तैत्तिरीय-ब्राह्मणम् निःस्वरः

तैत्तिरीय-ब्राह्मणम् निःस्वरः

॥ प्रथमं अष्टकम् ॥

॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥

प्रथमाष्टके प्रथमः प्रपाठकः १

१ ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्रꣳ संधत्तं तन्मे जिन्वतम् । इषꣳ संधत्तं तां मे जिन्वतम् । ऊर्जꣳ संधत्तं तां मे जिन्वतम् । रयिꣳ संधत्तं तां मे जिन्वतम् । पुष्टिꣳ संधत्तं तां मे जिन्वतम् । प्रजाꣳ संधत्तं तां मे जिन्वतम् । पशून्थ्संधत्तं तान्मे जिन्वतम् । स्तुतोसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु ॥ १। १। १। १॥ २ सुवीराः प्रजाः प्रजनयन्परीहि । शुक्रः शुक्रशोचिषा । स्तुतोसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु । सुप्रजाः प्रजाः प्रजनयन्परीहि । मन्थी मन्थिशोचिषा । संजग्मानौ दिव आ पृथिव्याऽऽयुः । संधत्तं तन्मे जिन्वतम् । प्राणꣳ संधत्तं तं मे जिन्वतम् । अपानꣳ संधत्तं तं मे जिन्वतम् ॥ १। १। १। २॥ ३ व्यानꣳ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन्मे जिन्वतम् । श्रोत्रꣳ संधत्तं तन्मे जिन्वतम् । मनः संधत्तं तन्मे जिन्वतम् । वाचꣳ संधत्तं तां मे जिन्वतम् । आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् ॥ १। १। १। ३॥ ४ प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रग्ग् स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः ॥ १। १। १। ४॥ ५ इषमूर्जमस्मासु धत्तम् । प्राणान्पशुषु । प्रजां मयि च यजमाने च । निरस्तः शण्डः । निरस्तो मर्कः । अपनुत्तौ शण्डामर्कौ सहामुना । शुक्रस्य समिदसि । मन्थिनः समिदसि । स प्रथमः संकृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्राय सुतमाजुहोमि ॥ १। १। १। ५॥ नयन्त्वपानꣳ संधत्तं तं मे जिन्वतं प्राणं यज्ञाय धत्तं मानुषीरग्निर्द्वे च ॥ १॥ ब्रह्म क्षत्रं तदिषमूर्जꣳ रयिं पुष्टिं प्रजां तां पशून्तान् ॥ संधत्तं तत्प्राणमपानं व्यानं तं चक्षुः श्रोत्रं मनस्तद्वाचं ताम् । इषादि पञ्चके वाचं तां मे । पशून्थ्सन्धत्तं तान्मे प्राणादि त्रितये तं मे । अन्यत्र तन्मे ॥ ६ कृत्तिकास्वग्निमादधीत । एतद्वा अग्नेर्नक्षत्रम् । यत्कृत्तिकाः । स्वायामेवैनं देवतायामाधाय । ब्रह्मवर्चसी भवति । मुखं वा एतन्नक्षत्राणाम् । यत्कृत्तिकाः । यः कृत्तिकास्वग्निमाधत्ते । मुख्य एव भवति । अथो खलु ॥ १। १। २। १॥ ७ अग्निनक्षत्रमित्यपचायन्ति । गृहान् ह दाहुको भवति । प्रजापती रोहिण्यामग्निमसृजत । तं देवा रोहिण्यामादधत । ततो वै ते सर्वान्रोहानरोहन् । तद्रोहिण्यै रोहिणित्वम् । यो रोहिण्यामग्निमाधत्ते । ऋध्नोत्येव । सर्वान्रोहान्रोहति । देवा वै भद्राः सन्तोऽग्निमाधिथ्सन्त ॥ १। १। २। २॥ ८ तेषामनाहितोऽग्निरासीत् । अथैभ्यो वामं वस्वपाक्रामत् । ते पुनर्वस्वोरादधत । ततो वै तान्, वामं वसूपावर्तत । यः पुरा भद्रः सन्पापीयान्थ्स्यात् । स पुनर्वस्वोरग्निमादधीत । पुनरेवैनं वामं वसूपावर्तते । भद्रो भवति । यः कामयेत दानकामा मे प्रजाः स्युरिति । स पूर्वयोः फल्गुन्योरग्निमादधीत ॥ १। १। २। ३॥ ९ अर्यम्णो वा एतन्नक्षत्रम् । यत्पूर्वे फल्गुनी । अर्यमेति तमाहुऱ्यो ददाति । दानकामा अस्मै प्रजा भवन्ति । यः कामयेत भगी स्यामिति । स उत्तरयोः फल्गुन्योरग्निमादधीत । भगस्य वा एतन्नक्षत्रम् । यदुत्तरे फल्गुनी । भग्येव भवति । कालकञ्जा वै नामासुरा आसन् ॥ १। १। २। ४॥ १० ते सुवर्गाय लोकायाग्निमचिन्वत । पुरुष इष्टकामुपादधात्पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो ब्रुवाण इष्टकामुपाधत्त । एषा मे चित्रा नामेति । ते सुवर्गं लोकमाप्रारोहन् । स इन्द्र इष्टकामावृहत् । तेऽवाकीर्यन्त । येऽवाकीर्यन्त । त ऊर्णावभयोऽभवन् । द्वावुदपतताम् ॥ १। १। २। ५॥ ११ तौ दिव्यौ श्वानावभवताम् । यो भ्रातृव्यवान्थ्स्यात् । स चित्रायामग्निमादधीत । अवकीर्यैव भ्रातृव्यान् । ओजो बलमिन्द्रियं वीर्यमात्मन्धत्ते । वसन्ता ब्राह्मणोऽग्निमादधीत । वसन्तो वै ब्राह्मणस्यर्तुः । स्व एवैनमृतावाधाय । ब्रह्मवर्चसी भवति । मुखं वा एतदृतूनाम् ॥ १। १। २। ६॥ १२ यद्वसन्तः । यो वसन्ताऽग्निमाधत्ते । मुख्य एव भवति । अथो योनिमन्तमेवैनं प्रजातमाधत्ते । ग्रीष्मे राजन्य आदधीत । ग्रीष्मो वै राजन्यस्यर्तुः । स्व एवैनमृतावाधाय । इन्द्रियावी भवति । शरदि वैश्य आदधीत । शरद्वै वैश्यस्यर्तुः ॥ १। १। २। ७॥ १३ स्व एवेनमृतावाधाय । पशुमान्भवति । न पूर्वयोः फल्गुन्योरग्निमादधीत । एषा वै जघन्या रात्रिः संवथ्सरस्य । यत्पूर्वे फल्गुनी । पृष्टित एव संवथ्सरस्याग्निमाधाय । पापीयान्भवति । उत्तरयोरादधीत । एषा वै प्रथमा रात्रिः संवथ्सरस्य । यदुत्तरे फल्गुनी । मुखत एव संवथ्सरस्याग्निमाधाय । वसीयान्भवति । अथो खलु । यदैवैनं यज्ञ उपनमेत् । अथादधीत । सैवास्यर्द्धिः ॥ १। १। २। ८॥ खल्वाधिथ्सन्त फल्गुन्योरग्निमादधीतासन्नपततामृतूनां वैश्यस्यर्तुरुत्तरे फल्गुनी षट्च ॥ २॥ १४ उद्धन्ति । यदेवास्या अमेध्यम् । तदप हन्ति । अपोऽवोक्षति शान्त्यै । सिकता निवपति । एतद्वा अग्नेर्वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरमवरुन्धे । ऊषान्निवपति । पुष्टिर्वा एषा प्रजननम् । यदूषाः ॥ १। १। ३। १॥ १५ पुष्ट्यामेव प्रजननेऽग्निमाधत्ते । अथो संज्ञान एव । संज्ञानग्ग् ह्येतत्पशूनाम् । यदूषाः । द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् । अस्त्वेव नौ सह यज्ञियमिति । यदमुष्या यज्ञियमासीत् । तदस्यामदधात् । त ऊषा अभवन् ॥ १। १। ३। २॥ १६ यदस्या यज्ञियमासीत् । तदमुष्यामदधात् । तददश्चन्द्रमसि कृष्णम् । ऊषान्निवपन्नदो ध्यायेत् । द्यावापृथिव्योरेव यज्ञियेऽग्निमाधत्ते । अग्निर्देवेभ्यो निलायत । आखू रूपं कृत्वा । स पृथिवीं प्राविशत् । स ऊतीः कुर्वाणः पृथिवीमनु समचरत् । तदाखुकरीषमभवत् ॥ १। १। ३। ३॥ १७ यदाखुकरीषꣳ संभारो भवति । यदेवास्य तत्र न्यक्तम् । तदेवावरुन्धे । ऊर्जं वा एतꣳ रसं पृथिव्या उपदीका उद्दिहन्ति । यद्वल्मीकम् । यद्वल्मीकवपा संभारो भवति । ऊर्जमेव रसं पृथिव्या अवरुन्धे । अथो श्रोत्रमेव । श्रोत्रग्ग् ह्येतत्पृथिव्याः । यद्वल्मीकः ॥ १। १। ३। ४॥ १८ अबधिरो भवति । य एवं वेद । प्रजापतिः प्रजा असृजत । तासामन्नमुपाक्षीयत । ताभ्यः सूदमुप प्राभिनत् । ततो वै तासामन्नं नाक्षीयत । यस्य सूदः संभारो भवति । नास्य गृहेऽन्नं क्षीयते । आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् ॥ १। १। ३। ५॥ १९ कथमिद२ꣳ स्यादिति । सोऽपश्यत्पुष्करपर्णं तिष्ठत् । सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधितिष्ठतीति । स वराहो रूपं कृत्वोप न्यमज्जत् । स पृथिवीमध आर्च्छत् । तस्या उपहत्योदमज्जत् । तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् ॥ १। १। ३। ६॥ २० तत्पृथिव्यै पृथिवित्वम् । अभूद्वा इदमिति । तद्भूम्यै भूमित्वम् । तां दिशोऽनु वातः समवहत् । ताꣳ शर्कराभिरदृꣳहत् । शं वै नोऽभूदिति । तच्छर्कराणाꣳ शर्करत्वम् । यद्वराहविहतꣳ संभारो भवति । अस्यामेवाछम्बट्कारमग्निमाधत्ते । शर्करा भवन्ति धृत्यै ॥ १। १। ३। ७॥ २१ अथो शंत्वाय । सरेता अग्निराधेय इत्याहुः । आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यध्यायत् । ताः समभवत् । तस्य रेतः पराऽपतत् । तद्धिरण्यमभवत् । यद्धिरण्यमुपास्यति । सरेतसमेवाग्निमाधत्ते । पुरुष इन्न्वै स्वाद्रेतसो बीभथ्सत इत्याहुः ॥ १। १। ३। ८॥ २२ उत्तरत उपास्यत्यबीभथ्सायै । अति प्रयच्छति । आर्तिमेवातिप्रयच्छति । अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवथ्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । यदाश्वत्थः संभारो भवति । यदेवास्य तत्र न्यक्तम् । तदेवावरुन्धे ॥ १। १। ३। ९॥ २३ देवा वा ऊर्जं व्यभजन्त । तत उदुम्बर उदतिष्ठत् । ऊर्ग्वा उदुम्बरः । यदौदुम्बरः संभारो भवति । ऊर्जमेवावरुन्धे । तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् ॥ १। १। ३। १०॥ २४ यस्य पर्णमयः संभारो भवति । सोमपीथमेवावरुन्धे । देवा वै ब्रह्मन्नवदन्त । तत्पर्ण उपाश‍ृणोत् । सुश्रवा वै नाम । यत्पर्णमयः संभारो भवति । ब्रह्मवर्चसमेवावरुन्धे । प्रजापतिरग्निमसृजत । सोऽबिभेत्प्र मा धक्ष्यतीति । तꣳ शम्याऽशमयत् ॥ १। १। ३। ११॥ २५ तच्छम्यै शमित्वम् । यच्छमीमयः संभारो भवति । शान्त्या अप्रदाहाय । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद्वैकङ्कतः संभारो भवति । भा एवावरुन्धे । सहृदयोऽग्निराधेय इत्याहुः । मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन् । साऽशनिरभवत् । यदशनिहतस्य वृक्षस्य संभारो भवति । सहृदयमेवाग्निमाधत्ते ॥ १। १। ३। १२॥ ऊषा अभवन्नभवद्वल्मीकोऽश्राम्यदप्रथयद्धृत्यै बीभथ्सथ इत्याहू रुन्धे पर्णत्वमशमयदच्छिन्दग्ग्स्त्रीणि च ॥ ३॥ २६ द्वादशसु विक्रामेष्वग्निमादधीत । द्वादश मासाः संवथ्सरः । संवथ्सरादेवैनमवरुध्याधत्ते । यद्द्वादशसु विक्रामेष्वादधीत । परिमितमवरुन्धीत । चक्षुर्निमित आदधीत । इयद्द्वादशविक्रामा३ इति । परिमितं चैवापरिमितं चावरुन्धे । अनृतं वै वाचा वदति । अनृतं मनसा ध्यायति ॥ १। १। ४। १॥ २७ चक्षुर्वै सत्यम् । अद्रा३गित्याह । अदर्शमिति । तथ्सत्यम् । यश्चक्षुर्निमितेऽग्निमाधत्ते । सत्य एवैनमाधत्ते । तस्मादाहिताग्निर्नानृतं वदेत् । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् । सत्ये ह्यस्याग्निराहितः । आग्नेयी वै रात्रिः ॥ १। १। ४। २॥ २८ आग्नेयाः पशवः । ऐन्द्रमहः । नक्तं गार्हपत्यमादधाति । पशूनेवावरुन्धे । दिवाऽऽहवनीयम् । इन्द्रियमेवावरुन्धे । अर्धोदिते सूर्य आहवनीयमादधाति । एतस्मिन्वै लोके प्रजापतिः प्रजा असृजत । प्रजा एव तद्यजमानः सृजते । अथो भूतं चैव भविष्यच्चावरुन्धे ॥ १। १। ४। ३॥ २९ इडा वै मानवी यज्ञानूकाशिन्यासीत् । साऽश‍ृणोत् । असुरा अग्निमादधत इति । तदगच्छत् । त आहवनीयमग्र आदधत । अथ गार्हपत्यम् । अथान्वाहार्यपचनम् । साऽब्रवीत् । प्रतीच्येषाग् श्रीरगात् । भद्रा भूत्वा पराभविष्यन्तीति ॥ १। १। ४। ४॥ ३० यस्यैवमग्निराधीयते । प्रतीच्यस्य श्रीरेति । भद्रो भूत्वा पराभवति । साऽश‍ृणोत् । देवा अग्निमादधत इति । तदगच्छत् । तेऽन्वाहार्यपचनमग्र आदधत । अथ गार्हपत्यम् । अथाहवनीयम् । साऽब्रवीत् ॥ १। १। ४। ५॥ ३१ प्राच्येषाग् श्रीरगात् । भद्रा भूत्वा सुवर्गं लोकमेष्यन्ति । प्रजां तु न वेथ्स्यन्त इति । यस्यैवमग्निराधीयते । प्राच्यस्य श्रीरेति । भद्रो भूत्वा सुवर्गं लोकमेति । प्रजां तु न विन्दते । साऽब्रवीदिडा मनुम् । तथा वा अहं तवाग्निमाधास्यामि । यथा प्र प्रजया पशुभिर्मिथुनैर्जनिष्यसे ॥ १। १। ४। ६॥ ३२ प्रत्यस्मिन्लोके स्थास्यसि । अभि सुवर्गं लोकं जेष्यसीति । गार्हपत्यमग्र आदधात् । गार्हपत्यं वा अनु प्रजाः पशवः प्रजायन्ते । गार्हपत्येनैवास्मै प्रजां पशून्प्राजनयत् । अथान्वाहार्यपचनम् । तिर्यङ्ङिव वा अयं लोकः । अस्मिन्नेव तेन लोके प्रत्यतिष्ठत् । अथाहवनीयम् । तेनैव सुवर्गं लोकमभ्यजयत् ॥ १। १। ४। ७॥ ३३ यस्यैवमग्निराधीयते । प्र प्रजया पशुभिर्मिथुनैर्जायते । प्रत्यस्मिन्लोके तिष्ठति । अभि सुवर्गं लोकं जयति । यस्य वा अयथादेवतमग्निराधीयते । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यस्य यथादेवतम् । न देवताभ्य आ वृश्च्यते । वसीयान्भवति ॥ १। १। ४। ८॥ ३४ भृगूणां त्वाऽंगिरसां व्रतपते व्रतेनादधामीति भृग्वंगिरसामादध्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः । इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्य । यथादेवतमग्निराधीयते । न देवताभ्य आ वृश्च्यते । वसीयान्भवति ॥ १। १। ४। ९॥ ध्यायति वै रात्रिश्चावरुन्धे भविष्यन्तीत्यब्रवीज्जनिष्यसेऽजयद् वसीयान् भवति नव च ॥ ४॥ ३५ प्रजापतिर्वाचः सत्यमपश्यत् । तेनाग्निमाधत्त । तेन वै स आर्ध्नोत् । भूर्भुवः सुवरित्याह । एतद्वै वाचः सत्यम् । य एतेनाग्निमाधत्ते । ऋध्नोत्येव । अथो सत्यप्राशूरेव भवति । अथो य एवं विद्वानभिचरति । स्तृणुत एवैनम् ॥ १। १। ५। १॥ ३६ भूरित्याह । प्रजा एव तद्यजमानः सृजते । भुव इत्याह । अस्मिन्नेव लोके प्रतितिष्ठति । सुवरित्याह । सुवर्ग एव लोके प्रतितिष्ठति । त्रिभिरक्षरैर्गार्हपत्यमादधाति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । सर्वैः पञ्चभिराहवनीयम् ॥ १। १। ५। २॥ ३७ सुवर्गाय वा एष लोकायाधीयते । यदाहवनीयः । सुवर्ग एवास्मै लोके वाचः सत्यꣳ सर्वमाप्नोति । त्रिभिर्गार्हपत्यमादधाति । पञ्चभिराहवनीयम् । अष्टौ संपद्यन्ते । अष्टाक्षरा गायत्री । गायत्रोऽग्निः । यावानेवाग्निः । तमाधत्ते ॥ १। १। ५। ३॥ ३८ प्रजापतिः प्रजा असृजत । ता अस्माथ्सृष्टाः पराचीरायन्न् । ताभ्यो ज्योतिरुदगृह्णात् । तं ज्योतिः पश्यन्तीः प्रजा अभिसमावर्तन्त । उपरीवाग्निमुद्गृह्णीयादुद्धरन्न् । ज्योतिरेव पश्यन्तीः प्रजा यजमानमभिसमावर्तन्ते । प्रजापतेरक्ष्यश्वयत् । तत्पराऽपतत् । तदश्वोऽभवत् । तदश्वस्याश्वत्वम् ॥ १। १। ५। ४॥ ३९ एष वै प्रजापतिः । यदग्निः । प्राजापत्योऽश्वः । यदश्वं पुरस्तान्नयति । स्वमेव चक्षुः पश्यन्प्रजापतिरनूदेति । वज्री वा एषः । यदश्वः । यदश्वं पुरस्तान्नयति । जातानेव भ्रातृव्यान्प्रणुदते । पुनरावर्तयति ॥ १। १। ५। ५॥ ४० जनिष्यमाणानेव प्रतिनुदते । न्याहवनीयो गार्हपत्यमकामयत । नि गार्हपत्य आहवनीयम् । तौ विभाजं नाशक्नोत् । सोऽश्वः पूर्ववाड्भूत्वा । प्राञ्चं पूर्वमुदवहत् । तत्पूर्ववाहः पूर्ववाट्त्वम् । यदश्वं पुरस्तान्नयति । विभक्तिरेवैनयोः सा । अथो नानावीर्यावेवैनौ कुरुते ॥ १। १। ५। ६॥ ४१ यदुपर्युपरि शिरो हरेत् । प्राणान्, विच्छिन्द्यात् । अधोऽधः शिरो हरति । प्राणानां गोपीथाय । इयत्यग्रे हरति । अथेयत्यथेयति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । प्रजापतिरग्निमसृजत । सोऽबिभेत्प्र मा धक्ष्यतीति ॥ १। १। ५। ७॥ ४२ तस्य त्रेधा महिमानं व्यौहत् । शान्त्या अप्रदाहाय । यत्त्रेधाऽग्निराधीयते । महिमानमेवास्य तद्व्यूहति । शान्त्या अप्रदाहाय । पुनरावर्तयति । महिमानमेवास्य संदधाति । पशुर्वा एषः । यदश्वः । एष रुद्रः ॥ १। १। ५। ८॥ ४३ यदग्निः । यदश्वस्य पदेऽग्निमादध्यात् । रुद्राय पशूनपिदध्यात् । अपशुर्यजमानः स्यात् । यन्नाक्रमयेत् । अनवरुद्धा अस्य पशवः स्युः । पार्श्वत आक्रमयेत् । यथाऽऽहितस्याग्नेरङ्गारा अभ्यववर्तेरन्न् । अवरुद्धा अस्य पशवो भवन्ति । न रुद्रायापिदधाति ॥ १। १। ५। ९॥ ४४ त्रीणि हवीꣳषि निर्वपति । विराज एव विक्रान्तं यजमानोऽनु विक्रमते । अग्नये पवमानाय । अग्नये पावकाय । अग्नये शुचये । यदग्नये पवमानाय निर्वपति । पुनात्येवैनम् । यदग्नये पावकाय । पूत एवास्मिन्नन्नाद्यं दधाति । यदग्नये शुचये । ब्रह्मवर्चसमेवास्मिन्नुपरिष्टाद्दधाति ॥ १। १। ५। १०॥ एनमाहवनीयं धत्तेऽश्वत्वं वर्तयति कुरुत इति रुद्रो दधाति यदग्नये शुचय एकं च ॥ ५॥ ४५ देवासुराः संयत्ता आसन्न् । ते देवा विजयमुपयन्तः । अग्नौ वामं वसु संन्यदधत । इदमु नो भविष्यति । यदि नो जेष्यन्तीति । तदग्निर्नोथ्सहमशक्नोत् । तत्त्रेधा विन्यदधात् । पशुषु तृतीयम् । अप्सु तृतीयम् । आदित्ये तृतीयम् ॥ १। १। ६। १॥ ४६ तद्देवा विजित्य । पुनरवारुरुथ्सन्त । तेऽग्नये पवमानाय पुरोडाशमष्टाकपालं निरवपन् । पशवो वा अग्निः पवमानः । यदेव पशुष्वासीत् । तत्तेनावारुन्धत । तेऽग्नये पावकाय । आपो वा अग्निः पावकः । यदेवाप्स्वासीत् । तत्तेनावारुन्धत ॥ १। १। ६। २॥ ४७ तेऽग्नये शुचये । असौ वा आदित्योऽग्निः शुचिः । यदेवादित्य आसीत् । तत्तेनावारुन्धत । ब्रह्मवादिनो वदन्ति । तनुवो वावैता अग्न्याधेयस्य । आग्नेयो वा अष्टाकपालोऽग्न्याधेयमिति । यत्तं निर्वपेत् । नैतानि । यथाऽऽत्मा स्यात् ॥ १। १। ६। ३॥ ४८ नाङ्गानि । तादृगेव तत् । यदेतानि निर्वपेत् । न तम् । यथाऽङ्गानि स्युः । नात्मा । तादृगेव तत् । उभयानि सह निरुप्याणि । यज्ञस्य सात्मत्वाय । उभयं वा एतस्येन्द्रियं वीर्यमाप्यते ॥ १। १। ६। ४॥ ४९ योऽग्निमाधत्ते । ऐन्द्राग्नमेकादशकपालमनुनिर्वपेत् । आदित्यं चरुम् । इन्द्राग्नी वै देवानामयातयामानौ । ये एव देवते अयातयाम्नी । ताभ्यामेवास्मा इन्द्रियं वीर्यमवरुन्धे । आदित्यो भवति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । धेन्वै वा एतद्रेतः ॥ १। १। ६। ५॥ ५० यदाज्यम् । अनडुहस्तण्डुलाः । मिथुनमेवावरुन्धे । घृते भवति । यज्ञस्यालूक्षान्तत्वाय । चत्वार आर्षेयाः प्राश्ञन्ति । दिशामेव ज्योतिषि जुहोति । पशवो वा एतानि हवीꣳषि । एष रुद्रः । यदग्निः ॥ १। १। ६। ६॥ ५१ यथ्सद्य एतानि हवीꣳषि निर्वपेत् । रुद्राय पशूनपि दध्यात् । अपशुर्यजमानः स्यात् । यन्नानुनिर्वपेत् । अनवरुद्धा अस्य पशवः स्युः । द्वादशसु रात्रीष्वनु निर्वपेत् । संवथ्सरप्रतिमा वै द्वादश रात्रयः । संवथ्सरेणैवास्मै रुद्रꣳ शमयित्वा । पशूनवरुन्धे । यदेकमेकमेतानि हवीꣳषि निर्वपेत् ॥ १। १। ६। ७॥ ५२ यथा त्रीण्यावपनानि पूरयेत् । तादृक्तत् । न प्रजननमुच्छिꣳषेत् । एकं निरुप्य । उत्तरे समस्येत् । तृतीयमेवास्मै लोकमुच्छिꣳषति प्रजननाय । तं प्रजया पशुभिरनु प्रजायते । अथो यज्ञस्यैवैषाऽभिक्रान्तिः । रथचक्रं प्रवर्तयति । मनुष्यरथेनैव देवरथं प्रत्यवरोहति ॥ १। १। ६। ८॥ ५३ ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रां ३ न होतव्या ३ मिति । यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः पराभवति । अग्नीधे ददाति ॥ १। १। ६। ९॥ ५४ अग्निमुखानेवर्तून्प्रीणाति । उपबर्हणं ददाति । रूपाणामवरुद्ध्यै । अश्वं ब्रह्मणे । इन्द्रियमेवावरुन्धे । धेनुꣳ होत्रे । आशिष एवावरुन्धे । अनड्वाहमध्वर्यवे । वह्निर्वा अनड्वान् । वह्निरध्वर्युः ॥ १। १। ६। १०॥ ५५ वह्निनैव वह्नि यज्ञस्यावरुन्धे । मिथुनौ गावौ ददाति । मिथुनस्यावरुद्ध्यै । वासो ददाति । सर्व देवत्यं वै वासः । सर्वा एव देवताः प्रीणाति । आ द्वादशभ्यो ददाति । द्वादश मासाः संवथ्सरः । संवथ्सर एव प्रतितिष्ठति । काममूर्ध्वं देयम् । अपरिमितस्यावरुद्ध्यै ॥ १। १। ६। ११॥ आदित्ये तृतीयमप्स्वासीत्तत्तेनावारुन्धत स्यादाप्यते रेतोऽग्निरेकमेकमेतानि हवीꣳषि निर्वपेत्प्रत्यवरोहति ददात्यध्वर्युर्देयमेकं च ॥ ६॥ ५६ घर्मः शिरस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । वातः प्राणस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच । प्राचीमनु प्रदिशं प्रेहि विद्वान् । अग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाहि । ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ १। १। ७। १॥ ५७ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः । संप्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वाऽऽदधे । अग्निनाऽग्ने ब्रह्मणा । आनशे व्यानशे सर्वमायुर्व्यानशे । ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् ॥ १। १। ७। २॥ ५८ ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽऽदधे । यास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ ॥ १। १। ७। ३॥ चतुष्पदे जिन्वतां तनुवस्त्रीणि च ॥ ७॥ ५९ इमे वा एते लोका अग्नयः । ते यदव्यावृत्ता आधीयेरन्न् । शोचयेयुर्यजमानम् । घर्मः शिर इति गार्हपत्यमादधाति । वातः प्राण इत्यन्वाहार्यपचनम् । अर्कश्चक्षुरित्याहवनीयम् । तेनैवैनान्व्यावर्तयति । तथा न शोचयन्ति यजमानम् । रथन्तरमभिगायते गार्हपत्य आधीयमाने । राथन्तरो वा अयं लोकः ॥ १। १। ८। १॥ ६० अस्मिन्नेवैनं लोके प्रतिष्ठितमाधत्ते । वामदेव्यमभिगायत उद्ध्रियमाणे । अन्तरिक्षं वै वामदेव्यम् । अन्तरिक्ष एवैनं प्रतिष्ठितमाधत्ते । अथो शान्तिर्वै वामदेव्यम् । शान्तमेवैनं पशव्यमुद्धरते । बृहदभिगायत आहवनीय आधीयमाने । बार्हतो वा असौ लोकः । अमुष्मिन्नेवैनं लोके प्रतिष्ठितमाधत्ते । प्रजापतिरग्निमसृजत ॥ १। १। ८। २॥ ६१ सोऽश्वो वारो भूत्वा पराङैत् । तं वारवन्तीयेनावारयत । तद्वारवन्तीयस्य वारवन्तीयत्वम् । श्यैतेन श्येती अकुरुत । तच्छ्यैतस्य श्यैतत्वम् । यद्वारवन्तीयमभिगायते । वारयित्वैवैनं प्रतिष्ठितमाधत्ते । श्यैतेन श्येती कुरुते । घर्मः शिर इति गार्हपत्यमादधाति । सशीर्षाणमेवैनमाधत्ते ॥ १। १। ८। ३॥ ६२ उपैनमुत्तरो यज्ञो नमति । रुद्रो वा एषः । यदग्निः । स आधीयमान ईश्वरो यजमानस्य पशून् हिꣳसितोः । संप्रियः पशुभिर्भुवदित्याह । पशुभिरेवैनꣳ संप्रियं करोति । पशूनामहिꣳसायै । छर्दिस्तोकाय तनयाय यच्छेत्याह । आशिषमेवैतामाशास्ते । वातः प्राण इत्यन्वाहार्यपचनम् ॥ १। १। ८। ४॥ ६३ सप्राणमेवैनमाधत्ते । स्वदितं तोकाय तनयाय पितुं पचेत्याह । अन्नमेवास्मै स्वदयति । प्राचीमनु प्रदिशं प्रेहि विद्वानित्याह । विभक्तिरेवैनयोः सा । अथो नानावीर्यावेवैनौ कुरुते । ऊर्जं नो धेहि द्विपदे चतुष्पद इत्याह । आशिषमेवैतामाशास्ते । अर्कश्चक्षुरित्याहवनीयम् । अर्को वै देवानामन्नम् ॥ १। १। ८। ५॥ ६४ अन्नमेवावरुन्धे । तेन मे दीदिहीत्याह । समिन्ध एवैनम् । आनशे व्यानश इति त्रिरुदिङ्गयति । त्रय इमे लोकाः । एष्वेवैनं लोकेषु प्रतिष्ठितमाधत्ते । तत्तथा न कार्यम् । वींगितमप्रतिष्ठितमादधीत । उद्धृत्यैवाधायाभिमन्त्रियः । अवीङ्गितमेवैनं प्रतिष्ठितमाधत्ते । विराट्च स्वराट्च यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वाऽऽदध इत्याह । एता वा अग्नेः शिवास्तनुवः । ताभिरेवैनꣳ समर्धयति । यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेति ब्रूयाद्यं द्विष्यात् । ताभिरेवैनं पराभावयति ॥ १। १। ८। ६॥ लोकोऽसृजतैनमाधत्तेऽन्वाहार्यपचनं देवानामन्नमेनं प्रतिष्ठितमाधत्ते पञ्च च ॥ ८॥ ६५ शमीगर्भादग्निं मन्थति । एषा वा अग्नेर्यज्ञिया तनूः । तामेवास्मै जनयति । अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्ञात् । सा रेतोऽधत्त । तस्यै धाता चार्यमा चाजायेताम् । सा द्वितीयमपचत् ॥ १। १। ९। १॥ ६६ तस्या उच्छेषणमददुः । तत्प्राश्ञात् । सा रेतोऽधत्त । तस्यै मित्रश्च वरुणश्चाजायेताम् । सा तृतीयमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्ञात् । सा रेतोऽधत्त । तस्या अꣳशश्च भगश्चाजायेताम् । सा चतुर्थमपचत् ॥ १। १। ९। २॥ ६७ तस्या उच्छेषणमददुः । तत्प्राश्ञात् । सा रेतोऽधत्त । तस्या इन्द्रश्च विवस्वाग्श्चाजायेताम् । ब्रह्मौदनं पचति । रेत एव तद्दधाति । प्राश्ञन्ति ब्राह्मणा ओदनम् । यदाज्यमुच्छिष्यते । तेन समिधोऽभ्यज्यादधाति । उच्छेषणाद्वा अदिती रेतोऽधत्त ॥ १। १। ९। ३॥ ६८ उच्छेषणादेव तद्रेतो धत्ते । अस्थि वा एतत् । यथ्समिधः । एतद्रेतः । यदाज्यम् । यदाज्येन समिधोऽभ्यज्यादधाति । अस्थ्येव तद्रेतसि दधाति । तिस्र आदधाति मिथुनत्वाय । इयतीर्भवन्ति । प्रजापतिना यज्ञमुखेन संमिताः ॥ १। १। ९। ४॥ ६९ इयतीर्भवन्ति । यज्ञपरुषा संमिताः । इयतीर्भवन्ति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमिताः । आर्द्रा भवन्ति । आर्द्रमिव हि रेतः सिच्यते । चित्रियस्याश्वत्थस्यादधाति । चित्रमेव भवति । घृतवतीभिरादधाति ॥ १। १। ९। ५॥ ७० एतद्वा अग्नेः प्रियं धाम । यद्घृतम् । प्रियेणैवैनं धाम्ना समर्धयति । अथो तेजसा । गायत्रीभिर्ब्राह्मणस्यादध्यात् । गायत्रछन्दा वै ब्राह्मणः । स्वस्य छन्दसः प्रत्ययनस्त्वाय । त्रिष्टुग्भी राजन्यस्य । त्रिष्टुप्छन्दा वै राजन्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय ॥ १। १। ९। ६॥ ७१ जगतीभिर्वैश्यस्य । जगतीछन्दा वै वैश्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय । तꣳ संवथ्सरं गोपायेत् । संवथ्सरꣳ हि रेतो हितं वर्धते । यद्येनꣳ संवथ्सरे नोपनमेत् । समिधः पुनरादध्यात् । रेत एव तद्धितं वर्धमानमेति । न माꣳसमश्नीयात् । न स्त्रियमुपेयात् ॥ १। १। ९। ७॥ ७२ यन्माꣳसमश्नीयात् । यथ्स्त्रियमुपेयात् । निर्वीर्यः स्यात् । नैनमग्निरुपनमेत् । श्व आधास्यमानो ब्रह्मौदनं पचति । आदित्या वा इत उत्तमाः सुवर्गं लोकमायन्न् । ते वा इतो यन्तं प्रतिनुदन्ते । एते खलु वावादित्याः । यद्ब्राह्मणाः । तैरेव सन्त्वं गच्छति ॥ १। १। ९। ८॥ ७३ नैनं प्रतिनुदन्ते । ब्रह्मवादिनो वदन्ति । क्वा सः । अग्निः कार्यः । योऽस्मै प्रजां पशून्प्रजनयतीति । शल्कैस्ताꣳ रात्रिमग्निमिन्धीत । तस्मिन्नुपव्युषमरणी निष्टपेत् । यथर्षभाय वाशिता न्याविच्छायति । तादृगेव तत् । अपोदूह्य भस्माग्निं मन्थति ॥ १। १। ९। ९॥ ७४ सैव साऽग्नेः सन्ततिः । तं मथित्वा प्राञ्चमुद्धरति । संवथ्सरमेव तद्रेतो हितं प्रजनयति । अनाहितस्तस्याग्निरित्याहुः । यः समिधोऽनाधायाग्निमाधत्त इति । ताः संवथ्सरे पुरस्तादादध्यात् । संवथ्सरादेवैनमवरुध्याधत्ते । यदि संवथ्सरे नादध्यात् । द्वादश्यां पुरस्तादादध्यात् । संवथ्सरप्रतिमा वै द्वादश रात्रयः । संवथ्सरमेवास्याहिता भवन्ति । यदि द्वादश्यां नादध्यात् । त्र्यहे पुरस्तादादध्यात् । आहिता एवास्य भवन्ति ॥ १। १। ९। १०॥ द्वितीयमपचच्चतुर्थमपचददिती रेतोऽधत्त संमिता घृतवतीभिरादधाति राजन्यः स्वस्य छन्दसः प्रत्ययनस्त्वायेयाद्गच्छति मन्थति रात्रयश्चत्वारि च ॥ ९॥ ७५ प्रजापतिः प्रजा असृजत । स रिरिचानोऽमन्यत । स तपोऽतप्यत । स आत्मन्वीर्यमपश्यत् । तदवर्धत । तदस्माथ्सहसोर्ध्वमसृज्यत । सा विराडभवत् । तां देवासुरा व्यगृह्णत । सोऽब्रवीत्प्रजापतिः । मम वा एषा ॥ १। १। १०। १॥ ७६ दोहा एव युष्माकमिति । सा ततः प्राच्युदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अथर्व पितुं मे गोपायेति । सा द्वितीयमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । नर्य प्रजां मे गोपायेति । सा तृतीयमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । श२ꣳस्य पशून्मे गोपायेति ॥ १। १। १०। २॥ ७७ सा चतुर्थमुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । सप्रथ सभां मे गोपायेति । सा पञ्चममुदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अहे बुध्निय मन्त्रं मे गोपायेति । अग्नीन्, वाव सा तान्व्यक्रमत । तान्प्रजापतिः पर्यगृह्णात् । अथो पङ्क्तिमेव । पङ्क्तिर्वा एषा ब्राह्मणे प्रविष्टा ॥ १। १। १०। ३॥ ७८ तामात्मनोऽधि निर्मिमीते । यदग्निराधीयते । तस्मादेतावन्तोऽग्नय आधीयन्ते । पाङ्क्तं वा इदꣳ सर्वम् । पाङ्क्तेनैव पाङ्क्तग्ग् स्पृणोति । अथर्व पितुं मे गोपायेत्याह । अन्नमेवैतेन स्पृणोति । नर्य प्रजां मे गोपायेत्याह । प्रजामेवैतेन स्पृणोति । श२ꣳस्य पशून्मे गोपायेत्याह ॥ १। १। १०। ४॥ ७९ पशूनेवैतेन स्पृणोति । सप्रथ सभां मे गोपायेत्याह । सभामेवैतेनेन्द्रिय२ꣳ स्पृणोति । अहे बुध्निय मन्त्रं मे गोपायेत्याह । मन्त्रमेवैतेन श्रियग्ग् स्पृणोति । यदन्वाहार्यपचनेऽन्वाहार्यं पचन्ति । तेन सोऽस्याभीष्टः प्रीतः । यद्गार्हपत्य आज्यमधिश्रयन्ति संपत्नीर्याजयन्ति । तेन सोऽस्याभीष्टः प्रीतः । यदाहवनीये जुह्वति ॥ १। १। १०। ५॥ ८० तेन सोऽस्याभीष्टः प्रीतः । यथ्सभायां विजयन्ते । तेन सोऽस्याभीष्टः प्रीतः । यदावसथेऽन्नꣳ हरन्ति । तेन सोऽस्याभीष्टः प्रीतः । तथाऽस्य सर्वे प्रीता अभीष्टा आधीयन्ते । प्रवसथमेष्यन्नेवमुपतिष्ठेतैकमेकम् । यथा ब्राह्मणाय गृहेवासिने परिदाय गृहानेति । तादृगेव तत् । पुनरागत्योपतिष्ठते । साऽभागेयमेवैषां तत् । सा तत ऊर्ध्वारोहत् । सा रोहिण्यभवत् । तद्रोहिण्यै रोहिणित्वम् । रोहिण्यामग्निमादधीत । स्व एवैनं योनौ प्रतिष्ठितमाधत्ते । ऋध्नोत्येनेन ॥ १। १। १०। ६॥ एषा पशून्मे गोपायेति प्रविष्टा पशून्मे गोपायेत्याह जुह्वति तिष्ठते सप्त च ॥ १०॥ ब्रह्म संधत्तं कृत्तिकासूद्धन्ति द्वादशसु प्रजापतिर्वाचो देवासुरास्तदग्निर्नोद्घर्मः शिर इमे वै शमीगर्भात्प्रजापतिः स रिरिचानः सतपः स आत्मन्वीर्यं दश ॥ १०॥ ब्रह्म संधत्तं तौ दिव्यावथो शंत्वाय प्राच्येषां यदुपर्युपरि यथ्सद्यः सोऽश्वोऽवारो भूत्वा जगतीभिरशीतिः ॥ ८०॥ ब्रह्म संधत्तमृध्नोत्येनेन ॥

प्रथमाष्टके द्वितीयः प्रपाठकः २

१ उद्धन्यमानमस्या अमेध्यम् । अप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः । शं नो माता पृथिवी तोकसाता । शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः । वैश्वानरस्य रूपम् । पृथिव्यां परिस्रसा । स्योनमाविशन्तु नः ॥ १। २। १। १॥ २ यदिदं दिवो यददः पृथिव्याः । संजज्ञाने रोदसी संबभूवतुः । ऊषान्कृष्णमवतु कृष्णमूषाः । इहोभयोर्यज्ञियमागमिष्ठाः । ऊतीः कुर्वाणो यत्पृथिवीमचरः । गुहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह संभरन्तः । शतं जीवेम शरदः सवीराः । ऊर्जं पृथिव्या रसमाभरन्तः । शतं जीवेम शरदः पुरूचीः ॥ १। २। १। २॥ ३ वम्रीभिरनुवित्तं गुहासु । श्रोत्रं त उर्व्यबधिरा भवामः । प्रजापतिसृष्टानां प्रजानाम् । क्षुधोपहत्यै सुवितं नो अस्तु । उपप्रभिन्नमिषमूर्जं प्रजाभ्यः । सूदं गृहेभ्यो रसमाभरामि । यस्य रूपं बिभ्रदिमामविन्दत् । गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतमाभरन्तः । अछम्बट्कारमस्यां विधेम ॥ १। २। १। ३॥ ४ यत्पर्यपश्यथ्सरिरस्य मध्ये । उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातम् । पर्णं पृथिव्याः प्रथनꣳ हरामि । याभिरदृꣳहज्जगतः प्रतिष्ठाम् । उर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वाः । अग्ने रेतश्चन्द्रꣳ हिरण्यम् । अद्भ्यः संभूतममृतं प्रजासु । तथ्संभरन्नुत्तरतो निधाय ॥ १। २। १। ४॥ ५ अति प्रयच्छं दुरितिं तरेयम् । अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः । संवथ्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह संभरन्तः । शतं जीवेम शरदः सवीराः । ऊर्जः पृथिव्या अध्युत्थितोऽसि । वनस्पते शतवल्शो विरोह । त्वया वयमिषमूर्जं मदन्तः । रायस्पोषेण समिषा मदेम । गायत्रिया ह्रियमाणस्य यत्ते ॥ १। २। १। ५॥ ६ पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णः सोमपर्णाद्धि जातः । ततो हरामि सोमपीथस्यावरुद्ध्यै । देवानां ब्रह्मवादं वदतां यत् । उपाश‍ृणोः सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसम् । तथ्संभरग्ग्स्तदवरुन्धीय साक्षात् । यया ते सृष्टस्याग्नेः । हेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय ॥ १। २। १। ६॥ ७ शमीꣳ शान्त्यै हराम्यहम् । यत्ते सृष्टस्य यतः । विकङ्कतं भा आर्छज्जातवेदः । तया भासा संमितः । उरुं नो लोकमनु प्रभाहि । यत्ते तान्तस्य हृदयमाच्छिन्दञ्जातवेदः । मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेः संभरामि । सात्मा अग्ने सहृदयो भवेह । चित्रियादश्वत्थाथ्संभृता बृहत्यः ॥ १। २। १। ७॥ ८ शरीरमभि स२ꣳस्कृताः स्थ । प्रजापतिना यज्ञमुखेन संमिताः । तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्यै । अश्वत्थाद्धव्यवाहाद्धि जाताम् । अग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भम् । अग्नये प्रजनयितवे । यो अश्वत्थः शमीगर्भः । आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा ॥ १। २। १। ८॥ ९ यज्ञियैः केतुभिः सह । यं त्वा समभरञ्जातवेदः । यथा शरीरं भूतेषु न्यक्तम् । स संभृतः सीद शिवः प्रजाभ्यः । उरुं नो लोकमनुनेषि विद्वान् । प्रवेधसे कवये मेध्याय । वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्तु । अव देवान्, यजे हेड्यान् । समिधाऽग्निं दुवस्यत ॥ १। २। १। ९॥ १० घृतैर्बोधयतातिथिम् । आऽस्मिन् हव्या जुहोतन । उप त्वाऽग्ने हविष्मतीः । घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिरङ्गिरः । घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । समिध्यमानः प्रथमो नु धर्मः । समक्तुभिरज्यते विश्ववारः ॥ १। २। १। १०॥ ११ शोचिष्केशो घृतनिर्णिक्पावकः । सुयज्ञो अग्निर्यजथाय देवान् । घृतप्रतीको घृतयोनिरग्निः । घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति । घृतं पिबन्थ्सुयजा यक्षि देवान् । आयुर्दा अग्ने हविषो जुषाणः । घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यम् । पितेव पुत्रमभि रक्षतादिमम् ॥ १। २। १। ११॥ १२ त्वामग्ने समिधानं यविष्ठ । देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिमाहुतम् । त्वेषं चक्षुर्दधिरे चोदयन्वति । त्वामग्ने प्रदिव आहुतं घृतेन । सुम्नायवः सुषमिधा समीधिरे । स वावृधान ओषधीभिरुक्षितः । उरुज्रयाꣳसि पार्थिवा वितिष्ठसे । घृतप्रतीकं व ऋतस्य धूर्षदम् । अग्निं मित्रं न समिधान ऋञ्जते ॥ १। २। १। १२॥ १३ इन्धानो अक्रो विदथेषु दीद्यत् । शुक्रवर्णामुदु नो यꣳसते धियम् । प्रजा अग्ने संवासय । आशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि । यान्यासन्थ्सवितुः सवे । मही विश्पत्नी सदने ऋतस्य । अर्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसम् । अध्वराणां जनयथः पुरोगाम् ॥ १। २। १। १३॥ १४ आरोहतं दशतꣳ शक्वरीर्मम । ऋतेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समाम् । दर्शमहं पूर्णमासं यज्ञं यथा यजै । ऋत्वियवती स्थो अग्निरेतसौ । गर्भं दधाथां ते वामहं ददे । तथ्सत्यं यद्वीरं बिभृथः । वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे । ते मा प्रजाते प्रजनयिष्यथः ॥ १। २। १। १४॥ १५ प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोके । अनृताथ्सत्यमुपैमि । मानुषाद्दैव्यमुपैमि । दैवीं वाचं यच्छामि । शल्कैरग्निमिन्धानः । उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृद्ध्वा । अति मृत्युं तराम्यहम् । जातवेदो भुवनस्य रेतः । इह सिञ्च तपसो यज्जनिष्यते ॥ १। २। १। १५॥ १६ अग्निमश्वत्थादधि हव्यवाहम् । शमीगर्भाज्जनयन्, यो मयोभूः । अयं ते योनिरृत्वियः । यतो जातो अरोचथाः । तं जानन्नग्न आरोह । अथा नो वर्धया रयिम् । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्याः । अक्रन्निमं पितरो लोकमस्मै ॥ १। २। १। १६॥ १७ अग्नेर्भस्मास्यग्नेः पुरीषमसि । संज्ञानमसि कामधरणम् । मयि ते कामधरणं भूयात् । सं वः सृजामि हृदयानि । सꣳसृष्टं मनो अस्तु वः । सꣳसृष्टः प्राणो अस्तु वः । सं या वः प्रियास्तनुवः । संप्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः । संप्रियास्तनुवो मम ॥ १। २। १। १७॥ १८ कल्पेतां द्यावापृथिवी । कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथक् । मम ज्यैष्ठ्याय सव्रताः । येऽग्नयः समनसः । अन्तरा द्यावापृथिवी । वासन्तिकावृतू अभि कल्पमानाः । इन्द्रमिव देवा अभि संविशन्तु । दिवस्त्वा वीर्येण । पृथिव्यै महिम्ना ॥ १। २। १। १८॥ १९ अन्तरिक्षस्य पोषेण । सर्वपशुमादधे । अजीजनन्नमृतं मर्त्यासः । अस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः । पुमाꣳसं जातमभि सꣳरभन्ताम् । प्रजापतेस्त्वा प्राणेनाभि प्राणिमि । पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय । शतꣳ शरद्भ्य आयुषे वर्चसे ॥ १। २। १। १९॥ २० जीवात्वै पुण्याय । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । प्राणे त्वाऽमृतमादधामि । अन्नादमन्नाद्याय । गोप्तारं गुप्त्यै । सुगार्हपत्यो विदहन्नरातीः । उषसः श्रेयसीः श्रेयसीर्दधत् ॥ १। २। १। २०॥ २१ अग्ने सपत्नाꣳ अप बाधमानः । रायस्पोषमिषमूर्जमस्मासु धेहि । इमा उ मामुप तिष्ठन्तु रायः । आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी । मध्ये वसोर्दीदिहि जातवेदः । ओजसे बलाय त्वोद्यच्छे । वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः । यस्ते देवेषु महिमा सुवर्गः ॥ १। २। १। २१॥ २२ यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे । तया नो अग्ने जुषमाण एहि । दिवः पृथिव्याः पर्यन्तरिक्षात् । वातात्पशुभ्यो अध्योषधीभ्यः । यत्र यत्र जातवेदः संबभूथ । ततो नो अग्ने जुषमाण एहि । प्राचीमनु प्रदिशं प्रेहि विद्वान् । अग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाहि ॥ १। २। १। २२॥ २३ ऊर्जं नो धेहि द्विपदे चतुष्पदे । अन्वग्निरुषसामग्रमख्यत् । अन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् । अनु द्यावापृथिवी आततान । विक्रमस्व महाꣳ असि । वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि । यदिदं दिवो यददः पृथिव्याः । संविदाने रोदसी संबभूवतुः ॥ १। २। १। २३॥ २४ तयोः पृष्ठे सीदतु जातवेदाः । शंभूः प्रजाभ्यस्तनुवे स्योनः । प्राणं त्वाऽमृत आदधामि । अन्नादमन्नाद्याय । गोप्तारं गुप्त्यै । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वाऽऽदधे । अग्निनाऽग्ने ब्रह्मणा । आनशे व्यानशे सर्वमायुर्व्यानशे ॥ १। २। १। २४॥ २५ नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम् । अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषं नः पितुं कृणु । श२ꣳस्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः ॥ १। २। १। २५॥ २६ अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगाः । सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रियावतः कुरु । सर्वमायुरुपासताम् । अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रैविदा विदुः । ऋचः सामानि यजूꣳषि । सा हि श्रीरमृता सताम् ॥ १। २। १। २६॥ २७ चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । इहैव सन्तत्र सतो वो अग्नयः । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीत् । ज्योतिषा वो वैश्वानरेणोपतिष्ठे । पञ्चधाऽग्नीन्व्यक्रामत् । विराट्थ्सृष्टा प्रजापतेः । ऊर्ध्वाऽऽरोहद्रोहिणी । योनिरग्नेः प्रतिष्ठितिः ॥ १। २। १। २७॥ विशन्तु नः पुरूचीर्विधेम निधाय यत्तेऽप्रदाहाय बृहत्यो ब्रह्मणा दुवस्यत विश्ववार इममृञ्जते पुरोगां प्रजनयिष्यथो जनिष्यतेऽस्मै मम महिम्ना वर्चसे दधथ्सुवर्गो भाहि संबभूवतुरायुर्व्यानशे चतुष्पदः सतां प्रजापतेर्द्वे च ॥ १॥ २८ नवैतान्यहानि भवन्ति । नव वै सुवर्गा लोकाः । यदेतान्यहान्युपयन्ति । नवस्वेव तथ्सुवर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति । अग्निष्टोमाः परः सामानः कार्या इत्याहुः । अग्निष्टोमसंमितः सुवर्गो लोक इति । द्वादशाग्निष्टोमस्य स्तोत्राणि । द्वादश मासाः संवथ्सरः । तत्तन्न सूर्क्ष्यम् । उक्थ्या एव सप्तदशाः परः सामानः कार्याः ॥ १। २। २। १॥ २९ पशवो वा उक्थानि । पशूनामवरुध्यै । विश्वजिदभिजितावग्निष्टोमौ । उक्थ्याः सप्तदशाः परः सामानः । ते स२ꣳस्तुता विराजमभि संपद्यन्ते । द्वे चर्चावति रिच्येते । एकया गौरतिरिक्तः । एकयाऽऽयुरूनः । सुवर्गो वै लोको ज्योतिः । ऊर्ग्विराट् ॥ १। २। २। २॥ ३० सुवर्गमेव तेन लोकमभि जयन्ति । यत्परꣳ राथन्तरम् । तत्प्रथमेऽहन्कार्यम् । बृहद्द्वितीये । वैरूपं तृतीये । वैराजं चतुर्थे । शाक्वरं पञ्चमे । रैवतꣳ षष्ठे । तदु पृष्ठेभ्यो नयन्ति । संतनय एते ग्रहा गृह्यन्ते ॥ १। २। २। ३॥ ३१ अतिग्राह्याः परः सामसु । इमानेवैतैर्लोकान्थ्सं तन्वन्ति । मिथुना एते ग्रहा गृह्यन्ते । अतिग्राह्याः परः सामसु । मिथुनमेव तैर्यजमाना अवरुन्धते । बृहत्पृष्ठं भवति । बृहद्वै सुवर्गो लोकः । बृहतैव सुवर्गं लोकं यन्ति । त्रयस्त्रिꣳशि नाम साम । माध्यन्दिने पवमाने भवति ॥ १। २। २। ४॥ ३२ त्रयस्त्रिꣳशद्वै देवताः । देवता एवावरुन्धते । ये वा इतः पराञ्चꣳ संवथ्सरमुप यन्ति । न हैनं ते स्वस्ति समश्नुवते । अथ येऽमुतोऽर्वाञ्चमुप यन्ति । ते हैन२ꣳ स्वस्ति समश्ञुवते । एतद्वा अमुतोऽर्वाञ्चमुप यन्ति । यदेवम् । यो ह खलु वाव प्रजापतिः । स उ वेवेन्द्रः । तदु देवेभ्यो नयन्ति ॥ १। २। २। ५॥ कार्या विराड्गृह्यन्ते पवमाने भवतीन्द्र एकं च ॥ २॥ ३३ संततिर्वा एते ग्रहाः । यत्परः सामानः । विषूवान्दिवाकीर्त्यम् । यथा शालायै पक्षसी । एवꣳ संवथ्सरस्य पक्षसी । यदेतेन गृह्येरन् । विषूची संवथ्सरस्य पक्षसी व्यवस्रꣳसेयाताम् । आर्तिमार्छेयुः । यदेते गृह्यन्ते । यथा शालायै पक्षसी मध्यमं वꣳशमभि समायच्छति ॥ १। २। ३। १॥ ३४ एवꣳ संवथ्सरस्य पक्षसी दिवाकीर्त्यमभि संतन्वन्ति । नाऽऽर्तिमार्छन्ति । एकविꣳशमहर्भवति । शुक्राग्रा ग्रहा गृह्यन्ते । प्रत्युत्तब्ध्यै सयत्वाय । सौर्य एतदहः पशुरालभ्यते । सौऱ्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । सप्तैतदहरतिग्राह्या गृह्यन्ते ॥ १। २। ३। २॥ ३५ सप्त वै शीर्षण्याः प्राणाः । असावादित्यः शिरः प्रजानाम् । शीर्षन्नेव प्रजानां प्राणान्दधाति । तस्माथ्सप्त शीर्षन्प्राणाः । इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । स इमान् लोकानभ्यजयत् । तस्यासौ लोकोऽनभिजित आसीत् । तं विश्वकर्मा भूत्वाऽभ्यजयत् । यद्वैश्वकर्मणो गृह्यते ॥ १। २। ३। ३॥ ३६ सुवर्गस्य लोकस्याभिजित्यै । प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये वैश्वकर्मणं गृह्णते । आदित्यः श्वो गृह्यते । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति । अन्योन्यो गृह्येते । विश्वान्येवान्येन कर्माणि कुर्वाणा यन्ति । अस्यामन्येन प्रतितिष्ठन्ति । तावापरार्धाथ्संवथ्सरस्यान्योन्यो गृह्येते । तावुभौ सह महाव्रते गृह्येते । यज्ञस्यैवान्तं गत्वा । उभयोर्लोकयोः प्रतितिष्ठन्ति । अर्क्यमुक्थं भवति । अन्नाद्यस्यावरुध्यै ॥ १। २। ३। ४॥ समायच्छत्यतिग्राह्या गृह्यन्ते गृह्यते संवथ्सरस्यान्योन्यो गृह्येते पञ्च च ॥ ३॥ ३७ एकविꣳश एष भवति । एतेन वै देवा एकविꣳशेन । आदित्यमित उत्तमꣳ सुवर्गं लोकमारोहयन्न् । स वा एष इत एकविꣳशः । तस्य दशावस्तादहानि । दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् । सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेति ॥ १। २। ४। १॥ ३८ देवा वा आदित्यस्य सुवर्गस्य लोकस्य । पराचोऽतिपादादबिभयुः । तं छन्दोभिरदृꣳहन्धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवाचोऽवपादादबिभयुः । तं पञ्चभी रश्मिभिरुदवयन्न् । तस्मादेकविꣳशेऽहन्पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि । ये गायत्रे । ते गायत्रीषूत्तरयोः पवमानयोः ॥ १। २। ४। २॥ ३९ महादिवाकीर्त्यꣳ होतुः पृष्ठम् । विकर्णं ब्रह्मसामम् । भासोऽग्निष्टोमः । अथैतानि पराणि । परैर्वै देवा आदित्यꣳ सुवर्गं लोकमपारयन्न् । यदपारयन्न् । तत्पराणां परत्वम् । पारयन्त्येनं पराणि । य एवं वेद । अथैतानि स्पराणि । स्परैर्वै देवा आदित्यꣳ सुवर्गं लोकमस्पारयन्न् । यदस्पारयन्न् । तथ्स्पराणाग् स्परत्वम् । स्पारयन्त्येनग्ग् स्पराणि । य एवं वेद ॥ १। २। ४। ३॥ एति पवमानयोः स्पराणि पञ्च च ॥ ४॥ ४० अप्रतिष्ठां वा एते गच्छन्ति । येषाꣳ संवथ्सरेऽनाप्तेऽथ । एकादशिन्याप्यते । वैष्णवं वामनमालभन्ते । यज्ञो वै विष्णुः । यज्ञमेवालभन्ते प्रतिष्ठित्यै । ऐन्द्राग्नमालभन्ते । इन्द्राग्नी वै देवानामयातयामानौ । ये एव देवते अयातयाम्नी । ते एवालभन्ते ॥ १। २। ५। १॥ ४१ वैश्वदेवमालभन्ते । देवता एवावरुन्धते । द्यावापृथिव्यां धेनुमालभन्ते । द्यावापृथिव्योरेव प्रतितिष्ठन्ति । वायव्यं वथ्समालभन्ते । वायुरेवैभ्यो यथाऽऽयतनाद्देवता अवरुन्धे । आदित्यामविं वशामालभन्ते । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति । मैत्रावरुणीमालभन्ते ॥ १। २। ५। २॥ ४२ मित्रेणैव यज्ञस्य स्विष्टꣳ शमयन्ति । वरुणेन दुरिष्टम् । प्राजापत्यं तूपरं महाव्रत आलभन्ते । प्राजापत्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । आग्नेयमालभन्ते प्रति प्रज्ञात्यै । अजपेत्वान्, वा एते पूर्वैर्मासैरवरुन्धते । यदेते गव्याः पशव आलभ्यन्ते । उभयेषां पशूनामवरुध्यै ॥ १। २। ५। ३॥ ४३ यदतिरिक्तामेकादशिनीमालभेरन् । अप्रियं भ्रातृव्यमभ्यतिरिच्येत । यद्द्वौ द्वौ पशू समस्येयुः । कनीय आयुः कुर्वीरन् । यदेते ब्राह्मणवन्तः पशव आलभ्यन्ते । नाप्रियं भ्रातृव्यमभ्यतिरिच्यते । न कनीय आयुः कुर्वते ॥ १। २। ५। ४॥ ते एवालभन्ते मैत्रावरुणीमालभन्तेऽवरुध्यै सप्त च ॥ ५॥ ४४ प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत् । तं देवा भूतानाꣳ रसं तेजः संभृत्य । तेनैनमभिषज्यन् । महानववर्तीति । तन्महाव्रतस्य महाव्रतत्वम् । महद्व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । महतो व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । पञ्चविꣳशः स्तोमो भवति ॥ १। २। ६। १॥ ४५ चतुर्विꣳशत्यर्धमासः संवथ्सरः । यद्वा एतस्मिन्थ्संवथ्सरेऽधि प्राजायत । तदन्नं पञ्चविꣳशमभवत् । मध्यतः क्रियते । मध्यतो ह्यन्नमशितं धिनोति । अथो मध्यत एव प्रजानामूर्ग्धीयते । अथ यद्वा इदमन्ततः क्रियते । तस्मादुदन्ते प्रजाः समेधन्ते । अन्ततः क्रियते प्रजननायैव । त्रिवृच्छिरो भवति ॥ १। २। ६। २॥ ४६ त्रेधा विहितꣳ हि शिरः । लोम छवीरस्थि । पराचा स्तुवन्ति । तस्मात्तथ्सदृगेव । न मेद्यतोऽनुमेद्यति । न कृश्यतोऽनु कृश्यति । पञ्चदशोऽन्यः पक्षो भवति । सप्तदशोऽन्यः । तस्माद्वयाग्स्यन्यतरमर्धमभि पर्यावर्तन्ते । अन्यतरतो हि तद्गरीयः क्रियते ॥ १। २। ६। ३॥ ४७ पञ्चविꣳश आत्मा भवति । तस्मान्मध्यतः पशवो वरिष्ठाः । एकविꣳशं पुच्छम् । द्विपदासु स्तुवन्ति प्रतिष्ठित्यै । सर्वेण सह स्तुवन्ति । सर्वेण ह्यात्मनाऽऽत्मन्वी । सहोत्पतन्ति । एकैकामुच्छिꣳषन्ति । आत्मन्न् ह्यङ्गानि बद्धानि । न वा एतेन सर्वः पुरुषः ॥ १। २। ६। ४॥ ४८ यदित इतो लोमानि दतो नखान् । परिमादः क्रियन्ते । तान्येव तेन प्रत्युप्यन्ते । औदुम्बरस्तल्पो भवति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुध्यै । यस्य तल्पसद्यमनभिजितग्ग् स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यमभिजयानीति तल्पमारुह्योद्गायेत् । तल्पसद्यमेवाभिजयति ॥ १। २। ६। ५॥ ४९ यस्य तल्पसद्यमभिजितग्ग् स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यं मा पराजेषीति तल्पमारुह्योद्गायेत् । न तल्पसद्यं पराजयते । प्लेङ्खे शꣳसति । महो वै प्लेङ्खः । महस एवान्नाद्यस्यावरुद्ध्यै । देवासुराः संयत्ता आसन् । त आदित्ये व्यायच्छन्त । तं देवाः समजयन् ॥ १। २। ६। ६॥ ५० ब्राह्मणश्च शूद्रश्च चर्मकर्ते व्यायच्छेते । दैव्यो वै वर्णो ब्राह्मणः । असुर्यः शूद्रः । इमेऽराथ्सुरिमे सुभूतमक्रन्नित्यन्यतरो ब्रूयात् । इम उद्वासीकारिण इमे दुर्भूतमक्रन्नित्यन्यतरः । यदेवैषाꣳ सुकृतं या राद्धिः । तदन्यतरोऽभिश्रीणाति । यदेवैषां दुष्कृतं याऽराद्धिः । तदन्यतरोऽपहन्ति । ब्राह्मणः संजयति । अमुमेवादित्यं भ्रातृव्यस्य सं विन्दन्ते ॥ १। २। ६। ७॥ भवति भवति क्रियते पुरुषो जयत्यजयञ्जयत्येकं च ॥ ६॥ उद्धन्यमानं नवैतानि सन्ततिरेकविꣳश एषोऽप्रतिष्ठां प्रजापतिर्वृत्तष्षट् ॥ ६॥ उद्धन्यमानꣳ शोचिष्केशोऽग्ने सपत्नानतिग्राह्या वैश्वदेवमालभन्ते पञ्चाशत् ॥ ५०॥ उद्धन्यमानꣳ संविंदन्ते ॥

प्रथमाष्टके तृतीयः प्रपाठकः ३

१ देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । अग्नीषोमयोस्तेजस्विनीस्तनूः संन्यदधत । इदमु नो भविष्यति । यदि नो जेष्यन्तीति । तेनाग्नीषोमावपाक्रामताम् । ते देवा विजित्य । अग्नीषोमावन्वैच्छन् । तेऽग्निमन्वविन्दन्नृतुषूथ्सन्नम् । तस्य विभक्तीभिस्तेजस्विनीस्तनूरवारुन्धत ॥ १। ३। १। १॥ २ ते सोममन्वविन्दन् । तमघ्नन् । तस्य यथाऽभिज्ञायं तनूर्व्यगृह्णत । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्वेव गृहीताः । नानाग्नेयं पुनराधेये कुर्यात् । यदनाग्नेयं पुनराधेये कुर्यात् । व्यृद्धमेव तत् ॥ १। ३। १। २॥ ३ अनाग्नेयं वा एतत्क्रियते । यथ्समिधस्तनूनपातमिडो बर्हिर्यजति । उभावाग्नेयावाज्यभागौ स्याताम् । अनाज्यभागौ भवत इत्याहुः । यदुभावाग्नेयावन्वञ्चाविति । अग्नये पवमानायोत्तरः स्यात् । यत्पवमानाय । तेनाज्यभागः । तेन सौम्यः । बुधन्वत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति ॥ १। ३। १। ३॥ ४ यथा सुप्तं बोधयति । तादृगेव तत् । अग्निन्यक्ताः पत्नीसंयाजानामृचः स्युः । तेनाग्नेयꣳ सर्वं भवति । एकधा तेजस्विनीं देवतामुपैतीत्याहुः । सैनमीश्वरा प्रदह इति । नेति ब्रूयात् । प्रजननं वा अग्निः । प्रजननमेवोपैतीति । कृतयजुः संभृतसंभार इत्याहुः ॥ १। ३। १। ४॥ ५ न संभृत्याः संभाराः । न यजुः कार्यमिति । अथो खलु । संभृत्या एव संभाराः । कार्यं यजुः । पुनराधेयस्य समृद्ध्यै । तेनोपाꣳशु प्रचरति । एष्य इव वा एषः । यत्पुनराधेयः । यथोपाꣳशु नष्टमिच्छति ॥ १। ३। १। ५॥ ६ तादृगेव तत् । उच्चैः स्विष्टकृतमुथ्सृजति । यथा नष्टं वित्त्वा प्राहायमिति । तादृगेव तत् । एकधा तेजस्विनीं देवतामुपैतीत्याहुः । सैनमीश्वरा प्रदह इति । तत्तथा नोपैति । प्रयाजानूयाजेष्वेव विभक्तीः कुर्यात् । यथापूर्वमाज्यभागौ स्याताम् । एवं पत्नीसंयाजाः ॥ १। ३। १। ६॥ ७ तद्वैश्वानरवत्प्रजननवत्तरमुपैतीति । तदाहुः । व्यृद्धं वा एतत् । अनाग्नेयं वा एतत्क्रियत इति । नेति ब्रूयात् । अग्निं प्रथमं विभक्तीनां यजति । अग्निमुत्तमं पत्नीसंयाजानाम् । तेनाग्नेयम् । तेन समृद्धं क्रियत इति ॥ १। ३। १। ७॥ अरुन्धतैव तद्भवति संभृतसंभार इत्याहुरिच्छति पत्नीसंयाजा नव च ॥ १॥ ८ देवा वै यथादर्शं यज्ञानाहरन्त । योऽग्निष्टोमम् । य उक्थ्यम् । योऽतिरात्रम् । ते सहैव सर्वे वाजपेयमपश्यन् । ते । अन्योन्यस्मै नातिष्ठन्त । अहमनेन यजा इति । तेऽब्रुवन् । आजिमस्य धावामेति ॥ १। ३। २। १॥ ९ तस्मिन्नाजिमधावन् । तं बृहस्पतिरुदजयत् । तेनायजत । स स्वाराज्यमगच्छत् । तमिन्द्रोऽब्रवीत् । मामनेन याजयेति । तेनेन्द्रमयाजयत् । सोऽग्रं देवतानां पर्यैत् । अगच्छथ्स्वाराज्यम् । अतिष्ठन्तास्मै ज्यैष्ठ्याय ॥ १। ३। २। २॥ १० य एवं विद्वान्, वाजपेयेन यजते । गच्छति स्वाराज्यम् । अग्रꣳ समानानां पर्येति । तिष्ठन्तेऽस्मै ज्यैष्ठ्याय । स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः । तं वा एतं वाजपेय इत्याहुः । वाजाप्यो वा एषः । वाजग्ग् ह्येतेन देवा ऐप्सन्न् । सोमो वै वाजपेयः । यो वै सोमं वाजपेयं वेद ॥ १। ३। २। ३॥ ११ वाज्येवैनं पीत्वा भवति । आऽस्य वाजी जायते । अन्नं वै वाजपेयः । य एवं वेद । अत्त्यन्नम् । आऽस्यान्नादो जायते । ब्रह्म वै वाजपेयः । य एवं वेद । अत्ति ब्रह्मणाऽन्नम् । आऽस्य ब्रह्मा जायते ॥ १। ३। २। ४॥ १२ वाग्वै वाजस्य प्रसवः । य एवं वेद । करोति वाचा वीर्यम् । ऐनं वाचा गच्छति । अपिवतीं वाचं वदति । प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् । स आत्मन्वाजपेयमधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यद्वाजपेयः ॥ १। ३। २। ५॥ १३ अप्येव नोऽत्रास्त्विति । तेभ्य एता उज्जितीः प्रायच्छत् । ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानामनिर्भागाय । देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन् । यद्ब्रह्मणः शमलमासीत् । सा गाथा नाराशग्ग्स्यभवत् । यदन्नस्य । सा सुरा ॥ १। ३। २। ६॥ १४ तस्माद्गायतश्च मत्तस्य च न प्रतिगृह्यम् । यत्प्रतिगृह्णीयात् । शमलं प्रतिगृह्णीयात् । सर्वा वा एतस्य वाचोऽवरुद्धाः । यो वाजपेययाजी । या पृथिव्यां याऽग्नौ या रथन्तरे । याऽन्तरिक्षे या वायौ या वामदेव्ये । या दिवि याऽऽदित्ये या बृहति । याऽप्सु यौषधीषु या वनस्पतिषु । तस्माद्वाजपेययाज्यार्त्विजीनः । सर्वा ह्यस्य वाचोऽवरुद्धाः ॥ १। ३। २। ७॥ धावामेति ज्यैष्ठ्याय वेद ब्रह्मा जायते वाजपेयः सुराऽऽर्त्विजीन एकं च ॥ २॥ १५ देवा वै यदन्यैर्ग्रहैर्यज्ञस्य नावारुन्धत । तदतिग्राह्यैरतिगृह्यावारुन्धत । तदतिग्राह्याणामतिग्राह्यत्वम् । यदतिग्राह्या गृह्यन्ते । यदेवान्यैर्ग्रहैर्यज्ञस्य नावरुन्धे । तदेव तैरतिगृह्यावरुन्धे । पञ्च गृह्यन्ते । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तमाप्त्वाऽवरुन्धे ॥ १। ३। ३। १॥ १६ सर्व ऐन्द्रा भवन्ति । एकधैव यजमान इन्द्रियं दधति । सप्तदश प्राजापत्या ग्रहा गृह्यन्ते । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । एकयर्चा गृह्णाति । एकधैव यजमाने वीर्यं दधाति । सोमग्रहाग्श्च सुराग्रहाग्श्च गृह्णाति । एतद्वै देवानां परममन्नम् । यथ्सोमः ॥ १। ३। ३। २॥ १७ एतन्मनुष्याणाम् । यथ्सुरा । परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्धे । सोमग्रहान्गृह्णाति । ब्रह्मणो वा एतत्तेजः । यथ्सोमः । ब्रह्मण एव तेजसा तेजो यजमाने दधाति । सुराग्रहान्गृह्णाति । अन्नस्य वा एतच्छमलम् । यथ्सुरा ॥ १। ३। ३। ३॥ १८ अन्नस्यैव शमलेन शमलं यजमानादपहन्ति । सोमग्रहाग्श्च सुराग्रहाग्श्च गृह्णाति । पुमान् वै सोमः । स्त्री सुरा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । आत्मानमेव सोमग्रहैः स्पृणोति । जायाꣳ सुराग्रहैः । तस्माद्वाजपेययाज्यमुष्मिं ल्लोके स्त्रियꣳ संभवति । वाजपेयाभिजितग्ग् ह्यस्य ॥ १। ३। ३। ४॥ १९ पूर्वे सोमग्रहा गृह्यन्ते । अपरे सुराग्रहाः । पुरोक्षꣳ सोमग्रहान्थ्सादयति । पश्चादक्षꣳ सुराग्रहान् । पापवस्यसस्य विधृत्यै । एष वै यजमानः । यथ्सोमः । अन्नꣳ सुरा । सोमग्रहाग्श्च सुराग्रहाग्श्च व्यतिषजति । अन्नाद्येनैवैनं व्यतिषजति ॥ १। ३। ३। ५॥ २० संपृचः स्थ सं मा भद्रेण पृङ्क्तेत्याह । अन्नं वै भद्रम् । अन्नाद्येनैवैनꣳ सꣳसृजति । अन्नस्य वा एतच्छमलम् । यथ्सुरा । पाप्मेव खलु वै शमलम् । पाप्मना वा एनमेतच्छमलेन व्यतिषजति । यथ्सोमग्रहाग्श्च सुराग्रहाग्श्च व्यतिषजति । विपृचः स्थ वि मा पाप्मना पृङ्क्तेत्याह । पाप्मनैवैनꣳ शमलेन व्यावर्तयति ॥ १। ३। ३। ६॥ २१ तस्माद्वाजपेययाजी पूतो मेध्यो दक्षिण्यः । प्राङुद्रवति सोमग्रहैः । अमुमेव तैर्लोकमभिजयति । प्रत्यङ्ख्सुराग्रहैः । इममेव तैर्लोकमभिजयति । प्रतिष्ठन्ति सोमग्रहैः । यावदेव सत्यम् । तेन सूयते । वाजसृद्भ्यः सुराग्रहान् हरन्ति । अनृतेनैव विशꣳ सꣳसृजति । हिरण्यपात्रं मधोः पूर्णं ददाति । मधव्योऽसानीति । एकधा ब्रह्मण उपहरति । एकधैव यजमान आयुस्तेजो दधाति ॥ १। ३। ३। ७॥ आप्त्वाऽवरुन्धे सोमः शमलं यथ्सुरा ह्यस्यैनं व्यतिषजति व्यावर्तयति सृजति चत्वारि च ॥ ३॥ २२ ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्याऽतिरात्रम् ॥ १। ३। ४। १॥ २३ मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान्पशुभिरेवावरुन्धे । आत्मानमेव स्पृणोत्यग्निष्टोमेन । प्राणापानावुक्थ्येन । वीर्यꣳ षोडशिनः स्तोत्रेण । वाचमतिरात्रेण । प्रजां बृहतः स्तोत्रेण । इममेव लोकमभि जयत्यग्निष्टोमेन । अन्तरिक्षमुक्थ्येन ॥ १। ३। ४। २॥ २४ सुवर्गं लोकꣳ षोडशिनः स्तोत्रेण । देवयानानेव पथ आरोहत्यतिरात्रेण । नाकꣳ रोहति बृहतः स्तोत्रेण । तेज एवाऽऽत्मन्धत्त आग्नेयेन पशुना । ओजो बलमैन्द्राग्नेन । इन्द्रियमैन्द्रेण । वाचꣳ सारस्वत्या । उभावेव देवलोकं च मनुष्यलोकं चाभिजयति मारुत्या वशया । सप्तदश प्राजापत्यान्पशूनालभते । सप्तदशः प्रजापतिः ॥ १। ३। ४। ३॥ २५ प्रजापतेराप्त्यै । श्यामा एकरूपा भवन्ति । एवमिव हि प्रजापतिः समृद्ध्यै । तान्पर्यग्निकृतानुथ्सृजति । मरुतो यज्ञमजिघाꣳसन्प्रजापतेः । तेभ्य एतां मारुतीं वशामालभत । तयैवैनानशमयत् । मारुत्या प्रचर्य । एतान्थ्संज्ञपयेत् । मरुत एव शमयित्वा ॥ १। ३। ४। ४॥ २६ एतैः प्रचरति । यज्ञस्याघाताय । एकधा वपा जुहोति । एकदेवत्या हि । एते । अथो एकधैव यजमाने वीर्यं दधाति । नैवारेण सप्तदशशरावेणैतर्हि प्रचरति । एतत्पुरोडाशा ह्येते । अथो पशूनामेव छिद्रमपिदधाति । सारस्वत्योत्तमया प्रचरति । वाग्वै सरस्वती । तस्मात्प्राणानां वागुत्तमा । अथो प्रजापतावेव यज्ञं प्रतिष्ठापयति । प्रजापतिर्हि वाक् । अपन्नदती भवति । तस्मान्मनुष्याः सर्वां वाचं वदन्ति॥ १। ३। ४। ५॥ अतिरात्रमन्तरिक्षमुक्थ्येन प्रजापतिः शमयित्वोत्तमया प्रचरति षट्च ॥ ४॥ २७ सावित्रं जुहोति कर्मणःकर्मणः पुरस्तात् । कस्तद्वेदेत्याहुः । यद्वाजपेयस्य पूर्वं यदपरमिति । सवितृप्रसूत एव यथापूर्वं कर्माणि करोति । सवने सवने जुहोति । आक्रमणमेव तथ्सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । वाचस्पतिर्वाचमद्य स्वदाति न इत्याह । वाग्वै देवानां पुराऽन्नमासीत् । वाचमेवास्मा अन्नग्ग् स्वदयति ॥ १। ३। ५। १॥ २८ इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति विजित्यै । वाजस्य नु प्रसवे मातरं महीमित्याह । यच्चैवेयम् । यच्चास्यामधि । तदेवावरुन्धे । अथो तस्मिन्नेवोभयेऽभिषिच्यते । अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान्पल्पूलयति । अप्सु वा अश्वस्य तृतीयं प्रविष्टम् । तदनुवेनन्ववप्लवते । यदप्सु पल्पूलयति ॥ १। ३। ५। २॥ २९ यदेवास्याप्सु प्रविष्टम् । तदेवावरुन्धे । बहु वा अश्वोऽमेध्यमुपगच्छति । यदप्सु पल्पूलयति । मेध्यानेवैनान्करोति । वायुर्वा त्वा मनुर्वा त्वेत्याह । एता वा एतं देवता अग्रे अश्वमयुञ्जन् । ताभिरेवैनान् युनक्ति । सवस्योज्जित्यै । यजुषा युनक्ति व्यावृत्त्यै ॥ १। ३। ५। ३॥ ३० अपां न पादाशुहेमन्निति संमार्ष्टि । मेध्यानेवैनान्करोति । अथो स्तौत्येवैनानाजिꣳ सरिष्यतः । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमान् लोकानभिजयति । वैश्वदेवो वै रथः । अङ्कौ न्यङ्कावभितो रथं यावित्याह । या एव देवता रथे प्रविष्टाः । ताभ्य एव नमस्करोति । आत्मनोऽनार्त्यै । अशमरथं भावुकोऽस्य रथो भवति । य एवं वेद ॥ १। ३। ५। ४॥ स्वदयति पल्पूलयति व्यावृत्त्या अनार्त्यै द्वे च ॥ ५॥ ३१ देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषमित्याह । सवितृप्रसूत एव ब्रह्मणा वाजमुज्जयति । देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमित्याह । सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकꣳ रोहति । चात्वाले रथचक्रं निमितꣳ रोहति । अतो वा अंगिरस उत्तमाः सुवर्गं लोकमायन् । साक्षादेव यजमानः सुवर्गं लोकमेति । आवेष्टयति । वज्रो वै रथः । वज्रेणैव दिशोऽभि जयति ॥ १। ३। ६। १॥ ३२ वाजिनाꣳ साम गायते । अन्नं वै वाजः । अन्नमेवावरुन्धे । वाचो वर्ष्म देवेभ्योऽपाक्रामत् । तद्वनस्पतीन्प्राविशत् । सैषा वाग्वनस्पतिषु वदति । या दुन्दुभौ । तस्माद्दुन्दुभिः सर्वा वाचोऽतिवदति । दुन्दुभीन्थ्समाघ्नन्ति । परमा वा एषा वाक् ॥ १। ३। ६। २॥ ३३ या दुन्दुभौ । परमयैव वाचाऽवरां वाचमवरुन्धे । अथो वाच एव वर्ष्म यजमानोऽवरुन्धे । इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयिदित्याह । एष वा एतर्हीन्द्रः । यो यजते । यजमान एव वाजमुज्जयति । सप्तदश प्रव्याधानाजिं धावन्ति । सप्तदश२ꣳ स्तोत्रं भवति । सप्तदश सप्तदश दीयन्ते ॥ १। ३। ६। ३॥ ३४ सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । अर्वाऽसि सप्तिरसि वाज्यसीत्याह । अग्निर्वा अर्वा । वायुः सप्तिः । आदित्यो वाजी । एताभिरेवास्मै देवताभिर्देवरथं युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ॥ १। ३। ६। ४॥ ३५ वाजिनो वाजं धावत काष्ठां गच्छतेत्याह । सुवर्गो वै लोकः काष्ठा । सुवर्गमेव लोकं यन्ति । सुवर्गं वा एते लोकं यन्ति । य आजिं धावन्ति । प्राञ्चो धावन्ति । प्राङिव हि सुवर्गो लोकः । चतसृभिरनु मन्त्रयते । चत्वारि छन्दाꣳसि । छन्दोभिरेवैनान्थ्सुवर्गं लोकं गमयति ॥ १। ३। ६। ५॥ ३६ प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । य आजिं धावन्ति । उदञ्च आवर्तन्ते । अस्मादेव तेन लोकान्नयन्ति । रथविमोचनीयं जुहोति प्रतिष्ठित्यै । आमा वाजस्य प्रसवो जगम्यादित्याह । अन्नं वै वाजः । अन्नमेवावरुन्धे । यथालोकं वा एत उज्जयन्ति । य आजिं धावन्ति ॥ १। ३। ६। ६॥ ३७ कृष्णलं कृष्णलं वाजसृद्भ्यः प्रयच्छति । यमेव ते वाजं लोकमुज्जयन्ति । तं परिक्रीयावरुन्धे । एकधा ब्रह्मण उपहरति । एकधैव यजमाने वीर्यं दधाति । देवा वा ओषधीष्वाजिमयुः । ता बृहस्पतिरुदजयत् । स नीवारान्निरवृणीत । तन्नीवाराणां नीवारत्वम् । नैवारश्चरुर्भवति ॥ १। ३। ६। ७॥ ३८ एतद्वै देवानां परममन्नम् । यन्नीवाराः । परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्धे । सप्तदशशरावो भवति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । क्षीरे भवति । रुचमेवास्मिन्दधाति । सर्पिष्वान्भवति मेध्यत्वाय । बार्हस्पत्यो वा एष देवतया ॥ १। ३। ६। ८॥ ३९ यो वाजपेयेन यजते । बार्हस्पत्य एष चरुः । अश्वान्थ्सरिष्यतः सस्रुषश्चाव घ्रापयति । यमेव ते वाजं लोकमुज्जयन्ति । तमेवावरुन्धे । अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वमिति दुन्दुभीन्, विमुञ्चति । यमेव ते वाजं लोकमिन्द्रियं दुन्दुभय उज्जयन्ति । तमेवावरुन्धे ॥ १। ३। ६। ९॥ अभिजयति वा एषा वाग्दीयन्तेऽस्मै युनक्ति गमयति य आजिं धावन्ति भवति देवतयाऽष्टौ च ॥ ६॥ ४० तार्प्यं यजमानं परिधापयति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनꣳ समर्धयति । दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्येवैनम् । वाजं वा एषोऽवरुरुथ्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यद्दर्भमयं परिधापयति ॥ १। ३। ७। १॥ ४१ वाजस्यावरुद्ध्यै । जाय एहि सुवो रोहावेत्याह । पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्यै । सप्तदशारत्निर्यूपो भवति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै । तूपरश्चतुरश्रिर्भवति । गौधूमं चषालम् । न वा एते व्रीहयो न यवाः । यद्गोधूमाः ॥ १। ३। ७। २॥ ४२ एवमिव हि प्रजापतिः समृद्ध्यै । अथो अमुमेवास्मै लोकमन्नवन्तं करोति । वासोभिर्वेष्टयति । एष वै यजमानः । यद्यूपः । सर्वदेवत्यं वासः । सर्वाभिरेवैनं देवताभिः समर्धयति । अथो आक्रमणमेव तथ्सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । द्वादश वाजप्रसवीयानि जुहोति ॥ १। ३। ७। ३॥ ४३ द्वादश मासाः संवथ्सरः । संवथ्सरमेव प्रीणाति । अथो संवथ्सरमेवास्मा उपदधाति । सुवर्गस्य लोकस्य समष्ट्यै । दशभिः कल्पै रोहति । नव वै पुरुषे प्राणाः । नाभिर्दशमी । प्राणानेव यथास्थानं कल्पयित्वा । सुवर्गं लोकमेति । एतावद्वै पुरुषस्य स्वम् ॥ १। ३। ७। ४॥ ४४ यावत्प्राणाः । यावदेवास्यास्ति । तेन सह सुवर्गं लोकमेति । सुवर्देवाꣳ अगन्मेत्याह । सुवर्गमेव लोकमेति । अमृता अभूमेत्याह । अमृतमिव हि सुवर्गो लोकः । प्रजापतेः प्रजा अभूमेत्याह । प्राजापत्यो वा अयं लोकः । अस्मादेव तेन लोकान्नैति ॥ १। ३। ७। ५॥ ४५ समहं प्रजया सं मया प्रजेत्याह । आशिषमेवैतामाशास्ते । आसपुटैर्घ्नन्ति । अन्नं वा इयम् । अन्नाद्येनैवैनꣳ समर्धयन्ति । ऊषैर्घ्नन्ति । एते हि साक्षादन्नम् । यदूषाः । साक्षादेवैनमन्नाद्येन समर्धयन्ति । पुरस्तात्प्रत्यञ्चं घ्नन्ति ॥ १। ३। ७। ६॥ ४६ पुरस्ताद्धि प्रतीचीनमन्नमद्यते । शीर्षतो घ्नन्ति । शीर्षतो ह्यन्नमद्यते । दिग्भ्यो घ्नन्ति । दिग्भ्य एवास्मा अन्नाद्यमवरुन्धते । ईश्वरो वा एष पराङ्प्रदघः । यो यूपꣳ रोहति । हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । अमृतꣳ सुवर्गो लोकः । ४७ अमृत एव सुवर्गे लोके प्रतितिष्ठति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । पुष्ट्यै वा एतद्रूपम् । यदजा । त्रिः संवथ्सरस्यान्यान्पशून्परि प्रजायते । बस्ताजिनमध्यव रोहति । पुष्ट्यामेव प्रजनने प्रतितिष्ठति ॥ १। ३। ७। ७॥ परिधापयति गोधूमा जुहोति स्वं नैति प्रत्यञ्चं घ्नन्ति लोको नव च ॥ ७॥ ४८ सप्तान्नहोमाञ्जुहोति । सप्त वा अन्नानि । यावन्त्येवान्नानि । तान्येवावरुन्धे । सप्त ग्राम्या ओषधयः । सप्तारण्याः । उभयीषामवरुद्ध्यै । अन्नस्यान्नस्य जुहोति । अन्नस्यान्नस्यावरुद्ध्यै । यद्वाजपेययाज्यनव रुद्धस्याश्नीयात् ॥ १। ३। ८। १॥ ४९ अवरुद्धेन व्यृद्ध्येत । सर्वस्य समवदाय जुहोति । अनवरुद्धस्यावरुद्ध्यै । औदुम्बरेण स्रुवेण जुहोति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । देवस्य त्वा सवितुः प्रसव इत्याह । सवितृ प्रसूत एवैनं ब्रह्मणा देवताभिरभिषिञ्चति । अन्नस्यान्नस्याभिषिञ्चति । अन्नस्यान्नस्यावरुद्ध्यै ॥ १। ३। ८। २॥ ५० पुरस्तात् प्रत्यञ्चमभिषिञ्चति । पुरस्ताद्धि प्रतीचीनमन्नमद्यते । शीर्षतोऽभिषिञ्चति । शीर्षतो ह्यन्नमद्यते । आ मुखादन्वव स्रावयति । मुखत एवास्मा अन्नाद्यं दधाति । अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह । एष वा अग्नेः सवः । तेनैवैनमभिषिञ्चति । इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामीत्याह ॥ १। ३। ८। ३॥ ५१ इन्द्रियमेवास्मिन्नेतेन दधाति । बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनमभिषिञ्चति । सोमग्रहाग्श्चावदानीयानि चर्त्विग्भ्य उप हरन्ति । अमुमेव तैर्लोकमन्नवन्तं करोति । सुराग्रहाग्श्चानवदानीयानि च वाजसृद्भ्यः । इममेव तैर्लोकमन्नवन्तं करोति । अथो उभयीष्वेवाभिषिच्यते । विमाथं कुर्वते वाजसृतः ॥ १। ३। ८। ४॥ ५२ इन्द्रियस्यावरुद्ध्यै । अनिरुक्ताभिः प्रातःसवने स्तुवते । अनिरुक्तः प्रजापतिः । प्रजापतेराप्त्यै । वाजवतीभिर्माध्यन्दिने । अन्नं वै वाजः । अन्नमेवावरुन्धे । शिपिविष्टवतीभिस्तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति । बृहदन्त्यं भवति । अन्तमेवैनग्ग् श्रियै गमयति ॥ १। ३। ८। ५॥ अश्नीयादन्नस्यान्नस्यावरुद्ध्या इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामीत्याह वाजसृतः शिपिस्त्रीणि च ॥ ८॥ ५३ नृषदं त्वेत्याह । प्रजा वै नॄन् । प्रजानामेवैतेन सूयते । द्रुषदमित्याह । वनस्पतयो वै द्रु । वनस्पतीनामेवैतेन सूयते । भुवनसदमित्याह । यदा वै वसीयान्भवति । भुवनमगन्निति वै तमाहुः । भुवनमेवैतेन गच्छति ॥ १। ३। ९। १॥ ५४ अप्सुषदं त्वा घृतसदमित्याह । अपामेवैतेन घृतस्य सूयते । व्योमसदमित्याह । यदा वै वसीयान्भवति । व्योमागन्निति वै तमाहुः । व्योमैवैतेन गच्छति । पृथिविषदं त्वाऽन्तरिक्षसदमित्याह । एषामेवैतेन लोकानाꣳ सूयते । तस्माद्वाजपेययाजी न कं चन प्रत्यवरोहति । अपीव हि देवतानाꣳ सूयते ॥ १। ३। ९। २॥ ५५ नाकसदमित्याह । यदा वै वसीयान्भवति । नाकमगन्निति वै तमाहुः । नाकमेवैतेन गच्छति । ये ग्रहाः पञ्चजनीना इत्याह । पञ्चजनानामेवैतेन सूयते । अपाꣳ रसमुद्वयसमित्याह । अपामेवैतेन रसस्य सूयते । सूर्यरश्मिꣳ समाभृतमित्याह सशुक्रत्वाय ॥ १। ३। ९। ३॥ गच्छति सूयते नव च ॥ ९॥ ५६ इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । सोऽमावास्यां प्रत्यागच्छत् । ते पितरः पूर्वेद्युरागच्छन् । पितॄन्, यज्ञोऽगच्छत् । तं देवाः पुनरयाचन्त । तमेभ्यो न पुनरददुः । तेऽब्रुवन्वरं वृणामहै । अथ वः पुनर्दास्यामः । अस्मभ्यमेव पूर्वेद्युः क्रियाता इति ॥ १। ३। १०। १॥ ५७ तमेभ्यः पुनरददुः । तस्मात्पितृभ्यः पूर्वेद्युः क्रियते । यत्पितृभ्यः पूर्वेद्युः करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते । सोमाय पितृपीताय स्वधा नम इत्याह । पितुरेवाधि सोमपीथमवरुन्धे । न हि पिता प्रमीयमाण आहैष सोमपीथ इति । इन्द्रियं वै सोमपीथः । इन्द्रियमेव सोमपीथमवरुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यश्नुते ॥ १। ३। १०। २॥ ५८ एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामक्रन्न् । तस्मात्ते द्वेद्वे जाये अभ्याक्षत । य एवं वेद । अभि द्वितीयां जायामश्नुते । अग्नये कव्यवाहनाय स्वधा नम इत्याह । य एव पितृणामग्निः । तं प्रीणाति । तिस्र आहुतीर्जुहोति । त्रिर्निदधाति । षट्थ् संपद्यन्ते ॥ १। ३। १०। ३॥ ५९ षड्वा ऋतवः । ऋतूनेव प्रीणाति । तूष्णीं मेक्षणमादधाति । अस्ति वा हि षष्ठ ऋतुर्न वा । देवान्, वै पितॄन्प्रीतान् । मनुष्याः पितरोऽनु प्रपिपते । तिस्र आहुतीर्जुहोति । त्रिर्निदधाति । षट्थ् संपद्यन्ते । षड्वा ऋतवः ॥ १। ३। १०। ४॥ ६० ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान्पितॄन्प्रीणाति । तान्प्रीतान् । मनुष्याः पितरोऽनु प्रपिपते । सकृदाच्छिन्नं बर्हिर्भवति । सकृदिव हि पितरः । त्रिर्निदधाति । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । पराङावर्तते ॥ १। ३। १०। ५॥ ६१ ह्लीका हि पितरः । ओष्मणो व्यावृत उपास्ते । ऊष्मभागा हि पितरः । ब्रह्मवादिनो वदन्ति । प्राश्यां ३ न प्राश्या ३ मिति । यत्प्राश्नीयात् । जन्यमन्नमद्यात् । प्रमायुकः स्यात् । यन्न प्राश्नीयात् । अहविः स्यात् ॥ १। ३। १०। ६॥ ६२ पितृभ्य आवृश्च्येत । अवघ्रेयमेव । तन्नेव प्राशितं नेवाप्राशितम् । वीरं वा वै पितरः प्रयन्तो हरन्ति । वीरं वा ददति । दशां छिनत्ति । हरणभागा हि पितरः । पितॄनेव निरवदयते । उत्तर आयुषि लोम छिन्दीत । पितृणाग् ह्येतर्हि नेदीयः ॥ १। ३। १०। ७॥ ६३ नमस्करोति । नमस्कारो हि पितृणाम् । नमो वः पितरो रसाय । नमो वः पितरः शुष्माय । नमो वः पितरो जीवाय । नमो वः पितरः स्वधायै । नमो वः पितरो मन्यवे । नमो वः पितरो घोराय । पितरो नमो वः । य एतस्मिं ल्लोके स्थ ॥ १। ३। १०। ८॥ ६४ युष्माग् स्तेऽनु । येऽस्मिं ल्लोके । मां तेऽनु । य एतस्मिं ल्लोके स्थ । यूयं तेषां वसिष्ठा भूयास्त । येऽस्मिं ल्लोके । अहं तेषां वसिष्ठो भूयासमित्याह । वसिष्ठः समानानां भवति । य एवं विद्वान्पितृभ्यः करोति । एष वै मनुष्याणां यज्ञः ॥ १। ३। १०। ९॥ ६५ देवानां वा इतरे यज्ञाः । तेन वा एतत्पितृलोके चरति । यत्पितृभ्यः करोति । स ईश्वरः प्रमेतोः । प्राजापत्ययर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनरैति । न प्रमायुको भवति । पितृलोके वा एतद्यजमानश्चरति । यत्पितृभ्यः करोति । स ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वावैनं तत उन्नेतुमर्हतीत्याहुः । यत्प्राजापत्ययर्चा पुनरैति । प्रजापतिरेवैनं तत उन्नयति । नार्तिमार्छति यजमानः ॥ १। ३। १०। १०॥ इत्यश्नुते पद्यन्ते पद्यन्ते षड्वा ऋतवो वर्ततेऽहविः स्यान्नेदीयः स्थ यज्ञो यजमानश्चरति यत्पितृभ्यः करोति पञ्च च ॥ १०॥ देवासुरा अग्नीषोमयोर्देवा वै यथा दर्शं देवा वै यदन्यैर्ग्रहैर्ब्रह्मवादिनो नाग्निष्टोमो न सावित्रं देवस्याहं तार्प्यꣳ सप्तान्नहोमान्नृषदं त्वेन्द्रो वृत्रꣳ हत्वा दश ॥ १०॥ देवासुरा वाज्येवैनं तस्माद्वाजपेययाजी देवस्याहं वाजस्यावरुद्ध्या इन्द्रियमेवास्मिन् ह्लीका हि पितरः पञ्चषष्टिः ॥ ६५॥ देवासुरा यजमानः ॥

