महा सौरम्
(१.०५० प्रथमं मण्डले पञ्चाशं सूक्तम्
ऋषिः-प्रस्कण्वः काण्वः ॥ देवता-सूर्यः ॥ छन्दः-१, ६ निचृद्गायत्री;
२, ४, ८, ९ पिपीलिकामध्यानिचृद्गायत्री; ३ गायत्री; ५ यवमध्याविराड्गायत्री;
७ विराड्गायत्री १०, ११ निचृदनुष्टुप्; १२, १३ अनुष्टुप् ॥
स्वरः-१-९ षड्जः; १०-१३ गान्धारः ॥)
उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ॥ १.०५०.०१
अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
सूरा᳚य वि॒श्वच॑क्षसे ॥ १.०५०.०२
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॑ऽअनु॑ ।
भ्राज᳚न्तो अ॒ग्नयो᳚ यथा ॥ १.०५०.०३
त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा᳚सि रोच॒नम् ॥ १.०५०.०४
प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् ।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ १.०५०.०५
येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॑ऽअनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥ १.०५०.०६
वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो अ॒क्तुभिः॑ ।
पश्य॒ञ्जन्मा᳚नि सूर्य ॥ १.०५०.०७
स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य ।
शो॒चिष्के᳚शं विचक्षण ॥ १.०५०.०८
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
ताभि᳚र्याति॒ स्वयु॑क्तिभिः ॥ १.०५०.०९
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् ।
दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ॥ १.०५०.१०
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ॥ १.०५०.११
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥ १.०५०.१२
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥ १.०५०.१३
(१.११५ प्रथमं मण्डले पञ्चदशोत्तरशततमं सूक्तम्
ऋषिः-कुत्स आङ्गिरसः ॥ देवता-सूर्यः ॥ छन्दः-१, २, ६ निचृत्रिष्टुप्;
३ विराट्त्रिष्टुप्; ४, ५ त्रिष्टुप् ॥ स्वरः-धैवतः ॥)
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् ।
यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ १.११५.०२
भ॒द्रा अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या᳚सः ।
न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ॥ १.११५.०३
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ १.११५.०४
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १.११५.०५
अ॒द्या दे᳚वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११५.०६
(१.१६४ प्रथमं मण्डले चतुःषष्ट्युत्तरशततमं सूक्तम्
ऋषिः-दीर्घतमाः ॥ देवता- ४६, ४७ सूर्यः; ४६, ४७ निचृत्त्रिष्टुप् ॥
स्वरः- ४६-४७ धैवतः ॥)
इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मान्॑ ।
एकं॒ सद्विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ॥ १.१६४.४६
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति ।
त आव॑वृत्र॒न्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥ १.१६४.४७
(४.०४० चतुर्थं मण्डले चत्वारिंशं सूक्तम्
ऋषिः वामदेवः । देवता- ५ सूर्यः । छन्दः- ५ निचृज्जगती ॥
स्वरः- ५ निषादः ॥)
हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥ ४.०४०.०५
(५.०४० पञ्चमं मण्डले चत्वारिंशं सूक्तम्
ऋषिः- अत्रिः ॥ देवता- ५ सूर्यः ॥ छन्दः - ५ निचृत्त्रिष्टुप् छन्दः ॥
स्वरः- ५ धैवतः ॥)
यत्त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे᳚त्रवि॒द्यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ॥ ५.०४०.०५
(७.०६० सप्तममं मण्डले षष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १ सूर्यः ॥ छन्दः- १ पङ्क्तिः ॥ स्वरः-
१ पञ्चमः ॥)
यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् ।
व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚ अर्यमन्गृ॒णन्तः॑ ॥ ७.०६०.०१
(७.०६२ सप्तममं मण्डले द्विषष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १-३ सूर्यः ॥ छन्दः- १,२ विराट्त्रिष्टुप्,
३ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥)
उत्सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ ७.०६२.०१
स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद्गा᳚ ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ ।
प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो अर्य॒म्णे अ॒ग्नये᳚ च ॥ ७.०६२.०२
वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छ᳚न्तु च॒न्द्रा उ॑प॒मं नो᳚ अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ॥ ७.०६२.०३
(७.०६३ सप्तममं मण्डले त्रिषष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १-५(१) सूर्यः ॥ छन्दः- १ विराट्त्रिष्टुप्,
२-५ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥)
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् ।
चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क्तमां᳚सि ॥ ७.०६३.०१
उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्के॒तुर᳚र्ण॒वः सूर्य॑स्य ।
स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥ ७.०६३.०२
वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः ।
ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥ ७.०६३.०३
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे᳚ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥ ७.०६३.०४
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ ।
(७.०६६ सप्तममं मण्डले षट्षष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १४-१६ सूर्यः ॥ छन्दः- १४
आर्षीविराड्बृहती, १५, आर्षीभुरिग् बृहती, १६ पुरउष्णिक् ॥ स्वरः-
१४,१५ मध्यमः, १६ ऋषभः ॥)
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे ।
यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर᳚म् ॥ ७.०६६.१४
शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ ।
स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ॥ ७.०६६.१५
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।
पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ॥ ७.०६६.१६
(८.१०१ अष्टमं मण्डले एकोत्तरशततमं सूक्तम्
ऋषिः- जमदग्निर्भार्गवः ॥ देवता- ११-१२ सूर्यः ॥ छन्दः- ११
विराड्बृहती, १२, भुरिग्बृहती ॥ स्वरः- ११,१२ मध्यमः ॥)
बण्म॒हाँ अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ अ॑सि ।
म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ अ॑सि ॥ ८.१०१.११
बट् सू᳚र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे᳚व म॒हाँ अ॑सि ।
म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यम् ॥ ८.१०१.१२
(१०.०३७ दशमं मण्डले सप्तत्रिंशं सूक्तम्
ऋषिः-अभितपाः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१-५ निचृज्जगती;
६-९ विराड्जगती; ११, १२ जगती; १० निचृत्रिष्टुप् ॥ स्वरः-१-९, ११,
१२ निषादः; १० धैवतः ॥)
नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ॥ १०.०३७.०१
सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ॥ १०.०३७.०२
न ते॒ अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥ १०.०३७.०३
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ ।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ॥ १०.०३७.०४
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा अनु॑ मंसीरत॒ क्रतु᳚म् ॥ १०.०३७.०५
तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ ।
मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ॥ १०.०३७.०६
वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो अनमी॒वा अना᳚गसः ।
उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०७
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।
आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०८
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚ अ॒क्तुभिः॑ ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ १०.०३७.०९
शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।
यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥ १०.०३७.१०
अ॒स्माकं᳚ देवा उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥ १०.०३७.११
यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् ।
अरा᳚वा॒ यो नो᳚ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो᳚ वसवो॒ नि धे᳚तन ॥ १०.०३७.१२
(१०.१५८ दशमं मण्डले अष्टपञ्चाशदुत्तरशततमं सूक्तम्
ऋषिः-चक्षुः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१ आर्चीस्वराड्गायत्री;
२ स्वराड्गायत्री; ३ गायत्री; ४ निचृद्गायत्री; ५ विराड्गायत्री ॥
स्वर:-षड्जः ॥)
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚ अ॒न्तरि॑क्षात् ।
अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥ १०.१५८.०१
जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ॥ १०.१५८.०२
चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः ।
चक्षु॑र्धा॒ता द॑धातु नः ॥ १०.१५८.०३
चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ ।
सं चे॒दं वि च॑ पश्येम ॥ १०.१५८.०४
सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
वि प॑श्येम नृ॒चक्ष॑सः ॥ १०.१५८.०५
(१०.१७० दशमं मण्डले सप्तत्युत्तरशततमं सूक्तम्
ऋषिः-विभ्राट् सूर्यः ॥ देवता-सूर्यः ॥ छन्दः-१, ३ विराड्जगती;
२ जगती; ४ आस्तारपङ्क्तिः ॥ स्वरः-१-३ निषादः, ४ पञ्चमः ॥)
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ॥ १०.१७०.०१
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न्दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥ १०.१७०.०२
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥ १०.१७०.०३
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व १॒॑रग॑च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ॥ १०.१७०.०४
(१०.१८९ दशमं मण्डले एकोननवत्युत्तरशततमं सूक्तम्
ऋषिः-सार्पराज्ञी ॥ देवता-सार्पराज्ञी सूर्यो वा ॥ छन्दः- १,
निचृद्गायत्री ; २ विराड्गायत्री; ३ गायत्री ॥ स्वरः- षड्जः ॥)
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं᳚ पु॒रः ।
पि॒तरं᳚ च प्र॒यन्त्स्वः॑ ॥ १०.१८९.०१
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
