न यदेवं न तदेवं यथा घटः । ननु स्वयम्प्रकाशत्वस्य पक्षे सिद्धावनुमानवैयर्थ्यम् । अन्यत्र प्रसिद्धौ तत्र हेतुसत्त्वेऽन्वयितया केवलव्यतिरेकिताभङ्गः । हेत्वसत्त्वे त्वसाधारणाऽनैकान्तिकतेति प्रागीरितमिति चेत्सत्यम्, तथापि सामान्यतो दृष्टानुमानेन साध्यप्रसिद्धाश्रयणे भवदभिहितदूषणाऽनवकाशात् । तथाहि - वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि धर्मत्वात् रूपवत् । नच केवलव्यतिरेकिवैयर्थ्यम्, सामान्यतो दृष्टानुमानेनाऽनिर्धारितधर्मिकतया वेद्यत्वस्य केवलव्यतिरेकिणो विशेषनिष्ठतया समर्थ्यमानत्वात् । कथमन्यथा शब्दादीनामष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं नैयायिकादयः साधयेयुः । नच ``विमता भूः शशविषाणोल्लिखिता भूत्वात् यन्नैवं तन्नैवं यथा घट'' इत्येवञ्जातीयकस्याप्यनेनैवन्यायेन स्वीकर्तव्यतया प्रसिद्धिविशेषणतादोषो दत्तजलाञ्जलिः स्यादिति वाच्यम्, सामान्यतोऽनुमानेन साध्यसिद्धेरत्र सम्पादयितुमशक्यत्वात् । अतोऽनुभूतित्वहेतोरसिद्ध्यादिविरहो विशदतर एव । किञ्च अन्याऽप्रकाश्यस्य स्वयम्प्रकाशमानस्य वस्तुनोऽसत्त्वे जगतः स्फुरणमेवानुपपन्नं सत्तादृशं वस्तु कल्पयतीत्यर्थापत्तिरपि स्वप्रकाशत्वे प्रमाणम् । सर्वतो बलवती ह्यर्थापत्तिः ।
अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका ।
पिनष्टि दृष्ट्यैकमत्यं सैव सर्वबलाधिका ॥
इति खण्डनकारः । आगमश्च ``अत्रायं पुरुषः स्वयञ्ज्योतिः'' ``तमेवभान्तमनुभाति सर्व'मित्यादिः स्वप्रकाशत्वे प्रमाणं नच ज्योतिःशब्दन्मन एवेति सुवचम् । स्वप्ने तस्यैव विषयाकारेण परिणतस्य ज्योतिष्ट्वानुपपत्तेः । ननु यदि स्वप्रकाश आत्मा, कथमत्र जगदध्यस्येत । अधिष्टानाऽनवबोधकृतो ह्यध्यासः । स च सर्वदा स्वप्रकाशतया भासमानेऽनवबोधासम्भवात् कथं स्यात् । ननु तर्हि पुरोवर्तिनि भासमाने कथं रज्जुसर्परजताध्यासाः स्युः, शुक्तित्वादिविशेषानवबोधादिति ब्रूमः । तर्हीहाऽप्यानन्दपरिपूर्णत्वादिविशेषानवबोधाज्जगदध्यास इति समः समाधिः । ननु सामान्यविशेषवति शुक्तिकादावियं विधाऽस्तु, निःसामान्यविशेषे कथमात्मनीयं विधा स्यात् । सत्यम्, पारमार्थिकसामान्याद्यभावेऽपि काल्पनिकसामान्यादिनाऽध्यासोपपत्तेरविरोधः । तस्माल्लक्षणप्रमाणसद्भावात् स्वप्रकाशत्वमप्रत्यूहम् । अतः ``स्वेनैव भासत``इति श्रुत्या स्वप्रकाशत्वं युक्तमुक्तमिति युक्तमुत्पश्यामः ।
दीपादेरेव परप्रकाशकस्य स्वप्रकाशता किं वक्तव्येति ``किं पुन'र्न्यापमभिसन्धाय तां द्रढयति- ``जीवत्वेनेदमों यस्ये''ति । जीवयति जढं जगदप्रकाशमानतया मृतकल्पं प्रकाशात्मकस्वसर्गेण सप्राणामिव करोतीति जीवस्तस्य भावस्तत्त्वम् । तेन इदं - सर्वं जगत् यस्य - स्वप्रकाशस्य परमात्मनो जीवत्वेन स्वयं प्रकाशमानत्वे सति परप्रकाशत्वेन हेतुना भासत इति समनन्तरवाक्यादनुवर्तते । ``तस्य भासा सर्वमिदं विभाती''ति श्रुत्यन्तरेऽप्ययमेवार्थः समर्थ्यते । कथं भासते, ओमिति । विराडाद्यात्मकं सद्भासत इत्यर्थः । अकार उकारो मकारश्चेति वर्णत्रयात्मकः ॐकारः । तत्र - अकारेण विराड् गृह्यते, उकारेण हिरण्यगर्भः, मकारेण अव्याकृतम् । अथ को विराट् को हिरण्यगर्भः किमव्याकृतमिति, उच्यते - विराट् तावत् पञ्चीकृतानि पञ्च महाभूतानि गगनीदीनि तत्कार्यं च सर्वम् । एतच्चात्मनः स्थूलशरीरम् । इन्द्रियैरर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एतत् स्थूलं, जागरितं, विश्वश्चेति त्रयं - अकारः । अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गं भौतिकम्-हिरण्यगर्भः । इदं त्वात्मनः सूक्ष्मशरीरम् । करणेषूपसंहृतेषु जागरितसंस्कारजः सविषयः स्वप्नः । तदुभयाभिमान्यात्मा तैजसः । एतत्सूक्ष्मं, स्वप्नः, तैजसश्चेति त्रयं - उकारः । स्थूलसूक्ष्मशरीरद्वयकारणमात्माऽज्ञानं साभासं - अव्याकृतमित्युच्यते । इदं त्वात्मनः कारणशरीरम् । तच्च न सत् नाऽसत् नापि सदसत्, न भिन्नं नाऽभिन्नं नापि भिन्नाऽभिन्नम्, कुतश्चिन्न निरवयवं न सावयवं नोभयम् । किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् । सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतदव्याकृतं, सुषुप्तिः, प्राज्ञश्चेति त्रयम्-मकार इति । ततश्च अकारोपनीतमात्मनः स्थूलशरीरं विराट्पदव्यपदेश्यं, उकारोपनीतमात्मनः सूक्ष्मशरीरं हिरण्यगर्भपदव्यपदेश्यं, मकारोपनीतं शरीरद्वयकारणं साभासमज्ञानं अवैकृतं चेत्येतन्नयात्मकं सज्जगद्भासते यस्य जीवत्वेनेति । एतत्त्रयव्यतिरेकेण जगत एवाभावादिति । किञ्च - ``अकारो ब्रह्मा, उकारो विष्णुः, मकारः शिव'' इति पौराणिकाः । ``अः कलाख्या शक्तिः, उः नादः, मः महाबिन्दु'रिति तान्त्रिकाः । अकारं - अग्न्यृषिकं गायत्रीछन्दस्कं ब्रह्मदेवताकं पीतवर्णं भूस्थानकं जाग्रदवस्थाकमुदात्तस्वरकं ऋग्वेदकं गार्हपत्याग्निकं रजोगुणकं पृथ्वीतत्त्वकं सृष्ट्यर्थक्रियाकम्, उकारं - वाय्वृषिकं त्रिष्टुप्छन्दस्कं विष्णुदेवताकं विद्युद्वर्णकं भुवःस्थानकमनुदात्तस्वरकं यजुर्वेदमाहवनीयाग्निकं सत्त्वगुणकमन्तरिक्षतत्त्वकं स्थित्यर्थक्रियाकम्, मकारं - सूर्यर्षिकं जगतीछन्दस्कमीश्वरदेवताकं श्वेतवर्णकं स्वःस्थानकं स्वरितस्वरकं सामवेदकं दक्षिणाग्निकं तमोगुणकं द्यौस्तत्त्वकं संहारार्थक्रियाकं ऋषयोऽभिवदन्ति । एवं अकाराद्यक्षरत्रयात्मकब्रह्मादिप्रपञ्चजातं दृश्यमवभासते यस्य जीवत्वेनेति योज्यम् । स्मृतिरपि जगत ॐकारप्रभवत्वेन तदात्मकतामभिप्रैति -
ॐकारप्रभवा वेदा ॐकारप्रभवाः स्वराः ।
ॐकारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥
इति । यस्य जीवत्वेन ओमात्मकं विराढिरण्यगर्भाऽव्याकृतात्मकमिदं जगत्प्रकाशते तस्य स्वयम्प्रकाशत्वं किं वक्तव्यमिति भावः । ननु जगतः किं अभानमेव न स्यात्? यस्य भानाय स्वप्रकाशस्य परमात्मनः प्रकाशत्वमाश्रीयते । मैवम्, अभाने हि प्रत्यक्षादिप्रमाणविरोधः । ``कुम्भोऽयं स्तम्भोऽय'मित्याकारेण जगति प्रत्यक्षादिकं प्रवर्तमानं बहुलमुपलभ्यते । यदि वाऽऽत्यन्तिकमभानं स्यात्तर्हि मूषकविषाणवज्जगदनुपाख्यमेवेति वाच्यम् । (तत्र च)मूषकविषाणाद्यनुपाख्यवैलक्षण्यस्य विशद्मुपलभ्यमानत्वात् । किञ्च यत्सोपाख्यं तद्भानयोग्यम्, यच्च भानयोग्यं तत्कदाचिद्भासत एवेति प्रतिबन्धोऽस्ति । तथाच कदाचिद्भानस्य व्यापकस्य निवृत्तौ व्याप्यं भानयोग्यत्वमपि निवर्तेत । भानयोग्यत्वस्य च निवृत्तौ तद्वयाप्यसोपाख्यत्वमपि निवर्तते । अन्यथा व्याप्यव्यापकभावभङ्गप्रसङ्गात् । तस्माद्भासत इति वाच्यम् । तत्र पर्यालोचयितव्यं - किं स्वतः परतो वेति? न तावत्स्वतः, चिल्लक्षणापत्तेरचित्त्वव्याघातात् । अतः परतः, तत्परं जडमजडं वा? जडत्वे - कथं जगत्प्रकाशकं स्यात् । प्रकाशकत्वे च जगत्येव प्रकाशता कुतो न स्यात् । उभयोर्जडत्वाविशेषात् । अजडत्वे तु - तदजडमात्मा वाऽन्यद्वा? नान्यत्, तस्याऽन्यत्वे - जडत्वस्यावश्यकत्वेनाऽजडत्वपीडनापत्तेः । आत्मत्वे तु - स आत्मा श्रीरामादन्यः श्रीराम एव वा? अन्यश्चेत्, जडत्वापत्तिः ``अयमात्मा ब्रह्मे'त्यादिश्रुतिविरोधश्च । तस्मात् श्रीराम एवेति पक्षं युक्तमुत्पश्यामः ।
ननु चिद्रूपः श्रीराम एव जगतोऽवभासको भवतु, तथापि तयोर्भास्यभासकयोः सम्बन्धो भास्यभासकभावातिप्रसञ्जकतया न समञ्जस इति सम्बन्ध एवानुसन्धेयः । ननु घटाद्यालोकयोरिवात्रापि कश्चिद्भविष्यतीति चेत् - को भविष्यति? संयोगः समवायस्तादात्म्यमेकार्थसमवाय एकार्थतादात्म्यं वा? नाद्यः, चितो निष्प्रदेशत्वात् संयोगस्य प्रदेशवृत्तित्वात् । अथ निष्प्रदेशाया अपि चितः आकाशस्येव काल्पनिकप्रदेशसमाश्रयणेन संयोग इत्युच्यते । मैवम्, तथापि गुणादिभिः सह संयोगस्य वक्तुमशक्यत्वात् । द्रव्ययोरेव हि संयोगो नाऽद्रव्ययोः नापि द्रव्याद्रव्ययोरित्यभियुक्तोक्तेः । न द्वितीयः, आरभ्यारम्भकभावरहितत्वात् । नहि चिदचितं जगदारभते, एकस्य द्रव्यस्य द्रव्यारम्भकत्वानुपपत्तेः । उपपत्तौ च एकेन तन्तुना पटारम्भप्रसङ्गात् । नाप्यचिताऽनेकया चिदारभ्यते, नित्यायां तस्यामारम्भस्यैवाऽनवकाशात् । ननु आरभ्यारम्भकभावरहितत्वेऽपि गगनतद्गतैकत्वयोर्व्यक्तिजात्योः समवायो दृश्यते । सत्यम्, तथापि न चिदचितोः समवायः समस्ति । अयुतसिद्ध्यभावात् । चित्सल्वबाह्या, बाह्याबाह्ययोश्च कथमयुतसिद्धिः । अत एव न तृतीयोऽपि । समवायवपदे हि मीमांसकैस्तादात्म्यमभिषिच्यते । अपिच तादात्म्यं न भिन्नयोः, गवाश्वयोरपि तादात्म्यापत्तेः । नचाभिन्नयोः, इत्येवं वक्तुमशक्यत्वात् । नह्येकस्मिन् घटे घटयोरिति प्रयोगोऽनुन्मत्तानां भवति । घटस्य स्वाभिन्नस्य स्वेन तादात्म्यासम्भवाच्च । नापि भिन्नाभिन्नयोः, विरोधात् । नहि भेदाऽभेदावेकाधिकरणौ भवितुं शक्नुतः, नापि चतुर्थपञ्चमौ, रूपरसयोरेकस्मिन् घटादाविव चिदचितोरेकार्थसमवायस्य तादात्म्यस्य चानुपपत्तेः । नह्यचितः समवायादिसम्भवेऽपि चितोऽनाश्रितायाः समवायादि सम्भवति । अतश्चिदचितोः सम्बन्धाऽनिरूपणादवभास्यावभासकभावो न सम्भवतीति ।
अत्रोच्यते - यत्संयोगादिसम्बन्धः परमार्थतो न सम्भवतीति, तदनुमन्यामहे । तर्हि सम्बन्धाभावादप्रकाशत्वमापतितमिति घट्टकुट्यां प्रभातमिति चेन्न, आध्यासिकेन सम्बन्धेन प्रकाशोपपत्तेः । अध्यासश्च सत्यं एव वस्तुन्यसत्यस्याऽऽरोपः । असत्यं च जगत् सत्यायां चिति आरोपितामेति नाऽनयोः कथमाध्यासिकः सम्बन्धः स्यात्? सति च सम्बन्धः स्यात्, सति च सम्बन्धे कथं वा प्रकाशनं न स्यात्? सति च प्रकाशने कथं वा श्रीरामो न प्रकाशात्मकः? प्रकाशात्मकत्वे च सति कथं वा न स्वप्रकाशकः? अपितु स्वप्रकाश एवेति सिद्धम् ।
स्वभूर्ज्योतिर्मयोऽनन्तः स्वप्रकाशोऽपि रामो रजाद्युपाधिकविराडादिद्वारा जगत्सृष्ट्यादिकारणमित्याह - सृष्टिस्थितिलयस्य चेत्यादिना ॥ १॥
कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ॥
यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ २॥
चिच्छक्त्या रजःसत्त्वतमोगुणैः सृष्ट्यादेः कारणत्वेन श्रीरामोऽवतिष्ठत इत्यध्याहृत्य योज्यम् । चिदाविष्टा शक्तिः चिच्छक्तिः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । साभासा माया, सा च त्रिगुणा । तत्र - रजःप्रधानचिच्छधत्युपाधिकविराड्रूपेण श्रीरामो जगतः सृष्टेः कारणम्, सत्त्वप्रधानचिच्छक्त्युपाधिकहिरण्यगर्भरूपेण स्थितेः, तमःप्रधानचिच्छक्त्युपाधिकाऽव्याकृतरूपेण लयस्य । एकरूपस्य वस्तुनो विचित्रकार्यकरत्वं विचित्रोपाधिभावेन भवतीति ``रजःसत्त्वतमोगुणैरिति विचित्रा उपाधय उपन्यस्ताः । ``लयस्य चे''ति चकारः समुच्चये । स च भिन्नक्रमः सन्नध्याहृतेन अवतिना सम्बध्य प्रागुक्तं स्वप्रकाशत्वं समुच्चेष्यति ।
इदमिह परमतात्पर्यमवगन्तव्यं - शमादिसाधनवतां मुमुक्षूणां मन्त्रिणां मन्त्रजपो विहितः, स च मन्त्रार्थमननपूर्वकः । ``यदेव विद्यया करोति करोति तदेव वीर्यवत्तरं भवती'ति श्रुतेः । मन्त्रजपाङ्गानि विदधती स्मृतिरपि मन्त्रार्थाऽनुसन्धानमङ्गत्वेन विधत्ते - ``मौनं मन्त्रार्थचिन्तन'मिति । मन्त्रार्थस्तु-ब्रह्मात्मैकत्वं महावाक्यप्रतिपाद्यम् । तत्पदार्थो ब्रह्म, त्वम्पदार्थ आत्मा जीवापरपर्यायः । तत्रापि ब्रह्म तत्पदस्यार्थो भवद्वाच्यो लक्ष्यश्चेति द्वयीं विधामापद्यते । तत्र लक्ष्योऽर्थः ``स्वभू'रित्यादिविशेषणचतुष्टयेन प्रतिपाद्यते । वाच्यस्तु ``जीवत्वेने'स्यादिना । एवञ्च- अर्थद्वयात्मकं ब्रह्म राम एवं एकाक्षरबीजरूपेण मन्त्रेण प्रतिपाद्यत इति । इदानीं प्रतिपाद्यप्रतिपादकयोः श्रीरामतद्बीजयोरभेदमभिप्रेत्य जगत्सृष्ट्यादिकारणत्वप्रापितं श्रीरामगतं जगदाधारत्वं श्रीरामबीजे सदृष्टान्तमाचष्टे - यथैवेति । प्राकृतो-लौकिकः, द्रुमस्य महत्त्वं बहुफलशाखापत्रप्ररोहान्वितत्वम् । चकारः समुच्चये, स च अश्वत्थादीनामनुक्तानां स्वस्वबीजस्थत्वं समुच्चिन्वन् दृष्टान्तबाहुल्यमवगमयति । एकेन दृष्टान्तेनाऽपरितुष्यन्तं प्रति दृष्टान्ताऽन्तरोपन्यासस्य युक्तत्वात् । ननु अश्वत्थादीनामपि महाद्रुमशब्देनैव प्राप्तौ नार्थः समुच्चयार्थेन चकारेणेति चेत् । मैवम्, महाद्रुमशद्बस्याऽश्वत्थादिप्रापणे सामर्थ्याभावात् । ननु महाद्रुमशद्बादश्वत्थाद्याप्राप्तिः किमेतेषां महत्त्वस्याभावाद् द्रुमत्वस्य वा? नोभयथापि, महत्त्वद्रुमत्वयोरश्वत्थादिषु कस्यापि विगानाभावात् । अतो महाद्रुमशब्देन तेषामप्राप्तिरिति प्रलपमात्रमिति चेत् - ``वटबीजस्थ'' इति समानाधिकृतेन महाद्रुमपदेन वट एव पर्यवस्यति, वृक्षान्तराणां प्रापयितुमशक्यत्वात् ॥ २॥
तथैव रामबीजस्थं जगदेतच्चराचरम् ॥
रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव च ॥ ३॥
तथेति । रामस्य बीजं रामबीजं रामशब्दार्थप्रकाशकमेकाक्षरात्मकं मन्त्ररूपं बीजम्, तत्र स्थितम् । ननु रामतद्बीजयोरभेदमभिप्रेत्येयं श्रुतिश्चेत्प्रववृते, तर्हि कथं भेदगर्भितसम्बन्धप्रतिपादकषष्ठीसमासः? उपपद्यते, ``राहोः शिरः'' ``शिलापुत्रकस्य शरीर'मित्यादिवदिति ब्रूमः । ननुरामतद्बीजयोरियं श्रुतिः कथमभेदमभिप्रेयात्? नह्यभेदे प्रमाणमस्ति । अप्रामाणिकः कथमभिप्रायविषयः स्यादिति । अहो! महान् व्यामोह आयुष्मतः, यदेतामेव श्रुतिमभेदे प्रमाणभूतामपि नावलोकयति । नन्वेषा श्रुती रामबीजे जगतोऽवस्थितिमाह, न पुना रामतद्बीजयोरभेदमिति चेत्सत्यम्, तथापि पूर्वापरपर्यालोचनया एतस्यास्तयोरभेदे पर्यवसानमवसीयते । तथाहि - पूर्वत्र जगदुपादाने श्रीरामे जगदवस्थितिरवगता, तद्बीजे त्वत्रावगम्यते । यदि तयोरभेदो न स्यात्, कथमियमुक्तिरुपपद्येतेति । ननु बीजस्य जगदाश्रयत्वेऽपि श्रीरामस्य जगदुपादानत्वं नानुपपन्नं तयोरभेदादिति यदुच्यते, तन्नोपपद्यते । तस्याऽसङ्गत्वात् । नचाऽसङ्गत्वमप्रमाणकम्, ``असङ्गो ह्ययं पुरुष'' इति श्रुतेः । अथ वस्तुतोऽसङ्गस्याऽप्यविद्याशबलस्य तस्योपादानत्वमुच्यते । मैवम्, किमविद्या-भावरूपा विद्याया अभावो वा? नान्त्यः, अभावशबलस्य ब्रह्मण उपादानत्वोक्तेरयुक्तेः । युक्तौ वा विशेषणीभूताऽभावस्याप्युपादानत्वाऽऽपातात् । नचेष्टापत्तिः, द्रव्यस्यैवोपादानत्वाभ्युपगमात् । नाद्यः, तस्यां प्रमाणाभावात् । अथ सर्परजतादिप्रतिपत्तय एव तत्र प्रमाणम् । नहि रज्जुशुक्त्याद्यविद्यामन्तरेण ता उत्पद्येरन्, तस्यास्ताः प्रति कारणत्वात् इत्युच्यते । मैवम्, शुक्त्यादिषु रजतादिप्रतिपत्तीनामेवाभावात् । नहि गुरुचरणपरायणैर्विभ्रमोऽभ्युपगम्यते । तथाहि - सर्वे प्रत्यया यथार्थाः प्रत्ययत्वात् सम्यग्रजतप्रत्ययवत् । ननु सर्वशब्देन सम्यग्रजतप्रत्ययः सङ्गृह्यते न वा? आद्यंशतः- सिद्धसाधनता, दृष्टान्तत्वेनोपन्यासश्चानुपपन्नः । नहि पक्षु एव दृष्टान्ततयोपन्यस्यमानो दृश्यते । न द्वितीयः, सर्वशब्दस्य महिमव्याहत्यापत्तेः । एष एव हि सर्वशब्दस्य महिमा - यदेकमप्यर्थमसौ न त्यजति । नैष दोषः, सर्वशब्दस्य सङ्कुचितवृत्तित्वाऽऽश्रयणन सम्यग्रजतप्रत्ययव्यतिरिक्तपरत्वोपपत्तेः । नच सङ्कुचितवृत्तित्वस्य सर्वशब्दमहिमव्याघातकत्वेन त्याज्यत्वम् । वृद्धाऽनङ्गीकृतस्य सङ्कुचितवृत्तित्वस्य महिमव्याघातकत्वेन त्याज्यत्वात् । अङ्गीक्रियते च तत्र तत्र वृद्धैः सर्वशब्दस्य सङ्कुचितवृत्तिता ``सर्वे ब्राह्मणा भोजयितव्या'' इत्यादौ ।
नच सा महिमव्याघातकृत्तया दृष्टेति परित्यज्यते । तद्वदत्रापि सङ्कुचितवृत्तित्वं महिमव्याघातकमपि वृद्धाऽऽहृतं न परित्यज्यते ।
अथ प्रतिपत्तिगौरवभयात् प्रकारान्तरेण पक्षोपन्यासमिच्छसि तर्हि - ``विगीताः प्रत्यया यथार्थाः'' इत्यस्तु पक्षोपन्यासः । ननु प्रत्ययत्वमस्तु, माऽस्तु च यथार्थत्वम् । विपक्षे किं बाधकमिति चेन्न, प्रत्ययानां यथार्थत्वाभावे विषयव्यभिचारावश्यम्भावः स्यात् । तथाच सर्वत्र अनाश्वासप्रसङ्गः । अपिच भ्रमेऽवभासमानं रजतमसदबभासते सद्वा? नाद्यः, असत्ख्यातिप्रसङ्गात् । नच शशशृङ्गादिकमसदपरोक्षावभासगोचरो दृष्टम् । नान्त्यः, ``नेदं रजत'मिति बाधदर्शनात् । नच बाध्यमानमपि सद्भवितुमर्हति विरोधात् । बाधाऽविषयो हि शब्दस्य योऽर्थः स चेद्बाध्येत, कथं न विरोधः? अपिच विभ्रमस्य कार्यत्वे तावन्न विवादः । कार्यं च कारणं विना न भवति । भ्रमस्य च न कारणमुपलभामहे । कारणाभावे चाऽयुक्तात्मलाभो विभ्रमः कथं शक्याङ्गीकारः? ननु चक्षुरादिकमेव कारणमुपलभ्यत इति चेन्न, तस्यासंयुक्तस्य विभ्रमजनकत्वेऽतिप्रसङ्गात् । संयुक्तस्य तथात्वे संयोगस्य प्रतियोगी वक्तव्यः । ननु रजतादिति चेन्न, असतस्तस्य संयोगप्रतियोगित्वाऽनुपपत्तेः, बाध्यमानस्य सत्तानुपपत्तेः । इह बाध्यमानस्यापि देशान्तरादौ सत्त्वं नानुपपन्नमिति चेन्न, तथापि संयोगप्रतियोगित्वस्याऽयोगात् । नहि व्यवहितेन चक्षुः संयुज्यते । अथदोषवशाद्व्यवहितमपिचक्षुषा संयोगरहितङ्ग्रहीष्यत इति चेन्न, तस्य दोषवशादेव सकलचाक्षुषपदार्थग्राहकत्वप्रसङ्गात् । नन्वौदर्यस्याग्नेर्भस्मकादिदोषदुष्टस्य बह्वन्नपाकजनकत्ववत् तिमिरादिदोषदुष्टस्य चक्षुषोऽसंयुक्तरजतप्रतीतिजनकत्वमस्त्विति चेन्न, भस्मकादीनामौत्सर्गिकपावकगताऽत्यन्नपाकलक्षणकार्यप्रतिबन्धकत्वात् । तर्हि बह्वन्नपाकलक्षणकार्यमकारणकमेवस्यात् । न स्यात्, कारणान्तरादपि तदुत्पत्तेरुपपत्तेः । अतो भ्रम एव नास्तीति न तल्लिङ्गमविद्याभानमुदयमासादयितुमीष्टे । तस्मादविद्याशबलितं रामाख्यं ब्रह्म जगत्कारणमिति रिक्तमुक्तमिति ।
अत्राऽऽचक्ष्महे - यदुक्तं प्रत्यययाथार्थ्यानुमानम्, तदयुक्तम् । पूर्वोक्तरीत्या सिद्धसाधनादिदोषग्रस्तत्वात् । ननु प्रागीरितदोषसमाधिः कथं न हृदि निधीयते इति चेन्न, तथापि प्रतिपत्तिगौरवस्याऽपरिहार्यत्वात् । अथ ``विगीताः प्रत्यया यथार्था'' इति करणे न प्रतिपत्तिगौरवमिति चेत्, तथापि विगीतपदेन विभ्रमानाभिधाय यथार्थत्वं साध्यते, उत यथार्थप्रत्ययानां वा? न द्वितीयः, यथार्थप्रत्ययानां यथार्थत्वे विप्रतिपत्त्यभावेनाऽसाधनीयत्वात् । आद्ये विरोधः, नहि सम्भवति-विभ्रमा यथार्थाश्चेति । अपिच विभ्रमाः प्रामाणिकाः पक्षीक्रियन्ते अप्रामाणिका वा? नाद्यः, विभ्रमाऽनङ्गीकारिणां विभ्रमप्रामाणिकत्वोपन्यासाऽनवकाशात् । न द्वितीयः आश्रयासिद्धापातात् । अयथार्थव्यवहारे तु भूतप्रत्ययपक्षीकारे न कोऽपि दोष इति चेन्न, सर्वजगत्कारणस्येश्वरज्ञानस्यायथार्थव्यवहारं प्रत्यपि कारणस्य यथार्थत्वाङ्गीकारिणं प्रति सिद्धसाधनत्वात् ।
यदवादि - विषयव्यभिचारे विज्ञानानामनाश्वासप्रसङ्ग इति । तन्न, व्यवहाराणामपि विषयव्यभिचारेऽनाश्वासप्रसङ्गस्य दुर्वारत्वात् तुल्यत्वात् ॥ यदभ्यधायिरजतस्याऽसतोऽवभासे शून्यख्यात्यापत्तिरिति । तदपि न, सत्त्वादिना रजतस्यानिर्वचनीयस्याऽवभासाभ्युपगमात् । यच्चाऽगादि - कारणाभावाद्विभ्रमस्याऽऽत्मलाभ एव नेति । तच्च न, चक्षुरादेरेव कारणत्वात् । ननु समीचीनप्रत्ययजननस्वभानां चक्षुरादीनां कथमसमीचीनप्रत्ययजनकत्वमिति चेत्, समीचीनव्यवहारजननस्वभावानां प्रत्ययानामसमीचीनव्यवहारजनकत्वं कथम्? दोषवशादिति चेत्, चक्षुरादिष्वपि तथा किं नेष्यते? ननु दोषाणामौत्सर्गिककार्यप्रतिबन्धकत्वमेव न विपरीतकार्योत्पादकत्वमिति चेन्न, प्रत्ययानामपि तर्हि दोषवशादसमीचीनव्यवहारजनकत्वाभावापातात् । अपिच दावाग्निदाहलक्षणो दोषो वेत्रबीजेभ्योऽपि कदलीकाण्डानुपजनयन् दृश्यते । यदप्यभाणि-दुष्टस्य चक्षुषो व्यवहितग्राहकत्वे सर्वचाक्षुषग्राहकत्वप्रसङ्ग इति । तदप्यसारम्, दुष्टस्य प्रत्ययस्य व्यवहितरजतव्यहारजनकत्वे सर्वव्यवहितव्यहारजनकत्वप्रसङ्गस्य तुल्यत्वात् । अनिर्वचनीयवादाश्रयणे तु व्यवहितग्राहकत्वशङ्काऽनवकाश एव । तस्मादतस्मिंस्तद्रूपाणांविभ्रमाणामवश्याश्रयणीयत्वात् तैरविद्यानुमाने तच्छबलितं ब्रह्म जगदुपादानमिति सकलमनाकुलम् ।
अथ विभ्रमो ज्ञानविशेषः । ज्ञानं च न विषयमन्तरेण स त्तां लभते । अतो विभ्रमस्य विषयो वक्तव्यः, नच वक्तुं शक्यते । तथाहि - किमधिष्ठानं विभ्रमस्य विषयो रजतादिर्वा? नाद्यः, विभ्रमस्याऽबाध्यत्वापत्तेः । नहि विषयस्य सत्त्वे वि ज्ञानं बाध्यते । न द्वितीयः, विकल्पासहत्वात् । तथाहि - रजतादिकं सत् अथाऽसत् आहो सदसत्? आद्येऽपि-पुरोवर्तिनि सदन्यत्र वा? नाद्यः, विभ्रमस्याऽबाध्यत्वापत्तेः । द्वितीयेऽपि - हट्टादौ सत्तद्बुद्धौ वा? नाद्यः, हट्टादौ सतोऽत्र भानानुपपत्तेः । न द्वितीयः, आन्तरस्य बहिर्भानानुपपत्तेः । ननु मतद्वयेऽपि दोषवशाद्भानोपपत्तिरिति चेत्तर्हि पुरोवर्तिनः पुरोवर्त्यात्मकत्वं तत्संसर्गो वा? आन्तरस्य बाधात्मकत्वं तत्संसर्गो वा विषय इत्यापतितम् । तस्यच कथमपरोक्षावभासविषयता भवेत्? कथं वा रजताद्यर्थिनो ग्रहणादिव्यवहारगोचरता स्यात्? अत्यन्तासत्त्वात् । नहि पुरोवर्तितादात्म्यादिकमत्रान्यत्र च सम्प्रति समयान्तरे च सद्भवितुमर्हति । अथात्यन्तासत्यपि अपरोक्षप्रतीतिप्रवृत्ती किं न स्यातामिति चेन्न, तथा सत्यात्मख्यात्यन्यथाख्याति-वादिनोरसत्ख्यातिस्वीकारेणाऽपासिद्धान्तापत्तेः । किञ्च सर्वसामर्थ्याविरहिणोऽत्यन्तासतो विषयीभवनसामर्थ्यमेव नास्ति, तत्र कथमपरोक्षप्रतीतिप्रवृत्ती स्याताम्?