प्रथमाष्टके चतुर्थः प्रपाठकः ४

१ उभये वा एते प्रजापतेरध्यसृज्यन्त । देवाश्चासुराश्च । तान्न व्यजानात् । इमेऽन्य इमेऽन्य इति । स देवानꣳ शूनकरोत् । तानभ्यषुणोत् । तान्पवित्रेणापुनात् । तान्परस्तात्पवित्रस्य व्यगृह्णात् । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् ॥ १। ४। १। १॥ २ देवता वा एता यजमानस्य गृहे गृह्यन्ते । यद्ग्रहाः । विदुरेनं देवाः । यस्यैवं विदुष एते ग्रहा गृह्यन्ते । एषा वै सोमस्याहुतिः । यदुपाꣳशुः । सोमेन देवाग्स्तर्पयाणीति खलु वै सोमेन यजते । यदुपाꣳशुं जुहोति । सोमेनैव तद्देवाग्स्तर्पयति । यद्ग्रहाञ्जुहोति ॥ १। ४। १। २॥ ३ देवा एव तद्देवान्गच्छन्ति । यच्चमसाञ्जुहोति । तेनैवानुरूपेण यजमानः सुवर्गं लोकमेति । किं न्वेतदग्र आसीदित्याहुः । यत्पात्राणीति । इयं वा एतदग्र आसीत् । मृन्मयानि वा एतान्यासन् । तैर्देवा न व्यावृतमगच्छन् । त एतानि दारुमयाणि पात्राण्यपश्यन् । तान्यकुर्वत ॥ १। ४। १। ३॥ ४ तैर्वै ते व्यावृतमगच्छन् । यद्दारुमयाणि पात्राणि भवन्ति । व्यावृतमेव तैर्यजमानो गच्छति । यानि दारुमयाणि पात्राणि भवन्ति । अमुमेव तैर्लोकमभिजयति । यानि मृन्मयानि । इममेव तैर्लोकमभिजयति । ब्रह्मवादिनो वदन्ति । काश्चतस्रः स्थालीर्वायव्याः सोमग्रहणीरिति । देवा वै पृश्निमदुह्रन् ॥ १। ४। १। ४॥ ५ तस्या एते स्तना आसन् । इयं वै पृश्निः । तामादित्या आदित्यस्थाल्या चतुष्पदः पशूनदुह्रन् । यदादित्यस्थाली भवति । चतुष्पद एव तया पशून्, यजमान इमां दुहे । तामिन्द्र उक्थ्यस्थाल्येन्द्रियमदुहत् । यदुक्थ्यस्थाली भवति । इन्द्रियमेव तया यजमान इमां दुहे । तां विश्वे देवा आग्रयणस्थाल्योर्जमदुह्रन् । यदाग्रयणस्थाली भवति ॥ १। ४। १। ५॥ ६ ऊर्जमेव तया यजमान इमां दुहे । तां मनुष्या ध्रुवस्थाल्याऽऽयुरदुह्रन् । यद्ध्रुवस्थाली भवति । आयुरेव तया यजमान इमां दुहे । स्थाल्या गृह्णाति । वायव्येन जुहोति । तस्मादन्येन पात्रेण पशून्दुहन्ति । अन्येन प्रतिगृह्णन्ति । अथो व्यावृतमेव तद्यजमानो गच्छति ॥ १। ४। १। ६॥ ग्रहत्वं ग्रहाञ्जुहोत्यकुर्वतादुह्रन्नाग्रयणस्थाली भवति नव च ॥ १॥ ७ युवꣳ सुराममश्विना । नमुचावाऽसुरे सचा । विपिपाना शुभस्पती । इन्द्रं कर्मस्वावतम् । पुत्रमिव पितरावश्विनोभा । इन्द्रावतं कर्मणा दꣳसनाभिः । यथ्सुरामं व्यपिबः शचीभिः । सरस्वती त्वा मघवन्नभीष्णात् । अहाव्यग्ने हविरास्ये ते । स्रुचीव घृतं चमू इव सोमः ॥ १। ४। २। १॥ ८ वाजसनिꣳ रयिमस्मे सुवीरम् । प्रशस्तं धेहि यशसं बृहन्तम् । यस्मिन्नश्वास ऋषभास उक्षणः । वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे । हृदा मतिं जनय चारुमग्नये । नाना हि वां देवहितꣳ सदो मितम् । मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिꣳसीः स्वां योनिमाविशन् ॥ १। ४। २। २॥ ९ यदत्र शिष्टꣳ रसिनः सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमꣳ राजानमिह भक्षयामि । द्वे स्रुती अश‍ृणवं पितृणाम् । अहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ समेति । अन्तरा पूर्वमपरं च केतुम् । यस्ते देव वरुण गायत्रछन्दाः पाशः । तं त एतेनावयजे ॥ १। ४। २। ३॥ १० यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः । तं त एतेनावयजे । यस्ते देव वरुण जगतीछन्दाः पाशः । तं त एतेनावयजे । सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा सोमेन यजते । देवसुवामेतानि हवीꣳषि भवन्ति । एतावन्तो वै देवानाꣳ सवाः । त एवास्मै सवान्प्रयच्छन्ति । त एनं पुनः सुवन्ते राज्याय । देवसू राजा भवति ॥ १। ४। २। ४॥ सोम आविशन्, यजे राज्यायैकं च ॥ २॥ ११ उदस्थाद्देव्यदितिर्विश्वरूपी । आयुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागम् । मित्राय वरुणाय च । इयं वा अग्निहोत्री । इयं वा एतस्य निषीदति । यस्याग्निहोत्री निषीदति । तामुत्थापयेत् । उदस्थाद्देव्यदितिरिति । इयं वै देव्यदितिः ॥ १। ४। ३। १॥ १२ इमामेवास्मा उत्थापयति । आयुर्यज्ञपतावधादित्याह । आयुरेवास्मिन्दधाति । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेत्याह । यथा यजुरेवैतत् । अवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति । यस्याग्निहोत्र्युपसृष्टा निषीदति । तां दुग्ध्वा ब्राह्मणाय दद्यात् । यस्यान्नं नाद्यात् । अवर्तिमेवास्मिन्पाप्मानं प्रतिमुञ्चति ॥ १। ४। ३। २॥ १३ दुग्ध्वा ददाति । न ह्यदृष्टा दक्षिणा दीयते । पृथिवीं वा एतस्य पयः प्रविशति । यस्याग्निहोत्रं दुह्यमानग्ग् स्कन्दति । यदद्य दुग्धं पृथिवीमसक्त । यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु । पयो वथ्सेषु पयो अस्तु तन्मयीत्याह । पय एवात्मन्गृहेषु पशुषु धत्ते । अप उपसृजति ॥ १। ४। ३। ३॥ १४ अद्भिरेवैनदाप्नोति । यो वै यज्ञस्यार्तेनानार्तꣳ सꣳसृजति । उभे वै ते तर्ह्यार्छतः । आर्छति खलु वा एतदग्निहोत्रम् । यद्दुह्यमानग्ग् स्कन्दति । यदभिदुह्यात् । आर्तेनानार्तं यज्ञस्य सꣳसृजेत् । तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर् होतव्यम् । अनार्तेनैवार्तं यज्ञस्य निष्करोति ॥ १। ४। ३। ४॥ १५ यद्युद्द्रुतस्य स्कन्देत् । यत्ततोऽहुत्वा पुनरेयात् । यज्ञं विच्छिन्द्यात् । यत्र स्कन्देत् । तन्निषद्य पुनर्गृह्णीयात् । यत्रैव स्कन्दति । तत एवैनत्पुनर्गृह्णाति । तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर् होतव्यम् । अनार्तेनैवार्तं यज्ञस्य निष्करोति ॥ १। ४। ३। ५॥ १६ वि वा एतस्य यज्ञश्छिद्यते । यस्याग्निहोत्रेऽधिश्रिते श्वाऽन्तरा धावति । रुद्रः खलु वा एषः । यदग्निः । यद्गामन्वत्यावर्तयेत् । रुद्राय पशूनपिदध्यात् । अपशुर्यजमानः स्यात् । यदपोऽन्वतिषिञ्चेत् । अनाद्यमग्नेरापः । अनाद्यमाभ्यामपि दध्यात् । गार्हपत्याद्भस्मादाय । इदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽहवनीयाद्ध्वꣳसयन्नुद्द्रवेत् । यज्ञो वै विष्णुः । यज्ञेनैव यज्ञꣳ संतनोति । भस्मना पदमपि वपति शान्त्यै ॥ १। ४। ३। ६॥ वै देव्यदितिर्मुञ्चति सृजति करोति करोत्याभ्यामपि दध्यात्पञ्च च ॥ ३॥ १७ नि वा एतस्याहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभिनिम्रोचति । दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् । अथाग्निम् । अथाग्निहोत्रम् । यद्धिरण्यं पुरस्ताद्धरति । ज्योतिर्वै हिरण्यम् । ज्योतिरेवैनं पश्यन्नुद्धरति । यदग्निं पूर्वꣳ हरत्यथाग्निहोत्रम् ॥ १। ४। ४। १॥ १८ भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः । सर्वाभिरेवैनं देवताभिरुद्धरति । अग्निहोत्रमुपसाद्यातमितोरासीत । व्रतमेव हतमनु म्रियते । अन्तं वा एष आत्मनो गच्छति । यस्ताम्यति । अन्तमेष यज्ञस्य गच्छति । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभिनिम्रोचति ॥ १। ४। ४। २॥ १९ पुनः समन्य जुहोति । अन्तेनैवान्तं यज्ञस्य निष्करोति । वरुणो वा एतस्य यज्ञं गृह्णाति । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभिनिम्रोचति । वारुणं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । नि वा एतस्याहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभ्युदेति । चतुर्गृहीतमाज्यं पुरस्ताद्धरेत् ॥ १। ४। ४। ३॥ २० अथाग्निम् । अथाग्निहोत्रम् । यदाज्यं पुरस्ताद्धरति । एतद्वा अग्नेः प्रियं धाम । यदाज्यम् । प्रियेणैवैनं धाम्ना समर्धयति । यदग्निं पूर्वꣳ हरत्यथाग्निहोत्रम् । भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः ॥ १। ४। ४। ४॥ २१ सर्वाभिरेवैनं देवताभिरुद्धरति । पराची वा एतस्मै व्युच्छन्ती व्युच्छति । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभ्युदेति । उषाः केतुना जुषताम् । यज्ञं देवेभिरिन्वितम् । देवेभ्यो मधुमत्तमग्ग् स्वाहेति प्रत्यङ्ङ् निषद्याज्येन जुहुयात् । प्रतीचीमेवास्मै विवासयति । अग्निहोत्रमुपसाद्यातमितोरासीत । व्रतमेव हतमनु म्रियते । अन्तं वा एष आत्मनो गच्छति ॥ १। ४। ४। ५॥ २२ यस्ताम्यति । अन्तमेष यज्ञस्य गच्छति । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभ्युदेति । पुनः समन्य जुहोति । अन्तेनैवान्तं यज्ञस्य निष्करोति । मित्रो वा एतस्य यज्ञं गृह्णाति । यस्याग्निमनुद्धृतꣳ सूऱ्योऽभ्युदेति । मैत्रं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेत् ॥ १। ४। ४। ६॥ २३ यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यमस्मै जनयेत् । यद्वै यज्ञस्य वास्तव्यं क्रियते । तदनु रुद्रोऽवचरति । यत्पूर्वमन्ववस्येत् । वास्तव्यमग्निमुपासीत । रुद्रोऽस्य पशून्घातुकः स्यात् । आहवनीयमुद्वाप्य । गार्हपत्यं मन्थेत् ॥ १। ४। ४। ७॥ २४ इतः प्रथमं जज्ञे अग्निः । स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या । देवेभ्यो हव्यं वहतु प्रजानन्निति । छन्दोभिरेवैनग्ग् स्वाद्योनेः प्रजनयति । गार्हपत्यं मन्थति । गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते । स यदुद्वायति । तदनु पशवोऽप क्रामन्ति । इषे रय्यै रमस्व ॥ १। ४। ४। ८॥ २५ सहसे द्युम्नाय । ऊर्जे पत्यायेत्याह । पशवो वै रयिः । पशूनेवास्मै रमयति । सारस्वतौ त्वोथ्सौ समिन्धातामित्याह । ऋख्सामे वै सारस्वतावुथ्सौ । ऋख्सामाभ्यामेवैनꣳ समिन्धे । सम्राडसि विराडसीत्याह । रथन्तरं वै सम्राट् । बृहद्विराट् ॥ १। ४। ४। ९॥ २६ ताभ्यामेवैनꣳ समिन्धे । वज्रो वै चक्रम् । वज्रो वा एतस्य यज्ञं विच्छिनत्ति । यस्यानो वा रथो वाऽन्तराऽग्नी याति । आहवनीयमुद्वाप्य । गार्हपत्यादुद्धरेत् । यदग्ने पूर्वं प्रभृतं पदꣳ हि ते । सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनु संभरैतम् । सं नः सृज सुमत्या वाजवत्येति ॥ १। ४। ४। १०॥ २७ पूर्वेणैवास्य यज्ञेन यज्ञमनु सं तनोति । त्वमग्ने सप्रथा असीत्याह । अग्निः सर्वा देवताः । देवताभिरेव यज्ञꣳ सं तनोति । अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । अग्निमेव पथिकृतग्ग् स्वेन भागधेयेनोप धावति । स एवैनं यज्ञियं पन्थामपि नयति । अनड्वान्दक्षिणा । वही ह्येष समृद्ध्यै ॥ १। ४। ४। ११॥ हरत्यथाग्निहोत्रं निम्रोचति हरेद्देवता गच्छत्युद्वायेन्मन्थेद्रमस्व बृहद्विराडिति नव च ॥ ४॥ नि वै पूर्वं त्रीणि निम्रोचति दर्भेण यद्धिरण्यमग्निहोत्रं पुनर्वरुणो वारुणं नि वा एतस्याभ्युदेति चतुर्गृहीतमाज्यं यदाज्यं पराच्युषाः पुनर्मित्रो मैत्रं यस्याहवनीयेऽनुद्वाते गार्हपत्ये यद्वै ॥ २८ यस्य प्रातःसवने सोमोऽतिरिच्यते । माध्यन्दिनꣳ सवनं कामयमानोऽभ्यतिरिच्यते । गौर्धयति मरुतामिति धयद्वतीषु कुर्वन्ति । हिनस्ति वै सन्ध्यधीतम् । सन्धीव खलु वा एतत् । यथ्सवनस्यातिरिच्यते । यद्धयद्वतीषु कुर्वन्ति । सन्धेः शान्त्यै । गायत्रꣳ साम भवति पञ्चदशः स्तोमः । तेनैव प्रातःसवनान्न यन्ति ॥ १। ४। ५। १॥ २९ मरुत्वतीषु कुर्वन्ति । तेनैव माध्यन्दिनाथ्सवनान्न यन्ति । होतुश्चमसमनून्नयन्ते । होताऽनुशꣳसति । मध्यत एव यज्ञꣳ समादधाति । यस्य माध्यन्दिने सवने सोमोऽतिरिच्यते । आदित्यं तृतीयसवनं कामयमानोऽभ्यतिरिच्यते । गौरिवीतꣳ साम भवति । अतिरिक्तं वै गौरिवीतम् । अतिरिक्तं यथ्सवनस्यातिरिच्यते ॥ १। ४। ५। २॥ ३० अतिरिक्तस्य शान्त्यै । बण्महाꣳ असि सूर्येति कुर्वन्ति । यस्यैवादित्यस्य सवनस्य कामेनातिरिच्यते । तेनैवैनं कामेन समर्धयन्ति । गौरिवीतꣳ साम भवति । तेनैव माध्यन्दिनाथ्सवनान्न यन्ति । सप्तदशः स्तोमः । तेनैव तृतीयसवनान्न यन्ति । होतुश्चमसमनून्नयन्ते । होताऽनुशꣳसति ॥ १। ४। ५। ३॥ ३१ मध्यत एव यज्ञꣳ समादधाति । यस्य तृतीयसवने सोमोऽतिरिच्येत । उक्थ्यं कुर्वीत । यस्योक्थ्येऽतिरिच्येत । अतिरात्रं कुर्वीत । यस्यातिरात्रेऽतिरिच्यते । तत्त्वै दुष्प्रज्ञानम् । यजमानं वा एतत्पशव आसाह्य यन्ति । बृहथ्साम भवति । बृहद्वा इमान् लोकान्दाधार । बार्हताः पशवः । बृहतैवास्मै पशून्दाधार । शिपिविष्टवतीषु कुर्वन्ति । शिपिविष्टो वै देवानां पुष्टम् । पुष्ट्यैवैनꣳ समर्धयन्ति । होतुश्चमसमनून्नयन्ते । होताऽनुशꣳसति । मध्यत एव यज्ञꣳ समादधाति ॥ १। ४। ५। ४॥ यन्ति सवनस्यातिरिच्यते शꣳसति दाधाराष्टौ च ॥ ५॥ ३२ एकैको वै जनतायामिन्द्रः । एकं वा एताविन्द्रमभि सꣳसुनुतः । यौ द्वौ सꣳसुनुतः । प्रजापतिर्वा एष वितायते । यद्यज्ञः । तस्य ग्रावाणो दन्ताः । अन्यतरं वा एते सꣳसुन्वतोर्निर्बप्सति । पूर्वेणोपसृत्या देवता इत्याहुः । पूर्वोपसृतस्य वै श्रेयान्भवति । एतिवन्त्याज्यानि भवन्त्यभिजित्यै ॥ १। ४। ६। १॥ ३३ मरुत्वतीः प्रतिपदः । मरुतो वै देवानामपराजितमायतनम् । देवानामेवापराजित आयतने यतते । उभे बृहद्रथन्तरे भवतः । इयं वाव रथन्तरम् । असौ बृहत् । आभ्यामेवैनमन्तरेति । वाचश्च मनसश्च । प्राणाच्चापानाच्च । दिवश्च पृथिव्याश्च ॥ १। ४। ६। २॥ ३४ सर्वस्माद्वित्ताद्वेद्यात् । अभिवर्तो ब्रह्मसामं भवति । सुवर्गस्य लोकस्याभिवृत्त्यै । अभिजिद्भवति । सुवर्गस्य लोकस्याभिजित्यै । विश्वजिद्भवति । विश्वस्य जित्यै । यस्य भूयाꣳसो यज्ञक्रतव इत्याहुः । स देवता वृङ्क्त इति । यद्यग्निष्टोमः सोमः परस्ताथ्स्यात् ॥ १। ४। ६। ३॥ ३५ उक्थ्यं कुर्वीत । यद्युक्थ्यः स्यात् । अतिरात्रं कुर्वीत । यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते । यो वै छन्दोभिरभिभवति । स सꣳसुन्वतोरभिभवति । संवेशाय त्वोपवेशाय त्वेत्याह । छन्दाꣳसि वै संवेश उपवेशः । छन्दोभिरेवास्य छन्दाग्स्यभिभवति । इष्टर्गो वा ऋत्विजामध्वर्युः ॥ १। ४। ६। ४॥ ३६ इष्टर्गः खलु वै पूर्वोऽर्ष्टुः, क्षीयते । प्राणापानौ मृत्योर्मा पातमित्याह । प्राणापानयोरेव श्रयते । प्राणापानौ मा मा हासिष्टमित्याह । नैनं पुराऽऽयुषः प्राणापानौ जहितः । आर्तिं वा एते नियन्ति । येषां दीक्षितानां प्रमीयते । तं यदववर्जेयुः । क्रूरकृतामिवैषां लोकः स्यात् । आहर दहेति ब्रूयात् ॥ १। ४। ६। ५॥ ३७ तं दक्षिणतो वेद्यै निधाय । सर्पराज्ञिया ऋग्भिः स्तुयुः । इयं वै सर्पतो राज्ञी । अस्या एवैनं परिददति । व्यृद्धं तदित्याहुः । यथ्स्तुतमननुशस्तमिति । होता प्रथमः प्राचीनावीती मार्जालीयं परीयात् । यामीरनुब्रुवन् । सर्पराज्ञीनां कीर्तयेत् । उभयोरेवैनं लोकयोः परिददति ॥ १। ४। ६। ६॥ ३८ अथो धुवन्त्येवैनम् । अथो न्येवास्मै ह्नुवते । त्रिः परियन्ति । त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट्थ् संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते । अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् । रथन्तरसामैषाꣳ सोमः स्यात् । आयुरेवात्मन्दधते । अथो पाप्मानमेव विजहतो यन्ति ॥ १। ४। ६। ७॥ अभिजित्यै पृथिव्याश्च स्यादध्वर्युर्ब्रूयाल्लोकयोः परिददति कुर्वीरग्ग् स्त्रीणि च ॥ ६॥ ३९ असुर्यं वा एतस्माद्वर्णं कृत्वा । पशवो वीर्यमपक्रामन्ति । यस्य यूपो विरोहति । त्वाष्ट्रं बहुरूपमालभेत । त्वष्टा वै रूपाणामीशे । य एव रूपाणामीशे । सोऽस्मिन्पशून्, वीर्यं यच्छति । नास्मात्पशवो वीर्यमप क्रामन्ति । आर्तिं वा एते नियन्ति । येषां दीक्षितानामग्निरुद्वायति ॥ १। ४। ७। १॥ ४० यदाहवनीय उद्वायेत् । यत्तं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यमस्मै जनयेत् । यदाहवनीय उद्वायेत् । आग्नीद्ध्रादुद्धरेत् । यदाग्नीद्ध्र उद्वायेत् । गार्हपत्यादुद्धरेत् । यद्गार्हपत्य उद्वायेत् । अत एव पुनर्मन्थेत् ॥ १। ४। ७। २॥ ४१ अत्र वाव स निलयते । यत्र खलु वै निलीनमुत्तमं पश्यन्ति । तदेनमिच्छन्ति । यस्माद्दारोरुद्वायेत् । तस्यारणी कुर्यात् । क्रुमुकमपि कुर्यात् । एषा वा अग्नेः प्रिया तनूः । यत्क्रुमुकः । प्रिययैवैनं तनुवा समर्धयति । गार्हपत्यं मन्थति ॥ १। ४। ७। ३॥ ४२ गार्हपत्यो वा अग्नेऱ्योनिः । स्वादेवैनं योनेर्जनयति । नास्मै भ्रातृव्यं जनयति । यस्य सोम उपदस्येत् । सुवर्णꣳ हिरण्यं द्वेधा विच्छिद्य । ऋजीषेऽन्यदा धूनुयात् । जुहुयादन्यत् । सोममेवाभिषुणोति । सोमं जुहोति । सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् ॥ १। ४। ७। ४॥ ४३ तथ्सुवर्णꣳ हिरण्यमभवत् । यथ्सुवर्णꣳ हिरण्यं कुर्वन्ति । प्रिययैवैनं तनुवा समर्धयन्ति । यस्याक्रीतꣳ सोममपहरेयुः । क्रीणीयादेव । सैव ततः प्रायश्चित्तिः । यस्य क्रीतमपहरेयुः । आदाराग्श्च फाल्गुनानि चाभिषुणुयात् । गायत्री यꣳ सोममाहरत् । तस्य योऽꣳशुः पराऽपतत् ॥ १। ४। ७। ५॥ ४४ त आदारा अभवन् । इन्द्रो वृत्रमहन् । तस्य वल्कः पराऽपतत् । तानि फाल्गुनान्यभवन् । पशवो वै फाल्गुनानि । पशवः सोमो राजा । यदादाराग्श्च फाल्गुनानि चाभिषुणोति । सोममेव राजानमभिषुणोति । श‍ृतेन प्रातःसवने श्रीणीयात् । दध्ना मध्यन्दिने ॥ १। ४। ७। ६॥ ४५ नीतमिश्रेण तृतीयसवने । अग्निष्टोमः सोमः स्याद्रथन्तरसामा । य एवर्त्विजो वृताः स्युः । त एनं याजयेयुः । एकां गां दक्षिणां दद्यात्तेभ्य एव । पुनः सोमं क्रीणीयात् । यज्ञेनैव तद्यज्ञमिच्छति । सैव ततः प्रायश्चित्तिः । सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते । यः सत्त्रायागुरते । एतावान्खलु वै पुरुषः । यावदस्य वित्तम् । सर्ववेदसेन यजेत । सर्वपृष्ठोऽस्य सोमः स्यात् । सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीते ॥ १। ४। ७। ७॥ उद्वायति मन्थेन्मन्थत्यक्रामत्पराऽपतन्मध्यन्दिन आगुरते पञ्च च ॥ ७॥ ४६ पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूꣳरनु ॥ १। ४। ८। १॥ ४७ यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तः सध माद्येषु । वय२ꣳ स्याम पतयो रयीणाम् ॥ १। ४। ८। २॥ ४८ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा ॥ १। ४। ८। ३॥ ४९ इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिः संभृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना । पावमानीऱ्यो अध्येति । ऋषिभिः संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकम् । पावमानीः स्वस्त्ययनीः ॥ १। ४। ८। ४॥ ५० सुदुघा हि पयस्वतीः । ऋषिभिः संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैः समाभृताः । पावमानीः स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिः संभृतो रसः ॥ १। ४। ८। ५॥ ५१ ब्राह्मणेष्वमृतꣳ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु ॥ १। ४। ८। ६॥ अनु रयीणां ब्रह्मणा स्वस्त्ययनीः सुदुघा हि घृतश्चुत ऋषिभिः संभृतो रसः पुनातु त्रीणि च ॥ ८॥ ५२ प्रजा वै सत्रमासत तपस्तप्यमाना अजुह्वतीः । देवा अपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेनार्धमास ऊर्जमवारुन्धत । तस्मादर्धमासे देवा इज्यन्ते । पितरोऽपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेन मास्यूर्जमवारुन्धत । तस्मान्मासि पितृभ्यः क्रियते । मनुष्या अपश्यञ्चमसं घृतस्य पूर्णग्ग् स्वधाम् ॥ १। ४। ९। १॥ ५३ तमुपोदतिष्ठन्तमजुहवुः । तेन द्वयीमूर्जमवारुन्धत । तस्माद्द्विरह्नो मनुष्येभ्य उप ह्रियते । प्रातश्च सायं च । पशवोऽपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधाम् । तमुपोदतिष्ठन्तमजुहवुः । तेन त्रयीमूर्जमवारुन्धत । तस्मात्त्रिरह्नः पशवः प्रेरते । प्रातः सङ्गवे सायम् । असुरा अपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधाम् ॥ १। ४। ९। २॥ ५४ तमुपोदतिष्ठन्तमजुहवुः । तेन संवथ्सर ऊर्जमवारुन्धत । ते देवा अमन्यन्त । अमी वा इदमभूवन् । यद्वय२ꣳस्म इति । त एतानि चातुर्मास्यान्यपश्यन् । तानि निरवपन् । तैरेवैषां तामूर्जमवृञ्जत । ततो देवा अभवन् । पराऽसुराः ॥ १। ४। ९। ३॥ ५५ यद्यजते । यामेव देवा ऊर्जमवारुन्धत । तां तेनावरुन्धे । यत्पितृभ्यः करोति । यामेव पितर ऊर्जमवारुन्धत । तां तेनावरुन्धे । यदावसथेऽन्नꣳ हरन्ति । यामेव मनुष्या ऊर्जमवारुन्धत । तां तेनावरुन्धे । यद्दक्षिणां ददाति ॥ १। ४। ९। ४॥ ५६ यामेव पशव ऊर्जमवारुन्धत । तां तेनावरुन्धे । यच्चातुर्मास्यैर्यजते । यामेवासुरा ऊर्जमवारुन्धत । तां तेनावरुन्धे । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति । विराजो वा एषा विक्रान्तिः । यच्चातुर्मास्यानि । वैश्वदेवेनास्मिं ल्लोके प्रत्यतिष्ठत् । वरुणप्रघासैरन्तरिक्षे । साकमेधैरमुष्मिं ल्लोके । एष हत्वावै तथ्सर्वं भवति । य एवं विद्वाग्श्चातुर्मास्यैर्यजते ॥ १। ४। ९। ५॥ मनुष्या अपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधामसुरा अपश्यञ्चमसं घृतस्य पूर्ण२ꣳ स्वधामसुरा ददात्यतिष्ठच्चत्वारि च ॥ ९॥ ५७ अग्निर्वाव संवथ्सरः । आदित्यः परिवथ्सरः । चन्द्रमा इदावथ्सरः । वायुरनुवथ्सरः । यद्वैश्वदेवेन यजते । अग्निमेव तथ्संवथ्सरमाप्नोति । तस्माद्वैश्वदेवेन यजमानः । संवथ्सरीणाग् स्वस्तिमाशास्त इत्याशासीत । यद्वरुणप्रघासैर्यजते । आदित्यमेव तत्परिवथ्सरमाप्नोति ॥ १। ४। १०। १॥ ५८ तस्माद्वरुणप्रघासैर्यजमानः । परिवथ्सरीणाग् स्वस्तिमाशास्त इत्याशासीत । यथ्साकमेधैर्यजते । चन्द्रमसमेव तदिदावथ्सरमाप्नोति । तस्माथ्साकमेधैर्यजमानः । इदावथ्सरीणाग् स्वस्तिमाशास्त इत्याशासीत । यत्पितृयज्ञेन यजते । देवानेव तदन्ववस्यति । अथ वा अस्य वायुश्चानुवथ्सरश्चाप्रीतावुच्छिष्येते । यच्छुनासीरीयेण यजते ॥ १। ४। १०। २॥ ५९ वायुमेव तदनुवथ्सरमाप्नोति । तस्माच्छुनासीरीयेण यजमानः । अनुवथ्सरीणाग् स्वस्तिमाशास्त इत्याशासीत । संवथ्सरं वा एष ईप्सतीत्याहुः । यश्चातुर्मास्यैर्यजत इति । एष ह त्वै संवथ्सरमाप्नोति । य एवं विद्वाग्श्चातुर्मास्यैर्यजते । विश्वे देवाः समयजन्त । तेऽग्निमेवायजन्त । त एतं लोकमजयन् ॥ १। ४। १०। ३॥ ६० यस्मिन्नग्निः । यद्वैश्वदेवेन यजते । एतमेव लोकं जयति । यस्मिन्नग्निः । अग्नेरेव सायुज्यमुपैति । यदा वैश्वदेवेन यजते । अथ संवथ्सरस्य गृहपतिमाप्नोति । यदा संवथ्सरस्य गृहपतिमाप्नोति । अथ सहस्रयाजिनमाप्नोति । यदा सहस्रयाजिनमाप्नोति ॥ १। ४। १०। ४॥ ६१ अथ गृहमेधिनमाप्नोति । यदा गृहमेधिनमाप्नोति । अथाग्निर्भवति । यदाऽग्निर्भवति । अथ गौर्भवति । एषा वै वैश्वदेवस्य मात्रा । एतद्वा एतेषामवमम् । अतोऽतो वा उत्तराणि श्रेयाꣳसि भवन्ति । यद्विश्वे देवाः समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वम् ॥ १। ४। १०। ५॥ ६२ अथादित्यो वरुणꣳ राजानं वरुणप्रघासैरयजत । स एतं लोकमजयत् । यस्मिन्नादित्यः । यद्वरुणप्रघासैर्यजते । एतमेव लोकं जयति । यस्मिन्नादित्यः । आदित्यस्यैव सायुज्यमुपैति । यदादित्यो वरुणꣳ राजानं वरुणप्रघासैरयजत । तद्वरुणप्रघासानां वरुणप्रघासत्वम् । अथ सोमो राजा छन्दाꣳसि साकमेधैरयजत ॥ १। ४। १०। ६॥ ६३ स एतं लोकमजयत् । यस्मिग्ग्श्चन्द्रमा विभाति । यथ्साकमेधैर्यजते । एतमेव लोकं जयति । यस्मिग्ग्श्चन्द्रमा विभाति । चन्द्रमस एव सायुज्यमुपैति । सोमो वै चन्द्रमाः । एष ह त्वै साक्षाथ्सोमं भक्षयति । य एवं विद्वान्थ्साकमेधैर्यजते । यथ्सोमश्च राजा छन्दाꣳसि च समैधन्त ॥ १। ४। १०। ७॥ ६४ तथ्साकमेधानाꣳ साकमेधत्वम् । अथर्तवः पितरः प्रजापतिं पितरं पितृयज्ञेनायजन्त । त एतं लोकमजयन् । यस्मिन्नृतवः । यत्पितृयज्ञेन यजते । एतमेव लोकं जयति । यस्मिन्नृतवः । ऋतूनामेव सायुज्यमुपैति । यदृतवः पितरः प्रजापतिं पितरं पितृयज्ञेनायजन्त । तत्पितृयज्ञस्य पितृयज्ञत्वम् ॥ १। ४। १०। ८॥ ६५ अथौषधय इमं देवं त्र्यम्बकैरयजन्त प्रथेमहीति । ततो वै ता अप्रथन्त । य एवं विद्वाग्स्त्र्यम्बकैर्यजते । प्रथते प्रजया पशुभिः । अथ वायुः परमेष्ठिनꣳ शुनासीरीयेणायजत । स एतं लोकमजयत् । यस्मिन्वायुः । यच्छुनासीरीयेण यजते । एतमेव लोकं जयति । यस्मिन्वायुः ॥ १। ४। १०। ९॥ ६६ वायोरेव सायुज्यमुपैति । ब्रह्मवादिनो वदन्ति । प्र चातुर्मास्ययाजी मीयता ३ न प्रमीयता ३ इति । जीवन्वा एष ऋतूनप्येति । यदि वसन्ता प्रमीयते । वसन्तो भवति । यदि ग्रीष्मे ग्रीष्मः । यदि वर्षासु वर्षाः । यदि शरदि शरत् । यदि हेमन् हेमन्तः । ऋतुर्भूत्वा संवथ्सरमप्येति । संवथ्सरः प्रजापतिः । प्रजापतिर्वावैषः ॥ १। ४। १०। १०॥ परिवथ्सरमाप्नोति शुनासीरीयेण यजतेऽजयन्थ्सहस्रयाजिनमाप्नोति वैश्वदेवत्वꣳ साकमेधैरयजत समैधन्त पितृयज्ञत्वं जयति यस्मिन्वायुर्हेमन्तस्त्रीणि च ॥ १०॥ उभये युवꣳ सुराममुदस्थान्नि वै यस्य प्रातःसवन एकैकोऽसुर्यं पवमानः प्रजा वै सत्रमासताग्निर्वाव संवथ्सरो दश ॥ १०॥ उभये वा उदस्थाथ्सर्वाभिर्मध्यतोऽत्र वाव ब्राह्मणेष्वथ गृहमेधिनꣳ षट्थ् षष्टिः ॥ ६६॥ उभये वा वैषः ॥

प्रथमाष्टके पञ्चमः प्रपाठकः ५

१ अग्नेः कृत्तिकाः । शुक्रं परस्ताज्ज्योतिरवस्तात् । प्रजापते रोहिणी । आपः परस्तादोषधयोऽवस्तात् । सोमस्येन्वका विततानि । परस्ताद्वयन्तोऽवस्तात् । रुद्रस्य बाहू । मृगयवः परस्ताद्विक्षारोऽवस्तात् । अदित्यै पुनर्वसू । वातः परस्तादार्द्रमवस्तात् ॥ १। ५। १। १॥ २ बृहस्पतेस्तिष्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । सर्पाणामाश्रेषाः । अभ्यागच्छन्तः परस्तादभ्यानृत्यन्तोऽवस्तात् । पितृणां मघाः । रुदन्तः परस्तादपभ्रꣳशोऽवस्तात् । अर्यम्णः पूर्वे फल्गुनी । जाया परस्तादृषभोऽवस्तात् । भगस्योत्तरे । वहतवः परस्ताद्वहमाना अवस्तात् ॥ १। ५। १। २॥ ३ देवस्य सवितुर्हस्तः । प्रसवः परस्ताथ्सनिरवस्तात् । इन्द्रस्य चित्रा । ऋतं परस्ताथ्सत्यमवस्तात् । वायोर्निष्ट्या व्रततिः । परस्तादसिद्धिरवस्तात् । इन्द्राग्नियोर्विशाखे । युगानि परस्तात्कृषमाणा अवस्तात् । मित्रस्यानूराधाः । अभ्यारोहत्परस्तादभ्यारूढमवस्तात् ॥ १। ५। १। ३॥ ४ इन्द्रस्य रोहिणी । श‍ृणत्परस्तात्प्रतिश‍ृणदवस्तात् । निरृत्यै मूलवर्हणी । प्रतिभञ्जन्तः परस्तात्प्रतिश‍ृणन्तोऽवस्तात् । अपां पूर्वा अषाढाः । वर्चः परस्ताथ्समितिरवस्तात् । विश्वेषां देवानामुत्तराः । अभिजयत्परस्तादभिजितमवस्तात् । विष्णोः श्रोणा पृच्छमानाः । परस्तात्पन्था अवस्तात् ॥ १। ५। १। ४॥ ५ वसूनाग् श्रविष्ठाः । भूतं परस्ताद्भूतिरवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद्विश्वक्षितिरवस्तात् । अजस्यैकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । अहेर्बुध्नियस्योत्तरे । अभिषिञ्चन्तः परस्तादभिषुण्वन्तोऽवस्तात् । पूष्णो रेवती । गावः परस्ताद्वथ्सा अवस्तात् । अश्विनोरश्वयुजौ । ग्रामः परस्ताथ्सेनाऽवस्तात् । यमस्यापभरणीः । अपकर्षन्तः परस्तादपवहन्तोऽवस्तात् । पूर्णा पश्चाद्यत्ते देवा अदधुः ॥ १। ५। १। ५॥ आर्द्रमवस्ताद्वहमाना अवस्तादभ्यारूढमवस्तात्पन्था अवस्ताद्वथ्सा अवस्तात्पञ्च च ॥ १॥ ६ यत्पुण्यं नक्षत्रम् । तद्बट् कुर्वीतोपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्त्रं नैति । यावति तत्र सूऱ्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवꣳ ह वै यज्ञेषुं च शतद्युम्नं च माथ्स्यो निरवसाययाञ्चकार ॥ १। ५। २। १॥ ७ यो वै नक्षत्त्रियं प्रजापतिं वेद । उभयोरेनं लोकयोर्विदुः । हस्त एवास्य हस्तः । चित्रा शिरः । निष्ट्या हृदयम् । ऊरू विशाखे । प्रतिष्ठाऽनूराधाः । एष वै नक्षत्त्रियः प्रजापतिः । य एवं वेद । उभयोरेनं लोकयोर्विदुः ॥ १। ५। २। २॥ ८ अस्मि२ꣳश्चामुष्मिग्ग्श्च । यां कामयेत दुहितरं प्रिया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नैव तु पुनरागच्छति । अभिजिन्नाम नक्षत्त्रम् । उपरिष्टादषाढानाम् । अवस्ताच्छ्रोणायै । देवासुराः संयत्ता आसन् । ते देवास्तस्मिन्नक्षत्त्रेऽभ्यजयन् ॥ १। ५। २। ३॥ ९ यदभ्यजयन् । तदभिजितोऽभिजित्त्वम् । यं कामयेतानपजय्यं जयेदिति । तमेतस्मिन्नक्षत्त्रे यातयेत् । अनपजय्यमेव जयति । पापपराजितमिव तु । प्रजापतिः पशूनसृजत । ते नक्षत्त्रं नक्षत्त्रमुपातिष्ठन्त । ते समावन्त एवाभवन् । ते रेवतीमुपातिष्ठन्त ॥ १। ५। २। ४॥ १० ते रेवत्यां प्राभवन् । तस्माद्रेवत्यां पशूनां कुर्वीत । यत्किं चार्वाचीनꣳ सोमात् । प्रैव भवन्ति । सलिलं वा इदमन्तरासीत् । यदतरन् । तत्तारकाणां तारकत्वम् । यो वा इह यजते । अमुꣳ सलोकं नक्षते । तन्नक्षत्त्राणां नक्षत्त्रत्वम् ॥ १। ५। २। ५॥ ११ देवगृहा वै नक्षत्त्राणि । य एवं वेद । गृह्येव भवति । यानि वा इमानि पृथिव्याश्चित्राणि । तानि नक्षत्त्राणि । तस्मादश्लीलनाम२ꣳश्चित्रे । नावस्येन्न यजेत । यथा पापाहे कुरुते । तादृगेव तत् । देवनक्षत्त्राणि वा अन्यानि ॥ १। ५। २। ६॥ १२ यमनक्षत्त्राण्यन्यानि । कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्त्राणि । अनूराधाः प्रथमम् । अपभरणीरुत्तमम् । तानि यमनक्षत्त्राणि । यानि देवनक्षत्त्राणि । तानि दक्षिणेन परियन्ति । यानि यमनक्षत्त्राणि ॥ १। ५। २। ७॥ १३ तान्युत्तरेण । अन्वेषामराथ्स्मेति । तदनूराधाः । ज्येष्ठमेषामवधिष्मेति । तज्ज्येष्ठघ्नी । मूलमेषामवृक्षामेति । तन्मूलवर्हणी । यन्नासहन्त । तदषाढाः । यदश्लोणत् ॥ १। ५। २। ८॥ १४ तच्छ्रोणा । यदश‍ृणोत् । तच्छ्रविष्ठाः । यच्छतमभिषज्यन् । तच्छतभिषक् । प्रोष्ठपदेषूदयच्छन्त । रेवत्यामरवन्त । अश्वयुजोरयुञ्जत । अपभरणीष्वपावहन् । तानि वा एतानि यमनक्षत्त्राणि । यान्येव देवनक्षत्त्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते ॥ १। ५। २। ९॥ चकारैवं वेदोभयोरेनं लोकयोर्विदुरजयन्रेवतीमुपातिष्ठन्त नक्षत्त्रत्वमन्यानि यानि यमनक्षत्त्राण्यश्लोणद्यमनक्षत्त्राणि त्रीणि च ॥ २॥ १५ देवस्य सवितुः प्रातः प्रसवः प्राणः । वरुणस्य सायमासवोऽपानः । यत्प्रतीचीनं प्रातस्तनात् । प्राचीनꣳ संगवात् । ततो देवा अग्निष्टोमं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । मित्रस्य संगवः । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि पशवः समायन्ति । यत्प्रतीचीनꣳ संगवात् ॥ १। ५। ३। १॥ १६ प्राचीनं मध्यन्दिनात् । ततो देवा उक्थ्यं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । बृहस्पतेर्मध्यन्दिनः । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि तेक्ष्णिष्ठं तपति । यत्प्रतीचीनं मध्यन्दिनात् । प्राचीनमपराह्णात् । ततो देवाः षोडशिनं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः ॥ १। ५। ३। २॥ १७ भगस्यापराह्णः । तत्पुण्यं तेजस्व्यहः । तस्मादपराह्णे कुमाऱ्यो भगमिच्छमानाश्चरन्ति । यत्प्रतीचीनमपराह्णात् । प्राचीनꣳ सायात् । ततो देवा अतिरात्रं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । वरुणस्य सायम् । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि नानृतं वदेत् ॥ १। ५। ३। ३॥ १८ ब्राह्मणो वा अष्टाविꣳशो नक्षत्राणाम् । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । यच्च परस्तान्नक्षत्राणां यच्चावस्तात् । तान्येकादश । ब्राह्मणो द्वादशः । य एवं विद्वान्थ्संवथ्सरं व्रतं चरति । संवथ्सरेणैवास्य व्रतं गुप्तं भवति । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । आग्नेयी रात्रिः । ऐन्द्रमहः । तान्येकादश । आदित्यो द्वादशः । य एवं विद्वान्थ्संवथ्सरं व्रतं चरति । संवथ्सरेणैवास्य व्रतं गुप्तं भवति ॥ १। ५। ३। ४॥ संगवात्षोडशिनं निरमिमत तत्तदात्तवीर्यं निर्मार्गो वदेद्भवति समानस्याह्नः पञ्च पुण्यानि नक्षत्राण्यष्टौ च ॥ ३॥ १९ ब्रह्मवादिनो वदन्ति । कति पात्राणि यज्ञं वहन्तीति । त्रयोदशेति ब्रूयात् । स यद्ब्रूयात् । कस्तानि निरमिमीतेति । प्रजापतिरिति ब्रूयात् । स यद्ब्रूयात् । कुतस्तानि निरमिमीतेति । आत्मन इति । प्राणापानाभ्यामेवोपाग्श्वन्तर्यामौ निरमिमीत ॥ १। ५। ४। १॥ २० व्यानादुपाꣳशुसवनम् । वाच ऐन्द्रवायवम् । दक्षक्रतुभ्यां मैत्रावरुणम् । श्रोत्रादाश्विनम् । चक्षुषः शुक्रामन्थिनौ । आत्मन आग्रयणम् । अङ्गेभ्य उक्थ्यम् । आयुषो ध्रुवम् । प्रतिष्ठाया ऋतुपात्रे । यज्ञं वाव तं प्रजापतिर्निरमिमीत । स निर्मितो नाद्ध्रियत समव्लीयत । स एतान्प्रजापतिरपिवापानपश्यत् । तान्निरवपत् । तैर्वै स यज्ञमप्यवपत् । यदपिवापा भवन्ति । यज्ञस्य धृत्या असंव्लयाय ॥ १। ५। ४। २॥ उपाग्श्वन्तर्यामौ निरमिमीतामिमीत षट् च ॥ ४॥ २१ ऋतमेव परमेष्ठि । ऋतं नात्येति किं चन । ऋते समुद्र आहितः । ऋते भूमिरिय२ꣳ श्रिता । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये ॥ १। ५। ५। १॥ २२ तपसाऽस्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तथ्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यद्घर्मः पर्यवर्तयत् । अन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह ॥ १। ५। ५। २॥ २३ इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये ॥ १। ५। ५। ३॥ २४ तदृतं तथ्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यो अस्याः पृथिव्यास्त्वचि । निवर्तयत्योषधीः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा ॥ १। ५। ५। ४॥ २५ शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तथ्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् ॥ १। ५। ५। ५॥ २६ एकं मासमुदसृजत् । परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहत् । अमृतं मर्त्याभ्यः । प्रजामनु प्रजायसे । तदु ते मर्त्यामृतम् । येन मासा अर्धमासाः । ऋतवः परिवथ्सराः । येन ते ते प्रजापते । ईजानस्य न्यवर्तयन् ॥ १। ५। ५। ६॥ २७ तेनाहमस्य ब्रह्मणा । निवर्तयामि जीवसे । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तथ्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् ॥ १। ५। ५। ७॥ परिवर्तये सहाभिवर्तय उष्णिहा राध्यासं न्यवर्तयन्नुपवर्तये चत्वारि च ॥ ५॥ २८ देवा वै यद्यज्ञेऽकुर्वत । तदसुरा अकुर्वत । तेऽसुरा ऊर्ध्वं पृष्ठेभ्यो नापश्यन् । ते केशानग्रेऽवपन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस्तेऽवाञ्च आयन् । पराऽभवन् । यस्यैवं वपन्ति । अवाङेति ॥ १। ५। ६। १॥ २९ अथो परैव भवति । अथ देवा ऊर्ध्वं पृष्ठेभ्योऽपश्यन् । त उपपक्षावग्रेऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस्तेऽभवन् । सुवर्गं लोकमायन् । यस्यैवं वपन्ति । भवत्यात्मना । अथो सुवर्गं लोकमेति ॥ १। ५। ६। २॥ ३० अथैतन्मनुर्वप्त्रे मिथुनमपश्यत् । स श्मश्रूण्यग्रेऽवपत । अथोपपक्षौ । अथ केशान् । ततो वै स प्राजायत प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनैर्जायते । देवासुराः संयत्ता आसन् । ते संवथ्सरे व्यायच्छन्त । तान्देवाश्चातुर्मास्यैरेवाभि प्रायुञ्जत ॥ १। ५। ६। ३॥ ३१ वैश्वदेवेन चतुरो मासोऽवृञ्जतेन्द्र राजानः । तान् छीर्षन्नि चावर्तयन्त परि च । वरुणप्रघासैश्चतुरो मासोऽवृञ्जत वरुणराजानः । तान् छीर्षन्नि चावर्तयन्त परि च । साकमेधैश्चतुरो मासोऽवृञ्जत सोमराजानः । तान् छीर्षन्नि चावर्तयन्त परि च । या संवथ्सर उपजीवाऽऽसीत् । तामेषामवृञ्जत । ततो देवा अभवन् । पराऽसुराः ॥ १। ५। ६। ४॥ ३२ य एवं विद्वाग्श्चातुर्मास्यैर्यजते । भ्रातृव्यस्यैव मासो वृक्त्वा । शीर्षन्नि च वर्तयते परि च । यैषा संवथ्सर उपजीवा । वृङ्क्ते तां भ्रातृव्यस्य । क्षुधाऽस्य भ्रातृव्यः पराभवति । लोहितायसेन निवर्तयते । यद्वा इमामग्निरृतावागते निवर्तयति । एतदेवैनाꣳ रूपं कृत्वा निवर्तयति । सा ततः श्वः श्वो भूयसी भवन्त्येति ॥ १। ५। ६। ५॥ ३३ प्रजायते । य एवं विद्वां ल्लोहितायसेन निवर्तयते । एतदेव रूपं कृत्वा निवर्तयते । स ततः श्वः श्वो भूयान्भवन्नेति । प्रैव जायते । त्रेण्या शलल्या निवर्तयेत । त्रीणित्रीणि वै देवानामृद्धानि । त्रीणि छन्दाꣳसि । त्रीणि सवनानि । त्रय इमे लोकाः ॥ १। ५। ६। ६॥ ३४ ऋद्ध्यामेव तद्वीर्य एषु लोकेषु प्रतितिष्ठति । यच्चातुर्मास्ययाज्यात्मनो नावद्येत् । देवेभ्य आवृश्च्येत । चतृषु चतृषु मासेषु निवर्तयेत । परोक्षमेव तद्देवेभ्य आत्मनोऽवद्यत्यनाव्रस्काय । देवानां वा एष आनीतः । यश्चातुर्मास्ययाजी । य एवं विद्वान्नि च वर्तयते परि च । देवता एवाप्येति । नास्य रुद्रः प्रजां पशूनभि मन्यते ॥ १। ५। ६। ७॥ एत्येत्ययुञ्जतासुरा एति लोका मन्यते ॥ ६॥ ३५ (मे२एल्लगीएहेळबेकु) आयुषः प्राणꣳ संतनु । प्राणादपानꣳ संतनु । अपानाद्व्यानꣳ संतनु । व्यानाच्चक्षुः संतनु । चक्षुषः श्रोत्रꣳ संतनु । श्रोत्रान्मनः संतनु । मनसो वाचꣳ संतनु । वाच आत्मानꣳ संतनु । आत्मनः पृथिवीꣳ संतनु । पृथिव्या अन्तरिक्षꣳ संतनु । अन्तरिक्षाद्दिवꣳ संतनु । दिवः सुवः संतनु ॥ १। ५। ७। १॥ अन्तरिक्षꣳ संतनु द्वे च ॥ ७॥ (इल्लियवरे२एगीएमे२एल्लगीएहेळबेकु) ३६ इन्द्रो दधीचो अस्थभिः । वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव । इच्छन्नश्वस्य यच्छिरः । पर्वतेष्वपश्रितम् । तद्विदच्छर्यणावति । अत्राह गोरमन्वत । नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे । इन्द्रमिद्गाथिनो बृहत् ॥ १। ५। ८। १॥ ३७ इन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत । इन्द्र इद्धऱ्योः सचा । संमिश्ल आवचो युजा । इन्द्रो वज्री हिरण्ययः । इन्द्रो दीर्घाय चक्षसे । आ सूर्यꣳ रोहयद्दिवि । वि गोभिरद्रिमैरयत् । इन्द्र वाजेषु नो अव । सहस्रप्रधनेषु च ॥ १। ५। ८। २॥ ३८ उग्र उग्राभिरूतिभिः । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् । इन्द्रः स दामने कृतः । ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सौम्यः । गिरा वज्रो न संभृतः । सबलो अनपच्युतः । ववक्षुरुग्रो अस्तृतः ॥ १। ५। ८। ३॥ बृहच्चास्तृतः ॥ ८॥ ३९ देवासुराः संयत्ता आसन् । स प्रजापतिरिन्द्रं ज्येष्ठं पुत्रमप न्यधत्त । नेदेनमसुरा बलीयाꣳ सोऽहनन्निति । प्रह्रादो ह वै कायाधवः । विरोचनग्ग् स्वं पुत्रमप न्यधत्त । नेदेनं देवा अहनन्निति । ते देवाः प्रजापतिमुपसमेत्योचुः । नाराजकस्य युद्धमस्ति । इन्द्रमन्विच्छामेति । तं यज्ञक्रतुभिरन्वैच्छन् ॥ १। ५। ९। १॥ ४० तं यज्ञक्रतुभिर्नान्वविन्दन् । तमिष्टिभिरन्वैच्छन् । तमिष्टिभिरन्वविन्दन् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तस्मा एतमाग्नावैष्णवमेकादशकपालं दीक्षणीयं निरवपन् । तदपद्रुत्यातन्वत । तान्पत्नीसंयाजान्त उपानयन् ॥ १। ५। ९। २॥ ४१ ते तदन्तमेव कृत्वोदद्रवन् । ते प्रायणीयमभि समारोहन् । तदपद्रुत्यातन्वत । ताञ्छंय्वन्त उपानयन् । ते तदन्तमेव कृत्वोदद्रवन् । त आतित्थ्यमभि समारोहन् । तदपद्रुत्यातन्वत । तानिडान्त उपानयन् । ते तदन्तमेव कृत्वोदद्रवन् । तस्मादेता एतदन्ता इष्टयः संतिष्ठन्ते ॥ १। ५। ९। ३॥ ४२ एवꣳ हि देवा अकुर्वत । इति देवा अकुर्वत । इत्यु वै मनुष्याः कुर्वते । ते देवा ऊचुः । यद्वा इदमुच्चैर्यज्ञेन चराम । तन्नोऽसुराः पाप्माऽनुविन्दन्ति । उपाꣳशूपसदा चराम । तथा नोऽसुराः पाप्मा नानुवेथ्स्यन्तीति । त उपाꣳशूपसदमतन्वत । तिस्र एव सामिधेनीरनूच्य ॥ १। ५। ९। ४॥ ४३ स्रुवेणाघारमाघार्य । तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहवाञ्चक्रुः । उग्रं वचो अपावधीं त्वेषं वचो अपावधीग् स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतꣳ ह वाव तच्चतुर्धा विहितं पाप्मानं देवा अपजघ्निरे । तथो एवैतदेवं विद्यजमानः । तिस्र एव सामिधेनीरनूच्य । स्रुवेणाघारमाघार्य ॥ १। ५। ९। ५॥ ४४ तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहोति । उग्रं वचो अपावधीं त्वेषं वचो अपावधीग् स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतमेव तच्चतुर्धा विहितं पाप्मानं यजमानोऽपहते । तेऽभिनीयैवाहः पशुमाऽलभन्त । अह्न एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे । तेनाभिनीयेव रात्रेः प्राचरन् । रात्रिया एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे ॥ १। ५। ९। ६॥ ४५ तस्मादभिनीयैवाहः पशुमालभेत । अह्न एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । तेनाभिनीयेव रात्रेः प्रचरेत् । रात्रिया एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । स एष उपवसथीयेऽहन्द्विदेवत्यः पशुरालभ्यते । द्वयं वा अस्मिं ल्लोके यजमानः । अस्थि च माꣳसं च । अस्थि चैव तेन माꣳसं च यजमानः स२ꣳस्कुरुते । ता वा एताः पञ्च देवताः । अग्नीषोमावग्निर्मित्रावरुणौ ॥ १। ५। ९। ७॥ ४६ पञ्चपञ्ची वै यजमानः । त्वङ्माꣳ स२ꣳ स्नावाऽस्थि मज्जा । एतमेव तत्पञ्चधा विहितमात्मानं वरुणपाशान्मुञ्चति । भेषजतायै निर्वरुणत्वाय । तꣳ सप्तभिश्छन्दोभिः प्रातरह्वयन् । तस्माथ्सप्त चतुरुत्तराणि छन्दाꣳसि प्रातरनुवाकेऽनूच्यन्ते । तमेतयोपसमेत्योपासीदन् । उपास्मै गायता नर इति । तस्मादेतया बहिष्पवमान उपसद्यः ॥ १। ५। ९। ८॥ ऐच्छन्ननयग्ग्स्तिष्ठन्तेऽनूच्यानूच्य स्रुवेणाघारमाघार्य रात्रिया एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे मित्रावरुणौ नव च ॥ ९॥ देवा यजमानो देवा देवा यजमानो यजमानोऽलभन्त प्राचरंल्लभेत प्रचरेतालभन्तालभेत मृत्युमपजघ्निरे भ्रातृव्यान् ॥ ४७ स समुद्र उत्तरतः प्राज्वलद्भूम्यन्तेन । एष वाव स समुद्रः । यच्चात्वालः । एष उ वेव स भूम्यन्तः । यद्वेद्यन्तः । तदेतत्त्रिशलं त्रिपूरुषम् । तस्मात्तं त्रिवितस्तं खनन्ति । स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । तं यदस्या अध्यजनयन् । तस्मादादित्यः ॥ १। ५। १०। १॥ ४८ अथ यथ्सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । साऽस्य कौशिकता । तं त्रिवृताऽभि प्रास्तुवत । तं त्रिवृताऽऽददत । तं त्रिवृताऽऽहरन् । यावती त्रिवृतो मात्रा । तं पञ्चदशेनाभि प्रास्तुवत । तं पञ्चदशेनाददत । तं पञ्चदशेनाहरन् । यावती पञ्चदशस्य मात्रा ॥ १। ५। १०। २॥ ४९ तꣳ सप्तदशेनाभि प्रास्तुवत । तꣳ सप्तदशेनाददत । तꣳ सप्तदशेनाहरन् । यावती सप्तदशस्य मात्रा । तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतत् । तमेकविꣳशेनाभि प्रास्तुवत । तमेकविꣳशेनाददत । तमेकविꣳशेनाहरन् । यावत्येकविꣳशस्य मात्रा । ते यत्त्रिवृता स्तुवते ॥ १। ५। १०। ३॥ ५० त्रिवृतैव तद्यजमानमाददते । तं त्रिवृतैव हरन्ति । यावती त्रिवृतो मात्रा । अग्निर्वै त्रिवृत् । यावद्वा अग्नेर्दहतो धूम उदेत्यानु व्येति । तावती त्रिवृतो मात्रा । अग्नेरेवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यत्पञ्चदशेन स्तुवते । पञ्चदशेनैव तद्यजमानमाददते ॥ १। ५। १०। ४॥ ५१ तं पञ्चदशेनैव हरन्ति । यावती पञ्चदशस्य मात्रा । चन्द्रमा वै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते । पञ्चदश्यामापूर्यते । चन्द्रमस एवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यथ्सप्तदशेन स्तुवते । सप्तदशेनैव तद्यजमानमाददते । तꣳ सप्तदशेनैव हरन्ति ॥ १। ५। १०। ५॥ ५२ यावती सप्तदशस्य मात्रा । प्रजापतिर्वै सप्तदशः । प्रजापतेरेवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यदेकविꣳशेन स्तुवते । एकविꣳशेनैव तद्यजमानमाददते । तमेकविꣳशेनैव हरन्ति । यावत्येकविꣳशस्य मात्रा । असौ वा आदित्य एकविꣳशः । आदित्यस्यैवैनं तत् ॥ १। ५। १०। ६॥ ५३ मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । ते कुश्यौ । व्यघ्नन् । ते अहोरात्रे अभवताम् । अहरेव सुवर्णाऽभवत् । रजता रात्रिः । स यदादित्य उदेति । एतामेव तथ्सुवर्णां कुशीमनु समेति । अथ यदस्तमेति । एतामेव तद्रजतां कुशीमनु संविशति । प्रह्रादो ह वै कायाधवः । विरोचनग्ग् स्वं पुत्रमुदास्यत् । स प्रदरोऽभवत् । तस्मात्प्रदरादुदकं नाचामेत् ॥ १। ५। १०। ७॥ आदित्यः पञ्चदशस्य मात्रा स्तुवते पञ्चदशेनैव तद्यजमानमाददते सप्तदशेनैव हरन्त्यादित्यस्यैवैनं तद्विशति चत्वारि च ॥ १०॥ ५४ ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये पञ्च । कलिः सः । तस्माच्चतुष्टोमः । तच्चतुष्टोमस्य चतुष्टोमत्वम् । तदाहुः । कतमानि तानि ज्योतीꣳषि । य एतस्य स्तोमा इति । त्रिवृत्पञ्चदशः सप्तदश एकविꣳशः ॥ १। ५। ११। १॥ ५५ एतानि वाव तानि ज्योतीꣳषि । य एतस्य स्तोमाः । सोऽब्रवीत् । सप्तदशेन ह्रियमाणो व्यलेशिषि । भिषज्यतमेति । तमश्विनौ धानाभिरभिषज्यताम् । पूषा करम्भेण । भारती परिवापेण । मित्रावरुणौ पयस्यया । तदाहुः ॥ १। ५। ११। २॥ ५६ यदश्विभ्यां धानाः । पूष्णः करम्भः । भारत्यै परिवापः । मित्रावरुणयोः पयस्याऽथ । कस्मादेतेषाꣳ हविषामिन्द्रमेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात् । एतैर्हविर्भिरभिषज्यग्ग्स्तस्मादिति । तं वसवोऽष्टाकपालेन प्रातःसवनेऽभिषज्यन् । रुद्रा एकादशकपालेन माध्यन्दिने सवने । विश्वे देवा द्वादशकपालेन तृतीयसवने ॥ १। ५। ११। ३॥ ५७ स यदष्टाकपालान्प्रातःसवने कुर्यात् । एकादश कपालान्माध्यन्दिने सवने । द्वादशकपालाग्स्तृतीयसवने । विलोम तद्यज्ञस्य क्रियेत । एकादशकपालानेव प्रातःसवने कुर्यात् । एकादशकपालान्माध्यन्दिने सवने । एकादशकपालाग्स्तृतीयसवने । यज्ञस्य सलोमत्वाय । तदाहुः । यद्वसूनां प्रातःसवनम् । रुद्राणां माध्यन्दिनꣳ सवनम् । विश्वेषां देवानां तृतीयसवनम् । अथ कस्मादेतेषाꣳ हविषामिन्द्रमेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात् । एतैर्हविर्भिरभिषज्यग्ग्स्तस्मादिति ॥ १। ५। ११। ४॥ एकविꣳश आहुस्तृतीयसवने प्रातः सवनं पञ्च च ॥ ११॥ ५८ तस्या वाचोऽवपादादबिभयुः । तमेतेषु सप्तसु छन्दःस्वश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् । यदवारयन् । तद्वारवन्तीयस्य वारवन्तीयत्वम् । तस्या वाच एवावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दाग्स्युपादधुः । तेषामति त्रीण्यरिच्यन्त । न त्रीण्युदभवन् ॥ १। ५। १२। १॥ ५९ स बृहतीमेवास्पृशत् । द्वाभ्यामक्षराभ्याम् । अहोरात्राभ्यामेव । तदाहुः । कतमा सा देवाक्षरा बृहती । यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः । द्वादशाष्टकाः । द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती ॥ १। ५। १२। २॥ ६० यस्यां तत्प्रत्यतिष्ठदिति । यानि च छन्दाग्स्यत्यरिच्यन्त । यानि च नोदभवन् । तानि निर्वीर्याणि हीनान्यमन्यन्त । साऽब्रवीद्बृहती । मामेव भूत्वा । मामुप स२ꣳश्रयतेति । चतुर्भिरक्षरैरनुष्टुग्बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्क्तिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् ॥ १। ५। १२। ३॥ ६१ ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । अष्टाभिरक्षरैरुष्णिग्बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुग् बृहतीमत्यरिच्यत । तस्यामेतान्यष्टावक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । द्वादशभिरक्षरैर्गायत्री बृहतीं नोदभवत् । द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् ॥ १। ५। १२। ४॥ ६२ ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । सोऽब्रवीत्प्रजापतिः । छन्दाꣳसि रथो मे भवत । युष्माभिरहमेतमध्वानमनु संचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक्च त्रिष्टुप्च प्रष्ट्यौ । अनुष्टुप्च पङ्क्तिश्च धुर्यौ । बृहत्येवोद्धिरभवत् । स एतं छन्दोरथमास्थाय । एतमध्वानमनु समचरत् । एतꣳ ह वै छन्दोरथमास्थाय । एतमध्वानमनु संचरति । येनैष एतथ्संचरति । य एवं विद्वान्थ्सोमेन यजते । य उ चैनमेवं वेद ॥ १। ५। १२। ५॥ अभवन्वाव सा देवाक्षरा बृहत्यदधाद् द्वादशाक्षराण्यप च्छिद्यादधादा स्थाय षट्च ॥ १२॥ अग्नेः कृत्तिका यत्पुण्यं देवस्य सवितुर्ब्रह्मवादिनः कत्यृतमेव देवा वा आयुषः प्राणमिन्द्रो दधीचो देवासुराः स प्रजापतिः स समुद्रो ये वै चत्वारस्तस्यावाचो द्वादश ॥ १२॥ अग्नेः कृत्तिका देवगृहा ऋतमेव वैश्वदेवेन ते तदन्तं तं पञ्चदशेन ते बृहती एव द्विषष्टिः ॥ ६२॥ अग्नेः कृत्तिका य उचैनमेवं वेद ॥

