॥ तेजोबिन्दूपनिषत् ॥

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २॥ यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३॥ अगम्यागमकर्ता यो गम्याऽगमयमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४॥ परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५॥ त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६॥ उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसङ्ग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७॥ अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८॥ तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९॥ अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १०॥ सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११॥ मुनीनां सम्प्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२॥ शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३॥ न भयं न सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥ १४॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १५॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६॥ सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः । यमोऽऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७॥ सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८॥ त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनात् । त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९॥ यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ २०॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१॥ इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२॥ आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥ कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४॥ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५॥ सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥ यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥ २७॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८॥ दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९॥ द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३०॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२॥ ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३॥ विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं चैव धारणा सा परा मता ॥ ३५॥ ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६॥ निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७॥ इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९॥ समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४०॥ लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१॥ भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२॥ ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३॥ ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४॥ येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५॥ कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६॥ निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८॥ अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९॥ भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५०॥ विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ इति प्रथमोऽध्यायः ॥ १॥
अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस- चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः । अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥ १॥ अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया । अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २॥ अखण्डैकरसा भूमिरखण्डैकरसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३॥ अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४॥ अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५॥ अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६॥ अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७॥ अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८॥ अखण्डैकरसं किञ्चिदखण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९॥ अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १०॥ अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११॥ अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२॥ अखण्डैकरसा माता अखण्डैकररसः पिता । अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३॥ अखण्डैकरसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४॥ अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५॥ अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डैकरसशशी ॥ १६॥ अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥ १७॥ अखण्डैकरस शान्त अखण्डैकरसोऽगुणः । अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८॥ अखण्डैकरसो बन्धुरखण्डैकरसः सखा । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९॥ अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २०॥ अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१॥ अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२॥ अखण्डैकरसो होम अखण्डैकरसो जपः । अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३॥ अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४॥ भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥ २५॥ आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६॥ आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७॥ अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥ २८॥ द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९॥ सम्भाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३०॥ आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् । दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१॥ सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२॥ अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् । पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३॥ चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४॥ चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५॥ चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६॥ चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥ ३७॥ चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि । यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८॥ यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९॥ यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४०॥ चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि । अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१॥ शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपतया यो वा जानात्यहं त्विति ॥ ४२॥ सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३॥ इति द्वितीयोऽध्यायः ॥ २॥
कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः । परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १॥ केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २॥ केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३॥ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५॥ निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६॥ सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७॥ सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् । अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८॥ आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥ ९॥ आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १०॥ नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः । नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥ १॥ नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२॥ भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३॥ देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा । चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४॥ सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५॥ अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६॥ अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७॥ अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः । अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८॥ अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः । मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥ १९॥ मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २०॥ निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा । केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१॥ स्वयमेव स्वयं भामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२॥ स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥ २३॥ स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४॥ स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५॥ चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६॥ सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् । नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७॥ अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८॥ एकसङ्ख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥ २९॥ सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३०॥ सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् । विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१॥ ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२॥ त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन । चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३॥ अतिभावस्वरूपोऽहमहमेव सुखात्मकः । साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४॥ केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५॥ नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६॥ बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७॥ वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् । सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८॥ सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९॥ सर्वशून्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥ ४०॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१॥ सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२॥ ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३॥ न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् । निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४॥ न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५॥ न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६॥ सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् । स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७॥ असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् । अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८॥ देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९॥ श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५०॥ मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा । सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥ ५१॥ गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२॥ यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३॥ सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति । दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४॥ कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५॥ पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७॥ गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् । असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८॥ असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९॥ अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६०॥ अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥ ६१॥ अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२॥ अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३॥ अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४॥ अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५॥ अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६॥ अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७॥ अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८॥ अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९॥ अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥ ७०॥ अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥ ७१॥ अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२॥ अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३॥ सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४॥ इति तृतीयोध्यायः ॥ ३॥
कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति । स होवाच परः शिवः । चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १॥ देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥ २॥ आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३॥ यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४॥ सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६ किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते । न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७॥ न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८॥ न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् । न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥ ९॥ न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १०॥ न मे तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११॥ न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२॥ न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३॥ न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् । ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४॥ न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः । न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५॥ न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६॥ न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७॥ न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥ १८॥ न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९॥ न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २०॥ न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि । न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१॥ न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२॥ न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३॥ न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि । न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४॥ न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् । न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥ २५॥ न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६॥ न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७॥ न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८॥ न मे जरा न मे बाल्यं न मे यौवनमण्वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९॥ चिदहं चिदहं चेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३०॥ स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१॥ स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते । स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥ ३२॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३॥ सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४॥ अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥ ३५॥ आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६॥ चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७॥ निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८॥ सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९॥ किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४०॥ परमात्मा गुणातीतः सर्वात्मा भूतभावनः । कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१॥ किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२॥ शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३॥ सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४॥ केवलः परमात्माहं केवलो ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥ ४५॥ जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६॥ इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७॥ अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः । तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥ ४८॥ नामरूपविहीनात्मा परसंवित्सुखात्मकः । तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९॥ योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५०॥ साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन । यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१॥ स्वस्वरूपे स्वयञ्ज्योतिः स्वस्वरूपे स्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२॥ अतीतातीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३॥ सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४॥ ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५॥ परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः । ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६॥ ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७॥ ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८॥ ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९॥ ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः । ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥ ६०॥ ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूपमिदं सर्वमात्मनोऽन्यन्न कञ्चन ॥ ६१॥ सर्वमात्माहमात्मास्मि परमात्मा परात्मकः । नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२॥ पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३॥ निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४॥ जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५॥ बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः । द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६॥ सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७॥ सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८॥ आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः । कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९॥ अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः । नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७०॥ अन्यहीनस्वभावात्मा अन्यहीनस्वयम्प्रभः । विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१॥ नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२॥ स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३॥ अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४॥ आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५॥ दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६॥ प्रज्ञानवाक्यहीनात्मा अहम्ब्रह्मास्मिवर्जितः । तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७॥ ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८॥ आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः । भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९॥ आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् । स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८०॥ स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर । आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥ इति चतुर्थोऽध्यायः ॥ ४॥
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति । स होवाच ऋभुः । सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १॥ सर्वसङ्कल्परहितः सर्वनादमयः शिवः । सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २॥ सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३॥ सर्वनादकलातीत एष आत्माहमव्ययः । आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४॥ शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५॥ तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६॥ अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७॥ आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८॥ स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९॥ यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १०॥ नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा । सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥ ११॥ गुणं वा विगुणं वापि सम आत्मा न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२॥ गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३॥ यत्र कालमकालं वा निश्चयः संशयो न हि । यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४॥ द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् । अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५॥ अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु । सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६॥ केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७॥ जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥ १८॥ चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च । पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९॥ मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् । धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २०॥ अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१॥ सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च सम्भवेत् । असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२॥ शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते । भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥ २३॥ बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४॥ त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवास्ति तदभादिदं न च ॥ २५॥ अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन । कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६॥ द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७॥ अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८॥ तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९॥ परम्ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३०॥ चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु । इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१॥ चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा । न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२॥ मायाकार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३॥ समाधिद्वितयं नास्ति मातृमानादि नास्ति हि । अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४॥ अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न । न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५॥ न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् । न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६॥ न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् । नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७॥ बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८॥ सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहम्भाषणं न हि ॥ ३९॥ अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४०॥ बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि । योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१॥ अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि । भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२॥ वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३॥ बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४॥ वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५॥ बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् । शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥ ४६॥ श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७॥ इदमित्येव निर्दिष्टमयमित्येव कल्प्यते । त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥ ४८॥ यद्यत्सम्भाव्यते लोके सर्वसङ्कल्पसम्भ्रमः । सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९॥ सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५०॥ मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१॥ संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु । स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२॥ मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् । अन्तःकरणसद्भाव अविद्याश्च सम्भवः ॥ ५३॥ अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु । सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४॥ दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५॥ येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येन केनापि गदितं येन केनापि मोदितम् ॥ ५६॥ येन केनापि यद्दत्तं येन केनापि यत्कृतम् । यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७॥ यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८॥ त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा । त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९॥ कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥ ६०॥ सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१॥ समोऽसि सच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्गहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२॥ सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भासितोऽसि । सर्वत्र सङ्कल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि ॥ ६३॥ सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि । सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४॥ चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५॥ आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६॥ सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७॥ अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि । सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८॥ सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि । नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९॥ ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७०॥ लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१॥ ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२॥ स्वात्मराज्ये स्वमेवासि स्वयम्भावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३॥ स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि । स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४॥ इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६॥ नाशो जन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७॥ गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् । भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८॥ शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९॥ आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः । इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८०॥ चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१॥ सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसङ्ग्रहम् । विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२॥ बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३॥ सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥ ८४॥ यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् । बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५॥ यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् । यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६॥ यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः । शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७॥ ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् । यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८॥ सर्वोपनिषदां भावं सर्वं शशविषाणवत् । देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९॥ देहोऽहमिति सङ्कल्पो महत्संसार उच्यते । देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥ ९०॥ देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते । देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥ ९१॥ देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते । देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥ ९२॥ देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते । देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३॥ देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४॥ देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि । देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ ९५॥ देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् । देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६॥ यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् । कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् । यत्किञ्चेदं सर्वसङ्कल्पजालं तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७॥ मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८॥ मन एव महद्दुःखं मन एव जरादिकम् । मन एव हि कालश्च मन एव मलं तथा ॥ ९९॥ मन एव हि सङ्कल्पो मन एव हि जीवकः । मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १००॥ मन एव महद्बन्धं मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१॥ मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२॥ स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः । जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३॥ दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ १०४॥ सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५॥ इति पञ्चमोऽध्यायः ॥ ५॥
ऋभुः ॥ सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १॥ सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २॥ सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३॥ न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४॥ न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५॥ न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ६॥ न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७॥ न हस्तपादचलनं न शास्त्रं न च शासनम् । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८॥ तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९॥ न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः । न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १०॥ त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११॥ न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥ १२॥ न पक्षी न मृगो नाङ्गी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३॥ न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥ १४॥ न लौकिको न लोको वा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५॥ न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६॥ न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः । न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७॥ न वारपक्षमासादि वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८॥ न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा न लोका लोकपालकाः ॥ १९॥ न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् । नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २०॥ न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१॥ न पदार्था न पूजार्हं नाभिषेको न चार्चनम् । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२॥ न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३॥ न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४॥ न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५॥ न पक्षपातं न पक्षं वा न विभूषणतस्करौ । न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६॥ नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७॥ न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८॥ न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९॥ सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥ ३०॥ ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१॥ ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥ ३२॥ ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३॥ ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४॥ इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयम्प्रभम् ॥ ३५॥ एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६॥ लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७॥ जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८॥ स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९॥ नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन । अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ४०॥ अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१॥ ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२॥ चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३॥ अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४॥ अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५॥ आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६॥ आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७॥ ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८॥ ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् । ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९॥ ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५०॥ ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१॥ स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ५२॥ यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥ ५३॥ लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४॥ यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् । असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५॥ असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६॥ असत्यं षड्विकारादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥ ५७॥ सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८॥ सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः । अहमेव परानन्द अहमेव परात्परः ॥ ५९॥ ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥ ६०॥ अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् । त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१॥ चिदाकारं चिदाकाशं चिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२॥ सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३॥ अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४॥ अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५॥ सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६॥ परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७॥ योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८॥ तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः । चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥ ६९॥ अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७०॥ सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१॥ नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२॥ मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३॥ शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४॥ नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥ ७५॥ गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६॥ रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७॥ विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः । रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥ ७८॥ सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९॥ मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् । तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥ ८०॥ गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् । भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१॥ कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥ ८२॥ तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् । अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥ ८३॥ ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४॥ महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् । मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५॥ निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् । मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६॥ अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥ ८७॥ स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८॥ क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९॥ नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् । निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९०॥ सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् । वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१॥ काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२॥ महाखरो गजगतिं गतश्चेज्जगदस्तु तत् । सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥ ९३॥ चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४॥ दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५॥ ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा । श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६॥ शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७॥ शुद्धाकाशे वने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८॥ अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि । सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९॥ मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् । देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १००॥ हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१॥ अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२॥ एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३॥ अहं ब्रह्मेति निश्चित्य अहम्भावं परित्यज । सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४॥ न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५॥ लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् । सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६॥ अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् । सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७॥ शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८॥ गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥ १०९॥ सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११०॥ सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् । ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ इति तेजोबिन्दूपनिषत्समाप्ता ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com
% Text title            : Tejobindu Upanishad
% File name             : tejobindu.itx
% itxtitle              : tejobindUpaniShat
% engtitle              : Tejobindu Upanishad
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedic tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : 37/108; Krishna Yajurveda- Yoga upanishad
% Indexextra            : (120 Upanishad)
% Latest update         : Feb. 3, 2000, October 7, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP