भाग्यसूक्तम् अथवा प्रातः सूक्तम्

भाग्यसूक्तम् अथवा प्रातः सूक्तम्

ऋग्वेदसंहितायां सप्तमं मण्डलं, एकचत्वारिंशं सूक्तम् । ऋषिः - वसिष्ठः, देवता- १ लोङ्गोक्ताः, २-६ भगः, ७ उषाः, छन्दः - १ निचृज्जगती, २, ३, ५, ७, निचृत्रिष्टुप्, ४ पङ्क्तिः, ६ त्रिष्टुप् स्वरः - १ निषादः, २, ३, ५-७ धैवतः, ४ पञ्चमः । प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥ ७.०४१.०१ प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह॑ ॥ ७.०४१.०२ भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः । भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥ ७.०४१.०३ उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥ ७.०४१.०४ भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ॥ ७.०४१.०५ सम॑ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हन्तु ॥ ७.०४१.०६ अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७.०४१.०७ (यो मा᳚ऽग्ने भा॒गिनगं सन्तमथा॑भा॒गं चिकी॑ऋषति । अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।) स्वररहितम् । प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥ ७.०४१.०१ प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ ७.०४१.०२ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥ ७.०४१.०३ उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥ ७.०४१.०४ भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥ ७.०४१.०५ समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥ ७.०४१.०६ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ७.०४१.०७ (यो माऽग्ने भागिनगं सन्तमथाभागं चिकीऋषति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥ ॐ शान्तिः शान्तिः शान्तिः ।) The complete bhAgyasUktam includes the following ऋग्वेदसंहितायां अष्टमं मण्डलं, सप्तचत्वारिंशं सूक्तम् । ऋषिः - वसिष्ठः, देवता- १४-१८ आदित्याउषाश्च, छन्दः - १५, १६, १८,भुरिक्त्रिष्टुप्, १७ स्वराट्त्रिष्टुप्, १४ त्रिष्तुप् स्वरः - १४-१८ धैवतः । यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः । त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१४ नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१५ तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ । त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१६ यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि । ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१७ अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१८ ऋग्वेदसंहितायां दशमं मण्डलं, चतुःषष्ट्युत्तरशततमं सूक्तम् । ऋषिः - प्रचेताः, देवता दुःस्वप्नघ्नम्, छन्दः - ५ पङ्क्तिः, स्वरः - ५ पञ्चमः । अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥ १०.१६४.०५ हरिः ॐ । स्वररहितम् । यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः । त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८.०४७.१४ निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः । त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८.०४७.१५ तदन्नाय तदपसे तं भागमुपसेदुषे । त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८.०४७.१६ यथा कलां यथा शफं यथ ऋणं संनयामसि । एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८.०४७.१७ अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥ ८.०४७.१८ अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥ १०.१६४.०५ हरिः ॐ । The initial portion is also referenced as taittarIya brAhmaNam aShTakam 2, prashnaH 8, anuvAka 9 in the mantrapuShpam book.
% Text title            : bhAgyasUkta or Pratah Suktam
% File name             : bhAgyasUktam.itx
% itxtitle              : bhAgyasUktam athavA prAtaHsUktam (Rigveda 7\.41, 8\.47, 10\.164\.05)
% engtitle              : Bhagya Suktam or Pratah Suktam
% Category              : veda, svara, sUkta
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Palak
% Source                : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm
% Indexextra            : (Audio. Rigveda, Videos 1 Complete, 2)
% Latest update         : October 8, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org