प्रथमाष्टके षष्ठः प्रपाठकः ६

१ अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति । ये प्रत्यञ्चः शम्याया अवशीयन्ते । तन्नैरृतमेककपालम् । इयं वा अनुमतिः । इयं निरृतिः । नैरृतेन पूर्वेण प्रचरति । पाप्मानमेव निरृतिं पूर्वां निरवदयते । एककपालो भवति । एकधैव निरृतिं निरवदयते । यदहुत्वा गार्हपत्य ईयुः ॥ १। ६। १। १॥ २ रुद्रो भूत्वाऽग्निरनूत्थाय । अध्वर्युं च यजमानं च हन्यात् । वीहि स्वाहाऽऽहुतिं जुषाण इत्याह । आहुत्यैवैनꣳ शमयति । नार्तिमार्च्छत्यध्वर्युर्न यजमानः । एकोल्मुकेन यन्ति । तद्धि निरृत्यै भागधेयम् । इमां दिशं यन्ति । एषा वै निरृत्यै दिक् । स्वायामेव दिशि निरृतिं निरवदयते ॥ १। ६। १। २॥ ३ स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वै निरृत्या आयतनम् । स्व एवायतने निरृतिं निरवदयते । एष ते निरृते भाग इत्याह । निर्दिशत्येवैनाम् । भूते हविष्मत्यसीत्याह । भूतिमेवोपावर्तते । मुञ्चेममꣳहस इत्याह । अꣳहस एवैनं मुञ्चति । अङ्गुष्ठाभ्यां जुहोति ॥ १। ६। १। ३॥ ४ अन्तत एव निरृतिं निरवदयते । कृष्णं वासः कृष्णतूषं दक्षिणा । एतद्वै निरृत्यै रूपम् । रूपेणैव निरृतिं निरवदयते । अप्रतीक्षमायन्ति । निरृत्या अन्तर्हित्यै । स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये जुहोति । आहुत्यैव नमस्यन्तो गार्हपत्यमुपावर्तन्ते । आनुमतेन प्रचरति । इयं वा अनुमतिः ॥ १। ६। १। ४॥ ५ इयमेवास्मै राज्यमनु मन्यते । धेनुर्दक्षिणा । इमामेव धेनुं कुरुते । आदित्यं चरुं निर्वपति । उभयीष्वेव प्रजास्वभिषिच्यते । दैवीषु च मानुषीषु च । वरो दक्षिणा । वरो हि राज्यꣳ समृद्ध्यै । आग्नावैष्णवमेकादशकपालं निर्वपति । अग्निः सर्वा देवताः ॥ १। ६। १। ५॥ ६ विष्णुर्यज्ञः । देवताश्चैव यज्ञं चावरुन्धे । वामनो वही दक्षिणा । यद्वही । तेनाग्नेयः । यद्वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमीयमेकादशकपालं निर्वपति । अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति । यदग्नीषोमीयमेकादशकपालं निर्वपति ॥ १। ६। १। ६॥ ७ वार्त्रघ्नमेव विजित्यै । हिरण्यं दक्षिणा समृद्ध्यै । इन्द्रो वृत्रꣳ हत्वा । देवताभिश्चेन्द्रियेण च व्यार्ध्यत । स एतमैन्द्राग्नमेकादशकपालमपश्यत् । तन्निरवपत् । तेन वै स देवताश्चेन्द्रियं चावारुन्ध । यदैन्द्राग्नमेकादशकपालं निर्वपति । देवताश्चैव तेनेन्द्रियं च यजमानोऽवरुन्धे । ऋषभो वही दक्षिणा ॥ १। ६। १। ७॥ ८ यद्वही । तेनाग्नेयः । यदृषभः । तेनैन्द्रः समृद्ध्यै । आग्नेयमष्टाकपालं निर्वपति । ऐन्द्रं दधि । यदाग्नेयो भवति । अग्निर्वै यज्ञमुखम् । यज्ञमुखमेवर्द्धिं पुरास्ताद्धत्ते । यदैन्द्रं दधि ॥ १। ६। १। ८॥ ९ इन्द्रियमेवावरुन्धे । ऋषभो वही दक्षिणा । यद्वही । तेनाग्नेयः । यदृषभः । तेनैन्द्रः समृद्ध्यै । यावतीर्वै प्रजा ओषधीनामहुतानामाश्नन् । ताः पराऽभवन् । आग्रयणं भवति हुताद्याय । यजमानस्यापराभावाय ॥ १। ६। १। ९॥ १० देवा वा ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम् । तावेतमैन्द्राग्नं द्वादशकपालं निरवृणाताम् । यदैन्द्राग्नो भवत्युज्जित्यै । द्वादशकपालो भवति । द्वादश मासाः संवथ्सरः । संवथ्सरेणैवास्मा अन्नमवरुन्धे । वैश्वदेवश्चरुर्भवति । वैश्वदेवं वा अन्नम् । अन्नमेवास्मै स्वदयति ॥ १। ६। १। १०॥ ११ प्रथमजो वथ्सो दक्षिणा समृद्ध्यै । सौम्य२ꣳ श्यामाकं चरुं निर्वपति । सोमो वा अकृष्टपच्यस्य राजा । अकृष्टपच्यमेवास्मै स्वदयति । वासो दक्षिणा । सौम्यꣳ हि देवतया वासः समृद्ध्यै । सरस्वत्यै चरुं निर्वपति । सरस्वते चरुम् । मिथुनमेवावरुन्धे । मिथुनौ गावौ दक्षिणा समृद्ध्यै । एति वा एष यज्ञमुखादृद्ध्याः । योऽग्नेर्देवताया एति । अष्टावेतानि हवीꣳषि भवन्ति । अष्टाक्षरा गायत्री । गायत्रोऽग्निः । तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैति ॥ १। ६। १। ११॥ ईयुर्निरवदयतेऽङ्गुष्ठाभ्यां जुहोत्यनुमतिर्देवता निर्वपति वही दक्षिणा यदैन्द्रं दध्यपराभावाय स्वदयति गावौ दक्षिणा समृद्ध्यै षट्च ॥ १॥ १२ वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा न प्राजायन्त । सोऽग्निरकामयत । अहमिमाः प्रजनयेयमिति । स प्रजापतये शुचमदधात् । सोऽशोचत्प्रजामिच्छमानः । तस्माद्यं च प्रजा भुनक्ति यं च न । तावुभौ शोचतः प्रजामिच्छमानौ । तास्वग्निमप्यसृजत् । ता अग्निरध्यैत् ॥ १। ६। २। १२॥ १३ सोमो रेतोऽदधात् । सविता प्राजनयत् । सरस्वती वाचमदधात् । पूषाऽपोषयत् । ते वा एते त्रिः संवथ्सरस्य प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवथ्सरो वै प्रजापतिः । संवथ्सरेणैवास्मै प्रजाः प्राजनयत् । ताः प्रजा जाता मरुतोऽघ्नन् । अस्मानपि न प्रायुक्षतेति ॥ १। ६। २। १३॥ १४ स एतं प्रजापतिर्मारुतꣳ सप्तकपालमपश्यत् । तं निरवपत् । ततो वै प्रजाभ्योऽकल्पत । यन्मारुतो निरुप्यते । यज्ञस्य क्लृप्त्यै । प्रजानामघाताय । सप्तकपालो भवति । सप्त गणा वै मरुतः । गणश एवास्मै विशं कल्पयति । स प्रजापतिरशोचत् ॥ १। ६। २। १४॥ १५ याः पूर्वाः प्रजा असृक्षि । मरुतस्ता अवधिषुः । कथमपराः सृजेयेति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद्व्युदहरत् । तदपोषयत् । तत्प्राजायत । आण्डस्य वा एतद्रूपम् । यदामिक्षा । यद्व्युद्धरति ॥ १। ६। २। १५॥ १६ प्रजा एव तद्यजमानः पोषयति । वैश्वदेव्यामिक्षा भवति । वैश्वदेव्यो वै प्रजाः । प्रजा एवास्मै प्रजनयति । वाजिनमानयति । प्रजास्वेव प्रजातासु रेतो दधाति । द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति । देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् ॥ १। ६। २। १६॥ १७ मामग्रे यजत । मया मुखेनासुराञ्जेष्यथेति । मां द्वितीयमिति सोमोऽब्रवीत् । मया राज्ञा जेष्यथेति । मां तृतीयमिति सविता । मया प्रसूता जेष्यथेति । मां चतुर्थीमिति सरस्वती । इन्द्रियं वोऽहं धास्यामीति । मां पञ्चममिति पूषा । मया प्रतिष्ठया जेष्यथेति ॥ १। ६। २। १७॥ १८ तेऽग्निना मुखेनासुरानजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वतीन्द्रियमदधात् । पूषा प्रतिष्ठाऽऽसीत् । ततो वै देवा व्यजयन्त । यदेतानि हवीꣳषि निरुप्यन्ते विजित्यै । नोत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः । अजाता इव ह्येतर्हि पशवः ॥ १। ६। २। १८॥ ऐदित्यशोचद्व्युद्धरत्यब्रवीत्प्रतिष्ठाया जेष्यथेत्येतर्हि पशवः ॥ २॥ १९ त्रिवृद्बर्हिर्भवति । माता पिता पुत्रः । तदेव तन्मिथुनम् । उल्बं गर्भो जरायु । तदेव तन्मिथुनम् । त्रेधा बर्हिः संनद्धं भवति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति । एकधा पुनः संनद्धं भवति । एक इव ह्ययं लोकः ॥ १। ६। ३। १९॥ २० अस्मिन्नेव तेन लोके प्रतितिष्ठति । प्रसुवो भवन्ति । प्रथमजामेव पुष्टिमवरुन्धे । प्रथमजो वथ्सो दक्षिणा समृद्ध्यै । पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्धे । पञ्चगृहीतं भवति । पाङ्क्ता हि पशवः । बहुरूपं भवति ॥ १। ६। ३। २०॥ २१ बहुरूपा हि पशवः समृद्ध्यै । अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यदग्निं मन्थन्ति । अग्निमुखा एव तत्प्रजा यजमानः सृजते । नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीꣳषि । द्वावाघारौ । द्वावाज्यभागौ ॥ १। ६। ३। २१॥ २२ त्रिꣳशथ्संपद्यन्ते । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । यजमानो वा एककपालः । तेज आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् ॥ १। ६। ३। २२॥ २३ यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्धयति । यदल्पमानयेत् । अल्पा एनं पशवो भुञ्जन्त उपतिष्ठेरन् । यद्बह्वानयेत् । बहव एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । बह्वानीयाविः पृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते । यजमानो वा एककपालः । यदेककपालस्यावद्येत् ॥ १। ६। ३। २३॥ २४ यजमानस्यावद्येत् । उद्वा माद्येद्यजमानः । प्र वा मीयेत । सकृदेव होतव्यः । सकृदिव हि सुवर्गो लोकः । हुत्वाऽभि जुहोति । यजमानमेव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति । यजमानो वा एककपालः । सुवर्गो लोक आहवनीयः ॥ १। ६। ३। २४॥ २५ यदेककपालमाहवनीये जुहोति । यजमानमेव सुवर्गं लोकं गमयति । यद्धस्तेन जुहुयात् । सुवर्गाल्लोकाद्यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै । यत्प्राङ्पद्येत । देवलोकमभि जयेत् । यद्दक्षिणा पितृलोकम् । यत्प्रत्यक् ॥ १। ६। ३। २५॥ २६ रक्षाꣳसि यज्ञꣳ हन्युः । यदुदङ्ङ् । मनुष्यलोकमभिजयेत् । प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः । ऋतून्, यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात्प्रतिष्ठितो होतव्यः ॥ १। ६। ३। २६॥ २७ वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तानेव तद्यजति । अथो खल्वाहुः । छन्दाꣳसि वै वाजिन इति । तान्येव तद्यजति । ऋख्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् ॥ १। ६। ३। २७॥ २८ यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् । प्रहृत्य परिधीञ्जुहोति । निराधानाभ्यामेव घासं प्रयच्छति । बर्हिषि विषिञ्चन्वाजिनमानयति । प्रजा वै बर्हिः । रेतो वाजिनम् । प्रजास्वेव रेतो दधाति । समुपहूय भक्षयन्ति । एतथ्सोमपीथा ह्येते । अथो आत्मन्नेव रेतो दधते । यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून्प्रतिष्ठापयन्ति ॥ १। ६। ३। २८॥ लोको बहुरूपं भवत्याज्यभागौ पशव आज्यमवद्येदाहवनीयः प्रत्यक्तस्मात्प्रतिष्ठितो होतव्यो भागधेयमेते चत्वारि च ॥ ३॥ २९ प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनमत्यमन्यन्त । ता अस्मादपाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेनाग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनरुपाधावन्नाथमिच्छमानाः । स एतान्प्रजापतिर्वरुणप्रघासानपश्यत् । तान्निरवपत् । तैर्वै स प्रजा वरुणपाशादमुञ्चत् । यद्वरुणप्रघासा निरुप्यन्ते ॥ १। ६। ४। २९॥ ३० प्रजानामवरुणग्राहाय । तासां दक्षिणो बाहुर्न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिमुदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत् । यद्द्वितीयां दक्षिणतो वेदिमुद्धन्ति । प्रजानामेव तद्यजमानो दक्षिणं बाहुं प्रसारयति । तस्माच्चातुर्मास्ययाज्यमुष्मिं ल्लोक उभयाबाहुः । यज्ञाभिजितग्ग् ह्यस्य । पृथमात्राद्वेदी असंभिन्ने भवतः ॥ १। ६। ४। ३०॥ ३१ तस्मात्पृथमात्रं व्यꣳसौ । उत्तरस्यां वेद्यामुत्तरवेदिमुप वपति । पशवो वा उत्तरवेदिः । पशूनेवावरुन्धे । अथो यज्ञपरुषोऽनन्तरित्यै । एतद्ब्राह्मणान्येव पञ्च हवीꣳषि । अथैष ऐन्द्राग्नो भवति । प्राणापानौ वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति ॥ १। ६। ४। ३१॥ ३२ प्राणापानावेवावरुन्धे । ओजो बलं वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति । ओजो बलमेवावरुन्धे । मारुत्यामिक्षा भवति । वारुण्यामिक्षा । मेषी च मेषश्च भवतः । मिथुना एव प्रजा वरुणपाशान्मुञ्चति । लोमशौ भवतो मेध्यत्वाय ॥ १। ६। ४। ३२॥ ३३ शमीपर्णान्युप वपति । घासमेवाभ्यामपि यच्छति । प्रजापतिमन्नाद्यं नोपानमत् । स एतेन शतेध्मेन हविषाऽन्नाद्यमवारुन्ध । यत्परः शतानि शमीपर्णानि भवन्ति । अन्नाद्यस्यावरुद्ध्यै । सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति । यत्करीराणि भवन्ति । सौम्ययैवाहुत्या दिवो वृष्टिमवरुन्धे । काय एककपालो भवति । प्रजानां कन्त्वाय । प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान्मुञ्चति । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान्मुञ्चति ॥ १। ६। ४। ३३॥ निरुप्यन्ते भवतो भवति मेध्यत्वाय रुन्धे षट्च ॥ ४॥ ३४ उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति । दक्षिणायां मारुतीम् । अपधुरमेवैना युनक्ति । अथो ओज एवासामव हरति । तस्माद्ब्रह्मणश्च क्षत्त्राच्च विशोऽन्यतोपक्रमिणीः । मारुत्या पूर्वया प्रचरति । अनृतमेवाव यजते । वारुण्योत्तरया । अन्तत एव वरुणमव यजते । यदेवाध्वर्युः करोति ॥ १। ६। ५। ३४॥ ३५ तत्प्रतिप्रस्थाता करोति । तस्माद्यच्छ्रेयान्करोति । तत्पापीयान्करोति । पत्नीं वाचयति । मेध्यामेवैनां करोति । अथो तप एवैनामुप नयति । यज्जारꣳ सन्तं न प्रब्रूयात् । प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति ॥ १। ६। ५। ३५॥ ३६ प्रघास्यान् हवामह इति पत्नीमुदानयति । अह्वतैवैनाम् । यत्पत्नी पुरोनुवाक्यामनु ब्रूयात् । निर्वीऱ्यो यजमानः स्यात् । यजमानोऽन्वाह । आत्मन्नेव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय । यद्ग्रामे यदरण्य इत्याह । यथोदितमेव वरुणमव यजते । यजमानदेवत्यो वा आहवनीयः ॥ १। ६। ५। ३६॥ ३७ भ्रातृव्यदेवत्यो दक्षिणः । यदाहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् । दक्षिणेऽग्नौ जुहोति । भ्रातृव्यमेव वरुणपाशेन ग्राहयति । शूर्पेण जुहोति । अन्न्यमेव वरुणमवयजते । शीर्षन्नधि निधाय जुहोति । शीर्षत एव वरुणमवयजते । प्रत्यङ्क्तिष्ठञ्जुहोति ॥ १। ६। ५। ३७॥ ३८ प्रत्यङ्ङेव वरुणपाशान्निर्मुच्यते । अक्रन्कर्म कर्मकृत इत्याह । देवानृणं निरवदाय । अनृणा गृहानुपप्रेतेति वावैतदाह । वरुणगृहीतं वा एतद्यज्ञस्य । यद्यजुषा गृहीतस्यातिरिच्यते । तुषाश्च निष्कासश्च । तुषैश्च निष्कासेन चावभृथमवैति । वरुणगृहीतेनैव वरुणमवयजते । अपोऽवभृथमवैति ॥ १। ६। ५। ३८॥ ३९ अप्सु वै वरुणः । साक्षादेव वरुणमव यजते । प्रतियुतो वरुणस्य पाश इत्याह । वरुणपाशादेव निर्मुच्यते । अप्रतीक्षमायन्ति । वरुणस्यान्तर्हित्यै । एधोऽस्येधिषीमहीत्याह । समिधैवाग्निं नमस्यन्त उपायन्ति । तेजोसि तेजो मयि धेहीत्याह । तेज एवात्मन्धत्ते ॥ १। ६। ५। ३९॥ करोति ग्राहयत्याहवनीयस्तिष्ठञ्जुहोत्यपोऽवभृथमवैति धत्ते ॥ ५॥ ४० देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् । ममेयमनीकवती तनूः । तां प्रीणीत । अथासुरानभि भविष्यथेति । ते देवा अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निरवपन् । सोऽग्निरनीकवान्थ्स्वेन भागधेयेन प्रीतः । चतुर्धाऽनीकान्यजनयत । ततो देवा अभवन् । पराऽसुराः ॥ १। ६। ६। १॥ ४१ यदग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति । अग्निमेवानीकवन्तग्ग् स्वेन भागधेयेन प्रीणाति । सोऽग्निरनीकवान्थ्स्वेन भागधेयेन प्रीतः । चतुर्धाऽनीकानि जनयते । असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । साकꣳ सूर्येणोद्यता निर्वपति । साक्षादेवास्मा अनीकानि जनयति । तेऽसुराः पराजिता यन्तः । द्यावापृथिवी उपाश्रयन् ॥ १। ६। ६। २॥ ४२ ते देवा मरुद्भ्यः सांतपनेभ्यश्चरुं निरवपन् । तान्द्यावापृथिवीभ्यामेवोभयतः समतपन् । यन्मरुद्भ्यः सान्तपनेभ्यश्चरुं निर्वपति । द्यावापृथिवीभ्यामेव तदुभयतो यजमानो भ्रातृव्यान्थ्संतपति । मध्यन्दिने निर्वपति । तर्हि हि तेऽक्ष्णिष्ठं तपति । चरुर्भवति । सर्वत एवैनान्थ्संतपति । ते देवाः श्वोविजयिनः सन्तः । सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् ॥ १। ६। ६। ३॥ ४३ आशिता एवाद्योपवसाम । कस्य वाऽहेदम् । कस्य वा श्वो भवितेति । स श‍ृतोऽभवत् । तस्याहुतस्य नाश्नन्न् । न हि देवा अहुतस्याश्नन्ति । तेऽब्रुवन् । कस्मा इमꣳ होष्याम इति । मरुद्भ्यो गृहमेधिभ्य इत्यब्रुवन् । तं मरुद्भ्यो गृहमेधिभ्योऽजुहवुः ॥ १। ६। ६। ४॥ ४४ ततो देवा अभवन् । पराऽसुराः । यस्यैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति । यद्वै यज्ञस्य पाकत्रा क्रियते । पशव्यं तत् । पाकत्रा वा एतत्क्रियते । यन्नेध्मा बर्हिर्भवति । न सामिधेनीरन्वाह ॥ १। ६। ६। ५॥ ४५ न प्रयाजा इज्यन्ते । नानूयाजाः । य एवं वेद । पशुमान्भवति । आज्यभागौ यजति । यज्ञस्यैव चक्षुषी नान्तरेति । मरुतो गृहमेधिनो यजति । भागधेयेनैवैनान्थ्समर्धयति । अग्नि२ꣳ स्विष्टकृतं यजति प्रतिष्ठित्यै । इडान्तो भवति । पशवो वा इडा । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ॥ १। ६। ६। ६॥ असुरा अश्रयन्गृहमेधीयं चरुं निरवपन्नजुहवुरन्वाहेडान्तो भवति द्वे च ॥ ६॥ ४६ यत्पत्नी गृहमेधीयस्याश्नीयात् । गृहमेध्येव स्यात् । वि त्वस्य यज्ञ ऋध्येत । यन्नाश्नीयात् । अगृहमेधी स्यात् । नास्य यज्ञो व्यृद्ध्येत । प्रतिवेशं पचेयुः । तस्याश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृद्ध्यते ॥ १। ६। ७। १॥ ४७ ते देवा गृहमेधीयेनेष्ट्वा । आशिता अभवन् । आञ्जताभ्यञ्जत । अनुवथ्सानवासयन् । तेभ्योऽसुराः, क्षुधं प्राहिण्वन् । सा देवेषु लोकमवित्त्वा । असुरान्पुनरगच्छत् । गृहमेधीयेनेष्ट्वा । आशिता भवन्ति । आञ्जतेऽभ्यञ्जते ॥ १। ६। ७। २॥ ४८ अनुवथ्सान्, वासयन्ति । भ्रातृव्यायैव तद्यजमानः, क्षुधं प्रहिणोति । ते देवा गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं न्यदधुः । अस्मानेव श्व इन्द्रो निहितभाग उपावर्तितेति । तानिन्द्रो निहितभाग उपावर्तत । गृहमेधीयेनेष्ट्वा । इन्द्राय निष्कासं निदध्यात् । इन्द्र एवैनं निहितभाग उपावर्तते । गार्हपत्ये जुहोति ॥ १। ६। ७। ३॥ ४९ भागधेयेनैवैनꣳ समर्धयति । ऋषभमाह्वयति । वषट्कार एवास्य सः । अथो इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । इन्द्रो वृत्रꣳ हत्वा । परां परावतमगच्छत् । अपाराधमिति मन्यमानः । सोऽब्रवीत् । क इदं वेदिष्यतीति । तेऽब्रुवन्मरुतो वरं वृणामहै ॥ १। ६। ७। ४॥ ५० अथ वयं वेदाम । अस्मभ्यमेव प्रथमꣳ हविर्निरुप्याता इति । त एनमध्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् । यन्मरुद्भ्यः क्रीडिभ्यः प्रथमꣳ हविर्निरुप्यते विजित्यै । साकꣳ सूर्येणोद्यता निर्वपति । एतस्मिन्वै लोक इन्द्रो वृत्रमहन्थ्समृद्ध्यै । एतद्ब्राह्मणान्येव पञ्च हवीꣳषि । एतद्ब्राह्मण ऐन्द्राग्नः । अथैष ऐन्द्रश्चरुर्भवति । ५१ उद्धारं वा एतमिन्द्र उदहरत । वृत्रꣳ हत्वा । अन्यासु देवतास्वधि । यदेष ऐन्द्रश्चरुर्भवति । उद्धारमेव तं यजमान उद्धरते । अन्यासु प्रजास्वधि । वैश्वकर्मण एककपालो भवति । विश्वान्येव तेन कर्माणि यजमानोऽवरुन्धे ॥ १। ६। ७। ५॥ ऋद्ध्यतेऽभ्यञ्जते जुहोति वृणामहै भवत्यष्टौ च ॥ ७॥ ५२ वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर्वरुणपाशादमुञ्चत् । साकमेधैः प्रत्यस्थापयत् । त्र्यम्बकै रुद्रं निरवादयत । पितृयज्ञेन सुवर्गं लोकमगमयत् । यद्वैश्वदेवेन यजते । प्रजा एव तद्यजमानः सृजते । ता वरुणप्रघासैर्वरुणपाशान्मुञ्चति । साकमेधैः प्रतिष्ठापयति । त्र्यम्बकै रुद्रं निरवदयते ॥ १। ६। ८। १॥ ५३ पितृयज्ञेन सुवर्गं लोकं गमयति । दक्षिणतः प्राचीनावीती निर्वपति । दक्षिणावृद्धि पितृणाम् । अनादृत्य तत् । उत्तरत एवोपवीय निर्वपेत् । उभये हि देवाश्च पितरश्चेज्यन्ते । अथो यदेव दक्षिणार्धेऽधि श्रयति । तेन दक्षिणावृत् । सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति । संवथ्सरो वै सोमः पितृमान् ॥ १। ६। ८। २॥ ५४ संवथ्सरमेव प्रीणाति । पितृभ्यो बर्हिषद्भ्यो धानाः । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । यस्मिन्वा ऋतौ पुरुषः प्रमीयते । सोऽस्यामुष्मिं ल्लोके भवति । बहुरूपा धाना भवन्ति । अहोरात्राणामभिजित्यै । पितृभ्योऽग्निष्वात्तेभ्यो मन्थम् । अर्धमासा वै पितरोऽग्निष्वात्ताः ॥ १। ६। ८। ३॥ ५५ अर्धमासानेव प्रीणाति । अभिवान्यायै दुग्धे भवति । सा हि पितृदेवत्यं दुहे । यत्पूर्णम् । तन्मनुष्याणाम् । उपर्यर्धो देवानाम् । अर्धः पितृणाम् । अर्ध उपमन्थति । अर्धो हि पितृणाम् । एकयोपमन्थति ॥ १। ६। ८। ४॥ ५६ एका हि पितृणाम् । दक्षिणोपमन्थति । दक्षिणावृद्धि पितृणाम् । अनारभ्योपमन्थति । तद्धि पितॄन्गच्छति । इमां दिशं वेदिमुद्धन्ति । उभये हि देवाश्च पितरश्चेज्यन्ते । चतुःस्रक्तिर्भवति । सर्वा ह्यनु दिशः पितरः । अखाता भवति ॥ ५७ खाता हि देवानाम् । मध्यतोऽग्निराधीयते । अन्ततो हि देवानामाधीयते । वर्षीयानिध्म इध्माद्भवति व्यावृत्त्यै । परि श्रयति । अन्तर्हितो हि पितृलोको मनुष्यलोकात् । यत्परुषि दिनम् । तद्देवानाम् । यदन्तरा । तन्मनुष्याणाम् ॥ १। ६। ८। ६॥ ५८ यथ्समूलम् । तत्पितृणाम् । समूलं बर्हिर्भवति व्यावृत्त्यै । दक्षिणा स्तृणाति । दक्षिणावृद्धि पितृणाम् । त्रिः पर्येति । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । त्रिः पुनः पर्येति । षट्थ्संपद्यन्ते ॥ १। ६। ८। ७॥ ५९ षड्वा ऋतवः । ऋतूनेव प्रीणाति । यत्प्रस्तरं यजुषा गृह्णीयात् । प्रमायुको यजमानः स्यात् । यन्न गृह्णीयात् । अनायतनः स्यात् । तूष्णीमेव न्यस्येत् । न प्रमायुको भवति । नानायतनः । यत्त्रीन्परिधीन्परिदध्यात् ॥ १। ६। ८। ८॥ ६० मृत्युना यजमानं परिगृह्णीयात् । यन्न परिदध्यात् । रक्षाꣳसि यज्ञꣳ हन्युः । द्वौ परिधी परिदधाति । रक्षसामपहत्यै । अथो मृत्योरेव यजमानमुथ्सृजति । यत्त्रीणि त्रीणि हवीग्ष्युदाहरेयुः । त्रयस्त्रय एषाꣳ साकं प्रमीयेरन् । एकैकमनूचीनान्युदाहरन्ति । एकैक एवैषामन्वञ्चः प्रमीयते । कशिपु कशिपव्याय । उपबर्हणमुपबर्हण्याय । आञ्जनमाञ्जन्याय । अभ्यञ्जनमभ्यञ्जन्याय । यथाभागमेवैनान्प्रीणाति ॥ १। ६। ८। ९॥ निरवदयते पितृमानग्निष्वात्ता एकयोप मन्थत्यखाता भवति मनुष्याणां पद्यन्ते परिदध्यान्मीयते पञ्च च ॥ ८॥ ६१ अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानु ब्रूहीत्याह । उभये हि देवाश्च पितरश्चेज्यन्ते । एकामन्वाह । एका हि पितृणाम् । त्रिरन्वाह । त्रिर्हि देवानाम् । आघारावाघारयति । यज्ञपरुषोरनन्तरित्यै । नार्षेयं वृणीते । न होतारम् ॥ १। ६। ९। १॥ ६२ यदार्षेयं वृणीत । यद्धोतारम् । प्रमायुको यजमानः स्यात् । प्रमायुको होता । तस्मान्न वृणीते । यजमानस्य होतुर्गोपीथाय । अप बर्हिषः प्रयाजान्, यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योरुथ्सृजति । आज्यभागौ यजति ॥ १। ६। ९। २॥ ६३ यज्ञस्यैव चक्षुषी नान्तरेति । प्राचीनावीती सोमं यजति । पितृदेवत्या हि । एषाऽऽहुतिः । पञ्चकृत्वोऽवद्यति । पञ्च ह्येता देवताः । द्वे पुरोऽनुवाक्ये । याज्या देवता वषट्कारः । ता एव प्रीणाति । सन्ततमवद्यति ॥ १। ६। ९। ३॥ ६४ ऋतूनाꣳ संतत्यै । प्रैवैभ्यः पूर्वया पुरोऽनुवाक्ययाऽऽह । प्रणयति द्वितीयया । गमयति याज्यया । तृतीये वा इतो लोके पितरः । अह्न एवैनान् पूर्वया पुरोऽनुवाक्ययाऽत्यानयति । रात्रियै द्वितीयया । ऐवैनान् याज्यया गमयति । दक्षिणतोऽवदाय । उदङ्ङतिक्रामति व्यावृत्त्यै ॥ १। ६। ९। ४॥ ६५ आस्वधेत्याश्रावयति । अस्तु स्वधेति प्रत्याश्रावयति । स्वधा नम इति वषट्करोति । स्वधाकारो हि पितृणाम् । सोममग्रे यजति । सोमप्रयाजा हि पितरः । सोमं पितृमन्तं यजति । संवथ्सरो वै सोमः पितृमान् । संवथ्सरमेव तद्यजति । पितॄन्बर्हिषदो यजति ॥ १। ६। ९। ५॥ ६६ ये वै यज्वानः । ते पितरो बर्हिषदः । तानेव तद्यजति । पितॄनग्निष्वात्तान्, यजति । ये वा अयज्वानो गृहमेधिनः । ते पितरोऽग्निष्वात्ताः । तानेव तद्यजति । अग्निं कव्यवाहनं यजति । य एव पितृणामग्निः । तमेव तद्यजति ॥ १। ६। ९। ६॥ ६७ अथो यथाऽग्नि२ꣳ स्विष्टकृतं यजति । तादृगेव तत् । एतत्ते तत ये च त्वामन्विति तिसृषु स्रक्तीषु निदधाति । तस्मादा तृतीयात्पुरुषान्नाम न गृह्णन्ति । एतावन्तो हीज्यन्ते । अत्र पितरो यथाभागं मन्दध्वमित्याह । ह्लीका हि पितरः । उदञ्चो निष्क्रामन्ति । एषा वै मनुष्याणां दिक् । स्वामेव तद्दिशमनु निष्क्रामन्ति ॥ १। ६। ९। ७॥ ६८ आहवनीयमुपतिष्ठन्ते । न्येवास्मै तद्ध्नुवते । यथ्सत्याहवनीये । अथान्यत्र चरन्ति । आतमितोरुपतिष्ठन्ते । अग्निमेवोपद्रष्टारं कृत्वा । पितॄन्निरवदयन्ते । अन्तं वा एते प्राणानां गच्छन्ति । य आतमितोरुप तिष्ठन्ते । सुसंदृशं त्वा वयमित्याह ॥ १। ६। ९। ८॥ ६९ प्राणो वै सुसंदृक् । प्राणमेवात्मन्दधते । योजान्विन्द्र ते हरी इत्याह । प्राणमेव पुनरयुक्त । अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते । अक्षन्नमीमदन्ताथ त्वोपतिष्ठामह इति वावैतदाह । अमीमदन्त पितरः सोम्या इत्यभि प्रपद्यन्ते । अमीमदन्त पितरोऽथ त्वाऽभि प्रपद्यामह इति वावैतदाह । अपः परिषिञ्चति । मार्जयत्येवैनान् ॥ १। ६। ९। ९॥ ७० अथो तर्पयत्येव । तृप्यति प्रजया पशुभिः । य एवं वेद । अप बर्हिषावनूयाजौ यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योरुथ्सृजति । चतुरः प्रयाजान्, यजति । द्वावनूयाजौ । षट्थ्संपद्यन्ते । षड्वा ऋतवः ॥ १। ६। ९। १०॥ ७१ ऋतूनेव प्रीणाति । न पत्न्यन्वास्ते । न संयाजयन्ति । यत्पत्न्यन्वासीत । यथ्संयाजयेयुः । प्रमायुका स्यात् । तस्मान्नान्वास्ते । न संयाजयन्ति । पत्नियै गोपीथाय ॥ १। ६। ९। ११॥ होतारमाज्यभागौ यजति संततमव द्यति व्यावृत्त्यै बर्हिषदो यजति तमेव तद्यजत्यनु निष्क्रामन्त्याहैनानृतवो नव च ॥ ९॥ ७२ प्रतिपूरुषमेककपालान्निर्वपति । जाता एव प्रजा रुद्रान्निरवदयते । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा रुद्रान्निरवदयते । एककपाला भवन्ति । एकधैव रुद्रं निरवदयते । नाभिघारयति । यदभिघारयेत् । अन्तरवचारिणꣳ रुद्रं कुर्यात् । एकोल्मुकेन यन्ति ॥ १। ६। १०। १॥ ७३ तद्धि रुद्रस्य भागधेयम् । इमां दिशं यन्ति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत । असौ ते पशुरिति निर्दिशेद्यं द्विष्यात् । यमेव द्वेष्टि । तमस्मै पशुं निर्दिशति । यदि न द्विष्यात् । आखुस्ते पशुरिति ब्रूयात् ॥ १। ६। १०। २॥ ७४ न ग्राम्यान्पशून् हिनस्ति । नारण्यान् । चतुष्पथे जुहोति । एष वा अग्नीनां पड्बीशो नाम । अग्निवत्येव जुहोति । मध्यमेन पर्णेन जुहोति । स्रुग्घ्येषा । अथो खलु । अन्तमेनैव होतव्यम् । अन्तत एव रुद्रं निरवदयते ॥ १। ६। १०। ३॥ ७५ एष ते रुद्र भागः सह स्वस्राऽम्बिकयेत्याह । शरद्वा अस्याम्बिका स्वसा । तया वा एष हिनस्ति । यꣳ हिनस्ति । तयैवैनꣳ सह शमयति । भेषजं गव इत्याह । यावन्त एव ग्राम्याः पशवः । तेभ्यो भेषजं करोति । अवाम्ब रुद्रमदिमहीत्याह । आशिषमेवैतामाशास्ते ॥ १। ६। १०। ४॥ ७६ त्र्यम्बकं यजामह इत्याह । मृत्योर्मुक्षीय माऽमृतादिति वावैतदाह । उत्किरन्ति । भगस्य लीप्सन्ते । मूते कृत्वाऽऽसजन्ति । यथा जनं यतेऽवसं करोति । तादृगेव तत् । एष ते रुद्र भाग इत्याह निरवत्त्यै । अप्रतीक्षमायन्ति । अपः परिषिञ्चति । रुद्रस्यान्तर्हित्यै । प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये त्र्यम्बकैश्चरन्ति । आदित्यं चरुं पुनरेत्य निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति ॥ १। ६। १०। ५॥ यन्ति ब्रूयान्निरवदयते शास्ते सिञ्चति षट्च ॥ १०॥ अनुमत्यै वैश्वदेवेन ताः सृष्टास्त्रिवृत्प्रजापतिः सवितोत्तरस्यां देवासुराः सोऽग्निर्यत्पत्नी वैश्वदेवेन ता वरुणप्रघासैरग्नये देवेभ्यः प्रतिपूरुषं दश ॥ १०॥ अनुमत्यै प्रथमजो वथ्सो बहुरूपा हि पशवस्तस्मात्पृथमात्रं यदग्नयेऽनीकवत उद्धारं वा अग्नये देवेभ्य ऋतूनेव षट्थ्सप्ततिः ॥ ७६॥ अनुमत्यै प्रतितिष्ठंति ॥

