रामतापिन्युपनिषत् सव्याख्या
श्रीरामपूर्वतापिनी
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
प्रथमोपनिषत्
रामनामार्थप्रकाशनं
चिन्मयेऽस्मिन् महाविष्णौ जाते दशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥
स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥
रामनाम भुवि ख्यातमभिरामेण वा पुनः ।
राक्षसान् मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥
प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ।
धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥
तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् ।
तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥
रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥
श्रीरामतापनीयार्थं भक्तध्येयकळेबरम् ।
विकळेबरकैवल्यं श्रीरामब्रह्म मे गतिः ॥
इह खलु अथर्वणवेदप्रविभक्तेयं श्रीरामतापिनीयोपनिषत् पूर्वोत्तरतापिनीभ्यां सोपायसविशेषनिर्विशेषब्रह्मस्वरूपप्रकटनपूर्वकं ब्रह्ममात्रपर्यवसन्ना विजयते । अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । मुमुक्षूनुपलभ्य अवान्तररूपेण प्रवृत्तेयं पूर्वतापिनीश्रुतिरिति यत्तत् सविशेषब्रह्मविद्यास्तुत्यर्थं आदौ स्वाज्ञस्वज्ञदृष्टिमाश्रित्य रामनामार्थं प्रकाशयति-चिन्मय इत्यादिना । चिन्मये चिन्मात्रे हरौ स्वाज्ञानतत्कार्यहारिणि विष्णौ सर्वव्यापके
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
इति स्वप्रतिज्ञापरिपालनार्थं अस्मिन् दशरथे कश्यपप्रजापत्यवतारे निष्ठाद्वयपरिपालनाय जाते आविर्भूते सत्यथ बाललीलया रघोः कुले अखिलं स्वजनवर्गं यो राति आनन्दयति यो महीस्थितः सन् स्वतेजसा स्वविभूत्या च राजते ॥ १॥ एवं भूरादिसर्वलोकेषु स एव रामः इति विद्वद्भिः तद्याथात्म्यज्ञैः प्रकटीकृतो भवति । भङ्ग्यन्तरेण रामनामार्थं निर्दिशति-राक्षसा इति । विराधादिराक्षसा येन मरणं यान्ति स्वोद्रेकतः स्वपापकृत्यतो वा ॥ २॥ पुनः अभिरामेण सर्वलोकमनोरमणरूपेण वा रामनाम भुवि ख्यातं स्यादित्यर्थः । राक्षसा इत्यत्र रेफार्णो गृह्यते, मरणं यान्ति इत्यत्र मकारः, वर्णद्वययोगे रामो भवति । पुनः प्रकारान्तरेण रामनामोद्धरति-राक्षसानिति । यथा राहुः चन्द्रं निष्प्रभं करोति ॥ ३॥ तथा अयं मर्त्यरूपेण राक्षसान् प्रभाहीनान् कृत्वा अथ राज्यार्हाणां महीभृतां सतां स्वचरित्रेण सर्वप्राणिस्वाश्रमोचितधर्ममार्गं उपदिशन् स्वातिरिक्ताश्रयासम्भवप्रबोधसिद्धनिष्प्रतियोगिकब्रह्ममात्ररूपे यो राजते यः स्वे महिम्नि महीयते स राम इति स्वनाम्ना ज्ञानमार्गं प्रकाशयन् ॥ ४॥ स्वमूर्तिध्यानेन स्वातिरिक्तपदार्थवैराग्यं जनयन्, स्वपूजनतो ब्रह्माद्यैश्वर्यं दिशन् योऽवतिष्ठते तस्य रामाख्या सर्वत्र रातीति भुवि स्यात् । अस्य रामाख्या कथमित्यत्र राक्षसान् मर्त्यरूपेण राहुः मनसिजं राज्यार्हाणां महीभृतामिति रेफमकारयोजनतो रामाख्या स्यादित्यर्थः । लोकदृष्ट्या एवं नाम प्रकाशयित्वा वस्तुदृष्ट्या अस्य नामार्थं निर्दिशति-अथेति ॥ ५॥ सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रपर्यवसानतया मनो युञ्जन्त इति योगिनः सम्यज्ज्ञानिनोऽनन्ते परिच्छेदत्रयापह्नवसिद्धे नित्यभूमानन्दे चिदात्मनि चिन्मात्रे तन्मात्रावशेषतया रमन्त इति रामपदेन असौ भगवान् परं ब्रह्माभिधीयते, ``राम एव परं ब्रह्म'' इति श्रुतेः ॥ ६॥
उपासकार्थे निर्विशेषस्य रूपकल्पना
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥
रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ।
द्विचत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥
अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥
शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।
कल्पितस्य शरीरस्य तस्य सेनाऽऽदिकल्पना ॥ १०॥
अनेन मन्त्रेण रामस्य निर्विशेषत्वमवगम्यते, तथाविधस्य सविशेषत्वं कुतः? इत्यत आह-चिन्मयस्येति । चिन्मयस्येत्यादिविशेषणविशिष्टब्रह्मणो निर्विशेषत्वेन विकल्पासहत्वेऽपि भक्तपटलस्वपदात्युपायार्थं रूपादिविशेषकल्पना, न स्वत इत्यर्थः ॥ ७॥ उपासकस्वपदाप्तिनिमित्तकल्पनां प्रपञ्चयति-रूपेति । निर्विशेषब्रह्ममात्रस्वरूपे रामे स्वाज्ञादिदृष्ट्या भेदाभेदरूपेण तिष्ठन्तीति रूपस्थाः तासां देवतानां सीतारामतदंशभेदेन द्विचत्वारिषडष्टानां सशक्तिकानां पुंस्त्र्यङ्गास्त्रादिकल्पना तदधिकरणरामोपासनार्थैव । सीतया सह द्वित्वं, लक्ष्मणादिभिः चतुस्सङ्ख्याविशिष्टत्वं सुग्रीवविभीषणादिभिः षट्सङ्ख्यापूरकत्वं, धृष्ट्यादिसचिवैः अष्टसङ्ख्यापूरकत्वम् । तासां सीतारामांशविकल्पितानां नरवानरराक्षसभेदेन सेनासङ्ख्या निगद्यते । एकैकस्यामिह सेनाऽधिपा दश द्वादश षोडश अष्टादश हस्ता वर्तन्ते इति कथिताः, ``महापद्मशतं हस्तं'' इति गणितशास्त्रप्रसिद्धेः ॥ ८॥ कस्याश्चित् देवतायाः शङ्खादिसङ्ख्याभिः युताः सहस्रान्ताः परिवाराः सन्ति ॥ ९॥ आदौ रामे बहुदेवताकल्पना ततस्तासां वर्णकल्पना वाहनकल्पना एकैककार्यनिर्वाहकशक्तिकल्पना अगण्यसेनाकल्पनेत्येवं ब्रह्मण्येवं हि रामे पञ्चधा कल्पना विकल्पिता । एवं पञ्चधाकल्पना निर्विशेषब्रह्मणो रामस्येत्यत आह-कल्पितस्येति । भक्तपटलस्वपदाप्त्युपायतया कल्पितस्य शरीरस्यैव सेनाऽऽदिकल्पना, स्वस्य निरुपाधिकत्वेन निर्विकल्पत्वात् ॥ १०॥
मन्त्रजपयन्त्रपूजयोः रामप्रसादकरत्वं
ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञितः ।
जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११॥
क्रियाकर्मेज्याकर्तॄणामर्थं मन्त्रो वदत्यथ ।
मननात् त्राणना(तारणा)न्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥
सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना ।
विना यन्त्रेण चेत् पूजा देवता न प्रसीदति ॥ १३॥
इत्थम्भूतरामप्रसादहेतुः कः? इत्याशङ्क्य तद्वाचको मन्त्रः षडक्षरादिः तत्पूजापीठं चेत्याह- ब्रह्मादीनामिति । रामस्य सर्वदेवात्मकत्वेन रामान्वर्थसंज्ञितो मन्त्रो ब्रह्मादीनामपि वाचक एव । यतो मन्त्रानुष्ठानं विना देवो न प्रसीदति अतो मन्त्रिणा मन्त्रैकशरणेन अयं मनुः जप्तव्यो भवति ॥ ११॥ मन्त्रार्थं व्युत्पादयति-क्रियेति । क्रिया व्यापारः, द्वितीयान्तोपात्तं कर्म, इज्या यज्ञः, कर्ता यजमानः, तेषां महातात्पर्यं यत्र पर्यवस्यति तमेतमर्थं अयं मन्त्रो वदति मन्त्रार्थस्य प्रत्यगभिन्नब्रह्मणि पर्यवसितत्वात् । अथ सर्ववाच्यवस्तुनो रामचन्द्रस्य यो वाचको भवति स्वमननमात्रतो मन्तारं स्वातिरिक्तास्तित्वभ्रमवारिधेः वारणात् मन्त्र इति व्युत्पत्तिः युज्यत इत्यर्थः ॥ १२॥ इतश्च देवताप्रसादहेतुः देवपूजा इत्याह-स इति । शुद्धाद्वैततया अभयस्यास्य देवस्य यो विग्रहः सोऽयं यन्त्रकल्पनारूपो भवति । यथा यन्त्रपूजया देवता प्रसीदति तथा विग्रहपूजया न प्रसीदतीत्यर्थः ॥ १३॥