अथ मतं विज्ञानमेव स्वहन्तु विशेषप्रापितस्वभावविशेषविषयीभवनसामर्थ्यविरहितेऽप्यत्यन्तासत्यविद्यासामर्थ्यादवभासकं भवतीति, तर्हि किमस्याः शक्यम्? असदेवेति चेत्कथं तर्हि किमुत्पादयितुं शक्यं बोधयितुं वा? नाद्यः, अत्यन्ताऽसतस्तथात्वायोगात् । तथात्वे चाऽत्यन्तासत्त्वाभावप्रसङ्गात् । न द्वितीयः, बोधयितुमित्यनेन बोधजननोपस्थानात् । तथा सति को दोष इति चेत्, अनवस्थाप्रसङ्गादिति ब्रूमः । माऽस्तु तर्हि शक्यमिति चेन्न, शक्याभावे शक्तेरेवाभावापत्तेः । शक्तिरपि माभूदिति चेत्तर्हि विज्ञानमविद्यासामर्थ्यादवभासकमिति भवदीयभाषणस्याऽपभाषणत्वमापद्येत । अपिच हट्टादौ बुद्धौ वाऽस्तीत्यत्र न मानं पश्यामः । अनुभव इति चेत्, भ्रान्त्यनुभवो बाधानुभवो वा? नाद्यः, तस्य पुरोवर्तिरजतादावेकस्या बुद्धर्हट्टादौ तदावेदकत्वाभावात् । भावे वा बुद्ध्यादौ रजतमिति प्रतीत्यापत्तेः । न द्वितीयः, तस्य पुरोवर्तिरजताद्यभावमात्रगोचरत्वात् । नन्वेवं बुद्ध्यादौ रजताद्यसत्त्वे तथापि कथं न रजतादि बाध्यते इति चेन्न, प्रसक्त्यभावात् । अत्रेव तत्रापि प्रसक्तिरस्तीति चेत्, प्रमाणेन भ्रान्त्या वा? नाद्यः, बाध्यत्वानुपपत्तेः । न द्वितीयः, तत्र भ्रान्तेरेवाऽनुत्पादनात् ।
ननु रजतस्य संविदाकारत्वाभावे सत्यापरोक्ष्यानुपपत्तिरितिचेन्न, बहिःस्थस्यैव तदुपपत्तेः । नहि बाहिःस्थ्यं संविदाकारः, अबाहिःस्थ्यस्य संविदाकारतया बाहिःस्थ्यस्य तदाकारत्वानुपपत्तेः । किञ्च अध्यस्तं बुद्धौ चेत्तात्त्विकं, तर्हि कपीनां शीतार्तानां गुञ्जापुञ्जादावारोपितेन वह्निनाऽतात्त्विकेन तरूणामिह दाहप्रसङ्गात् ।
तत्राऽप्यतात्त्विकत्वान्नायं प्रसङ्ग इति चेत्, शून्यानिर्वचनीयवादयोरन्यतरस्वीकारापत्तेः । तस्मादत्र सदन्यत्र चाऽसद्रजतं विभ्रमस्य विषय इति न सुन्दरम् । न द्वितीयः, किमत्रेदानीमेव वाऽसत्? आहो सर्वत्र सर्वदैवाऽसत्? नाद्यः, दत्तोत्तरत्वात् । न द्वितीयः, अत्यन्तासतोऽपरोक्षावभासविषयत्वासम्भव इत्युक्तत्वादेव । नापि तृतीयः, विरोधात् । नहि यत्सत्तदसत्, यच्चाऽसत् तत्सत् भवितुमर्हति । सत्त्वासत्त्वयोः परस्परोपमर्दनरूपत्वात् । तस्माद्विषयाभावान्निर्विषयस्य च ज्ञानस्याऽऽत्मलाभानुपपत्तेनिर्विषयो विभ्रमो नात्मानं लभत इति न तेनाऽविद्यानुमानमिति ।
अत्र वदामः - भवेदेवम्, यदि विभ्रमो निर्विषयो भवेत् । ननु विषयत्वमदूष्यमिति चेत् । सत्यम्, दृष्यस्य दूषितत्वेऽप्यदूष्यस्य किमायातम् । अदूष्यो विषयः क इति चेत्, अनिर्वचनीयत्वमिति वदामः । अथ किमिदमनिर्वचनीयत्वम्?सदसद्विलक्षणत्वमिति चेन्न, पुनरुक्तेः । किं शब्दावृत्तिमात्रेण पुनरुक्तिः, एकार्थशब्दावृत्त्या वा? नाद्यः, यमकादावपि पुनरुक्तिप्रसङ्गात् । न द्वितीयः, सदसत्पदावृत्तावेकार्थत्वाभावात् । पूर्वं सच्चाऽसच्चेति द्वन्द्वः, अनन्तरं सच्च तदसच्चेति कर्मधारयः । नचानयोः समासयोरर्थैक्यं युक्तं वक्तुमिति । तर्हि वक्तव्यमत्र प्रमाणम् । नहि प्रमाणमन्तरेण प्रमेयसिद्धिः । ननु बाधख्यात्यैकोभयाऽनात्मकत्वप्रसिद्ध्यनुपपत्तिः प्रमाणमनिर्वचनीयत्वे । सत्त्वे ह्यनुपपद्यमानेन बाधेन सद्वैलक्षण्यम्, असत्त्वेऽनुपपद्यमानया चाऽपरोक्षख्यात्याऽसद्वैलक्षण्यम्, एकस्योभयानात्मकत्वप्रसिद्ध्या चैकस्य रजतादेः सदसदुभयात्मकत्वेऽनुपपद्यमानया सदसद्वैलक्षण्यमानीयत इति कथमनिर्वचनीयत्वमप्रमाणकमिति चेत् । मैवम्, बाधादीनामन्यथैवोपपत्तेः । तथाहि-पुरोवर्तिनि सन्न भवतीत्येतावतैव बाधोपपत्तौ रजतादेरन्यत्र सत्त्वं कथमप्रत्यूहं न स्यात्? क्वाचित्कसत्त्वमात्रेणैवाऽपरोक्षख्यात्युपपत्तौ बाधोपनीतं पुरोवर्तिन्यसत्त्वं कथमकण्टकं न स्यात्? एकस्योभयाऽनात्मकत्वाऽप्रतीतिरपि देशभेदेनैव तस्यैव रजतस्य सदसदुभयात्मकत्वेऽपि न विरुध्यत इति सदसदात्मकमपि कथमप्रतिपक्षं न स्यात् । तदेवं ख्यात्याद्यनुपपत्तिरनिर्वचनीयत्वे न मानमिति स्थितम् ।
बाधविषयत्वमनिर्वचनीयत्वमिति चेन्न, शुक्तिकादेरप्यनिर्वचनीयत्वप्रसङ्गात् । शुक्तिकादिकमपि नेदं रजतं किन्तु शुक्तिरिति बाधस्य विषयप्रतिपन्नोपाधौ निषेधप्रतियोगित्वे तदिति चेन्न, रजत एक रजतप्रतिपत्तिभाजि कुतश्चित्कारणात् ``नेदं रजत'' मिति विभ्राम्यति पुरुषे रजतस्यापि प्रतिपन्नोपाधौ निषेधप्रतियोगिनोऽनिर्वचनीयत्वप्रसङ्गात् । कारणत्रितयजन्यत्वमनिर्वचनीयत्वमिति चेन्न, समवायादिकारणत्रितयजन्ये पटादावतिव्याप्तेः । संस्कारसम्प्रयोगदोषजन्यत्वं विवक्षितमिति चेत्, प्रागेवेच्छ । किं तावदीर्येत-मम दोषोद्भावनावकाश एव न स्यात् । नत्वयमल्प एवापराधः । इदं तु लक्षणमदुष्टमिति चेन्न, दोषप्रत्यभिज्ञायामतिव्याप्तेः । सा हि ज्वरादिहेतौ पित्तादिदोषे वान्ते भिषजां ``स एवाय'' मिति जायमानसंस्कारसंयोगाभ्यामिव कर्मभूतेन दोषेणापि जन्यते । प्रतिभासमात्रशरीरत्वमनिर्वचनीयत्वमिति चेन्न, मात्रशब्दस्य वैयर्थ्यात् । प्रतिभास्यात्मना सत्त्वव्यवच्छेद एव मात्रत्वार्थ इति चेत्, तथा सति आत्मन्यतिव्याप्तेरपरिहार्यत्वात् । आत्मापि हि भवतां मते प्रतिभास्यरूप एव, न पुनः प्रतिभासरूपः । तस्मान्नास्त्यनिर्वचनीयत्ववचनमिति ।
अत्र ब्रूमः - तत्तद्रूपनिरूपणाऽसहिष्णुत्वस्यैवाऽनिर्वचनीयलक्षणात् । ननु रजतादौ नेदं लक्षणमस्ति, सदादिरूपेण निरूपणं सहते इति चेन्न, तथाहि - रजतादिकं तावन्न सत्, बाधात् । अबाध्यमानं हि सत् । नाप्यसत्, अपरोक्षप्रतीतिविषयत्वात् । नह्यपरोक्षप्रतीतिविषया घटादयोऽसन्तः । नापि सदसत्, विरोधात् । तस्मात् सदादिरूपेण रजतादिनिरूपणं न सहत एव । ननूक्तमेव - देशभेदेन सत्यसति च रजते बाधादेरुपपत्तौ रजतादेः सदादिरूपेण निरूपणं निरन्तरायमिति चेन्नैवम्, बाधस्य देशान्तरे रजतमस्तीत्यत्रौदासीन्यात् । अपरोक्षप्रतीत्या पुरोवर्तिमात्रसंयोगजन्ययापि बाधविरोधात् पुरोवर्तिनि रजते सत्त्वबोधनाय प्रवर्तितुमशक्यत्वात् । अत एव स्वस्वमात्रविषयशून्ययोर्बाधख्यात्योर्विरोधपरिहाराय सदसत्त्वयोर्देशभेदेन व्यवस्थापकताऽभावाद्देशभेदेनैकस्यैव रजतस्य सदसदुभयात्मकत्वस्य व्यवस्थापयितुमशक्यस्य ख्यातिबाधाभ्यां
पुरोवर्तिन्येव प्रसञ्जने सत्येकस्यैवोभयाऽनात्मकत्वप्रसिद्धेरनुपपन्नायाः सदसदुभयरूपताव्युदासपत्वाच्च । तस्मान्न रजतादेः सत्त्वाऽसत्त्वादिना निरूपणम् । किञ्च पुरोवर्तितादात्म्यादौ गगनप्रासादादौ च स्वप्ने देशभेदावलम्बनेनापि सत्त्वादिरूपेण? न निरूपणम् । किञ्च पुरोवर्तिं निरूपयिष्यसि । ननु सत्त्वेनाऽनिरूप्यस्यासत्त्वमावश्यकम्, असत्त्वेनाऽनिरूप्यस्य सत्त्वमावश्यकम्,
``परस्परविरोधे हि न प्रकारान्तरस्थितिः''
इति न्यायात् । अतो रजतादेः सत्त्वासत्त्वयोरन्यतरप्रकारावश्यम्भावान्न तदुभयविलक्षणत्वप्रकारवाचोयुक्तिर्युक्तिमतीति चेन्न, अनिर्वचनीयत्वप्रतिक्षेपेण निर्वचनीयत्वस्य भवदभ्युपगतन्यायवलादेव भवताऽवश्याभ्युपगन्तव्यत्वात् । त्वमेव हि ``परस्परविरोधे ही'ति न्यायमभाषिष्ठाः । नह्ययं न्यायः सत्त्वसत्त्वे एव विषयीकरोति, न निर्वचनीयत्वाऽनिर्वचनीयत्वे इति सम्भवति । अन्यथा वैपरीत्यस्यापि वक्तुं शक्यत्वात् । तस्मादनिर्वचनीयत्वस्य लक्षणाभावचोद्यमवद्यमेवेति सिद्धम् । नापि प्रमाणाभावः, ख्यात्याद्यनुपपत्तेरेव प्रमाणत्वात् । यथा चेदं प्रमाणं तथा विस्पष्टमेव । किञ्च - ``विमतं अनिर्वचनीयं बाध्यत्वात् यन्नैवं तन्नैवं यथाऽऽत्मा'' इति प्रयोगोऽपि प्रमाणमनिर्वचनीयत्वे । तस्मात् - अनिर्वचनीयविषयलाभाललब्धात्मिकया भ्रान्त्या कार्येणाऽविद्याभाने तदालिङ्गितं श्रीरामाख्यं ब्रह्म जगदुपादानमित्यवदातम् । तथाचरामाभिन्नं(ब्रह्म)जगदुपादानं जगदाधार इति सिद्धम् ।
बीजमुद्धरति-रेफेति । ``वर्णात्कार'' इति सामान्यतः प्राप्तस्य कारप्रत्ययस्यापवादतया ``रादिफ'' इत्यनेन इफस्य विधानात् रेफ इति सिध्यति । अतो रेफो रवर्णस्तमारूढाः तदव्यवधानेन घटनान्मूर्तयस्तिस्रः-अकारद्वयं मकारश्चेति वर्णास्त्रयः समुदिता रेफारूढा बीजं स्युः । बीजमित्यनुषञ्जनीयमध्याहरणीयं वा । ननु मूर्तिशब्देन ब्रह्मादिदेवत्रयपरतया पुराणादौ प्रसिद्धेन कथं त्रयो वर्णा लभ्यन्ते? तेषां ब्रह्मात्मकत्वादिति ब्रूमः । प्रथमोऽकारो विराडात्मकब्रह्मरूपः, द्वितीयोऽकारो हिरण्यगर्भात्मकविष्णुरूपः, मकारस्तु अव्याकृतात्मकसदाशिवरूपः । ननु रेफरूपं व्यञ्जनं आकारो मकारश्चेत्येतावदेव बीजे प्रतीयते, किमिदमुच्यते-प्रथमोऽकारो द्वितीयोऽकार इति । मैवम्, राकारप्रतीतौ तदवयवयोः अकारयोः प्रतीतेरावश्यकत्वात् । ननु अकारद्वयमकाराणां सृष्ट्यादिशक्तिविरहिणां कथं ब्रह्माद्यात्मकत्वमत आह-शक्तय इति । सृष्ट्यादिशक्तय इत्यर्थः । ननु ``शक्तय'' इत्यस्य केनान्वयः? किं रेफारूढा इत्यनेन, मूर्तय इत्यनेन वा? नाद्यः, अकारादीनां शक्तिमत्त्वप्रतिपादनाऽभावप्रसङ्गात् । न द्वितीयः, अकारादीनां शक्तिमत्तया वक्तव्यानां शक्तिरूपताप्रतिपादनस्यानुपयोगात् । मैवम्, समासावयवभूतमप्यारूढपदं बुद्ध्या विभज्य मूर्तिपदेन संयोजने मूर्त्यारूढा इति सिद्धौ अकारादीनां शक्तिमत्त्वसिद्धेः । यदा तु रामाभिन्नमपि बीजं रामाद्भेदेन विवक्षित्वा वाचकं क्रियते, तदा रेफेण स्वभूरित्यादिप्रतिपादितं स्वप्रकाशं ब्रह्मोपस्थाप्यते । तत्र च मूर्तयो विराट्सूत्राव्याकृतात्मकब्रह्मविष्णुमहेश्वराख्याः प्रथमाकारद्वितीयाकारमकारैर्बीजावयवभूतैः प्रतिपादिताः ।
आरूढाः - स्रजि सर्पादय इवाऽऽरोपिताः । उपलक्षणं चैतत्, त्रिगुणात्मकस्य सर्वस्यापि जगतस्तत्रारोपितस्य वक्तव्यत्वात् । अथ रेफस्य कथं स्वप्रकाशपरत्वम्! तस्याग्निवाचकतया प्रसिद्धस्य स्वप्रकाशे प्रवृत्तावविरोधात् । अत एव च श्रीराममन्त्रोद्धारे ``तारकं दीर्घानल'मिति श्रुतिरनलशब्देनाऽग्निवाचकं रेफं विवक्षितवती । ब्रह्मकल्पोऽपि ``वभिश्यं शयनं विष्णो'रित्यत्र वह्निशब्देन रेफमेव वह्निवाचकमभिप्रैति । ननु रेफस्य स्वप्रकाशब्रह्मपरस्य विराडादित्रयोपलक्षितसकलत्रिगुणजगदुत्थापकवर्णत्रयेण सामानाधिकरण्यं किं ``नीलमुत्पल'मित्यादिवत्? आहोस्वित् ``चोरः स्थाणु'रित्यादिवत्? नाद्यः, ब्रह्मजगतोरुभयोरपि तुल्यत्वात्सत्यत्वापत्तेः । नहि नीलोत्पलादावन्यतरस्यापि मिथ्यात्वमस्ति । न द्वितीयः, जगतो मिथ्यात्वे विनिगमकाभावात् । नहि स्थाणुसाक्षात्कारश्चोरस्येव, परमात्मसाक्षात्कारः प्रपञ्चस्य बाधकः कस्यचित्कुत्रचित्कदाचिदुत्पद्यमानो दृष्टः । अतो न रेफस्य वर्णान्तरसामानाधिकरण्यं वरेण्यमिति ।
तदसारम् । यत्खल्ववादीः नीलोत्पलादितुल्यतानभ्युपगमपराहतम् । यदपि चोरस्थाणोः सामानाधिकण्यतुल्यताश्रयणे दूषणमभाणीः- जगतो मिथ्यात्वे विनिगमकं नास्तीति,
तत्कुतः । स्थाणोरिव परात्मनः सर्वथा साक्षात्काराभावादिति चेन्न । अननुष्ठितसाक्षात्कारोपायानां साक्षात्काराभावं ब्रूषे, अनुष्ठितसाक्षात्कारोपायानां वा? नाद्यः, अङ्गीकारात् तावता दोषाभावात् । न द्वितीयः, विरोधात् । अपिच ``अतोऽन्यदार्त'मिति श्रुतिरेव बीजजगच्छब्दानां सामानाधिकरण्यतुल्यतामवगमयति । तत्र रेफारूढवर्णत्रयस्य प्रणवगतवर्णत्रयोपस्थापितार्थोपस्थापकस्य प्रणवाभेदात् प्रणवस्य बिन्द्वादयोऽवयवा अपि गुणोपसंहारन्यायेनोपसंहरणीया इत्यवगन्तव्यम् । सप्तावयवो हि प्रणवः श्रीशङ्कराचार्यैरभिहितः -
सप्तात्मकस्य तारस्य परौ द्वौ तु परौ यतः ।
अतश्च शक्तिशान्ताख्यौ नपद्येतेपरैः सह ॥
इति । नन्वविद्याशबलितस्य ब्रह्मणो जगत्कारणत्वं न युक्तम्, साङ्ख्यैः प्रकृतेरेव जगत्कारणत्वाभिधानादित्यत आह-एवेति । शबलं ब्रह्मैव जगत्कारणं न प्रकृतिरित्यर्थः । न प्रकृतेर्जगत्कारणत्वे प्रमाणमस्ति । या या श्रुतिरुद्राह्रियते, तस्यास्तस्याः परमात्मावच्छेदकत्रिगुणमायापरत्वात् । अपिच अचेतनायाः प्रकृतेः कथं जगदुपादाने प्रवृत्तिः? रथादेर्नगरप्रापण इवेति चेत्, तत्र चेतनाधिष्ठितेनोपपत्तेः । नच भवता प्रकृतेश्चेतनाधिष्ठितत्वमिष्यते । चेतनस्योदासीनत्वाङ्गीकारात् । ननु दुग्धवत्प्रकृतेरपि प्रवृत्तिरुपपद्यते । यदाहुः-
``वत्सविवृद्धिनिमित्तक्षीरस्य यथा प्रवृत्तिरज्ञस्य''
इति, न । तत्रापि गवादिशरीरावच्छिन्नेन चेतनेनैवाधिष्ठानात् । परमाणवस्तर्हि जगदुपादानम्, जगदपेक्षया न्यूनपरिमाणत्वात् । न्यूनपरिमाणा हि तन्तवः पटोपादानतया दृश्यन्ते । नच व्यापकस्य ब्रह्मणो जगदपेक्षया न्यूनपरिमाणत्वं सम्भवति, येन जगदुपादानता सुवचा स्यात्तत्राह - चेति । चशब्दो निषेधे, अव्ययानामेनकार्थत्वात् ।
अयं भावः - परमाणुः परमाण्वन्तरेण संयुज्य द्व्यणुकादिक्रमेण जगदुपादानमिति वक्तव्यम् । तन्न, संयोगस्यैवानुपपत्तेः । तथाहि - परमाणुः कार्त्स्न्येन संयुज्यते एकदेशेन वा? नाद्यः, संयोगस्य प्रदेशवृत्तित्वव्याघातापत्तेः । अप्रदेशवृत्तित्वमेव तर्हि संयोगस्याऽस्त्विति चेन्न, पटेन घटसंयोगस्य सर्वपटवृत्तितया सर्वस्मिन् पटे घटत्वापत्तेः । न द्वितीयः, निरवयवानां परमाणूनामेकदेशाभावात् । कल्पिता एकदेशा भविष्यन्तीति चेत्तर्हि कल्पितप्रदेशवर्तिनः संयोगस्यापि कल्पितत्वापत्तौ तदसमवायिकारणस्य जगतोऽपि कल्पितत्वापत्तौ सिद्धं नः समीहितम् । अधिकपरिमाणस्य ब्रह्मणः कथमुपादानत्वमुपपन्नमिति चेन्न, अघटमानघटनापटुतराविद्याशबलितस्य ब्रह्मणो जगदुपादानत्वे विरोभावादिति सकलमनाकुलम् । इतिशब्दो द्वितीयोपनिषत्समाप्तौ ॥ ३॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्य-आनन्दवनरचितायां श्रीरामपूर्वतापिनीयटीकायां द्वितीयोपनिषत् समाप्ता ।
अथ तृतीयोपनिषत् ।
प्रथमोपनिषदि ``जप्तव्य'' इसनेन श्रीराममन्त्रजपो विहितः । स चाऽर्थज्ञानपुरःसरं क्रियमाणो वीर्यवत्तरो भवति, ``यदेव विद्यया करोति तदेव वीर्यवत्तरं भवती''ति श्रुतेः । राममन्त्रस्य त्रिपदं वाक्यम् । ततश्च वाक्यार्थज्ञानस्य वाक्यावयवभूतपदार्थज्ञानसापेक्षतया मन्त्रवाक्ये प्रथमावयवभूतस्य बीजरूपस्य पदस्य द्वितीयोपनिषदा तत्पदार्थशोधनपरयाऽर्थोऽभिहितः । अधुना तृतीयोपनिषदा त्वम्पदार्थशोधनं कुर्वत्या मन्त्रद्वितीयतृतीयाववभूतयोरुपरितनपदयोरर्थोऽभिधीयते । ननु प्रकृतिपुरुषरूपयोः सीतारामयोर्भेदो बीजादस्ति न वा? आद्ये-भिन्नतया रजतवत् तयोरपारमार्थिकत्वमापद्येत । चरमे-बीजमात्रशरीरयोस्तयोर्बीजवाच्यत्वं न स्यात् । नहि बीजमेव बीजस्य वाच्यं भवितुमर्हति, वाच्यवाचकभावस्य भेदगर्भितत्वादित्याशङ्क्यान्तिममेव पक्षमादाय समाधत्ते-सीतारामाविति ।
सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त ॥
स्थितानि च प्रहतान्येव तेषु ततो रामो मानवो माययाऽधात् ॥ १॥
सीतारामौ- प्रकृतिपुरुषौ विराट्शक्त्यभिधेयावित्यर्थः । अत्र - अस्मिन्मन्त्रराजे तन्मयौ-बीजात्मकौ पूज्यौ-ज्ञातव्यौ, धातूनामनेकार्थत्वात् । नत्वर्चनीयौ, अर्चनप्रकरणस्याग्रे वर्तिष्यमाणत्वात् । तद्भिन्नयोरपि तद्वाच्यत्वं कल्पितभेदाश्रयणान्न विरुध्यते । राह्वभिन्नस्यापि शिरसो राहुसम्बन्धित्वमिवेत्यर्थः । यथा बीजस्य जगदुत्पत्त्यादिकारणत्वम्, एवं प्रकृतिपुरुषयोः सीतारामयोर्जगदुत्पत्त्यादिकारणत्वं यदि न स्यात्तदा बीजविरुद्धधर्माधिकरणयोस्तयोर्बीजाभेदो न स्यात् । अतस्तयोर्जगदुत्पत्त्यादिकारणत्वमाह-जातानीत्यादिना । द्विसप्त-द्विगुणितानि सप्त, चतुर्दशेत्यर्थः । अधस्तनानि सप्त उपरितनानि च सप्तेति भुवनानां चतुर्दशत्वमवगन्तव्यम् । ``आभ्या'मिति पञ्चमी अनयोरिति सप्तमीत्वेन विपरिणम्या । स्थितानि-समवेतानि प्रहृतानि-विनष्टानीति व्याकर्तव्यम् । एतेन प्रकृतिभूतसीतासहायस्य रामस्य परमात्मनो निमित्तस्यैव सतो जगदुपादानत्वमप्युक्तं भवति । एवशब्देन निमित्तोपादानयोर्भेदो व्यावर्त्यते । ``तत्सृष्ट्वा तदेवाऽनुप्राविश'दिति श्रुतिमनुसृत्याह-तेषु ततो राम इति । ततो-जगत्सृष्ट्यनन्तरं ``रमन्ते यस्मिन् योगिन'' इति रामः-परमात्मा मायया-प्रकृत्या । ``मायां तु प्रकृति'मिति श्रुतेः । तेषु-भुवनेषु सृष्टेषु अधात् - आत्मानं प्रावेशयदित्यर्थः । जडस्य प्रविष्टस्यापि जगत्प्रकाशत्वं न स्यादत आह - मानव इति । मा-प्रमा ज्ञानम्, तया नवो-नूतनः । नवत्वेन प्रतिहतप्रकाशनसामर्थ्यं लक्ष्यते । स्वयम्प्रकाश इत्यर्थः । यद्वा मायया कृत्वा मानवो मनुष्यमूर्तिः, न परमार्थतः । यदाह श्रीमहादेवः - ``मायामानुषचारित्र्ये'ति । एवं भगवति जगदनुप्रविष्टे जगति पञ्चांशाः प्रतिभासन्ते-अस्ति, भाति, प्रियं, रूपं, नामेति । तत्राद्यास्त्रयो रामस्य परमात्मनः, इतरौ द्वौ जगतः । यदाहुराचार्याः -
अस्ति भाति प्रियं रूपं नाम चैतन्यपञ्चकम् ।
आद्यं त्रयं ब्रह्मनिष्ठं जगद्रूपं ततो द्वयम् ॥
इति । एतदुक्तं भवति - अस्तिभातिप्रियशब्दोपस्थापितं सत्तास्फूर्त्यानन्दात्मकत्वं रामपदावयववभूतेन राऽक्षरेण गृह्यते, नामरूपत्वं चारोपितं माऽक्षरेणेति । सकलजगदारोपाधिष्ठानं परमात्मा रामपदेन गृह्यत इति ॥ १॥
ननु रामस्य सृष्टजगदनुप्रवेशोऽभ्यधायि, स नोपपद्यते । अपरिच्छिन्नस्य नित्यानुप्रविष्टस्याऽऽगन्तुकानुप्रवेशोक्त्यनुपपत्तेरिति चेन्मैवम् । अपरिच्छिन्नस्याऽप्याकाशवदनुप्रवेशोपपत्तेः । सत्प्रकाशानन्दात्मकस्य जगदनुप्रवेशेन जगदसत्त्वादिव्यावर्तकतया जगत्प्राणत्वमागतं जगदात्मकत्वं च । तद्रामशब्दार्थेन विवक्षन् नमःशब्देन योजनामाह - जगत्प्राणायेति ।
जगत्प्राणायाऽऽत्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत् प्राग्गुणेन ॥ २॥
नमः-प्रह्वीभावः । क्रियाया अभावेन प्रसक्तं साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति-स्यादिति । प्रह्वीभावपरेण नमःपदेन संसारसागरनिमग्नतया प्रह्वीभूतो जीवो लक्ष्यते । ततश्च जीवलक्षको नमःशब्दो रामपदसमानाधिकृतः सन् जीवपरमात्मनोरेकत्वे पर्यवस्यति । नच मध्ये चतुर्थी अजागलस्तनसमानेति वाच्यम्, ``नमःस्वस्ती'त्यादिना प्राप्तायास्तस्या अपरिहार्यत्वात् । तदिदमाह-नमस्त्विति । तुशब्दः पराऽपरात्मनोरेकत्वे विरोधाऽऽशङ्कां नुदति । स्वप्रकाशत्वादिगुणवता परमात्मना कथमपरात्मनस्तद्रहितस्याऽभेदः स्यादिति तत्राह-प्राग्गुणेनेति । पूर्वोक्तस्वप्रकाशत्वादिगुणेनेत्यर्थः । परमात्मसाक्षात्कारेण वह्निना संसारित्वादिविरुद्धधर्ममहावनदाहे परिशुद्धो जीवश्चिन्मात्रेण निष्प्रपञ्चेन परमात्मना सह तादात्म्यमनुभवतीत्यभिप्रायः । इतिशब्दस्तृतीयोपनिषत्समाप्तौ ॥ २॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्रजकाचार्य-आनन्दवनरचितायां श्रीरामपूर्वतापिनीयटीकायां तृतीयोपनिषत् समाप्ता ।
अथ चतुर्थोपनिषत् ।
प्रथमोपनिषदि ``मन्त्रो जप्तव्य'' इति जपो विहितः । द्वितीयायां वाक्यार्थज्ञानस्य पदार्थज्ञानरूपकत्वान्मन्त्रवाक्यप्रथमावयवभूतस्य बीजरूपस्य पदस्य व्याख्या कृता । तृतीयस्यामुपरितनयोर्द्वितीयतृतीयपदयोरित्येवं पदार्थशोधनं कृत्वा वाक्यार्थकथनाय विना मन्त्रेण पूजा न सिध्यतीति प्रागभिहितमन्त्रनिरूपणाय चतुर्थीमारभते-जीववाचीत्यादिना ।
जीववाचि नमो नाम चात्मा रामेति गीयते ॥
तदात्मिका या चतुर्थी तथा चाऽऽयेति कथ्यते ॥ १॥