प्रथमाष्टके सप्तमः प्रपाठकः ७

१ एतद्ब्राह्मणान्येव पञ्च हवीꣳषि । अथेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं निर्वपति । संवथ्सरो वा इन्द्रा शुनासीरः । संवथ्सरेणैवास्मा अन्नमवरुन्धे । वायव्यं पयो भवति । वायुर्वै वृष्ट्यै प्रदापयिता । स एवास्मै वृष्टिं प्रदापयति । सौर्य एककपालो भवति । सूर्येण वा अमुष्मिं ल्लोके वृष्टिर्धृता । स एवास्मै वृष्टिं नियच्छति ॥ १। ७। १। १॥ २ द्वादशगवꣳ सीरं दक्षिणा समृद्ध्यै । देवासुराः संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोऽब्रवीत् । त्रेधाऽहमात्मानं विकरिष्य इति । स त्रेधाऽऽत्मानं व्यकुरुत । अग्निं तृतीयम् । रुद्रं तृतीयम् । वरुणं तृतीयम् ॥ १। ७। १। २॥ ३ सोऽब्रवीत् । क इदं तुरीयमिति । अहमितीन्द्रोऽब्रवीत् । सं तु सृजावहा इति । तौ समसृजेताम् । स इन्द्रस्तुरीयमभवत् । यदिन्द्रस्तुरीयमभवत् । तदिन्द्रतुरीयस्येन्द्रतुरीयत्वम् । ततो वै देवा व्यजयन्त । यदिन्द्रतुरीयं निरुप्यते विजित्यै ॥ १। ७। १। ३॥ ४ वहिनी धेनुर्दक्षिणा । यद्वहिनी । तेनाऽऽग्नेयी । यद्गौः । तेन रौद्री । यद्धेनुः । तेनैन्द्री । यथ्स्त्री सती दान्ता । तेन वारुणी समृद्ध्यै । प्रजापतिर्यज्ञमसृजत ॥ १। ७। १। ४॥ ५ तꣳ सृष्टꣳ रक्षाग्स्यजिघाꣳसन् । स एताः प्रजापतिरात्मनो देवता निरमिमीत । ताभिर्वै स दिग्भ्यो रक्षाꣳसि प्राणुदत । यत्पञ्चावत्तीयं जुहोति । दिग्भ्य एव तद्यजमानो रक्षाꣳसि प्रणुदते । समूढꣳ रक्षः संदग्धꣳ रक्ष इत्याह । रक्षाग्स्येव संदहति । अग्नये रक्षोघ्ने स्वाहेत्याह । देवताभ्य एव विजिग्यानाभ्यो भागधेयं करोति । प्रष्टिवाही रथो दक्षिणा समृद्ध्यै ॥ १। ७। १। ५॥ ६ इन्द्रो वृत्रꣳ हत्वा । असुरान्पराभाव्य । नमुचिमासुरं नालभत । तꣳ शच्याऽगृह्णात् । तौ समलभेताम् । सोऽस्मादभिशुनतरोऽभवत् । सोऽब्रवीत् । संधाꣳ संदधावहै । अथ त्वाऽव स्रक्ष्यामि । न मा शुष्केण नार्द्रेण हनः ॥ १। ७। १। ६॥ ७ न दिवा न नक्तमिति । स एतमपां फेनमसिञ्चत् । न वा एष शुष्को नार्द्रो व्युष्टाऽऽसीत् । अनुदितः सूर्यः । न वा एतद्दिवा न नक्तम् । तस्यैतस्मि३ꣳल्लोके । अपां फेनेन शिर उदवर्तयत् । तदेनमन्ववर्तत । मित्रद्रुगिति ॥ १। ७। १। ७॥ ८ स एतानपामार्गानजनयत् । तानजुहोत् । तैर्वै स रक्षाग्स्यपाहत । यदपामार्गहोमो भवति । रक्षसामपहत्यै । एकोल्मुकेन यन्ति । तद्धि रक्षसां भागधेयम् । इमां दिशं यन्ति । एषा वै रक्षसां दिक् । स्वायामेव दिशि रक्षाꣳसि हन्ति ॥ १। ७। १। ८॥ ९ स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वै रक्षसामायतनम् । स्व एवायतने रक्षाꣳसि हन्ति । पर्णमयेन स्रुवेण जुहोति । ब्रह्म वै पर्णः । ब्रह्मणैव रक्षाꣳसि हन्ति । देवस्य त्वा सवितुः प्रसव इत्याह । सवितृप्रसूत एव रक्षाꣳसि हन्ति । हतꣳ रक्षोऽवधिष्म रक्ष इत्याह । रक्षसाग् स्तृत्यै । यद्वस्ते तद्दक्षिणा निरवत्त्यै । अप्रतीक्षमायन्ति । रक्षसामन्तर्हित्यै ॥ १। ७। १। ९॥ यच्छति वरुणं तृतीयं विजित्या असृजत समृद्ध्यै हनो मित्रद्रुगिति हन्ति स्तृत्यै त्रीणि च ॥ १॥ १० धात्रे पुरोडाशं द्वादशकपालं निर्वपति । संवथ्सरो वै धाता । संवथ्सरेणैवास्मै प्रजाः प्रजनयति । अन्वेवास्मा अनुमतिर्मन्यते । राते राका । प्र सिनीवाली जनयति । प्रजास्वेव प्रजातासु कुह्वा वाचं दधाति । मिथुनौ गावौ दक्षिणा समृद्ध्यै । आग्नावैष्णवमेकादशकपालं निर्वपति । ऐन्द्रावैष्णवमेकादशकपालम् ॥ १। ७। २। १॥ ११ वैष्णवं त्रिकपालम् । वीर्यं वा अग्निः । वीर्यमिन्द्रः । वीर्यं विष्णुः । प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति । तस्मात्प्रजा वीर्यावतीः । वामन ऋषभो वही दक्षिणा । यद्वही । तेनाग्नेयः । यदृषभः ॥ १। ७। २। २॥ १२ तेनैन्द्रः । यद्वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमीयमेकादशकपालं निर्वपति । इन्द्रासोमीयमेकादशकपालम् । सौम्यं चरुम् । सोमो वै रेतोधाः । अग्निः प्रजानां प्रजनयिता । वृद्धानामिन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति ॥ १। ७। २। ३॥ १३ अग्निः प्रजां प्रजनयति । वृद्धामिन्द्रः प्रयच्छति । बभ्रुर्दक्षिणा समृद्ध्यै । सोमापौष्णं चरुं निर्वपति । ऐन्द्रापौष्णं चरुम् । सोमो वै रेतोधाः । पूषा पशूनां प्रजनयिता । वृद्धानामिन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति । पूषा पशून्प्रजनयति ॥ १४ वृद्धानिन्द्रः प्रयच्छति । पौष्णश्चरुर्भवति । इयं वै पूषा । अस्यामेव प्रतितिष्ठति । श्यामो दक्षिणा समृद्ध्यै । बहु वै पुरुषो मेध्यमुपगच्छति । वैश्वानरं द्वादशकपालं निर्वपति । संवथ्सरो वा अग्निर्वैश्वानरः । संवथ्सरेणैवैनग्ग् स्वदयति । हिरण्यं दक्षिणा ॥ १। ७। २। ५॥ १५ पवित्रं वै हिरण्यम् । पुनात्येवैनम् । बहु वै राजन्योऽनृतं करोति । उपजाम्यै हरते । जिनाति ब्राह्मणम् । वदत्यनृतम् । अनृते खलु वै क्रियमाणे वरुणो गृह्णाति । वारुणं यवमयं चरुं निर्वपति । वरुणपाशादेवैनं मुञ्चति । अश्वो दक्षिणा । वारुणो हि देवतयाऽश्वः समृद्ध्यै ॥ १। ७। २। ६॥ ऐन्द्रावैष्णवमेकादशकपालं यदृषभो दधाति पूषा पशून्प्रजनयति हिरण्यं दक्षिणा दक्षिणैकं च ॥ २॥ १६ रत्निनामेतानि हवीꣳषि भवन्ति । एते वै राष्ट्रस्य प्रदातारः । एतेऽपादातारः । य एव राष्ट्रस्य प्रदातारः । येऽपादातारः । त एवास्मै राष्ट्रं प्रयच्छन्ति । राष्ट्रमेव भवति । यथ्समाहृत्य निर्वपेत् । अरत्निनः स्युः । यथायथं निर्वपति रत्नित्वाय ॥ १। ७। ३। १॥ १७ यथ्सद्यो निर्वपेत् । यावतीमेकेन हविषाऽऽशिषमव रुन्धे । तावतीमवरुन्धीत । अन्वहं निर्वपति । भूयसीमेवाशिषमवरुन्धे । भूयसो यज्ञक्रतूनुपैति । बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । मुखत एवास्मै ब्रह्म स२ꣳश्यति । अथो ब्रह्मन्नेव क्षत्त्रमन्वारम्भयति । शितिपृष्ठो दक्षिणा समृद्ध्यै ॥ १। ७। ३। २॥ १८ ऐन्द्रमेकादशकपालꣳ राजन्यस्य गृहे । इन्द्रियमेवावरुन्धे । ऋषभो दक्षिणा समृद्ध्यै । आदित्यं चरुं महिष्यै गृहे । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । धेनुर्दक्षिणा समृद्ध्यै । भगाय चरुं वावातायै गृहे । भगमेवास्मिन्दधाति । विचित्तगर्भा पष्ठौही दक्षिणा समृद्ध्यै ॥ १। ७। ३। ३॥ १९ नैरृतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम् । पाप्मानमेव निरृतिं निरवदयते । कृष्णा कूटा दक्षिणा समृद्ध्यै । आग्नेयमष्टाकपालꣳ सेनान्यो गृहे । सेनामेवास्य स२ꣳश्यति । हिरण्यं दक्षिणा समृद्ध्यै । वारुणं दशकपालꣳ सूतस्य गृहे । वरुणसवमेवावरुन्धे । महानिरष्टो दक्षिणा समृद्ध्यै । मारुतꣳ सप्तकपालं ग्रामण्यो गृहे ॥ १। ७। ३। ४॥ २० अन्नं वै मरुतः । अन्नमेवावरुन्धे । पृश्निर्दक्षिणा समृद्ध्यै । सावित्रं द्वादशकपालं क्षत्तुर्गृहे प्रसूत्यै । उपध्वस्तो दक्षिणा समृद्ध्यै । आश्विनं द्विकपालꣳ संग्रहीतुर्गृहे । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति । सवात्यौ दक्षिणा समृद्ध्यै । पौष्णं चरुं भागदुघस्य गृहे ॥ १। ७। ३। ५॥ २१ अन्नं वै पूषा । अन्नमेवावरुन्धे । श्यामो दक्षिणा समृद्ध्यै । रौद्रं गावीधुकं चरुमक्षावापस्य गृहे । अन्तत एव रुद्रं निरवदयते । शबल उद्वारो दक्षिणा समृद्ध्यै । द्वादशैतानि हवीꣳषि भवन्ति । द्वादश मासाः संवथ्सरः । संवथ्सरेणैवास्मै राष्ट्रमवरुन्धे । राष्ट्रमेव भवति ॥ १। ७। ३। ६॥ २२ यन्न प्रतिनिर्वपेत् । रत्निन आशिषोऽवरुन्धीरन्न् । प्रतिनिर्वपति । इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालम् । इन्द्रायाꣳहोमुचे । आशिष एवावरुन्धे । अयन्नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादित्याह । आशिषमेवैतामाशास्ते । मैत्राबार्हस्पत्यं भवति । श्वेतायै श्वेतवथ्सायै दुग्धे ॥ १। ७। ३। ७॥ २३ बार्हस्पत्ये मैत्रमपि दधाति । ब्रह्म चैवास्मै क्षत्त्रं च समीची दधाति । अथो ब्रह्मन्नेव क्षत्त्रं प्रतिष्ठापयति । बार्हस्पत्येन पूर्वेण प्रचरति । मुखत एवास्मै ब्रह्म स२ꣳश्यति । अथो ब्रह्मन्नेव क्षत्त्रमन्वारम्भयति । स्वयंकृता वेदिर्भवति । स्वयंदिनं बर्हिः । स्वयंकृत इध्मः । अनभिजितस्याभिजित्यै । तस्माद्राज्ञामरण्यमभिजितम् । सैव श्वेता श्वेतवथ्सा दक्षिणा समृद्ध्यै ॥ १। ७। ३। ८॥ रत्नित्वाय समृद्ध्यै पष्ठौही दक्षिणा समृद्ध्यै ग्रामण्यो गृहे भागदुघस्य गृहे भवति दुग्धेऽभिजित्यै द्वे च ॥ ३॥ २४ देवसुवामेतानि हवीꣳषि भवन्ति । एतावन्तो वै देवानाꣳ सवाः । त एवास्मै सवान्प्रयच्छन्ति । त एनꣳ सुवन्ते । अग्निरेवैनं गृहपतीनाꣳ सुवते । सोमो वनस्पतीनाम् । रुद्रः पशूनाम् । बृहस्पतिर्वाचाम् । इन्द्रो ज्येष्ठानाम् । मित्रः सत्यानाम् ॥ १। ७। ४। १॥ २५ वरुणो धर्मपतीनाम् । एतदेव सर्वं भवति । सविता त्वा प्रसवानाꣳ सुवतामिति हस्तं गृह्णाति प्रसूत्यै । ये देवा देवसुवः स्थेत्याह । यथा यजुरेवैतत् । महते क्षत्त्राय महत आधिपत्याय महते जानराज्यायेत्याह । आशिषमेवैतामाशास्ते । एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्याह । तस्माथ्सोमराजानो ब्राह्मणाः । प्रतित्यन्नाम राज्यमधायीत्याह ॥ १। ७। ४। २॥ २६ राज्यमेवास्मिन् प्रतिदधाति । स्वां तनुवं वरुणो अशिश्रेदित्याह । वरुणसवमेवावरुन्धे । शुचेर्मित्रस्य व्रत्या अभूमेत्याह । शुचिमेवैनं व्रत्यं करोति । अमन्महि महत ऋतस्य नामेत्याह । मनुत एवैनम् । सर्वे व्राता वरुणस्याभूवन्नित्याह । सर्वव्रातमेवैनं करोति । वि मित्र एवैररातिमतारीदित्याह ॥ १। ७। ४। ३॥ २७ अरातिमेवैनं तारयति । असूषुदन्त यज्ञिया ऋतेनेत्याह । स्वदयत्येवैनम् । व्युत्रितो जरिमाणं न आनडित्याह । आयुरेवास्मिन्दधाति । द्वाभ्यां विमृष्टे । द्विपाद्यजमानः प्रतिष्ठित्यै । अग्नीषोमीयस्य चैकादशकपालस्य देवसुवां च हविषामग्नये स्विष्टकृते समवद्यति । देवताभिरेवैनमुभयतः परिगृह्णाति । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमान् लोकानभिजयति ॥ १। ७। ४। ४॥ सत्यानामधायीत्याहातारीदित्याह क्रमत एकं च ॥ ४॥ २८ अर्थेतः स्थेति जुहोति । आहुत्यैवैना निष्क्रीय गृह्णाति । अथो हविष्कृतानामेवाभिघृतानां गृह्णाति । वहन्तीनां गृह्णाति । एता वा अपाꣳ राष्ट्रम् । राष्ट्रमेवास्मै गृह्णाति । अथो श्रियमेवैनमभिवहन्ति । अपां पतिरसीत्याह । मिथुनमेवाकः । वृषाऽस्यूर्मिरित्याह ॥ १। ७। ५। १॥ २९ ऊर्मिमन्तमेवैनं करोति । वृषसेनोऽसीत्याह । सेनामेवास्य स२ꣳश्यति । व्रजक्षितः स्थेत्याह । एता वा अपां विशः । विशमेवास्मै पर्यूहति । मरुतामोजः स्थेत्याह । अन्नं वै मरुतः । अन्नमेवावरुन्धे । सूर्यवर्चसः स्थेत्याह ॥ १। ७। ५। २॥ ३० राष्ट्रमेव वर्चस्व्यकः । सूर्यत्वचसः स्थेत्याह । सत्यं वा एतत् । यद्वर्षति । अनृतं यदा तपति वर्षति । सत्यानृते एवावरुन्धे । नैनꣳ सत्यानृते उदिते हिग्ग्स्तः । य एवं वेद । मान्दाः स्थेत्याह । राष्ट्रमेव ब्रह्मवर्चस्यकः ॥ १। ७। ५। ३॥ ३१ वाशाः स्थेत्याह । राष्ट्रमेव वश्यकः । शक्वरीः स्थेत्याह । पशवो वै शक्वरीः । पशूनेवावरुन्धे । विश्वभृतः स्थेत्याह । राष्ट्रमेव पयस्व्यकः । जनभृतः स्थेत्याह । राष्ट्रमेवेन्द्रियाव्यकः । अग्नेस्तेजस्याः स्थेत्याह ॥ १। ७। ५। ४॥ ३२ राष्ट्रमेव तेजस्व्यकः । अपामोषधीनाꣳ रसः स्थेत्याह । राष्ट्रमेव मधव्यमकः । सारस्वतं ग्रहं गृह्णाति । एषा वा अपां पृष्ठम् । यथ्सरस्वती । पृष्ठमेवैनꣳ समानानां करोति । षोडशभिर्गृह्णाति । षोडशकलो वै पुरुषः । यावानेव पुरुषः । तस्मिन्वीर्यं दधाति । षोडशभिर्जुहोति षोडशभिर्गृह्णाति । द्वात्रिꣳशथ्संपद्यन्ते । द्वात्रिꣳशदक्षराऽनुष्टुक् । वागनुष्टुप् सर्वाणि छन्दाꣳसि । वाचैवैनꣳ सर्वेभिश्छन्दोभिरभिषिञ्चति ॥ १। ७। ५। ५॥ ऊर्मिरित्याह सूर्यवर्चसः स्थेत्याह ब्रह्मवर्चस्यकस्तेजस्याः स्थेत्याहैव पुरुषः षट्च ॥ ५॥ ३३ देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । ब्रह्मणैवैनाः सꣳसृजति । अनाधृष्टाः सीदतेत्याह । ब्रह्मणैवैनाः सादयति । अन्तरा होतुश्च धिष्णियं ब्राह्मणाच्छꣳसिनश्च सादयति । आग्नेयो वै होता । ऐन्द्रो ब्राह्मणाच्छꣳसी । तेजसा चैवेन्द्रियेण चोभयतो राष्ट्रं परिगृह्णाति । हिरण्येनोत्पुनाति । आहुत्यै हि पवित्राभ्यामुत्पुनन्ति व्यावृत्त्यै ॥ १। ७। ६। १॥ ३४ शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । अनिभृष्टमसीत्याह । अनिभृष्टग्ग् ह्येतत् । वाचो बन्धुरित्याह । वाचो ह्येष बन्धुः । तपोजा इत्याह । तपोजा ह्येतत् । सोमस्य दात्रमसीत्याह ॥ १। ७। ६। २॥ ३५ सोमस्य ह्येतद्दात्रम् । शुक्रा वः शुक्रेणोत्पुनामीत्याह । शुक्रा ह्यापः । शुक्रꣳ हिरण्यम् । चन्द्राश्चन्द्रेणेत्याह । चन्द्रा ह्यापः । चन्द्रꣳ हिरण्यम् । अमृता अमृतेनेत्याह । अमृता ह्यापः । अमृतꣳ हिरण्यम् ॥ १। ७। ६। ३॥ ३६ स्वाहा राजसूयायेत्याह । राजसूयाय ह्येना उत्पुनाति । सधमादो द्युम्निनीरूर्ज एता इति वारुण्यर्चा गृह्णाति । वरुणसवमेवावरुन्धे । एकया गृह्णाति । एकधैव यजमाने वीर्यं दधाति । क्षत्त्रस्योल्बमसि क्षत्त्रस्य योनिरसीति तार्प्यं चोष्णीषं च प्रयच्छति सयोनित्वाय । एकशतेन दर्भपुंजीलैः पवयति । शतायुर्वै पुरुषः शतवीर्यः । आत्मैकशतः ॥ १। ७। ६। ४॥ ३७ यावानेव पुरुषः । तस्मिन्वीर्यं दधाति । दध्याशयति । इन्द्रियमेवावरुन्धे । उदुम्बरमाशयति । अन्नाद्यस्यावरुद्ध्यै । शष्पाण्याशयति । सुराबलिमेवैनं करोति । आविद एता भवन्ति । आविदमेवैनं गमयन्ति ॥ १। ७। ६। ५॥ ३८ अग्निरेवैनं गार्हपत्येनावति । इन्द्र इन्द्रियेण । पूषा पशुभिः । मित्रावरुणौ प्राणापानाभ्याम् । इन्द्रो वृत्राय वज्रमुदयच्छत् । स दिवमलिखत् । सोऽर्यम्णः पन्था अभवत् । स आविन्ने द्यावापृथिवी धृतव्रते इति द्यावापृथिवी उपाधावत् । स आभ्यामेव प्रसूत इन्द्रो वृत्राय वज्रं प्राहरत् । आविन्ने द्यावापृथिवी धृतव्रते इति यदाह ॥ १। ७। ६। ६॥ ३९ आभ्यामेव प्रसूतो यजमानो वज्रं भ्रातृव्याय प्रहरति । आविन्ना देव्यदितिर्विश्वरूपीत्याह । इयं वै देव्यदितिर्विश्वरूपी । अस्यामेव प्रतितिष्ठति । आविन्नोऽयमसावामुष्यायणोऽस्यां विश्यस्मिन्राष्ट्र इत्याह । विशैवैनꣳ राष्ट्रेण समर्धयति । महते क्षत्त्राय महत आधिपत्याय महते जानराज्यायेत्याह । आशिषमेवैतामाशास्ते । एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्याह । तस्माथ्सोमराजानो ब्राह्मणाः ॥ १। ७। ६। ७॥ ४० इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति धनुः प्रयच्छति विजित्यै । शत्रुबाधनाः स्थेतीषून् । शत्रूनेवास्य बाधन्ते । पात मा प्रत्यञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पातेत्याह । तिस्रो वै शरव्याः । प्रतीची तिरश्च्यनूची । ताभ्य एवैनं पान्ति । दिग्भ्यो मा पातेत्याह । दिग्भ्य एवैनं पान्ति । विश्वाभ्यो मा नाष्ट्राभ्यः पातेत्याह । अपरिमितादेवैनं पान्ति । हिरण्यवर्णावुषसां विरोक इति त्रिष्टुभा बाहू उद्गृह्णाति । इन्द्रियं वै वीर्यं त्रिष्टुक् । इन्द्रियमेव वीर्यमुपरिष्टादात्मन्धत्ते ॥ १। ७। ६। ८॥ व्यावृत्त्यै दात्रमसीत्याहामृतꣳ हिरण्यमेकशतो गमयन्त्याह ब्राह्मणा नाष्ट्राभ्यः पातेत्याह चत्वारि च ॥ ६॥ ४१ दिशो व्यास्थापयति । दिशामभिजित्यै । यदनुप्रक्रामेत् । अभि दिशो जयेत् । उत्तु माद्येत् । मनसाऽनु प्रक्रामति । अभि दिशो जयति । नोन्माद्यति । समिधमा तिष्ठेत्याह । तेज एवावरुन्धे ॥ १। ७। ७। १॥ ४२ उग्रा मा तिष्ठेत्याह । इन्द्रियमेवावरुन्धे । विराज मा तिष्ठेत्याह । अन्नाद्यमेवावरुन्धे । उदीची मा तिष्ठेत्याह । पशूनेवावरुन्धे । ऊर्ध्वा मा तिष्ठेत्याह । सुवर्गमेव लोकमभिजयति । अनूज्जिहीते । सुवर्गस्य लोकस्य समष्ट्यै ॥ १। ७। ७। २॥ ४३ मारुत एष भवति । अन्नं वै मरुतः । अन्नमेवावरुन्धे । एकविꣳशतिकपालो भवति प्रतिष्ठित्यै । योऽरण्येऽनुवाक्यो गणः । तं मध्यत उपदधाति । ग्राम्यैरेव पशुभिरारण्यान् पशून् परिगृह्णाति । तस्माद्ग्राम्यैः पशुभिरारण्याः पशवः परिगृहीताः । पृथिर्वैन्यः । अभ्यषिच्यत ॥ १। ७। ७। ३॥ ४४ स राष्ट्रं नाभवत् । स एतानि पार्थान्यपश्यत् । तान्यजुहोत् । तैर्वै स राष्ट्रमभवत् । यत्पार्थानि जुहोति । राष्ट्रमेव भवति । बार्हस्पत्यं पूर्वेषामुत्तमं भवति । ऐन्द्रमुत्तरेषां प्रथमम् । ब्रह्म चैवास्मै क्षत्त्रं च समीची दधाति । अथो ब्रह्मन्नेव क्षत्त्रं प्रतिष्ठापयति ॥ १। ७। ७। ४॥ ४५ षट्पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टात् । द्वादश संपद्यन्ते । द्वादश मासाः संवथ्सरः । संवथ्सरः खलु वै देवानां पूः । देवानामेव पुरं मध्यतो व्यवसर्पति । तस्य न कुतश्चनोपाव्याधो भवति । भूतानामवेष्टीर्जुहोति । अत्रात्र वै मृत्युर्जायते । यत्र यत्रैव मृत्युर्जायते । तत एवैनमवयजते । तस्माद्राजसूयेनेजानः सर्वमायुरेति । सर्वे ह्यस्य मृत्यवोऽवेष्टाः । तस्माद्राजसूयेनेजानो नाभिचरितवै । प्रत्यगेनमभिचारः स्तृणुते ॥ १। ७। ७। ५॥ रुन्धे समष्ट्या असिच्यत स्थापयति जायते पञ्च च ॥ ७॥ ४६ सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादिति शार्दूलचर्मोपस्तृणाति । यैव सोमे त्विषिः । या शार्दूले । तामेवावरुन्धे । मृत्योर्वा एष वर्णः । यच्छार्दूलः । अमृतꣳ हिरण्यम् । अमृतमसि मृत्योर्मा पाहीति हिरण्यमुपास्यति । अमृतमेव मृत्योरन्तर्धत्ते । शतमानं भवति ॥ १। ७। ८। १॥ ४७ शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । दिद्योन्मा पाहीत्युपरिष्टादधि निदधाति । उभयत एवास्मै शर्म दधाति । अवेष्टा दन्दशूका इति क्लीबꣳ सीसेन विध्यति । दन्दशूकानेवावयजते । तस्मात्क्लीबं दन्दशूका दꣳ शुकाः । निरस्तं नमुचेः शिर इति लोहितायसं निरस्यति । पाप्मानमेव नमुचिं निरवदयते । प्राणा आत्मनः पूर्वेऽभिषिच्या इत्याहुः ॥ १। ७। ८। २॥ ४८ सोमो राजा वरुणः । देवा धर्मसुवश्च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तामित्याह । प्राणानेवात्मनः पूर्वानभिषिञ्चति । यद्ब्रूयात् । अग्नेस्त्वा तेजसाऽभिषिञ्चामीति । तेजस्व्येव स्यात् । दुश्चर्मा तु भवेत् । सोमस्य त्वा द्युम्नेनाभिषिञ्चामीत्याह । सौम्यो वै देवतया पुरुषः ॥ १। ७। ८। ३॥ ४९ स्वयैवैनं देवतयाऽभिषिञ्चति । अग्नेस्तेजसेत्याह । तेज एवास्मिन्दधाति । सूर्यस्य वर्चसेत्याह । वर्च एवास्मिन्दधाति । इन्द्रस्येन्द्रियेणेत्याह । इन्द्रियमेवास्मिन्दधाति । मित्रावरुणयोर्वीर्येणेत्याह । वीर्यमेवास्मिन्दधाति । मरुतामोजसेत्याह ॥ १। ७। ८। ४॥ ५० ओज एवास्मिन्दधाति । क्षत्त्राणां क्षत्त्रपतिरसीत्याह । क्षत्त्राणामेवैनं क्षत्त्रपतिं करोति । अतिदिवस्पाहीत्याह । अत्यन्यान्पाहीति वावैतदाह । समाववृत्रन्नधरागुदीचीरित्याह । राष्ट्रमेवास्मिन्ध्रुवमकः । उच्छेषणेन जुहोति । उच्छेषणभागो वै रुद्रः । भागधेयेनैव रुद्रं निरवदयते ॥ १। ७। ८। ५॥ ५१ उदङ्परेत्याग्नीद्ध्रे जुहोति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । रुद्र यत्ते क्रयीपरं नामेत्याह । यद्वा अस्य क्रयीपरं नाम । तेन वा एष हिनस्ति । यꣳ हिनस्ति । तेनैवैनꣳ सह शमयति । तस्मै हुतमसि यमेष्टमसीत्याह । यमादेवास्य मृत्युमवयजते ॥ १। ७। ८। ६॥ ५२ प्रजापते न त्वदेतान्यन्य इति तस्यै गृहे जुहुयात् । यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति । राष्ट्रमेवास्यै प्रजा भवति । पर्णमयेनाध्वर्युरभिषिञ्चति । ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति । औदुम्बरेण राजन्यः । ऊर्जमेवास्मिन्नन्नाद्यं दधाति । आश्वत्थेन वैश्यः । विशमेवास्मिन्पुष्टिं दधाति । नैयग्रोधेन जन्यः । मित्राण्येवास्मै कल्पयति । अथो प्रतिष्ठित्यै ॥ १। ७। ८। ७॥ भवत्याहुः पुरुष ओजसेत्याह निरवदयते यजते जन्यो द्वे च ॥ ८॥ ५३ इन्द्रस्य वज्रोसि वार्त्रघ्न इति रथमुपावहरति विजित्यै । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीत्याह । ब्रह्मणैवैनं देवताभ्यां युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथमेवास्मै युनक्ति । त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । द्वौ सव्येष्ठसारथी । षट्थ्संपद्यन्ते ॥ १। ७। ९। १॥ ५४ षड्वा ऋतवः । ऋतुभिरेवैनं युनक्ति । विष्णुक्रमान्क्रमते । विष्णुरेव भूत्वेमान् लोकानभिजयति । यः, क्षत्त्रियः प्रतिहितः । सोऽन्वारभते । राष्ट्रमेव भवति । त्रिष्टुभाऽन्वारभते । इन्द्रियं वै त्रिष्टुक् । इन्द्रियमेव यजमाने दधाति ॥ १। ७। ९। २॥ ५५ मरुतां प्रसवे जेषमित्याह । मरुद्भिरेव प्रसूत उज्जयति । आप्तं मन इत्याह । यदेव मनसैफ्सीत् । तदापत् । राजन्यं जिनाति । अनाक्रान्त एवाक्रमते । वि वा एष इन्द्रियेण वीर्येणर्द्ध्यते । यो राजन्यं जिनाति । समहमिन्द्रियेण वीर्येणेत्याह ॥ १। ७। ९। ३॥ ५६ इन्द्रियमेव वीर्यमात्मन्धत्ते । पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति वाराही उपानहावुपमुञ्चते । पशूनां वा एष मन्युः । यद्वराहः । तेनैव पशूनां मन्युमात्मन्धत्ते । अभि वा इयꣳ सुषुवाणं कामयते । तस्येश्वरेन्द्रियं वीर्यमादातोः । वाराही उपानहावुपमुञ्चते । अस्या एवान्तर्धत्ते । इन्द्रियस्य वीर्यस्यानात्यै ॥ १। ७। ९। ४॥ ५७ नमो मात्रे पृथिव्या इत्याहाहिꣳसायै । इयदस्यायुरस्यायुर्मे धेहीत्याह । आयुरेवात्मन्धत्ते । ऊर्गस्यूर्जं मे धेहीत्याह । ऊर्जमेवात्मन्धत्ते । युङ्ङसि वर्चोऽसि वर्चो मयि धेहीत्याह । वर्च एवात्मन्धत्ते । एकधा ब्रह्मण उपहरति । एकधैव यजमान आयुरूर्जं वर्चो दधाति । रथविमोचनीया जुहोति प्रतिष्ठित्यै ॥ १। ७। ९। ५॥ ५८ त्रयोऽश्वा भवन्ति । रथश्चतुर्थः । तस्माच्चतुर्जुहोति । यदुभौ सहावतिष्ठेताम् । समानं लोकमियाताम् । सह संग्रहीत्रा रथवाहने रथमादधाति । सुवर्गादेवैनं लोकादन्तर्दधाति । हꣳसः शुचिषदित्यादधाति । ब्रह्मणैवैनमुपावहरति । ब्रह्मणाऽऽदधाति । अतिच्छन्दसाऽऽदधाति । अतिच्छन्दा वै सर्वाणि छन्दाꣳसि । सर्वेभिरेवैनं छन्दोभिरादधाति । वर्ष्म वा एषा छन्दसाम् । यदतिच्छन्दाः । यदतिच्छन्दसा दधाति । वर्ष्मैवैनꣳ समानानां करोति ॥ १। ७। ९। ६॥ पद्यन्ते दधाति वीर्येणेत्याहानात्यै प्रतिष्ठित्यै ब्रह्मणाऽऽदधाति सप्त च ॥ ९॥ ५९ मित्रोऽसि वरुणोऽसीत्याह । मैत्रं वा अहः । वारुणी रात्रिः । अहोरात्राभ्यामेवैनमुपावहरति । मित्रोऽसि वरुणोऽसीत्याह । मैत्रो वै दक्षिणः । वारुणः सव्यः । वैश्वदेव्यामिक्षा । स्वमेवैनौ भागधेयमुपावहरति । समहं विश्वैर्देवैरित्याह ॥ १। ७। १०। १॥ ६० वैश्वदेव्यो वै प्रजाः । ता एवाद्याः कुरुते । क्षत्त्रस्य नाभिरसि क्षत्त्रस्य योनिरसीत्यधीवासमास्तृणाति सयोनित्वाय । स्योना मासीद सुषदा मासीदेत्याह । यथा यजुरेवैतत् । मा त्वा हिꣳसीन्मा मा हिꣳसीदित्याहाहिꣳसायै । निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुरित्याह । साम्राज्यमेवैनꣳ सुक्रतुं करोति । ब्रह्मा ३ न्त्वꣳ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इत्याह । सवितारमेवैनꣳ सत्यसवं करोति ॥ १। ७। १०। २॥ ६१ ब्रह्मा ३ न्त्वꣳ राजन्ब्रह्माऽसीन्द्रोऽसि सत्यौजा इत्याह । इन्द्रमेवैनꣳ सत्यौजसं करोति । ब्रह्मा ३ न्त्वꣳ राजन् ब्रह्माऽसि मित्रोऽसि सुशेव इत्याह । मित्रमेवैनꣳ सुशेवं करोति । ब्रह्मा ३ न्त्वꣳ राजन् ब्रह्माऽसि वरुणोऽसि सत्यधर्मेत्याह । वरुणमेवैनꣳ सत्यधर्माणं करोति । सविताऽसि सत्यसव इत्याह । गायत्रीमेवैतेनाभिव्याहरति । इन्द्रोऽसि सत्यौजा इत्याह । त्रिष्टुभमेवैतेनाभिव्याहरति ॥ १। ७। १०। ३॥ ६२ मित्रोऽसि सुशेव इत्याह । जगतीमेवैतेनाभिव्याहरति । सत्यमेता देवताः । सत्यमेतानि छन्दाꣳसि । सत्यमेवावरुन्धे । वरुणोऽसि सत्यधर्मेत्याह । अनुष्टुभमेवैतेनाभिव्याहरति । सत्यानृते वा अनुष्टुप् । सत्यानृते वरुणः । सत्यानृते एवावरुन्धे ॥ १। ७। १०। ४॥ ६३ नैनꣳ सत्यानृते उदिते हिग्ग्स्तः । य एवं वेद । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं प्रयच्छति । वज्रो वै स्फ्यः । वज्रेणैवास्मा अवरपरꣳ रन्धयति । एवꣳ हि तच्छ्रेयः । यदस्मा एते रध्येयुः । दिशोऽभ्ययꣳ राजाऽभूदिति पञ्चाक्षान्प्रयच्छति । एते वै सर्वेऽयाः । अपराजायिनमेवैनं करोति ॥ १। ७। १०। ५॥ ६४ ओदनमुद्ब्रुवते । परमेष्ठी वा एषः । यदोदनः । परमामेवैनग्ग् श्रियं गमयति । सुश्लोका ४ ं सुमङ्गला ४ ं सत्यराजा ३ नित्याह । आशिषमेवैतामाशास्ते । शौनःशेपमाख्यापयते । वरुणपाशादेवैनं मुञ्चति । परःशतं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । मारुतस्य चैकविꣳशतिकपालस्य वैश्वदेव्यै चामिक्षाया अग्नये स्विष्टकृते समवद्यति । देवताभिरेवैनमुभयतः परिगृह्णाति । अपांनप्त्रे स्वाहोर्जोनप्त्रे स्वाहाऽग्नये गृहपतये स्वाहेति तिस्र आहुतीर्जुहोति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति ॥ १। ७। १०। ६॥ देवैरित्याह सत्यसवं करोति त्रिष्टुभमेवैतेनाभि व्याहरति सत्यानृते एवावरुन्धे करोति शतेन्द्रियः षट्च ॥ १०॥ एतद्ब्राह्मणानि धात्रे रत्निनां देवसुवामर्थेऽतो देवीर्दिशः सोमस्येन्द्रस्य मित्रो दश ॥ १०॥ एतद्ब्राह्मणानि वैष्णवं त्रिकपालमन्नं वै पूषा वाशाः स्थेत्याह दिशो व्यास्थापयत्युदङ्परेत्य ब्रह्मा ३ न्त्वꣳ राजञ्चतुः षष्टिः ॥ ६४॥ एतद्ब्राह्मणानि प्रतितिष्ठति ॥

प्रथमाष्टके अष्टमः प्रपाठकः ८

१ वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं पराऽपतत् । तथ्सꣳसृद्भिरनुसमसर्पत् । तथ्सꣳसृपाꣳ सꣳसृत्त्वम् । अग्निना देवेन प्रथमेऽहं ननु प्रायुङ्क्त । सरस्वत्या वाचा द्वितीये । सवित्रा प्रसवेन तृतीये । पूष्णा पशुभिश्चतुर्थे । बृहस्पतिना ब्रह्मणा पञ्चमे । इन्द्रेण देवेन षष्ठे । वरुणेन स्वया देवतया सप्तमे ॥ १। ८। १। १॥ २ सोमेन राज्ञाऽष्टमे । त्वष्ट्रा रूपेण नवमे । विष्णुना यज्ञेनाप्नोत् । यथ्सꣳसृपो भवन्ति । इन्द्रियमेव तद्वीर्यं यजमान आप्नोति । पूर्वा पूर्वा वेदिर्भवति । इन्द्रियस्य वीर्यस्यावरुद्ध्यै । पुरस्तादुपसदाꣳ सौम्येन प्रचरति । सोमो वै रेतोधाः । रेत एव तद्दधाति । अन्तरा त्वाष्ट्रेण । रेत एव हितं त्वष्टा रूपाणि विकरोति । उपरिष्टाद्वैष्णवेन । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति ॥ १। ८। १। २॥ सप्तमे दधाति पञ्च च ॥ १॥ ३ जामि वा एतत्कुर्वन्ति । यथ्सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति । पुण्डरिस्रजां प्रयच्छत्यजामित्वाय । अंगिरसः सुवर्गं लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत्पुण्डरीकमभवत् । यत्पुण्डरिस्रजां प्रयच्छति । साक्षादेव दीक्षातपसी अवरुन्धे । दशभिर्वथ्सतरैः सोमं क्रीणाति । दशाक्षरा विराट् ॥ १। ८। २। १॥ ४ अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । मुष्करा भवन्ति सेन्द्रत्वाय । दशपेयो भवति । अन्नाद्यस्यावरुद्ध्यै । शतं ब्राह्मणाः पिबन्ति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । सप्तदश२ꣳ स्तोत्रं भवति । सप्तदशः प्रजापतिः ॥ १। ८। २। २॥ ५ प्रजापतेराप्त्यै । प्राकाशावध्वर्यवे ददाति । प्रकाशमेवैनं गमयति । स्रजमुद्गात्रे । व्येवास्मै वासयति । रुक्मꣳ होत्रे । आदित्यमेवास्मा उन्नयति । अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । प्राजापत्यो वा अश्वः । प्रजापतेराप्त्यै ॥ १। ८। २। ३॥ ६ द्वादश पष्ठौहीर्ब्रह्मणे । आयुरेवावरुन्धे । वशां मैत्रावरुणाय । राष्ट्रमेव वश्यकः । ऋषभं ब्राह्मणाच्छꣳसिने । राष्ट्रमेवेन्द्रियाव्यकः । वाससी नेष्टापोतृभ्याम् । पवित्रे एवास्यैते । स्थूरि यवाचितमच्छावाकाय । अन्तत एव वरुणमवयजते ॥ १। ८। २। ४॥ ७ अनड्वाहमग्नीधे । वह्निर्वा अनड्वान् । वह्निरग्नीत् । वह्निनैव वह्नि यज्ञस्यावरुन्धे । इन्द्रस्य सुषुवाणस्य त्रेधेन्द्रियं वीर्यं पराऽपतत् । भृगुस्तृतीयमभवत् । श्रायन्तीयं तृतीयम् । सरस्वती तृतीयम् । भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् । सारस्वतीरपो गृह्णाति । इन्द्रियस्य वीर्यस्यावरुद्ध्यै । श्रायन्तीयं ब्रह्मसामं भवति । इन्द्रियमेवास्मिन्वीर्यग्ग् श्रयति । वारवन्तीयमग्निष्टोमसामम् । इन्द्रियमेवास्मिन्वीर्यं वारयति ॥ १। ८। २। ५॥ विराट्प्रजापतिरश्वः प्रजापतेराप्त्यै यजते ब्रह्मसामं भवति सप्त च ॥ २॥ ८ ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनु व्यास्थापयन्ति । दिशामवेष्टयो भवन्ति । दिक्ष्वेव प्रति तिष्ठत्यनुन्मादाय । पञ्च देवता यजति । पञ्च दिशः । दिक्ष्वेव प्रतितिष्ठति । हविषो हविष इष्ट्वा बार्हस्पत्यमभिघारयति । यजमानदेवत्यो वै बृहस्पतिः । यजमानमेव तेजसा समर्धयति ॥ १। ८। ३। १॥ ९ आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् । विशं चैवास्मै राष्ट्रं च समीची दधाति । आदित्यया पूर्वया प्रचरति । मारुत्योत्तरया । राष्ट्र एव विशमनुबध्नाति । उच्चैरादित्याया आश्रावयति । उपाꣳशु मारुत्यै । तस्माद्राष्ट्रं विशमतिवदति । गर्भिण्यादित्या भवति ॥ १। ८। ३। २॥ १० इन्द्रियं वै गर्भः । राष्ट्रमेवेन्द्रियाव्यकः । अगर्भा मारुती । विड्वै मरुतः । विशमेव निरिन्द्रियामकः । देवासुराः संयत्ता आसन् । ते देवा अश्विनोः पूषन्वाचः सत्यꣳ संनिधाय । अनृतेनासुरानभ्यभवन् । तेऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निरवपन्न् । ततो वै ते वाचः सत्यमवारुन्धत ॥ १। ८। ३। ३॥ ११ यदश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति । अनृतेनैव भ्रातृव्यानभिभूय । वाचः सत्यमवरुन्धे । सरस्वते सत्यवाचे चरुम् । पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं प्रसूत्यै । दूतान्प्रहिणोति । आविद एता भवन्ति । आविदमेवैनं गमयन्ति । अथो दूतेभ्य एव न छिद्यते । तिसृधन्वꣳ शुष्कदृतिर्दक्षिणा समृद्ध्यै ॥ १। ८। ३। ४॥ अर्धयति भवत्यरुन्धत गमयन्ति द्वे च ॥ ३॥ १२ आग्नेयमष्टाकपालं निर्वपति । तस्माच्छिशिरे कुरुपञ्चालाः प्राञ्चो यान्ति । सौम्यं चरुम् । तस्माद्वसन्तं व्यवसायादयन्ति । सावित्रं द्वादशकपालम् । तस्मात्पुरस्ताद्यवानाꣳ सवित्रा विरुन्धते । बार्हस्पत्यं चरुम् । सवित्रैव विरुध्य । ब्रह्मणा यवानादधते । त्वाष्ट्रमष्टाकपालम् ॥ १। ८। ४। १॥ १३ रूपाण्येव तेन कुर्वते । वैश्वानरं द्वादशकपालम् । तस्माज्जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यान्ति । सारस्वतं चरुं निर्वपति । तस्मात्प्रावृषि सर्वा वाचो वदन्ति । पौष्णेन व्यवस्यन्ति । मैत्रेण कृषन्ते । वारुणेन विधृता आसते । क्षैत्रपत्येन पाचयन्ते । आदित्येनादधते ॥ १। ८। ४। २॥ १४ मासि मास्येतानि हवीꣳषि निरुप्याणीत्याहुः । तेनैवर्तून्प्रयुङ्क्त इति । अथो खल्वाहुः । कः संवथ्सरं जीविष्यतीति । षडेव पूर्वेद्युर्निरुप्याणि । षडुत्तरेद्युः । तेनैवर्तून्प्रयुङ्क्ते । दक्षिणो रथवाहनवाहः पूर्वेषां दक्षिणा । उत्तर उत्तरेषाम् । संवथ्सरस्यैवान्तौ युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ॥ १। ८। ४। ३॥ त्वाष्ट्रमष्टाकपालं दधते युनक्त्येकं च ॥ ४॥ १५ इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं पराऽपतत् । स यत्प्रथमं निरष्ठीवत् । तत्क्वलमभवत् । यद्द्वितीयम् । तद्बदरम् । यत्तृतीयम् । तत्कर्कन्धु । यन्नस्तः । स सिꣳहः । यदक्ष्योः ॥ १। ८। ५। १॥ १६ स शार्दूलः । यत्कर्णयोः । स वृकः । य ऊर्ध्वः । स सोमः । याऽवाची । सा सुरा । त्रयाः सक्तवो भवन्ति । इन्द्रियस्यावरुद्ध्यै । त्रयाणि लोमानि ॥ १। ८। ५। २॥ १७ त्विषिमेवावरुन्धे । त्रयो ग्रहाः । वीर्यमेवावरुन्धे । नाम्ना दशमी । नव वै पुरुषे प्राणाः । नाभिर्दशमी । प्राणा इन्द्रियं वीर्यम् । प्राणानेवेन्द्रियं वीर्यं यजमान आत्मन्धत्ते । सीसेन क्लीबाच्छष्पाणि क्रीणाति । न वा एतदयो न हिरण्यम् ॥ १। ८। ५। ३॥ १८ यथ्सीसम् । न स्त्री न पुमान् । यत्क्लीबः । न सोमो न सुरा । यथ्सौत्रामणी समृद्ध्यै । स्वाद्वीं त्वा स्वादुनेत्याह । सोममेवैनां करोति । सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पच्यते । तिस्रः सꣳसृष्टा वसति ॥ १। ८। ५। ४॥ १९ तिस्रो हि रात्रीः क्रीतः सोमो वसति । पुनातु ते परिस्रुतमिति यजुषा पुनाति व्यावृत्त्यै । पवित्रेण पुनाति । पवित्रेण हि सोमं पुनन्ति । वारेण शश्वता तनेत्याह । वारेण हि सोमं पुनन्ति । वायुः पूतः पवित्रेणेति नैतया पुनीयात् । व्यृद्धा ह्येषा । अतिपवितस्यैतया पुनीयात् । कुविदङ्गेत्यनिरुक्तया प्राजापत्यया गृह्णाति ॥ १। ८। ५। ५॥ २० अनिरुक्तः प्रजापतिः । प्रजापतेराप्त्यै । एकयर्चा गृह्णाति । एकधैव यजमाने वीर्यं दधाति । आश्विनं धूम्रमालभते । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति । सारस्वतं मेषम् । वाग्वै सरस्वती । वाचैवैनं भिषज्यति । ऐन्द्रमृषभꣳ सेन्द्रत्वाय ॥ १। ८। ५। ६॥ अक्ष्योर्लोमानि हिरण्यं वसति गृह्णाति भिषज्यत्येकं च ॥ ५॥ २१ यत्त्रिषु यूपेष्वालभेत । बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात् । भ्रातृव्यमस्मै जनयेत् । एकयूप आलभते । एकधैवास्मिन्निन्द्रियं वीर्यं दधाति । नास्मै भ्रातृव्यं जनयति । नैतेषां पशूनां पुरोडाशा भवन्ति । ग्रहपुरोडाशा ह्येते । युवꣳ सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः । सर्वा एव देवताः प्रीणाति ॥ १। ८। ६। १॥ २२ ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम् । ब्राह्मणो ह्याहुत्या उच्छेषणस्य पाता । यदि ब्राह्मणं न विन्देत् । वल्मीकवपायामवनयेत् । सैव ततः प्रायश्चित्तिः । यद्वै सौत्रामण्यै व्यृद्धम् । तदस्यै समृद्धम् । नानादेवत्याः पशवश्च पुरोडाशाश्च भवन्ति समृद्ध्यै । ऐन्द्रः पशूनामुत्तमो भवति । ऐन्द्रः पुरोडाशानां प्रथमः ॥ १। ८। ६। २॥ २३ इन्द्रिये एवास्मै समीची दधाति । पुरस्तादनूयाजानां पुरोडाशैः प्रचरति । पशवो वै पुरोडाशाः । पशूनेवावरुन्धे । ऐन्द्रमेकादशकपालं निर्वपति । इन्द्रियमेवावरुन्धे । सावित्रं द्वादशकपालं प्रसूत्यै । वारुणं दशकपालम् । अन्तत एव वरुणमवयजते । वडबा दक्षिणा ॥ १। ८। ६। ३॥ २४ उत वा एषाऽश्वꣳ सूते । उताश्वतरम् । उत सोम उत सुरा । यथ्सौत्रामणी समृद्ध्यै । बार्हस्पत्यं पशुं चतुर्थमतिपवितस्यालभते । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैव यज्ञस्य व्यृद्धमपिवपति । पुरोडाशवानेष पशुर्भवति । न ह्येतस्य ग्रहं गृह्णन्ति । सोमप्रतीकाः पितरस्तृप्णुतेति शतातृण्णायाꣳ समवनयति ॥ १। ८। ६। ४॥ २५ शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । दक्षिणेऽग्नौ जुहोति । पापवस्यसस्य व्यावृत्त्यै । हिरण्यमन्तरा धारयति । पूतामेवैनां जुहोति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । यत्रैव शतातृण्णां धारयति ॥ १। ८। ६। ५॥ २६ तन्निदधाति प्रतिष्ठित्यै । पितॄन्, वा एतस्येन्द्रियं वीर्यं गच्छति । यꣳ सोमोऽतिपवते । पितृणां याज्यानुवाक्याभिरुपतिष्ठते । यदेवास्य पितॄनिन्द्रियं वीर्यं गच्छति । तदेवावरुन्धे । तिसृभिरुपतिष्ठते । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति । अथो त्रीणि वै यज्ञस्येन्द्रियाणि । अध्वर्युर्होता ब्रह्मा । त उपतिष्ठन्ते । यान्येव यज्ञस्येन्द्रियाणि । तैरेवास्मै भेषजं करोति ॥ १। ८। ६। ६॥ प्रीणाति प्रथमो दक्षिणा समवनयति धारयतीन्द्रियाणि चत्वारि च ॥ ६॥ २७ अग्निष्टोममग्र आहरति । यज्ञमुखं वा अग्निष्टोमः । यज्ञमुखमेवारभ्य सवमाक्रमते । अथैषोऽभिषेचनीयश्चतुस्त्रिꣳश पवमानो भवति । त्रयस्त्रिꣳशद्वै देवताः । ता एवाप्नोति । प्रजापतिश्चतुस्त्रिꣳशः । तमेवाप्नोति । सꣳशर एष स्तोमानामयथापूर्वम् । यद्विषमाः स्तोमाः ॥ १। ८। ७। १॥ २८ एतावान् वै यज्ञः । यावान्पवमानाः । अन्तःश्लेषणं त्वा अन्यत् । यथ्समाः पवमानाः । तेनासꣳशरः । तेन यथापूर्वम् । आत्मनैवाग्निष्टोमेनर्ध्नोति । आत्मना पुण्यो भवति । प्रजा वा उक्थानि । पशव उक्थानि । यदुक्थ्यो भवत्यनु संतत्यै ॥ १। ८। ७। २॥ स्तोमाः पशव उक्थान्येकं च ॥ ७॥ २९ उप त्वा जामयो गिर इति प्रतिपद्भवति । वाग्वै वायुः । वाच एवैषोऽभिषेकः । सर्वासामेव प्रजानाꣳ सूयते । सर्वा एनं प्रजा राजेति वदन्ति । एतमुत्यं दशक्षिप इत्याह । आदित्या वै प्रजाः । प्रजानामेवैतेन सूयते । यन्ति वा एते यज्ञमुखात् । ये सम्भार्या अक्रन्न् ॥ १। ८। ८। १॥ ३० यदाह पवस्व वाचो अग्रिय इति । तेनैव यज्ञमुखान्नयन्ति । अनुष्टुक्प्रथमा भवति । अनुष्टुगुत्तमा । वाग्वा अनुष्टुक् । वाचैव प्रयन्ति । वाचोद्यन्ति । उद्वतीर्भवन्ति । उद्वद्वा अनुष्टुभो रूपम् । आनुष्टुभो राजन्यः ॥ १। ८। ८। २॥ ३१ तस्मादुद्वतीर्भवन्ति । सौर्यनुष्टुगुत्तमा भवति । सुवर्गस्य लोकस्य संतत्यै । यो वै सवादेति । नैनꣳ सव उपनमति । यः सामभ्य एति । पापीयान्थ्सुषुवाणो भवति । एतानि खलु वै सामानि । यत्पृष्ठानि । यत्पृष्ठानि भवन्ति ॥ १। ८। ८। ३॥ ३२ तैरेव सवान्नैति । यानि देवराजानाꣳ सामानि । तैरमुष्मिं ल्लोक ऋध्नोति । यानि मनुष्यराजानाꣳ सामानि । तैरस्मिं ल्लोक ऋध्नोति । उभयोरेव लोकयोरृध्नोति । देवलोके च मनुष्यलोके च । एकविꣳशोऽभिषेचनीयस्योत्तमो भवति । एकविꣳशः केशवपनीयस्य प्रथमः । सप्तदशो दशपेयः ॥ १। ८। ८। ४॥ ३३ विड्वा एकविꣳशः । राष्ट्रꣳ सप्तदशः । विश एवैतन्मध्यतोऽभिषिच्यते । तस्माद्वा एष विशां प्रियः । विशो हि मध्यतोऽभिषिच्यते । यद्वा एनमदो दिशोऽनु व्यास्थापयन्ति । तथ्सुवर्गं लोकमभ्यारोहति । यदिमं लोकं न प्रत्यवरोहेत् । अतिजनं वेयात् । उद्वा माद्येत् । यदेष प्रतीचीनः स्तोमो भवति । इममेव तेन लोकं प्रत्यवरोहति । अथो अस्मिन्नेव लोके प्रतितिष्ठत्यनुन्मादाय ॥ १। ८। ८। ५॥ अक्रन्राजन्यो भवन्ति दशपेयो माद्येत्त्रीणि च ॥ ८॥ ३४ इयं वै रजता । असौ हरिणी । यद्रुक्मौ भवतः । आभ्यामेवैनमुभयतः परिगृह्णाति । वरुणस्य वा अभिषिच्यमानस्यापः । इन्द्रियं वीर्यं निरघ्नन् । तथ्सुवर्णꣳ हिरण्यमभवत् । यद्रुक्ममन्तर्दधाति । इन्द्रियस्य वीर्यस्यानिर्घाताय । शतमानो भवति शतक्षरः । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । आयुर्वै हिरण्यम् । आयुष्या एवैनमभ्यति क्षरन्ति । तेजो वै हिरण्यम् । तेजस्या एवैनमभ्यति क्षरन्ति । वर्चो वै हिरण्यम् । वर्चस्या एवैनमभ्यति क्षरन्ति ॥ १। ८। ९। १॥ शतक्षरोऽष्टौ च ॥ ९॥ ३५ अप्रतिष्ठितो वा एष इत्याहुः । यो राजसूयेन यजत इति । यदा वा एष एतेन द्विरात्रेण यजते । अथ प्रतिष्ठा । अथ संवथ्सरमाप्नोति । यावन्ति संवथ्सरस्याहोरात्राणि । तावतीरेतस्य स्तोत्रीयाः । अहोरात्रेष्वेव प्रतितिष्ठति । अग्निष्टोमः पूर्वमहर्भवति । अतिरात्र उत्तरम् ॥ १। ८। १०। १॥ ३६ नानैवाहोरात्रयोः प्रतितिष्ठति । पौर्णमास्यां पूर्वमहर्भवति । व्यष्टकायामुत्तरम् । नानैवार्धमासयोः प्रतितिष्ठति । अमावास्यायां पूर्वमहर्भवति । उद्दृष्ट उत्तरम् । नानैव मासयोः प्रतितिष्ठति । अथो खलु । ये एव समानपक्षे पुण्याहे स्याताम् । तयोः कार्यं प्रतिष्ठित्यै ॥ १। ८। १०। २॥ ३७ अपशव्यो द्विरात्र इत्याहुः । द्वे ह्येते छन्दसी । गायत्रं च त्रैष्टुभं च । जगतीमन्तर्यन्ति । न तेन जगती कृतेत्याहुः । यदेनां तृतीयसवने कुर्वन्तीति । यदा वा एषाऽहीनस्याहर्भजते । साह्नस्य वा सवनम् । अथैव जगती कृता । अथ पशव्यः । व्युष्टिर्वा एष द्विरात्रः । य एवं विद्वान्द्विरात्रेण यजते । व्येवास्मा उच्छति । अथो तम एवापहते । अग्निष्टोममन्तत आहरति । अग्निः सर्वा देवताः । देवतास्वेव प्रतितिष्ठति ॥ १। ८। १०। ३॥ उत्तरं प्रतिष्ठित्यै पशव्यः सप्त च ॥ १०॥ वरुणस्य जामीश्वर आग्नेयमिन्द्रस्य यत्त्रिष्वग्निष्टोममुप त्वेयं वै रजताऽप्रतिष्ठितो दश ॥ १०॥ वरुणस्य यदश्विभ्यां यत्त्रिषु तस्मादुद्वतीः सप्तत्रिꣳशत् ॥ ३७॥ वरुणस्य प्रतितिष्ठति ॥ इति प्रथमं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ द्वितीयं अष्टकम् ॥

॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥

द्वितीयाष्टके प्रथमः प्रपाठकः १

१ अंगिरसो वै सत्रमासत । तेषां पृश्निर्घर्मधुगासीत् । सर्जीषेणाजीवत् । तेऽब्रुवन् । कस्मै नु सत्रमास्महे । येऽस्या ओषधीर्न जनयाम इति । ते दिवोवृष्टिमसृजन्त । यावन्तः स्तोका अवापद्यन्त । तावतीरोषधयोऽजायन्त । ता जाताः पितरो विषेणालिम्पन् ॥ २। १। १। १॥ २ तासां जग्ध्वा रुप्यन्त्यैत् । तेऽब्रुवन् । क इदमित्थमकरिति । वयं भागधेयमिच्छमाना इति पितरोऽब्रुवन् । किं वो भागधेयमिति । अग्निहोत्र एव नोऽप्यस्त्वित्यब्रुवन् । तेभ्य एतद्भागधेयं प्रायच्छन् । यद्धुत्वा निमार्ष्टि । ततो वै त ओषधीरस्वदयन् । य एवं वेद ॥ २। १। १। २॥ ३ स्वदन्तेऽस्मा ओषधयः । ते वथ्समुपावासृजन् । इदं नो हव्यं प्रदापयेति । सोऽब्रवीद्वरं वृणै । दश मा रात्रीर्जातं न दोहन् । आसङ्गवं मात्रा सह चराणीति । तस्माद्वथ्सं जातं दश रात्रीर्न दुहन्ति । आसङ्गवं मात्रा सह चरति । वारे वृतग्ग् ह्यस्य । तस्माद्वथ्सꣳ सꣳसृष्टधयꣳ रुद्रो घातुकः । अति हि सन्धां धयति ॥ २। १। १। ३॥ अलिम्पन्वेद घातुक एकं च ॥ १॥ ४ प्रजापतिरग्निमसृजत । तं प्रजा अन्वसृज्यन्त । तमभाग उपास्त । सोऽस्य प्रजाभिरपाक्रामत् । तमवरुरुथ्समानोऽन्वैत् । तमवरुधन्नाशक्नोत् । स तपोऽतप्यत । सोऽग्निरुपारमतातापि वै स्य प्रजापतिरिति । स रराटादुदमृष्ट ॥ २। १। २। १॥ ५ तद्घृतमभवत् । तस्माद्यस्य दक्षिणतः केशा उन्मृष्टाः । तां ज्येष्ठलक्ष्मी प्राजापत्येत्याहुः । यद्रराटादुदमृष्ट । तस्माद्रराटे केशा न सन्ति । तदग्नौ प्रागृह्णात् । तद्व्यचिकिथ्सत् । जुहवानी ३ मा हौषा ३ मिति । तद्विचिकिथ्सायै जन्म । य एवं विद्वान्विचिकिथ्सति ॥ २। १। २। २॥ ६ वसीय एव चेतयते । तं वागभ्यवदज्जुहुधीति । सोऽब्रवीत् । कस्त्वमसीति । स्वैव ते वागित्यब्रवीत् । सोऽजुहोथ्स्वाहेति । तथ्स्वाहाकारस्य जन्म । य एव२ꣳ स्वाहाकारस्य जन्म वेद । करोति स्वाहाकारेण वीर्यम् । यस्यैवं विदुषः स्वाहाकारेण जुह्वति ॥ २। १। २। ३॥ ७ भोगायैवास्य हुतं भवति । तस्या आहुत्यै पुरुषमसृजत । द्वितीयमजुहोत् । सोऽश्वमसृजत । तृतीयमजुहोत् । स गामसृजत । चतुर्थमजुहोत् । सोऽविमसृजत । पञ्चममजुहोत् । सोऽजामसृजत ॥ २। १। २। ४॥ ८ सोऽग्निरबिभेत् । आहुतीभिर्वै माऽऽप्नोतीति । स प्रजापतिं पुनः प्राविशत् । तं प्रजापतिरब्रवीत् । जायस्वेति । सोऽब्रवीत् । किं भागधेयमभिजनिष्य इति । तुभ्यमेवेदꣳ हूयाता इत्यब्रवीत् । स एतद्भागधेयमभ्यजायत । यदग्निहोत्रम् ॥ २। १। २। ५॥ ९ तस्मादग्निहोत्रमुच्यते । तद्धूयमानमादित्योऽब्रवीत् । मा हौषीः । उभयोर्वै नावेतदिति । सोऽग्निरब्रवीत् । कथं नौ होष्यन्तीति । सायमेव तुभ्यं जुहवन् । प्रातर्मह्यमित्यब्रवीत् । तस्मादग्नये सायꣳ हूयते । सूर्याय प्रातः ॥ २। १। २। ६॥ १० आग्नेयी वै रात्रिः । ऐन्द्रमहः । यदनुदिते सूर्ये प्रातर्जुहुयात् । उभयमेवाग्नेय२ꣳ स्यात् । उदिते सूर्ये प्रातर्जुहोति । तथाऽग्नये सायꣳ हूयते । सूर्याय प्रातः । रात्रिं वा अनु प्रजाः प्रजायन्ते । अह्ना प्रतितिष्ठन्ति । यथ्सायं जुहोति ॥ ११ प्रैव तेन जायते । उदिते सूर्ये प्रातर्जुहोति । प्रत्येव तेन तिष्ठति । प्रजापतिरकामयत प्रजायेयेति । स एतदग्निहोत्रं मिथुनमपश्यत् । तदुदिते सूर्येऽजुहोत् । यजुषाऽन्यत् । तूष्णीमन्यत् । ततो वै स प्राजायत । यस्यैवं विदुष उदिते सूर्येऽग्निहोत्रं जुह्वति ॥ २। १। २। ८॥ १२ प्रैव जायते । अथो यथा दिवा प्रजानन्नेति । तादृगेव तत् । अथो खल्वाहुः । यस्य वै द्वौ पुण्यौ गृहे वसतः । यस्तयोरन्यꣳ राधयत्यन्यं न । उभौ वाव स तावृच्छतीति । अग्निं वावादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी संपद्येते ॥ २। १। २। ९॥ १३ उद्यन्तं वावादित्यमग्निरनुसमारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे । यदग्नये सायं जुहुयात् । आ सूर्याय वृश्च्येत । यथ्सूर्याय प्रातर्जुहुयात् । आऽग्नये वृश्च्येत । देवताभ्यः समदं दध्यात् । अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेत्येव सायꣳ होतव्यम् । सूऱ्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातः । तथोभाभ्याꣳ सायꣳ हूयते ॥ २। १। २। १०॥ १४ उभाभ्यां प्रातः । न देवताभ्यः समदं दधाति । अग्निर्ज्योतिरित्याह । अग्निर्वै रेतोधाः । प्रजा ज्योतिरित्याह । प्रजा एवास्मै प्रजनयति । सूऱ्यो ज्योतिरित्याह । प्रजास्वेव प्रजातासु रेतो दधाति । ज्योतिरग्निः स्वाहेत्याह । प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति ॥ २। १। २। ११॥ १५ तूष्णीमुत्तरामाहुतिं जुहोति । मिथुनत्वाय प्रजात्यै । यदुदिते सूर्ये प्रातर्जुहुयात् । यथाऽतिथये प्रद्रुताय शून्यायावसथायाहार्यꣳ हरन्ति । तादृगेव तत् । क्वाह ततस्तद्भवतीत्याहुः । यथ्स न वेद । यस्मै तद्धरन्तीति । तस्माद्यदौषसं जुहोति । तदेव संप्रति । अथो यथा प्रार्थमौषसं परिवेवेष्टि । तादृगेव तत् ॥ २। १। २। १२॥ अमृष्ट विचिकिथ्सति जुह्वत्यजामसृजताग्निहोत्रꣳ सूर्याय प्रातर्जुहोति जुह्वति संपद्येते हूयते स्थापयति संप्रति द्वे च ॥ २॥ १६ रुद्रो वा एषः । यदग्निः । पत्नी स्थाली । यन्मध्येऽग्नेरधिश्रयेत् । रुद्राय पत्नीमपि दध्यात् । प्रमायुका स्यात् । उदीचोऽङ्गारान्निरूह्याधिश्रयति । पत्नियै गोपीथाय । व्यन्तान्करोति । तथा पत्न्यप्रमायुका भवति ॥ २। १। ३। १॥ १७ घर्मो वा एषोऽशान्तः । अहरहः प्रवृज्यते । यदग्निहोत्रम् । प्रतिषिञ्चेत् पशुकामस्य । शान्तमिव हि पशव्यम् । न प्रतिषिञ्चेद् ब्रह्मवर्चसकामस्य । समिद्धमिव हि ब्रह्मवर्चसम् । अथो खलु । प्रतिषिच्यमेव । यत्प्रतिषिञ्चति ॥ २। १। ३। २॥ १८ तत्पशव्यम् । यज्जुहोति । तद्ब्रह्मवर्चसि । उभयमेवाकः । प्रच्युतं वा एतदस्माल्लोकात् । अगतं देवलोकम् । यच्छृतꣳ हविरनभिघारितम् । अभिद्योतयति । अभ्येवैनद्घारयति । अथो देवत्रैवैनद्गमयति ॥ २। १। ३। ३॥ १९ पर्यग्नि करोति । रक्षसामपहत्यै । त्रिः पर्यग्नि करोति । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय । यत्प्राचीनमुद्वासयेत् । यजमानꣳ शुचाऽर्पयेत् । यद्दक्षिणा । पितृदेवत्यग्ग् स्यात् । यत्प्रत्यक् ॥ २। १। ३। ४॥ २० पत्नीꣳ शुचाऽर्पयेत् । उदीचीनमुद्वासयति । एषा वै देवमनुष्याणाꣳ शान्ता दिक् । तामेवैनदनूद्वासयति शान्त्यै । वर्त्म करोति । यज्ञस्य संतत्यै । निष्टपति । उपैव तथ्स्तृणाति । चतुरुन्नयति । चतुष्पादः पशवः ॥ २। १। ३। ५॥ २१ पशूनेवावरुन्धे । सर्वान्पूर्णानुन्नयति । सर्वे हि पुण्या राद्धाः । अनूच उन्नयति । प्रजाया अनूचीनत्वाय । अनूच्येवास्य प्रजाऽर्धुका भवति ॥ संमृशति व्यावृत्त्यै । नाहोष्यन्नुपसादयेत् । यदहोष्यन्नुपसादयेत् । यथाऽन्यस्मा उपनिधाय ॥ २। १। ३। ६॥ २२ अन्यस्मै प्रयच्छति । तादृगेव तत् । आऽस्मै वृश्च्येत । यदेव गार्हपत्येऽधिश्रयति । तेन गार्हपत्यं प्रीणाति । अग्निरबिभेत् । आहुतयो माऽत्येष्यन्तीति । स एताꣳ समिधमपश्यत् । तामाऽधत्त । ततो वा अग्नावाहुतयोऽध्रियन्त ॥ २। १। ३। ७॥ २३ यदेनꣳ समयच्छत् । तथ्समिधः समित्त्वम् । समिधमादधाति । समेवैनं यच्छति । आहुतीनां धृत्यै । अथो अग्निहोत्रमेवेध्मवत्करोति । आहुतीनां प्रतिष्ठित्यै । ब्रह्मवादिनो वदन्ति । यदेकाꣳ समिधमाधाय द्वे आहुती जुहोति । अथ कस्याꣳ समिधि द्वितीयामाहुतिं जुहोतीति ॥ २। १। ३। ८॥ २४ यद्द्वे समिधावादध्यात् । भ्रातृव्यमस्मै जनयेत् । एकाꣳ समिधमाधाय । यजुषाऽन्यामाहुतिं जुहोति । उभे एव समिद्वती आहुती जुहोति । नास्मै भ्रातृव्यं जनयति । आदीप्तायां जुहोति । समिद्धमिव हि ब्रह्मवर्चसम् । अथो यथाऽतिथिं ज्योतिष्कृत्वा परिवेवेष्टि । तादृगेव तत् । चतुरुन्नयति । द्विर्जुहोति । तस्माद्द्विपाच्चतुष्पादमत्ति । अथो द्विपद्येव चतुष्पदः प्रतिष्ठापयति ॥ २। १। ३। ९॥ भवति प्रतिषिञ्चति गमयति प्रत्यक्पशव उपनिधायाध्रियन्तेति तच्चत्वारि च ॥ ३॥ २५ उत्तरावतीं वै देवा आहुतिमजुहवुः । अवाचीमसुराः । ततो देवा अभवन् । पराऽसुराः । यं कामयेत वसीयान्थ्स्यादिति । कनीयस्तस्य पूर्वꣳ हुत्वा । उत्तरं भूयो जुहुयात् । एषा वा उत्तरावत्याहुतिः । तां देवा अजुहवुः । ततस्तेऽभवन् ॥ २। १। ४। १॥ २६ यस्यैवं जुह्वति । भवत्येव । यं कामयेत पापीयान्थ्स्यादिति । भूयस्तस्य पूर्वꣳ हुत्वा । उत्तरं कनीयो जुहुयात् । एषा वा अवाच्याहुतिः । तामसुरा अजुहवुः । ततस्ते पराऽभवन् । यस्यैवं जुह्वति । परैव भवति ॥ २। १। ४। २॥ २७ हुत्वोपसादयत्यजामित्वाय । अथो व्यावृत्त्यै । गार्हपत्यं प्रतीक्षते । अननुध्यायिनमेवैनं करोति । अग्निहोत्रस्य वै स्थाणुरस्ति । तं य ऋच्छेत् । यज्ञस्थाणुमृच्छेत् । एष वा अग्निहोत्रस्य स्थाणुः । यत्पूर्वाऽऽहुतिः । तां यदुत्तरयाऽभिजुहुयात् ॥ २। १। ४। ३॥ २८ यज्ञस्थाणुमृच्छेत् । अतिहाय पूर्वामाहुतिं जुहोति । यज्ञस्थाणुमेव परिवृणक्ति । अथो भ्रातृव्यमेवाप्त्वाऽतिक्रामति । अवाचीनꣳ सायमुपमार्ष्टि । रेत एव तद्दधाति । ऊर्ध्वं प्रातः । प्रजनयत्येव तत् । ब्रह्मवादिनो वदन्ति । चतुरुन्नयति ॥ २। १। ४। ४॥ २९ द्विर्जुहोति । अथ क्व द्वे आहुती भवत इति । अग्नौ वैश्वानर इति ब्रूयात् । एष वा अग्निर्वैश्वानरः । यद्ब्राह्मणः । हुत्वा द्विः प्राश्नाति । अग्नावेव वैश्वानरे द्वे आहुती जुहोति । द्विर्जुहोति । द्विर्निमार्ष्टि । द्विः प्राश्नाति ॥ २। १। ४। ५॥ ३० षट्थ्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति ॥ ब्रह्मवादिनो वदन्ति । किंदेवत्यमग्निहोत्रमिति । वैश्वदेवमिति ब्रूयात् । यद्यजुषा जुहोति । तदैन्द्राग्नम् । यत्तूष्णीम् । तत्प्राजापत्यम् ॥ २। १। ४। ६॥ ३१ यन्निमार्ष्टि । तदोषधीनाम् । यद्द्वितीयम् । तत्पितृणाम् । यत्प्राश्नाति । तद्गर्भाणाम् । तस्माद्गर्भा अनश्नन्तो वर्धन्ते । यदाचामति । तन्मनुष्याणाम् । उदङ्पर्यावृत्याचामति ॥ २। १। ४। ७॥ ३२ आत्मनो गोपीथाय । निर्णेनेक्ति शुद्ध्यै । निष्टपति स्वगाकृत्यै । उद्दिशति । सप्तर्षीनेव प्रीणाति । दक्षिणा पर्यावर्तते । स्वमेव वीर्यमनुपर्यावर्तते । तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरः । अथो आदित्यस्यैवावृतमनुपर्यावर्तते । हुत्वोपसमिन्धे ॥ २। १। ४। ८॥ ३३ ब्रह्मवर्चसस्य समिद्ध्यै । न बर्हिरनुप्रहरेत् । असग्ग्स्थितो वा एष यज्ञः । यदग्निहोत्रम् । यदनुप्रहरेत् । यज्ञं विच्छिन्द्यात् । तस्मान्नानुप्रहृत्यम् । यज्ञस्य संतत्यै । अपो निनयति । अवभृथस्यैव रूपमकः ॥ २। १। ४। ९॥ अभवन्भवति जुहुयान्नयति मार्ष्टि द्विः प्राश्नाति प्राजापत्यमाचामतीन्धेऽकः ॥ ४॥ ३४ ब्रह्मवादिनो वदन्ति । अग्निहोत्रप्रायणा यज्ञाः । किं प्रायणमग्निहोत्रमिति । वथ्सो वा अग्निहोत्रस्य प्रायणम् । अग्निहोत्रं यज्ञानाम् । तस्य पृथिवी सदः । अन्तरिक्षमाग्नीद्ध्रम् । द्यौर्हविर्धानम् । दिव्या आपः प्रोक्षणयः । ओषधयो बर्हिः ॥ २। १। ५। १॥ ३५ वनस्पतय इध्मः । दिशः परिधयः । आदित्यो यूपः । यजमानः पशुः । समुद्रोऽवभृथः । संवथ्सरः स्वगाकारः । तस्मादाहिताग्नेः सर्वमेव बर्हिष्यं दत्तं भवति । यथ्सायं जुहोति । रात्रिमेव तेन दक्षिण्यां कुरुते । यत्प्रातः ॥ २। १। ५। २॥ ३६ अहरेव तेन दक्षिण्यं कुरुते । यत्ततो ददाति । सा दक्षिणा । यावन्तो वै देवा अहुतमादन् । ते पराऽभवन् । त एतदग्निहोत्रꣳ सर्वस्यैव समवदायाजुहवुः । तस्मादाहुः । अग्निहोत्रं वै देवा गृहाणां निष्कृतिमपश्यन्निति । यथ्सायं जुहोति । रात्रिया एव तद्धुताद्याय ॥ २। १। ५। ३॥ ३७ यजमानस्यापराभावाय । यत्प्रातः । अह्न एव तद्धुताद्याय । यजमानस्यापराभावाय । यत्ततोऽश्नाति । हुतमेव तत् । द्वयोः पयसा जुहुयात्पशुकामस्य । एतद्वा अग्निहोत्रं मिथुनम् । य एवं वेद । प्र प्रजया पशुभिर्मिथुनैर्जायते ॥ २। १। ५। ४॥ ३८ इमामेव पूर्वया दुहे । अमूमुत्तरया । अधिश्रित्योत्तरमानयति । योनावेव तद्रेतः सिञ्चति प्रजनने । आज्येन जुहुयात्तेजस्कामस्य । तेजो वा आज्यम् । तेजस्व्येव भवति । पयसा पशुकामस्य । एतद्वै पशूनाꣳ रूपम् । रूपेणैवास्मै पशूनवरुन्धे ॥ २। १। ५। ५॥ ३९ पशुमानेव भवति । दध्नेन्द्रियकामस्य । इन्द्रियं वै दधि । इन्द्रियाव्येव भवति । यवाग्वा ग्रामकामस्यौषधा वै मनुष्याः । भागधेयेनैवास्मै सजातानवरुन्धे । ग्राम्येव भवति । अयज्ञो वा एषः । योऽसामा ॥ २। १। ५। ६॥ ४० चतुरुन्नयति । चतुरक्षरꣳ रथन्तरम् । रथन्तरस्यैष वर्णः । उपरीव हरति । अन्तरिक्षं वामदेव्यम् । वामदेव्यस्यैष वर्णः । द्विर्जुहोति । द्व्यक्षरं बृहत् । बृहत एष वर्णः । अग्निहोत्रमेव तथ्सामन्वत्करोति ॥ २। १। ५। ७॥ ४१ यो वा अग्निहोत्रस्योपसदो वेद । उपैनमुपसदो नमन्ति । विन्दत उपसत्तारम् । उन्नीयोपसादयति । पृथिवीमेव प्रीणाति । होष्यन्नुपसादयति । अन्तरिक्षमेव प्रीणाति । हुत्वोपसादयति । दिवमेव प्रीणाति । एता वा अग्निहोत्रस्योपसदः ॥ २। १। ५। ८॥ ४२ य एवं वेद । उपैनमुपसदो नमन्ति । विन्दत उपसत्तारम् । यो वा अग्निहोत्रस्याश्रावितं प्रत्याश्रावितꣳ होतारं ब्रह्माणं वषट्कारं वेद । तस्य त्वेव हुतम् । प्राणो वा अग्निहोत्रस्याश्रावितम् । अपानः प्रत्याश्रावितम् । मनो होता । चक्षुर्ब्रह्मा । निमेषो वषट्कारः ॥ २। १। ५। ९॥ ४३ य एवं वेद । तस्य त्वेव हुतम् । सायंयावानश्च वै देवाः प्रातर्यावाणश्चाग्निहोत्रिणो गृहमागच्छन्ति । तान्, यन्न तर्पयेत् । प्रजयाऽस्य पशुभिर्वितिष्ठेरन् । यत्तर्पयेत् । तृप्ता एनं प्रजया पशुभिस्तर्पयेयुः । सजूर्देवैः सायं यावभिरिति सायꣳ संमृशति । सजूर्देवैः प्रातर्यावभिरिति प्रातः । ये चैव देवाः सायं यावानो ये च प्रातर्यावाणः ॥ २। १। ५। १०॥ ४४ तानेवोभयाग्स्तर्पयति । त एनं तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अरुणो ह स्माहौपवेशिः । अग्निहोत्र एवाहꣳ सायं प्रातर्वज्रं भ्रातृव्येभ्यः प्रहरामि । तस्मान्मत्पापीयाꣳसो भ्रातृव्या इति । चतुरुन्नयति । द्विर्जुहोति । समिथ्सप्तमी । सप्तपदा शक्वरी । शाक्वरो वज्रः । अग्निहोत्र एव तथ्सायं प्रातर्वज्रं यजमानो भ्रातृव्याय प्रहरति । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति ॥ २। १। ५। ११॥ बर्हिः प्रातर्हुताद्याय जायते रुन्धेऽसामा करोत्येता वा अग्निहोत्रस्योपसदो वषट्कारश्च प्रातर्यावाणो वज्रस्त्रीणि च ॥ ५॥ ४५ प्रजापतिरकामयतात्मन्वन्मे जायेतेति । सोऽजुहोत् । तस्यात्मन्वदजायत । अग्निर्वायुरादित्यः । तेऽब्रुवन् । प्रजापतिरहौषीदात्मन्वन्मे जायेतेति । तस्य वयमजनिष्महि । जायतां न आत्मन्वदिति तेऽजुहवुः । प्राणानामग्निः । तनुवै वायुः ॥ २। १। ६। १॥ ४६ चक्षुष आदित्यः । तेषाꣳ हुतादजायत गौरेव । तस्यै पयसि व्यायच्छन्त । मम हुतादजनि ममेति । ते प्रजापतिं प्रश्नमायन् । स आदित्योऽग्निमब्रवीत् । यतरो नौ जयात् । तन्नौ सहासदिति । कस्यैकोऽहौषीदिति प्रजापतिरब्रवीत्कस्यै क इति । प्राणानामहमित्यग्निः ॥ २। १। ६। २॥ ४७ तनुवा अहमिति वायुः । चक्षुषोऽहमित्यादित्यः । य एव प्राणानामहौषीत् । तस्य हुतादजनीति । अग्नेर्हुतादजनीति । तदग्निहोत्रस्याग्निहोत्रत्वम् । गौर्वा अग्निहोत्रम् । य एवं वेद गौरग्निहोत्रमिति । प्राणापानाभ्यामेवाग्निꣳ समर्धयति । अव्यर्धुकः प्राणापानाभ्यां भवति ॥ २। १। ६। ३॥ ४८ य एवं वेद । तौ वायुरब्रवीत् । अनु मा भजतमिति । यदेव गार्हपत्येऽधिश्रित्याहवनीयमभ्युद्द्रवान् । तेन त्वां प्रीणानित्यब्रूताम् । तस्माद्यद्गार्हपत्येऽधिश्रित्याहवनीयमभ्युद्द्रवति । वायुमेव तेन प्रीणाति । प्रजापतिर्देवताः सृजमानः । अग्निमेव देवतानां प्रथममसृजत । सोऽन्यदालम्भ्यमवित्त्वा ॥ २। १। ६। ४॥ ४९ प्रजापतिमभिपर्यावर्तत । स मृत्योरबिभेत् । सोऽमुमादित्यमात्मनो निरमिमीत । तꣳ हुत्वा पराङ् पर्यावर्तत । ततो वै स मृत्युमपाजयत् । अपमृत्युं जयति । य एवं वेद । तस्माद्यस्यैवं विदुषः । उतैकाहमुत द्व्यहं न जुह्वति । हुतमेवास्य भवति । असौ ह्यादित्योऽग्निहोत्रम् ॥ २। १। ६। ५॥ तनुवै वायुरग्निर्भवत्यवित्त्वा भवत्येकं च ॥ ६॥ ५० रौद्रं गवि । वायव्यमुपसृष्टम् । आश्विनं दुह्यमानम् । सौम्यं दुग्धम् । वारुणमधिश्रितम् । वैश्वदेवा भिन्दवः । पौष्णमुदन्तम् । सारस्वतं विष्यन्दमानम् । मैत्रꣳ शरः । धातुरुद्वासितम् । बृहस्पतेरुन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यग्ग् ह्रियमाणम् । ऐन्द्राग्नमुपसन्नम् । अग्नेः पूर्वाऽऽहुतिः । प्रजापतेरुत्तरा । ऐन्द्रꣳ हुतम् ॥ २। १। ७। १॥ उद्वासितꣳ सप्त च ॥ ७॥ ५१ दक्षिणत उपसृजति । पितृलोकमेव तेन जयति । प्राचीमावर्तयति । देवलोकमेव तेन जयति । उदीचीमावृत्य दोग्धि । मनुष्यलोकमेव तेन जयति । पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य । यो वा गतश्रीः स्यात् । अपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य । यो वा बुभूषेत् ॥ २। १। ८। १॥ ५२ न संमृशति । पापवस्यसस्य व्यावृत्त्यै । वायव्यं वा एतदुपसृष्टम् । आश्विनं दुह्यमानम् । मैत्रं दुग्धम् । अर्यम्ण उद्वास्यमानम् । त्वाष्ट्रमुन्नीयमानम् । बृहस्पतेरुन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यग्ग् ह्रियमाणम् ॥ २। १। ८। २॥ ५३ ऐन्द्राग्नमुपसादितम् । सर्वाभ्यो वा एष देवताभ्यो जुहोति । योऽग्निहोत्रं जुहोति । यथा खलु वै धेनुं तीर्थे तर्पयति । एवमग्निहोत्री यजमानं तर्पयति । तृप्यति प्रजया पशुभिः । प्र सुवर्गं लोकं जानाति । पश्यति पुत्रम् । पश्यति पौत्रम् । प्र प्रजया पशुभिर्मिथुनैर्जायते । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ॥ २। १। ८। ३॥ बुभूषेद्ध्रियमाणं जायते द्वे च ॥ ८॥ ५४ त्रयो वै प्रैयमेधा आसन् । तेषां त्रिरेकोऽग्निहोत्रमजुहोत् । द्विरेकः । सकृदेकः । तेषां यस्त्रिरजुहोत् । स ऋचाऽजुहोत् । यो द्विः । स यजुषा । यः सकृत् । स तूष्णीम् ॥ २। १। ९। १॥ ५५ यश्च यजुषाऽजुहोद्यश्च तूष्णीम् । तावुभावार्ध्नुताम् । तस्माद्यजुषाऽऽहुतिः पूर्वा होतव्या । तूष्णीमुत्तरा । उभे एवर्द्धी अवरुन्धे । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । रेत एव तद्दधाति । सूऱ्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः । रेत एव हितं प्रजनयति । रेतो वा एतस्य हितं न प्रजायते ॥ २। १। ९। २॥ ५६ यस्याग्निहोत्रमहुतꣳ सूऱ्योऽभ्युदेति । यद्यन्ते स्यात् । उन्नीय प्राङुदाद्रवेत् । स उपसाद्यातमितोरासीत । स यदा ताम्येत् । अथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतः । तमेवोपासरत् । स एवैनं तत उन्नयति । नार्तिमार्च्छति यजमानः ॥ २। १। ९। ३॥ तूष्णीं जायते यजमानः ॥ ९॥ ५७ यदग्निमुद्धरति । वसवस्तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । वसुष्वेवास्याग्निहोत्रꣳ हुतं भवति । निहितो धूपायञ्छेते । रुद्रास्तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । रुद्रेष्वेवास्याग्निहोत्रꣳ हुतं भवति । प्रथममिध्ममर्चिरालभते । आदित्यास्तर्ह्यग्निः ॥ २। १। १०। १॥ ५८ तस्मिन् यस्य तथाविधे जुह्वति । आदित्येष्वेवास्याग्निहोत्रꣳ हुतं भवति । सर्व एव सर्वश इध्म आदीप्तो भवति । विश्वे देवास्तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । विश्वेष्वेवास्य देवेष्वग्निहोत्रꣳ हुतं भवति । नितरामर्चिरुपावैति लोहिनीकेव भवति । इन्द्रस्तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । इन्द्र एवास्याग्निहोत्रꣳ हुतं भवति ॥ २। १। १०। २॥ ५९ अङ्गारा भवन्ति । तेभ्योऽङ्गारेभ्योऽर्चिरुदेति । प्रजापतिस्तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । प्रजापतावेवास्याग्निहोत्रꣳ हुतं भवति । शरोऽङ्गारा अध्यूहन्ते । ब्रह्म तर्ह्यग्निः । तस्मिन् यस्य तथाविधे जुह्वति । ब्रह्मन्नेवास्याग्निहोत्रꣳ हुतं भवति । वसुषु रुद्रेष्वादित्येषु विश्वेषु देवेषु । इन्द्रे प्रजापतौ ब्रह्मन् । अपरिवर्गमेवास्यैतासु देवतासु हुतं भवति । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ॥ २। १। १०। ३॥ आदित्यास्तर्ह्यग्निरिन्द्र एवास्याग्निहोत्रꣳ हुतं भवति देवेषु चत्वारि च ॥ १०॥ यदग्निं निहितः प्रथमꣳ सर्व एव नितरामङ्गाराः शरोऽङ्गारा ब्रह्म वसुष्वष्टौ ॥ ६० ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति । सत्यं त्वर्तेन परिषिञ्चामीति प्रातः । अग्निर्वा ऋतम् । असावादित्यः सत्यम् । अग्निमेव तदादित्येन सायं परिषिञ्चति । अग्निनाऽऽदित्यं प्रातः सः । यावदहोरात्रे भवतः । तावदस्य लोकस्य । नार्तिर्न रिष्टिः । नान्तो न पर्यन्तोऽस्ति । यस्यैवं विदुषोऽग्निहोत्रं जुह्वति । य उ चैनदेवं वेद ॥ २। १। ११। १॥ अस्ति द्वे च ॥ ११॥ अंगिरसः प्रजापतिरग्निꣳ रुद्र उत्तरावतीं ब्रह्मवादिनोऽग्निहोत्रप्रायणा यज्ञाः प्रजापतिरकामयतात्मन्वद्रौद्रं गवि दक्षिणतस्त्रयो वै यदग्निमृतं त्वा सत्येनैकादश ॥ ११॥ अंगिरसः प्रैव तेन पशूनेव यन्निमार्ष्टि यो वा अग्निहोत्रस्योपसदो दक्षिणतष्षष्टिः ॥ ६०॥ अंगिरसो य उचैनदेवं वेद ॥

द्वितीयाष्टके द्वितीयः प्रपाठकः २

१ प्रजापतिरकामयत प्रजाः सृजेयेति । स एतं दशहोतारमपश्यत् । तं मनसाऽनुद्रुत्य दर्भस्तम्बेऽजुहोत् । ततो वै स प्रजा असृजत । ता अस्माथ्सृष्टा अपाक्रामन् । ता ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । यः कामयेत प्रजायेयेति । स दशहोतारं मनसाऽनुद्रुत्य दर्भस्तम्बे जुहुयात् । प्रजापतिर्वै दशहोता ॥ २। २। १। १॥ २ प्रजापतिरेव भूत्वा प्रजायते । मनसा जुहोति । मन इव हि प्रजापतिः । प्रजापतेराप्त्यै । पूर्णया जुहोति । पूर्ण इव हि प्रजापतिः । प्रजापतेराप्त्यै । न्यूनया जुहोति । न्यूनाद्धि प्रजापतिः प्रजा असृजत । प्रजानाꣳ सृष्ट्यै ॥ २। २। १। २॥ ३ दर्भस्तम्बे जुहोति । एतस्माद्वै योनेः प्रजापतिः प्रजा असृजत । यस्मादेव योनेः प्रजापतिः प्रजा असृजत । तस्मादेव योनेः प्रजायते । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानामुपद्रष्टा । उपद्रष्टुमत्येव प्रजायते । ग्रहो भवति । प्रजानाꣳ सृष्टानां धृत्यै । यं ब्राह्मणं विद्यां विद्वाꣳसं यशो नर्च्छेत् ॥ २। २। १। ३॥ ४ सोऽरण्यं परेत्य । दर्भस्तम्बमुद्ग्रथ्य । ब्राह्मणं दक्षिणतो निषाद्य । चतुर्होतॄन्व्याचक्षीत । एतद्वै देवानां परमं गुह्यं ब्रह्म । यच्चतुर्होतारः । तदेव प्रकाशं गमयति । तदेनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । दर्भस्तम्बमुद्ग्रथ्य व्याचष्टे ॥ २। २। १। ४॥ ५ अग्निवान्, वै दर्भस्तम्बः । अग्निवत्येव व्याचष्टे । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानामुपद्रष्टा । उपद्रष्टुमत्येवैनं यश ऋच्छति । ईश्वरं तं यशोऽर्तोरित्याहुः । यस्यान्ते व्याचष्ट इति । वरस्तस्मै देयः । यदेवैनं तत्रोपनमति । तदेवावरुन्धे ॥ २। २। १। ५॥ ६ अग्निमादधानो दशहोत्राऽरणिमवदध्यात् । प्रजातमेवैनमाधत्ते । तेनैवोद्द्रुत्याग्निहोत्रं जुहुयात् । प्रजातमेवैनज्जुहोति । हविर्निर्वप्स्यन्दशहोतारं व्याचक्षीत । प्रजातमेवैनं निर्वपति । सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत । सामिधेनीरेव सृष्ट्वाऽऽरभ्य प्रतनुते । अथो यज्ञो वै दशहोता । यज्ञमेव तनुते ॥ २। २। १। ६॥ ७ अभिचरन्दशहोतारं जुहुयात् । नव वै पुरुषे प्राणाः । नाभिर्दशमी । सप्राणमेवैनमभिचरति । एतावद्वै पुरुषस्य स्वम् । यावत्प्राणाः । यावदेवास्यास्ति । तदभिचरति । स्वकृत इरिणे जुहोति प्रदरे वा । एतद्वा अस्यै निरृतिगृहीतम् । निरृतिगृहीत एवैनं निरृत्या ग्राहयति । यद्वाचः क्रूरम् । तेन वषट्करोति । वाच एवैनं क्रूरेण प्रवृश्चति । ताजगार्तिमार्च्छति ॥ २। २। १। ७॥ दशहोता सृष्ट्या ऋच्छेद्व्याचष्टे रुन्ध एव तनुते निरृतिगृहीतं पञ्च च ॥ १॥ ८ प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति । स एतं चतुर्होतारमपश्यत् । तं मनसाऽनुद्रुत्याहवनीयेऽजुहोत् । ततो वै स दर्शपूर्णमासावसृजत । तावस्माथ्सृष्टावपाक्रामताम् । तौ ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । दर्शपूर्णमासावालभमानः । चतुर्होतारं मनसाऽनुद्रुत्याहवनीये जुहुयात् । दर्शपूर्णमासावेव सृष्ट्वाऽऽरभ्य प्रतनुते ॥ २। २। २। १॥ ९ ग्रहो भवति । दर्शपूर्णमासयोः सृष्टयोर्धृत्यै । सोऽकामयत चातुर्मास्यानि सृजेयेति । स एतं पञ्चहोतारमपश्यत् । तं मनसाऽनुद्रुत्याहवनीयेऽजुहोत् । ततो वै स चातुर्मास्यान्यसृजत । तान्यस्माथ्सृष्टान्यपाक्रामन् । तानि ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । चातुर्मास्यान्यालभमानः ॥ २। २। २। २॥ १० पञ्चहोतारं मनसाऽनुद्रुत्याहवनीये जुहुयात् । चातुर्मास्यान्येव सृष्ट्वाऽऽरभ्य प्रतनुते । ग्रहो भवति । चातुर्मास्यानाꣳ सृष्टानां धृत्यै । सोऽकामयत पशुबन्धꣳ सृजेयेति । स एतꣳ षड्ढोतारमपश्यत् । तं मनसाऽनुद्रुत्याहवनीयेऽजुहोत् । ततो वै स पशुबन्धमसृजत । सोऽस्माथ्सृष्टोऽपाक्रामत् । तं ग्रहेणागृह्णात् ॥ २। २। २। ३॥ ११ तद्ग्रहस्य ग्रहत्वम् । पशुबन्धेन यक्ष्यमाणः । षड्ढोतारं मनसाऽनुद्रुत्याहवनीये जुहुयात् । पशुबन्धमेव सृष्ट्वाऽऽरभ्य प्रतनुते । ग्रहो भवति । पशुबन्धस्य सृष्टस्य धृत्यै । सोऽकामयत सौम्यमध्वरꣳ सृजेयेति । स एतꣳ सप्तहोतारमपश्यत् । तं मनसाऽनुद्रुत्याहवनीयेऽजुहोत् । ततो वै स सौम्यमध्वरमसृजत ॥ २। २। २। ४॥ १२ सोऽस्माथ्सृष्टोऽपाक्रामत् । तं ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । दीक्षिष्यमाणः । सप्तहोतारं मनसाऽनुद्रुत्याहवनीये जुहुयात् । सौम्यमेवाध्वरꣳ सृष्ट्वाऽऽरभ्य प्रतनुते । ग्रहो भवति । सौम्यस्याध्वरस्य सृष्टस्य धृत्यै । देवेभ्यो वै यज्ञो न प्राभवत् । तमेतावच्छः समभरन् ॥ २। २। २। ५॥ १३ यथ्संभाराः । ततो वै तेभ्यो यज्ञः प्राभवत् । यथ्संभारा भवन्ति । यज्ञस्य प्रभूत्यै । आतिथ्यमासाद्य व्याचष्टे । यज्ञमुखं वा आतिथ्यम् । मुखत एव यज्ञꣳ संभृत्य प्रतनुते । अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः प्रजायेरन् । पत्नीर्व्याचष्टे । यज्ञमेवाकः । प्रजानां प्रजननाय । उपसथ्सु व्याचष्टे । एतद्वै पत्नीनामायतनम् । स्व एवैना आयतनेऽवकल्पयति ॥ २। २। २। ६॥ तनुत आलभमानोऽगृह्णादसृजताभरञ्जायेरन्षट्च ॥ २॥ १४ प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । स त्रिवृतग्ग् स्तोममसृजत । तं पञ्चदशस्तोमो मध्यत उदतृणत् । तौ पूर्वपक्षश्चापरपक्षश्चाभवताम् । पूर्वपक्षं देवा अन्वसृज्यन्त । अपरपक्षमन्वसुराः । ततो देवा अभवन् । पराऽसुराः । यं कामयेत वसीयान्थ्स्यादिति ॥ २। २। ३। १॥ १५ तं पूर्वपक्षे याजयेत् । वसीयानेव भवति । यं कामयेत पापीयान्थ्स्यादिति । तमपरपक्षे याजयेत् । पापीयानेव भवति । तस्मात् पूर्वपक्षोऽपरपक्षात् करुण्यतरः । प्रजापतिर्वै दशहोता । चतुर्होता पञ्चहोता । षड्ढोता सप्तहोता । ऋतवः संवथ्सरः ॥ २। २। ३। २॥ १६ प्रजाः पशव इमे लोकाः । य एवं प्रजापतिं बहोर्भूयाꣳसं वेद । बहोरेव भूयान्भवति ॥ प्रजापतिर्देवासुरानसृजत । स इन्द्रमपि नासृजत । तं देवा अब्रुवन् । इन्द्रं नो जनयेति । सोऽब्रवीत् । यथाऽहं युष्माग्स्तपसाऽसृक्षि । एवमिन्द्रं जनयध्वमिति ॥ २। २। ३। ३॥ १७ ते तपोऽतप्यन्त । त आत्मन्निन्द्रमपश्यन् । तमब्रुवन् । जायस्वेति । सोऽब्रवीत् । किं भागधेयमभि जनिष्य इति । ऋतून्थ्संवथ्सरम् । प्रजाः पशून् । इमान् लोकानित्यब्रुवन् । तं वै माऽऽहुत्या प्रजनयतेत्यब्रवीत् ॥ २। २। ३। ४॥ १८ तं चतुर्होत्रा प्राजनयन् । यः कामयेत वीरो म आजायेतेति । स चतुर्होतारं जुहुयात् । प्रजापतिर्वै चतुर्होता । प्रजापतिरेव भूत्वा प्रजायते । जजनदिन्द्रमिन्द्रियाय स्वाहेति ग्रहेण जुहोति । आऽस्य वीरो जायते । वीरꣳ हि देवा एतयाऽऽहुत्या प्राजनयन् । आदित्याश्चांगिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्गं लोकमियाम वयं पूर्व इति ॥ २। २। ३। ५॥ १९ त आदित्या एतं पञ्चहोतारमपश्यन् । तं पुरा प्रातरनुवाकादाग्नीध्रेऽजुहवुः । ततो वै ते पूर्वे सुवर्गं लोकमायन् । यः सुवर्गकामः स्यात् । स पञ्चहोतारं पुरा प्रातरनुवाकादाग्नीध्रे जुहुयात् । संवथ्सरो वै पञ्चहोता । संवथ्सरः सुवर्गो लोकः । संवथ्सर एवर्तुषु प्रतिष्ठाय । सुवर्गं लोकमेति । तेऽब्रुवन्नंगिरस आदित्यान् ॥ २। २। ३। ६॥ २० क्व स्थ । क्व वः सद्भ्यो हव्यं वक्ष्याम इति । छन्दःस्वित्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सद्भ्य आदित्येभ्यः । आंगीरसीः प्रजा हव्यं वहन्ति । वहन्त्यस्मै प्रजा बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳशः । एतस्मिन्वा एष श्रितः । एतस्मिन्प्रतिष्ठितः । य एवमेत२ꣳ श्रितं प्रतिष्ठितं वेद । प्रत्येव तिष्ठति ॥ २। २। ३। ७॥ स्यादिति संवथ्सरो जनयध्वमितीत्यब्रवीत्पूर्व इत्यादित्यानृतवष्षट्च ॥ ३॥ २१ प्रजापतिरकामयत प्रजायेयेति । स एतं दशहोतारमपश्यत् । तेन दशधाऽऽत्मानं विधाय । दशहोत्राऽतप्यत । तस्य चित्तिः स्रुगासीत् । चित्तमाज्यम् । तस्यैतावत्येव वागासीत् । एतावान् यज्ञक्रतुः । स चतुर्होतारमसृजत । सोऽनन्दत् ॥ २। २। ४। १॥ २२ असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्राऽतप्यत । सोऽताम्यत् । स भूरिति व्याहरत् । स भूमिमसृजत । अग्निहोत्रं दर्शपूर्णमासौ यजूꣳषि । स द्वितीयमतप्यत । सोऽताम्यत् । स भुव इति व्याहरत् ॥ २। २। ४। २॥ २३ सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थ्यमतिरात्रमृचः । एता वै व्याहृतय इमे लोकाः । इमान्खलु वै लोकाननु प्रजाः पशवश्छन्दाꣳसि प्राजायन्त । य एवमेताः प्रजापतेः प्रथमा व्याहृतीः प्रजाता वेद ॥ २। २। ४। ३॥ २४ प्र प्रजया पशुभिर्मिथुनैर्जायते । स पञ्चहोतारमसृजत । स हविर्नाविन्दत । तस्मै सोमस्तनुवं प्रायच्छत् । एतत्ते हविरिति । स पञ्चहोत्राऽतप्यत । सोऽताम्यत् । स प्रत्यङ्ङबाधत । सोऽसुरानसृजत । तदस्याप्रियमासीत् ॥ २। २। ४। ४॥ २५ तद्दुर्वर्णꣳ हिरण्यमभवत् । तद्दुर्वर्णस्य हिरण्यस्य जन्म । स द्वितीयमतप्यत । सोऽताम्यत् । स प्राङबाधत । स देवानसृजत । तदस्य प्रियमासीत् । तथ्सुवर्णꣳ हिरण्यमभवत् । तथ्सुवर्णस्य हिरण्यस्य जन्म । य एवꣳ सुवर्णस्य हिरण्यस्य जन्म वेद ॥ २। २। ४। ५॥ २६ सुवर्ण आत्मना भवति । दुर्वर्णोऽस्य भ्रातृव्यः । तस्माथ्सुवर्णꣳ हिरण्यं भार्यम् । सुवर्ण एव भवति । ऐनं प्रियं गच्छति नाप्रियम् । स सप्तहोतारमसृजत । स सप्तहोत्रैव सुवर्गं लोकमैत् । त्रिणवेन स्तोमेनैभ्यो लोकेभ्योऽसुरान्प्राणुदत । त्रयस्त्रिꣳशेन प्रत्यतिष्ठत् । एकविꣳशेन रुचमधत्त ॥ २। २। ४। ६॥ २७ सप्तदशेन प्राजायत । य एवं विद्वान्थ्सोमेन यजते । सप्तहोत्रैव सुवर्गं लोकमेति । त्रिणवेन स्तोमेनैभ्यो लोकेभ्यो भ्रातृव्यान्प्रणुदते । त्रयस्त्रिꣳशेन प्रतितिष्ठति । एकविꣳशेन रुचं धत्ते । सप्तदशेन प्रजायते । तस्माथ्सप्तदशः स्तोमो न निर्हृत्यः । प्रजापतिर्वै सप्तदशः । प्रजापतिमेव मध्यतो धत्ते प्रजात्यै ॥ २। २। ४। ७॥ अनन्दद्भुव इति व्याहरद्वेदासीद्वेदाधत्त प्रजात्यै ॥ ४॥ २८ देवा वै वरुणमयाजयन् । स यस्यै यस्यै देवतायै दक्षिणामनयत् । तामव्लीनात् । तेऽब्रुवन् । व्यावृत्य प्रतिगृह्णाम । तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणां नाव्लीनात् । य एवं विद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति । नैनं दक्षिणा व्लीनाति ॥ २। २। ५। १॥ २९ राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यमित्याह । आग्नेयं वै हिरण्यम् । स्वयैवैनद्देवतया प्रतिगृह्णाति । सोमाय वास इत्याह । सौम्यं वै वासः । स्वयैवैनद्देवतया प्रतिगृह्णाति । रुद्राय गामित्याह । रौद्री वै गौः । स्वयैवैनां देवतया प्रतिगृह्णाति । वरुणायाश्वमित्याह ॥ २। २। ५। २॥ ३० वारुणो वा अश्वः । स्वयैवैनं देवतया प्रतिगृह्णाति । प्राजापतये पुरुषमित्याह । प्राजापत्यो वै पुरुषः । स्वयैवैनं देवतया प्रतिगृह्णाति । मनवे तल्पमित्याह । मानवो वै तल्पः । स्वयैवैनं देवतया प्रतिगृह्णाति । उत्तानायाङ्गीरसायान इत्याह । इयं वा उत्तान आङ्गीरसः ॥ २। २। ५। ३॥ ३१ अनयैवैनत्प्रति गृह्णाति । वैश्वानर्यर्चा रथं प्रतिगृह्णाति । वैश्वानरो वै देवतया रथः । स्वयैवैनं देवतया प्रतिगृह्णाति । तेनामृतत्वमश्यामित्याह । अमृतमेवाऽऽत्मन्धत्ते । वयो दात्र इत्याह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति । मयो मह्यमस्तु प्रतिग्रहीत्र इत्याह ॥ २। २। ५। ४॥ ३२ यद्वै शिवम् । तन्मयः । आत्मन एवैषा परीत्तिः । क इदं कस्मा अदादित्याह । प्रजापतिर्वै कः । स प्रजापतये ददाति । कामः कामायेत्याह । कामेन हि ददाति । कामेन प्रतिगृह्णाति । कामो दाता कामः प्रतिग्रहीतेत्याह ॥ २। २। ५। ५॥ ३३ कामो हि दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविशेत्याह । समुद्र इव हि कामः । नेव हि कामस्यान्तोऽस्ति । न समुद्रस्य । कामेन त्वा प्रतिगृह्णामीत्याह । येन कामेन प्रतिगृह्णाति । स एवैनममुष्मिं ल्लोके काम आगच्छति । कामैतत्त एषा ते काम दक्षिणेत्याह । काम एव तद्यजमानोऽमुष्मिं ल्लोके दक्षिणामिच्छति । न प्रतिग्रहीतरि । य एवं विद्वान्दक्षिणां प्रतिगृह्णाति । अनृणामेवैनां प्रतिगृह्णाति ॥ २। २। ५। ६॥ व्लीनात्यश्वमित्याहाङ्गीरसः प्रतिग्रहीत्र इत्याह प्रतिग्रहीतेत्याह दक्षिणेत्याह चत्वारि च ॥ ५॥ ३४ अन्तो वा एष यज्ञस्य । यद्दशममहः । दशमेऽहन्थ्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । यज्ञस्यैवान्तं गत्वा । अन्नाद्यमवरुन्धते । तिसृभिः स्तुवन्ति । त्रय इमे लोकाः । एभ्य एव लोकेभ्योऽन्नाद्यमवरुन्धते । पृश्निवतीर्भवन्ति । अन्नं वै पृश्नि ॥ २। २। ६। १॥ ३५ अन्नमेवावरुन्धते । मनसा प्रस्तौति । मनसोद्गायति । मनसा प्रतिहरति । मन इव हि प्रजापतिः । प्रजापतेराप्त्यै । देवा वै सर्पाः । तेषामियꣳ राज्ञी । यथ्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । अस्यामेव प्रतितिष्ठन्ति ॥ २। २। ६। २॥ ३६ चतुर्होतॄन् होता व्याचष्टे । स्तुतमनुशꣳसति शान्त्यै । अन्तो वा एष यज्ञस्य । यद्दशममहः । एतत्खलु वै देवानां परमं गुह्यं ब्रह्म । यच्चतुर्होतारः । दशमेऽहग्ग्श्चतुर्होतॄन्व्याचष्टे । यज्ञस्यैवान्तं गत्वा । परमं देवानां गुह्यं ब्रह्मावरुन्धे । तदेव प्रकाशं गमयति ॥ २। २। ६। ३॥ ३७ तदेनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । वाचं यच्छति । यज्ञस्य धृत्यै । यजमानदेवत्यं वा अहः । भ्रातृव्यदेवत्या रात्रिः । अह्ना रात्रिं ध्यायेत् । भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते । यद्दिवा वाचं विसृजेत् । अहर्भ्रातृव्यायोच्छिꣳषेत् । यन्नक्तं विसृजेत् । रात्रिं भ्रातृव्यायोच्छिꣳषेत् । अधिवृक्षसूर्ये वाचं विसृजति । एतावन्तमेवास्मै लोकमुच्छिꣳषति । यावदादित्योऽस्तमेति ॥ २। २। ६। ४॥ पृश्नि तिष्ठन्ति गमयति शिꣳषेत्पञ्च च ॥ ६॥ ३८ प्रजापतिः प्रजा असृजत । ताः सृष्टाः समश्लिष्यन् । ता रूपेणानुप्राविशत् । तस्मादाहुः । रूपं वै प्रजापतिरिति । ता नाम्नाऽनुप्राविशत् । तस्मादाहुः । नाम वै प्रजापतिरिति । तस्मादप्याऽमित्रौ संगत्य । नाम्ना चेद्ध्वयेते ॥ २। २। ७। १॥ ३९ मित्रमेव भवतः । प्रजापतिर्देवासुरानसृजत । स इन्द्रमपि नासृजत । तं देवा अब्रुवन् । इन्द्रं नो जनयेति । स आत्मन्निन्द्रमपश्यत् । तमसृजत । तं त्रिष्टुग्वीर्यं भूत्वाऽनुप्राविशत् । तस्य वज्रः पञ्चदशो हस्त आपद्यत । तेनोदय्यासुरानभ्यभवत् ॥ २। २। ७। २॥ ४० य एवं वेद । अभि भ्रातृव्यान्भवति । ते देवा असुरैर्विजित्य । सुवर्गं लोकमायन् । तेऽमुष्मिं ल्लोके व्यक्षुध्यन् । तेऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविमेति । ते सप्तहोतारं यज्ञं विधायायास्यम् । आंगीरसं प्राहिण्वन् । एतेनामुत्र कल्पयेति ॥ २। २। ७। ३॥ ४१ तस्य वा इयं क्लृप्तिः । यदिदं किंच । य एवं वेद । कल्पतेऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति । सोऽमन्यत । अभि वा इमेऽस्मां ल्लोकादमुं लोकं कमिष्यन्त इति । स वाचस्पते हृदिति व्याहरत् । तस्मात्पुत्रो हृदयम् । तस्मादस्माल्लोकादमुं लोकं नाभिकामयन्ते । पुत्रो हि हृदयम् ॥ २। २। ७। ४॥ ह्वयेते अभवत्कल्पयेतीति चत्वारि च ॥ ७॥ ४२ देवा वै चतुर्होतृभिर्यज्ञमतन्वत । ते वि पाप्मना भ्रातृव्येणाजयन्त । अभि सुवर्गं लोकमजयन् । य एवं विद्वाग्श्चतुर्होतृभिर्यज्ञं तनुते । वि पाप्मना भ्रातृव्येण जयते । अभि सुवर्गं लोकं जयति । षड्ढोत्रा प्रायणीयमा सादयति । अमुष्मै वै लोकाय षड्ढोता । घ्नन्ति खलु वा एतथ्सोमम् । यदभिषुण्वन्ति ॥ २। २। ८। १॥ ४३ ऋजुधैवैनममुं लोकं गमयति । चतुर्होत्राऽऽतिथ्यम् । यशो वै चतुर्होता । यश एवात्मन्धत्ते । पञ्चहोत्रा पशुमुपसादयति । सुवर्ग्यो वै पञ्चहोता । यजमानः पशुः । यजमानमेव सुवर्गं लोकं गमयति । ग्रहान्गृहीत्वा सप्तहोतारं जुहोति । इन्द्रियं वै सप्तहोता ॥ २। २। ८। २॥ ४४ इन्द्रियमेवात्मन्धत्ते । यो वै चतुर्होतॄननुसवनं तर्पयति । तृप्यति प्रजया पशुभिः । उपैनꣳ सोमपीथो नमति । बहिष्पवमाने दशहोतारं व्याचक्षीत । माध्यंदिने पवमाने चतुर्होतारम् । आर्भवे पवमाने पञ्चहोतारम् । पितृयज्ञे षड्ढोतारम् । यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारम् । अनुसवनमेवैनाग्स्तर्पयति ॥ २। २। ८। ३॥ ४५ तृप्यति प्रजया पशुभिः । उपैनꣳ सोमपीथो नमति । देवा वै चतुर्होतृभिः सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तथ्सहासदिति । सोमश्चतुर्होत्रा । अग्निः पञ्चहोत्रा । धाता षड्ढोत्रा ॥ २। २। ८। ४॥ ४६ इन्द्रः सप्तहोत्रा । प्रजापतिर्दशहोत्रा । तेषाꣳ सोमꣳ राजानं यश आर्च्छत् । तन्न्यकामयत । तेनापाक्रामत् । तेन प्रलायमचरत् । तं देवाः प्रैषैः प्रैषमैच्छन् । तत्प्रैषाणां प्रैषत्वम् । निविद्भिर्न्यवेदयन् । तन्निविदां निवित्त्वम् ॥ २। २। ८। ५॥ ४७ आप्रीभिराप्नुवन् । तदाप्रीणामाप्रित्वम् । तमघ्नन् । तस्य यशो व्यगृह्णत । ते ग्रहा अभवन् । तद्ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्वेव गृहीताः । तेऽब्रुवन् । यो वै नः श्रेष्ठोऽभूत् ॥ २। २। ८। ६॥ ४८ तमवधिष्म । पुनरिमꣳ सुवामहा इति । तं छन्दोभिरसुवन्त । तच्छन्दसां छन्दस्त्वम् । साम्ना समानयन् । तथ्साम्नः सामत्वम् । उक्थैरुदस्थापयन् । तदुक्थानामुक्थत्वम् । य एवं वेद । प्रत्येव तिष्ठति ॥ २। २। ८। ७॥ ४९ सर्वमायुरेति । सोमो वै यशः । य एवं विद्वान्थ्सोममागच्छति । यश एवैनमृच्छति । तस्मादाहुः । यश्चैवं वेद यश्च न । तावुभौ सोममागच्छतः । सोमो हि यशः । तं त्वाव यश ऋच्छतीत्याहुः । यः सोमे सोमं प्राहेति । तस्माथ्सोमे सोमः प्रोच्यः । यश एवैनमृच्छति ॥ २। २। ८। ८॥ अभिषुण्वन्ति सप्तहोता तर्पयति षड्ढोत्रा निवित्त्वमभूत्तिष्ठति प्राहेति द्वे च ॥ ८॥ ५० इदं वा अग्रे नैव किंचनासीत् । न द्यौरासीत् । न पृथिवी । नान्तरिक्षम् । तदसदेव सन्मनोऽकुरुत स्यामिति । तदतप्यत । तस्मात्तेपानाद्धूमोऽजायत । तद्भूयोऽतप्यत । तस्मात्तेपानादग्निरजायत । तद्भूयोऽतप्यत ॥ २। २। ९। १॥ ५१ तस्मात्तेपानाज्ज्योतिरजायत । तद्भूयोऽतप्यत । तस्मात्तेपानादर्चिरजायत । तद्भूयोऽतप्यत । तस्मात्तेपानान्मरीचयोऽजायन्त । तद्भूयोऽतप्यत । तस्मात्तेपानादुदारा अजायन्त । तद्भूयोऽतप्यत । तदभ्रमिव समहन्यत । तद्वस्तिमभिनत् ॥ २। २। ९। २॥ ५२ स समुद्रोऽभवत् । तस्माथ्समुद्रस्य न पिबन्ति । प्रजननमिव हि मन्यन्ते । तस्मात्पशोर्जायमानादापः पुरस्ताद्यन्ति । तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता । य एवं तपसो वीर्यं विद्वाग्स्तप्यते । भवत्येव । तद्वा इदमापः सलिलमासीत् । सोऽरोदीत्प्रजापतिः ॥ २। २। ९। ३॥ ५३ स कस्मा अज्ञि । यद्यस्या अप्रतिष्ठाया इति । यदप्स्ववापद्यत । सा पृथिव्यभवत् । यद्व्यमृष्ट । तदन्तरिक्षमभवत् । यदूर्ध्वमुदमृष्ट । सा द्यौरभवत् । यदरोदीत् । तदनयो रोदस्त्वम् ॥ २। २। ९। ४॥ ५४ य एवं वेद । नास्य गृहे रुदन्ति । एतद्वा एषां लोकानां जन्म । य एवमेषां लोकानां जन्म वेद । नैषु लोकेष्वार्तिमार्च्छति । स इमां प्रतिष्ठामविन्दत । स इमां प्रतिष्ठां वित्त्वाऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स जघनादसुरानसृजत ॥ २। २। ९। ५॥ ५५ तेभ्यो मृन्मये पात्रेऽन्नमदुहत् । याऽस्य सा तनूरासीत् । तामपाहत । सा तमिस्राऽभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स प्रजननादेव प्रजा असृजत । तस्मादिमा भूयिष्ठाः । प्रजननाद्ध्येना असृजत ॥ २। २। ९। ६॥ ५६ ताभ्यो दारुमये पात्रे पयोऽदुहत् । याऽस्य सा तनूरासीत् । तामपाहत । सा ज्योथ्स्नाऽभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स उपपक्षाभ्यामेवर्तूनसृजत । तेभ्यो रजते पात्रे घृतमदुहत् । याऽस्य सा तनूरासीत् । ५७ तामपाहत । सोऽहोरात्रयोः सन्धिरभवत् । सोऽकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स मुखाद्देवानसृजत । तेभ्यो हरिते पात्रे सोममदुहत् । याऽस्य सा तनूरासीत् । तामपाहत । तदहरभवत् ॥ २। २। ९। ८॥ ५८ एते वै प्रजापतेर्दोहाः । य एवं वेद । दुह एव प्रजाः । दिवा वै नोऽभूदिति । तद्देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । देववानेव भवति । एतद्वा अहोरात्राणां जन्म । य एवमहोरात्राणां जन्म वेद । नाहोरात्रेष्वार्तिमार्च्छति ॥ २। २। ९। ९॥ ५९ असतोऽधि मनोऽसृज्यत । मनः प्रजापतिमसृजत । प्रजापतिः प्रजा असृजत । तद्वा इदं मनस्येव परमं प्रतिष्ठितम् । यदिदं किंच । तदेतच्छोवस्यसं नाम ब्रह्म । व्युच्छन्ती व्युच्छन्त्यस्मै वस्यसी वस्यसी व्युच्छति । प्रजायते प्रजया पशुभिः । प्र परमेष्ठिनो मात्रामाप्नोति । य एवं वेद ॥ २। २। ९। १०॥ अग्निरजायत तद्भूयोऽतप्यताभिनदरोदीत्प्रजापती रोदस्त्वमसृजतासृजत घृतमदुहद्याऽस्य सा तनूरासीदहरभवदृच्छति वेद ॥ ९॥ इदं धूमोऽग्निर्ज्योतिरर्चिर्मरीचय उदारास्तदभ्रꣳ स जघनाथ्सा तमिस्रा सप्रजननाथ्सा जोथ्स्ना स उपपक्षाभ्याꣳ सोऽहोरात्रयोः सन्धिः स मुखात्तदहर्देववान्मृन्मये दारुमये रजते हरिते तेभ्यस्ताभ्यो द्वे तेऽन्नं पयो घृतꣳ सोमम् ॥ ६० प्रजापतिरिन्द्रमसृजताऽऽनुजावरं देवानाम् । तं प्राहिणोत् । परेहि । एतेषां देवानामधिपतिरेधीति । तं देवा अब्रुवन् । कस्त्वमसि । वयं वै त्वच्छ्रेयाꣳसः स्म इति । सोऽब्रवीत् । कस्त्वमसि वयं वै त्वच्छ्रेयाꣳसः स्म इति मा देवा अवोचन्निति । अथ वा इदं तर्हि प्रजापतौ हर आसीत् ॥ २। २। १०। १॥ ६१ यदस्मिन्नादित्ये । तदेनमब्रवीत् । एतन्मे प्रयच्छ । अथाहमेतेषां देवानामधिपतिर्भविष्यामीति । कोऽह२ꣳ स्यामित्यब्रवीत् । एतत्प्रदायेति । एतथ्स्या इत्यब्रवीत् । यदेतद्ब्रवीषीति । को ह वै नाम प्रजापतिः । य एवं वेद ॥ २। २। १०। २॥ ६२ विदुरेनं नाम्ना । तदस्मै रुक्मं कृत्वा प्रत्यमुञ्चत् । ततो वा इन्द्रो देवानामधिपतिरभवत् । य एवं वेद । अधिपतिरेव समानानां भवति । सोऽमन्यत । किं किं वा अकरमिति । स चन्द्रं म आहरेति प्रालपत् । तच्चन्द्रमसश्चन्द्रमस्त्वम् । य एवं वेद ॥ २। २। १०। ३॥ ६३ चन्द्रवानेव भवति । तं देवा अब्रुवन् । सुवीऱ्यो मर्या यथा गोपायत इति । तथ्सूर्यस्य सूर्यत्वम् । य एवं वेद । नैनं दभ्नोति । कश्चनास्मिन्वा इदमिन्द्रियं प्रत्यस्थादिति । तदिन्द्रस्येन्द्रत्वम् । य एवं वेद । इन्द्रियाव्येव भवति ॥ २। २। १०। ४॥ ६४ अयं वा इदं परमोऽभूदिति । तत्परमेष्ठिनः परमेष्ठित्वम् । य एवं वेद । परमामेव काष्ठां गच्छति । तं देवाः समन्तं पर्यविशन् । वसवः पुरस्तात् । रुद्रा दक्षिणतः । आदित्याः पश्चात् । विश्वे देवा उत्तरतः । अंगिरसः प्रत्यञ्चम् ॥ २। २। १०। ५॥ ६५ साध्याः पराञ्चम् । य एवं वेद । उपैनꣳ समानाः संविशन्ति । स प्रजापतिरेव भूत्वा प्रजा आवयत् । ता अस्मै नातिष्ठन्तान्नाद्याय । ता मुखं पुरस्तात्पश्यन्तीः । दक्षिणतः पर्यायन् । स दक्षिणतः पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः ॥ २। २। १०। ६॥ ६६ पश्चात्पर्यायन् । स पश्चात्पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । उत्तरतः पर्यायन् । स उत्तरतः पर्यवर्तयत । ता मुखं पुरस्तात्पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । ६७ मुखमुत्तरतः । ऊर्ध्वा उदायन् । स उपरिष्टान्न्यवर्तयत । ताः सर्वतोमुखो भूत्वाऽऽवयत् । ततो वै तस्मै प्रजा अतिष्ठन्तान्नाद्याय । य एवं विद्वान्परि च वर्तयते नि च । प्रजापतिरेव भूत्वा प्रजा अत्ति । तिष्ठन्तेऽस्मै प्रजा अन्नाद्याय । अन्नाद एव भवति ॥ २। २। १०। ७॥ आसीद्वेद चन्द्रमस्त्वं य एवं वेदेन्द्रियाव्येव भवति प्रत्यञ्चं मुखं दक्षिणतो मुखं पश्चान्नव च ॥ १०॥ ६८ प्रजापतिरकामयत बहोर्भूयान्थ्स्यामिति । स एतं दशहोतारमपश्यत् । तं प्रायुङ्क्त । तस्य प्रयुक्ति बहोर्भूयानभवत् । यः कामयेत बहोर्भूयान्थ्स्यामिति । स दशहोतारं प्रयुञ्जीत । बहोरेव भूयान्भवति । सोऽकामयत वीरो म आजायेतेति । स दशहोतुश्चतुर्होतारं निरमिमीत । तं प्रायुङ्क्त ॥ ६९ तस्य प्रयुक्तीन्द्रोऽजायत । यः कामयेत वीरो म आजायेतेति । स चतुर्होतारं प्रयुञ्जीत । आऽस्य वीरो जायते । सोऽकामयत पशुमान्थ्स्यामिति । स चतुर्होतुः पञ्चहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति पशुमानभवत् । यः कामयेत पशुमान्थ्स्यामिति । स पञ्चहोतारं प्रयुञ्जीत ॥ २। २। ११। २॥ ७० पशुमानेव भवति । सोऽकामयतर्तवो मे कल्पेरन्निति । स पञ्चहोतुः षड्ढोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्यृतवोऽस्मा अकल्पन्त । यः कामयेतर्तवो मे कल्पेरन्निति । स षड्ढोतारं प्रयुञ्जीत । कल्पन्तेऽस्मा ऋतवः । सोऽकामयत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेतेति ॥ २। २। ११। ३॥ ७१ स षड्ढोतुः सप्तहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति सोमपः सोमयाज्यभवत् । आऽस्य सोमपः सोमयाज्यजायत । यः कामयेत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेतेति । स सप्तहोतारं प्रयुञ्जीत । सोमप एव सोमयाजी भवति । आऽस्य सोमपः सोमयाजी जायते । स वा एष पशुः पञ्चधा प्रतितिष्ठति ॥ २। २। ११। ४॥ ७२ पद्भिर्मुखेन । ते देवाः पशून्, वित्त्वा । सुवर्गं लोकमायन् । तेऽमुष्मिं ल्लोके व्यक्षुध्यन् । तेऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविमेति । ते सप्तहोतारं यज्ञं विधायायास्यम् । आंगीरसं प्राहिण्वन् । एतेनामुत्र कल्पयेति । तस्य वा इयं क्लृप्तिः ॥ २। २। ११। ५॥ ७३ यदिदं किंच । य एवं वेद । कल्पतेऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति । यो वै चतुर्होतृणां निदानं वेद । निदानवान्भवति । अग्निहोत्रं वै दशहोतुर्निदानम् । दर्शपूर्णमासौ चतुर्होतुः । चातुर्मास्यानि पञ्चहोतुः । पशुबन्धः षड्ढोतुः । सौम्योऽध्वरः सप्तहोतुः । एतद्वै चतुर्होतृणां निदानम् । य एवं वेद । निदानवान्भवति ॥ २। २। ११। ६॥ अमिमीत तं प्रायुङ्क्त पञ्चहोतारं प्रयुञ्जीत जायेतेति तिष्ठति क्लृप्तिर्दशहोतुर्निदानꣳ सप्त च ॥ ११॥ प्रजापतिरकामयत प्रजाः सृजेयेति प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति प्रजापतिरकामयत प्रजायेयेति स तपः स त्रिवृतं प्रजापतिरकामयत दशहोतारं तेन दशधाऽऽत्मानं देवा वै वरुणमन्तो वै प्रजापतिस्ताः सृष्टाः समश्लिष्यन्देवा वै चतुर्होतृभिरिदं वा अग्रे प्रजापतिरिन्द्रं प्रजापतिरकामयत बहोर्भूयानेकादश ॥ ११॥ प्रजापतिस्तद्ग्रहस्य ग्रहत्वं प्रजापतिरकामयतानयैवैनत्तस्य वा इयं क्लृप्तिस्तस्मात्तेपानाज्ज्योतिर्यदस्मिन्नादित्ये स षड्ढोतुः सप्तहोतारं त्रिसप्ततिः ॥ ७३॥ प्रजापतिरकामयत निदानवान्भवति ॥