इति प्रथमोपनिषत् ।
द्वितीयोपनिषत्
रामबीजस्य सर्वात्मकत्वं
स्वभूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ।
जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥
कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ।
यथैव वटबीजस्थः प्राकृतश्च महान् द्रुमः ॥ २॥
तथैव रामबीजस्थं जगदेतच्चराचरम् ।
रेफारूपा मूर्तयः स्युः शक्तयस्तिस्र एवं चेति ॥ ३॥
स्वस्य स्वबीजात्मना सर्वकारणत्वमाह-स्वभूरिति । हेत्वन्तरं विना स्वयमेव भवतीति स्वभूः ज्योतिर्मयः प्रकाशमात्रत्वात् ``प्रकाशः पर्यवस्यति'' इति श्रुतेः । अनन्तरूपी स्वाज्ञदृष्ट्या अनेकरूपी सर्वात्मकत्वात् । एवं स्वेनैव भासते स्वयम्प्रकाशत्वात् । यस्य सृष्टिस्थितिप्रळयवतः स्वातिरिक्तप्रपञ्चस्य जीवत्वेन कार्योपाधिना ईश्वरोपाधिकारणत्वेन चिच्छक्त्या प्रतीचा तद्भास्यरजस्सत्वतमोगुणैर्वा सम इत्यत्र मानं ओमिति । ओङ्कारस्य अभिधानाभिधेयरूपेण सर्वसमत्वात् ``सम एभिः सर्वैः'' इति श्रुतेः । रामरहस्ये वटबीजदृष्टान्तश्रुतिः व्याख्याता । रां इति रामबीजे रेति व्यञ्जनतो ब्रह्मेत्युच्यते, तदुपरि श्रूयमाणाकारतो विष्णुः, मकारतः शिवः इति रेफारूपाः त्रिमूर्तयः स्युः । तत्रत्यदीर्घः छान्दसः । सरस्वतीलक्ष्मीगौरीभेदेन क्रियाज्ञानेच्छाभेदेन वा शक्तयः तिस्र एव चेति । द्वितीयोपनिषत्समाप्त्यर्थश्च चशब्दः ॥ १-३॥
इति द्वितीयोपनिषत् ।
तृतीयोपनिषत्
सीतारामयोः मन्त्रयन्त्रादिपूज्यत्वं
सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त ।
स्थितानि च प्रहितान्येव तेषु ततो रामो मानवो माययाऽधात् ॥ १॥
जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत् प्राग्गुणेनेति ॥
भगवत्प्रसादहेतुतया मन्त्रादिरुक्तः, तत्र पूज्यौ कौ? इत्यत आह-सीतारामाविति । आभ्यां सीतारामाभ्यां चतुर्दशभुवनोपलक्षितानन्तकोटिब्रह्माण्डानि जलाशयबुद्बुदानीव मुहुर्मुहुः जन्मस्थितिभङ्गकलनामनुभवन्ति । अत्र यन्त्रे तावेव तन्मयौ यन्त्ररूपिणौ सीतारामौ पूज्यावित्यर्थः । ततो यो रामो मायया मानवो भूत्वा समस्तं जगत् अधात् अपोषयत् अस्मै जगत्प्राणाय जगदात्मने नमः स्यात् नमोऽस्तु, आवयोः ऐक्यमस्त्वित्यर्थः । कुतो नमःशब्दस्त्वैक्यवाचीत्यत आह-``नमस्तु जीवपरयोर्वाच्यार्थत्यागपूर्वकम्'' लक्ष्ययोः शुद्धत्वेन ऐक्यमेव वदेत् । केन हेतुनेत्यत्र जीवपरयोः प्राग्गुणेन सच्चिदानन्दरूपेणेत्यर्थः । इतिशब्दस्तृतीयोपनिषत्समाप्त्यर्थः ॥
इति तृतीयोपनिषत् ।
चतुर्थोपनिषत्
रामषडक्षरार्थः
जीववाची नमो नाम चात्मा रामेति गीयते ।
तदात्मिका या चतुर्थी तथा चायेति गीयते ॥ १॥
मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ।
फलदश्चैव सर्वेषां साधकानां न संशयः ॥ २॥
यथा नामी वाचकेन नाम्नो योऽभिमुखो भवेत् ।
तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥
बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि ।
कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४॥
सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ।
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥
स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ।
उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥
प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः ।
प्रकृत्या परमेश्वर्या जगद्योन्याऽङ्किताङ्कभृत् ॥ ८॥
हेमाभया द्विभुजया सर्वालङ्कृतया चिता ।
श्लिष्टः कमलधारिण्या पुष्टः कोसलजाऽऽत्मजः ॥ ९॥
दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ।
हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥
तथैव तस्य मन्त्रस्य यश्चाणुश्च स्वङेन्तया ।
एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥
``नमस्त्वैक्यं प्रवदेत्'' इत्यत्र तत्त्वम्पदलक्ष्ययोः ऐक्यं सूत्रितं, सोपायं तत्प्रपञ्चनाय चतुर्थोपनिषदारभ्यते । तत्रादौ श्रीरामषडक्षरार्थकथनेन प्रत्यक्परैक्यं प्रकटयति-जीवेति । अस्यार्थः रामरहस्ये प्रपञ्चितः ॥ १॥ एवं प्रत्यक्परैक्यमुक्त्वा मन्त्रार्थयोः एकत्वानुसन्धानं प्रत्यग्ब्रह्मावगत्युपाय इत्याह-मन्त्र इति ॥ २॥ मन्त्रो मन्त्र्यभिमुखो भवेत् इति सदृष्टान्तमाह-यथेति ॥ ३॥ मन्त्रानुष्ठानस्य देवताऽऽभिमुख्यहेतुतया बीजादितन्न्यासस्थलं च सर्वमन्त्रसाधारणतयाऽऽह-बीजेति ॥ ४॥ रामस्य मन्त्रासनत्वं तत्राविर्भवं चाह-अत्रेति । अत्र मन्त्रे तेजसा वह्निना समः ॥ ५॥ स तु स एव अनुष्णगुः चन्द्रसमः स्वाभक्तभक्तापेक्षया उष्णानुष्णद्युतित्वे अनुष्णगुरिति वक्तव्ये विसर्गलोपश्छान्दसः । ``हरिरेव जगत् जगदेव हरिः हरितो जगतो न हि भिन्नतनुः'' इति स्मृत्यनुरोधेन विराड्भावमेत्य विश्वरूपश्चेत् इदं जगत् अग्नीषोमात्मकं भवति । तत्र प्राण्यदृष्टवशात् जगति सीतया सह उत्पन्नवत् भातीत्याह-उत्पन्न इति ॥ ६-७॥ धृष्ट्यष्टकविभूषितः धृष्ट्याद्यष्टमन्त्रिभिः परिवृत इत्यर्थः । पार्श्वद्वयस्थितसीतालक्ष्मणाभ्यां स्थितं त्रिकोणवत् भान्तं देवाः स्तुवन्तीत्याह-प्रकृत्येति ॥ ८-१०॥ यथा रामलक्ष्मणसीतास्त्रिकोणवत् स्थिताः तथैव तस्य राममन्त्रस्य पार्श्वद्वये स्वापेक्षया लक्ष्मणस्य कनीयस्त्वेन अणुत्वं ``एषोऽणुरात्मा'' इति श्रुतेः । यश्च राममनुः अणुश्च लक्ष्मणमनुः स्वं स्वकीयसीतामनुः सर्वे ङेन्तया चतुर्थ्यन्तेन युताः एवं मन्त्ररूपेणापि ॥ ११-१४॥
देवकृतरामस्तुतिः
स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ।
कामरूपाय रामाय नमो मायामयाय च ॥ १२॥
नमो वेदादिरूपाय ओङ्काराय नमो नमः ।
रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥
जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने ।
भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥
रामभद्र महेष्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥
त्वमीश्वर्या दापयाथ सम्प्रत्याश्वरिमारणम् ।
कुर्विति स्तुत्य देवाद्याः तेन सार्धं सुखं स्थिताः ॥ १६॥
रक्षां देहि श्रियं च ते उभे अपि देहीत्यर्थः ॥ १५॥ त्वं ईश्वर्या सीतया श्रियं दापय । आशु झटिति नः शत्रुमारणं कुरु ॥ १६॥
ऋषिकृतरामस्तुतिः
स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ।
रामपत्नीं वनस्थां यः स्वनिर्वृत्यर्थमाददे ॥ १७॥
स रावण इति ख्यातो यद्वा रावाच्च रावणः ।