तत्र तावद्वाक्यार्थं ``जीववाची'त्यादिकया प्रथमकण्डिकया कथयति । नमो नाम- इति शब्दो जीववाचि-जीवस्त्वम्पदार्थस्तस्य वाचकम् । रामेतिप्रातिपदिकेन चात्मा-परमात्मा गीयते-कथ्यते । आत्मशब्दो जीवेश्वरसाधारणोऽपि तत्पदार्थेश्वर इवावगन्तव्यः । नमःपदेन जीवस्याऽवगमितत्वात् । रामेति प्रातिपदिकार्थमुक्त्वा ततो विहितायाश्चतुर्थ्यैकवचनरूपाया विभक्तेरर्थमाह-तदात्मिकेत्युत्तरार्धेन । तथाच सति नमोरामपदयोर्जीवपरमात्मपरत्वे सति या चतुर्थी ``आय'' इत्येवमात्मिका कथ्यते-रामप्रातिपदिकात्परा अभिधीयते, सेत्यध्याहृत्य तदात्मिकेति योज्यम् । तादात्म्यं-तत्स्वभावत्वं जीवब्रह्मणोरात्यन्तिकमभेदमवगमयतीति । नन्विह चतुर्थीविभक्तिरेव नास्ति, कस्यास्तादात्म्यप्रवणता कथ्यते । भ्याम्भ्यसोरभावेऽप्येकवचनमस्तीति चेन्न, ``ङे'' इत्यश्रवणात् । अथ स्वरूपेणाऽश्रवणेऽपि ``ङेर्य'' इतिविहितयकारादेशरूपेण श्रूयते इति । मैवम्, तथा सति ``श्रुताये'त्येवोपादीयेत, नतु ``आये'ति । आयेत्येतावतश्चतुर्थ्येकवचनादेशत्वाभावात् । नैष दोषः, ``सुपिचे'तिविहितदीर्घाकारविशिष्टस्यैव गृहीतस्य यकारादेशस्य चतुर्थीविभक्तित्वव्याघाताभावात् । केवलस्यैव तर्हि यकारस्य गृहीतत्वे (दीर्घाकार)विशिष्टगृहीतौ नैकमप्यर्थमवलोकयाम इति चेन्न, रामप्रातिपदिकाऽन्तादेशदीर्घविशिष्टतयोच्चारणस्य विभक्ते रामप्रातिपदिकसम्बन्धित्वविशिष्टप्रतिपत्त्यर्थत्वात् । रामाख्यस्य परमात्मनोऽपरोक्षजीवस्य तादात्म्योपवर्णनेन परोक्षता निरस्ता । नमःशब्दोपस्थापितजीवस्य रामतादात्म्यप्रतिपादनेन अशनायादिषडूर्मियोगो निरस्तः । अत एव श्रुतिः- ``तद्योऽहं सोऽसौ योऽसौ सोऽह'मिति ।
ननु (नमो)रामपदाभ्यां समानाधिकृताभ्यां जीवब्रह्मणोरेकत्वेऽवगमिते किमनुपयोगिनोऽतिरिक्तस्य बीजस्य मन्त्रेऽनुप्रवेशेनेति । मैवम्, शब्दरूपस्य बीजस्यापि रामसामानाधिकरण्येन रामाऽभेदप्रतिपादनार्थत्वात् । अत एव प्रागभ्यधायि -'सीतारामौ तन्मया'विति । ननु संसारित्वाऽसंसारित्वादिविरुद्धधर्माध्यासवतोः परापरयोः कथमात्यन्तिकमैक्यमुच्यते । गगनावच्छिन्नत्वसलिलावच्छिन्नत्वादिविरुद्धधर्माक्रान्तयोर्बिम्बप्रतिबिम्बयोरपि कथमैक्यं भवताऽभिधीयते । विरुद्धांशाऽपाकरणेनेति चेत्तर्हि प्रकृतेऽपि विरुद्धांशाऽपाकरणेनाऽस्तु । नन्वियमन्याश्च श्रुतयः खल्वात्मपरमात्मनोरभेदे प्रमाणीक्रियन्ते । अथ किम्? ननु कथय, कथं प्रत्यक्षादिविरोधे श्रुतय एताः प्रामाण्यमभेदे भजन्ताम्? प्रत्यक्षादिभिर्हि भेद एव तयोर्गृह्यते । मैवम्, नः तावता प्रत्यक्षं जीवब्रह्मणोर्भेदग्रहणक्षमम् । तथाहि - देवदत्तः स्वस्य परस्मादात्मनो भेदं न प्रत्यक्षतो ग्रहीतुं शक्ष्यति, स्वस्य प्रत्यक्षत्वेऽपि परमात्मनः प्रत्यक्षत्वाभावात् ॥ उभयोरपि हि धर्मिप्रतियोगिनोः प्रत्यक्षत्वेन भेदप्रत्यक्षता । नाप्यनुमानेन । तथाहि- ``अहं परमात्मनो भिन्नस्तद्विरुद्धधर्मवत्त्वा'दिति यदनुमानं, तदसिद्धग्रस्तम् । नहि स्वस्य परमेश्वरविरुद्धधर्माक्रान्तत्वं देवदत्तादिः प्रत्यक्षतो गृह्णाति, परमेश्वरस्याऽप्रत्यक्षत्वात् । नाप्यनुमानेन, तादृशलिङ्गाभावात् । अतो विरुद्धधर्माक्रान्तत्वहेतुरसिद्धः । नाप्यर्थापत्तिः, परापरात्मनोर्भेदे प्रमाणान्तरस्यानुपलम्भात् । विरुद्धधर्मानुपपत्तिरुपलभ्यत इति चेन्न, प्रागुक्तनयेन विरुद्धधर्मत्वस्याऽप्रामाणिकतया तत्प्रतियोगिताया अनुपपत्तेः शशशृङ्गायमाणत्वात् । नाप्यागमः, तस्य सर्वस्यापि परमात्मनोरभेदे एव प्रमाणत्वस्य विशदमुपलभ्यमानत्वात् । ननु ``द्वा सुपर्णे'ति ``द्वे ब्रह्मणी'ति च श्रुतिर्भेदपराऽपि विलोक्यत इति चेन्न, तस्या अविद्यासिद्धभेदानुवादिन्यास्तत्र प्रामाण्याभावात् । तस्मात् - प्रत्यक्षादिविरोधाभावात् परिपन्थिविरहितेयं श्रुतिरन्याश्च कथं न जीवब्रह्मणोरभेदं बोधयितुं क्षमिष्यन्ते । अथ विरुद्धधर्मत्वाभावेऽपि विरुद्धस्वभावयोर्जीवब्रह्मणोर्नाऽभेदो युज्यते, मैवम् । तयोर्विरोधस्यैवाऽसिद्धेः । तथाहि - कोऽयमनयोर्विरोधः? किं सहाऽनवस्थानलक्षणो विरोधः? अथवा बाध्यबाधकभावः? आहोस्विद्भावाभावात्मकत्वरूपः? उत परस्पराऽनात्मकत्वात्मकः? नाद्यः, व्यापकव्याप्ययोः सहावस्थानात् । सहाऽनवस्थाने-व्यापकावच्छिन्नप्रदेशेऽन्यस्यावस्थानाभावादव्यापकत्वापत्तेः । न द्वितीयः, तदसिद्धेः । नहि जीवः परं परो वा जीवं निहन्ति । न तृतीयः, उभयोरपि भावत्वात् । नापि चतुर्थः, परस्पराऽनात्मकत्वस्यैव भेदत्वात् । तेनैव च भेदसाधने आत्माश्रयत्वापत्तेः साध्यवैशिष्ट्यप्रसङ्गाच्च ॥ १॥
ननु जीवब्रह्मणोरेकत्वमेव चेत् श्रीराममन्त्रराजार्थः, तर्हि राममन्त्ररामयोर्वाच्यवाचकभावसिद्धिर्व्याहन्येतेत्याशङ्क्याह - मन्त्रोऽयमिति ।
मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ॥
फलदश्चैव सर्वेषां साधकानां न संशयः ॥ २॥
जीवब्रह्मणोरेकत्वमपि विचारे क्रियमाणे राम एव । अन्यथा तयोरेकत्वमन्यद्रामोऽन्य इति द्वैतापत्तेः । अतो न विरोध इति भावः । ननु मन्त्रमात्रमनुष्ठेयं किमर्थानुसन्धानेन, अर्थमात्रं वाऽनुसन्धेयं किं मन्त्रानुष्ठानेन । एकैकमात्रानुसन्धानेऽपि फलस्यावश्यकत्वादित्यत आह -योग एतयोरिति । एकैकमात्रानुसन्धानस्य पापक्षयादिफलकत्वेऽपि योगस्यैव मोक्षलक्षणफलदत्वं नान्यस्येति भावः । विरक्तैरनिष्यमाणस्यापि दिव्यभोगफलस्य दातृत्वं चशब्दार्थः । एवकारोऽयोगं व्यवच्छिनत्ति । फलदो भवत्येवेत्यर्थः । सर्वेषामित्यनेन साधकानामसाधकानां चोभयेषामपि फलभावत्वप्रसक्तिं व्यावर्तयति -साधकानामिति । उपासकानामित्यर्थः । साधकानामिति बहुवचनस्य त्रित्वपर्यवसानेऽपि चरितार्थतायां कतिपयसाधकपरित्यागप्रसक्तिः स्यात्, तां निरस्यति - सर्वेषामिति । उक्तमर्थं द्रढयति -न संशय इति । नित्यसिद्धस्य मोक्षस्याऽनुत्पाद्यस्य फलत्वाभावेऽप्यविद्यातिरोधानादविद्यमानतैव भवतीति,ब्रह्मसाक्षात्कारेणाविद्यापगतावुत्पत्तिरिव भवतीति फलत्वमौपचारिकमुपपद्यत इत्यनुसन्धेयम् ॥ २॥
ननु वाचकमन्त्रोपासनेनैव वाच्यो रामः साक्षात्कृतो भवतीति को नियमः । लौकिकश्रीरामगीताद्यनुसन्धानेनापि रामाभिमुख्योपपत्तेरित्यत आह -यथा नामीति ।
यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ॥
तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥
यो नामी - संज्ञी देवदत्तादिः, स यथा वाचकेन नाम्ना - संज्ञया कीर्त्यमानोऽभिमुखो भवेत्- विमुखोऽपि सम्मुखः स्यात्, तथा बीजात्मको मन्त्र एकाक्षरः । यद्वा ``बीजमात्मनि मन्त्रशरीरे यस्ये''ति षडक्षरो मन्त्रो वाचको वाच्यस्य मन्त्रिणो - मन्त्रदेवतात्वान्मन्त्रवतो रामस्याभिमुखो भवेत् । सक्षात्कारमुत्पादयितुमुपास्यमानः प्रवणो भवेदित्यर्थः । एवमव्याख्याने दृष्टान्तदार्ष्टान्तिकयोरनन्वयापत्तेः । नच लौकिकगीतादिनैव रामाभिमुखीकरणं साधयितुं शक्यम्,
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।
मत्वा च सततं ध्येय एते दर्शनहेतवः ॥
इति नियमात् । क्वचित्तथा दर्शनेऽपि तस्य काकतालीयतैवाऽवगन्तव्या । जन्मान्तरसहस्रानुष्ठितश्रवणादिपरिपाकस्यैव साक्षात्कारहेतुत्वस्यैवावश्याश्रयणीयत्वात् । अन्यथोदाहृतवाक्यस्योन्मत्तप्रलपितत्वापत्तेः ॥ ३॥
अथ वक्ष्यमाणपूजाङ्गतया बीजादिन्यासमाह - बीजेति ।
बीजशक्ती न्यसेद्दक्षवामयोः स्तनयोरपि ॥
कीलं मध्ये विना भाव्यः स्ववाञ्छाविनियोगतः ॥ ४॥
दक्षो - दक्षिणः बीजमाद्यक्षरं शक्तिरन्त्यमक्षरद्वयम् । कीलं मध्यगतमक्षरत्रयम्, तत् मध्ये - स्तनद्वयान्तराले न्यसेत् । विना - बीजशक्तिभ्यां पृथक्त्वेन भाव्यो-भावनीयो ज्ञातव्यः । अन्यथा कीलकाद्यपरिज्ञाने सकीलको मन्त्रः फलदो न स्यादित्यर्थः । अथवा ``अविने'त्यकारप्रश्लेषेणपदं छित्त्वाव्याख्यातव्यम् । अविना-अपृथक्त्वेन बीजशक्तिमध्यवर्तितया तत्संश्लिष्टत्वेन भाव्य-उपासनीयः । विनियोगमन्तरेण मन्त्रस्य फलदत्वं न स्यादिति विनियोगमाह - स्ववाञ्छेति । अस्य मन्त्रस्य वाञ्छितार्थे विनियोग इत्याकारेण वचनोच्चारणं कर्तव्यमित्यर्थः ॥ ४॥
बीजशक्त्यादिन्यासकल्पनायाः प्राकरणिकराममन्त्रमात्रसम्बन्धित्वं वाक्येन बाधमान आह-सर्वेषामेवेति ।
सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ॥
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥
क्रमः - परिपाटी, प्रकार इति यावत् ।
``विना मन्त्रेण चेत्पूजा देवता न प्रसीदति''
इति पूजाङ्गत्वेन प्रागीरितं मन्त्रमुद्धरिष्यन् पूजनीयस्य रामस्य स्वरूपं परिवारं स्तुतिं चरित्रं च चतुस्त्रिंशत्कण्डिकाभिराह -अत्र रामैत्यादि, एवमुद्देशत इत्यन्तम् । अत्र-जडात्मके प्रपञ्चे रामः-पुरुषः सीतया-प्रकृत्या सहितो भाति-प्रकाशते । अमुमर्थं दृष्टान्तेन स्पष्टयति । दृष्टान्तप्रदर्शनप्रसञ्जितपरिच्छेदं वारयति -अनन्तरूपैति । तस्याग्नीषोमात्मकत्वमाह - तेजसेत्यादिना चेदित्यन्तेन । इह समशब्दोऽभेदवाची, नतु सादृश्यवाची । एकजातीयत्वविवक्षया समानजातीये समानजातीयमिति प्रयोगदर्शनात् । अतो वह्निना समो ``वह्न्यात्मक इत्यर्थः । तदेवोपपादयति- तेजसेति । तेजोरूपत्वेनेत्यर्थः ॥ ५॥
स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ॥
उत्पन्नं सीतया भाति चन्द्रश्चन्द्रिका यथा ॥ ६॥
तुशब्दोऽवधारणे । यो वह्निरूपः स एवेत्यर्थः । अनुष्णगुरूपः, अनुष्णाः-शीता गावः-किरणा यस्य सोऽनुष्णगुः सोमः, सुधात्मक इत्यर्थः । रामेऽध्यस्तविश्वस्य रामाद्भेदाभावमभिप्रेत्याह - विश्व इति । एवमग्नीषोमात्मकश्चेत्तर्हि अवश्यं ततो रामादुत्पन्नं जगदग्नीषोमात्मकं भवितुमर्हतीत्याह - चेदित्यादिना ॥ ६॥
प्रकृत्या सीतया सहितत्वं प्रागीरितमनूद्याऽपूर्वं गुणान्तरं विधत्ते-श्यामैत्यादिना ।
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ॥
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥
प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः ॥
प्रकृत्या परमेश्वर्य्या जगद्योन्याऽङ्किताङ्कभृत् ॥ ८॥
हेमाभया द्विभुजया सर्वालङ्कारया चिता ॥
श्लिष्टः कमलधारिण्या पुष्टः कोसलजाऽऽत्मजः ॥ ९॥
धृष्ट्यष्टकेति -धृष्टिप्रभृतयोऽष्टौ मन्त्रिणः परिवारत्वेन वक्ष्यमाणाः, तैर्विभूषित इत्यर्थः । पूर्वं सीतासाहित्यमात्रमुक्तम्, सम्प्रति तामपूर्वेण विशेषणेन विशेषयन् रामस्य प्रागनुक्तमेव तद्विशिष्टप्रदेशत्वमाह - प्रकृत्येति । अत्राऽङ्कशब्दो वामोङ्कपरः । चिता - चिद्रूपयेत्यर्थः । पुष्टः - तदालिङ्गनादेवाऽऽनन्दतुन्दिल इत्यर्थः । कोसलजा-कौसल्या तदात्मजः-तत्पुत्रो राम इत्यर्थः ॥ ७-९॥
दक्षिणे लक्ष्मणेनाऽथ सधनुष्पाणिना पुनः ॥
हेमाभेनाऽनुजेनैव तदा कोणत्रयं भवेत् ॥ १०॥
सधनुष्पाणिना-धनुषा सह वर्तत इति सधनुः पाणिर्यस्य तेन । अनुजेनैवेत्येवकारः समुच्चये । तदेति - यदा श्रीरामसीतालक्ष्मणास्त्रयो निर्दिष्टाः, तदाऽऽश्रयत्वेन कोणत्रयं-त्रिकोणं भवेत् । त्रिकोणस्य योन्याकारतया जगत्कारणता सूचिता भवति । नच रामस्य जगत्कारणतामुक्त्वा सम्प्रति त्रिकोणस्य तथात्वोक्तौ विरोध इति वाच्यम्, त्रिकोणस्य यन्त्रान्तर्गतत्वेन श्रीरामशरीरत्वात् । नहि देवदत्तादेश्चेतनस्य पुत्रादिकारणत्वोक्तौ तच्छरीरस्य तत्कारणता विरुध्यते ॥ १०॥
रामस्येव लक्ष्मणस्यापि पूजाङ्गमन्त्रोऽस्तीत्याह -तथैवेति ।
तथैव तस्य मन्त्रश्च यश्चाऽणुश्च स्वङेऽन्तया ॥
एवं त्रिकोणरूपं स्यात् तं देवा ये समाययुः ॥ ११॥
यथा रामस्य मन्त्रस्तथैव लक्ष्मणस्य मन्त्रोऽस्तीत्यन्वयः । लक्ष्मणमन्त्रमुद्धरति-यश्चेति । चकारो भिन्नक्रमः, सच क्रमो ज्ञापयिष्यते । योऽणुः-यो मन्त्रो लक्ष्मणसम्बन्धी, स्वङेऽन्तयास्वशब्देन स्वबीजनामनी परामृश्येते, ङे इति चतुर्थ्येकवचनम्, अन्तशब्दोऽत्र भावप्रधानः, स्वबीजनामचतुर्थ्यन्तत्वेन । प्रथमचकारान्नमोऽन्तत्वेन, ज्ञातव्य इति शेषः । द्वितीयचकारेण श्रीबीजपूर्वको नामचतुर्थीको वह्निजायान्तः सीतामन्त्रोऽपि सञ्चीयते । एवं रामाधिष्ठितं त्रिकोणमुपपाद्य निगमयति - एवमिति । ये इन्द्रादयो रावणपीडितास्ते त्रिकोणाधिष्ठातारं नारायणं शरणं प्रापुरित्याह -तं देवाइति ॥ ११॥
स्तुत्या विना न प्रसीदति प्रभुरित्यभिप्रेत्याह - स्तुतिमिति ।
स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ॥
कामरूपाय रामाय नमो मायामयाय च ॥ १२॥
कल्पतरौ स्थितं - कल्पवृक्षस्याधःस्थितमित्यर्थः । कामरूपायेति, स्वेच्छारूपायेत्यर्थः । मायामयाय - त्रिगुणात्मकप्रकृतिप्रचुराय, मायायास्त्रिगुणात्मिकाया आमयाय-रोगरूपाय, रोगवद्विघातकायेत्यर्थः । सहि साक्षात्कृतः स्वमायां संहरति ॥ १२॥
नमो वेदादिरूपाय ॐकाराय नमो नमः ॥
रमाधराय रामाय श्रीरामायाऽऽत्ममूर्तये ॥ १३॥
वेदादिरूपाय, वेदानां-ऋगादीनां कारणात्मने । नत्वेतेषां पौरुषेयत्वमाशङ्कनीयम्, निश्वासन्यायेन तेषां तत आविर्भावाङ्गीकारात् । अत एव श्रुतिः - ``अस्य महतो भूतस्य निश्वसितमेतद्यगृग्वेद'' इत्यादि । भट्टवादा अपि -
``यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता''
इति । वेदादिरूपाय ॐकारात्मकायेति न व्याख्यानं सुन्दरम्, ॐकारायेत्यनन्तरमेवोक्तत्वात् । रमाधराय, रमा-लक्ष्मी । सीता तस्या वामाङ्के धरणात् धराय श्रीरामाय, श्रियं-सीतां रमयतीति श्रीरामस्तस्मै । आत्ममूर्तये इत्यनेन आत्मरूपता व्यावर्त्यते ॥ १३॥
जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने ॥
भद्राय रघुवीराय दशास्याऽन्तकरूपिणे ॥ १४॥
जानकीदेहभूषाय, जानकी-सीता देहभूषा-शरीरालङ्कारो यस्य तस्मै, जानकीदेहः सीताशरीरं भूषा यस्येति वा । भद्रायमङ्गलाय ॥ १४॥
रामभद्र! महेष्वास! रघुवीर! नृपोत्तम!॥
भो! दशास्यान्तकाऽस्माकं रक्ष देहि श्रियं च ते ॥ १५॥
त्वमीश्वर्या दापयाऽथ सम्प्रत्याश्वरिमारणम् ॥
कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥
अस्माकं रक्षेति, अस्मान् रक्षेत्यर्थः । कर्मणि षष्ठीत्वम् । श्रियं-सम्पदं च देहीति । ``ते'' इति तच्छब्दस्य स्त्रीलिङ्गस्य द्विवचनम् । ईश्वर्या-सीतया ते-रक्षाश्रियौ दापय । अथेति समुच्चये, अपिचेत्यर्थः । ``सम्प्रति-वर्तमाने रावणोपद्रवकाले आशु-शीघ्रं अरेः-शत्रो रावणस्य मारणं कुरु'' इति देवाद्याः आदिशब्देन अन्या अपि देवयोनयः स्तुत्य-स्तुतिं कृत्वा । समासाभावेऽपि छान्दसोल्पप् । तेन सार्धं- परमेश्वरेण सहैव तत्परा भूत्वा सुखं-रावणजनितं दुःखमननुसन्दधानाः स्थिताः ॥ १५॥१६॥
स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ॥
रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥
स रावण इति ख्यातो यद्वा रावाच्च रावणः ॥
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥
विचेरतुस्तदा भूमौ देवीं सन्दृश्य चासुरम् ॥
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥
एवं-देवादिवत् ऋषयो-वसिष्ठाद्या अपि स्तुवन्ति-अस्तुवन् । लकारव्यत्ययश्छान्दसः । एवं देवादिभिः स्तुतौ कृतायां परितुष्टेन भगवता प्राचीनेषु बहुष्वपराधेषु सत्स्वपि नूतनमपराधमन्तरेण हन्तुमनौचित्यमिव भवतीति नूतनापराधकरणाय प्रेरितो दशास्यः सीतां जहार इति वदन्नेव रावणपदनिरुक्तिं द्विधा करोति-तदा रावणैति । असुर एव आसुरो-राक्षसः । रामपत्नीशब्दात् ``रा'' इति वर्णं, वनस्थात् ``वन'' इति वर्णद्वयं गृहीत्वा रावणशब्दो निष्पन्नः । रावात्-रावणात्, जगतो रोदनादित्यर्थः । तद्व्याजेन-हृतसीतान्वेषणमिषेण तदा-सीताहरणोत्तरकाले रामो लक्ष्मणश्च विचेरतुः । किं कर्तुं, सीतां देवीमीक्षितुम् । एवकारः सहायान्तरव्यवच्छेदनार्थः । कबन्धमसुरं सन्दृश्य हत्वा तस्य - कबन्धस्य आज्ञया - वाचा नतु प्रसिद्धयाऽऽदेशरूपया । अल्पज्ञतया नीचस्य कबन्धस्य सर्वेश्वरौतौ प्रति तदयोगात् । शबरीं गत्वा तया-शबर्या ॥ १७-१९॥
पूजितावीरपुत्रेण भक्तेन च कपीश्वरम् ॥
आहूय शंसता सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥
पूजितौ रामलक्ष्मणौ भक्तेन- स्वकीयभक्तिभाजा ईरपुत्रेण, ईरो- वायुः ``ईरयति प्रेरयती'ति व्युत्पत्तेः, तस्य पुत्रेण- हनुमता द्वारभूतेन कपीनामीश्वरं- सुग्रीवमाहूय सर्वं वृत्तान्तं आद्यन्तम्, अत्र आङ् अनुसन्धातव्यः, आद्यन्तविभिव्याप्येत्यर्थः । शंसताम्- अशंसताम्, उक्तवन्तौ । छान्दसोऽडागमाभावः ॥ २०॥
स तु रामे शङ्कितः सन् प्रत्ययार्थं च दुन्दुभेः ॥
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥
स तु-कपीश्वरः रामे विषये शङ्कितः - ``वालिवधरूपं महत्कार्यं कर्तुं क्षमो नवे'ति सञ्जातशङ्कः सन् प्रत्ययार्थं च जिघांसितस्य वालिनोऽशक्यवधत्वे प्रतीतिं श्रीरामस्य चेतस्युत्पादयितुं अन्याऽनिष्पेषणीयं वालिना निष्पिष्टं दुन्दुभेर्दैत्यस्य विग्रहं- शरीरमस्थिकूपविशेषं महाशैलप्रायं दर्शयामास । स इत्यध्याहर्तव्यम्, तथाच यो रामः स तं-दुन्दुभिविग्रहं अचिक्षिपत्-अक्षिपत्, दशयोजनमित्यर्थः । अत्र णिच् अविवक्षितः, स्वार्थिको वा चौरादिकत्वात् ॥ २१॥
सप्त तालान् विभिद्याशु मोदते राघवस्तदा ॥
तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् ॥ २२॥
मोदते-अमोदत । भूतार्थे लट् छान्दसः । तदातालभेदाऽनन्तरकाले तेन-शरीरक्षेपादिना तस्य-वालिनः पत्तनं-नगरं किष्किन्धोपलक्षितम् ॥ २२॥
जगामाऽगर्जदनुजो वालिनो वेगतो गृहात् ॥
वाली तदा निर्जगाम तं वालिनमथाहवे ॥ २३॥
अनुजः सुग्रीवः ॥ २३॥
निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ॥
हरीनाहूय सुग्रीवस्त्वाह चाऽऽशाविदोऽधुना ॥ २४॥
आदाय मैथिलीमद्य ददताऽऽश्वाशु गच्छत ॥
ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥
ततो-वालिवधानन्तरं स्थापयेत्- अस्थापयत् । लुङि कर्तव्ये लिङ् छान्दसः । सुग्रीवस्तु हरीन्-वानरान् आहूय आह च-उक्तवान् । किमाह आशाविदो-दिशां ज्ञातारो वानराः! अधुना- सम्प्रत्येव अस्मिन्नेव क्षणे, एकस्मिन् क्षणे नानादिग्गमनसीतादर्शनतदानयनादि न घटत इत्याह- आश्विति । आश्वाशु-शीघ्रं शीघ्रम् । वीप्सा वेगातिशयप्रकाशनार्था ॥ २४-२५॥
सीतां दृष्ट्वाऽसुरान् हत्वा पुरं दग्ध्वा तथा स्वयम् ॥
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥
असुरान्-राक्षसादीन् तत्त्वतो-याथातथ्येन ॥ २६॥
तदा रामः क्रोधरूपी तानाहूयाऽथ वानरान् ॥
तैः सार्धमादायास्त्रांश्च पुरीं लङ्कां समाययौ ॥ २७॥
क्रोधरूपी, कोधेन रावणदुर्विनयश्रवणजनितेन रूपी- स्वाभाविकाद्रूपाद्विपरीतरूपविशिष्टः ॥ २७॥
तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् ॥
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥ २८॥
तां-पुरीम्, अकारयत्-अकरोत्, णिचोऽविवक्षितत्वात् । अथवा नरैरकारयदित्यदोषः । घटश्रोत्रः-कुम्भकर्णः सहस्राक्षजित्-इन्द्रजित् तं-रावणम् ॥ २८॥
हत्वा, विभीषणं तत्र स्थाप्याऽथ जनकात्मजाम् ॥
आदयाऽङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम ह ॥ २९॥
तत्र-रावणस्थाने स्थाप्य-स्थापयित्वा । समासाभावेऽपि ल्यप् छान्दसः । अङ्कस्थितां कृत्वा, पातिव्रत्याऽऽवेदकेन दुष्करेणाग्निप्रवेशकर्मणा भगवतः परितोषात् । तैरिति सहार्थे तृतीया, विभीषणसुग्रीवादिभिः साकमित्यर्थः ॥ २९॥
ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ॥
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥
सिंहासनस्थः, भरतेन राज्यसमर्पणात् । धनुर्धरः-धनुरुपलक्षितः, नतु धनुर्विशिष्ट एव । द्वयोर्भुजयोर्वस्त्वन्तराऽवरोधस्य वक्ष्यमाणत्वात् ॥ ३०॥
मुद्रां ज्ञानमयीं यामे वामे तेजःप्रकाशनम् ॥
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥
मुद्रामिति । यामे-दक्षिणे भुजे ज्ञानमुद्रां धृत्वा । ``अङ्गुलित्रयं प्रसार्य हृदयाभिमुखमवस्थापितया तर्जन्याऽङ्गुष्ठसंयोगो'' ज्ञानमुद्रा । वामे भुजे तेजःप्रकाशनं-बलप्रकटनं धृत्वा, वामजानुमण्डलं वामभुजया बलेनाऽऽपीड्येत्यर्थः ॥ ३१॥
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ धृतः ॥
हनुमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥
उदग्दक्षिणयोः-वामदक्षिणभागयोः धृतः-धारितवान् । धृधातोर्धारणार्थेऽपि स्मरणात्, ``धृङ् अवस्थाने धारणे चे'ति । अग्रतो हनुमन्तं च, धृतः इत्यनुषञ्जनीयम् । एवं वक्ष्यमाणषट्कोणावयवभूतं त्रिकोणमुपपाद्योपसंहरति-स्यात्त्रिकोणगमिति ॥ ३२॥
षट्कोणावयवभूतं त्रिकोणान्तरं निरूपयति-भरताधैति ।
भरताऽधस्तु सुग्रीवं शत्रुघ्नाऽधो विभीषणम् ॥
पश्चिमे लक्ष्मणं धृत्वा धृतच्छत्रं सचामरम् ॥ ३३॥
तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥
द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतम् ॥
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥
विभीषणं लक्ष्मणं च अङ्गदं चाऽरिमर्दनम् ॥
जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥
विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ॥
अकोपो धर्मपालश्च सुमन्त्रत्स्वेभिरावृतः ॥ ३७॥
तदधः-भरतशत्रुघ्नयोरधः तौ-सुग्रीवविभीषणौ तालवृन्तकरौ-व्यजनहस्तौ । त्र्यस्रं पुनरिति, अन्यत्त्रिकोणमित्यर्थः । एवं त्रिकोणद्वयस्य मेलने षट्कोणं, भवेदित्यनुषज्यते । एवं श्रीराममन्त्रोद्दिधीर्षया षट्कोणयन्त्रैकदेशो निरूपितः । अग्रे च एतमेवैकदेशमनूद्य यन्त्रं निःशेषतया वर्तते । तत्र पूज्यस्य रामस्य पौर्वापर्येणाऽङ्गाद्यावरणान्याह- आदावित्यादिना । स्वदीर्घाङ्गैरिति, स्वं-स्वकीयं बीजं ``रेफ आकारो बिन्दु'रित्यक्षरसमुदायात्मकं, तेन योजितानि यद्दीर्घाण्यक्षराणि ``आं ईं ऊं ऐं औं अः'' इत्येवंरूपाणि तैर्युक्तानि अङ्गानि हृदयादीनि तैः संयुतः श्रीरामः पूज्य इति वक्ष्यमाणेन सम्बध्यते । अङ्गानां पूज्यस्थानक्रमः श्रीशङ्कराचार्यैरभिहितः-
हृदयं सशिरस्तथा शिखां कवचं चेत्यनलादिदिक्षु तु ।
पुरतो नयनत्रयं क्रमात्पुनरस्त्रं च समर्चयेत्क्रमात् ॥
अत एव वक्ष्यमाणाग्नेयादि सिंहावलोकनन्यायेनात्रापि सम्बध्यते । अत्र यद्यपि वासुदेवाद्यावरणं द्वितीयमुक्तम्, तथापि आत्मादिचतुष्टयं सशक्तिकं द्वितीयं बोध्यम् । अगस्तिसंहितायां तस्यैव द्वितीयावरणत्वेनोक्तत्वात् ।
आत्मान्तरात्मपरमज्ञानात्मभ्योऽग्नितः क्रमात् ।
निवृत्त्यै च प्रतिष्ठायै विद्यायै ते नमाम्यहम् ।
शान्त्यै चात्मादिशक्तित्वे स्थित्यैतद्रूपिणे नमः ॥
इति । नचास्यार्थस्योपपादकाभावः, गुणोपसंहारन्यायस्यैव तथात्वात् । नन्वेवं वासुदेवादीनां तृतीयावरणत्वे द्वितीयशब्दविरोधः । मैवम्, तृतीयेऽपि द्वितीयापेक्षया द्वितीयशब्दोपपत्तेः । एवं चतुर्थेऽपि हनुमदाद्यावरणत्वे तृतीयशब्दोपपत्तिः । ननु स्मृतिस्थमतिरिक्तमङ्गं श्रुतेर्न्यूनोक्तित्वपरिहाराय कथमुपसंहियते? श्रुत्यपेक्षया स्मृतेर्दुर्बलत्वात् । मैवम्, स्मृत्यनुमितश्रुतिस्थस्यैवोपसंह्रियमाणतयाऽस्याक्षेपस्याऽनवकाशत्वात् । ननु स्मृत्यनुमिताऽपि श्रुतिः प्रत्यक्षश्रुतितो दुर्बलैवेति चेत्सत्यम्, तथापि श्रुत्यभिहितमर्थमनवबाधमानैव तत्स्मृतिस्तदनुमितश्रुतिर्वा गुणोपसंहारन्यायेन सहायार्थश्रुतौ निविशमानाऽनुमन्येत । को दोषः । वासुदेवाद्यैरित्यादिशब्देन सङ्कर्षणप्रद्युम्नाऽनिरुद्धाः श्रीशान्तिप्रीतिरतयश्च गृह्यन्ते । अरिमर्दनं-शत्रुघ्नं तैः-वायुसून्वादिभिः । पञ्चमावणमाह-ततो धृष्टिरिति ॥ ३३-३७॥
षष्ठमाह -ततः सहस्रेति ।
ततः सहस्रदृग्वन्हिधर्मरक्षोवरुणाऽनिलाः ॥
इन्द्वीशधात्रनन्ताश्च दशभिस्त्वेभिरावृतः ॥ ३८॥
सहस्रदृक्-इन्द्रः रक्षो-निरृतिः, अक्षराधिक्यं छान्दसम् । अनिलो-वायुः इन्दुः-सोमः धाता-ब्रह्मा अनन्तः-शेषः ॥ ३८॥
सप्तममाह -बहिरिति ।
बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ॥
वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥
तदायुधैः-इन्द्राद्यस्त्रैर्वज्रादिभिः । अष्टमन्नीलादिभिरिति । नवमं वसिष्ठेति । ध्रुवाद्यावरणान्यस्योद्धरिष्यमाणस्यानुरोधेन बोध्यानि । तत्र द्वात्रिंशद्दले ध्रुवादिध्यानस्य विहित्वात् । एषामावरणानां स्थाननियमः सम्प्रदायानुसारादवगन्तव्यः ॥ ३९॥
उक्तमुपसंहरति-एवमिति ।
एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ॥
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥
यन्त्रैकदेशस्वरूपं उद्देशतः- ``षट्कोण'मिति नामकीर्तनेन प्रोक्तम् । यन्त्रविशेषकथनं प्रतिजानीते-निर्देशैति । क्रियत इति शेषः । इदानीं यन्त्रविशेषं साऽक्षरविन्यासमुद्धरिष्यन्मुक्तं षट्कोणलक्षणं यन्त्रैकदेशमनूद्य तत्राक्षरादिलेखनं विधत्ते-त्रिरेखेति । त्रिरेखापुढं षट्कोणमालिख्य पूर्वोक्तरीत्या, तारः-प्रणवः ॥ ४०॥
तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ॥
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥
तन्मध्ये बीजम्, तदधो-बीजाधोभागे साध्यं-साधनीयमर्थं द्वितीयान्तं-द्वितीयविभक्त्यन्तम्, तस्य-बीजस्य ऊर्ध्वं-उपरिभागेषष्ठ्यन्तम् ॥ ४१॥
कुरुद्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ॥
तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥
तत्पार्श्वे, बीजस्य पार्श्वयोरित्यर्थः । बीजान्तरे-तस्यैव बीजस्योदरे रमां- श्रीबीजं तत्सर्वं साध्यादिसहितं बीजं प्रणवाभ्यां परस्परसम्मुखाभ्याम् ॥ ४२॥
दीर्घभाजि षडस्रेषु लिखेद्बीजं हृदादिभिः ॥
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥
दीर्घभाजि-आकारादिषड्दीर्घयुक्तं हृदयादिभिः-हृदय-शिरःशिखाकवचनेत्रास्त्रैः । तत्रास्त्रं पृष्ठतः, नतु चतुर्दिशं पूजायामिव । रमामाये-श्रीबीजभुवनेश्वरीबीजे तदग्रे- कोणाग्रे अनङ्गं-कामबीजम् ॥ ४३॥
क्रोधं कोणाग्रान्तरेषु लिखेन्मन्त्र्यभितो गिरम् ॥
वृत्तत्रयं साऽष्टपत्रं सरोजे विलिखेत् स्वरान् ॥ ४४॥
केसरे चाष्टपत्रे च वर्गाष्टकमथाऽऽलिखेत् ॥
तेषु मालामनोर्वर्णान् विलिखेदूर्मिसङ्ख्यया ॥ ४५॥
क्रोधं- कवचबीजं कोणाग्रान्तरेषु, कोणानां यान्यग्राणि तेषामन्तरेषु-आभ्यन्तरभागेषु लिख्य-लिखित्वा । असमासेऽपि छान्दसो ल्यप् । अभितः-सर्वतः-गिरं- वाग्भवं वृत्तत्रयं-तिस्रो वर्तुलाकारा रेखाः साष्टपत्रं-अष्टदलसहितम् । एतच्च वृत्तत्रयस्य विशेषणम्, वृत्तत्रयं साष्टपत्रं लिखेदित्यर्थः । सरोजे-अष्टदले कमले केसरे-केसरस्थाने स्वरान् अकारादीन् पूर्वक्रमेण प्रतिदलमूलं युग्मशो लिखेत् । अष्टपत्रे-अष्टानां पत्राणां मध्ये वर्गाष्टकं-कचटतपयशलवर्गानष्टौ लिखेत् । तेष्वपि-पत्रेषु मालामनोर्वर्णान् लिखेत् ऊर्मिसङ्ख्यया-षड्गणनया ॥ ४४-४५॥
अन्ते पञ्चाऽक्षरानेवं पुनरष्टदलं लिखेत् ॥
तेषु नारायणाऽष्टार्णं लिख्य तत्केसरे रमाम् ॥ ४६॥
अन्ते-अन्तिमदले पञ्चाक्षरान् लिखेत् । एवं-अनेन प्रकारेण पुनरष्टदलम्, अष्टपत्रान्तरमित्यर्थः । तेषु-अष्टसु पत्रेषु नारायणाष्टार्णं यथासङ्ख्यं लिख्य, लिखित्वेत्यर्थः । तत्केसरे-द्वितीयाष्टपत्रकेसरस्थाने रमां-श्रीबीजं केसरवदेव नैरन्तर्येण लिखेत् ॥ ४६॥
तद्बहिर्द्वादशदलं विलिखेद् द्वादशाक्षरम् ॥
तथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥
तद्बहिः-द्वितीयाष्टदलाद्बहिः द्वादशदलं विलिखेत् द्वादशाक्षरं - ॐ नमो भगवते पदमाभाष्य वासुदेवाय इत्यपि । द्वादशाक्षरमुद्धरति-तथोमिति ॥ ४७॥
आदिक्षान्तान् केसरेषु वृत्ताकारेण संलिखेत् ॥
तद्बहिः षोडशदलं लिखेत्तत्केसरे ह्रियम् ॥ ४८॥
आदिक्षान्तान् चतुःसङ्ख्यया प्रतिपत्रं लिखित्वाऽवशिष्टमक्षरद्वयमन्त्यदले । एवं तद्बहिः-द्वादशदलाद्बहिः षोडशदलं लिखित्वा वृत्ताकारेण केसरवत् सम्यग्लिखेत् । तत्केसरे-षोडशदलकेसरे ह्रियं- भुवनेश्वरीबीजम् ॥ ४८॥
वर्माऽस्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ॥
तत्सन्धिष्वीरजादीनां मन्त्रान् मन्त्री समालिखेत् ॥ ४९॥
वर्म-हुङ्कारः अस्त्रं-फट्कारः नतिः-नमःशब्दः, तद्युक्तं द्वादशाक्षरं षोडशाक्षरं भूत्वा प्रतिपत्रमेकैकाक्षरक्रमेण लिखेत् । तत्सन्धिषु-तेषां षोडशानां दलानां सन्धिमार्गेषु ईरजादीनां, ईरयति प्रेरयतीति ईरो - वायुस्तस्माज्जातः ईरजः-हनुमान् स आदिर्येषां ते ईरजादयः तेषां मन्त्रान्-बीजानि ॥ ४९॥
तान्येव दर्शयति-हमित्यादिना ।
हं सं भं वं लं शं जं चाऽऽलिखेत्सम्यक् ततो बहिः ॥
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥
चकाराद्बीजम् । लमिति लक्ष्मणबीजादुपरितनम्, धृष्ट्याद्यष्टमन्त्रिणां धमित्यादिबीजानि च गृह्यन्ते । समालिखेत्, सम्यक्-स्पष्टतया आसमन्ताल्लिखेत् ।
तत्सन्धिष्विन्द्रवज्रादिवर्णान् मन्त्री समालिखेत् ।
तद्बहिस्त्वीरजादीनां बीजान्यालिख्य तत्त्ववित् ॥
इति पाठे तस्य - षोडशदलस्य बहिः-ईरजाग्रे हमित्यादीनि बीजान्यालिख्य तत्सन्धिषु-षोडशदलानां सन्धिषु इन्द्रवज्रादिवर्णान्-इन्द्रवर्णान् वज्रादीनां वर्णान् लमित्यादीनि बीजानि मन्त्री-उपासकः समालिखेदिति योज्यम् । तत्त्वविदिति, गुरोर्लब्धभान इत्यर्थः । ततो बहिः-षोडशदलाद्बहिः द्वात्रिंशारं-द्वात्रिंशत्पत्रं महापद्मम् । अत्र चाष्टदलद्वादशदलापेक्षया महत्त्वम्, महामन्त्रलेखनयोगाद्वा । नादः - प्रणवस्य चतुर्थावयवः बिन्दुः - पञ्चमः, ताभ्यां समायुतमिति पाठे नादबिन्दुस्थाने मायादिबीजं लिखेदित्यर्थः ॥ ५०॥
विलिखेन्मन्त्रराजार्णांस्तेषु मन्त्री प्रयत्नतः ॥
ध्यायेदष्ट वसूनेकादश रुद्रांश्च तत्र वै ॥ ५१॥
तेषु-द्वात्रिंशत्पत्रेषु मन्त्रराजार्णान् बिलिखेत् सम्यक् । वसून् - ध्रुवं धरं सोमं आपोऽनिलमनलं प्रत्यूषं प्रभासं चाष्टौ, रुद्रान्-वीरभद्रं शम्भुं गिरिशं अजैकपादं अहिर्बुध्न्यं पिनाकिनं भुवनाधीश्वरं कपालिनं दिक्पतिं स्थाणुं भगं एवमेकादश रुद्रान् ॥ ५१॥
द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ॥
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥
आदित्यान्-वरुणं सूर्यं वेदाङ्गं भानुं इन्द्रं रविङ्गभस्तिमन्तं यमंस्वर्णरेतसं विभाकरं मित्रं विष्णुं द्वादश, धातारं चेति द्वात्रिंशद्देवान् ध्यायेत् । द्वात्रिंशद्दलेषु ध्यानपूर्वकं लिखित्वा पूजयेदित्यर्थः । तत्र नृसिंहानुष्टुभं रामानुष्टुभं सम्प्रदायानुरोधेन लेख्यमिति केचित् । तद्बहिः-द्वात्रिंशद्दलाद्बहिर्भागेषु पुरतो वषट्कारं पूजयेत् । भूगृहं-चतुरस्रं रेखाः-सत्त्वरजस्तमात्मिकास्तासां त्रयम् ॥ ५२॥
द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् ॥
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५३॥
नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ॥
कूटरेफाऽनुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५४॥
राश्यादि, राशयो मेषाद्याः । आदिशब्देन वारादिः । फणिसंयुतं, अनन्तः वासुकिः तक्षकः कालपद्मः महापद्मः शङ्खः कुलिकः एतैः फणिभिः-सर्पैः संयुतं तस्य-मण्डलस्य दिक्षु-पूर्वादिषु-नारसिंहं-नरसिंहबीजं विदिक्षु-आग्नेयादिषु वाराहं-वराहबीजम् । नरसिंहबीजमुद्धरति कूटः-क्षकारः रेफो-राक्षरः अनुग्रह-औकारः । श्रीकण्ठादिन्यासेऽनुग्रहस्वरस्यौकार-देवतात्वात् । इन्दुः-बिन्दुः नादः-प्रवणस्यपञ्चमोऽवयवः शक्तिः-षष्ठः, आदिशब्देन शान्ताख्यःसप्तमः ॥ ५४॥
यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ॥
अन्त्याधीशवियद्बिन्दुनादैर्बीजं च शौकरम् ॥ ५५॥
नृसिंहः समाख्यातः- नृसिंहबीजमुक्तम् । ग्रहेति, ग्रहाणां-बालग्रहाणाम् । उपलक्षणमेतत् । अन्येषां भूतप्रेतादीनामपि मारणं-निराकरणं तस्य कर्मणि-व्यापारे । अन्त्येति, अन्त्यः अधीश-ॐकारो यस्य सोऽन्त्याधीशः । श्रीकण्ठादिन्यासे अधीशस्य ॐकारदेवतात्वात् । ईदृशो वियत्-हकारः शौकरं-वाराहम् ॥ ५५॥
उद्धृतं वाराहं स्पष्टयति-हुङ्कारमिति ।
हुङ्कारं चात्र रामस्य मालामन्त्रोऽधुनेरितः ॥
तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५६॥
नच स्वरूपनिर्देशे सत्युद्धारो व्यर्थः, उद्धाराभावे पाक्षिकाऽशुद्धत्वप्रसङ्गात् । सम्प्रति राममालामन्त्रोद्धारं प्रतिजानीते-मालेति । तारः-प्रणवः नतिः-नमःशब्दः निद्रा-भकारः, कलान्यासे निद्राकलासम्बन्धित्वेन भकारस्योक्तत्वात् । निद्राया इतिपञ्चमीआनन्तयार्थे । निद्राया अनन्तरं स्मृतिः-गकारः,पूर्ववदेव स्मृतिकलासम्बन्धितया गकारस्योक्तेः । मेदः-वकारः, धातूनां मध्ये मेदसो वकारसम्बन्धित्वात् । कामिका-तकारः, तकारस्य कामिकाख्यकलासम्बन्धित्वात् ॥ ५६॥
रुद्रेण संयुता वन्हिमेधाऽमरविभूषिता ॥
दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घा समानदा ॥ ५७॥
सा च रुद्रेण - एकादशस्वरेण संयुता । वह्निरिति रेफः, रेफस्याग्निबीजत्वात् । मेधा-घकारः, तस्या घकारसम्बन्धात् । सा च अमरः- उकारस्तेन विभूषिता, मातृकान्यासे उकारस्याऽमरेश्वरसम्बन्धात् । दीर्घा-नकारः, नकारस्य दीर्घाख्यकलासम्बन्धात् । सा च क्रूरयुता । क्रूरः-अनुस्वारः, क्रूरस्थानुस्वारमूर्तित्वात् । ह्लादिनी-दकारः, तस्या दकारसम्बन्धात् । दीर्घा-नकारः समानदा, मानदा-आकारस्तेन सह वर्तमाना ॥ ५७॥
क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ॥
युक्ता दीर्घा ज्वालिनी च ससूक्ष्मा मृत्युरूपिणी ॥ ५८॥
क्षुधा-यकारः क्रोधिनी-रेफः, परयोः क्षुधाक्रोधिन्याख्यकलासम्बन्धात् । अमोधा-क्षकारः, तस्याः क्षसम्बन्धात् । विश्वं-वासुदेवः, विश्वशब्दस्य ``विश्वं विष्णु'रित्यत्र वासुदेवनामत्वात् वासुदेवस्य ओकारस्य मूर्तित्वात् । अतो विश्वं-ओकारः(१)मेधया युक्ता-घकारेण संयुक्ता, घकारस्य मेधासम्बन्धात् । दीर्घा-नकारः ज्वालिनी-वकारः, तस्य ज्वालिनीसम्बन्धात् । सूक्ष्मः-इकारस्तेन सहिता, सूक्ष्मस्येकारमूर्तित्वात् । मृत्युरूपिणी-शकारः, मृत्युरूपायाः कलायाः शकारसम्बन्धात् ॥ ५८॥
सप्रतिष्ठा ह्लादिनी त्वक् क्ष्वेलः प्रीतिश्च साऽमरा ॥
ज्योतिस्तीक्ष्णाऽग्निसंयुक्ता श्वेताऽनुस्वारसंयुता ॥ ५९॥
ह्लादिनी-दकारः सा च प्रतिष्ठया-आकारेण सहिता, प्रतिष्ठाख्यशक्तेः आकारसम्बन्धात् । त्वक्-यकारः, धातुषु त्वचो यकारसम्बन्धात् । क्ष्वेलो-विषं मकारः, विषस्य मकारसम्बन्धात् । प्रीतिः-धकारः, प्रीतिकलायास्तत्सम्बन्धित्वात् । सा च सामरा, अमरः-उकारस्तस्य तत्सम्बन्धात्, तेन सहिता । ज्योतिः-अग्निः रेफः तीक्ष्णा-पकारः सा च अग्निना-रेफेण संयुक्ता । श्वेता-सकारस्तस्यास्तत्सम्बन्धात्, सा च अनुस्वारेण संयुता ॥ ५९॥
कामिकापञ्चमो लान्तस्तान्तान्तो धान्त इत्यथ ॥
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६०॥
कामिका-तकारस्तस्यास्तत्सम्बन्धात्, तस्याः पञ्चमो-नकारः लान्तो-वकारः तान्तः-तस्यान्तस्थकारः तस्याप्यन्तो-दकारः धान्तो-नकारः सः सानन्तः अनन्त-आकारस्तत्सहितः, दीर्घयुक्तः दीर्घ-आकारस्तेन युक्तो वायुः-यकारः सूक्ष्म-इकारस्तेन युतो विषो-मकारः ॥ ६०॥
कामिका कामिका रुद्रयुक्ताऽथोऽथ स्थिरा स ए ॥
तापिनी दीर्घयुक्ता भूरनिलोऽनन्तगोऽनलः ॥ ६१॥
नारायणात्मकः कालः प्राणोऽम्भो विद्यया युतम् ॥
पीता रतिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६२॥
कामिका-तकारः, पुनरपि कामिका-तकारः सा च रुद्रेण-एकादशस्वरेण युक्ता, अथोऽथेति प्रगृह्यसंज्ञाया अभावश्छान्दसः । स्थिरा-जकारः, जकारकलात्वात्तस्याः । ``स ए'' इति च स्वरूपग्रहणम् । तापिनी-बकारः, स्वकारवद्बकारस्यापि तापिनीसम्बन्धात् । दीर्घयुक्ता भूः-(१)[ दीर्घेण-आकारेण सहितो लः, लकारस्य पृथिव्यात्मकत्वात् । अनिलः-यकारः अनन्तः-आकारः तं प्राप्तोऽनलः-रेफः कालः-मकारः स च नारायणात्मकः-आकारस्वरेण युक्तः, नारायणस्य आकार-मूर्तित्वात् । प्राणः-वायुः यकारः, यकारस्य वायुबीजत्वेनोक्तत्वात् । अम्भः-] उदकं वकारः विद्यया-इकारेण युतम्, पीता-षकारः रतिः-णकारः लान्तो-वकारो योन्या-एकारेण युतः, नतिः-नमःशब्दः ॥ ६१-६२॥
सप्तचत्वारिंशदर्णो गुणान्तः स्रगणुस्त्वयम् ॥
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६३॥
सप्तचत्वारिंशदर्णत्वं मध्ये सवर्णदीर्घलक्षणं सन्धिमकृत्वा सम्पादनीयम् । सन्धिमाश्रित्योद्धारस्तु व्याकरणानुरोधात् । गुणान्तः, गुणाः-सत्त्वरजस्तमांसि अन्तः-स्वरूपं यस्य, त्रिगुणात्मक इत्यर्थः । सात्त्विकादीनामुपासकानां सात्त्विकादिफलदातृत्वात् । स्रगणुः-मालामन्त्रः । तुशब्दो मन्त्रान्तरेभ्यो विशेषमाह । नायं मन्त्रो वनवासिनो रामस्य, किन्त्वभिषिक्तस्येत्याह- अयमिति(१)। यन्त्रलेखनप्रकारमुक्तमुपसंहरति-उक्तेति ॥ ६३॥
शिष्यसम्मुखीकरणतयोक्तं यन्त्रं प्रशंसति - इदमिति ।
इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ॥
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६४॥
अपुत्रिणां पुत्रदं च बहुना किमनेन वै ॥
प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६५॥
अत्र-अस्मिन्नेव जन्मनि धर्मादिकान्-धर्मार्थकामान् प्राप्नोति । अपिशब्दान्मोक्षो दृष्टान्तीक्रियते । अयमाशयः-रामोपासनस्य मोक्षसाधनत्वमित्येतदावश्यकम् । अतस्त्रिवर्गसाधनत्वं न स्यादिति शङ्का स्यात्, तदपनोदाय ``धर्मादिकानपी'त्यारम्भ इति ॥ ६५॥
इदं रहस्यं परममीश्वरेणाऽपि दुर्गमम् ॥
एवं यन्त्रं समालिख्य न देयं प्राकृते जने ॥ ६६॥
प्राकृतो जनः-पृथग्जनः । इतिशब्दश्चतुर्थोपनिषत्समाप्तौ ॥ ६६॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्य-आनन्दवनरचितायां श्रीरामपूर्वतापिनीयटीकायां रामकाशिकायां चतुर्थोपनिषत् समाप्ता ।
अथ पञ्चमोपनिषत् ।
निर्गुणप्राप्तेः परमपुरुषार्थत्वात्तस्याश्च सगुणोपासनया सुलभत्वात्तदङ्गभूतायाश्च पूजाया मन्त्रसाध्यत्वान्मन्त्राऽनुद्धारे तदपरिज्ञानात्तत्परिज्ञानाय मन्त्रोद्धारेऽपि यन्त्रं विना पूजने देवताप्रसन्नताऽभावस्य शाब्दत्वात् पूजार्थं यन्त्रमुद्धृत्य सम्प्रति पूजाविधिमारभते-भूतादिकमित्यादिना ।
भूतादिकं शोधयेद् द्वारपूजां
कृत्वा पद्माद्यासनस्थः प्रसन्नः ॥
अर्चाविधावस्य पीठाधरोर्ध्व-
पार्श्वार्चनं मध्यपद्मर्चनं च ॥ १॥
भूतं-पृथिव्यादिपञ्चकम् । आदिशब्देन आत्मा लिङ्गं द्रव्यं क्षितिश्च गृह्यते । तच्छोधयेत् । तत्र-भूतशुद्धिः शोषणदहनप्लावनैः, आत्मशुद्धिः भगवदाराधनविरुद्धविषयविरहः, उपास्यदेवतामूर्तिर्लिङ्गं तस्य शोधनं-पूर्वपूजानुलेपनाद्यपाकरणेन क्षालनम्, द्रव्यस्य-चन्दनपुष्पादेरर्चनसाधनस्य केशकीटाद्यपाकरणेन शोधनम्, क्षितेरङ्गमालिन्यादिना शुद्धिरिति बोध्यम् । प्रसन्नः-चित्तनैर्मल्पवान्द्वारपूजां-द्वारेषु चतुर्ष्वपि हि तद्देवतापूजां कृत्वा पद्मकस्वस्तिकाद्यासनोपविष्टः भूतादिकं शोधयेदित्यन्वयः । अस्य-प्रकृतस्य रामस्य, अः-विष्णुः तस्येति वा । फलतस्त्वेक एवार्थः । अर्चाविधौ कर्तव्ये सति पीठाधरोर्ध्वपार्श्वार्चनम्-पीठस्याऽधरभागाय नमः, पीठस्योर्ध्वभागाय नमः, पीठस्य पूर्वपार्श्वाय नमः, दक्षिणपार्श्वाय नमः, पश्चिमपार्श्वाय नमः इति पीठाधरादिपूजां मध्यपद्मार्चनं-पीठमध्यगतकमलार्चनम् ॥ १॥
कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकं चार्चयित्वा ॥
शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्जे स्वासनाऽधः प्रकल्प्य ॥ २॥
कृत्वा, पीठाद्बहिर्देवस्य वामभागे मृदुः-श्लक्ष्णा स्निग्धा या सुतूलिका-शोभना तूलपटी तां परिभाव्य तस्यां सिंहासनं भावयित्वा तत्र सिंहासने देशिकं- आचार्यं स्थितमनुध्यायाऽर्चयित्वा आधाराख्यकां शक्तिं-आधारशक्तिं तदुपरि कूर्मं तस्मिन्नागं-शेषं तत्र पृथिवीं तस्यामब्जं-कमलं च प्रकल्प्य-कल्पयित्वा । शक्त्यादिकल्पनास्थानमाह-स्वेति । स्वाभिन्नत्वेन ध्यातः श्रीरामः स्वशब्दार्थः, तस्य यदासनं-पूजापीठम्, तस्याधः-अधरभागे ॥ २॥
विघ्नं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाऽग्निदिशादिकांश्च ॥
पीठस्याङ्घ्रिष्वेषु धर्मादिकांश्च तत्पूर्वांस्तांस्तस्य दिक्ष्वर्चयेच्च ॥ ३॥