द्वितीयाष्टके तृतीयः प्रपाठकः ३

१ ब्रह्मवादिनो वदन्ति । किं चतुर्होतृणां चतुर्होतृत्वमिति । यदेवैषु चतुर्धा होतारः । तेन चतुर्होतारः । तस्माच्चतुर्होतार उच्यन्ते । तच्चतुर्होतृणां चतुर्होतृत्वम् । सोमो वै चतुर्होता । अग्निः पञ्चहोता । धाता षड्ढोता । इन्द्रः सप्तहोता ॥ २। ३। १। १॥ २ प्रजापतिर्दशहोता । य एवं चतुर्होतृणामृद्धिं वेद । ऋध्नोत्येव । य एषामेवं बन्धुतां वेद । बन्धुमान्भवति । य एषामेवं क्लृप्तिं वेद । कल्पतेऽस्मै । य एषामेवमायतनं वेद । आयतनवान्भवति । य एषामेवं प्रतिष्ठां वेद ॥ २। ३। १। २॥ ३ प्रत्येव तिष्ठति । ब्रह्मवादिनो वदन्ति । दशहोता चतुर्होता । पञ्चहोता षड्ढोता सप्तहोता । अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता । इन्द्रः खलु वै श्रेष्ठो देवतानामुपदेशनात् । य एवमिन्द्रग्ग् श्रेष्ठं देवतानामुपदेशनाद्वेद । वसिष्ठः समानानां भवति । तस्माच्छ्रेष्ठमायन्तं प्रथमेनैवानुबुध्यन्ते । अयमागन् । अयमवासादिति । कीर्तिरस्य पूर्वाऽऽगच्छति जनतामायतः । अथो एनं प्रथमेनैवानु बुध्यन्ते । अयमागन् । अयमवासादिति ॥ २। ३। १। ३॥ सप्तहोता प्रतिष्ठां वेद बुध्यन्ते षट्च ॥ १॥ ४ दक्षिणां प्रतिग्रहीष्यन्थ्सप्तदशकृत्वोऽपान्यात् । आत्मानमेव समिन्धे । तेजसे वीर्याय । अथो प्रजापतिरेवैनां भूत्वा प्रतिगृह्णाति । आत्मनोऽनार्त्यै । यद्येनमार्त्विज्याद्वृतꣳ सन्तं निर्हरेरन् । आग्नीध्रे जुहुयाद्दशहोतारम् । चतुर्गृहीतेनाज्येन । पुरस्तात्प्रत्यङ्तिष्ठन् । प्रतिलोमं विग्राहम् ॥ २। ३। २। १॥ ५ प्राणानेवास्योपदासयति । यद्येनं पुनरुपशिक्षेयुः । आग्नीध्र एव जुहुयाद्दशहोतारम् । चतुर्गृहीतेनाज्येन । पश्चात्प्राङासीनः । अनुलोममविग्राहम् । प्राणानेवास्मै कल्पयति । प्रायश्चित्ती वाग्घोतेत्यृतुमुख ऋतुमुखे जुहोति । ऋतूनेवास्मै कल्पयति । कल्पन्तेऽस्मा ऋतवः ॥ २। ३। २। २॥ ६ क्लृप्ता अस्मा ऋतव आयन्ति । षड्ढोता वै भूत्वा प्रजापतिरिदꣳ सर्वमसृजत । स मनोऽसृजत । मनसोऽधि गायत्रीमसृजत । तद्गायत्रीं यश आर्च्छत् । तामाऽलभत । गायत्रिया अधि छन्दाग्स्यसृजत । छन्दोभ्योऽधि साम । तथ्साम यश आर्च्छत् । तदाऽलभत ॥ २। ३। २। ३॥ ७ साम्नोऽधि यजूग्ष्यसृजत । यजुर्भ्योऽधि विष्णुम् । तद्विष्णुं यश आर्च्छत् । तमाऽलभत । विष्णोरध्योषधीरसृजत । ओषधीभ्योऽधि सोमम् । तथ्सोमं यश आर्च्छत् । तमाऽलभत । सोमादधि पशूनसृजत । पशुभ्योऽधीन्द्रम् ॥ २। ३। २। ४॥ ८ तदिन्द्रं यश आर्च्छत् । तदेनं नातिप्राच्यवत । इन्द्र इव यशस्वी भवति । य एवं वेद । नैनं यशोऽति प्रच्यवते । यद्वा इदं किंच । तथ्सर्वमुत्तान एवांगीरसः प्रत्यगृह्णात् । तदेनं प्रतिगृहीतं नाहिनत् । यत्किंच प्रतिगृह्णीयात् । तथ्सर्वमुत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नैनꣳ हिनस्ति । बर्हिषा प्रतीयाद्गां वाऽश्वं वा । एतद्वै पशूनां प्रियं धाम । प्रियेणैवैनं धाम्ना प्रत्येति ॥ २। ३। २। ५॥ विग्राहमृतवस्तदाऽलभतेन्द्रं गृह्णीयात्षट्च ॥ २॥ ९ यो वा अविद्वान्निवर्तयते । विशीर्षा स पाप्माऽमुष्मिं ल्लोके भवति । अथ यो विद्वान्निवर्तयते । सशीर्षा विपाप्माऽमुष्मिं ल्लोके भवति । देवता वै सप्त पुष्टिकामा न्यवर्तयन्त । अग्निश्च पृथिवी च । वायुश्चान्तरिक्षं च । आदित्यश्च द्यौश्च चन्द्रमाः । अग्निर्न्यवर्तयत । स साहस्रमपुष्यत् ॥ २। ३। ३। १॥ १० पृथिवी न्यवर्तयत । सौषधीभिर्वनस्पतिभिरपुष्यत् । वायुर्न्यवर्तयत । स मरीचीभिरपुष्यत् । अन्तरिक्षं न्यवर्तयत । तद्वयोभिरपुष्यत् । आदित्यो न्यवर्तयत । स रश्मिभिरपुष्यत् । द्यौर्न्यवर्तयत । सा नक्षत्रैरपुष्यत् । चन्द्रमा न्यवर्तयत । सोऽहोरात्रैरर्धमासैर्मासैरृतुभिः संवथ्सरेणापुष्यत् । तान्पोषान्पुष्यति । याग्स्तेऽपुष्यन् । य एवं विद्वान्नि च वर्तयते परि च ॥ २। ३। ३। २॥ अपुष्यन्नक्षत्रैरपुष्यत्पञ्च च ॥ ३॥ ११ तस्य वा अग्नेर्हिरण्यं प्रतिजग्रहुषः । अर्धमिन्द्रियस्यापाक्रामत् । तदेतेनैव प्रत्यगृह्णात् । तेन वै सोऽर्धमिन्द्रियस्यात्मन्नुपाधत्त । अर्धमिन्द्रियस्यात्मन्नुपा धत्ते । य एवं विद्वान् हिरण्यं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । अर्धमस्येन्द्रियस्यापक्रामति । तस्य वै सोमस्य वासः प्रतिजग्रहुषः । तृतीयमिन्द्रियस्यापाक्रामत् ॥ २। ३। ४। १॥ १२ तदेतेनैव प्रत्यगृह्णात् । तेन वै स तृतीयमिन्द्रियस्यात्मन्नुपाधत्त । तृतीयमिन्द्रियस्यात्मन्नुपा धत्ते । य एवं विद्वान्, वासः प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । तृतीयमस्येन्द्रियस्यापक्रामति । तस्य वै रुद्रस्य गां प्रतिजग्रहुषः । चतुर्थमिन्द्रियस्यापाक्रामत् । तामेतेनैव प्रत्यगृह्णात् । तेन वै स चतुर्थमिन्द्रियस्यात्मन्नुपाधत्त ॥ २। ३। ४। २॥ १३ चतुर्थमिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वान्गां प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । चतुर्थमस्येन्द्रियस्यापक्रामति । तस्य वै वरुणस्याश्वं प्रतिजग्रहुषः । पञ्चममिन्द्रियस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स पञ्चममिन्द्रियस्यात्मन्नुपाधत्त । पञ्चममिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वानश्वं प्रतिगृह्णाति ॥ २। ३। ४। ३॥ १४ अथ योऽविद्वान्प्रतिगृह्णाति । पञ्चममस्येन्द्रियस्याप क्रामति । तस्य वै प्रजापतेः पुरुषं प्रतिजग्रहुषः । षष्ठमिन्द्रियस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स षष्ठमिन्द्रियस्यात्मन्नुपाधत्त । षष्ठमिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वान्पुरुषं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । षष्ठमस्येन्द्रियस्यापक्रामति ॥ २। ३। ४। ४॥ १५ तस्य वै मनोस्तल्पं प्रतिजग्रहुषः । सप्तममिन्द्रियस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात् । तेन वै स सप्तममिन्द्रियस्यात्मन्नुपाधत्त । सप्तममिन्द्रियस्यात्मन्नुपा धत्ते । य एवं विद्वाग्स्तल्पं प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । सप्तममस्येन्द्रियस्यापक्रामति । तस्य वा उत्तानस्याङ्गीरसस्याप्राणत् प्रतिजग्रहुषः । अष्टममिन्द्रियस्यापाक्रामत् ॥ २। ३। ४। ५॥ १६ तदेतेनैव प्रत्यगृह्णात् । तेन वै सोऽष्टम मिन्द्रियस्यात्मन्नुपाधत्त । अष्टममिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वानप्राणत्प्रतिगृह्णाति । अथ योऽविद्वान्प्रतिगृह्णाति । अष्टममस्येन्द्रियस्यापक्रामति । यद्वा इदं किंच । तथ्सर्वमुत्तान एवांगीरसः प्रत्यगृह्णात् । तदेनं प्रतिगृहीतं नाहिनत् । यत्किंच प्रतिगृह्णीयात् । तथ्सर्वमुत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नैनꣳ हिनस्ति ॥ २। ३। ४। ६॥ तृतीयमिन्द्रियस्यापाक्रामच्चतुर्थमिन्द्रियस्यात्म न्नुपाधत्ताश्वं प्रतिगृह्णाति षष्ठमस्येन्द्रियस्याप क्रामत्यष्टममिन्द्रियस्यापाक्रामत् प्रतिगृह्णीयाच्चत्वारि च ॥ ४॥ तस्य वा अग्नेर् हिरण्यꣳ सोमस्य वासस्तदेतेन रुद्रस्य गां तामेतेन वरुणस्याश्वं प्रजापतेः पुरुषं मनोस्तल्पं तमेतेनोत्तानस्य तदेतेनाप्राणद्यद्वै । अर्धं तृतीयमष्टमं तच्चतुर्थं तां पञ्चमꣳ षष्ठꣳ सप्तमं तम् । तदेतेन द्वे तामेतेनैकं तमेतेन त्रीणि तदेतेनैकम् ॥ १७ ब्रह्मवादिनो वदन्ति । यद्दशहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन् । केन प्रजा असृजन्तेति । प्रजापतिना वै ते गृहपतिनाऽऽर्ध्नुवन् । तेन प्रजा असृजन्त । यच्चतुर्होतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन् । केनौषधीरसृजन्तेति । सोमेन वै ते गृहपतिनाऽऽर्ध्नुवन् ॥ २। ३। ५। १॥ १८ तेनौषधीरसृजन्त । यत्पञ्चहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन् । केनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । केनैषां पशूनवृञ्जतेति । अग्निना वै ते गृहपतिनाऽऽर्ध्नुवन् । तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । तेनैषां पशूनवृञ्जत । यत्षड्ढोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन् ॥ २। ३। ५। २॥ १९ केनर्तूनकल्पयन्तेति । धात्रा वै ते गृहपतिनाऽऽर्ध्नुवन् । तेनर्तूनकल्पयन्त । यथ्सप्तहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन् । केन सुवरायन् । केनेमान् लोकान्थ्समतन्वन्निति । अर्यम्णा वै ते गृहपतिनाऽऽर्ध्नुवन् । तेन सुवरायन् । तेनेमान् लोकान्थ्समतन्वन्निति ॥ २। ३। ५। ३॥ २० एते वै देवा गृहपतयः । तान्, य एवं विद्वान् । अप्यन्यस्य गार्हपते दीक्षते । अवान्तरमेव सत्त्रिणामृध्नोति ॥ यो वा अर्यमणं वेद । दानकामा अस्मै प्रजा भवन्ति । यज्ञो वा अर्यमा । आर्या वसतिरिति वै तमाहुर्यं प्रशꣳसन्ति । आर्यावसतिर्भवति । य एवं वेद ॥ २१ यद्वा इदं किंच । तथ्सर्वं चतुर्होतारः । चतुर्होतृभ्योऽधि यज्ञो निर्मितः । स य एवं विद्वान्, विवदेत । अहमेव भूयो वेद । यश्चतुर्होतॄन् वेदेति । स ह्येव भूयो वेद । यश्चतुर्होतॄन् वेद । यो वै चतुर्होतृणाꣳ होतॄन् वेद । सर्वासु प्रजास्वन्नमत्ति ॥ २। ३। ५। ५॥ २२ सर्वा दिशोऽभिजयति । प्रजापतिर्वै दशहोतृणाꣳ होता । सोमश्चतुर्होतृणाꣳ होता । अग्निः पञ्चहोतृणाꣳ होता । धाता षड्ढोतृणाꣳ होता । अर्यमा सप्तहोतृणाꣳ होता । एते वै चतुर्होतृणाꣳ होतारः । तान्, य एवं वेद । सर्वासु प्रजास्वन्नमत्ति । सर्वा दिशोऽभिजयति ॥ २। ३। ५। ६॥ आर्ध्नुवन्नार्ध्नुवन्नित्येवं वेदात्ति सर्वा दिशोभि जयति ॥ ५॥ वै तेन सत्रं केन ॥ २३ प्रजापतिः प्रजाः सृष्ट्वा व्यस्रꣳसत । स हृदयं भूतोऽशयत् । आत्मन् हा ३ इत्यह्वयत् । आपः प्रत्यश‍ृण्वन् । ता अग्निहोत्रेणैव यज्ञक्रतुनोपपर्यावर्तन्त । ताः कुसिन्धमुपौहन् । तस्मादग्निहोत्रस्य यज्ञक्रतोः । एक ऋत्विक् । चतुष्कृत्वोऽह्वयत् । अग्निर्वायुरादित्यश्चन्द्रमाः ॥ २। ३। ६। १॥ २४ ते प्रत्यश‍ृण्वन् । ते दर्शपूर्णमासाभ्यामेव यज्ञक्रतुनोपपर्यावर्तन्त । त उपौह२ꣳश्चत्वार्यङ्गानि । तस्माद्दर्शपूर्णमासयोर्यज्ञक्रतोः । चत्वार ऋत्विजः । पञ्चकृत्वोऽह्वयत् । पशवः प्रत्यश‍ृण्वन् । ते चातुर्मास्यैरेव यज्ञक्रतुनोपपर्यावर्तन्त । त उपौहं ल्लोम छवीं माꣳसमस्थि मज्जानम् । तस्माच्चातुर्मास्यानां यज्ञक्रतोः ॥ २। ३। ६। २॥ २५ पञ्चर्त्विजः । षट्कृत्वोऽह्वयत् । ऋतवः प्रत्यश‍ृण्वन् । ते पशुबन्धेनैव यज्ञक्रतुनोप पर्यावर्तन्त । त उपौहन्थ्स्तनावाण्डौ शिश्नमवाञ्चं प्राणम् । तस्मात्पशुबन्धस्य यज्ञक्रतोः । षडृत्विजः । सप्तकृत्वोऽह्वयत् । होत्राः प्रत्यश‍ृण्वन् । ताः सौम्येनैवाध्वरेण यज्ञक्रतुनोपपर्यावर्तन्त ॥ २। ३। ६। ३॥ २६ ता उपौहन्थ्सप्तशीर्षण्यान्प्राणान् । तस्माथ्सौम्यस्याध्वरस्य यज्ञक्रतोः । सप्त होत्राः प्राचीर्वषट्कुर्वन्ति । दशकृत्वोऽह्वयत् । तपः प्रत्यश‍ृणोत् । तत्कर्मणैव संवथ्सरेण सर्वैर्यज्ञक्रतुभिरुप पर्यावर्तत । तथ्सर्वमात्मानमपरिवर्गमुपौहत् । तस्माथ्संवथ्सरे सर्वे यज्ञक्रतवोऽवरुध्यन्ते । तस्माद्दशहोता चतुर्होता । पञ्चहोता षड्ढोता सप्तहोता । एकहोत्रे बलिꣳ हरन्ति । हरन्त्यस्मै प्रजा बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद ॥ २। ३। ६। ४॥ चन्द्रमाश्चातुर्मास्यानां यज्ञक्रतोरध्वरेण यज्ञक्रतुनोप पर्यावर्तन्त सप्तहोता चत्वारि च ॥ ६॥ २७ प्रजापतिः पुरुषमसृजत । सोऽग्निरब्रवीत् । ममायमन्नमस्त्विति । सोऽबिभेत् । सर्वं वै माऽयं प्रधक्ष्यतीति । स एताग्श्चतुर्होतॄनात्मस्परणानपश्यत् । तानजुहोत् । तैर्वै स आत्मानमस्पृणोत् । यदग्निहोत्रं जुहोति । एकहोतारमेव तद्यज्ञक्रतुमाप्नोत्यग्निहोत्रम् ॥ १॥ २८ कुसिन्धं चाऽऽत्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । चतुर्होतारमेव तद्यज्ञक्रतुमाप्नोति दर्शपूर्णमासौ । चत्वारि चात्मनोऽङ्गानि स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । समित्पञ्चमी । पञ्चहोतारमेव तद्यज्ञक्रतुमाप्नोति चातुर्मास्यानि । लोम छवीं माꣳसमस्थि मज्जानम् ॥ २। ३। ७। २॥ २९ तानि चात्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति । षड्ढोतारमेव तद्यज्ञक्रतुमाप्नोति पशुबन्धम् । स्तनावाण्डौ शिश्नमवाञ्चं प्राणम् । तानि चात्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति ॥ २। ३। ७। ३॥ ३० समिथ्सप्तमी । सप्तहोतारमेव तद्यज्ञक्रतुमाप्नोति सौम्यमध्वरम् । सप्त चात्मनः शीर्षण्यान्प्राणान्थ्स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुरुन्नयति । द्विर्जुहोति । द्विर्निमार्ष्टि । द्विः प्राश्नाति । दशहोतारमेव तद्यज्ञक्रतुमाप्नोति संवथ्सरम् । सर्वं चात्मानमपरिवर्ग२ꣳ स्पृणोति । आदित्यस्य च सायुज्यं गच्छति ॥ २। ३। ७। ४॥ अग्निहोत्रं मज्जानं द्विर्जुहोत्यपरिवर्ग२ꣳ स्पृणोत्येकं च ॥ ७॥ ३१ प्रजापतिरकामयत प्रजायेयेति । स तपोऽतप्यत । सोऽन्तर्वानभवत् । स हरितः श्यावोऽभवत् । तस्माथ्स्त्र्यन्तर्वत्नी । हरिणी सती श्यावा भवति । स विजायमानो गर्भेणाताम्यत् । स तान्तः कृष्णः श्यावोऽभवत् । तस्मात्तान्तः कृष्णः श्यावो भवति । तस्यासुरेवाजीवत् ॥ २। ३। ८। १॥ ३२ तेनासुनाऽसुरानसृजत । तदसुराणामसुरत्वम् । य एवमसुराणामसुरत्वं वेद । असुमानेव भवति । नैनमसुर्जहाति । सोऽसुरान्थ्सृष्ट्वा पितेवामन्यत । तदनु पितॄनसृजत । तत्पितृणां पितृत्वम् । य एवं पितृणां पितृत्वं वेद । पितेवैव स्वानां भवति ॥ २। ३। ८। २॥ ३३ यन्त्यस्य पितरो हवम् । स पितॄन्थ्सृष्ट्वाऽमनस्यत् । तदनु मनुष्यानसृजत । तन्मनुष्याणां मनुष्यत्वम् । य एवं मनुष्याणां मनुष्यत्वं वेद । मनस्व्येव भवति । नैनं मनुर्जहाति । तस्मै मनुष्यान्थ्ससृजानाय । दिवा देवत्राऽभवत् । तदनु देवानसृजत । तद्देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । दिवा हैवास्य देवत्रा भवति । तानि वा एतानि चत्वार्यम्भाꣳसि । देवा मनुष्याः पितरोऽसुराः । तेषु सर्वेष्वम्भो नभ इव भवति । य एवं वेद ॥ २। ३। ८। ३॥ अजीवथ्स्वानां भवति देवानसृजत सप्त च ॥ ८॥ ३४ ब्रह्मवादिनो वदन्ति । यो वा इमं विद्यात् । यतोऽयं पवते । यदभि पवते । यदभि संपवते । सर्वमायुरियात् । न पुराऽऽयुषः प्रमीयेत । पशुमान्थ्स्यात् । विन्देत प्रजाम् । यो वा इमं वेद ॥ २। ३। ९। १॥ ३५ यतोऽयं पवते । यदभिपवते । यदभिसंपवते । सर्वमायुरेति । न पुराऽऽयुषः प्रमीयते । पशुमान्भवति । विन्दते प्रजाम् । अद्भ्यः पवते । अपोऽभि पवते । अपोऽभि संपवते ॥ २। ३। ९। २॥ ३६ अस्याः पवते । इमामभि पवते । इमामभि संपवते । अग्नेः पवते । अग्निमभि पवते । अग्निमभि संपवते । अन्तरिक्षात्पवते । अन्तरिक्षमभि पवते । अन्तरिक्षमभि संपवते । आदित्यात्पवते ॥ २। ३। ९। ३॥ ३७ आदित्यमभि पवते । आदित्यमभि संपवते । द्योः पवते । दिवमभि पवते । दिवमभि संपवते । दिग्भ्यः पवते । दिशोऽभि पवते । दिशोऽभि संपवते । स यत्पुरस्ताद्वाति । प्राण एव भूत्वा पुरस्ताद्वाति ॥ २। ३। ९। ४॥ ३८ तस्मात्पुरस्ताद्वान्तम् । सर्वाः प्रजाः प्रतिनन्दन्ति । प्राणो हि प्रियः प्रजानाम् । प्राण इव प्रियः प्रजानां भवति । य एवं वेद । स वा एष प्राण एव । अथ यद्दक्षिणतो वाति । मातरिश्वैव भूत्वा दक्षिणतो वाति । तस्माद्दक्षिणतो वान्तं विद्यात् । सर्वा दिश आवाति ॥ २। ३। ९। ५॥ ३९ सर्वा दिशोऽनुविवाति । सर्वा दिशोऽनु संवातीति । स वा एष मातरिश्वैव । अथ यत्पश्चाद्वाति । पवमान एव भूत्वा पश्चाद्वाति । पूतमस्मा आहरन्ति । पूतमुपहरन्ति । पूतमश्नाति । य एवं वेद । स वा एष पवमान एव ॥ २। ३। ९। ६॥ ४० अथ यदुत्तरतो वाति । सवितैव भूत्वोत्तरतो वाति । सवितेव स्वानां भवति । य एवं वेद । स वा एष सवितैव । ते य एनं पुरस्तादायन्तमुपवदन्ति । य एवास्य पुरस्तात्पाप्मानः । ताग्स्तेऽपघ्नन्ति । पुरस्तादितरान्पाप्मनः सचन्ते । अथ य एनं दक्षिणत आयन्तमुपवदन्ति ॥ २। ३। ९। ७॥ ४१ य एवास्य दक्षिणतः पाप्मानः । ताग्स्तेऽपघ्नन्ति । दक्षिणत इतरान्पाप्मनः सचन्ते । अथ य एनं पश्चादायन्तमुप वदन्ति । य एवास्य पश्चात्पाप्मानः । ताग्स्तेऽपघ्नन्ति । पश्चादितरान्पाप्मनः सचन्ते । अथ य एनमुत्तरत आयन्तमुप वदन्ति । य एवास्योत्तरतः पाप्मानः । ताग्स्तेऽपघ्नन्ति ॥ २। ३। ९। ८॥ ४२ उत्तरत इतरान्पाप्मनः सचन्ते । तस्मादेवं विद्वान् । वीव नृत्येत् । प्रेव चलेत् । व्यस्येवाक्ष्यौ भाषेत । मण्टयेदिव । क्राथयेदिव । श‍ृङ्गायेतेव । उत मोप वदेयुः । उत मे पाप्मानमपहन्युरिति । स यां दिशꣳ सनिमेष्यन्थ्स्यात् । यदा तां दिशं वातो वायात् । अथ प्रवेयात् । प्र वा धावयेत् । सातमेव रदितं व्यूढं गन्धमभि प्रच्यवते । आऽस्य तं जनपदं पूर्वा कीर्तिर्गच्छति । दानकामा अस्मै प्रजा भवन्ति । य एवं वेद ॥ २। ३। ९। ९॥ वेद संपवत आदित्यात्पवते वात्या वात्येष पवमान एव दक्षिणत आयन्तमुप वदन्त्युत्तरतः पाप्मानस्ताग्स्तेऽपघ्नन्तीत्यष्टौ च ॥ ९॥ ४३ प्रजापतिः सोमꣳ राजानमसृजत । तं त्रयो वेदा अन्वसृज्यन्त । तान् हस्तेऽकुरुत । अथ ह सीता सावित्री । सोमꣳ राजानं चकमे । श्रद्धामु स चकमे । सा ह पितरं प्रजापतिमुपससार । तꣳ होवाच । नमस्ते अस्तु भगवः । उप त्वाऽयानि ॥ २। ३। १०। १॥ ४४ प्र त्वा पद्ये । सोमं वै राजानं कामये । श्रद्धामु स कामयत इति । तस्या उ ह स्थागरमलङ्कारं कल्पयित्वा । दशहोतारं पुरस्ताद्व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ढोतारमुत्तरतः । सप्तहोतारमुपरिष्टात् । संभारैश्च पत्निभिश्च मुखेऽलंकृत्य ॥ २। ३। १०। २॥ ४५ आऽस्यार्धं वव्राज । ताꣳ होदीक्ष्योवाच । उप माऽऽवर्तस्वेति । तꣳ होवाच । भोगं तु म आचक्ष्व । एतन्म आचक्ष्व । यत्ते पाणाविति । तस्या उ ह त्रीन्, वेदान्प्रददौ । तस्मादु ह स्त्रियो भोगमैव हारयन्ते । स यः कामयेत प्रियः स्यामिति ॥ २। ३। १०। ३॥ ४६ यं वा कामयेत प्रियः स्यादिति । तस्मा एत२ꣳ स्थागरमलंकारं कल्पयित्वा । दशहोतारं पुरस्ताद्व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ढोतारमुत्तरतः । सप्तहोतारमुपरिष्टात् । संभारैश्च पत्निभिश्च मुखेऽलंकृत्य । आऽस्यार्धं व्रजेत् । प्रियो हैव भवति ॥ २। ३। १०। ४॥ अयान्यलंकृत्य स्यामिति भवति ॥ १०॥ ४७ ब्रह्मात्मन्वदसृजत । तदकामयत । समात्मना पद्येयेति । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै दशमꣳ हूतः प्रत्यश‍ृणोत् । स दशहूतोऽभवत् । दशहूतो ह वै नामैषः । तं वा एतं दशहूतꣳ सन्तम् । दशहोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ २। ३। ११। १॥ ४८ आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै सप्तमꣳ हूतः प्रत्यश‍ृणोत् । स सप्तहूतोऽभवत् । सप्तहूतो ह वै नामैषः । तं वा एतꣳ सप्तहूतꣳ सन्तम् । सप्तहोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै षष्ठꣳ हूतः प्रत्यश‍ृणोत् । स षड्ढूतोऽभवत् । ४९ षड्ढूतो ह वै नामैषः । तं वा एतꣳ षड्ढूतꣳ सन्तम् । षड्ढोतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै पञ्चमꣳ हूतः प्रत्यश‍ृणोत् । स पञ्चहूतोऽभवत् । पञ्चहूतो ह वै नामैषः । तं वा एतं पञ्चहूतꣳ सन्तम् । पञ्चहोतेत्याचक्षते परोक्षेण ॥ २। ३। ११। ३॥ ५० परोक्षप्रिया इव हि देवाः । आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै चतुर्थꣳ हूतः प्रत्यश‍ृणोत् । स चतुर्हूतोऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतꣳ सन्तम् । चतुर्होतेत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तमब्रवीत् । त्वं वै मे नेदिष्ठꣳ हूतः प्रत्यश्रौषीः । त्वयैनानाख्यातार इति । तस्मान्नु हैनाग्श्चतुर्होतार इत्याचक्षते । तस्माच्छुश्रूषुः पुत्राणाꣳ हृद्यतमः । नेदिष्ठो हृद्यतमः । नेदिष्ठो ब्रह्मणो भवति । य एवं वेद ॥ २। ३। ११। ४॥ देवाः षड्ढूतोऽभवत्पञ्चहोतेत्याचक्षते परोक्षेणाश्रौषीः षट्च ॥ ११॥ ब्रह्मवादिनः किं दक्षिणां यो वा अविद्वान्तस्य वै ब्रह्मवादिनो यद्दशहोतारः प्रजापतिर्व्यस्रं प्रजापतिः पुरुषं प्रजापतिरकामयत स तपः सोऽन्तर्वान्ब्रह्मवादिनो यो वा इमं विद्यात्प्रजापतिः सोमꣳ राजानं ब्रह्मात्मन्वदेकादश ॥ ११॥ ब्रह्मवादिनस्तस्य वा अग्नेर्यद्वा इदं किंच प्रजापतिरकामयत य एवास्य दक्षिणतः पञ्चाशत् ॥ ५०॥ ब्रह्मवादिनो य एवं वेद ॥