व्य॑ख्यन्महि॒षो दिव᳚म् ॥ १०.१८९.०२
त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक्प॑तं॒गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥ १०.१८९.०३
(१०.१९० दशमं मण्डले नवत्युत्तरशततमं सूक्तम्
ऋषिः-अघमर्षणो माधुच्छन्दसः ॥ देवता-भाववृत्तम् ॥ छन्दः-१
विराडनुष्टुप्; २ अनुष्टुप्; ३ पादनिचृदनुष्टुप् ॥ स्वरः-गान्धारः ॥)
ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ᳚र्ण॒वः ॥ १०.१९०.०१
स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ १०.१९०.०२
सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं᳚ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ १०.१९०.०३
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
स्वररहितम् ।
(१.०५० प्रथमं मण्डले पञ्चाशं सूक्तम्
ऋषिः-प्रस्कण्वः काण्वः ॥ देवता-सूर्यः ॥ छन्दः-१, ६ निचृद्गायत्री;
२, ४, ८, ९ पिपीलिकामध्यानिचृद्गायत्री; ३ गायत्री; ५ यवमध्याविराड्गायत्री;
७ विराड्गायत्री १०, ११ निचृदनुष्टुप्; १२, १३ अनुष्टुप् ॥
स्वरः-१-९ षड्जः; १०-१३ गान्धारः ॥)
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥ १.०५०.०१
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्वचक्षसे ॥ १.०५०.०२
अदृश्रमस्य केतवो वि रश्मयो जनाँऽअनु ।
भ्राजन्तो अग्नयो यथा ॥ १.०५०.०३
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमा भासि रोचनम् ॥ १.०५०.०४
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
प्रत्यङ्विश्वं स्वर्दृशे ॥ १.०५०.०५
येना पावक चक्षसा भुरण्यन्तं जनाँऽअनु ।
त्वं वरुण पश्यसि ॥ १.०५०.०६
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
पश्यञ्जन्मानि सूर्य ॥ १.०५०.०७
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षण ॥ १.०५०.०८
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर्याति स्वयुक्तिभिः ॥ १.०५०.०९
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ १.०५०.१०
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ १.०५०.११
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ १.०५०.१२
उदगादयमादित्यो विश्वेन सहसा सह ।
द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥ १.०५०.१३
(१.११५ प्रथमं मण्डले पञ्चदशोत्तरशततमं सूक्तम्
ऋषिः-कुत्स आङ्गिरसः ॥ देवता-सूर्यः ॥ छन्दः-१, २, ६ निचृत्रिष्टुप्;
३ विराट्त्रिष्टुप्; ४, ५ त्रिष्टुप् ॥ स्वरः-धैवतः ॥)
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ १.११५.०१
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ १.११५.०२
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ १.११५.०३
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ १.११५.०४
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥ १.११५.०५
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १.११५.०६
(१.१६४ प्रथमं मण्डले चतुःषष्ट्युत्तरशततमं सूक्तम्
ऋषिः-दीर्घतमाः ॥ देवता- ४६, ४७ सूर्यः; ४६, ४७ निचृत्त्रिष्टुप् ॥
स्वरः- ४६-४७ धैवतः ॥)
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ १.१६४.४६
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥ १.१६४.४७
(४.०४० चतुर्थं मण्डले चत्वारिंशं सूक्तम्
ऋषिः वामदेवः । देवता- ५ सूर्यः । छन्दः- ५ निचृज्जगती ॥
स्वरः- ५ निषादः ॥)
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ ४.०४०.०५
(५.०४० पञ्चमं मण्डले चत्वारिंशं सूक्तम्
ऋषिः- अत्रिः ॥ देवता- ५ सूर्यः ॥ छन्दः - ५ निचृत्त्रिष्टुप् छन्दः ॥
स्वरः- ५ धैवतः ॥)
यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥ ५.०४०.०५
(७.०६० सप्तममं मण्डले षष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १ सूर्यः ॥ छन्दः- १ पङ्क्तिः ॥ स्वरः-
१ पञ्चमः ॥)
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥ ७.०६०.०१
(७.०६२ सप्तममं मण्डले द्विषष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १-३ सूर्यः ॥ छन्दः- १,२ विराट्त्रिष्टुप्,
३ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥)
उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥ ७.०६२.०१
स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः ।
प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥ ७.०६२.०२
वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥ ७.०६२.०३
(७.०६३ सप्तममं मण्डले त्रिषष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १-५(१) सूर्यः ॥ छन्दः- १ विराट्त्रिष्टुप्,
२-५ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥)
उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥ ७.०६३.०१
उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।
समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥ ७.०६३.०२
विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।
एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥ ७.०६३.०३
दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।
नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥ ७.०६३.०४
यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।
(७.०६६ सप्तममं मण्डले षट्षष्टितमं सूक्तम्
ऋषिः- वसिष्ठः ॥ देवता- १४-१६ सूर्यः ॥ छन्दः- १४
आर्षीविराड्बृहती, १५, आर्षीभुरिग् बृहती, १६ पुरउष्णिक् ॥ स्वरः-
१४,१५ मध्यमः, १६ ऋषभः ॥)
उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥ ७.०६६.१४
शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ ७.०६६.१५
तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ७.०६६.१६
(८.१०१ अष्टमं मण्डले एकोत्तरशततमं सूक्तम्
ऋषिः- जमदग्निर्भार्गवः ॥ देवता- ११-१२ सूर्यः ॥ छन्दः- ११
विराड्बृहती, १२, भुरिग्बृहती ॥ स्वरः- ११,१२ मध्यमः ॥)
बण्महाँ असि सूर्य बळादित्य महाँ असि ।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥ ८.१०१.११
बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ८.१०१.१२
(१०.०३७ दशमं मण्डले सप्तत्रिंशं सूक्तम्
ऋषिः-अभितपाः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१-५ निचृज्जगती;
६-९ विराड्जगती; ११, १२ जगती; १० निचृत्रिष्टुप् ॥ स्वरः-१-९, ११,
१२ निषादः; १० धैवतः ॥)
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥ १०.०३७.०१
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च ।
विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥ १०.०३७.०२
न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि ।
प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥ १०.०३७.०३
येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना ।
तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्ष्वप्न्यं सुव ॥ १०.०३७.०४
विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु ।
यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥ १०.०३७.०५
तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥ १०.०३७.०६
विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः ।
उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥ १०.०३७.०७
महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः ।
आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥ १०.०३७.०८
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः ।
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥ १०.०३७.०९
शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।
यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥ १०.०३७.१०
अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।
अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥ १०.०३७.११
यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥ १०.०३७.१२
(१०.१५८ दशमं मण्डले अष्टपञ्चाशदुत्तरशततमं सूक्तम्
ऋषिः-चक्षुः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१ आर्चीस्वराड्गायत्री;
२ स्वराड्गायत्री; ३ गायत्री; ४ निचृद्गायत्री; ५ विराड्गायत्री ॥
स्वर:-षड्जः ॥)
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
अग्निर्नः पार्थिवेभ्यः ॥ १०.१५८.०१
जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति ।
पाहि नो दिद्युतः पतन्त्याः ॥ १०.१५८.०२
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः ॥ १०.१५८.०३
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
सं चेदं वि च पश्येम ॥ १०.१५८.०४
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥ १०.१५८.०५
(१०.१७० दशमं मण्डले सप्तत्युत्तरशततमं सूक्तम्
ऋषिः-विभ्राट् सूर्यः ॥ देवता-सूर्यः ॥ छन्दः-१, ३ विराड्जगती;
२ जगती; ४ आस्तारपङ्क्तिः ॥ स्वरः-१-३ निषादः, ४ पञ्चमः ॥)
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ १०.१७०.०१
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् ।
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥ १०.१७०.०२
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ १०.१७०.०३
विभ्राजञ्ज्योतिषा स्व १रगच्छो रोचनं दिवः ।
येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥ १०.१७०.०४
(१०.१८९ दशमं मण्डले एकोननवत्युत्तरशततमं सूक्तम्
ऋषिः-सार्पराज्ञी ॥ देवता-सार्पराज्ञी सूर्यो वा ॥ छन्दः- १,
निचृद्गायत्री ; २ विराड्गायत्री; ३ गायत्री ॥ स्वरः- षड्जः ॥)
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्स्वः ॥ १०.१८९.०१
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवम् ॥ १०.१८९.०२
त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते ।
प्रति वस्तोरह द्युभिः ॥ १०.१८९.०३
(१०.१९० दशमं मण्डले नवत्युत्तरशततमं सूक्तम्
ऋषिः-अघमर्षणो माधुच्छन्दसः ॥ देवता-भाववृत्तम् ॥ छन्दः-१
विराडनुष्टुप्; २ अनुष्टुप्; ३ पादनिचृदनुष्टुप् ॥ स्वरः-गान्धारः ॥)
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ १०.१९०.०१
समुद्रादर्णवादधि संवत्सरो अजायत ।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ १०.१९०.०२
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ १०.१९०.०३
ॐ शान्तिः शान्तिः शान्तिः ॥
Proofread by Muralikesavan T, Mandar Kulkarni