विघ्नं-गणेशं वाणीं-सरस्वतीं बीजानि- ``गं दुं क्षं सं'' तत्पूर्वकान् अग्निदिशादिकान्-आग्नेयनैरृत्यवायव्येशानपूर्वकान् पीठस्य कोणचतुष्टयेऽर्चयित्वा, अग्न्यादिक्रोणक्रमेणैव धर्मादिकान्-धर्मज्ञानवैराग्यैश्वर्याणि अर्चयित्वा, तत्पूर्वकान्-अधर्माज्ञानवैराग्याऽनैश्वर्याणि दिक्षु-पूर्वादिदिक्चतुष्टये अर्चयेत् ॥ ३॥
मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यौमैरर्चितानि ॥
रजः सत्त्वं तम एतानि वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥
अर्कः-सूर्यः विधुः-सोमः, उपर्युपरीति । अर्कोपरि सोमस्तदुपरि अग्निरित्यर्थः । औभैरिति । अकारोकारमकारैः प्रणवाऽंशभूतैः । यदाहुराचार्याः-
``मध्ये तं तं पद्ममस्मिंश्च सूर्यं सोमं वह्निं तारवर्णैर्विभक्तिः''
इति । तारः-प्रणव ॐकारः । रजः सत्त्वं तमः, अत्र सत्त्वं रजस्तम इति व्युत्क्रमो ज्ञातव्यः । उपर्युपरि अर्चयेदित्यर्थः । एतानि - सत्त्वादीनि, वृत्तत्रयं मण्डलत्रयत्वेन भावयेत्, चकारादर्चयेच्च । बीजाढ्यं स्मरेदेतत्पूर्वकम् ॥ ४॥
आशाव्याशास्वप्यथात्मानमन्तरात्मानं च परमात्मानमन्तः ॥
ज्ञानात्मानं चाऽर्चयेत्तस्य दिक्षुमायाविद्ये ये कलापारतत्त्वे ॥ ५॥
अन्तः - कर्णिकामध्ये आशासु-पूर्वादिदिक्षु आत्मादीनर्चयेत्, व्याशास्वपि-विदिक्ष्वाग्नेयादिष्वपि तानेव पूजयेत् । तस्य-कमलस्य दिक्षु चतसृषु,मायेति-मायातत्त्वं विद्यातत्त्वं कलातत्त्वं पारतत्त्वं चपूजयेत् । परमेव पारम् ॥ ५॥
सम्पूजयेद्विमलादीश्च शक्तीरभ्यर्चयेद्देवमावाहयेच्च ॥
अङ्गव्यूहाऽनिलजाद्यैश्च पूज्य धृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥
विमलादीश्चेति- विमला उत्कर्षणी ज्ञाना क्रिया योगा चेयं पञ्चमी प्रभ्वी सत्या ईशाना अनुग्रहाख्या नव शक्तीः पूर्वादिषु मध्ये चाऽर्चयेदित्यर्थः । आवाहयेच्च- आवाहनमुद्रयाऽऽवाहनं कुर्यात् । उपलक्षणमेतत्, स्थापनादीन्यपि तत्तन्मुद्रादिभिः कुर्यात् । चकारः श्रीरामस्य विहितपूजां समुच्चेतुम् । आवरणमाह-अङ्गेति, अङ्गानि- हृदयादीनि । व्यूहशब्देन ओत्मादयो वासुदवादयश्च सशक्तिका द्विधाऽप्युच्यन्ते । अनिलजाद्यैरिति, अनिलो-वायुस्तज्जो-हनूमान् तदादिभिरष्टभिः पूज्य- पूजयित्वा, धृष्ट्यादिकैर्मन्त्रिभिः षोडशभिः, लोकपालैरिन्द्रादिभिः तदस्त्रैः- इन्द्रायुधैर्वज्रादिभिः ॥ ६॥
वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः ॥
मुख्योपहारैर्विविधैश्च पूज्यतस्मै जपादींश्च सम्यक्समर्प्य ॥ ७॥
नीलमुखैर्नीलप्रभृतिभिः षोडशभिर्वानरैः, चन्दनादिभिः आदिपदेन पुष्पादीनि । मुख्योपहारैः-श्रेष्ठैः पवित्रैर्नैवेद्यैः जपादीन्, पूजाध्यानादय आदिपदार्थः । अयं पूजाक्रमोरामार्चनचन्द्रिकायांसपरिकरः समाकलनीयः ॥ ७॥
पूजाङ्गध्यानमाह-एवम्भूतमिति ।
एवम्भूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् ॥
गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥
अरि- चक्रं सुदर्शनाख्यं भवस्य संसारस्याऽरिं-शत्रुम् । ध्यानस्य तत्फलमाह-स यैति ॥ ८॥
उपपादितस्योपासनस्य फलं सनिदर्शनमाह-विष्वव्यापीति ।
विश्वव्यापी राघवोऽथो तदानीमन्तर्दधे शङ्खचक्रे गदाब्जे ॥
धृत्वा रमासहितः सावृतिश्चसपत्तनः सानुजः सर्वलोकी ॥ ९॥
राघवः- रघुवंशे आविर्भूतो विष्णुः सावृतिः-परिवारसहितः सपत्तनः-सनगरवासी, सर्वलोकी सर्वलोकसहितः अन्तर्दधे-अनवच्छिन्नानन्दप्रकाशज्ञानात्मके स्वरूपेऽवस्थितः ॥ ९॥
तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च ॥
इमा ऋचः सर्वकामप्रदाश्चये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥
तथा ये तद्भक्तास्तेऽपि लब्धकामांश्च परमेश्वरोपासनप्रभावप्रकामात् अभीष्टान् भुक्त्वा परमं पदं यान्ति । श्रीरामोपासनप्रतिपादकानां ``चिन्मय'' इत्यादीनामेतदन्तानामृचां पाठफलमाह -इमाइति । वीप्सा पञ्चमोपनिषत्समाप्तिद्योतनार्था । इतिशब्दो ग्रन्थपरिसमाप्त्यर्थः ॥ १०॥
विश्वनाथनगरीव काशिका पावनी जयति रामकाशिका ।
वेदशीर्षवचनोपपादितं वस्तु हस्तफलवद्विवृण्वती ॥
श्रीरामकाशिका कल्पलतिकाऽन्वेषिताऽन्वहम् ।
वर्धिता फलदा सम्यङ् नृऋणामानन्दकानने ॥
दृष्ट्वा मुक्तहरान् हरोऽपरिमितान् मुह्यन्नुमां कोपिकां
कुर्वन्नङ्गमिवाऽङ्कगां वहति यो यस्मिन् स्थितोऽहर्निशम् ।
तस्मिन् काशिपुरे पुरारिनिलये स्वर्गङ्गयाऽलङ्कृते
टीकाऽऽनन्दवनेन तेन रचिता रामादिका काशिका ॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्य-श्रीआनन्दवनविरचितायां श्रीरामपूर्वतापिनीयटीकायां रामकाशिकायां पञ्चमोपनिषत् समाप्ता ।
॥ समाप्ता चेयं पूर्वतापिनी ॥
श्रीरामोत्तरतापिनी ।
॥ श्रीः ॥
॥ श्रीरामाय नमः ॥
अथ प्रथमकण्डिका ।
आनन्दवनकृतया आनन्दनिधिनामिकया टीकया सहिता ।
सत्यं तारकतत्त्वमोमिदमणु स्थूलं चतुष्पादकं जाग्रत्स्वप्नसुषुप्तिगं स्मृतिवशाद्विश्वाद्यतीतं विभुम् ।
भ्रूनासान्त उपास्यमानममरैः स्तुत्यं तुरीयात्मकं भक्तानुग्रहविग्रहं जनकजाजानिं भजे राघवम् ॥
यः शब्दे परिनिष्ठितोऽथ परमे ब्रह्मण्यतिन्यायतो यत्कारुण्यसुधोदबिन्दुकणिका संसारसन्तापनुत् ।
यद्गाम्भीर्यमगाधमप्यनुचरैर्गाधं समाश्रीयते तस्य श्रीगुरुराघस्यचरणद्वन्द्वारविन्दं नुमः ॥
आसीद्वासिष्ठवंश्यो नृहरिरिति पुरा केशवाह्वस्य सूनुस्तस्मात् कृष्णाह्वयोऽभूद्धरणिसुरवरः पत्तने कुण्डिनाख्ये ।
तस्मात्सूनुर्गुणाब्धि समजनि कमलाम्बःप्रभुत्वाद्यतीनामानन्दाऽऽद्यः स रामोपनिषदि विदधे साधु टीकां वनाख्यः ॥
श्रीरामोत्तरतापिनीयविलसच्छ्रुत्यर्थसंशोधनव्याजेनाऽर्जितजन्मकोटिदुरितध्वंसानुवंशात् कृशा ।
टीका स्वात्महितार्थमेव विदुषां बोधाय सा नोच्यते तत्क्षन्तव्यमनाथदीनपतिभिर्विस्मृत्य मे चापलम् ॥
आनन्दनिधिनाम्नीयं टीका प्रोद्धाट्यते मया । रामचन्द्रमणिं प्राप्य कर्तुं साम्राज्यमद्वपम् ॥
इह खलु सकलप्राणभृतां सुखार्थित्वं दुःखानर्थित्वं च ध्यायमानत्वात् सुखोपादित्सादुःखजिहासयोरनिवारितप्राप्तौ कश्चित् कृतसुकृतनिचयखचितचरमकलेवरकमनीयतयाऽवश्यम्भाविदुःखाऽविनाभूतत्वेनाऽनित्यत्वेनसातिशयत्वेन च विषयजनितं सुखं दुःखमेवेति मत्वा सकलसंसारादत्यन्तोपरमपरो भवति । उपरतः सन्संसारोच्छित्तिहेत्वन्वेषणङ्करोति । संसारस्य च ब्रह्मात्मैकत्वापरिज्ञानविलसितत्वाद्ब्रह्मात्मैकत्वज्ञानेनैव तस्योच्छेदसम्भवात् रमणीयतरश्रीरामब्रह्मविद्यासिषाधयिषया श्रीरामोत्तरतापिनीयोपनिषत्सगुणोपासनफलभूतनिर्गुणश्रीरामोपासनतत्परतयाप्रववृते । यद्यप्यत्रोपनिषत्पदस्य ``उपनि'पूर्वात्सदेर्निष्पन्नस्यैव मुख्यया वृत्त्या श्रीरामब्रह्मविद्यापरत्वम्, तथापि लक्षणया वृत्त्या ब्रह्मविद्यार्थायां श्रुतावपि ब्रह्मविद्याप्रवृत्तिः । ``मुख्यैव शब्दस्य वृत्तिर्न लक्षणे'ति नच वाच्यम्, वृद्धैरुभयोरपि शब्दवृत्तित्वेन स्वीकारात् । ननु भवतु श्रुतिरूपग्रन्थोऽप्युपनिषत्, तथापि न व्याख्यानार्हतामासादयेत् । देहेन्द्रियान्तःकरणविलक्षणात्मनःकर्मविशेषणत्वेनस्तुतिपरत्वात् । न,तत्र विलक्षणत्वस्यैवोपपादितत्वात् । नहि विलक्षणत्वमात्रेणाऽऽत्मस्वरूपं शक्यमाकलयितुम् । अत्र तु ``अयमात्मा ब्रह्म, ``तत्त्वमसी'त्यादिमहावाक्यैर्ब्रह्मात्मैकत्वलक्षणमात्मतत्त्वं निरूप्यत इत्यगतार्थत्वेन व्याख्यानार्हत्वमासादयेदेव ।
ननु कर्मकाण्डदेवताकाण्डयोः फलपरत्वादेकस्यैव वेदस्य वाक्यभेदप्रसङ्गेन न व्याख्यानार्हत्वमिति - चेन्न, काण्डत्रयस्यैकवाक्यताप्रसिद्धेः । कर्मकाण्डे ``तमेत'मित्यनया विविदिषाश्रुत्या यज्ञदानादिनाऽन्तःकरणशुद्धिमुत्पाद्य, देवताकाण्डे चोपासनया शुद्धान्तःकरणैश्चित्तर्स्थैर्यं शिक्षित्वा, ज्ञानकाण्डे त्वम्पदार्थतत्पदार्थद्वयपरिशोधनेन जहदजहल्लक्षणया ब्रह्मात्मैकत्वं प्रतिश्रवणादिनाप्रतिपत्तव्यमिति काण्डत्रयसङ्गतिर्भगवद्भिःश्रीमच्छङ्कराचार्यैरेव दर्शिता । नाऽतः पृथक्प्रयत्न आश्रीयते ।
ननु भवतु काण्डत्रयसङ्गतिस्तथापि वेदानां शब्दत्वाच्छब्दस्य च श्रीरामब्रह्मपरत्वाऽसम्भवान्न व्याख्या युक्तिमती । यतः- शब्दप्रवृत्तिस्तु त्रिधा, मुख्या लक्षणा गौणी चेति । मुख्यापि द्विविधा रूढियोगभेदेन । तत्र रूढिस्तावद्ब्रह्मणि न प्रवर्तते,तस्यशब्दाऽगोचरत्वात्, तस्याश्च स्वरूपजातिगुणनिर्देशार्हे वस्तुन्येव ``डित्थः गौः शुक्ल'' इति संज्ञासंज्ञिसङ्केतेन प्रवृत्तेः । नापि यौगी, नापि लक्षणा । ब्रह्मणोऽसङ्गत्वेन सम्बन्धाभावात् । योगवृत्तेर्निराकरिष्यमाणत्वाल्लक्षणायाश्च संज्ञासंज्ञिसङ्केतेनाऽभिहितार्थसम्बन्धिनि वस्तुनि ``गङ्गायां घोष'' इतिवत् प्रवृत्तेः । यथाहुः-
``अभिधयाऽविनाभूतप्रवृत्तिर्लक्षणेष्यते''
इति । न गौणी, ब्रह्मणो निर्गुणत्वात् । गौण्यास्तु अभिहितार्थलक्षितगुणयुक्ते तत्सदृशे ``सिंहो माणवक'' इतिवत् प्रवृत्तिः*। यथाहुः-
``लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता''
इति । योगवृत्तेरसङ्गत्वाद्धेतोर्न ब्रह्मपरत्वम् । तस्याश्च रूढिलक्षणागुणत्रिविधवृत्तिप्रतिपादितपदार्थयोर्वा प्रकृतिप्रत्ययार्थयोर्वा योगे वा ``पङ्कजमौपगवः पाचक'' इत्यादिवत् प्रवृत्तिः । अतो ब्रह्मणः पदार्थत्वायोगादपदार्थस्यच वाक्यार्थत्वायोगान्न श्रुतिगोचरत्वम् ।
अत्रोच्यते- ब्रह्मणः शब्दागोचरत्वेनाऽसङ्गत्वेन निर्गुणत्वेन च श्रुतिगोचरत्वं साक्षान्माभूत्, तथापि सगुणद्वारा निर्गुणे समन्वयाद्युक्तमेव ब्रह्मपरत्वं वेदानाम् । तथाहि - ``यः सर्वज्ञः स सर्ववित् यस्य ज्ञानमयं तपः सर्वस्य वशी सर्वस्येशानः यः पृथिव्यां तिष्ठन् पृथिव्या आन्तरः सोऽकामयत बहु स्यां स ऐक्षत तत्तेजोऽसृजत् सत्यं ज्ञानमनन्तं ब्रह्मे''त्याद्याः श्रुतयो भगवन्तं षड्गुणैश्वर्यनिलयं सकलकल्याणगुणनिलयं सर्वज्ञंसर्वशक्तिंसर्वेश्वरं सर्वनियन्तारं सर्वोपास्यं सर्वकर्मफलदातारं सच्चिदानन्दं सगुणं गुणानभिभूतं श्रीरामचन्द्रं प्रतिपादयन्ति । तत्त्वमस्यादिवाक्यानि तु तादृगीश्वरत्वाभावाज्जीवस्य संसारनिवृत्तिद्वारा ``तत्त्वं'पदयोः सामानाधिकरण्यप्रतीत्यन्यथाऽनुपपत्त्या निर्गुणे पर्यवस्यन्ति । न तावत्सामानाधिकरण्यं ``वैश्वदेव्याभिक्षे'तिवदुभयोरेकार्थाभिधानेन । कुतः- भिन्नार्थत्वात् । यथोक्तम्-
आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः ।
आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥
इति । नच अजहत्स्वार्थयोः सामानाधिकरण्यं निरूढलक्षणया विशेषणविशेष्यभावेन ``नीलमुत्पल'मितिवत् । कुतः-विरुद्धार्थत्वेन तदयोगात् । तदुक्तम्-
``स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम्''
इति । नच जहत्स्वार्थत्वेन सम्बन्धिलक्षणया ``कुसुमितद्रुमा
गङ्गे'तिवत् । कुतः- एकार्थत्वस्य विवक्षितत्वात् । अतो जहदजहत्स्वार्थलक्षणया ``सोऽयं देवदत्त'' इतिवत् विरुद्धांशत्यागेनाऽनुगतचिदंशेनैकार्थ्येन निर्गुणे पर्यवसानम् । अस्थूलादिवाक्यानां तु साक्षादुपाधिनिषेधेन, उपासनावाक्यानां त्वन्यार्थप्रवृत्तसृष्ट्याद्यवलम्बनेन ज्ञानसाधनविधानेन निर्गुणब्रह्मपरत्वं प्रसिद्धम् । अतो ब्रह्मणि समन्वयादुपनिषदो व्याख्यानमुचितमित्यलमतिप्रसङ्गेन ।
तत्र श्रीरामपूर्वतापिनीये मन्दाधिकारिणां सगुणोपासनं निर्गुणोपाधिकं ``चिन्मय'' इत्यादिपञ्चोपनिषदा निरूपितम् । इदानीमुत्तमाधिकारिणां कर्मसु तत्फले विरक्तानां संन्यासिनां परमहंसानां श्रीरामोत्तरतापिनीयोपनिषदा तदेव निर्गुणोपासनं सगुणफलभूतं निरूप्यते । एतामेव श्रीरामचन्द्रब्रह्मविद्यामविद्यापनोदिनीं प्रकटयितुं कदाचिन्मिथिलोपवने जनको वैदेह आसाञ्चक्रे । तत्र च योगीश्वरः शिष्यसङ्घैर्मुनिगणैश्च परिवारित आसीत् । तत्रानेकैर्मुनिवरैस्तद्ब्रह्मवेत्तृत्वमसमानैः पृच्छ्यते ।
बृहस्पतिरुवाच याज्ञवल्क्यं यदनुकुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत ॥ १॥
एवं सति तं बृहस्पतिः- गुरुरुवाच याज्ञवल्क्यं- यः यज्ञवल्क्यस्यापत्यं यत्- प्रसिद्धं अनु- यत्सर्वस्मादप्यूर्ध्वं पुण्यातिशयचरमकोटिनिविष्टं, सर्वोत्कृष्टं पुण्यफलमिति यावत् । कुरुक्षेत्रं, ``कुत्सितं रौती'ति कुरु-पापकर्म संसारहेतुभूतम्, तस्य क्षेपणान्निरसनात् त्रातीति क्षेत्रम् । क्षेत्रे हि रूढं मूलतृणादि निरस्यते । यद्वा कुः- पृथिवी देहाद्याकारपरिणता, तस्यां रौति-रावं करोतीति कुरुः-प्राणः तस्य क्षेत्रं-रावकर्तुः प्राणस्य निवासस्थानं तत्कुरुक्षेत्रम् । प्राणस्याऽधिष्ठानमित्यर्थः । देवानां-इन्द्रियाणां तदधिष्ठातॄणां वा देवयजनम्, देवस्य-स्वयम्प्रकाशस्यात्मनो द्योतनात्मकान्तर्यामिणः, श्रीरामचन्द्रस्येत्यर्थः । यजनं-पूजाकारणम् । यत्र हि इन्द्रियाणि विविधविषयोपहारै'स्त्वं'पदाभिधमात्मानं श्रीरामचन्द्रं पूजयन्ति । तथाचवार्तिककारः- ``भोगश्चिदवसानते'ति । सर्वेषां भूतानां-समष्टिव्यष्ट्यात्मकानां ब्रह्मसदनम्, ब्रह्म-श्रीरामाख्यं देशकालवस्तुपरिच्छेदशून्यं तदेव सदनं-निवासस्थानम् । यत् विशेषणद्वयविशिष्टं कुरुक्षेत्रम्, तत्किमिति शेषः । उत्तरमाह, अविमुक्तं-अविद्याकामकर्मादिभिर्मुक्तमप्यविद्यादशायां अविमुक्तम् । वै-प्रसिद्धं ब्रह्म पुरुषशब्दवाच्यम् । तच्च द्विविधम्, पूर्णं तत्पदं उपाध्युपलक्षितं रामं पुरि शयानम्, त्वं पदं उपाधिधर्मानात्मनि मन्यमानं आत्मानम् । तदुक्तं -
उपाधिरज्ञानमनादिसिद्धमस्मिंश्चिदाभासनमीश्वरत्वम् ।
उपाधिरन्तःकरणं त्वमर्थे जीवत्वमाभासनमस्य तद्वत् ॥
इति । तत् शोधितपदार्थद्वयभूतं ब्रह्मैव ``कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदन'मित्यनुवादः । पदार्थद्वयपरिशोधनेनैकरसं ब्रह्मैव स्थानं भवति यस्मात्, तस्माद्यत्र क्वचन- यत्र क्वापि गङ्गाप्रयागादौ तद्विपरीते वा गच्छति तदेव-तत्स्थमेव मन्येत-जानीयात् । कथम्, इति- अनेन प्रकारेण ॥ १॥
प्रकारमाह -
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे । येनासौ अमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेदिति ॥ २॥
एवमेवैतद्याज्ञवल्क्यः ॥ ३॥
इदं वै - मया प्राप्तं स्थलमेव तदविमुक्तमेवेत्यन्वयः । उक्तविशेषणमेव नान्यदिति पुनः पुनराह -कुत्रक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति । स्थलमेवाऽविमुक्तमित्युपचारेणाऽव्यग्रत्वसम्पादनार्थं स्तूयते । अत्र - अविमुक्ते कुरुक्षेत्रादिरूपे पदार्थद्वयपरिशोधने हि- यस्मात् जन्तोः- पदार्थद्वयसामस्त्यमजानतः मुमुक्षोः प्राणेषु - पञ्चप्राणज्ञानकर्मेन्द्रियमनांसि षोडश तेषु उत्क्रममाणेषु- अभिमानाभावेन विलीनतां प्राप्तेषु सत्सु लीनप्रायेषु सत्सु । तथाच स्मर्यते -
प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥
इति । रुद्रः, रुत्-दुःखं अविद्यातत्कार्यभूतं द्रावयति-नाशयतीति तथा ईश्वरस्तत्पदार्थो राम एवाऽऽचार्यो भूत्वा, ``आचार्यवान् पुरुषो वेदे'ति श्रुतेः । तारकं-तारात्मकत्वात् तथा, सर्वस्मात्संसारभयात् सन्तारयतीति वा तथा, ब्रह्म-तारकविशेषणविशिष्टं ब्रह्मविद्याब्रह्मात्मैक्यबोधकं महावाक्यं, श्रीराममन्त्रमिति यावत् । व्याचष्टे-कथयति । येन-तारक-ब्रह्मजनितज्ञानेन असौ-रुद्रानुगृहीतो जीवः अमृती-अमृतो भूत्वा ``ब्रह्मास्मी''त्यभिमानवान् सन् मोक्षी भवति-स्वेन स्वयञ्ज्योतिःस्वरूपरामात्मनाऽवतिष्ठते । राममन्त्ररामयोर्वाच्यवाचकत्वेन भेदात् पूर्वस्य हेतोर्यस्मादर्थस्य नान्वयः, तस्मात्- अविमुक्तस्य शुद्धत्वम्पदार्थस्य निरुपाधिब्रह्मरामतापत्तेः अविमुक्तमेव निषेवेत-नितरां सेवेत । विजातीयप्रयत्नाऽनन्तरितसजातीयप्रयत्नप्रवाहेण साक्षात्कुर्यादित्यर्थः । अविमुक्तं न विमुञ्चेत्- यस्मिन् कस्मिन्देशे आत्मानुसन्धानं न परित्यजेत् । तदुक्तं पूज्यपादैराचार्यैः -
त्वम्पदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
श्रुत्या विधीयते यस्मात्, तत्त्यागी पतितो भवेत् ॥
इति । एवङ्गुणयाज्ञवल्क्यस्य बुद्धिपरीक्षार्थं स्वस्य बुद्धिशुद्ध्यर्थं वा पृष्टेन याज्ञवल्क्येनोक्तमङ्गीचकार बृहस्पतिः, एवमेवैतत् - पदार्थद्वयैक्यमेवाविमुक्तं कुरुक्षेत्रं देवयजनं ब्रह्मसदनमिति । पदार्थद्वयशुद्धिं ज्ञातवतः प्राणाद्युपाधिविलये ईश्वरानुग्रहेणोक्तं ब्रह्मविद्यया ब्रह्मात्मैक्यं भवतीति भावः । ``ब्रह्मैव सन् ब्रह्माऽप्येती'ति श्रुतेः ।
यद्वा प्राग्जन्मनि संन्यासाद्यधिकारसम्पादनेऽपि कनचिद् बलीयसा कर्मणा कस्याञ्चिद्यौनौ जडभरतवदुत्पन्नानामधिकारिणामनधिकारिणां वा सर्वेषामनुग्रहार्थं पृच्छति, यत्-प्रसिद्धं अनु-पश्चात् सर्वत्र विहरतामविहारार्थं पदं सर्वतीर्थेभ्य उत्कृष्टतमं भूमेरुत्तमाङ्गमिति यावत् । कुरुक्षेत्रं - कुरुणा राज्ञा पालितमनादिसिद्धं क्षेत्रं देवानां देवयजनं ब्रह्मावाप्तिहेतुभूतं, तत्किमिति शेषः । विशेषणद्वयविशिष्टं प्रसिद्धं कुरुक्षेत्रमेव कुरुक्षेत्रमन्यद्वेति सन्देहे उत्तरमाह, अविमुक्तं - कदाचिदपि विश्वेश्वरेणाऽविमुक्तं काश्यभिधेयं वै-निश्चयेन कुरुक्षेत्रम् । देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तादुत्कृष्टतमं नास्ति यस्मात्, तस्माद्यत्र क्वचन गच्छति-पञ्चक्रोशेषु यत्र कुत्रचिद्विचरति तदेव - एवम्भूतं प्रदेशमेव मन्येत - जानीयात् । कथमिति - अमुना प्रकारेण । प्रकारमाह, इदं वै - इदमेव कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति । अत्र-अविमुक्ते हि-यस्मात् जन्तोः- प्राणिमात्रस्य प्राणेषूत्क्रममाणेषु- लोकान्तरं गच्छत्सु, रुद्रः दुःखहारित्वाद्रोदनाद्वा तारकं ब्रह्मश्रीराममन्त्रात्मकं व्याचष्टे- दक्षिणे कर्णे कथयति । तदाह विश्वेश्वरःश्रीरामं प्रति-
मुमूर्षोर्मणिकर्णिक्यामर्धोदकनिवासिनः ।
अहं दिशामि ते मन्त्रं तारकं ब्रह्मसंज्ञितम् ।
अतस्त्वं जानकीनाथ परं ब्रह्माऽसिनिश्चितम् ॥
इति । येन - तारकब्रह्मविद्योपदेशेन असौ-जीवः अमृती भूत्वा-ब्रह्मास्मीत्यभिमानवान् सन् मोक्षी भवति - विदेहकैवल्यमापद्यते, शुद्धान्तःकरणस्य आचार्यरूपेणोपदेशाद्विदेहतां जीवन्मुक्ततां वाऽऽपादयति । पूर्णानन्दरूपेणस्वसन्निधिलेशवाच्छुद्धतामुत्पाद्य विदेहतां भक्तवात्सल्येन गलगरलादिदेहदानेन जीवन्मुक्ततां चाऽऽपादयतीति । नचात्र तारतम्यव्यवस्थाकरणमुचितम्, उपदेष्टुरुपदेष्टृवाक्यस्य चजलधिजलवदनसम्पादतदुत्कृष्टत्वात् । ज्ञानादेव तु कैवल्यम् । तज्ज्ञानसौलभ्यमत्रैव यस्मात्, तस्मादविमुक्तमेव निषेवेत- अत्यादरेण सेवेत । अविमुक्तं न विमुञ्चेत्-क्षेत्रसंन्यासं कुर्यात् । अङ्गीकारादाह गुरुः- ``एवेमवैतद्याज्ञवल्क्य'' इति ।
नन्वेवमपि ``प्राणेषूत्क्रममाणेषु'' इत्यनया श्रुत्या प्राणवताञ्जङ्गमानामेवतारकब्रह्मोपदेश इति चेन्न, स्थावराणामपि प्राणधारणाऽविशेषात् । नहि प्राणव्यतिरेकेण यस्य कस्यापि जन्म सम्भवति । ``यच्च किञ्च प्राणभृ'दिति श्रुतेः ।
यत्किचेदं प्राणिजातं जङ्गमं च पतत्त्रि च ।
यच्चात्र स्थावरं सर्वं तत्प्रज्ञाने प्रतिष्ठितम् ॥
इति स्मृतेश्च । जङ्गमेषुप्राणोत्क्रान्त्यभिव्यक्तिर्यथा,न तथास्थावरेष्विति विशेषः । ``भूतानां प्राणिनः श्रेष्ठा'' इति मनुवाक्यमपि अभिव्यक्त्यभिप्रायमेव, नत्वन्यत्राऽप्राणित्वप्रतिपादनपरम् । तर्हि शास्त्राधिकारित्वान्मनुष्याणामेवाऽस्त्विति चेन्न, पूर्वजन्मनिसुसंस्कृतस्यापिकेनचित्प्रतिबन्धकेन कर्मणा यत्किञ्चिद्देहावगतौ शास्त्रसाफल्यात् । नह्येकेन जन्मना विमुक्तिसौलभ्यम् ।
``बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते''
