सुमुख्युपानिषत्
अथैनामावाहयाम्यनवद्यां शवाधिरूढां रक्तवस्त्रालङ्कारयुक्तां
रक्तपीठोपविष्टां गुञ्जाहारविभूषितहृदयां
षोडशसमासमाकारां युवतीं पीनोन्नतघनस्तनीं स्वहृदये
चिन्तयित्वोच्छिष्टपदमाभाष्य चण्डालिनीमभिमतां सुमुखीं तदन्ते
देवीं चोक्त्वा महापिशाचिनीं तस्माद्धरामग्निमायां बिन्दुमौलिनीं
समुच्चार्य ठान्तत्रयं सविसर्गं समुद्धृत्य देवीं हृदये
विभाव्य ईङ्कारस्वरूपं सबिन्दुमुखं युग्मस्तनपदान्तं भावयित्वा
यन्त्रं योनिं तदुपरि शिववक्त्रयोनिमष्टपत्रं षोडशाब्जकं
वृत्तमेकं चतुरश्रं यन्त्रराजं विचिन्त्यादौ देवीमावाह्य
बिन्दौ गन्धाक्षतपुष्पधूपदीपान् संस्कृतान्नं नानाविधं
निवेद्याद्यं पलं मीनाद्यन्नं मूलेन मूलां सन्तर्प्य संस्कृतां
पुरस्कृतां योनिं देवतायै निवेदयेत् । सुकृती चतुरश्रान्
देवानिन्द्राग्नियमनिरृतिवरुणवायुकुबेरेशानान् वामावर्तेन सम्पूज्य
षोडशाब्जके कलावती कपालिनी कल्याणी नित्या कमला क्रिया कृपा
आकुला कुलीना कुमारी कुण्डला आकरा किशोरी कोमला कल्पा कुमुदा
एताः पूजयेत् । अष्टाब्जे ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही
इन्द्राणी चामुण्डा महालक्ष्मीः । ततो योनिपञ्चके चन्द्रा चन्द्रानना
चारुमुखी चामीकरप्रभा चतुरा । ततो योनौ वामा ज्येष्ठा रौद्री ।
तदन्ते रतिप्रीतिमनोभवाः पूज्याः । प्रान्ते पूजां सन्तर्प्य
पुनर्नैवेद्यं बहुगुणं निवेद्यारात्रिकं निवेद्य परां पूजयन्
महाछत्रचामरादिसर्वदेवैर्नमस्कृतामाद्यशक्तिमष्टजातीयां
स्वयं भैरवो भूत्वा कुलाकुलामृतैर्देवीं सन्तर्प्य स्वहृदये
तां परां विसृज्य सुखेनैव शिवशक्त्यात्मको भावयन् विहरेत् ।
स सिद्धीश्वरो भवेत् । स सर्वेश्वरो भवेत् । स लोकाध्यक्षो
भवेत् । भवो भूत्वा विभावयति ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकण्डे सुमुख्युपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti