ऋग्वेदीय सूर्यसूक्तम्
११५ पञ्चदशोत्तरशततमं सूक्तम्
आङ्गिरसः कुत्स ऋषिः, सूर्योदेवता, निचृत् त्रिष्तुप् (१,२,६) ,
विराट् त्रिष्टुप् (३), त्रिष्टुप्छन्दः (४,५), धैवतः स्वरः ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१
सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ १.११५.०२
भ॒द्रा अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या᳚सः ।
न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ॥ १.११५.०३
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ॥ १.११५.०४
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १.११५.०५
अ॒द्या दे᳚वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११५.०६
स्वररहितम् ।
११५ पञ्चदशोत्तरशततमं सूक्तम्
आङ्गिरसः कुत्स ऋषिः सूर्योदेवता निचृत् त्रिष्तुप् (१२६)
विराट् त्रिष्टुप् (३) त्रिष्टुप्छन्दः (४५) धैवतः स्वरः ।
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ १.११५.०१
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ १.११५.०२
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥ १.११५.०३
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ १.११५.०४
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥ १.११५.०५
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १.११५.०६