इतिभगवद्वचनात् । तथापि जडभरतवत्पूर्वसंस्कारस्मरण-सन्निधिविरहान्नेति चेन्न, परबुद्धेरप्रत्यक्षत्वात् । अविमुक्तप्राप्त्यन्यथाऽनुपपत्तिप्रमाणबलादप्यवगम्यते । पूर्वकृतसंन्यासाद्यधिकारकर्मपरिसमाप्त्यभावादिति चेन्न, प्रारब्धकर्मण एवोर्वरितत्वात् । अविमुक्तप्रान्तेपूर्वजन्मेहजन्मकृतानाङ्कर्मणामप्रवेशेन प्रारब्धस्य तस्य कुलालचक्रभ्रमणवदाशरीरान्तमवस्थानम् । ननु प्रारब्धशेषवतामप्यविमुक्तनिष्क्रमणं कथमिति चेत्, ईश्वरानुग्रहाभावादिति ब्रूमः । ``जडानां कर्मणां चेतनेश्वरसहायापेक्षे'ति न्यायात् । तथाचस्कन्दः-
ईश्वरानुग्रहादेवकाशीवासः सुदुर्लभः ।
सुलभः स्यान्मुने! नूनं नरैः सुकृतकोटिभिः ॥
इति । काशीवासिकृतकर्मणामसङ्क्षयान्नोपदेश इति चेन्न, अविमुक्तस्योपरत्वात् ।
``ऊषरः पुण्यपापानां धन्या वाराणसी पुरी''
``इदं प्रिये! क्षेत्रमतिप्रियं मे संसारबीजोषरमूषराणाम्'' इत्यादिवचननिचयैरूपरत्वं सङ्गृह्यते ।
``वाराणस्यां कृतं पापं वज्रलेपो भविष्यति''
``यथात्र पुण्यं कृतमक्षयं स्तात्तथाऽत्र पाप'मित्यादिवाक्यविरोधादिति चेन्न, तेषामन्यविषयत्वात् । अत्रकृतदुष्कृतानामन्यत्र प्राप्तमरणपरत्वात् ।
``अश्मना चरणौ हत्वा तत्रैव निधनं व्रजेत्''
इत्यादिवाक्यान्येतदर्थान्येव । तर्हि यथेष्टाऽऽचरणप्रसङ्ग इति चेन्न, अविधानात् । नह्यग्निहोत्रादिवद्ब्राह्मणहननादिविधिः श्रूयते, प्रत्युत निषेधश्च श्रूयते ।
अशनं वसनं वित्तं येषां काश्याममार्गतः ।
कीकटेन समा काशी सत्यं सत्यं खगाधिप!॥
इत्यादिवाक्यैर्यथेष्टाऽऽचरणप्रतिषेध एव क्रियते, नत्वनुज्ञाप्यते । अविधेयत्वेऽपि केषाञ्चिद्विरुद्धाचरणाऽऽदृतिर्दृश्यत एवेति चेत्सत्यम्, तस्याश्चात्रैव निरसनात् । काशीकृतपापिनो दण्डधरेण श्रीकालभैरवेण त्रिंशत्सहस्रसङ्ख्याकं कालं नानायोन्यग्नौ पच्यन्ते । तर्हि ``शरीरिणां नास्ति पुनः शरीर'मित्यादिसायुज्यवचननिचयव्याकोप इति चेन्न, प्राणोत्क्रमणक्षणक्षणेन भोग्यत्वात् । तथाहि - सकलसंसारस्य मायामयत्वात् यथा स्वप्ने मनोरथे वा देशान्तररूपान्तरसंवत्सरशतानुभवः, यथा मार्कण्डेयस्य सप्तकल्पानुभवः, यथा नारदस्य स्त्रीत्वाद्यवाप्तिः, लवणस्य वा मातङ्गस्त्रीपुत्राग्निपतनम् । स्वप्नादिसंसारस्यासत्यत्वं मार्कण्डेयादिसंसारस्य सत्यत्वं कथमिति चेत्, वासनादार्ढ्यादिति ब्रूमः । स्वप्ने हि वासनाशैथिल्यम्, अन्यदा दार्ढ्यमनुभूयत एव । तस्मादस्मिन्नेव शरीरे प्राणोत्क्रमणकाले यथेष्टाऽऽचरणफलानुभवान्ते तारकब्रह्मोपदेशाद्विदेहतैव । ``मुक्तिरेकेन जन्मने'त्युक्तत्वात् । तर्हि ``यदस्तिकण्ठे गरल'मित्यादिवाक्यैर्देहावाप्तौ न सायुज्यमिति चेन्न, तस्याः क्रमपरत्वात् । तारकब्रह्मोपदेशसमानत्वेऽपीश्वरानुग्रहशैथिल्यान्मुमूर्षोरन्तःकरणवैकल्याद्वापरोक्षज्ञानोत्पत्तावयोनि(गल)जगरलादिसारूप्यसामीप्यसालोक्यमनुभूयाऽन्ते सम्यगीश्वरानुग्रहादपरोक्षज्ञानेन सायुज्यमाप्नोतीति तारकब्रह्मोपदेशान्निर्विक्षेपो मोक्ष इति सिद्धम् ॥ १॥
इति आनन्दनिधिटीकायां प्रथमकण्डिका समाप्ता ।
अथ द्वितीयकण्डिका ।
प्रथमकण्डिकानिर्दिष्टस्य तारकब्रह्मणः स्वरूपकथनार्थेयं द्वितीया कण्डिकाऽऽरभ्यते अथेति ।
अथ हैनं भरद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तरतीति ॥ १॥
सहोवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्माय नमश्चद्राय नमो भद्राय नमः इत्यों तद्ब्रह्मात्मकाः सच्चिदानन्दाख्या इत्युपासितव्यम् ॥ २॥
अथ - गुरुप्रश्रसमनन्तरमेवाऽऽह, गौरवार्थम् । एनं- याज्ञवल्क्यं भरद्वाजः-ऋषिः पप्रच्छ- किं तारकम् । पूर्वं ``तारकम्ब्रह्म व्याचष्टे'' इत्येवोक्तम्, नतु तत्स्वरूपमिति तत्पृच्छति- किन्तरतीति । तरणविषयः प्रश्नः । इतिशब्दः प्रश्नद्वयसमाप्तौ । नहि साधनफलपरिज्ञानेन अन्यज्ज्ञेयमवशिष्यत इति भावः । ``ज्ञाने परिसमाप्यत'' इति स्मृतेः । सः- याज्ञवल्क्यः ह उवाच । तारकमिति पूर्वोक्तमनूद्य कथयति । तारमिति पाठे ॐकारपूर्वकत्वमुक्तं भवति, ॐकारस्य तारनामत्वात् । तदुक्तम्प्रपञ्चसारे
श्रीमदाचार्यैः -
ॐकारो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः ।
आदिरुमध्यो मपरो नामान्यस्य त्रिमात्रिकश्च तथा ॥
अस्य तु वेदादित्वात् सर्वमनूनां प्रयुज्यते चादौ ।
इति । दीर्घानलं - दीर्घाकारयुक्तमनलमग्निबीजम् । ऋलृदीर्घ द्वयरहितानांषण्णामप्याकारादीनां दीर्घशब्दवाच्यत्वेऽपि प्रथमाऽतिक्रमे कारणाभावादाकारस्यैव आनन्दपदनिर्वर्त्यत्वाच्च प्रकाशभूतेनाऽनलेन आकारयोजनमेवाऽनवद्यम् । बिन्दुपूर्वकं-बिन्दुः पूर्वो जन्मभूः, बिन्दोः सकाशात्पूर्वं जन्म यस्ये''ति वा । बिन्दुपूर्वमेव बिन्दुपूर्वकम्, स्वार्थे कः । शब्दसृष्ट्यादौ ``तम एवाग्र आसी''दित्यनया श्रुत्या सच्छब्दवाच्यमविद्याशबलं ब्रह्मैवोक्तम् । तदीक्षणेन क्षुभितगुणा वंशशकलकरणवत् कृत्ततराऽविद्या कला व्यक्तं चेत्युच्यते । ततः शब्दार्थगर्भवत्यविद्या बिन्दुर्महत्तत्त्वं चेत्यभिधीयते । ``महतोऽहङ्कारः, ततः पञ्चतन्मात्राणि, तेभ्यो भूतानि, तेभ्योऽखिलं जगत्'इत्यर्थसृष्टिक्रमः । बिन्दोर्नादः, स च परापश्यन्तीमध्यमावैखर्याख्यामवस्थामनुभूय स्वरवर्णपदवाक्यात्मको भवतीति शब्दसृष्टिक्रमः । परस्य शब्दात्मनो ब्रह्मणश्चतस्रोऽवस्थाः समामनन्ति तत्त्वविदः ।
आद्या तावत् परेति गीयते । या खलु आद्या-शक्तिरिति शाक्तैः, चितिरिति शैवैः, कुण्डलिनीति योगिभिः, प्रकृतिरिति साङ्ख्यैः, ब्रह्मेतिपाराशर्यैः, बुद्धिरिति बौद्धैः, स्वशक्त्युमिषितगोत्वाद्यपाधिरहिता महासत्तेति जातिवादिभिः,तथाविधोपाधिरहितं केवलं द्रव्यमिति द्रव्यवादिभिरेकाऽप्यनेकैर्नामभिर्व्यवह्रियते । यां चोत्तरायामवस्थायां निजैकाश्रयमायाख्यशक्तिकल्पितानेकोपाधिभेदाभिन्नस्वरूपामाचक्षते विचक्षणाः । यया च प्रकाशमय्या स्वाभिन्नतया विश्वं प्रकाश्यते । यस्यै वाऽविद्या शाश्वतिकविरोधाऽपि नित्यसन्निहिताऽपिद्रोग्धुन्न शक्नोति । यस्याश्च महोदन्वदम्भस्ततेरिवोदबिन्दुसञ्चय इवोदञ्चति प्रपञ्चः । यस्याः किलार्चिःकणाःतारातारापतितरणितनूनपात्प्रभृतयः । यस्यां च बुद्धाविव मायाशक्तिनिशायामिवाऽपगततमसि प्रभातायां संसारः स्वप्न इव संलीयते । सैव पराख्या शक्तिरनादिवासनापर्यायाऽविद्याख्यस्वशक्तिक्षोभ्यप्राणासुप्तोत्थितेव यदा विमर्शोन्मुखी भवति, तदा पश्यन्तीत्युच्यते । सा द्वितीयावस्था भण्यते । यदा पुनः सा प्राप्तविमर्शदशा स्वाश्रयाऽविद्याशक्तिपरिकल्पितं स्वस्यैव विवर्तभूतंस्वत्वानुस्यूतमनादिवासनानुकूलसमयानुरूपं स्वस्पादाभिन्नमपि भिन्नमिव विमृशन्ती पदार्थजातमाभ्यन्तरं बाह्यं च बुद्धिप्रतिभासलक्षणं रागादिदुष्टतयाऽन्तःकरणस्य सम्मुग्धं गृह्णाति, तदा मध्यमेत्याम्नायते । तां तृतीयामवस्थामाहुः । अस्यामेवावस्थायां परायाः शर्क्तेर्यो विमर्शोऽंशः स वाचकः शब्दोऽभिधीयते । यस्तु विमृश्योऽंशः स वाच्योऽर्थ इति व्यपदिश्यते । यः पुनरैकात्म्यावभासः, स शब्दार्थयोर्वाच्यवाचकभावाख्यः सम्बन्धो निगद्यते । ततश्च शब्दार्थसम्बन्धानामनादिसिद्धत्वम् । तथाचोक्तं - ``सिद्धे शब्दार्थसम्बन्धे चे'ति । सिद्धे शब्देऽर्थे सम्बन्धे चेति । एवं कृत्वा विमर्शाख्यशब्दानुविद्धत्वाद्विमृश्याख्यप्रपञ्चप्रज्ञानतायाः, प्रपञ्चस्य शब्दविवर्तत्वं सिद्धं भवति । सैव यदा विमर्शविमृश्योभयभावस्पर्शिनी ताल्वोष्ठादिस्थानविवृत्तत्वादिकरणजनितैर्नादविशेषैः कृतसंस्काराऽन्तःकरणवृत्त्या क्रमवशान्नादमयी च परिगृह्यते, तदा वैखरीत्याम्नायविद्भिराम्नायतेचतुर्थी अवस्था बिन्दोः । तदुक्तं -
वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा ।
उद्यतार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥
इति । अतःशब्दसृष्टेर्बिन्दुपूर्वकत्वात् वटकणिकानिदर्शनेन
बिन्दुशिरस्कन्तारकाद्यम्बीजमुद्धरेत् । मकारश्चैतन्याऽवद्योतकोऽमृतरूपश्चन्द्रस्तदाकारवान् बिन्दुः, तद्योजनया प्रकाशानन्दचिदात्मकं बीजमुद्धृतं भवतीत्यभिप्रायः । ``मः शिवश्चन्द्रमा वेधे'तिकोशकाराः । बिन्दुपूर्वकमिति बिन्दुग्रहणं कलानादयोरुपलक्षणम् । ततश्च मन्त्रबीजमस्तके नादबिन्दुकलाः प्रदर्शयेत् । अतोऽर्थसृष्टिर्वाच्या, शब्दसृष्टिस्तु वाचिका । तदुक्तं -
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देनगृह्यते ॥
इति । दीर्घानलं पुनः - अनुक्तत्वाद्बिन्दुरहितं तदेव पुनरुद्धरेत् । ``माय नम'' इति योजनायां षडक्षरं तारकस्वरूपमुक्तं भवति । सबीजेन रामपदेन ``चन्द्राय नम'' इति योजनीयम्, तथा ``भद्राय नम'' इति । एवं मन्त्रत्रयं भवति । ननु सबीजेन रामपदेन चन्द्रभद्रपदयोजनयाऽष्टाक्षरमन्त्रद्वयसामानाधिकरण्यान्मन्त्रत्रयमपि तारकब्रह्मविद्या स्यात् । न स्यात्, षडक्षरमन्त्रराजस्यैव सर्वात्मकत्वप्रदर्शनात् ।
ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञितः ।
सर्ववाच्यस्य वाचकः ॥
इति श्रीरामपूर्वतापिनीयश्रुतिव्याख्यानावासरे सर्वात्मकत्वं व्याख्यातम् ।
``सर्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः''
इत्यगस्त्यसंहितायाञ्च । अतः सर्वेषामेकाक्षरादीनां रामानुष्टुप्मध्यानांरामसहस्राक्षरान्तानांश्रीराममन्त्राणां सर्वेषां गणेशादिचतुर्णां (मन्त्राणां)सकलवेदानां कल्पानांलोकानां चार्थवचाकत्वेन सर्वात्मकत्वात् षडक्षरममन्त्र एवाऽनेकप्रकाशकांऽशुमालीव तारकस्वरूपं नान्यदिति । ननु ``उक्तमन्त्रद्वयात्मकमेवास्तु, सहपठितत्वात् । न, सर्वमन्त्राणामुपलक्षणार्थत्वेनोक्तेः । न केवलं सर्वप्रपञ्चकार्यभूतमेव तारकम्, किन्तु सकलकारणॐकारात्मकमपीत्याह - इत्यामिति । इति - उक्तप्रकारं षडक्षरं तारकं ॐ-ॐकारात्मकं भवति । नह्येतस्मादन्यॐकारः, ॐकारादेतदन्यदपिनेत्यर्थः । एवं यस्मात्, तत्-तस्मात् ब्रह्मात्मकाः सचिदानन्दाख्या इत्युपासितव्यम् । षडपि मन्त्रवर्णा ब्रह्मात्मकाः- ब्रह्मवाचकत्वाद्ब्रह्मस्वरूपाः । सच्चिदानन्दाख्याः- सच्चिदानन्दरामावबोधकत्वाद्गौण्या वृत्त्या तदाख्याः, पञ्चवर्णानां सच्चिदानन्दबीजाद्यत्वाद्वा । इति तारावयवतारकब्रह्माक्षराणामैक्यसम्पादनेन षडक्षरं तारकमेवोपासितव्यम् । कृताधिकारिभिः साधनचतुष्टयसम्पन्नैर्मुमुक्षुभिः परमहंसपरिव्राजकैरेतदेवार्थपुरःसरं जपेनोपासितव्यमित्यर्थः ।
तदेव तारतारकयोरैक्यमाह- अकार इत्यादिना ।
अकारः प्रथमाक्षरो भवत्युकारो द्वितीयाक्षरो भवति मकारस्तृतीयाक्षरो भवति अर्धमात्रश्चतुर्थाक्षरो भवति बिन्दुः पञ्चमाक्षरो भवति नादः षष्ठाक्षरो भवति तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि तदेव उपास्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्सन्तारयतीति तस्मादुच्यते तारकमिति ॥ ३॥
``अकारः प्रथमाक्षरो भवति'- अकारः प्रणवावयवः, प्रथममक्षरं राममन्त्रस्य भवति । लिङ्गविपयर्यश्छादसः । तथा ``उकारो द्वितीयाक्षरो भवति'। उकारोऽप्यकारान्तर्गत एव बोद्धव्यो वासुदेवत्वात् । ``मकारस्तृतीयाक्षरो भवति, अर्धमात्रश्चतुर्थाक्षरो भवति'। ``अर्धमात्र'' इत्यवयवत्वेन पुँल्लिङ्गत्वम् । ``बिन्दुः पञ्चमाक्षरो भवति, नादः षष्ठाक्षरो भवति'' सर्वार्थवाचकत्वात् । षण्णामपि षडवयवार्थवाचकत्वमिति सिद्धम् । एवमुभयोरेकार्थवाचकत्वेन सङ्ख्यासामान्येन च तादात्म्यमनुभूय सर्वावस्थास्वेतदेवोपासितव्यम् । तारस्य सिद्धादिदोषानुक्तेस्तारावयवानां मन्त्राक्षरैक्येन मन्त्रगतसिद्धादिदोषनिरसनात् ``रुद्रस्तारकं ब्रह्म व्याचष्टे'' इति स्वयमेव श्रुतिरधिकारितारतम्यचिन्तां झटिति साक्षात्कारफलाद्यर्थं पहिरति । एवं तारकत्वं सिद्धवत्कृत्य ``तारात्मत्वात् सर्वसम्भारभयतारणाद्वे'ति गूढाभिसन्ध्याऽभिहितं पूर्वोक्तं हेतुद्वयं विवृण्वती तारकनिर्वचनमाह-तारकत्वात्तारको भवतीति । तारकत्वात् -तारकात्मकत्वादयम्मन्त्रस्तारको भवति । अतो मया यदुक्तं तदेव ज्ञातव्यं नान्यदित्याह - तदेव तारकं ब्रह्मत्वं विद्धीति । अन्यव्यावृत्त्यर्थमवधारणम् ।
``नाऽनुध्यायात्बहून् शब्दान् वाचो विग्लापनं हि तत्''
इति विजातीयश्रवणनिषेधात् । ज्ञात्वा च तदेवोपास्यमित्याह-तदेवोपास्यामिति ज्ञेयमिति । तदेवज्ञेयमुपास्यमिति योजना । अन्यमन्त्रवाक्यनिचयविचारणं विहाय तदेव तारकमेवोपासितव्यमिति । शिष्यशिक्षार्थमवधारणम् । एवं प्रथमहेतुं विविच्य द्वितीयमाह-गर्भजन्मजरामरणसंसारमहद्भयात्तारयतीति । यस्मादेवम्, तस्मादुच्यते-तारकमितीति ।
किं तारकमिति प्रश्नस्योत्तरमुक्त्वा, किं तरतीत्याह - य इत्यादि आकण्डिकान्तम् ।
य एतत्तारकं ब्राह्मणो नित्यमधीते स पाप्मानं तरति स मृत्युं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स संसारं तरति स सर्वं तरति सोऽविमुक्तात्माश्रितो भवति स महान् भवति सोऽमृतत्वं च गच्छति ॥
इति द्वितीयकण्डिका ।
अथ तृतीयकण्डिका ।
य एतत्तारकं ब्राह्मणो नित्यमधीतैति । ``यो ब्राह्मणः ``तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्ये न तिष्ठासे'दित्यादिश्रुत्युक्तो ब्राह्मणः, ब्रह्मबुभुत्सुरिति यावत् । एतत्तारकं नित्यमधीते- अर्थानुसान्धानेन केवलमपि वा नित्यं जपति, स पाप्मानं तरति । पाप्मन एव सप्तविशेषणान्याह-'स मृत्युं तरति स भ्रूणहत्यां तरति, स ब्रह्महत्यां तरति, स वीरहत्यां तरति, स सर्वहत्यां तरति, स संसारं तरति, स सर्वं तरति'तारकब्रह्माध्ययनेनपाप्मानं तीर्त्वा यत्प्राप्नोति तदाह-सोऽविमुक्तात्माऽऽश्रितो भवतीति । अविमुक्तस्य य आत्मा-स्वरूपं प्रथमकण्डिकोक्तं विशुद्धब्रह्मणः अविमुक्ताख्यकाश्या वा स्वरूपं - ब्रह्मात्मैक्यम्, तदेवाश्रित्य-अवलम्ब्य तिष्ठति । तारकब्रह्मोपासकस्य यतेर्ब्रह्माश्रयणमेव भवतीति भावः । तदुक्तं भगवता- ``अनिकेतः स्थिरमति'रिति । ``अविमुक्तमाश्रितो भवती''ति पाठे-निरस्तसमस्तोपाधिकं ब्रह्मात्मस्वरूपमविमुक्तशब्देन लक्षणयोच्यते, तमाश्रितो भवति । तद्रूपो भवतीत्यर्थः । स महान् भवति - त्रैलोक्यपूज्यो भवति । सोऽमृतत्वं गच्छति-निरावरणं कैवल्यमाप्नोति । अविमुक्तात्माश्रिताऽमृतत्वपदयोर्जीवन्मुक्तिविदेहमुक्तिभेदेनाऽर्थभेदो ज्ञातव्यः । अस्य मन्त्रस्य महिमानं भगवान् भवानीवल्लभः प्रियः परमात्मा श्रीरामचन्द्र एव जानाति नेतरः । इतिशब्दः प्रश्नद्वयस्योत्तरद्वयसमाप्तौ ॥ २॥
इति आनन्दनिधिटीकायां द्वितीयकण्डिका समाप्ता ।
अथ तृतीयकण्डिका ।
प्रथमकण्डिकया निर्दिष्टस्य तारकब्रह्मणः, तदनन्तरितया तारतारकैक्येन तत्स्वरूपं प्रदर्श्य, तृतीयया तस्य वाचकस्य वाच्यमर्थमभिनयन् वाच्यवाचकयोरैक्यङ्कृतातिशयत्वेन स्वयमेवाह-याज्ञवल्क्यः । ननु किं तारकं किं तरतीति प्रश्नार्थनिरूपणेनोपक्षीणत्वाद्वाक्यस्यातोऽपृष्टमर्थकथनमकाण्डताण्डवितमनुसरति, वक्तव्यानामनन्तत्वात् । न, किं तारकमिति प्रश्नस्यैव शेषावशिष्टत्वात् । नहि वाच्यमर्थमन्तरेण वाचकस्य पर्यवसानं दृष्टं श्रुतं वा । अतस्तस्यैवार्थकथनमाह-अथेति ।
अथैते श्लोका भवन्ति ।
अकाराक्षरसम्भूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसम्भूतं शत्रुघ्नस्तैजसात्मकः ॥ १॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसम्भवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २॥
श्रीरामसान्निध्यवशाज्जगदानन्ददायिनी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥
सा सीता भवति ज्ञेया मूलप्रकृति संज्ञिता ।
प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ४॥
अथ- तारकस्वरूपकथनानन्तरं तदर्थभूता एते-श्रुतिप्रसिद्धवाक्यप्रमाणाश्चत्वारः श्लोका भवन्ति । अकारश्चासावक्षरं च तस्मात्सम्भूतः - सम्यग् जातः । अर्थसृष्टेः पश्चाद्भावित्वादकारेणाऽवभासितः अकारवाच्यः, अकारार्थं इति यावत् । सौमित्रिः-सुमित्रासुतः विश्वभावनः-जाग्रदवस्थानः, जाग्रदवस्थायां विश्वं सङ्कल्पयतीति तथा । जाग्रदवस्थासाक्ष्यात्मा विश्व इत्यर्थः । तथा उकारार्थमकारार्थाऽर्धमात्रार्थाः स्वप्नसुषुप्तितुरीयसाक्षिणस्तैजसप्राज्ञानन्दाः शत्रुघ्नभरतरामा ज्ञातव्याः । तत्र ब्रह्मानन्दैकविग्रहः, ब्रह्म चासावानन्दश्च स एवैको विग्रहः-शारीरं यस्य स तथा । श्रीरामसान्निध्यवशात्- रामशब्दस्य श्रीपूर्वत्वं भक्त्यतिशयाधानार्थम् । रामसाक्षात्कारस्यैव परमपुरुषार्थत्वापत्तेः । ``यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपणः''।
किं तेन न कृतं पापं चौरेणाऽऽत्मापहारिणा ।
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥
इतिश्रुतिस्मृतिभ्यां पुरुषार्थाप्रयत्ने विनिन्दनश्रवणाच्च । तस्य ब्रह्मानन्दविग्रहस्य श्रीरामस्य सान्निध्यं नाम आश्रयः । लौकिकमायावत् स्वाश्रयाव्यामोहकत्वेन स्वस्य च जडत्वेन तदाश्रयणं सद्वशत्वं च नानुचितमतः सान्निध्यवशाच्चिदाभासबललाभात् । जगदाकारकारिणी, जगत आकारस्तङ्करोतीति तथा । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम्, सर्वेषां देहिनां-आकारितानां तेषामुत्पत्त्यादिकारिणी । या च ``मूलप्रकृतिरविकृति'रित्युक्तनाम्नी, सा सीता भवति ज्ञेया- सीतेति ज्ञेया भवति । प्रकृतिनिर्वचनमाह-प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनैति । ``णूस्तुता'धित्यस्य धातोः प्रणूयते - प्रस्तूयते महदाद्याकारनिर्माणं यया सा प्रणवा तस्या भावस्तत्त्वं तस्मात्प्रणषत्वात्, प्रकर्षेण क्रियतेऽनयेति प्रकृतिः, ब्रह्मप्रणवमूलो वेदस्तद्वदनशीला विचारपराः वदन्ति-कथयन्ति । ``माया व्यक्तं प्रकृतिः सीते'ति पर्यायाः । तथाचश्रीरामायणेरामं प्रति कालोक्तमुपनिबबन्धाऽऽदिकविर्भगवान्वाल्मीकिः-
सङ्क्षिप्य हि परांल्लोकानेकस्त्वं मायया सह ।
भार्यया शुभया देव्या मां त्वं पूर्वमजीजनः ॥
इति । जाग्रत्स्वप्नसुषुप्तितुरीयसाक्षित्वेनोक्तविश्वतैजसप्राज्ञेश्वराः सौमित्रिशत्रुघ्नभरतरामास्तेषामैक्येऽप्यनेकत्वकर्त्री सीता चेत्येतावानेव स्थूलसूक्ष्मसर्वप्रपञ्च ॐकारात्मकस्य तारक- ब्रह्मणोऽर्थ इति । उपसंहृतावितिशब्दः ।
नतु ``अकाराक्षरसम्भूत'' इत्यादिना ॐकारस्यैवार्थः प्रदर्शितः, नतु षडक्षरतारकस्येति चेन्न, तारतारकयोरभेदप्रदर्शनात् । पूर्वं ``ॐकारात्मकत्वेन षडक्षरं तारकं ब्रह्म प्राधान्येनोपासितव्य-'मित्युक्तम्, इदानीं तारकषडक्षरात्मकत्वेन ॐकारप्राधान्येनेत्युच्यते । तत्र ब्रह्मचर्यगृहवानस्थाभिप्राय आद्यः प्रकारः । द्वितीयस्तुचतुर्थाश्रमाभिप्रायेण ।
इदानीं ॐकारोपासनया क्रमेण मुक्तिप्रकारमाह-ओमित्येतदक्षरं सर्वमित्यादिना यावत्कण्डिकासमाप्ति ।
ओमित्येतदक्षरं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म, अयमात्मा ब्रह्म । सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ५॥
ओमित्येतदक्षरं सर्वमिति । सर्वं - वाच्यमर्थजातं ॐइत्येतदक्षरं-ॐकाररूपमेवाक्षरम् । अक्षररूपश्रीरामपरमार्थप्रदत्वात्तदक्षरम् । सर्ववागात्मके ॐकारे भावाभावात्मकसर्वार्थवाच्यवाचकत्वं नाऽसमञ्जसमिति भावः । ``वाग्वा ॐकार'' इति, ``तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णे'ति च, ``ॐकारो वै सर्वावाक्'' इत्यादिश्रुतिभिः ॐकारस्य सर्ववागात्मकत्वमभिधीयते । ॐकारेणाऽवभास्यमानत्वात्सर्वं ॐकारात्मकमेवेति ज्ञाते सति कथं परमार्थावाप्तिरित्यत आह -तस्योपव्याख्यानमिति । तस्य - परमार्थप्रकाशकस्य ॐकारस्य उप-अक्षररूपश्रीरामप्रतिपत्त्युपायत्वादक्षररूपश्रीरामसामीप्येन व्याख्यानं - विस्पष्टं प्रकटकथनं, जानीयादिति शेषः । कथमित्यत आह -भूतं भव्यं भविष्यदिति सर्वं ॐकारएवेति । कालत्रयपरिच्छिन्नं समष्टिव्यष्ट्यात्मकं विराङ्हिरण्यगर्भरूपं ॐकार एवेति । तर्हि कालत्रयातिक्रान्तस्य ॐकारात्मकत्वं न स्यादित्यत आह- यच्चान्यत्त्रिकालातीतं तदपि ॐकार एवेति । यच्चान्यत्त्रिकालातीतं - कार्यैकसमधिगम्यं कालत्रयाऽनाकलितं अव्याकृतादि, तदपि ॐकार एव । एषङ्कार्यकारणरूपस्यसर्वप्रपञ्चस्य वाच्यस्य वाचकत्वं ॐकारे प्रदर्शितम् । इदानीं वाच्यवाचकयोर्भेदात् परमार्थरूपश्रीरामावाप्तिर्न स्यादित्यतस्तयोरभेदं दर्शयति -सर्वं ह्येतद्ब्रह्मेति । सर्वं - कार्यकारणात्मकं वाच्यं वाचकं ॐकारं परादिवाक्चतुष्टयरूपं परमार्थभूतश्रीरामावभासकमक्षरं च । हि यस्मादित्यर्थे । एतदुक्तरीत्या नामरूपात्मकंशब्दसृष्ट्यर्थसृष्टिक्रमेपूर्वं प्रदर्शितं ब्रह्म शुद्धे श्रीरामाख्ये ब्रह्मण्यारोपितम् । ``वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य'मिति श्रुतेः ।
