श्रीऋग्वेदीय पञ्चरुद्रम्
॥ ॐ श्री गणेशाय नमः ॥
गणपति स्तुतिः
हरिः॑ ॐ
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.२३.०१
निषुसी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते तवत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ १०.११२.०९
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ०८.८१.०१
ॐ श्री महागणपतये॒ नमः॑ ॥
पञ्चरुद्रम्
अथ पञ्चरुद्रम् प्रारम्भः ।
हरिः॑ ॐ
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे ॥ १.०४३.०१
यथा᳚ नो अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ । यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ॥ १.०४३.०२
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति । यथा॒ विश्वे᳚ स॒जोष॑सः ॥ १.०४३.०३
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् । तच्छं॒योः सु॒म्नमी᳚महे ॥ १.०४३.०४
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते । श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ॥ १.०४३.०५
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ । नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ॥ १.०४३.०६
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् । महि॒ श्रव॑स्तुविनृ॒म्णम् ॥ १.०४३.०७
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त । आ न॑ इन्दो॒ वाजे᳚ भज ॥ १.०४३.०८
यास्ते᳚ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम᳚न्नृ॒तस्य॑ ।
मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ॥ १.०४३.०९
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न॑नातु॒रम् ॥ १.११४.०१
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ॥ १.११४.०२
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्विशो᳚ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥ १.११४.०३
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे ।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥ १.११४.०४
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ॥ १.११४.०५
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् ।
रास्वा᳚ च नो अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ॥ १.११४.०६
मानो᳚ म॒हान्त॑मु॒त मानो᳚ अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् ।
मानो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ॥ १.११४.०७
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे᳚षु रीरिषः ।
वी॒रान्मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित्त्वा᳚ हवामहे ॥ १.११४.०८
उप॑ते॒ स्तोमा᳚न्पशु॒पा इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हिते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ॥ १.११४.०९
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु ।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ॥ १.११४.१०
अवो᳚चाम॒ नमो᳚ अस्मा अव॒स्यवः॑ शऋ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा᳚न् ।
तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११४.११
आते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः ।
अ॒भि नो᳚ वी॒रो अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ॥ २.०३३.०१
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚ अशीय भेष॒जेभिः॑ ।
व्य(१)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ॥ २.०३३.०२
श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो ।
पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप॑सो युयोधि ॥ २.०३३.०३
मात्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती ।
उन्नो᳚ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शऋणोमि ॥ २.०३३.०४
हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय ।
ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ॥ २.०३३.०५
उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् ।
घृणी᳚व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ २.०३३.०६
क्व(१) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला᳚षः ।
अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ॥ २.०३३.०७
प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि ।
न॒म॒स्या क॑ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ २.०३३.०८
स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः ।
ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ॥ २.०३३.०९
अर्ह᳚न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न्नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् ।
अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी᳚यो रुद्र॒ त्वद॑स्ति ॥ २.०३३.१०
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ॥ २.०३३.११
कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् ।
भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ॥ २.०३३.१२
यावो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥ २.०३३.१३
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥ २.०३३.१४
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ ।
ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥ २.०३३.१५
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्यं(१) प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु ।
दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ६.०७४.०१
सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ॥ ६.०७४.०२
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ॥ ६.०७४.०३
ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः ।
प्रनो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द्गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ॥ ६.०७४.०४
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ ।
अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शऋ॒णोतु॑ नः ॥ ७.०४६.०१
स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति ।
अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥ ७.०४६.०२
याते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ ७.०४६.०३
मानो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।
आनो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७.०४६.०४
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ ८.०६३.१२
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे ।
त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ॥ २.००१.०६
आवो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ॥ ४.००३.०१
तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् ।
प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ॥ ५.००३.०३
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ ।
बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ॥ ६.०४९.१०
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ॥ ५.०४२.११
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥ १०.०६०.१२
त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥ ७.०५९.१२
शान्ति पाठमन्त्रः
हरिः॑ ॐ
ॐ
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥
ईशानस्सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ।
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्बह्मा॑ शि॒वो मे॑ऽस्तु सदाशि॒वोम् ॥
ॐ
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।
निव॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥
ॐ
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परासुव ।
यद्भ॒द्रं तन्न॒ आसुव ॥
ॐ
द्यौः शान्ति॑र॒न्तरि॑क्ष॒ꣳ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ ।
वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥
ॐ
सर्वेषां वा एष वेदानाꣳरसो यत्सामः ।
सर्वेषामेवैनमेतद् वेदानाꣳ रसेनाभिषिञ्चति ॥
ॐ
शम्भ॑वे॒ नमः॑ । नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑
कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑ ॥
ॐ
यदक्षर पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥
ॐ
शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयतां न मम ।
इति श्रीऋग्वेदीय पञ्चरुद्रं समाप्ता ।
॥ ॐ श्री साम्ब सदाशिवार्पणमस्तु ॥
Encoded and proofread by Kr. PK