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥
विचेरतुस्तदा भूमौ देवीं सन्दृश्य चासुरम् ।
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥
पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥
स तु रामे शङ्कितः सन् प्रत्ययार्थं च दुन्दुभेः ।
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥
सप्तसालान् विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥ २२॥
जगामागर्जदनुजो वालिनो वेगतो गृहात् ।
तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥
निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ।
हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥
आदाय मैथिलीमद्य ददताश्वाशु गच्छत ।
ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥
सीतां दृष्ट्वाऽसुरान् हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥
तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥
तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥ २८॥
हत्वा विभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥
यथा देवाः स्तुत्वा तत्प्रसादतः स्वाराज्यं ययुः तथा ऋषयोऽपि तत्प्रसादलब्धदिव्यज्ञानेन भाविचर्यां भूतरूपां वा प्रपञ्चयन्तः स्तुवन्तीत्याह-स्तुवन्तीति । निर्वृतिः सुखं वैकुण्ठपार्षदत्वप्रभवं तदर्थमाददे इत्यर्थः ॥ १७॥ लोकान् रावयति पीडयति कैलासपर्वताक्रान्तो महारवं करोतीति वा रावणः । मत्पार्षदप्रवरस्य ब्राह्मणशापप्रभवराक्षसत्वमोचनं कृत्वा अयं स्वपदे स्थापयितव्य इति तद्व्याजेन ॥ १८॥ देवीं सन्दृश्य अन्विष्य ॥ १९-२९॥
पट्टाभिषिक्तरामचन्द्रविभूतिः
ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥
मुद्रां ज्ञानमयीं याम्ये वामे तेजः प्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥
भरताधस्तु सुग्रीवं शत्रुघ्नाधो विभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्छत्रं सचामरम् ॥ ३३॥
तदधस्तौ तालवृन्तकरौ त्र्यश्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥
द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥
विभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् ।
जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥
विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥
ततः सहस्रदृग्वह्निर्धर्मर्क्षो वरुणोऽनिलः ।
इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥
बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ।
वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥
पट्टाभिषिक्तरामचन्द्रविभूतिं वक्ष्यमाणयन्त्रदशावरणरूपिणीं प्रपञ्चयति-तत इति ॥ ३०-३३॥ शत्रुघ्नभरतपवनजा आद्यत्रिकोणरूपाः सुग्रीवविभीषणलक्ष्मणास्तु द्वितीयत्रिकोणरूपाः । शत्रुघ्नभरतपवनजसुग्रीवविभीषणलक्ष्मणालङ्कृतराज्याभिषिक्तश्रीरामयन्त्रषट्कोणमध्ये साङ्गं सावरणं सपरिवारं ससीतं रामचन्द्रं भावयेत् । कथमसौ भावनीय इत्यत्र स्वयं षट्कोणमध्यासनो भूत्वा सीताभरतशत्रुघ्नहनूमत्सुग्रीवविभीषणलक्ष्मणैः परिवृतो विजयत इति ध्येयो भवति । षट्कोणेषु दीर्घाङ्गैरेष संयुतः इत्यत्र हृदयाद्यङ्गदेवताभिरावृतो ध्येयः ॥ ३४॥ द्वितीयं वासुदेवाद्यैः इत्यत्र वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धैः आवृतो भवति । तृतीयं वायुसूनुं च इत्यत्र वायुसून्वादिजाम्बवदन्तैः परिवृतो भवति ॥ ३५॥ चतुर्थावरणे धृष्ट्यादिसुमन्त्रान्तैः आवृतो भवति ॥ ३६-३७॥ पञ्चमषष्ठयोः इन्द्रादिभिः तदायुधैश्च आवृतो भवति ॥ ३८-३९॥
यन्त्रलेखनप्रकारः
एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥
तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥
कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत् सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥
दीर्घभाजी षडश्रेषु लिखेद्बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥
क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् ।
वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत् स्वरान् ॥ ४४॥
केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् ।
तेषु मालामनोर्वर्णान् विलिखेदूर्मिसङ्ख्यया ॥ ४५॥
अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णान् लिख्य तत्केसरे रमाम् ॥ ४६॥
तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् ।
अथोन्नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥
आदिक्षान्तान् केसरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिख्य तत्केसरे ह्रियम् ॥ ४८॥
वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिष्विरजादीनां मन्त्रान् मन्त्री समालिखेत् ॥ ४९॥
ह्रं स्रं भ्रं व्रं ल्रं अं श्रं ज्रं (च)लिखेत् सम्यक्ततो बहिः ।
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥
विलिखेन्मन्त्रराजार्णान् तेषु पत्रेषु यत्नतः ।
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥
द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥
द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् ।
अनन्तो वासुकिश्चैव तक्षः कार्कोटपद्मकः (कौ) ॥ ५३॥
महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥
नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ।
कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥
यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
अन्त्यार्घीशवियद्विन्दुनादैर्बीजं च सौकरम् ॥ ५६॥
हुङ्कारं चात्र रामस्य
अनुक्तात्माद्यावरणचतुष्टयमत्रैवान्तर्भूयते । एवमहरहः स्वावरणदेवतातत्परिवारैः उपास्यमानो विजयत इत्यादावुद्देशतः प्रोक्तम् । अधुना तु यन्त्रस्वरूपं निर्दिशति-निर्देशस्तस्य चाधुनेति । यन्त्रलेखनप्रकारमाह-त्रिरेखेति ॥ ४०-४१॥ तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् इत्यत्र न हि प्रणवचतुष्टयं लेखनीयं, मध्ये सम्मुखोन्मुखाम्यां तारद्वयं लिखेदिति यदुक्तं तदेव अत्र परामृश्यते ॥ ४२॥ लिखेद्वीजं हृदादिभिः रां नमः इत्यादि ॥ ४३॥ गिरं ऐं इति ॥ ४४॥ न हि ``वृत्तत्रयं साष्टपत्रं'' ``पुनरष्टदळं लिखेत्'' इत्यत्र अष्टदळत्रयं भवति, अष्टदलद्वयस्यैव विनियुक्तत्वात् । द्वितीयाष्टदळेषु तेषु ॥ ४५-४८॥ इरजादीनां हनूमदादीनाम् ॥ ४९॥ नादबिन्दुसमायुतं इत्यत्र मन्त्रराजः प्रतिवर्ण ऊं ग्रां इति दीर्घबिन्दुसमायुतो यथा भवति तथा द्वात्रिंशद्दळेषु मन्त्रराजार्णान् विलिखेदित्यर्थः ॥ ५०॥ तत्केसरेषु लिखित्वा ध्यायेत् ॥ ५१॥ द्वादशेनांश्च द्वादशादित्यान् । वसुरुद्रादित्यनामान्यावरणपूजाप्रकरणे प्रकाश्यन्ते । वज्रशूलाढ्यं वज्रादिशूलान्ताष्टदिक्पालकायुधाढ्यम् । यद्वा-प्रतिद्वारं वज्रशूलाभ्यां आढ्यमिति ॥ ५२-५४॥ कूटः क्षकारः रेफश्च अनुग्रहः औङ्कारश्च इन्दुः मकारश्च नादशक्तिः यकारश्च, आदिशब्देन बिन्दुर्गृह्यते, एतद्विशिष्टं क्ष्म्र्यौं इति निष्पन्नम् ॥ ५५॥ अन्त्यार्घीशो वराहः तस्य वाचको वियत् हकारः बिन्दुनादाभ्यां बिन्दूकाराभ्यां युक्तश्चेत् हुमिति सौकरबीजं भवति । वराहस्य अन्त्यार्घीशत्वं कथमित्यत्र गुरुभारतोऽन्त्यविक्रियामापन्नाऽर्घिणी वसुमती वराहरूपेण तामुद्धृत्योद्वाहं कृतवान् इत्यन्त्यार्घीशो भूवराह इत्यर्थः । तस्य बीजं हुं इति । शिष्टं रामरहस्योपनिषत्प्रोक्तदशावरणयन्त्रव्याख्यानेन व्याख्यातं स्यात् । अनयोरेकरूपत्वात् न विशेषोऽस्तीत्यर्थः ॥ ५६॥
मालामन्त्रोद्धारः
मालामन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्मेदश्च कामिका ॥ ५७॥
रुद्रेण संयुता वह्निर्मेधामरविभूषिता ।
दीर्घा क्रूरयुता ह्लादिन्यतो दीर्घसमायुता ॥ ५८॥
क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घाज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥
सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥
कामिकापञ्चमोलान्तस्तान्तान्तो थान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥
कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा ।
तपिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥
नारायणात्मकः कालः प्राणोम्भो विद्यया युतः ।
पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥
सप्तचत्वारिंशद्वर्णगुणान्तः स्रङ्मनुः स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥
अथ मालामन्त्रमुद्धरति-मालामन्त्र इति । चतुष्षष्टिकलासु सप्तचत्वारिंशत्कलात्मकोऽयं मालामन्त्रः कलाशास्त्रे प्रसिद्धः । एकैकस्याः कलायाः ओमित्याद्येकैको वर्णः सञ्जातः क्रमादेवमूह्यमिति मत्वा उपरतम् । एवं तारादिनत्यन्तकलाकार्यपूगो मालामनुर्भवति । स च रामरहस्योक्तः । एवं ॐ नमो भगवते रघुनन्दनाय इत्यादि प्रथमाष्टदलेषु क्रमाल्लिखित्वा पूजयेदित्यर्थः ॥ ५७-६४॥
यन्त्रस्तुतिः
इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥
अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात् सम्यगत्र धर्मादिकानपि ॥ ६६॥
इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ इति ॥ ६७॥
उक्तविशेषणविशिष्टं यन्त्रं स्तौति-इदमिति । भजनानुरूपफलदमेतदित्याह-सेवकानामिति । चतुर्विधपुरुषार्थसाधकमेतदेवेत्यर्थः ॥ ६५-६६॥ एतस्य कैवल्यप्रापकज्ञानसाधनत्वेन यथोक्तसाधनविकलेषु गोपनीयत्वमाह-इदमिति । ईश्वरेण सर्वतन्त्रस्वतन्त्रेण पण्डितेनापि कामनाधिया मुख्यफलमात्तुं दुःशकमित्यर्थः । इतिशब्दस्तुरीयोपनिषत्समाप्त्यर्थः ॥ ६७॥
इति चतुर्थोपनिषत् ।
पञ्चमोपनिषत्
भूतशुद्ध्यादिपीठार्चनान्तपूजा
भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः ।
अर्चाविधावस्य पीठाधरोर्ध्वपार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥
कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकमर्चयित्वा ।
शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्जे स्वासनाधः प्रकल्प्य ॥
विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च ।
पीठस्याङ्घ्रिष्वेष धर्मादिकांश्च नञ्पूर्वांस्तांस्तत्तद्दिक्ष्वर्चयेच्च ॥ ३॥
मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यादिमैरर्चितानि ।
रजः सत्त्वं तम एतानि वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥
आशाव्याशास्वप्यथात्मानमन्तरात्मानं वा परमात्मानमन्तः ।
ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कला(एकल?) पारतत्त्वे ॥ ५॥
सम्पूजयेद्विमलादीश्च शक्तीः
राज्याभिषिक्तश्रीरामचन्द्रपूजायन्त्रं प्रकटयित्वा तत्पीठावरणपूजां तत्फलं च प्रपञ्चयितुं पञ्चमोपनिषदारभ्यते-भूतादिकमिति । भूतादिकं शोधयेत् इत्यत्र ब्राह्मे मुहूर्ते मुमुक्षुरुत्थाय दन्तधावनस्नानादिस्वाश्रमोचितकर्म निर्वर्त्याथ यथासम्भवं पूजाद्रव्याणि सम्पाद्य देवगृहं गत्वा प्रदक्षिणनमस्कारान् विधाय देवोद्बोधनार्थं आदौ घण्टानादं कृत्वा पृथ्वी त्वयेति भूशुद्धिं अपसर्पन्त्विति भूतशुद्धिं पृथिव्यादिपञ्चभूतभौतिकानां कारणमात्रावशेषचिन्तनमेव वा भूतशुद्धिं कृत्वा । आदिशब्देन कलशशङ्खपूजाऽऽदिकं गृह्यते । आसनमन्त्रस्येत्यादिना कुशाद्यासनमभिमन्त्र्य सोऽहमर्क इति मन्त्रेण देवोभयपार्श्वयोः दीपं संस्थाप्य स्वयं उत्तराभिमुखः पद्माद्यासनमास्थाय प्राणायामादिकं कृत्वा स्ववामभागे कलशं दक्षिणभागे शङ्खं यथोक्तविधिना अभ्यर्च्य शङ्खोदकेन देवात्मानौ पूजोपकरणानि सम्प्रोक्ष्य कलशे किञ्चित् निक्षिप्य तच्छेषं परित्यजेत् । स्वपुरोभागे पाद्यादिपञ्चपात्राणि चासाद्य गन्धोदकेन पूरयित्वा तत्र सावरणं देवं आवाहनादिभिः अभ्यर्च्य । द्वारपूजां कृत्वेत्यादिना-अधरभागाय नमः । ऊर्ध्वभागाय नमः । पार्श्वाय नमः । दक्षिणपार्श्वाय नमः । पश्चिमपार्श्वाय नमः । उत्तरपार्श्वाय नमः । पीठमध्यगतकमलाय नमः ॥ १॥ पीठदक्षिणभागे देशिकाय नमः । आदिकूर्माय नमः । शेषाय नमः । पृथिव्यै नमः । कमलाय नमः ॥ २॥ विघ्नेशं दुर्गां इत्यादिना-गं गणपतये नमः । दुं दुर्गायै नमः । क्षं क्षेत्रपालकाय नमः । सं सरस्वत्यै नमः । मूलप्रकृत्यै नमः । क्षीरसमुद्राय नमः । रत्नद्वीपाय नमः । रत्नसिंहासनाय नमः । श्वेतच्छत्राय नमः । रत्नमण्टपाय नमः । कल्पकवृक्षाय नमः । धर्मादिकांश्चेत्यादिना-धर्माय नमः । ज्ञानाय नमः । वैराग्याय नमः । ऐश्वर्याय नमः । अधर्माय नमः । अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ॥ ३॥ अर्काय नमः । सोमाय नमः । अग्नये नमः । रजस्सत्त्वमित्यादिना-रजसे नमः । सत्वाय नमः । तमसे नमः ॥ ४॥ आत्मने नमः । अन्तरात्मने नमः । परमात्मने नमः । ज्ञानात्मने नमः । मायाविद्या इत्यादिना-मायातत्त्वाय नमः । विद्यातत्त्वाय नमः । एकल(कला?)तत्वाय नमः । परशिवतत्त्वाय नमः । मायायै नमः । विद्यायै नमः । अनन्तायै नमः । पद्मायै नमः । ज्ञानात्मने नमः ॥ ५॥ विमलादीश्च शक्तीः इत्यादिना-विमलायै नमः । उत्कर्षण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै नमः । प्रह्वयै नमः । सत्यायै नमः । ईशानायै नमः । मध्ये अनुग्रहायै नमः । ॐ नमो भगवते विष्णवे वासुदेवाय सर्वात्मसंयोगयोगपीठाय नमः इति पीठार्चनं कुर्यात् ॥
भगवद्ध्यानपुरस्सरमावरणपूजा
अभ्यर्चयेद्देवमावाहयेच्च ।
अङ्गव्यूहानिलजाद्यैश्च पूज्य धृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥
वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः ।
मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मै जपादींश्च सम्यक् प्रकल्प्य ॥ ७॥
अथ भगवद्ध्यानपुरस्सरं आवरणपूजां कुर्यादित्याह-देवमिति । देवमावाहयेच्च इत्यत्र षट्कोणमध्ये सिंहासनस्थाय द्विभुजाय पार्श्वद्वयस्थितधनुर्बाणाय दक्षिणकरधृतज्ञानमुद्राय हनूमदादिव्याख्याननिरताय स्ववामाङ्कालङ्कार-सीताय राज्याभिषिक्तश्रीरामचन्द्राय नमः, षट्कोणमध्ये सीताभरतशत्रुघ्न-हनूमत्सुग्रीवविभीषणलक्ष्मणावृताय श्रीरामाय नमः इति पूजयेत् । षट्कोणेषु रां हृदयाय नमः इत्यादि रः अस्त्राय फट् इत्यन्ताङ्गाद्यञ्चिताय श्रीरामाय नमः इति पूजयेत् । प्रथमाष्टदळनूलेषु आग्नेयादिक्रमेण आत्मान्तरात्मपरमात्मज्ञानात्मभिः पूर्वादिक्रमेण निवृत्तिप्रतिष्ठाविद्याश्रीभिश्चावृताय श्रीरामाय नमः । प्रथमाष्टदळाग्रेष्वाग्नेयादिक्रमेण वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्वैः पूर्वादिक्रमेण श्रीकीर्तिपुष्टिरतिभिश्चावृताय श्रीरामाय नमः । द्वितीयाष्टदळनूलेषु पूर्वादिक्रमेण वायुसूनुसुग्रीव-भरतविभीषणलक्ष्मणाङ्गदशत्रुघ्नजाम्बवद्भिः आवृताय श्रीरामाय नमः । द्वितीयाष्टदळाग्रेषु पूर्वादिक्रमेण धृष्टिजयन्तविजयसुराष्ट्रराष्ट्रवर्धनाशोकधर्मपालसुमन्त्रैरावृताय श्रीरामाय नमः । धृष्टयादिकैरित्यादिशब्देन वसिष्ठनीलाद्यावरणानि गृह्यन्ते । तद्यथा-मूले तावदिन्द्रवज्राद्यावरणानन्तरं वसिष्ठनीलाद्यावरणयोः उक्तत्वेऽपि तदपेक्षया अर्थक्रमस्य बलीयस्त्वात् रामरहस्येऽपि अर्थक्रमानुसारेणैव प्रपञ्चितत्वात् अत्रापि तथैव युज्यत इति ॥ ६॥ द्वादशदळेषु पूर्वादिक्रमेण वसिष्ठाय नमः । वामदेवाय नमः । इत्यादिवसिष्ठवामदेवजाबालिगौतमभरद्वाजविश्वामित्रवाल्मीकिनारदसनकसनन्दनसनत्कुमारैः आवृताय श्रीरामाय नमः । षोडशदलेषु नीलनळप्तुषेणमैन्दद्विविदशरभगन्धमादनगवाक्षकिरीटकुण्डलश्री-वत्सकौस्तुभशङ्खचक्रगदापद्मैरावृताय श्रीरामाय नमः । द्वात्रिंशद्दलेषु ध्रुवाय नमः इत्यादि ध्रुवसोमापाहृयानिलानलप्रत्यूषप्रभासैरष्टवसुभिः वीरभद्रशम्भुगिरीशाजैक-पदाहिर्बुध्न्यपिनाकिभुवनेशकपालिदिक्पतिस्थाणुभगैः एकादशरुद्रैः-प्रातिस्विकार्चनायां अजायैकपदे नमः, अहये बुध्न्याय नम इति । वरुणसूर्यवेदाङ्गभान्विन्द्रकविगभस्तिमयहिरण्यरेतोदिवाकरमित्रविष्णुभिः धात्रा चावृताय श्रीरामाय नमः । भूपुरान्तः इन्द्राग्नियमनिरृतिवरुणवायुकुबेरेशानैः अष्टदिक्पालकैः ऊर्ध्वाधोभागे धात्रनन्ताभ्यां चावृताय श्रीरामाय नमः । भूपुराद्बहिः वज्रशक्तिदण्डखड्गपाशाङ्कुशगदाशूलपद्मचक्रैरावृताय श्रीरामाय नमः । एवं साङ्गावरणं देवं व्यष्टिसमष्टिभेदेन षोडशोपचारैरभ्यर्च्य तत्सन्निधौ षट्सहस्रसङ्ख्यया रामतारकमन्त्रं जपित्वा गायत्रीमालालक्ष्मणादिमन्त्रांश्च जपित्वा जपादिकं भगवति समर्प्य ततो देवं हृदय उद्वास्य तन्निवेदितान्नं ब्राह्मणमुक्तावशिष्टं स्वयमपि भुक्त्वा शिष्टकालं भगवन्नामस्मृतितः कालं नयेत् ॥ ७॥
भगवत्प्रसादद्वारा मोक्षप्राप्तिः
एवम्भूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् ।
गदाऽरिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥
विश्वव्यापी राघवो यस्तदानीमन्तर्दधे शङ्खचक्रे गदाब्जे ।
धृत्वा रमासहितः सानुजश्च सपत्तनः सानुगः सर्वलोकी ॥ ९॥
तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च ।
इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥
एवं कृते झटिति भगवत्प्रसादो भवति, ततः चित्तशुद्धिः, ततो निर्विशेषब्रह्मज्ञानं, तत्समकालं कृतकृत्यो भवतीत्याह-एवमिति । स्वोपासकदृष्ट्यपेक्षया एवम्भूतं यन्त्ररूपेण मूर्तिरूपेण सर्वारोपाधाररूपेण च सिद्धत्वात् जगदाधारभूतं वस्तुतः स्वेन रूपेण राजते महीयते इति रामं वन्दे सच्चिदानन्दरूपं गदाऽरिशङ्खाब्जधरं भवारिं वा रामं यो ध्यायेत् सोऽयं तत्प्रसादलब्धज्ञानद्वारा मोक्षप्राप्नोति ॥ ८॥ स्वोपासकमोक्षदशायां तदुपास्यो रामः केन रूपेण अवशिष्यत इत्यत आह-विश्वेति । स्वप्रसादतः स्वोपासकस्वाज्ञाननिवृत्तिसमकालमेव रामचन्द्रो भगवान् स्वकरकलितशङ्खचक्रे गदाऽब्जे च उपसंहृत्य सानुजः सपत्तनोऽयं निर्विशेषभावं धृत्वा अन्तर्दधे ततो व्याप्यविश्वसत्त्वे विश्वव्यापी भवति तदभावे तन्मोक्षरूपेण अवशिष्यत इत्यर्थः ॥ ९॥ एकस्य मोक्षतो भगवदभावे तद्भक्तानां का गतिरित्याशङ्कय स्वदृष्ट्या भगवानस्तीत्युपास्य तत्प्रसादतः कृतकृत्याः भवन्तीत्याह-तद्भक्ता इति । सर्वार्थसाधकमन्त्रपारायणफलमाह-इमा इति ॥ १०॥
इति पञ्चमोपनिषत् ।
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
श्रीरामौत्तरतापिनी उपनिषत्
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
प्रथमः खण्डः
अविमुक्तोपासनं
बृहस्पतिरुवाच याज्ञवल्क्यम्-यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ १॥
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् ॥ २॥ एवमेवैतद्याज्ञवल्क्य ॥ ३॥
पूर्वतापिनीरीत्योपासकानां निर्विशेषब्रह्मावगतये उत्तरतापिन्युपनिषदारभ्यते । बृहस्पतिभरद्वाजात्रियाज्ञवल्क्यप्रश्नप्रतिवचनरूपेयमाख्यायिका निर्विशेषब्रह्मविद्यास्तुत्यर्था । तत्राविमुक्तयाथात्म्यबुभुत्सया याज्ञवल्क्यं प्रति बृहस्पतिरुवाचेत्याह-बृहस्पतिरिति ॥ १॥ ब्रह्ममात्रज्ञानोत्पत्तेः प्राक् अविमुक्तं भ्रूमध्यविलसिततारकलक्ष्यमेव निषेवेत सदा अनुसन्धानं कुर्यादिति । शिष्टं जाबालोपनिषद्गतप्रथमखण्डव्याख्यानेनैव व्याख्यातं स्यात्१॥ २-३॥
इति प्रथमः खण्डः ।
द्वितीयः खण्डः
रामषडक्षरस्य तारकत्वं
अथ हैनं भरद्वाजः पप्रच्छ याज्ञवल्क्यं-किं तारकं किं तारयतीति ॥ १॥
स होवाच याज्ञवल्क्यः-तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्माय नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मकाः सच्चिदानन्दाख्या इत्युपासितव्यम् ॥ २॥
अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात् सन्तारयतीति । तस्मादुच्यते षडक्षरं तारकमिति ॥ ३॥
प्रथमखण्डे रुद्रस्तारकं ब्रह्म व्याचष्टे, अविमुक्तमेव प्रत्यञ्चमात्मानमेव निषेवेत, तत् ब्रह्ममात्रज्ञानं न मुञ्चेदिति याज्ञवल्क्योक्ति बृहस्पतिना साकं भरद्वाजोऽपि निशम्य अविमुक्तशब्दवाच्यतारकेयत्तापरिज्ञानाय भरद्वाजो याज्ञवल्क्यं पृच्छतीत्याह-अथेति । किमिति? किं तारकं किं तारयतीति ॥ १॥ भरद्वाजप्रश्नोत्तरं याज्ञवल्क्यः एवमाह-तारकमिति । आदौ बिन्दुपूर्वकं दीर्घानलं रामिति ततो दीर्घानलं रेति पुनर्माय नम इति सर्वं मिळित्वा रां रामाय नमः इति रामषडक्षर उद्धृतो भवति । रां रामेति त्र्यक्षरेण सह चन्द्राय नमः इत्यादिपञ्चाक्षरयोजनात् रां रामचन्द्राय नमः रां रामभद्राय नमः इत्यष्टाक्षरो भवति । इत्येतत् एते ब्रह्मात्मकाः सच्चिदानन्दाख्याः इत्युपासितव्यम् ॥ २॥ प्रणवस्य तारकत्वप्रसिद्धेः षडक्षरस्य तारकत्वं कथं? इत्यत आह-अकार इति यस्मादेवं तस्मात् ॥ ३॥
तारङ्कजपफलं
य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते स पाप्मानं तरति स मृत्युं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति सोऽविमुक्तमाश्रितो भवति स महान् भवति सोऽमृतत्वं च गच्छति ॥ ४॥
तारकजपफलमाह-य इति । तारकार्थज्ञानात् मुख्यामृतत्वमेतीत्यर्थः ॥ ४॥
रामस्य प्रणवार्थत्वं
अत्रैते श्लोका भवन्ति-
अकाराक्षरसम्भूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसम्भूतः शत्रुघ्नस्तैजसात्मकः ॥ ५॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसम्भवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ ६॥
श्रीरामसान्निध्यवशाज्जगदाधारकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ७॥
सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिका ।
प्रणवत्वात् प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ इति ॥ ८॥
रामतारकस्य प्रणवत्वे श्रीरामस्य प्रणवार्थत्वं कुतः? इत्यत्र अस्मिन्नर्थे एते श्लोकाः मन्त्राः भवन्तीत्याह-अत्रैते श्लोका भवन्तीति । सौमित्र्यादेः अकाराद्यर्धमात्राऽन्तकलनाऽऽरोपापवादाधिकरणतया विश्वविराडोत्रादिद्वि(?)तुर्याविकल्परूपत्वात् श्रीरामस्य प्रणवार्थत्वमुपपद्यते ॥ ५-६॥ तस्य प्रणवार्थत्वमस्तु, प्रणवस्वरूपं किं? इत्यत आह-श्रीरामेति । स्वाधिष्ठेयचित्सामान्यरूपायाः सीतायाः स्वाधिष्ठानसत्तासामान्यश्रीरामाविनाभाविमूलप्रकृतित्वेन प्रकृतत्वात् सीतायाः प्रणवत्वं सिद्धमित्यर्थः ॥ ७-८॥
प्रणवतदर्थयाथात्म्यं
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म । सोऽयमात्मा चतुष्पात् ॥ ९॥
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ १०॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ११॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ १२॥
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ १३॥
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ १४॥
को वा प्रणवः को वा प्रणवार्थः, इत्याकाङ्क्षायां अभिधानप्रणवाभिधेयतदर्थैकत्वावगतये प्रणवतदर्थयाथात्म्यं प्रकटयति-ओमिति । स आत्मा स विज्ञेयः इत्येतत् सर्वं माण्डूक्योपनिषद्व्याख्यानेनैव पदशो व्याख्यातं स्यात् इति मन्तव्यम् ॥ ९-१४॥
प्रत्यग्ब्रह्मणोरेकीकरणं
सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति सम्भाव्योऽहम् ॥ १५॥
ॐ तत् सद्यत् परं ब्रह्म रामचन्द्रश्चिदात्मकः ।
सोऽहमोन्तद्रामभद्रपरञ्ज्योती रसोऽहमोम् ॥ १६॥
इत्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥ १७॥
किमित्ययं विज्ञेयः इत्याकाङ्क्षायां अपरोक्षतया ज्ञातव्यः इत्याह-सदेति । प्रत्यग्रूपेण सदोज्ज्वलतीति सदोज्ज्वलः । स्वाविद्यातत्कार्यस्वात्मबन्धवतः सदोज्ज्वलत्वं कुत इत्यत आह-अविद्येति । वस्तुदृष्ट्या या अविद्यमाना सा अविद्या, तत्कार्यं अनन्तकोटिब्रह्माण्डजातं, तत्कलनाविरळः तद्धीनः, आविद्यकं स्वात्मबन्धं हरतीति तथोक्तः, तस्य सदोज्ज्वलत्प्रत्यक्त्वं उपपद्यते । द्वैतदुःखे सति कथं बन्धग्रासप्रयक्त्वमियत्र सर्वदा द्वैतरहित आनन्दरूपः इति । असत्प्रपञ्चे सति कथमानन्दरूपता इत्यत्र तदपवादाधिष्ठानस्य नित्यानन्दत्वेन सन्मात्रता स्यादित्याह-सर्वाधिष्ठानसन्मात्र इति । सन्मात्रस्य इतरव्यवच्छेदकतया स्वाविद्यातमोग्रस्तत्वात् इत्यत्र सन्मात्रस्य निष्प्रतियोगिकत्वेन इतरव्यवच्छेदासम्भवात् निरस्ताविद्यातमोमोहोऽहमेवेति सम्भाव्योऽहम् ॥ १५॥ ॐ तत्सद्यत्परम्ब्रह्मतया राजमानो महीयमानः स्वभक्तपटलाह्लादनकरो भवामि चिदात्मकः चिन्मात्रः सोऽहमित्यर्थः । यदोङ्कारार्थविश्वविराडोत्रादिभावमापन्नं यत् स्वगतहेयांशापायसिद्धं तद्रामभद्रपरञ्ज्योतीरसोऽहम् ॥ १६॥ एवं प्रत्यञ्चमात्मानमादाय मनसा परब्रह्मणा एकीकुर्यात् प्रत्यगभिन्नं ब्रह्मास्मीति भावयेदित्यर्थः ॥ १७॥
रामज्ञानान्मुक्तिः
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥ १८॥
इत्युपनिषत् । य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ १९॥
सदा रामोऽहमस्मीति मन्त्रो रामरहस्योपनिषदि व्याख्यातः । रामज्ञानसमकाले रामो भवति ॥ १८॥ इत्युपनिषत्-ब्रह्ममात्रपर्यवसानं यो वेद स मुक्तो भवतीत्यर्थः ॥ १९॥
इति द्वितीयः खण्डः ।
तृतीयः खण्डः
बाह्यान्तराविमुक्तयाथात्म्यं
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं-य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति ॥ १॥
स होवाच याज्ञवल्क्यः-सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥ २॥
सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति ॥ ३॥
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥ ४॥
का वै वरणा का च नासीति ॥ ५॥
जन्मान्तरकृतान् सर्वान् दोषान् वारयतीति तेन वरणा भवतीति । सर्वानिन्द्रियकृतान् पापान् नाशयतीति तेन नासी भवतीति ॥ ६॥
कतमं चास्य स्थानं भवतीति ॥ ७॥
भ्रुवोर्घाणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति । सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ ८॥
बाह्यान्तराविमुक्तयाथात्म्यमवगन्तुं याज्ञवल्क्यमत्रिः पृच्छतीत्याह-अथेति । एतदपि जाबालोपनिषदि व्याख्यातम् ॥ १-८॥
(तच्च व्याख्यानं झटिति प्रत्यायनार्थं अत्र उदाह्रियते-अथ ह बृहस्पति (भारद्वाज) प्रश्ननिर्णयानन्तरं किल एनं याज्ञवल्क्यं ब्रह्मपुत्रः अत्रिः पप्रच्छ । किमिति? यः तारकब्रह्मेत्युक्तः एषोऽनन्तः परिच्छेदत्रयविरळोऽव्यक्त आत्मा तं उक्तलक्षणमात्मानं कथमहं विजानीयां अवगच्छेयं इति ॥ १॥ अत्रिप्रश्नोत्तरं स होवाच याज्ञवल्क्यः बृहस्पतिं प्रति । तारकत्वेन य उक्तः सोऽविमुक्तः प्रत्यगभेदेन उपास्यः । तत्र हेतुः-भवता पृष्टो य एषोऽनन्तोऽव्यक्त आत्मा-व्याख्यातं-सोऽविमुक्ते सोपाधिकेश्वरे प्रतिष्ठित इति । तस्य निरावृतत्वात् तस्मिन् अव्यक्तोऽनन्तात्मा उपलभ्यते ॥ २॥ तदुपलब्धिस्थानं पृच्छति-सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति ॥ ३॥ सोऽयमीश्वरः कुत्र सन्निहितः इति पृष्टः उत्तरमाह-वरणायां नास्यां च मध्ये प्रतिष्ठित इति । वरणानास्योर्मध्ये प्रतिष्ठित इत्यर्थः । वरणानासीप्रदेशौ श्रुतिर्व्याकरिष्यतीति न व्याख्यातम् ॥ ४॥ वरणानासीस्वरूपं पृच्छति-का वै वरणा का च नासीति ॥ ५॥ तत्र वरणाशब्दार्थमाह-सर्वानिति । सर्वान् ज्ञानकर्मेन्द्रियकृतान् दोषान् वारयति निवारयतीति तेन वरणा भवतीति । सर्वानिन्द्रियकृतान् पापान् पापानि नाशयतीति तेन नासी नाशी भवति । सकारः शकारार्थः ॥ ६॥ वरणाया नास्याश्च मध्ये प्रतिष्ठित इत्युक्त्या नासा भ्रूसन्धिः प्रतीयते, तथाऽपि तत्प्रदेशं पृच्छति-कतमं चास्य स्थानं भवतीति । अस्य अविमुक्तस्येत्यर्थः । सर्वत्रेतिशब्दः प्रश्नपरिसमाप्त्यर्थः ॥ ७॥ भ्रुवोः घ्राणस्य च यः प्रसिद्धः सन्धिः स एष प्रसिद्धः ब्रह्मकपालस्थानीयद्युलोकस्य चुबुकावसानस्थानीयस्य च परस्य च भूलोकस्यापि सन्धिः भवति लोकद्वयसमुच्चयार्थः चकारः । एतद्वै एतमेव सन्धीयतेऽस्मिन्नविमुक्तमिति सन्धिः स्वात्मा तं सन्धि स्वात्मानं सन्ध्यां भ्रूघ्राणसन्धौ ब्रह्मविद उपासते तत्रत्यज्योतिर्लिङ्गध्यानपरा भवन्ति । सोऽविमुक्त उपास्यः इति व्याख्यातम् । तज्ज्ञानफलमाह-यो वा इति । यो वै विद्वानविमुक्तयाथात्म्यं वेद तद्गतहेयांशमपोह्य निर्विशेषात्मानञ्जानाति स विद्वान् सोऽविमुक्तं तत्साक्षात्कारहेतुज्ञानमाचष्टे स्वयमीश्वरभावमेत्य स्वभक्तपटलचरमदशायां तारकज्ञानोपदेशं करोति स्वयं निर्विशेषब्रह्मैव भवतीत्यर्थः ॥ ८॥ )
मुमूर्षूणां शिवकृतरामतारकोपदेशः
अथ तं प्रत्युवाच-
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥ ९॥
ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम् ।
वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ इति ॥ १०॥
अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ-
मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः ।
म्रियते देहि तज्जन्तोर्मुक्ति नातो वरान्तरम् ॥ इति ॥ ११॥
अथ स होवाच श्रीरामः-
क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः ।
कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ १२॥
अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
अहं सन्निहितस्तत्र पाषाणप्रतिमाऽऽदिषु ॥ १३॥
क्षेत्रेऽस्मिन् योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव ।
ब्रह्महत्याऽऽदिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १४॥
त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ १५॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ १६॥
इति श्रीरामचन्द्रेणोक्तम् ॥
उत्तमाधिकारिणां-``ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत् सदा यतिः'' इति श्रुतिसिद्धज्योतिर्लिङ्गं प्रत्यग्धातुं अविमुक्तशब्दवाच्यतया प्रतिपाद्य मध्यमाधिकारिणां काशीक्षेत्रमेव अविमुक्तमिति प्रकटयित्वा तत्र ये कळेबरं त्यजन्ति ते परमेश्वरोपदिष्टरामतारकज्ञानतः कृतकृत्या भवन्तीत्येतदर्थं अत्रिं प्रति याज्ञवल्क्य आह-अथेति ॥ ९-१०॥ पप्रच्छ-किमिति? मणिकर्ण्यामिति । ``श्रीरामस्य मनुं काश्या'' मित्यादि यदुक्तं तत् सर्वं काशीषडक्षरस्तुत्यर्थ, अन्यथा परमेश्वरस्य निरावृतक्रियाज्ञानेच्छाशक्तिमत्त्वेन अवाप्तसमस्तकामत्वात् स्वाज्ञदृष्ट्या शिवरामयोः भेदेऽपि तद्दृष्ट्यैकत्वात् स्वांशजभक्तपटलस्वाज्ञानमोचनस्य स्वज्ञानायत्तत्वात् स्वज्ञानप्रदानस्य स्वायत्तत्वादित्यर्थः ॥ ११-१६॥
इति तृतीयः खण्डः ।
चतुर्थः खण्डः
रामसाक्षात्कारप्रदाः मन्त्राः
अथ हैनं भरद्वाजो याज्ञवल्क्यमुवाच-अथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ॥
स होवाच याज्ञवल्क्यः-पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति-
विश्वरूपधरं विष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परम्ब्रह्मस्वरूपिणम् ॥
मनसा संस्मरन् ब्रह्मा तुष्टाव परमेश्वरम् ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा यत् परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥ (ज्ञातव्यौ यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु) ...यश्चाखण्डैकरसात्मा...॥ २॥ ...यच्च ब्रह्मानन्दामृतम्...॥ ३॥॥यत्तारकं ब्रह्म...॥ ४॥ ...यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा...॥ ५॥ ...ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः...॥ ६॥ ...यो जीवान्तरात्मा...॥ ७॥ ...यः सर्वभूतान्तरात्मा ॥ ८॥ ...ये देवासुरमनुष्यादिभावाः ...॥ ९॥ ... ये मत्स्यकूर्माद्यवताराः ...॥ १०॥ ...योऽन्तःकरणचतुष्टयात्मा ...॥ ११॥ ...यश्च प्राणः ...॥ १२॥ ...यश्च यमः ...॥ १३॥ ...यश्चान्तकः...॥ १४॥ ...यश्च मृत्युः ...॥ १५॥ ...यच्चामृतम्...॥ १६॥ ...यानि च पञ्च महाभूतानि...॥ १७॥ ...यः स्थावरजङ्गमात्मा ...॥ १८॥॥ये पञ्चाग्नयः...॥ १९॥ ...याः सप्त महाव्याहृतयः...॥ २०॥॥या विद्या ...॥ २१॥ ...या सरस्वती ...॥ २२॥ ...या लक्ष्मीः...॥ २३॥ ... या गौरी ...॥ २४॥ ...या जानकी ...॥ २५॥॥यच्च त्रैलोक्यं ...॥ २६॥ ...यः सूर्यः ...॥ २७॥ ...यः सोमः ...॥ २८॥ ...यानि च नक्षत्राणि...॥ २९॥ ...ये च नव ग्रहाः...॥ ३०॥ ...ये चाष्टौ लोकपालाः...॥ ३१॥ ...ये चाष्टौ वसवः...॥ ३२॥॥ये चैकादश रुद्राः...॥ ३३॥ ...ये च द्वादशादित्याः...॥ ३४॥ ...यच्च भूतं भव्यं भविष्यत् ...॥ ३५॥ ...यद्ब्रह्माण्डस्य बहिर्व्याप्तं ...॥ ३६॥॥यो हिरण्यगर्भः...॥ ३७॥ ...या प्रकृतिः ...॥ ३८॥ ...यश्चोङ्कारः...॥ ३९॥ ...याश्चतस्रोऽर्धमात्राः...॥ ४०॥ ...यः परमपुरुषः ...॥ ४१॥ ...यश्च महेश्वरः ...॥ ४२॥ ... यश्च महादेवः ...॥ ४३॥ ... य ॐ नमो भगवते वासुदेवाय ...॥ ४४॥ ...यो महाविष्णुः ...॥ ४५॥ ...यः परमात्मा ...॥ ४६॥ ...यो विज्ञानात्मा ...॥ ४७॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ इति ॥
तान् ब्रह्माऽब्रवीत्-सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुध्वम् । ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छतीति महोपनिषत् ॥
श्रीरामसाक्षात्कारोपायबुभुत्सया भरद्वाजो याज्ञवल्क्यं पृच्छतीत्याह-अथेति । उवाच-किमिति? अथेति । अत्र इतिहासमवतारयति-पूर्वमिति । कथं ब्रह्मा श्रीरामचन्द्रं तुष्टावेत्यत्र श्रीरामसार्वात्म्यप्रकटनमन्त्रान् प्रकाशयति-ओमिति । हवा इति वृत्तानुस्मरणार्थौ निपातौ । यः परमार्थदृष्ट्या कैवल्यश्रीस्वरूपेण राजमानो महीयमानो भक्तपटलाह्लादकरश्च भवति सोऽयं षड्गुणैश्वर्यस्वरूपो भगवान् द्वैतदुःखग्रासाद्वैतपरमानन्दात्मतया अवशिष्यते यद्याथात्म्यं परं ब्रह्मेति विख्यातं यस्तु पुनः स्वाज्ञदृष्ट्या भूर्भुवःसुवरिति त्रैलोक्यवपुर्विराट् भवति तस्मै सविशेषनिर्विशेषात्मने नमो नमः । वैशब्दः सेव्यसेवकयोः उपाधिकृतभेदासम्भवैकत्वद्योतकः । इति तान् ब्रह्माऽब्रवीत्-हे देवाः यूयं सप्तचत्वारिंशदिति । यस्मादेवं तस्मात् ॥
