तैत्तिरीयाणामोषधिसूक्तम्
तैत्तिरीयसंहितायां चतुर्थकाण्डे द्वितीयप्रपाठके प्रश्ने वा
षष्ठोऽयमोषधीनां विंशत्यृचोऽनुवाकः ।
अग्निरनुवाकर्षिः । ओषधिमानिनो देवताः । ओषधीशः सोमो देवता ।
सोमनाथो धन्वन्तरिर्देवता ।
हरिः ओ३म् ॥
सस्वरः
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॑रा ।
मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि स॒प्त च॑ ॥ १॥
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ २॥
पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ३॥
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
रपाꣳ सि विघ्न॒तीरि॑त॒ रप॑श्चा॒तय॑मानाः ॥ ४॥
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्ण्णे वो॑ वस॒तिः कृ॒ता ।
गो॒भाज॒ इत् किला॑सथ॒ यत् स॒नव॑थ॒ पूरु॑षम् ॥ ५॥
यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यख्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ६॥
यदोष॑धयः स॒ङ्गच्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव ।
विप्रः॒ स उ॑च्यते भि॒षग् र॑ख्षो॒हामी॑व॒चात॑नः ॥ ७॥
निष्कृ॑ति॒र्न्नाम॑ वो मा॒ताऽथा॑ यू॒यꣳस्थ॒ सङ्कृ॑तीः ।
स॒राः प॑त॒त्रिणीः॑ स्थ॒न॒ यदा॒मय॑ति निष्कृत ॥ ८॥
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ ९॥
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धन॑ꣳ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ १०॥
अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धयः॒ प्राचु॑च्यवु॒र्यत् किं च॑ त॒नुवा॒ꣳ रपः॑ ॥ ११॥
यास्त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑ परुः ।
तास्ते॒ यख्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑द्ध्यम॒शीरि॑व ॥ १२॥
सा॒कं य॑ख्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना॑ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ १३॥
अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्ज्जय॑न्ती॒मुदो॑जसम् ।
आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ १४॥
याः फ॒लिनी॒र्य्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ॥ १५॥
या ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ ।
तासां॒ त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ॥ १६॥
अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑धयः॒ परि॑ ।
यं जी॒वम॒श्ञवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ १७॥
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ या॑श्च दू॒रं परा॑गताः ।
इ॒ह स॒ङ्गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेष॒जम् ॥ १८॥
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ सर्वम॒स्त्वना॑तुरम् ॥ १९॥
ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥ २०॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
निःस्वरः
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
मन्दामि बभ्रूणामहꣳ शतं धामानि सप्त च ॥ १॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अथा शतक्रत्वो यूयमिमं मे अगदं कृत ॥ २॥
पुष्पावतीः प्रसूवतीः फलिनीरफला उत ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥ ३॥
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।
रपाꣳ सि विघ्नतीरित रपश्चातयमानाः ॥ ४॥
अश्वत्थे वो निषदनं पर्ण्णे वो वसतिः कृता ।
गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ ५॥
यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।
आत्मा यख्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ ६॥
यदोषधयः सङ्गच्छन्ते राजानः समिताविव ।
विप्रः स उच्यते भिषग् रख्षोहामीवचातनः ॥ ७॥
निष्कृतिर्न्नाम वो माताऽथा यूयꣳस्थ सङ्कृतीः ।
सराः पतत्रिणीः स्थन यदामयति निष्कृत ॥ ८॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ताः सर्वा ओषधयः संविदाना इदं मे प्रावता वचः ॥ ९॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनꣳ सनिष्यन्तीनामात्मानं तव पूरुष ॥ १०॥
अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः ।
ओषधयः प्राचुच्यवुर्यत् किं च तनुवाꣳ रपः ॥ ११॥
यास्त आतस्थुरात्मानं या आविविशुः परुः परुः ।
तास्ते यख्ष्मं वि बाधन्तामुग्रो मद्ध्यमशीरिव ॥ १२॥
साकं यख्ष्म प्र पत श्येनेन किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ १३॥
अश्वावतीꣳ सोमवतीमूर्ज्जयन्तीमुदोजसम् ।
आ विथ्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ १४॥
याः फलिनीर्य्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वꣳहसः ॥ १५॥
या ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीमनु ।
तासां त्वमस्युत्तमा प्र णो जीवातवे सुव ॥ १६॥
अवपतन्तीरवदन् दिव ओषधयः परि ।
यं जीवमश्ञवामहै न स रिष्याति पूरुषः ॥ १७॥
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
इह सङ्गत्य ताः सर्वा अस्मै सं दत्त भेषजम् ॥ १८॥
मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकꣳ सर्वमस्त्वनातुरम् ॥ १९॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै करोति ब्राह्मणस्तꣳ राजन् पारयामसि ॥ २०॥
इति तैत्तिरीयाणामोषधिसूक्तं सम्पूर्णम् ।
ॐ शान्तिः शान्तिः शान्तिः ।
Encoded and proofread by Mandar Kulkarni