आरात्रिकम् अथर्वणे परिशिष्टे
ॐ न सुष्वाप पुरा शक्रो दानवानां पुरोधसा ।
प्रयुक्तैरौषधैर्योगैर्मन्त्राणां जपहोमतः ॥ ७.१.१॥
प्रणिपत्य बृहस्पतिमथर्वाणं पुरन्दरः ।
दानवैः परिभूतोऽहं त्राहिमामित्युवाच ह ॥ २॥
ततोऽसावेवमुक्तस्तु प्रभूतबलवर्धनम् ।
आरोग्यदं भूतिकरं क्षुद्रोपद्रवनाशनम् ॥ ३॥
आरात्रिकं हि कर्तव्यं तस्य त्रातुमिदं तदा ।
कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंयुतम् ॥ ४॥
अतिनिहः प्रान्यानिति द्वाभ्यामेनं प्रदीपयेत् ।
पात्रे सपुष्पे संस्थाप्य सर्षपांश्च सहाक्षतैः ॥ ५॥
प्रियङ्गु शतपुष्पां च दूर्वा चैव शतावरीम् ।
सपापहारिणीं भूतिं तत्रैव च बलिं न्यसेत् ॥ ६॥
अप्सरोभीः परिवृतो गुरुर्गत्वा पुरन्दरम् ।
प्राप्तासत्त्वं सुमनसमासने प्रमुखं स्थितम् ॥ ७॥
प्रेतो यन्त्वेकशतं च दीपं समभिमन्त्रयेत् ।
त्रिः परिभ्रामयेद्राज्ञो मन्त्रिणाथ सुमङ्गलम् ॥ ८॥
शाम्यन्त्यस्य ततो रोगा ग्रहा विघ्नविनायकाः ।
स्वस्त्यस्तु नृपराष्ट्राय स्वस्तिगोब्रह्मणाय च ॥ ९॥
ततस्तु शङ्खध्वनिना दीपं गृहीत्वा
स तोयधाराम्प्रयतोऽपि निर्हरेत् ।
पुरोहितो ज्योतिषिकोऽपि वा स्वयं
हितैषिणी धात्र्यथवोपकारिता ॥ ७.१.१०॥
आचाम्याथ ह राजानमाचम्यादौ पुरोहितः ।
ब्राह्मणाय यथाशक्ति रुक्मं प्रातः प्रदापयेत् ॥ ११॥
मूलकर्मादिकं तस्य पञ्चगुह्यककारितम् ।
भयं राज्ञो न भवति तेजो वीर्यं च वर्धते ॥ १२॥
एवं विधानमखिलं विहितं यथावदे-
तत्समस्तशुभदं गदितं नृपाणाम् ।
नैवापदः समुपयान्ति नृपं
कदाचिदारात्रिकं प्रतिनिशं क्रियते तु यस्य ॥ १३॥
इत्यारात्रिकं समाप्तम् ॥ ७॥
Night ritual.
Atharvaveda Parishishta/Appendix 7 (See the reference in the link below) has this ritual described.
A night ritual whose main feature is that three circumambulations of the lamp are made around the king on all sides.
In the present appendix, this story comes that when the demon-priest, through his sinful actions, afflicted Indra with the disease of sleeplessness, then for the protection of Indra, Brihaspati Atharvan devised this ritual and its procedure.
This is a ritual, procedure and not in the form a familiar Arati, offering of light to a deity like ᳚jaya jagadIsha hare᳚. The word ArAtrika means ᳚the light (or the vessel containing it) which is waved at night before an idol.᳚
Encoded and proofread by Brahatha Mohan