सङ्कर्षणोपनिषत्

सङ्कर्षणोपनिषत्

अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति । ततः प्रद्युम्नसंज्ञं मन आसीत् । तस्मादहङ्कारनामाऽनिरुद्धः । ततो हिरण्यगर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादयः स्थाणुदक्षकर्दमप्रियव्रतोत्तानपादादयोऽप्यजायन्त । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्णि सिद्धार्थवद्धार- यमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखरमेरोश्शिरोभिर्वारयमाणो महावायोरहङ्कारं निराचकार । स भगवान् युगसन्धिकाले स्वेन रूपेण युगे युगे तेनैव जायमानः स्वयमेव सौमित्रिरैक्ष्वाके (वंशे जा)यमा(नो) रक्षांसि सर्वाणि विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त(यति) । स एव भगवान् युगसन्धिकाले(शरदभ्रसं)निकाशो रौहिणेयो वासुदेवः सर्वाणि ग(दा)द्यायुधशास्त्राजन्यमण्डलान्निराचिकीर्ष (ति । ) भूभारमखिलं निचखान । स एव भगवान् (शेषः) युगे तुरीयेऽपि ब्राह्मण्यां जायमा(नो) रामानुजो भूत्वा सर्वा उपनिषद उद्दिधीर्ष(ति । ) सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान्निचखान । स एष जग(दाविर्भावतिरोभावहेतुः । ) स एष सर्वात्मकः । स एष मुमुक्षुभिर्ध्येयः । स एष मोक्षप्रदः एतत्स्मृ(त्या) सर्वेभ्यः पाप्मे(प्म)भ्यो मुच्यते । तन्नाम सङ्कीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽधीयानो रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वक्रतुफलं लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते । य एवं वेद । देहबन्धाद्विमुच्यते । देहबन्धाद्विमुच्यते । इत्येवोपनिषत् ॥ (वैष्णव-उपनिषदः) इति सङ्कर्षणोपनिषत् समाप्ता । Proofread by Kasturi navya sahiti
% Text title            : sankarShaNopaniShat
% File name             : sankarShaNopaniShat.itx
% itxtitle              : saNkarShaNopaniShat (vaiShNava)
% engtitle              : sankarShaNopaniShat
% Category              : upanishhat, vishhnu, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti kasturinsahiti at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : March 20, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org