इति चतुर्थः खण्डः ।
पञ्चमः खण्डः
रामषडक्षरमाहात्म्यं
अथ हैनं भरद्वाजो याज्ञवल्क्यमुपसमेत्योवाच-श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति ॥ १॥
स होवाच याज्ञवल्क्यः-
स्वप्रकाशः परञ्ज्योतिः स्वानुभूत्येकचिन्मयः ।
तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ २॥
अखण्डैकरसानन्दस्तारकब्रह्मवाचकः ।
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ ३॥
नमः पदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ।
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ४॥ इति ॥
य एतं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वक्रतुभिरिष्टवान् भवति तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीरामचन्द्रमनुस्मरणेन गायत्र्याः शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतकोटिजप्ता भवति । दश पूर्वान् दशोत्तरान् पुनाति । स पङ्क्तिपावनो भवति । स महान् भवति । सोऽमृतत्वं च गच्छति ॥ ५॥
मन्त्रराजार्थं तन्माहात्म्यं तज्ज्ञानफलं च ज्ञातुमिच्छन् भरद्वाजो याज्ञवल्क्यं पृच्छतीत्याह-अथेति । मुख्यार्थं सफलं माहात्म्यमनुब्रूहि ॥ १॥ षडक्षराद्यबीजार्थमाह-स्वप्रकाश इति ॥ २॥ रामायेति त्र्यक्षरार्थं निगमयत-अखण्डेति ॥ ३॥ नमः शब्दार्थमाचष्टे-नमः पदमिति । विशिष्टार्थस्तु, रां रामायेत्यक्षर चतुष्टयं तत्पदलक्ष्यबोधकं, नमः इत्यक्षरद्वयं त्वम्पदलक्ष्यबोधकं, लक्षणासापेक्षलक्ष्यद्वयगतविशेषांशापह्नवसिद्धं निष्प्रतियोगिकब्रह्ममात्रमित्यर्थः । सर्वे देवा मुमुक्षवश्च एवमेव सदा हृदये नमन्ति ब्रह्ममात्रं स्वावशेषधिया चिन्तयन्ति ॥ ४॥ षडक्षरजपान्तराळिकफलमाह-य इति । स सर्वैर्देवैः ब्रह्मविदिति ज्ञातो भवति । चशब्दात् तारकार्थज्ञानतो मुख्यामृतत्वं विदेहकैवल्यं गच्छतीति द्योत्यते ॥ ५॥
मन्त्रराजमाहात्म्यप्रतिपादकश्लोकाः
अत्रैते श्लोका भवन्ति-
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ६॥
गाणपत्यादिमन्त्रेषु कोटिकोटिगुणाधिकः ।
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ७॥
षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः ।
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ८॥
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
सर्व दहति निःशेषं तूलाचलमिवानलः ॥ ९॥
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ १०॥
कोटिकोटिसहस्राणि उपपातकजान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ११॥
भूतप्रेतपिशाचाद्याः कूश्माण्डब्रह्मराक्षसाः ।
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १२॥
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ १३॥
ग्राम्यारण्यपशुघ्नत्वं सञ्चितं दुरितं च यत् ।
मद्यपानेन यत् पापं तदप्याशु विनाशयेत् ॥ १४॥
अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् ।
सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १५॥
श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् ।
रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ॥ १६॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
सञ्चिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १७॥
गत्वाऽपि मातरं मोहादगम्याश्चैव योषितः ।
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १८॥
महापातकपापिष्ठसङ्गत्या सञ्चितं च यत् ।
नाशयेत्तत्कथाऽऽलापशयनासनभोजनैः ॥ १९॥
पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
तदनुष्ठानमात्रेण सर्वमेतद्विलीयते ॥ २०॥
यत् प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि ।
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ २१॥
पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् ॥ २२॥
कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि ।
पापं च नापनोद्यं यत् तदप्याशु विनाशयेत् ॥ २३॥
आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि ।
किञ्चिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २४॥
अवस्थात्रितयेष्वेवं बुद्धिपूर्वमघं च यत् ।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २५॥
अवस्थात्रितयेष्वेवं मूलबन्धमघं च यत् ।
तत्तन्मन्त्रोपदेशेन सर्वमेतत् प्रणश्यति ॥ २६॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २७॥
येषु येष्वपि देशेषु रामभद्र उपास्यते ।
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २८॥
शान्तः प्रसन्नवदनो नक्रोधो भक्तवत्सलः ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २९॥
सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ ३०॥
तदेतदृचाऽभ्युक्तम्-
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ३१॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥ ३२॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम् ॥ ३३॥
ॐ सत्यमित्युपनिषत् ॥ ३४॥
एवमुक्तार्थे एते श्लोकाः मन्त्राः मन्त्रराजमाहात्म्यप्रतिपादका भवन्तीत्याह-अत्रैते श्लोका भवन्तीति । मन्त्रराजस्य सकलदेवतामन्त्रतोऽपि वैशिष्ट्यमाह-गाणपत्येष्विति । तत्तद्भावानुरोधेन पुरुषार्थचतुष्टयप्रापको मन्त्रराज इत्यर्थः ॥ ६-२९॥ शान्त इत्यादिविशेषणविशिष्टो भगवान् तारकानुस्मरणेन आराधितः सन् प्रसीदति, तेन किं स्यादित्यत्र-ददातीति । मन्त्रार्थज्ञानपूर्वकं यो जपति तस्यैव विष्णुपदाप्तिः ॥ ३०॥ विष्णुपदार्थतृष्णया अस्य मन्त्रानादरो भवतीति यत् तदेतदृचाऽभ्युक्तम् । ऋच... इत्ययं मन्त्रः श्वेताश्वतरोपनिषदि व्याख्यातः ॥ ३१॥ तद्विष्णोः इति मन्त्रस्तु आरुणिकोपनिषदि व्याख्यातः ॥ ३२-३३॥ किं तद्विष्णुपदं? इत्यत्र-ओमिति । ओङ्कारार्थतुर्यतुरीयमेव ब्रह्म सत्यं, स्वेतरग्राससत्तासामान्यरूपत्वात्, तदेव विष्णुपदं स्वमात्रधियैव पद्यमानत्वात् । इत्युपनिषच्छब्दो रामोत्तरतापिन्युपनिषत्समाप्त्यर्थः ॥ ३४॥
इति पञ्चमः खण्डः ।
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
रामतापिन्युपनिषद्व्याख्यानं लिखितं लघु ।
श्रीरामतापिनीव्याख्याग्रन्थजातं चतुश्शतम् ॥
इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे पञ्चपञ्चाशत्सङ्ख्यापूरकं
श्रीरामतापिन्युपनिषद्विवरणं सम्पूर्णम् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Encoded and proofread by Mrityunjay Pandey