ननु ``सर्वं ह्येतद्ब्रह्मे''त्यत्र ``सर्वं खल्विदं ब्रह्मे''त्यत्र च सर्वात्मकं ब्रह्मोच्यते । तत्किं सर्वं ब्रह्मेति सर्वमनूद्य ब्रह्मात्मताविधिः, अथवा ब्रह्माऽनूद्य सर्वात्मताविधिः? न प्रथमः, मिथ्यात्वेनाऽभिमतस्य सर्वस्य ब्रह्मात्मतायाममिथ्यात्वापत्तेः । नहि ब्रह्म मिथ्या । न द्वितीयः, ब्रह्मणो मिथ्यात्वापत्तेः । नहि मिथ्याभूतात्सर्वस्मादभिन्नममिथ्याभवितुमर्हति ।
अत्रोच्यते-सर्वमनूद्य तस्य ब्रह्मात्मता विधीयते । नच ब्रह्मात्मतायांसर्वस्यसत्यत्वापत्तिर्दोषाय । सर्वस्यापि ब्रह्मात्मना सत्यत्वस्येष्टत्वात् । तर्हि ``प्रपञ्चो मिथ्ये'ति वाचोयुक्तिरयुक्ता स्यादिति चेन्न, स्वरूपतो मिथ्यात्वस्य ब्रह्मरूपेणसत्यभूतत्वेऽप्यप्रत्यूहत्वात् । नहि स्वरूपेण मिथ्याभूतमपि रजतं शुक्तिरूपेणापि मिथ्या भवति । ननु तर्हि ``सुवर्णं कुण्डल'मित्यत्रापि केनचिद्रूपेण सत्यत्वं केनचिद्रूपेण मिथ्यात्वमापद्येतेति चेन्मैवम्, वैषम्यात् । तत्र हि सुवर्णकुण्डलांशयोरन्यतरस्यापि बाधाभावाद्विनैवबाधं सामानाधिकरण्यप्रयोगात् । ``सर्वं ब्रह्मे'त्यत्र च सर्वस्य स्वरूपतो बाध्यतया बाधे सामानाधिकरण्यमयोगानुपपतिः । चोरः स्थाणुरितिवत् । एतदेवश्रीरामपूर्वतापिनीये'जीवत्वेनेदमों यस्ये'त्यत्र विशदीकृतम् ।
नन्वात्मनो व्यतिरेकेण केवलस्वरूपनिरूपणेन परोक्षेण कथं परमार्थभूतरामावाप्तिः । नहि ``सौरं तेजो दहती'ति कथया पाकनिष्पत्तिर्दृष्टा, यावत्तन्मणौन स्फुरति । अतो ``गुडजिह्रिका'न्यायेन परमार्थापत्तिमाह-अयमात्मा ब्रह्मेति । पूर्वोक्तहेतोरर्थोऽत्र द्रष्टव्यः । यस्मात्सर्वं ब्रह्म तस्मात् अयं-'अयमहमस्मी'त्यनुभवगोचर आत्मापि ब्रह्म । नहिसर्वस्माद्भिन्नत्वेननिष्कृष्य मौञ्जेषिकावत् पृथक् क्रियते आत्मा । नन्वात्मनः प्रत्यगात्मत्वेन सर्वस्य दृश्यत्वेन चसर्वस्मात्पार्थक्यमात्मनःश्रुतिस्मृतिपुराणेतिहासादिष्ववगम्यत एव । सत्यम्, तत्केन वा नेत्युच्यते । व्यवहारमवलम्ब्य प्रथमत आत्मनो ब्रह्मत्वं दर्शयितुं सर्वान्तःपातित्वमुक्तम् । स्वरूपेण सर्वव्यतिरिक्तात्मा त्विदानीं निरूप्यते । अतो न दोषावकाशः । ननु पूर्णत्वाद्ब्रह्मण आत्मव्यतिरिक्ते यस्मिन् कस्मिन् वा विशेषे ब्रह्मसाक्षात्कारोदययत्नेनाऽलम्, किमिति आत्मन्येवेत्याग्रहः । नायमाग्रहः तत्रैव न्याय्यत्वात् । ``अहमज्ञ'' इत्यनुभवसिद्धात्मनि अज्ञानाध्यासनिरासप्रयत्नस्यैव प्राशस्त्यम् । नहि देवदत्ताऽऽन्ध्यनिरासाय यज्ञदत्ताऽञ्जनप्रयोगः । अत आत्मनोऽध्यस्तऽज्ञाननिरासोऽध्यासाधिष्ठानविकासश्चेत्युभयमभयदं भवतीति भावः ।
भवतु अयमात्मा ब्रह्म । तथापि ब्रह्मापरोक्षत्वं कथमागतमिति चेत्, उच्यते-अयमस्मीत्यनुभवादपरोक्ष आत्मैव । तदुक्तं भट्टपादैः-
इदमः प्रसक्षगतं समीपतरवर्ति चैतदो रूपम् ।
अदसस्तु विप्रकृष्टं तदिति परोक्षे बिजानीयात् ॥
इति । यदि परोक्षः स्यादात्मा तदा तस्य जडत्वेन प्रकाशत्वानुपपत्तौ जगदान्ध्यं प्रसज्येत ।
``अन्धस्येवाऽन्धलग्नस्य विनिपातः पदे पदे''
इति न्यायात् । अत आत्मनो ब्रह्मत्वे ब्रह्मणोऽपि पारोक्ष्यनिवृत्त्याऽपरोक्षत्वाप्तिर्निरायासत एवेत्यभिप्रायः । यद्यपि बृहत्त्वाद्बृंहणत्वाद्वा ब्रह्मपदार्थज्ञानमस्ति, अयमस्मीत्यात्मज्ञानमप्यस्ति । तथापि आत्मैव ब्रह्मेति ज्ञापयति शास्त्रम् । तदेव ह्ब्रह्मात्मैक्यम्परमार्थश्रीरामावाप्तिरित्युक्तं भवति । अयमात्मा ब्रह्मेत्यनेन महावाक्येनोक्तमर्थं द्रढयितुम्-
``अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते''
इति न्यायेनतत्त्वम्पदार्थयोरुपास्योपासकयोरारोपापवादद्वाराऽखण्डैकरसशुद्धब्रह्मावाप्तिमाह-सोऽयमात्मा चतुष्पादिति । सः-पूर्वोक्तः अयमात्मा परावरत्वेन व्यवस्थितः चतुष्पात्-चतुश्चरणः कार्षापणवत्, न गौरित्र चतुष्पात् । यथाहि-
``कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः''
इति मनूक्त्या कर्षेण-पलचतुर्थांशेन उन्मितस्ताम्रविकारोमाषषोडशात्मकः । स च पूर्वपूर्वपादानामुत्तरोत्तरमेलनेनैव कार्षापणसङ्ख्यासंज्ञां लभते नान्यथा । तथा त्रयाणां विश्वादीनाम्पूर्वपूर्वविलापनेनतुरीयस्य प्रतिपत्तिं गमयितुं करणसाधनः पादशब्दः । कथं चतुष्पात्त्वमित्यत आह-जागरितस्थानैत्यादिना चतुर्थं मन्यन्ते इत्यन्तेन । जागरितस्थानः, जागरितं स्थानमस्येति जागरितस्थानः बहिःप्रज्ञः-स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य स बहिःप्रज्ञः । बहिर्विषये वा यस्य प्रज्ञा, विद्याकृताऽवभास इत्यर्थः । सप्ताङ्गः-सप्त मस्तकादीन्यङ्गानि यस्य स तथा । तान्येवोक्तानि वार्तिककृद्भिः-
शिरश्चक्षुर्मुखं प्राणो मध्यं बस्तिस्ततोऽप्यधः ।
इत्यङ्गसप्तकं वैश्वानरोपास्तिश्रुतौ स्मृतम् ॥
इति । तानि कानीत्युच्यते-'द्यौर्मूर्धा, चक्षुरादित्यः, अग्निर्मुखं, प्राणो वायुः, देहमध्यमाकाशः, बस्तिः समुद्रः, पृथिवी पादा''विति । सप्तसु लोकेषु शिरादीन्यङ्गानि यस्येति वा । एकोनविंशतिमुखः-पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च प्राणाः चत्वार्यन्तःकरणानि, एवं एकोनविंशतिः साधिदैवतानि नामरूपाश्रयक्रियासाराणि मुखान्युपलब्धिस्थानान्यस्येति एकोनविंशतिमुखः । श्रीनृसिंहपूर्वतापिनीये'प्रणवमङ्गं जानीया''दिति श्रुत्या मन्त्रराजाङ्गत्वं ॐकारस्याभिहितम् । तथैव श्रीमच्छङ्कराचार्यैर्व्याख्यातं नृसिंहोत्तरतापिनीये'देवा ह वै प्रजापतिमब्रुवन् अणोरणीयांसमात्मानं ॐकारं नो व्याचक्ष्वे''त्यनया श्रुत्या प्राधान्यमेव ॐकारस्याभिहितम् । माण्डूक्योपनिषदि प्रणवविद्यायाःस्वाधीनत्वात्स्वाधीनत्वेन प्राधान्यं ॐकारस्योक्तम् । तथाश्रीरामपूर्वतापिनीये'जीवत्वेनेदमों यस्ये''त्यनया श्रुत्या श्रीतारकषडक्षरमन्त्रराजस्य पूर्वाङ्गत्वेनोत्तराङ्गत्वेन च ॐकारोपासना निरूपिता । अत्र श्रीरामोत्तरतापिनीये प्राधान्यं वाऽप्राधान्यं वा, प्राधान्याप्राधान्यं वा अप्राधान्यं प्राधान्यं वा न तथोच्यते । किन्तु ॐकार एव षडक्षरं तारकं ब्रह्मोच्यते । अतोव्याख्याभेदेच पाठभेदे च न्यूनातिरिक्तत्वे चछान्दोग्यादौॐकारोपासनाभेदे वा अन्यथा प्रतिपत्तिर्न मन्तव्या । तथा स्थूलभुक्, स्थूलान् विषयान् प्राधान्येन स्वात्मसात्करोतीति स्थूलभुक् वैश्वानरः, विश्वेषां नराणां नयनाद्वैश्वानरः । स्थानादिपञ्चविशेषणविशेष्यो विराडकारार्थ इति यावत् । सप्ताङ्गवैश्वानरपदप्रक्षेपस्तु समष्टिव्यष्ट्यात्मनोरेकत्वप्रदर्शनार्थम् । अन्यथा अष्टाङ्गो विश्वश्वेति वक्तव्यम्, अग्रे तैजसादीनामुक्तत्वात् । तर्हि द्वितीयतृतीयपादयोर्हिरण्यगर्भाऽव्याकृतयोरनुक्तत्वात् समष्टिव्यष्ट्योरेकत्वभङ्गप्रसङ्ग इति चेन्न, यथा प्रथमपादे वैश्वानरो विश्वैक्यप्रदर्शनार्थस्तथैवाऽग्रिमपादद्वये तैजसप्राज्ञौ हिरण्यगर्भाऽव्याकृतैक्यप्रदर्शनपरावित्यवसेयम् । प्रथमः पादः । एतत्पूर्वकोत्तरपादाधिगमात्प्राथम्यम् ।
द्वितीयमाह-
स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ६॥
स्वप्नस्थानः स्वप्नः स्थानमस्य तैजसस्येति स्वप्नस्थानः अन्तःप्रज्ञः, जाग्रत्प्रज्ञानैकसाधनबहिर्विषयेष्ववभासमाना (अन्तःप्रज्ञा)मनसि स्पन्दमाना सती तथाभूतं संस्कारं मनस्याधत्ते । तन्मनस्तथा संस्कृतं विचित्रपट इव बाह्यसाधनानपेक्षाऽविद्याकर्मभ्यां प्रेर्यमाणं जाग्रद्वद्भवति । तथाच बृहदारण्यके ``अस्य लोकस्य सर्वावतो मात्रामुपादाये'त्यादिश्रुत्योक्तम् । मनस्येकीभवतीतिप्रस्तुत्य ``अत्रैष देवःस्वप्ने महिमानमनुभवती'त्यथर्वणे । इन्द्रियापेक्षया सूक्ष्मत्वान्मनसः तद्वासनारूपान्तर्लब्धमज्ञोऽन्तःप्रज्ञः । ``सप्ताङ्ग एकोनविंशतिमुख'' इत्यङ्गमुखयोरुक्तन्यायेन वासनारूपमेवात्र बोद्धव्यम् । स्वप्ने वासनामययोः प्रतीयमानत्वात् । प्रविविक्तभुक्, प्रकर्षेण विविक्ते ततः केवलं वासनामयान्भोगान् भुनक्तीति प्रविविक्तभुक् तैजसः, जाग्रत्सुषुप्ती स्वतेजसा गच्छतीति तैजसः-उकारार्थः द्वितीयः पादः ।
त्रिष्वपि स्थानेषु तत्त्वाऽप्रतिबोधलक्षणस्य स्वापस्य तुल्यत्वादतः पूर्वाभ्यां सुषुप्तं विभजते तृतीयपादकथनार्थम्-
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ७॥
यत्र सुप्तो न कञ्चन कामं कामयते, न कश्चन स्वप्नं पश्यति तत्सुषुप्तमिति । यत्र-यस्यामवस्थायां सुप्तः-निद्रितः पुमान् कञ्चन-कमपि कामं-विषयं न कामयते-आसक्तबुद्ध्या माभिलषति, न कश्चन स्वप्नं पश्यति-कमपि वासनामयभोगं नानुसन्धत्ते, तत्सुषुप्तं-सा सुषुप्तावस्था । तृतीयपादमाह-सुषुप्तस्थानैत्यादिना । सुषुप्तस्थानः, उक्तं सुषुप्तं स्थानमस्येति स तथा । असत्कार्यवादस्याऽयुक्तत्वाद्विद्यमानमप्यत्र सप्ताङ्गत्वमेकोनविंशतिमुखत्वं च सन्मात्रान्न पृथग् विभाव्यत इत्याह-एकीभूत इति । किमात्मकोऽसावेकीभाव इत्याकाङ्क्षायां सन्मात्ररूपः प्रज्ञानात्मक इत्याह । प्रज्ञानघन एवेति । जाग्रत्स्वप्नप्रज्ञानानां घनत्वान्निविडत्वात् सर्वरसानामिव सैन्धवखिल्ये प्रज्ञानघनः । एवकारेण जात्यन्तरप्रतिषेधः । अत एव एकत्वेन विशेषविज्ञानाभावात् । आनन्दमयः-आनन्दप्रायः । दुःखबीजस्य विद्यमानत्वादानन्द एवेति वक्तुं न युक्तम् । अनेन सच्चिदानन्दाऽऽभासग्रस्तान्तर्मुखसन्मात्ररूपब्रह्मज्ञानात्मकसामान्यशरीरप्रवेशोपायः प्रदर्शितः । विश्व तैजसयोरिवास्यापि भोग्यमाह-अत्यानन्दभुगिति । अतिशयेन आनन्दं भुनक्तीति तथा । यथा हि लोके निरीहः स्थितः सुखानन्दभुक् उच्यते, तथात्र स्वाभाविकपरमानन्दयोग उपपन्नः । केन कारणेन आनन्दभोग्यत्वमत आह-चेतोमुख इति । प्रज्ञानघनरूपोऽयं सुषुप्त आत्मेति कथमवगम्यते इतिचेत्, स्वप्नजाग्रत्प्रज्ञाकारणत्वादित्याह-चेतोमुख इति, चेतः-चित्प्रतिबिम्बसहिता विद्यावृत्तयो मुखं करणं यस्य स चेतोमुखः । ``आनन्दमयः अत्यानन्दभुक् चेतोमुख'' इति त्रिभिः पदैः भोक्तृभोग्यकरणान्युच्यन्ते । स्वप्नादिमतिबोधे चेतः पति द्वारीभूतत्वात्तथाबोधलक्षणं वा चेतो मुखं-द्वारमस्य स्वप्नाद्यागमनं प्रतीतिचेतोमुखः ।
``अविद्यावृत्त्यवच्छिन्नचैतन्यं भोगसाधनम्''
इति वार्तिके । भूतभविष्यज्ज्ञानत्वात्सर्वविषयज्ञानत्त्वमस्यैवेत्याह प्राज्ञ इति । सुप्तो हिभूतपूर्वगत्या प्राज्ञ इत्युच्यते । अथवा प्रज्ञप्तिमात्रमस्यैवाऽसाधारणरूपमिति प्राज्ञः । इतरयोर्विशिष्टमेव ज्ञानमस्ति । सोऽयं प्राज्ञो-मकारार्थस्तृतीयः पादः ।
असावेव सर्वस्य कारणमिति चतुर्थमाह-एष सर्वेश्वरैत्यादिना ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ८॥
नबहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञं नाप्रज्ञं नप्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यते ।
एष सर्वेश्वरः, एष प्राज्ञ आत्मा स्वरूपावस्थः । अयमेव हि सर्वस्येश्वरः । यद्यपि प्राज्ञस्यापि सर्वेश्वरत्वादिधर्मजातं युज्यते, तथापि सापेक्षत्वेन सबीजत्वेन च निरस्यते । तुरीयस्य तु निरपेक्षत्वान्निर्बीजत्वात् सर्वेश्वरत्वादिधर्मजातं सङ्गच्छत इति भावः । सर्वेश्वरत्वे हेतुमाह-एष सर्वज्ञैति । अयमेव हि सर्वावस्थाभेदज्ञाता । सर्वेश्वरत्वेऽप्यन्तरेश्वरत्वं न स्यादित्यत आह-एषोऽन्तर्यामीति । स्वयमन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ता । ब्राह्माभ्यन्तरनियन्तृत्वे हेतुमाह-एष योनिः सर्वस्येति । यो यस्य कारणं स तस्य नियन्ता भवति । सर्वयोनित्वे हेतुमाह-प्रभवाप्ययौ हि भूतामिति । हि-यस्मात् भूतानामयमेव प्रभवाप्ययौ-उत्पत्तिप्रलयौ कृतवान् तस्मात् सर्वयोनिः ।
प्रथमद्वितीयपादे स्थानादीनि पश्च विशेषणानि निरूपितानि । तृतीये षट् । चतुर्थे पञ्चविशेषणैरीश्वरत्वं प्रदर्शितम् । तदीश्वरत्वादिकं मायामात्रं विहाय शुद्धं स्वरूपमात्मनः पञ्चदशविशेषणैर्विशेषितंशिवं चतुर्थपादमाह-नबहिःप्रज्ञमिति ।
बहिर्विषयव्यापारोपरमाद्विश्वसाक्षिणी जाग्रदवस्था प्रतिषिध्यते । तर्हि मनोव्यापारस्य दुर्वारत्वादन्तःप्रज्ञत्वं प्रसक्तम्, तन्मा भूदित्यत आह-नान्तःप्रज्ञमिति । अनेन तैजससाक्षिणी स्वप्नावस्था निषिध्यते । उभयव्यापारप्रतिषेधेन तदन्तरालव्यापारे प्राप्ते तन्निषेधति-नोभयतःप्रज्ञमिति । जाग्रत्स्वप्नान्तराले मनो व्यापृतम्प्रज्ञार्थन्न कुर्यादित्यर्थः । अन्तरालप्रतिषेधेनोभयत्र युगपत्प्रज्ञार्थ व्यापारे प्राप्ते तन्निषेधति-नप्रज्ञमिति । एवं सर्वतो मनोव्यापारप्रतिषेधादव्यापृतम्मनोऽविद्यात्मकं समवतिष्ठते, तत्स्थिति प्रतिषेधति-नाप्रज्ञमिति । तत्र स्थितिप्रतिषेधादज्ञानासाक्षिकत्वेप्राप्ते सन्निषेधति-नप्रज्ञानघनमिति । एभिः षड्भिः पदैः प्रतिषेधभूतैरुपास्यप्रतिकूलं प्रतिषिध्य यस्मिन्नुपास्ये मनोव्यापृतङ्कार्यं तदुपास्यं निर्दिशति नवभिः पदैः-अदृष्टमितिदृष्ट्यविषयत्वाद्दर्शनायोग्यम् । ``यस्येन्द्रियस्य यो विषयस्तेनैव स ज्ञायते नान्येने''ति नियमात् । अत एव अव्यवहार्यम् । अत एव अग्राह्यम् । अत एव अलक्षणम्, न लक्षणं-लिङ्गं विद्यते यस्य तदलक्षणम् । अत एव अचिन्त्यं, अनुमानेन तर्केण वा । अत एव अव्यपदेश्यं, नियतकारोपास्यप्रतिपादकैः शब्दैः । अत एव एकात्मप्रत्ययसारम्, एकस्मिन् सर्वेषामात्मनां प्रत्ययः एकात्मप्रत्ययः स एव सारं यस्य तत्तथोक्तम् । यद्वा एक एव आत्मा उपास्योपासकयोरित्येव प्रत्ययः, शेषं पूर्ववत् । अत एव प्रपञ्चोपशमम्, प्रागुक्तन्यायेन मनसो हि बाह्यदर्शनस्मरणव्यापाराभावाद्व्यावृत्तत्वाच्च । स्वापाभावाच्च उपास्यव्यतिरेकेण प्रपञ्चाप्रतीतेः प्रपञ्चोपशममिति । शिवं-शङ्करम्, कथम्भूतं अद्वैतम्-सजातीयविजातीयस्वगतभेदरहितं, अर्धमात्रं नादात्मकं चतुर्थं-तुरीयं पादं मन्यन्ते । जाग्रदादिस्वरूप-
निरुणमाचार्योक्तमेवोच्यते-
जाग्रत्सत्त्वगुणा प्रोक्ता केवलं शक्तिरूपिणी ।
मरणं विस्मृतिर्मूर्छा निद्रा च तमसाऽऽवृता ॥
सुषुप्तेस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी ।
संयोगः सत्त्वतमसो रज इत्यभिधीयते ॥
सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी ।
सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा ॥
अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला ।
चूतरम्भादिफलवत्पाकात् कैवल्यदायिनी ॥
तथाच वार्तिके-
विराट् हिरण्यगर्भश्चकारणं चेत्युपाधयः ।
ईशस्य यत्त्रिभिर्हीनं तुरीयं तत्पदं विदुः ॥
इति । एतच्चोपास्यं श्रीरामाख्यं वस्तु प्रत्यगात्मतयोपास्यमित्याह-स आत्मा विज्ञेय इति ।
स आत्मा विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति सम्भाव्योऽहमों तत्सद्यत्परं ब्रह्म रामचन्द्रश्चिदात्मकः
सोऽहमों तद्रामभद्रः परञ्ज्योतीरसोऽहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ।
सदा रामोऽहमित्येतत्तत्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥
इत्युपनिषद्य एवं वेद स मुख्यो भवतीति याज्ञवल्क्यः ।
स उपास्य आत्मा-श्रीरामः प्रत्यगात्मनि एवं विज्ञेयो-द्रष्टव्यः । ``आत्मन्येवाऽऽत्मानं पश्येदि''ति श्रुत्यन्तरात् । कथम्भूतो विज्ञेय इत्याह-सदोज्ज्वल इत्यादिसप्तविशेषणानि । सदा उज्ज्वलः-वृत्त्यलिप्तः, अविद्यातत्कार्यहीनः-स्वरूपास्फूर्तिदुःखाद्यनुभवरहितः स्वात्मबन्धहरः-स्वरूपप्रतिबन्धरहितः, सर्वदा द्वैतरहितः-दृश्यस्फुरणशून्यःआनन्दरूपः-आनन्दगुणवान् न भवति । सर्वाधिष्ठानसन्मात्रः, सर्वस्याधिष्ठानं चासौसन्मात्रश्च निरस्ताऽविद्यातमोमोहः-माया मायाभासश्चेति मायाऽविद्येत्युच्यते । अविद्यातत्कार्यराहित्यं प्रथमतः, मायामायाकार्यराहित्यं पश्चादित्यपौनरुक्त्यम् । पूर्वपूर्वस्योत्तरोत्तरं यथेष्टं हेतुहेतुमद्भावः । एवं सप्तविशेषणविशिष्ट आत्मा विज्ञेय इत्युक्तम् । स कथं विज्ञेय इत्यत आह-अहमेवेति । सम्भाव्येति-उक्त आत्मा त्वहमेवेति सम्यक् भावयित्वा । सम्यक्पदेनोक्तां भावनां ``तत्त्वमसि, त्वं तदसी'तिवत् परस्परव्यत्ययेन दर्शयति-अहमों तत्सद्यत्परं ब्रह्मेति । ओमित्युच्चरन् अहं-उक्तस्वरूप आत्मा तत्-व्यापकं-सत्-सन्मात्रं यत्-प्रसिद्धं परं ब्रह्म वाङ्मनोऽगोचरम् । तत्किमित्यपेक्षायामाह-रामचन्द्रश्चिदात्मकैति । अनेन ब्रह्मणः पारोक्ष्यनिवृत्यर्थ'महं ब्रह्मास्मी''त्युक्तं भवति । एवं सति प्राप्तामशनायापिपासादिप्रसक्तिं वारयितुं पुनः ओमित्युच्चरन् सः अहम् । तच्छब्दपरामृष्टमर्थं पूर्वोक्तमनुवदति-तद्रामभद्रः परञ्ज्योतीरसैति । तदादिविशेषणत्रयविशिष्टरामभद्रः परञ्ज्योतीरसः-परमज्योतिःसारः अहं आत्मा । अनेन ``ब्रह्माहमस्मीत्युक्तं भवति । एवं सति अशनायापिपासाद्यपरोक्षनिवृत्तिः स्वतः सिद्धैव, ब्रह्मणः अशनायादिरहितत्वात् । ``अशनायापिपासे शोकं मोहं जरामृत्युमत्येती'तिश्रुतेः । उक्तमर्थमुपसंहरति-इत्यात्मनमादाय मनसा ब्रह्मणैकीकुर्यादिति । इति उक्तप्रकारेण आत्मानमादाय-आत्मानमात्मत्वेन ज्ञात्वा । मनसासाधनेन ``मनसैवाऽनुद्रष्टव्यमिति श्रुतेः । ब्रह्मणा-श्रीरामचन्द्रेण सह एकीकुर्यात्, ऐक्यं कुर्यादित्यर्थः । एतदेवाऽसकृदावर्तनी-यमुपासकेनेत्याह-
सदा रामोऽहमित्येतत्तत्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥
इति । सदा-आसाक्षात्कारं रामोऽहमित्येतत् । तत्त्वत इति,
तस्य भावस्तत्त्वं तस्मात्तत्त्वत । अयमर्थः-प्रथमतस्तु वैखरीं मध्यमायां विलाप्य, मध्यमां पश्यन्त्यां पश्यन्तीं परायामित्येको योगः । सा परा ॐकारे, तं चोङ्कारं विभज्य अकार उकारे, उकारो मकारे, मकारोऽर्धमात्रायामिति द्वितीयः । ततः ॐकारार्थद्वयमधिदैवाध्यात्मरूपं प्रथमतः क्रमेण अकारोकारमकारार्धमात्रासु लक्ष्मणशत्रुघ्नभरतरामाः वैश्वानरहिरण्यगर्भाऽव्याकृतेश्वरापरपर्यायाः, ततो विश्वतैजसप्राज्ञतुरीया इति तृतीयो योगः । स च ॐ कारः सर्वे , तच्च सर्वमात्मन्यारोपितम् । स च आत्मा चतुष्पात् । तस्यात्मनो जाग्रदादिपादत्रयानुसन्धानेन एकत्वमवधार्य चतुर्थपादश्रीरामस्वरूपेणाऽवतिष्ठेदिति चतुर्थो योगः । एवं योगचतुष्टयरूपं तत्त्वं ये ततः प्रवदन्ति । श्रवणमनननिदिध्यासनपरः प्रशब्दार्थः । ते संसारे वर्तमाना अपि प्रसुप्तपुरुषवदन्यैः संसारिण इव परिदृश्यमाना अपि नूनं-निश्चयेन से न संसारिणः-राम एव ते नात्र संशयः । संशयकर्तुर्नरकावाप्तिरेव फलं नान्यत् । ``संशयात्मा विनश्यती'तिस्मृतेः ।
ननु यदि ते श्रीरामः, तर्हि श्रीरामवत् सेतुबन्धनाद्यद्भुतदेवदुष्करकर्मसामर्थ्यं किमिति तेषु न दृश्यते । अतः संसारिण एवेत्युच्यते । श्रीरामे भगवति मायावैभवयोगबलाऽसाधारणसामर्थ्यं स्वाभाविकम् । ``मायिनं तु महेश्वर'मिति श्रुतेः । अविद्यावरणविशिष्टे जीवे त्वसामर्थ्यम् । स्वकीयं मायाशाबल्यं परिहृत्य जीवस्य चाऽविद्याशाबल्यं परिहृत्य भक्तानुकम्पया शुद्धांशं ब्रह्मात्मैक्यं समर्पितम् । अतो मायामायाकार्याऽविद्याविद्याकार्यरहिताः शुद्धश्रीरामब्रह्मरूपाएव जीवन्मुक्ताः संसारिभिरनिर्धारितशीला विचरन्तीति नैष दोषः । तथा श्रीमद्भागवते-
न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत् साध्वसाधु वा ।
आत्मारामोऽनया वृत्या विचरेज्जडवन्मुनिः ।
इति । ननु ``जीवन्मुक्तिर्नाम देहाभावो वा,सदेहस्यभोगाभावो वा? नाद्यः, विरोधात् । नहि देहवतो देहाभावसम्भवः । न द्वितीयः, भोगापरिहार्यत्वात् । नहि भोगकारणे विद्यमाने भोगविच्छेदः सम्भवति । ननु भोगस्तात्त्विकः, अतात्त्विको वा? नाद्यः, अनिर्मोक्षप्रसङ्गात् । नहि तात्त्विकं शुक्त्यादिप्रमाणज्ञाननिरस्यम् । द्वितीयमङ्गीकुर्महे । भोगस्य आत्माऽज्ञानपरिकल्पितस्य आत्मज्ञानेन विच्छेदसम्भवात् ।
तदिदं न समञ्जसम् । दिङ्मोहादेर्बाधितस्याप्यनुवृत्तिदर्शनात् । नहि काचकामलादिकारणे विद्यमाने पीतशङ्खाद्यदर्शनम् । अन्यथादेहवर्तनं न स्यात् । अतो विदुषां जनकादीनां राज्यं श्रूयते । ``न ह वै सशरीरस्य सतः प्रियाप्रिययोरपष्ठतिरस्ती''ति श्रुत्यापि देहवतो भोगाऽसम्भवो निरस्यते । अतोऽयुक्ताजीवन्मुक्तिरिति ।
अत्रोच्यते-तत्त्वज्ञानोत्पत्तिर्जीवतो मृतस्य वा? नान्त्यः, शमदमादिपूर्वकश्रवणादिकारणानामसम्भवात् । अत आद्योऽङ्गीकार्यः । विदुषो याज्ञवल्क्यस्य जीवत एव संन्यासः श्रूयते, न मृतस्य । जीवतस्तत्त्वज्ञानोत्पत्तौ को लाभ इति चेत्, ``ज्ञानादेव तुकैवल्य'मितिब्रूमः । ``स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति पर'मित्यादिश्रुतिभ्यः । तर्हि भोगसन्ततिर्दुर्निवारेति चेन्न, भोगस्यात्माऽज्ञानकल्पितत्वात् । कारणानां विद्यमानत्वे दिङ्मोहादिवदनुवृत्तिर्दृष्टेति चेत्,दृश्यतान्नाम । नतथापि सुप्तोत्थितस्यस्वप्नव्यामोहवत्प्रमाणजनितज्ञानेन बाधितानुवृत्तिः कार्यक्षमत्वं लभते । विदुषां जनकादीनां राज्यश्रवणं तु लोकसङ्ग्रहार्थम् ।
ननु यदि ते विद्वांसः, तर्हिफलबाधनात्सकलकर्मसंन्यासेनैवानुगृह्यताम्, नत्वग्निहोत्रादिनेति चेन्न । अयमाक्षेपस्तिन्तिणीचोद्यमनुसरति । यस्य यादृक् प्रारब्धकर्मसंस्कारः, तस्य तादृगेव वर्तनम् । उत्पन्नेऽपि ज्ञाने तेषामनयैव नीत्या लोकसङ्ग्रहे क्रियमाणे नैष दोषः । ``न ह वै सशरीरस्ये'तिश्रुतेः का गतिरिति चेत्, तस्याः सामान्यविषयत्वेन विदुषः (इति)पदविशेषाश्रवणेन चाऽस्खलितगतिरेव । अतो जीवन्नेव मुक्तः, तस्य बाधितानुवृत्तिर्भवतीति युक्ता जीवन्मुक्तिः ।
ननु ``नेति नेति नह्येतस्मादिति नान्यत्परमस्ति नेह नानास्ति किञ्चने'त्यादिवाक्यसहित ``तत्त्वमसि'' महावाक्योत्पन्न ज्ञानेन प्रपञ्चमविलयद्वारा ज्ञानोत्पत्तौ प्रपञ्चस्य प्रत्ययेन बाध्यतायां देहस्यापि प्रपञ्चान्तःपातित्वात् ज्ञानोदयसमनन्तरमेव शरीरप्रविलयः प्राप्त इत्यसिद्धा जीवन्मुक्तिरिति चेन्न, प्रारब्धकर्मवशात्तदनुवृत्तेः । ज्ञानोदयेन सकलकर्मक्षयेऽपि प्रारब्धकर्मसंस्कारवशात् कुलालचक्रभ्रमणवत् शरीरभ्रमणमिति जीवन्मुक्तिः सिद्धैव । अतो जीवन्मुक्तास्ते विचरन्ति । तथाचजाबालोपनिषच्छ्रुतिः-'तत्र परमहंसा नाम संवर्तकाऽरुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डकमण्डलं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेद्यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वम्ब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्ष्यमाचरन्नुदरपात्रेण लाभालाभौ समौ कृत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु अनिकतवास्यप्रयत्नोनिर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामे'ति । यद्वालक्षणलक्षिताः आरब्धकर्मसंस्कारसदृशाःस्वच्छन्दा विचरन्ति । ``तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्ये न तिष्ठासेद्बाल्यं च पाण्डित्यं निर्विद्याऽथ मुनिरमौनं च मौनं च निर्विद्याऽथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवाऽतोऽन्यदार्त'मितिश्रुत्युक्तावा विचरन्ति । उपसंहरति-इत्युपनिषद्य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति । एवंविधा उपनिषद्ब्रह्मविद्या तां यः-श्रीरामोपासकः एवं-उक्तप्रकारेण-वेद जानाति, स मुख्यो भवति-त्रैलोक्यपूज्यो भवति । स मुक्तो भवतीति वा पाठः । इति याज्ञवल्क्यः-एवं भरद्वाजमुपदिष्टवान् याज्ञवल्क्य इति ॥ ३॥
इति आनन्दनिधिटीकायां तृतीयकण्डिका समाप्ता ।
अथ चतुर्थकण्डिका ।
प्रथमकण्डिकायां बृहस्पतिप्रश्नोत्तरे यत्तारकं ब्रह्म निर्दिष्टम्, द्वितीयायां भरद्वाजप्रश्नोत्तरे तारतारकैक्येन तत्स्वरूपं दर्शितम् । तृतीयायां तस्यार्थमुक्त्वा तेनवाच्येन वाचकैक्यन्निरूपितम् । तस्माद्ब्रह्मात्मैकस्य श्रीरामचन्द्रस्यप्राप्तिः कथं भवतीति वक्तुं चतुर्थ्यारभ्यते । तत्र भरद्वाजाय ब्रह्मविद्यायां सर्वशास्त्रार्थभूतायां समापितायामत्योत्सुक्येनाऽत्रिः पृच्छति-
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः-सोऽविमुक्ते उपास्यः । य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नाश्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नाशीति । सर्वानिन्द्रियकृतान्दोषान् वारयतीति तेन वरणा भवतीति । सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ।
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त अत्मा तं कथमहं विजानीयामितीति । ``यस्त्वया समनन्तरकण्डिकायां चतुष्पादात्मा उक्तः, तमात्मानमनन्तत्वादव्यक्तत्वात्कथमहं विजानीया'मिति प्रश्नार्थः । उत्तरमाह-स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यैति । आत्मना न विमुक्तं अविमुक्तम्, सन्धिं तुरीयमिति यावत् । तस्मिन्नुपास्यः-प्रत्यगात्मतयोपासनीयः । सर्वत्राऽवस्थितत्वादविमुक्त एवोपास्य इति कोऽयं नियमः इत्यत आह-य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतीति । य इत्याद्यनूद्य सोऽविमुक्ते प्रतिष्ठित इत्यनन्तस्य व्यापकस्यापि तेजसोऽर्कमण्डलवदविमुक्तसन्धौप्रतिष्ठाऽवस्थानं युक्तमिति भावः । अनेनोपासनासौलभ्यं दर्शितम् । सोऽविमुक्तशब्दवाच्यः सन्धिरेव कथं ज्ञातव्य इति पृच्छति-सोऽविमुक्तः कस्मिन् प्रतिष्ठित इतीति । स्पष्टम् । उत्तरमाह-वारणायां नाश्यां च मध्ये प्रतिष्ठित इतीति । स्पष्टम् । पुनः पृच्छति-का वै वरणा का च नाशीतीति । स्पष्टम् । उत्तरमाह-सर्वानिन्द्रियकृतान् दोषान् वारयति तेन वरणा भवति, सर्वानिन्द्रियकृतान्पापान्नाशयति तेन नाशी भवतीति । स्पष्टम् ।
पुनः पृच्छति-कतमच्चास्य स्थानं भवतीति ।
कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासते इति सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वैतदेवं वेदेति । अस्य-अविमुक्तस्य सन्धेरित्यर्थः । उत्तरमाह-भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।*सम्यक् धीयते सृष्टिप्रलयादि सर्वमस्मिन्निति सन्धिः, उभयराहित्यमित्यर्थः*। भ्रुवोर्घ्राणस्य च यः सन्धिर्व्यष्टौ स्वदेहे, द्यौर्लोकस्य परस्य च यः सन्धिः समष्टौ काश्यभिधे अविमुक्ते स एष त्वया पृष्टः सन्धिर्भवतीत्यन्वयः । एतदेवोपासनस्थानमिति सदाचारेण द्रढयति-एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इतीति । एतत्-प्रसिद्धं सन्धिं, नपुंसकत्वमार्षम् । सन्ध्यां-सन्ध्योपासनं ब्रह्मविदः-पूर्वोक्ता ब्रह्मात्मैकत्वज्ञाः उपासते-उपासनां कुर्वन्ति ।
निरुदका ध्यानसन्ध्या वाक्कायक्लेशवर्जिता ।
सन्धिनी सर्वभूतानां सा सन्ध्या ह्येकदण्डिनाम् ॥
इति स्मृतेः । उपसंहरति-सोऽविमुक्त उपास्य इतीति । यस्त्वया पृष्ट आत्मा ``ब्रह्मात्मैक्यं कथमहं विजानीया'मिति, स आत्मा अविमुक्ते-भ्रुवोर्घ्राणस्य च सन्धौ उपास्यः-सर्वदोषासनीयः । ``देवोभ्रूमध्यगोचरः, भ्रूमध्ये संस्थितं देव'मित्यादिस्मृतिभ्यः । तथाच वसिष्ठः-
निद्रादौ जागरस्यान्ते यो भावौपजायते ।
तं भावं भावयन् राम! जीवन्मुक्तः सदा भव ॥
यदि देहं पृथक्कृत्य चितिविश्रम्यतिष्ठसि ।
अधुनैव सुखी शान्तो जीवन्मुक्तो भविष्यसि ॥
इति । गोविन्दभगवत्पूज्यपादाचार्यैरपि गोविन्दभगवद्ग्रन्थे निरूपितम्-
भ्रूयुगमध्यगतं यच्छशिविद्युत्सूर्यवज्जगद्भासि ।
केषाञ्चित्पुण्यवशादुन्मीलति चिन्मयं ज्योतिः ॥
परमानन्दैकमयम्परमं ज्योतिःस्वभावमविकल्पम् ।
विगलितसर्वक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ॥
तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥
अस्तं हि यान्ति विषयाः प्राणांस्त्वन्तः प्रशाम्यन्ति ।
``न स्फुरिते दुःखसुखे चिद्बोध (वि?)ध्वस्तमोहानाम् ॥
रागद्वेषविमुक्ताः सत्याश्चाऽहन्तया रहिताः ।
सर्वत्र निर्विशङ्का भवन्ति चिद्ब्रह्मसंस्पर्शात् ॥
तिष्ठन्त्यणिमादियुता देहेऽस्मिन् लब्धसच्चिदानन्दाः ।
ब्रह्मस्वभावममृतं सम्प्राप्ताश्चैव कृतकृत्याः ॥
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यत् शरीरमजरामरं विहायैकम् ॥
इति । सुरेश्वरवार्तिकेच तथा-
अपामार्गलतेवायं विरुद्धफलदो भवः ।
प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ॥
इति । एतदेव अविमुक्ते प्रसिद्धे योजनीयम् । यज्ञदानादिभिर्बहुजन्मसुसम्पादितसुकृतसंस्कारनिचयखचितचरमशरीरस्य शमदमादिसाधनचतुष्टयसम्पन्नस्य पूर्वतापिनीयोक्तसगुणोपासनप्रसादलब्धचित्तस्थैर्यस्य श्रवणमनननिदिध्यासनजनितसाक्षात्कारानुभववैभवविलासनिरावरणकैवल्यावाप्तिसाकाङ्क्षमाणस्य सकलकर्मसन्यासपूर्वकदेहाभिमानगलितस्य यत्र कुत्रचिद्वर्तमानस्य भ्रुवोर्घ्राणस्य सन्धावविमुक्तोपासनं निर्गुणं श्रीरामोपासनाभिधेयमेवमुचितं नान्यदिति सर्वशास्त्रार्थपरिसमाप्तिः । एवम्भूतश्रीरामात्मोपासक एव त्रैलोक्यगुरुर्भवतीति । उपासनफलमाह-सोऽविमुक्तं ज्ञानमाचष्टे यो चैतदेवं वेदेति । यः-उपासकः, वै इतिनिश्चयेनएतत्-उपासनं एवं-उक्तप्रकारेण वेद-जानाति, सः अविमुक्तं-तुरीयाख्यं सन्धिं ज्ञानं आचष्टे-कथयति । तदुक्तङ्गीतासु-
``उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्चदर्शिनः''
इति । शिक्षार्हस्य शिष्यस्याऽतिरहस्यत्वात्तत्क्षणमेव सङ्क्रमणेन बोधमुत्पादयतीत्यर्थः । सर्वत्र इतिशब्दाः प्रश्नसमाप्तौ तदुत्तरसमाप्तौ च ज्ञातव्याः ।
शिष्यस्य सम्मुखीकरणाय आख्यायिकामाह-अथ तं प्रत्युवाचेति ।
अथ तं प्रत्युवाच स्वयमेव याज्ञवल्क्यः-
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥
ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम् ।
वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर ॥
इति । स होवाच-
मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः ।
म्रियते देहि तज्जन्तोर्मुक्तिं नातो वरान्तरम् ॥
इति । अथ स होवाच श्रीरामः-
क्षेत्रेऽत्र तव देवेश यत्र कुत्रापि वा मृताः ।
कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥
अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
अहं सन्निहितस्तत्र पाषाणप्रतिमादिषु ॥
क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव ।
ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥
इति श्रीरामचन्द्रेणोक्तं योऽविमुक्तं पश्यति । स जन्मान्तरितान् दोषान् नाशयति ।
इति चतुर्थकण्डिका ।
तुरीयसन्धौ श्रुतायामपि श्रद्धावित्तरहितस्य बधिरार्पितगुह्यमिवभवतीति । अथ-तदनन्तरं तं-अत्रिं प्रति उवाच स्वयमेव याज्ञवल्क्यः । किमुवाच तदाह-श्रीरामस्येत्यादिना-'त्वत्तो वा ब्रह्मणो वाऽपि'' इत्यनेन शिवादिब्रह्मादिसम्प्रदायद्वयं दर्शितम् । अन्यत् स्पष्टम् । ज्ञानसौलभ्यादविमुक्तसेवकस्य यदवान्तरफलम्, तदाह-श्रीरामचन्द्रेणोक्तमिति ।'जन्मान्तरिता'निति प्रारब्धकर्मव्यतिरेकेण इहजन्मकृतकर्मोपलक्षणार्थम् । शेषं स्पष्टम् । अविमुक्तोपासनयाऽनायासतः श्रीरामसाक्षात्कारो यस्मात् तस्मादविमुक्तत्यागे परमपुरुषार्थहानिः स्यादिति भावः । तथाचब्रह्माण्डे-
मोक्षं सुदुर्लभं ज्ञात्वा संसारं चाऽतिभीषणम् ।
अविमुक्तं समासाद्य तत्रैव निधनं व्रजेत् ॥
इति ।
अधिभूतं साधिदैवमध्यात्ममविमुक्तकम् ।
आत्मा काशी भ्रुवोर्मध्ये सौलभ्यं तूत्तरोत्तरम् ॥
समष्टिव्यष्टिगम्पूर्वं समष्टावेव चोत्तरम् ।
व्यष्टामेव तृतीयं स्यात् त्रिषु चैकं नसन्त्यजेत् ॥
इति सङ्ग्रहः ॥ ४॥
इति आनन्दनिधिटीकायां चतुर्थकण्डिका समाप्ता ।
अथ पञ्चमकण्डिका ।
``ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम्''
इति पूर्वोक्तं श्रुत्वा केन प्रकारेण भगवान् प्रसीदतीति तं प्रश्नं प्रष्टुं पञ्चमकण्डिकारम्भः । श्रीरामप्रसन्नकरणोपायम्पृच्छति, ईश्वरानुगृहीतस्यब्रह्मविद्यासम्भवात् । तदुक्तम्-
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।
महाभयपरित्राणाद्द्वित्राणामेवजायते ॥
इति । अथेति ।
अथ हैनं भरद्वाजो याज्ञवल्क्यमुवाच-अथ कैर्मन्त्रैः स्तुतः श्रीरामः प्रीतो भवति स्वात्मानं दर्शयति, तन्नो ब्रूहि भगवन्निति ।
स होवाच याज्ञवल्क्यः-श्रीरामेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ।
विश्वाधारं महाविष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परञ्ज्योतिः स्वरूपिणम् ।
मनसा संस्मरन् ब्रह्मा तुष्टाव परमेश्वरम् ॥
ॐ यो वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा, यः परं ब्रह्म भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्चाऽखण्डैकरसात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च ब्रह्मानन्दामृतं भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यस्तारकं ब्रह्म भूर्भुवस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च ब्रह्मा विष्णुरीश्वरो यः सर्वदेवात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये सर्वे वेदाः साङ्गाः सशाखाः सपुराणा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यो जीवात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च सर्वभूतान्तरात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये देवासुरमनुष्यादिभावा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये मत्स्यकूर्माद्यवताराः भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च प्राणो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् योऽन्तःकरणचतुष्टयात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च यमो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्चान्तको भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च मृत्युर्भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्चामृतं भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यानि पञ्च महाभूतानि भूर्भुवः स्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यः स्थावरजङ्गमात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये पञ्चाग्नयो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यः सप्तव्याहृतयो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भवगान् या विद्या भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् या सरस्वती भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् या लक्ष्मीर्भूर्भुवः स्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् या गौरी भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् या जानकी भूर्भुवःस्तस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यच्च त्रैलोक्यं भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च सूर्यो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च सोमो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यानि नक्षत्राणि भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये च नवग्रहा भर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ वसवो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ लोकपाला भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये चैकादश रुद्रा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् ये द्वादशादित्या भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च भूतं भव्यं भविष्यत् भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यो ब्रह्माण्डस्याऽन्तर्बहिर्व्याप्नोति विराट् भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यो हिरण्यगर्भो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् या प्रकृतिभूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्वोङ्कारो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो श्रीरामचन्द्रः स भगवान् याश्चतस्रोऽर्धमात्रा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च परमपुरुषो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च महेश्वरो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च महादेवो भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् य ॐ नमोभगवते वासुदेवाय महाविष्णुर्भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यः परमात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यो ज्ञानात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ।
ॐ यो वै श्रीरामचन्द्रः स भगवान् यः सच्चिदानन्दाद्वैतैकरसात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः ॥
इत्येतैर्बह्मा सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तौति तत्र तस्य देवः प्रीतो भवति, स्वात्मानं दर्शयति ।
तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति, सोऽमृतत्वं गच्छति सोऽमृतत्वं गच्छतीति ॥
इत्यथर्वणरहस्ये श्रीरामोत्तरतापनीयोपनिषत् समाप्ता ।
एते मन्त्राः श्रीनृसिंहपूर्वतापिनीये द्वात्रिंशव्यूहे । तथा अथर्वणशिरसि रुद्रोपनिषदि अत्रापि नानापाठक्रमा दृष्टाः श्रीरामचन्द्रानुग्रहवद्भिर्बहुधा परिशोधिताः पाठक्रमभङ्गभयाल्लिखिता विज्ञेयाः । एभिस्तु सर्वात्मकत्वं श्रीरामचन्द्रस्योच्यते ।
तत्र तस्येति, तस्य-ब्रह्मणः । स देवं पश्यतीति, देवं-श्रीरामं साक्षादात्मनि कृपया बहिरपि च पश्यति । अमृतत्वमिति, मोक्षं गच्छति-प्राप्नोति । ग्रन्थसमाप्तिं दर्शयति-इत्यर्थवणरहस्ये श्रीरामोत्तरतापिनीयोपनिषत्समाप्तेति ॥
सम्मन्त्र्यामलतारकेणमनुनादिग्बन्धदृष्ट्याऽऽर्हिया रुद्रोपेन्द्रमरुद्गणादिसहितैर्गोप्या विरिञ्च्यादिभिः ।
व्यक्ताऽऽनन्दवनोद्धृताऽऽशु परमानन्देन या सम्भृता तामानन्दनिधिं निधाय हृदये नन्दन्तुरामप्रियाः ॥
यस्यां भक्तिर्विरक्तिर्विविधशमदमप्राप्तिरप्राप्तिरन्तर्दुःखस्यैतानि रत्नान्यखिलसुकृतिनां यान्ति लाभाय भूपौ ।
विद्याऽम्भोधिप्रवृद्धिप्रवरतरमहाबोधचन्द्रोदयाद्यामानन्दाऽऽद्यां निधिं तां निदधतु हृदये तद्विदः सर्वकालम् ॥
विश्वेशपादपद्मोत्थमकरन्दौघबिन्दुभिः ।
रञ्जितायां सदा काश्यां टीकाऽऽनन्दबनैः कृता ॥
यस्योपदेशदीधित्या तारकं ब्रह्म काशते ।
काश्यां काशीनिवासाय नमस्तस्मै पिनाकिने ॥
नाहं मांसं नचाऽस्थीनि देहादन्योऽपरो ह्यहम् ।
इति भावानुरूपेण व्यवहारेणमुच्यते ॥
इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्यानन्दवनविरचिता
श्रीरामोत्तरतापिनीयोपनिषदानन्दनिधिटीका समाप्ता ।
॥ समाप्तश्चाऽयं ग्रन्थः ॥
Swami Anandavana has not commented on the last chapter of Ramauttaratapini upanishad, i.e. Mantraraj Mahatmya.
Encoded and proofread by Mrityunjay Pandey