द्वितीयाष्टके चतुर्थः प्रपाठकः ४

१ जुष्टो दमूना अतिथिर्दुरोणे । इमं नो यज्ञमुपयाहि विद्वान् । विश्वा अग्नेऽभियुजो विहत्य । शत्रूयतामाभरा भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यꣳ सुयममाकृणुष्व । शत्रूयतामभितिष्ठा महाꣳसि । अग्ने यो नोऽभितो जनः । वृको वारो जिघाꣳसति ॥ २। ४। १। १॥ २ ताग्स्त्वं वृत्रहञ्जहि । वस्वस्मभ्यमाभर । अग्ने यो नोऽभिदासति । समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किञ्चन । त्वमिन्द्राभिभूरसि । देवो विज्ञातवीर्यः । वृत्रहा पुरुचेतनः । अप प्राच इन्द्र विश्वाꣳ अमित्रान् ॥ २। ४। १। २॥ ३ अपापाचो अभिभूते नुदस्व । अपोदीचो अपशूराधराच ऊरौ । यथा तव शर्मन्मदेम । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् । युजे रथं गवेषणꣳ हरिभ्याम् । उप ब्रह्माणि जुजुषाणमस्थुः । विबाधिष्टास्य रोदसी महित्वा । इन्द्रो वृत्राण्यप्रती जघन्वान् ॥ २। ४। १। ३॥ ४ हव्यवाहमभिमातिषाहम् । रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिम् । अग्नि२ꣳ स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि । विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि । ज्योतिष्मद्धेह्यजरं न आयुः । त्वामग्ने हविष्मन्तः । देवं मर्तास ईडते ॥ २। ४। १। ४॥ ५ मन्ये त्वा जातवेदसम् । स हव्या वक्ष्यानुषक् । विश्वानि नो दुर्गहा जातवेदः । सिन्धुं न नावा दुरिताऽति पर्षि । अग्ने अत्रिवन्मनसा गृणानः । अस्माकं बोध्यविता तनूनाम् । पूषा गा अन्वेतु नः । पूषा रक्षत्वर्वतः । पूषा वाजꣳ सनोतु नः । पूषेमा आशा अनुवेद सर्वाः ॥ २। ४। १। ५॥ ६ सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरः । अप्रयुच्छन्पुर एतु प्रजानन् । त्वमग्ने सप्रथा असि । जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । अग्नी रक्षाꣳसि सेधति । शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः । अग्ने रक्षा णो अꣳहसः ॥ २। ४। १। ६॥ ७ प्रतिष्म देव रीषतः । तपिष्ठैरजरो दह । अग्ने हꣳसि न्यत्रिणम् । दीद्यन्मर्त्येष्वा । स्वे क्षये शुचिव्रत । आ वात वाहि भेषजम् । वि वात वाहि यद्रपः । त्वꣳ हि विश्वभेषजः । देवानां दूत ईयसे । द्वाविमौ वातौ वातः ॥ २। ४। १। ७॥ ८ आ सिन्धोरा परावतः । दक्षं मे अन्य आवातु । पराऽन्यो वातु यद्रपः । यददो वात ते गृहे । अमृतस्य निधिर्हितः । ततो नो देहि जीवसे । ततो नो धेहि भेषजम् । ततो नो मह आवह । वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदे ॥ २। ४। १। ८॥ ९ प्र ण आयूꣳषि तारिषत् । त्वमग्ने अयाऽसि । अया सन्मनसा हितः । अया सन् हव्यमूहिषे । अया नो धेहि भेषजम् । इष्टो अग्निराहुतः । स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः । कामो भूतस्य भव्यस्य । सम्राडेको विराजति ॥ २। ४। १। ९॥ १० स इदं प्रतिपप्रथे । ऋतूनुथ्सृजते वशी । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । त्वया मन्यो सरथमारुजन्तः । हर्षमाणासो धृषता मरुत्वः । तिग्मेषव आयुधा सꣳशिशानाः । उपप्रयन्ति नरो अग्निरूपाः ॥ २। ४। १। १०॥ ११ मन्युर्भगो मन्युरेवास देवः । मन्युर्होता वरुणो विश्ववेदाः । मन्युं विश ईडते देवयन्तीः । पाहि नो मन्यो तपसा श्रमेण । त्वमग्ने व्रतभृच्छुचिः । देवाꣳ आसादया इह । अग्ने हव्याय वोढवे । व्रता नु बिभ्रद्व्रतपा अदाभ्यः । यजानो देवाꣳ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने । गोपाय नो जीवसे जातवेदः ॥ २। ४। १। ११॥ जिघाꣳसत्यमित्राञ्जघन्वानीडते सर्वा अꣳहसो वातो हृदे राजत्यग्निरूपाः सुविदानो अग्न एकं च ॥ १॥ १२ चक्षुषो हेते मनसो हेते । वाचो हेते ब्रह्मणो हेते । यो माऽघायुरभिदासति । तमग्ने मेन्याऽमेनिं कृणु । यो मा चक्षुषा यो मनसा । यो वाचा ब्रह्मणाऽघायुरभिदासति । तयाऽग्ने त्वं मेन्या । अमुममेनिं कृणु । यत्किंचासौ मनसा यच्च वाचा । यज्ञैर्जुहोति यजुषा हविर्भिः ॥ २। ४। २। १॥ १३ तन्मृत्युर्निरृत्या संविदानः । पुरा दिष्टादाहुतीरस्य हन्तु । यातुधाना निरृतिरादु रक्षः । ते अस्य घ्नन्त्वनृतेन सत्यम् । इन्द्रेषिता आज्यमस्य मथ्नन्तु । मा तथ्समृद्धि यदसौ करोति । हन्मि तेऽहं कृतꣳ हविः । यो मे घोरमचीकृतः । अपाञ्चौ त उभौ बाहू । अपनह्याम्यास्यम् ॥ २। ४। २। २॥ १४ अपनह्यामि ते बाहू । अपनह्याम्यास्यम् । अग्नेर्देवस्य ब्रह्मणा । सर्वं तेऽवधिषं कृतम् । पुराऽमुष्य वषट्कारात् । यज्ञं देवेषु नस्कृधि । स्विष्टमस्माकं भूयात् । माऽस्मान्प्रापन्नरातयः । अन्ति दूरे सतो अग्ने । भ्रातृव्यस्याभिदासतः ॥ २। ४। २। ३॥ १५ वषट्कारेण वज्रेण । कृत्याꣳ हन्मि कृतामहम् । यो मा नक्तं दिवा सायम् । प्रातश्चाह्नो निपीयति । अद्या तमिन्द्र वज्रेण । भ्रातृव्यं पादयामसि । इन्द्रस्य गृहोऽसि तं त्वा । प्रपद्ये सगुः साश्वः । सह यन्मे अस्ति तेन । ईडे अग्निं विपश्चितम् ॥ २। ४। २। ४॥ १६ गिरा यज्ञस्य साधनम् । श्रुष्टीवानं धितावानम् । अग्ने शकेम ते वयम् । यमं देवस्य वाजिनः । अति द्वेषाꣳसि तरेम । अवतं मा समनसौ समोकसौ । सचेतसौ सरेतसौ । उभौ मामवतं जातवेदसौ । शिवौ भवतमद्य नः । स्वयं कृण्वानः सुगमप्रयावम् ॥ २। ४। २। ५॥ १७ तिग्मश‍ृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमानः । आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने । त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठं वयमारुहेम । अथा देवैः सधमादं मदेम । उदुत्तमं मुमुग्धि नः । वि पाशं मध्यमं चृत । अवाधमानि जीवसे ॥ १८ वयꣳ सोम व्रते तव । मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि । इन्द्राणी देवी सुभगा सुपत्नी । उदꣳशेन पतिविद्ये जिगाय । त्रिꣳशदस्या जघनं योजनानि । उपस्थ इन्द्रग्ग् स्थविरं बिभर्ति । सेना ह नाम पृथिवी धनञ्जया । विश्वव्यचा अदितिः सूर्यत्वक् । इन्द्राणी देवी प्रासहा ददाना ॥ २। ४। २। ७॥ १९ सा नो देवी सुहवा शर्म यच्छतु । आ त्वाऽहार्षमन्तरभूः । ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु । मा त्वद्राष्ट्रमधिभ्रशत् । ध्रुवा द्यौर्ध्रुवा पृथिवी । ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे । ध्रुवो राजा विशामयम् । इहैवैधि मा व्यथिष्ठाः ॥ २। ४। २। ८॥ २० पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठ । इह राष्ट्रमु धारय । अभितिष्ठ पृतन्यतः । अधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठ । अपः, क्षेत्राणि संजयन् । इन्द्र एणमदीधरत् । ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रवन् । अयं च ब्रह्मणस्पतिः ॥ हविर्भिरास्यमभि दासतो विपश्चितमप्रयावं जीवसे ददाना व्यथिष्ठा ब्रवन्नेकं च ॥ २। ४। २। २॥ २१ जुष्टी नरो ब्रह्मणा वः पितृणाम् । अक्षमव्ययं न किला रिषाथ । यच्छक्वरीषु बृहता रवेण । इन्द्रे शुष्ममदधाथा वसिष्ठाः । पावका नः सरस्वती । वाजेभिर्वाजिनीवती । यज्ञं वष्टु धिया वसुः । सरस्वत्यभि नो नेषि वस्यः । मा पस्फरीः पयसा मा न आधक् । जुषस्व नः सख्या वेश्या च ॥ २। ४। ३। १॥ २२ मा त्वत्क्षेत्राण्यरणानि गन्म । वृञ्जे हविर्नमसा बर्हिरग्नौ । अयामि स्रुग्घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्याः । अश्रायि यज्ञः सूर्ये न चक्षुः । इहार्वाञ्चमतिह्वये । इन्द्रं जैत्राय जेतवे । अस्माकमस्तु केवलः । अर्वाञ्चमिन्द्रममुतो हवामहे । यो गोजिद्धनजिदश्वजिद्यः ॥ २। ४। ३। २॥ २३ इमं नो यज्ञं विहवे जुषस्व । अस्य कुर्मो हरिवो मेदिनं त्वा । असंमृष्टो जायसे मातृवोः शुचिः । मन्द्रः कविरुदतिष्ठो विवस्वतः । घृतेन त्वाऽवर्धयन्नग्न आहुत । धूमस्ते केतुरभवद्दिवि श्रितः । अग्निरग्रे प्रथमो देवतानाम् । संयातानामुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् । दीक्षयेदꣳ हविरागच्छतं नः ॥ २। ४। ३। ३॥ २४ अग्निश्च विष्णो तप उत्तमं महः । दीक्षापालेभ्यो वनतꣳ हि शक्रा । विश्वैर्देवैर्यज्ञियैः संविदानौ । दीक्षामस्मै यजमानाय धत्तम् । प्र तद्विष्णुः स्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । नू मर्तो दयते सनिष्यन्, यः । विष्णव उरुगायाय दाशत् ॥ २। ४। ३। ४॥ २५ प्र यः सत्राचा मनसा यजातै । एतावन्तं नर्यमाविवासात् । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिꣳ सुजनिमाचकार । त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान् । त्वेष२ꣳ ह्यस्य स्थविरस्य नाम ॥ २। ४। ३। ५॥ २६ होतारं चित्ररथमध्वरस्य । यज्ञस्य यज्ञस्य केतुꣳ रुशन्तम् । प्रत्यर्धिं देवस्य देवस्य मह्ना । श्रिया त्वग्निमतिथिं जनानाम् । आ नो विश्वाभिरूतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजथ्स्थविरेभिः सुशिप्र । अस्मे दधद्वृषणꣳ शुष्ममिन्द्र । इन्द्रः सुवर्षा जनयन्नहानि । जिगायोशिग्भिः पृतना अभिश्रीः ॥ २। ४। ३। ६॥ २७ प्रारोचयन्मनवे केतुमह्नाम् । अविन्दज्ज्योतिर्बृहते रणाय । अश्विनाववसे निह्वये वाम् । आ नूनं यातꣳ सुकृताय विप्रा । प्रातर्युक्तेन सुवृता रथेन । उपागच्छतमवसाऽऽगतं नः । अविष्टं धीष्वश्विना न आसु । प्रजावद्रेतो अह्रयं नो अस्तु । आवां तोके तनये तूतुजानाः । सुरत्नासो देववीतिं गमेम ॥ २। ४। ३। ७॥ २८ त्वꣳ सोम क्रतुभिः सुक्रतुर्भूः । त्वं दक्षैः सुदक्षो विश्ववेदाः । त्वं वृषा वृषत्वेभिर्महित्वा । द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः । अषाढं युथ्सु पृतनासु पप्रिम् । सुवर्षामप्स्वां वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसम् । जयन्तं त्वामनु मदेम सोम । भवा मित्रो न शेव्यो घृतासुतिः । विभूतद्युम्न एवया उ सप्रथाः ॥ २। ४। ३। ८॥ २९ अधा ते विष्णो विदुषाचिदृध्यः । स्तोमो यज्ञस्य राध्यो हविष्मतः । यः पूर्व्याय वेधसे नवीयसे । सुमज्जानये विष्णवे ददाशति । यो जातमस्य महतो महि ब्रवात् । सेदुः श्रवोभिर्युज्यंचिदभ्यसत् । तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य । गर्भꣳ हविषा पिपर्तन । आऽस्य जानन्तो नाम चिद्विवक्तन । बृहत्ते विष्णो सुमतिं भजामहे ॥ २। ४। ३। ९॥ ३० इमा धाना घृतस्नुवः । हरी इहोपवक्षतः । इन्द्रꣳ सुखतमे रथे । एष ब्रह्मा प्र ते महे । विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु ॥ २। ४। ३। १०॥ ३१ हरिवर्पसं गिरः । आ चर्षणिप्रा वृषभो जनानाम् । राजा कृष्टीनां पुरुहूत इन्द्रः । स्तुतः श्रवस्यन्नवसोपमद्रिक् । युक्त्वा हरी वृषणाऽऽयाह्यर्वाङ् । प्र यथ्सिन्धवः प्रसवं यदायन् । आपः समुद्रꣳ रथ्येव जग्मुः । अतश्चिदिन्द्रः सदसो वरीयान् । यदीꣳ सोमः पृणति दुग्धो अꣳशुः । ह्वयामसि त्वेन्द्र याह्यर्वाङ् ॥ २। ४। ३। ११॥ ३२ अरं ते सोमस्तनुवे भवाति । शतक्रतो मादयस्वा सुतेषु । प्रास्माꣳ अव पृतनासु प्र युथ्सु । इन्द्राय सोमाः प्रदिवो विदानाः । ऋभुर्येभिर्वृषपर्वा विहायाः । प्रयम्यमाणान्प्रति षू गृभाय । इन्द्र पिब वृषधूतस्य वृष्णः । अहेडमान उपयाहि यज्ञम् । तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्थ्स्वमोको अच्छ ॥ २। ४। ३। १२॥ ३३ इन्द्रागहि प्रथमो यज्ञियानाम् । या ते काकुथ्सुकृता या वरिष्ठा । यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात् । सं ते वज्रो वर्ततामिन्द्र गव्युः । प्रातर्युजा विबोधय । अश्विना वेह गच्छतम् । अस्य सोमस्य पीतये । प्रातर्यावाणा प्रथमा यजध्वम् । पुरा गृध्रादररुषः पिबाथः । प्रातर्हि यज्ञमश्विना दधाते । प्रशꣳसन्ति कवयः पूर्वभाजः । प्रातर्यजध्वमश्विना हिनोत । न सायमस्ति देवया अजुष्टम् । उतान्यो अस्मद्यजते विचायः । पूर्वः पूर्वो यजमानो वनीयान् ॥ २। ४। ३। १३॥ चाश्वजिद्यो गच्छतं नो दाशन्नामाभिश्रीर्गमेम सप्रथा भजामहे विशन्तु याह्यर्वाङच्छ पिबाथः षट्च ॥ ३॥ ३४ नक्तं जाताऽस्योषधे । रामे कृष्णे असिक्नि च । इदꣳ रजनि रजय । किलासं पलितं च यत् । किलासं च पलितं च । निरितो नाशया पृषत् । आ नः स्वो अश्ञुतां वर्णः । परा श्वेतानि पातय । असितं ते निलयनम् । आस्थानमसितं तव ॥ २। ४। ४। १॥ ३५ असिक्नियस्योषधे । निरितो नाशया पृषत् । अस्थिजस्य किलासस्य । तनूजस्य च यत्त्वचि । कृत्यया कृतस्य ब्रह्मणा । लक्ष्म श्वेतमनीनशम् । सरूपा नाम ते माता । सरूपो नाम ते पिता । सरूपाऽस्योषधे सा । सरूपमिदं कृधि ॥ २। ४। ४। २॥ ३६ शुनꣳ हुवेम मघवानमिन्द्रम् । अस्मिन्भरे नृतमं वाजसातौ । श‍ृण्वन्तमुग्रमूतये समथ्सु । घ्नन्तं वृत्राणि संजितं धनानाम् । धूनुथ द्यां पर्वतान्दाशुषे वसु । नि वो वना जिहते यामनो भिया । कोपयथ पृथिवीं पृश्निमातरः । युधे यदुग्राः पृषतीरयुग्ध्वम् । प्रवेपयन्ति पर्वतान् । विविञ्चन्ति वनस्पतीन् ॥ २। ४। ४। ३॥ ३७ प्रोऽवारत मरुतो दुर्मदा इव । देवासः सर्वया विशा । पुरुत्रा हि सदृङ्ङसि । विशो विश्वा अनु प्रभु । समथ्सु त्वा हवामहे । समथ्स्वग्निमवसे । वाजयन्तो हवामहे । वाजेषु चित्रराधसम् । संगच्छध्वꣳ संवदध्वम् । सं वो मनाꣳसि जानताम् ॥ २। ४। ४। ४॥ ३८ देवा भागं यथा पूर्वे । संजानाना उपासत । समानो मन्त्रः समितिः समानी । समानं मनः सह चित्तमेषाम् । समानं केतो अभि सꣳरभध्वम् । संज्ञानेन वो हविषा यजामः । समानी व आकूतिः । समाना हृदयानि वः । समानमस्तु वो मनः । यथा वः सुसहासति ॥ २। ४। ४। ५॥ ३९ संज्ञानं नः स्वैः । संज्ञानमरणैः । संज्ञानमश्विना युवम् । इहास्मासु नियच्छतम् । संज्ञानं मे बृहस्पतिः । संज्ञानꣳ सविता करत् । संज्ञानमश्विना युवम् । इह मह्यं नियच्छतम् । उप च्छायामिव घृणेः । अगन्म शर्म ते वयम् ॥ २। ४। ४। ६॥ ४० अग्ने हिरण्यसंदृशः । अदब्धेभिः सवितः पायुभिष्ट्वम् । शिवेभिरद्य परिपाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे । रक्षा माकिर्नो अघशꣳस ईशत । मदे मदे हि नो ददुः । यूथा गवामृजुक्रतुः । संगृभाय पुरूशता । उभया हस्त्या वसु । शिशीहि राय आभर ॥ २। ४। ४। ७॥ ४१ शिप्रिन्वाजानां पते । शचीवस्तव दꣳसना । आ तू न इन्द्र भाजय । गोष्वश्वेषु शुभ्रुषु । सहस्रेषु तुवीमघ । यद्देवा देव हेडनम् । देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा यूयम् । ऋतस्यर्तेन मुञ्चत । ऋतस्यर्तेनादित्याः ॥ २। ४। ४। ८॥ ४२ यजत्रा मुञ्चतेह मा । यज्ञैर्वो यज्ञवाहसः । आशिक्षन्तो न शेकिम । मेदस्वता यजमानाः । स्रुचाऽऽज्येन जुह्वतः । अकामा वो विश्वे देवाः । शिक्षन्तो नोपशेकिम । यदि दिवा यदि नक्तम् । एन एनस्योऽकरत् । भूतं मा तस्माद्भव्यं च ॥ २। ४। ४। ९॥ ४३ द्रुपदादिव मुञ्चतु । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्नात्वी मलादिव । पूतं पवित्रेणेवाज्यम् । विश्वे मुञ्चन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् ॥ २। ४। ४। १०॥ तव कृधि वनस्पतीञ्जानतामसति वयं भरादित्याश्च नव च ॥ ४॥ ४४ वृषा सो अꣳशुः पवते हविष्मान्थ्सोमः । इन्द्रस्य भाग ऋतयुः शतायुः । समा वृषाणं वृषभं कृणोतु । प्रियं विशाꣳ सर्ववीरꣳ सुवीरम् । कस्य वृषा सुते सचा । नियुत्वान्वृषभो रणत् । वृत्रहा सोमपीतये । यस्ते श‍ृङ्ग वृषो नपात् । प्रणपात्कुण्डपाय्यः । न्यस्मिन्दध्र आ मनः ॥ २। ४। ५। १॥ ४५ तꣳ सध्रीचीरूतयो वृष्णियानि । पौग्स्यानि नियुतः सश्चुरिन्द्रम् । समुद्रं न सिन्धव उक्थशुष्माः । उरुव्यचसं गिर आविशन्ति । इन्द्राय गिरो अनिशितसर्गाः । अपः प्रैरयन्थ्सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचीभिः । विष्वक्तस्तम्भ पृथिवीमुत द्याम् । अक्षोदयच्छवसा क्षाम बुध्नम् । वार्णवातस्तविषीभिरिन्द्रः ॥ २। ४। ५। २॥ ४६ दृढान्यौघ्नादुशमान ओजः । अवाभिनत्ककुभः पर्वतानाम् । आ नो अग्ने सुकेतुना । रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसे । त्वꣳ सोम महे भगम् । त्वं यून ऋतायते । दक्षं दधासि जीवसे । रथं युञ्जते मरुतः शुभे सुगम् । सूरो न मित्रावरुणा गविष्टिषु ॥ २। ४। ५। ३॥ ४७ रजाꣳसि चित्रा विचरन्ति तन्यवः । दिवः सम्राजा पयसा न उक्षतम् । वाचꣳ सु मित्रावरुणाविरावतीम् । पर्जन्यश्चित्रां वदति त्विषीमतीम् । अभ्रा वसत मरुतः सु मायया । द्यां वर्षयतमरुणामरेपसम् । अयुक्त सप्त शुन्ध्युवः । सूरो रथस्य नप्त्रियः । ताभिर्याति स्वयुक्तिभिः । वहिष्ठेभिर्विहरन्, यासि तन्तुम् ॥ २। ४। ५। ४॥ ४८ अवव्ययन्नसितं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य । चर्मेवावाधुस्तमो अप्स्वन्तः । पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । अच्छा वद तवसं गीर्भिराभिः । स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद्वृषभो जीरदानुः । रेतो दधात्वोषधीषु गर्भम् ॥ २। ४। ५। ५॥ ४९ यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् । तस्मा इदास्ये हविः । जुहोता मधुमत्तमम् । इडां नः संयतं करत् । तिस्रो यदग्ने शरदस्त्वामित् । शुचिं घृतेन शुचयः सपर्यन् । नामानि चिद्दधिरे यज्ञियानि । असूदयन्त तनुवः सुजाताः ॥ २। ४। ५। ६॥ ५० इन्द्रश्च नः शुनासीरौ । इमं यज्ञं मिमिक्षतम् । गर्भं धत्त२ꣳ स्वस्तये । ययोरिदं विश्वं भुवनमाविवेश । ययोरानन्दो निहितो महश्च । शुनासीरावृतुभिः संविदानौ । इन्द्रवन्तौ हविरिदं जुषेथाम् । आ घा ये अग्निमिन्धते । स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा । अग्न इन्द्रश्च मेदिना । हथो वृत्राण्यप्रति । युवꣳ हि वृत्रहन्तमा । याभ्याꣳ सुवरजयन्नग्र एव । यावातस्थतुर्भुवनस्य मध्ये । प्रचर्षणी वृषणा वज्रबाहू । अग्नी इन्द्रा वृत्रहणा हुवे वाम् ॥ २। ४। ५। ७॥ मन इन्द्रो गविष्टिषु तन्तुं गर्भꣳ सुजाताः सखा सप्त च ॥ ५॥ ५१ उत नः प्रिया प्रियासु । सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्याऽभूत् । इमा जुह्वाना युष्मदा नमोभिः । प्रति स्तोमꣳ सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधानाः । उपस्थेयाम शरणं न वृक्षम् । त्रीणि पदा विचक्रमे । विष्णुर्गोपा अदाभ्यः । ततो धर्माणि धारयन् ॥ २। ४। ६। १॥ ५२ तदस्य प्रियमभि पाथो अश्याम् । नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उथ्सः । क्रत्वा दा अस्थु श्रेष्ठः । अद्य त्वा वन्वन्थ्सुरेक्णाः । मर्त आनाश सुवृक्तिम् । इमा ब्रह्म ब्रह्मवाह । प्रिया त आ बर्हिः सीद । वीहि सूर पुरोडाशम् ॥ २। ४। ६। २॥ ५३ उप नः सूनवो गिरः । श‍ृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः । अद्या नो देव सवितः । प्रजावथ्सावीः सौभगम् । परा दुष्ष्वप्नियꣳ सुव । विश्वानि देव सवितः । दुरितानि परासुव । यद्भद्रं तन्म आसुव । शुचिमर्कैर्बृहस्पतिम् ॥ २। ४। ६। ३॥ ५४ अध्वरेषु नमस्यत । अनाम्योज आचके । याऽधारयन्त देवा सुदक्षा दक्षपितारा । असुर्याय प्रमहसा । स इत्क्षेति सुधित ओकसि स्वे । तस्मा इडा पिन्वते विश्वदानी । तस्मै विशः स्वयमेवानमन्ति । यस्मिन्ब्रह्मा राजनि पूर्व एति । सकूतिमिन्द्र सच्युतिम् । सच्युतिं जघनच्युतिम् ॥ २। ४। ६। ४॥ ५५ कनात्काभां न आभर । प्रयप्स्यन्निव सक्थ्यौ । वि न इन्द्र मृधो जहि । कनीखुनदिव सापयन् । अभि नः सुष्टुतिं नय । प्रजापतिः स्त्रियां यशः । मुष्कयोरदधाथ्सपम् । कामस्य तृप्तिमानन्दम् । तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दः ॥ २। ४। ६। ५॥ ५६ मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि । दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिम् । वाचः सत्यमशीमहि । पशूनाꣳ रूपमन्नस्य । यशः श्रीः श्रयतां मयि । यथाऽहमस्या अतृप२ꣳ स्त्रियै पुमान् । यथा स्त्री तृप्यति पुꣳसि प्रिये प्रिया । एवं भगस्य तृप्याणि ॥ २। ४। ६। ६॥ ५७ यज्ञस्य काम्यः प्रियः । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति । आपस्तथ्सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृद्ध्यताम् । न हि स्पशमविदन्नन्यमस्मात् । वैश्वानरात्पुर एतारमग्नेः ॥ २। ४। ६। ७॥ ५८ अथेममन्थन्नमृतममूराः । वैश्वानरं क्षेत्रजित्याय देवाः । येषामिमे पूर्वे अर्मास आसन् । अयूपाः सद्म विभृता पुरूणि । वैश्वानर त्वया ते नुत्ताः । पृथिवीमन्यामभितस्थुर्जनासः । पृथिवीं मातरं महीम् । अन्तरिक्षमुप ब्रुवे । बृहतीमूतये दिवम् । विश्वं बिभर्ति पृथिवी ॥ २। ४। ६। ८॥ ५९ अन्तरिक्षं विपप्रथे । दुहे द्यौर्बृहती पयः । न ता नशन्ति न दभाति तस्करः । नैना अमित्रो व्यथिरादधर्षति । देवाग्श्च याभिर्यजते ददाति च । ज्योगित्ताभिः सचते गोपतिः सह । न ता अर्वा रेणुककाटो अश्नुते । न सग्ग्स्कृतत्रमुपयन्ति ता अभि । उरुगायमभयं तस्य ता अनु । गावो मर्त्यस्य विचरन्ति यज्वनः ॥ २। ४। ६। ९॥ ६० रात्री व्यख्यदायती । पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियोऽधित । उप ते गा इवाकरम् । वृणीष्व दुहितर्दिवः । रात्री स्तोमं न जिग्युषी । देवीं वाचमजनयन्त देवाः । तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना । धेनुर्वागस्मानुप सुष्टुतैतु ॥ २। ४। ६। १०॥ ६१ यद्वाग्वदन्त्यविचेतनानि । राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयाꣳसि । क्व स्विदस्याः परमं जगाम । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सहस्राक्षरा परमे व्योमन् । तस्याꣳ समुद्रा अधि विक्षरन्ति । तेन जीवन्ति प्रदिशश्चतस्रः ॥ २। ४। ६। ११॥ ६२ ततः, क्षरत्यक्षरम् । तद्विश्वमुप जीवति । इन्द्रा सूरा जनयन्विश्वकर्मा । मरुत्वाꣳ अस्तु गणवान्थ्सजातवान् । अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् । सपत्ना वाचं मनसा उपासताम् । इन्द्रः सूरो अतरद्रजाꣳसि । स्नुषा सपत्नाः श्वशुरोऽयमस्तु । अयꣳ शत्रूञ्जयतु जर्हृषाणः । अयं वाजं जयतु वाजसातौ । अग्निः, क्षत्रभृदनिभृष्टमोजः । सहस्रियो दीप्यतामप्रयुच्छन् । विभ्राजमानः समिधान उग्रः । आऽन्तरिक्षमरुहदगन्द्याम् ॥ २। ४। ६। १२॥ धारयन्पुरोडाशं बृहस्पतिं जघनच्युतिमानन्दो भगस्य तृप्याण्यग्नेः पृथिवी यज्वन एतु प्रदिशश्चतस्रो वाजसातौ चत्वारि च ॥ ६॥ ६३ वृषाऽस्यꣳशुर्वृषभाय गृह्यसे । वृषाऽयमुग्रो नृचक्षसे । दिव्यः कर्मण्यो हितो बृहन्नाम । वृषभस्य या ककुत् । विषूवान्, विष्णो भवतु । अयं यो मामको वृषा । अथो इन्द्र इव देवेभ्यः । विब्रवीतु जनेभ्यः । आयुष्मन्तं वर्चस्वन्तम् । अथो अधिपतिं विशाम् ॥ २। ४। ७। १॥ ६४ अस्याः पृथिव्या अध्यक्षम् । इममिन्द्र वृषभं कृणु । यः सुश‍ृङ्गः सुवृषभः । कल्याणो द्रोण आहितः । कार्षीवल प्रगाणेन । वृषभेण यजामहे । वृषभेण यजमानाः । अक्रूरेणेव सर्पिषा । मृधश्च सर्वा इन्द्रेण । पृतनाश्च जयामसि ॥ २। ४। ७। २॥ ६५ यस्यायमृषभो हविः । इन्द्राय परिणीयते । जयाति शत्रुमायन्तम् । अथो हन्ति पृतन्यतः । नृणामह प्रणीरसत् । अग्र उद्भिन्दतामसत् । इन्द्र शुष्मं तनुवा मेरयस्व । नीचा विश्वा अभितिष्ठाभिमातीः । निश‍ृणीह्याबाधं यो नो अस्ति । उरुं नो लोकं कृणुहि जीरदानो ॥ २। ४। ७। ३॥ ६६ प्रेह्यभि प्रेहि प्रभरा सहस्व । मा विवेनो विश‍ृणुष्वा जनेषु । उदीडितो वृषभ तिष्ठ शुष्मैः । इन्द्र शत्रून्पुरो अस्माक युध्य । अग्ने जेता त्वं जय । शत्रून्थ्सहस ओजसा । वि शत्रून् विमृधो नुद । एतं ते स्तोमं तुविजात विप्रः । रथं न धीरः स्वपा अतक्षम् । यदीदग्ने प्रति त्वं देव हर्याः ॥ २। ४। ७। ४॥ ६७ सुवर्वतीरप एना जयेम । यो घृतेनाभिमानितः । इन्द्र जैत्राय जज्ञिषे । स नः संकासु पारय । पृतनासाह्येषु च । इन्द्रो जिगाय पृथिवीम् । अन्तरिक्षꣳ सुवर्महत् । वृत्रहा पुरुचेतनः । इन्द्रो जिगाय सहसा सहाꣳसि । इन्द्रो जिगाय पृतनानि विश्वा ॥ २। ४। ७। ५॥ ६८ इन्द्रो जातो वि पुरो रुरोज । स नः परस्पा वरिवः कृणातु । अयं कृत्नुरगृभीतः । विश्वजिदुद्भिदिथ्सोमः । ऋषिर्विप्रः काव्येन । वायुरग्रेगा यज्ञप्रीः । साकं गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः । वायो शुक्रो अयामि ते । मध्वो अग्रं दिविष्टिषु ॥ २। ४। ७। ६॥ ६९ आयाहि सोमपीतये । स्वारुहो देव नियुत्वता । इममिन्द्र वर्धय क्षत्त्रियाणाम् । अयं विशां विश्पतिरस्तु राजा । अस्मा इन्द्र महिवर्चाꣳसि धेहि । अवर्चसं कृणुहि शत्रुमस्य । इममाभज ग्रामे अश्वेषु गोषु । निरमुं भज योऽमित्रो अस्य । वर्ष्मन् क्षत्त्रस्य ककुभि श्रयस्व । ततो न उग्रो विभजा वसूनि ॥ २। ४। ७। ७॥ ७० अस्मे द्यावापृथिवी भूरि वामम् । संदुहाथां घर्मदुघेव धेनुः । अयꣳ राजा प्रिय इन्द्रस्य भूयात् । प्रियो गवामोषधीनामुतापाम् । युनज्मि त उत्तरावन्तमिन्द्रम् । येन जयासि न पराजयासै । स त्वाऽकरेकवृषभ२ꣳ स्वानाम् । अथो राजन्नुत्तमं मानवानाम् । उत्तरस्त्वमधरे ते सपत्नाः । एकवृषा इन्द्रसखा जिगीवान् ॥ २। ४। ७। ८॥ ७१ विश्वा आशाः पृतनाः सं जयं जयन् । अभितिष्ठ शत्रूयतः सहस्व । तुभ्यं भरन्ति क्षितयो यविष्ठ । बलिमग्ने अन्ति त ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि । बृहत्ते अग्ने महि शर्म भद्रम् । यो देह्यो अनमयद्वधस्मैः । यो अर्यपत्नीरुषसश्चकार । स निरुध्या नहुषो यह्वो अग्निः । विशश्चक्रे बलिहृतः सहोभिः ॥ २। ४। ७। ९॥ ७२ प्र सद्यो अग्ने अत्येष्यन्यान् । आविर्यस्मै चारुतरो बभूथ । ईडेन्यो वपुष्यो विभावा । प्रियो विशामतिथिर्मानुषीणाम् । ब्रह्म ज्येष्ठा वीर्या संभृतानि । ब्रह्माग्रे ज्येष्ठं दिवमाततान । ऋतस्य ब्रह्म प्रथमोत जज्ञे । तेनार्हति ब्रह्मणा स्पर्धितुं कः । ब्रह्म स्रुचो घृतवतीः । ब्रह्मणा स्वरवो मिताः ॥ २। ४। ७। १०॥ ७३ ब्रह्म यज्ञस्य तन्तवः । ऋत्विजो ये हविष्कृतः । श‍ृङ्गाणीवेच्छृङ्गिणाꣳ संददृश्रिरे । चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवाꣳसः । नमः सखिभ्यः सन्नान्माऽवगात । अभिभूरग्निरतरद्रजाꣳसि । स्पृधो विहत्य पृतना अभिश्रीः । जुषाणो म आहुतिं मा महिष्ट । हत्वा सपत्नान् वरिवस्करं नः । ईशानं त्वा भुवनानामभिश्रियम् । स्तौम्यग्न उरु कृतꣳ सुवीरम् । हविर्जुषाणः सपत्नाꣳ अभिभूरसि । जहि शत्रूꣳ रप मृधो नुदस्व ॥ २। ४। ७। ११॥ विशां जयामसि जीरदानो हर्या विश्वा दिविष्टिषु वसूनि जिगीवान्थ्सहोभिर्मिता नश्चत्वारि च ॥ ७॥ ७४ स प्रत्नवन्नवीयसा । अग्ने द्युम्नेन संयता । बृहत्तनन्थ भानुना । नवं नु स्तोममग्नये । दिवः श्येनाय जीजनम् । वसोः कुविद्वनाति नः । स्वारुहा यस्य श्रियो दृशे । रयिर्वीरवतो यथा । अग्रे यज्ञस्य चेततः । अदाभ्यः पुर एता ॥ २। ४। ८। १॥ ७५ अग्निर्विशां मानुषीणाम् । तूर्णी रथः सदानवः । नवꣳ सोमाय वाजिने । आज्यं पयसोऽजनि । जुष्टꣳ शुचितमं वसु । नवꣳ सोम जुषस्व नः । पीयूषस्येह तृप्णुहि । यस्ते भाग ऋता वयम् । नवस्य सोम ते वयम् । आ सुमतिं वृणीमहे ॥ २। ४। ८। २॥ ७६ स नो रास्व सहस्रिणः । नवꣳ हविर्जुषस्व नः । ऋतुभिः सोम भूतमम् । तदङ्ग प्रतिहर्य नः । राजन्थ्सोम स्वस्तये । नवग्ग् स्तोमं नवꣳ हविः । इन्द्राग्निभ्यां निवेदय । तज्जुषेताꣳ सचेतसा । शुचिं नु स्तोमं नवजातमद्य । इन्द्राग्नी वृत्रहणा जुषेथाम् ॥ २। ४। ८। ३॥ ७७ उभा हि वाꣳ सुहवा जोहवीमि । ता वाजꣳ सद्य उशते धेष्ठा । अग्निरिन्द्रो नवस्य नः । अस्य हव्यस्य तृप्यताम् । इह देवौ सहस्रिणौ । यज्ञं न आ हि गच्छताम् । वसुमन्तꣳ सुवर्विदम् । अस्य हव्यस्य तृप्यताम् । अग्निरिन्द्रो नवस्य नः । विश्वान्देवाग्स्तर्पयत ॥ २। ४। ८। ४॥ ७८ हविषोऽस्य नवस्य नः । सुवर्विदो हि जज्ञिरे । एदं बर्हिः सुष्टरीमा नवेन । अयं यज्ञो यजमानस्य भागः । अयं बभूव भुवनस्य गर्भः । विश्वे देवा इदमद्यागमिष्ठाः । इमे नु द्यावापृथिवी समीची । तन्वाने यज्ञं पुरुपेशसं धिया । आऽस्मै पृणीतां भुवनानि विश्वा । प्रजां पुष्टिममृतं नवेन ॥ २। ४। ८। ५॥ ७९ इमे धेनू अमृतं ये दुहाते । पयस्वत्युत्तरामेतु पुष्टिः । इमं यज्ञं जुषमाणे नवेन । समीची द्यावापृथिवी घृताची । यविष्ठो हव्यवाहनः । चित्रभानुर्घृतासुतिः । नवजातो विरोचसे । अग्ने तत्ते महित्वनम् । त्वमग्ने देवताभ्यः । भागे देव न मीयसे ॥ २। ४। ८। ६॥ ८० स एना विद्वान्, यक्ष्यसि । नवग्ग् स्तोमं जुषस्व नः । अग्निः प्रथमः प्राश्नातु । स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः । कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवाः । त्वयाऽवसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व । शं तोकाय तनुवे स्योनः । एतमु त्यं मधुना संयुतं यवम् । सरस्वत्या अधिमनावचर्कृषुः । इन्द्र आसीथ्सीरपतिः शतक्रतुः । कीनाशा आसन्मरुतः सुदानवः ॥ २। ४। ८। ७॥ पुरएता वृणीमहे जुषेथां तर्पयतामृतं नवेन मीयसे स्योनश्चत्वारि च ॥ ८॥ जुष्टश्चक्षुषो जुष्टी नरो नक्तं जाता वृषास उत नो वृषाऽस्यꣳशुः स प्रत्नवदष्टौ ॥ ८॥ जुष्टो मन्युर्भगो जुष्टी नरो हरिवर्पसं गिरः शिप्रिन्वाजानामुत नो यद्वाग्वदन्ती विश्वा आशा अशीतिः ॥ ८०॥ जुष्टः सुदानवः ॥

द्वितीयाष्टके पञ्चमः प्रपाठकः ५

१ प्राणो रक्षति विश्वमेजत् । इऱ्यो भूत्वा बहुधा बहूनि । स इथ्सर्वं व्यानशे । यो देवो देवेषु विभूरन्तः । आवृदूदात् क्षेत्रियध्वगद्वृषा । तमित्प्राणं मनसोप शिक्षत । अग्रं देवानामिदमत्तु नो हविः । मनसश्चित्तेदम् । भूतं भव्यं च गुप्यते । तद्धि देवेष्वग्रियम् ॥ २। ५। १। १॥ २ आ न एतु पुरश्चरम् । सह देवैरिमꣳ हवम् । मनः श्रेयसि श्रेयसि । कर्मन्, यज्ञपतिं दधत् । जुषतां मे वागिदꣳ हविः । विराड्देवी पुरोहिता । हव्यवाडनपायिनी । यया रूपाणि बहुधा वदन्ति । पेशाꣳसि देवाः परमे जनित्रे । सा नो विराडनपस्फुरन्ती ॥ २। ५। १। २॥ ३ वाग्देवी जुषतामिदꣳ हविः । चक्षुर्देवानां ज्योतिरमृते न्यक्तम् । अस्य विज्ञानाय बहुधा निधीयते । तस्य सुम्नमशीमहि । मा नो हासीद्विचक्षणम् । आयुरिन्नः प्रतीर्यताम् । अनन्धाश्चक्षुषा वयम् । जीवा ज्योतिरशीमहि । सुवर्ज्योतिरुतामृतम् । श्रोत्रेण भद्रमुत श‍ृण्वन्ति सत्यम् । श्रोत्रेण वाचं बहुधोद्यमानाम् । श्रोत्रेण मोदश्च महश्च श्रूयते । श्रोत्रेण सर्वा दिश आ श‍ृणोमि । येन प्राच्या उत दक्षिणा । प्रतीच्यै दिशः श‍ृण्वन्त्युत्तरात् । तदिच्छ्रोत्रं बहुधोद्यमानम् । अरान्न नेमिः परि सर्वं बभूव ॥ २। ५। १। ३॥ अग्रियमनपस्फुरन्ती सत्यꣳ सप्त च ॥ १॥ ४ उदेहि वाजिन्यो अस्यप्स्वन्तः । इदꣳ राष्ट्रमाविश सूनृतावत् । यो रोहितो विश्वमिदं जजान । स नो राष्ट्रेषु सुधितां दधातु । रोहꣳ रोहꣳ रोहित आरुरोह । प्रजाभिर्वृद्धिं जनुषामुपस्थम् । ताभिः सꣳरब्धो अविदथ्षडुर्वीः । गातुं प्रपश्यन्निह राष्ट्रमाहाः । आहार्षीद्राष्ट्रमिह रोहितः । मृधो व्यास्थदभयं नो अस्तु ॥ २। ५। २। १॥ ५ अस्मभ्यं द्यावापृथिवी शक्वरीभिः । राष्ट्रं दुहाथामिह रेवतीभिः । विममर्श रोहितो विश्वरूपः । समाचक्राणः प्ररुहो रुहश्च । दिवं गत्वाय महता महिम्ना । वि नो राष्ट्रमुनत्तु पयसा स्वेन । यास्ते विशस्तपसा संबभूवुः । गायत्रं वथ्समनु तास्त आगुः । तास्त्वा विशन्तु महसा स्वेन । सं माता पुत्रो अभ्येतु रोहितः ॥ २। ५। २। २॥ ६ यूयमुग्रा मरुतः पृश्निमातरः । इन्द्रेण सयुजा प्रमृणीथ शत्रून् । आ वो रोहितो अश‍ृणोदभिद्यवः । त्रिसप्तासो मरुतः स्वादुसंमुदः । रोहितो द्यावापृथिवी जजान । तस्मिग्ग्स्तन्तुं परमेष्ठी ततान । तस्मिञ्छिश्रिये अज एकपात् । अदृꣳहद्द्यावापृथिवी बलेन । रोहितो द्यावापृथिवी अदृꣳहत् । तेन सुवः स्तभितं तेन नाकः ॥ २। ५। २। ३॥ ७ सो अन्तरिक्षे रजसो विमानः । तेन देवाः सुवरन्वविन्दन् । सुशेवं त्वा भानवो दीदिवाꣳसम् । समग्रासो जुह्वो जातवेदः । उक्षन्ति त्वा वाजिनमाघृतेन । सꣳसमग्ने युवसे भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्यꣳ सुयममाकृणुष्व । शत्रूयतामभितिष्ठा महाꣳसि ॥ २। ५। २। ४॥ अस्त्वेतु रोहितो नाको महाꣳसि ॥ २॥ ८ पुनर्न इन्द्रो मघवा ददातु । धनानि शक्रो धन्यः सुराधाः । अर्वाचीनं कृणुतां याचितो मनः । श्रुष्टी नो अस्य हविषो जुषाणः । यानि नो जिनन्धनानि । जहर्थ शूर मन्युना । इन्द्रानुविन्द नस्तानि । अनेन हविषा पुनः । इन्द्र आशाभ्यः परि । सर्वाभ्योऽभयं करत् ॥ २। ५। ३। १॥ ९ जेता शत्रून् विचर्षणिः । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा सकामः । विदेयमेनद्धृदये निविष्टम् ॥ २। ५। ३। २॥ १० सेदग्निरग्नीꣳ रत्येत्यन्यान् । यत्र वाजी तनयो वीडुपाणिः । सहस्रपाथा अक्षरा समेति । आशानां त्वाऽऽशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः । विधेम हविषा वयम् । विश्वा आशा मधुना सꣳसृजामि । अनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यताम् । ११ अगृभीताः पशवः सन्तु सर्वे । अग्निः सोमो वरुणो मित्र इन्द्रः । बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती । त्वष्टा रूपाणि समनक्तु यज्ञैः । त्वष्टा रूपाणि दधती सरस्वती । पूषा भगꣳ सविता नो ददातु । बृहस्पतिर्दददिन्द्रः सहस्रम् । मित्रो दाता वरुणः सोमो अग्निः ॥ २। ५। ३। ३॥ करन्निविष्टमस्यतां नव च ॥ ३॥ १२ आ नो भर भगमिन्द्र द्युमन्तम् । नि ते देष्णस्य धीमहि प्ररेके । उर्व इव पप्रथे कामो अस्मे । तमापृणा वसुपते वसूनाम् । इमं कामं मन्दया गोभिरश्वैः । चन्द्रवता राधसा पप्रथश्च । सुवर्यवो मतिभिस्तुभ्यं विप्राः । इन्द्राय वाहः कुशिकासो अक्रन् । इन्द्रस्य नु वीर्याणि प्रवोचम् । यानि चकार प्रथमानि वज्री ॥ २। ५। ४। १॥ १३ अहन्नहिमन्वपस्ततर्द । प्र वक्षणा अभिनत्पर्वतानाम् । अहन्नहिं पर्वते शिश्रियाणम् । त्वष्टाऽस्मै वज्रग्ग् स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमानाः । अञ्जः समुद्रमव जग्मुरापः । वृषायमाणोऽवृणीत सोमम् । त्रिकद्रुकेष्वपिबथ्सुतस्य । आ सायकं मघवाऽऽदत्त वज्रम् । अहन्नेनं प्रथमजा महीनाम् ॥ २। ५। ४। २॥ १४ यदिन्द्राहन्प्रथमजा महीनाम् । आन्मायिनाममिनाः प्रोत मायाः । आथ्सूर्यं जनयन्द्यामुषासम् । तादीक्ना शत्रून्न किलाविविथ्से । अहन्वृत्रं वृत्रतरं व्यꣳसम् । इन्द्रो वज्रेण महता वधेन । स्कन्धाꣳसीव कुलिशेना विवृक्णा । अहिः शयत उपपृक्पृथिव्याम् । अयोध्येव दुर्मद आ हि जुह्वे । महावीरं तु विबाधमृजीषम् ॥ २। ५। ४। ३॥ १५ नातारीरस्य समृतिं वधानाम् । सꣳ रुजानाः पिपिष इन्द्रशत्रुः । विश्वो विहाया अरतिः । वसुर्दधे हस्ते दक्षिणे । तरणिर्न शिश्रथत् । श्रवस्यया न शिश्रथत् । विश्वस्मा इदिषुध्यसे । देवत्रा हव्यमूहिषे । विश्वस्मा इथ्सुकृते वारमृण्वति । अग्निर्द्वारा व्यृण्वति ॥ २। ५। ४। ४॥ १६ उदुज्जिहानो अभि काममीरयन् । प्रपृञ्चन्विश्वा भुवनानि पूर्वथा । आ केतुना सुषमिद्धो यजिष्ठः । कामं नो अग्ने अभिहर्य दिग्भ्यः । जुषाणो हव्यममृतेषु दूढ्यः । आ नो रयिं बहुलां गोमतीमिषम् । निधेहि यक्षदमृतेषु भूषन् । अश्विना यज्ञमागतम् । दाशुषः पुरुदꣳससा । पूषा रक्षतु नो रयिम् ॥ २। ५। ४। ५॥ १७ इमं यज्ञमश्विना वर्धयन्ता । इमौ रयिं यजमानाय धत्तम् । इमौ पशून्रक्षतां विश्वतो नः । पूषा नः पातु सदमप्रयुच्छन् । प्र ते महे सरस्वति । सुभगे वाजिनीवति । सत्यवाचे भरे मतिम् । इदं ते हव्यं घृतवथ्सरस्वति । सत्यवाचे प्रभरेमा हवीꣳषि । इमानि ते दुरिता सौभगानि । तेभिर्वयꣳ सुभगासः स्याम ॥ २। ५। ४। ६॥ वज्र्यहीनामृजीषं व्यृण्वति रक्षतु नो रयिꣳ सौभगान्येकं च ॥ ४॥ १८ यज्ञो रायो यज्ञ ईशे वसूनाम् । यज्ञः सस्यानामुत सुक्षितीनाम् । यज्ञ इष्टः पूर्वचित्तिं दधातु । यज्ञो ब्रह्मण्वाꣳ अप्येतु देवान् । अयं यज्ञो वर्धतां गोभिरश्वैः । इयं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हीग्ष्यन्या । इमं यज्ञं विश्वे अवन्तु देवाः । भग एव भगवाꣳ अस्तु देवाः । तेन वयं भगवन्तः स्याम ॥ २। ५। ५। १॥ १९ तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुर एता भवेह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदवददन्नः । भग प्रणो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । शश्वतीः समा उपयन्ति लोकाः । शश्वतीः समा उपयन्त्यापः । इष्टं पूर्तꣳ शश्वतीनाꣳ समानाꣳ शाश्वतेन । हविषेष्ट्वाऽनन्तं लोकं परमारुरोह ॥ २। ५। ५। २॥ २० इयमेव सा या प्रथमा व्यौच्छत् । सा रूपाणि कुरुते पञ्च देवी । द्वे स्वसारौ वयतस्तन्त्रमेतत् । सनातनं विततꣳ षण्मयूखम् । अवान्याग्स्तन्तून्किरतो धत्तो अन्यान् । नावपृज्याते न गमाते अन्तम् । आ वो यन्तूदवाहासो अद्य । वृष्टिं ये विश्वे मरुतो जुनन्ति । अयं यो अग्निर्मरुतः समिद्धः । एतं जुषध्वं कवयो युवानः ॥ २। ५। ५। ३॥ २१ धारावरा मरुतो धृष्णुवोजसः । मृगा न भीमास्तविषेभिरूर्मिभिः । अग्नयो न शुशुचाना ऋजीषिणः । भ्रुमिं धमन्त उप गा अवृण्वत । विचक्रमे त्रिर्देवः । आवेधसं नीलपृष्ठं बृहन्तम् । बृहस्पतिꣳ सदने सादयध्वम् । सादद्योनिं दम आदीदिवाꣳसम् । हिरण्यवर्णमरुषꣳ सपेम । स हि शुचिः शतपत्रः स शुन्ध्यूः ॥ २। ५। ५। ४॥ २२ हिरण्यवाशीरिषिरः सुवर्षाः । बृहस्पतिः स स्वावेश ऋष्वाः । पूरू सखिभ्य आ सुतिं करिष्ठः । पूषग्ग्स्तव व्रते वयम् । न रिष्येम कदाचन । स्तोतारस्त इह स्मसि । यास्ते पूषन्नावो अन्तः समुद्रे । हिरण्ययीरन्तरिक्षे चरन्ति । याभिर्यासि दूत्याꣳ सूर्यस्य । कामेन कृतः श्रव इच्छमानः ॥ २। ५। ५। ५॥ २३ अरण्यान्यरण्यान्यसौ । या प्रेव नश्यसि । कथा ग्रामं न पृच्छसि । न त्वा भीरिव विन्दती३। वृषारवाय वदते । यदुपावति चिच्चिकः । आघाटीभिरिव धावयन् । अरण्यानिर्महीयते । उत गाव इवादन् । उतो वेश्मेव दृश्यते ॥ २। ५। ५। ६॥ २४ उतो अरण्यानिः सायम् । शकटीरिव सर्जति । गामङ्गैष आह्वयति । दार्वङ्गैष उपावधीत् । वसन्नरण्यान्याꣳ सायम् । अक्रुक्षदिति मन्यते । न वा अरण्यानिर्हन्ति । अन्यश्चेन्नाभिगच्छति । स्वादोः फलस्य जग्ध्वा । यत्र कामं निपद्यते । आञ्जनगन्धीꣳ सुरभीम् । बह्वन्नाम कृषीवलाम् । प्राहं मृगाणां मातरम् । अरण्यानीमशꣳसिषम् ॥ २। ५। ५। ७॥ स्याम रुरोह युवानः शुन्ध्यूरिच्छमानो दृश्यते निपद्यते चत्वारि च ॥ ५॥ २५ वार्त्रहत्याय शवसे । पृतनासाह्याय च । इन्द्र त्वाऽऽवर्तयामसि । सुब्रह्माणं वीरवन्तं बृहन्तम् । उरुं गभीरं पृथुबुध्नमिन्द्र । श्रुतर्षिमुग्रमभिमातिषाहम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । क्षेत्रियै त्वा निरृत्यै त्वा । द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि ॥ २। ५। ६। १॥ २६ शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु । शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षꣳ सह वातेन ते । शं ते चतस्रः प्रदिशो भवन्तु । या दैवीश्चतस्रः प्रदिशः । वातपत्नीरभि सूऱ्यो विचष्टे । तासां त्वा जरस आदधामि । प्र यक्ष्म एतु निरृतिं पराचैः । अमोचि यक्ष्माद्दुरितादवर्त्यै ॥ २। ५। ६। २॥ २७ द्रुहः पाशां निरृत्यै चोदमोचि । अहा अवर्तिमविदथ्स्योनम् । अप्यभूद्भद्रे सुकृतस्य लोके । सूर्यमृतं तमसो ग्राह्या यत् । देवा अमुञ्चन्नसृजन्व्येनसः । एवमहमिमं क्षेत्रियाज्जामिशꣳसात् । द्रुहो मुञ्चामि वरुणस्य पाशात् । बृहस्पते युवमिन्द्रश्च वस्वः । दिव्यस्येशाथे उत पार्थिवस्य । धत्तꣳ रयि२ꣳ स्तुवते कीरयेचित् ॥ २। ५। ६। ३॥ २८ यूयं पात स्वस्तिभिः सदा नः । देवायुधमिन्द्रमा जोहुवानाः । विश्वावृधमभि ये रक्षमाणाः । येन हता दीर्घमध्वानमायन् । अनन्तमर्थमनिवर्थ्स्यमानाः । यत्ते सुजाते हिमवथ्सु भेषजम् । मयोभूः शंतमा यद्धृदोऽसि । ततो नो देहि सीबले । अदो गिरिभ्यो अधि यत्प्रधावसि । सꣳशोभमाना कन्येव शुभ्रे ॥ २। ५। ६। ४॥ २९ तां त्वा मुद्गला हविषा वर्धयन्ति । सा नः सीबले रयिमाभाजयेह । पूर्वं देवा अपरेणानुपश्यञ्जन्मभिः । जन्मान्यवरैः पराणि । वेदानि देवा अयमस्मीति माम् । अहꣳ हित्वा शरीरं जरसः परस्तात् । प्राणापानौ चक्षुः श्रोत्रम् । वाचं मनसि संभृताम् । हित्वा शरीरं जरसः परस्तात् । आ भूतिं भूतिं वयमश्नवामहै । इमा एव ता उषसो याः प्रथमा व्यौच्छन् । ता देव्यः कुर्वते पञ्च रूपा । शश्वतीर्नावपृज्यन्ति । न गमन्त्यन्तम् ॥ २। ५। ६। ५॥ करोम्यवर्त्यै चिच्छभ्रेऽश्नवामहै चत्वारि च ॥ ६॥ ३० वसूनां त्वाऽधीतेन । रुद्राणामूर्म्या । आदित्यानां तेजसा । विश्वेषां देवानां क्रतुना । मरुतामेम्ना जुहोमि स्वाहा । अभिभूतिरहमागमम् । इन्द्रसखा स्वायुधः । आस्वाशासु दुष्षहः । इदं वर्चो अग्निना दत्तमागात् । यशो भर्गः सह ओजो बलं च ॥ २। ५। ७। १॥ ३१ दीर्घायुत्वाय शतशारदाय । प्रतिगृभ्णामि महते वीर्याय । आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । सर्वं म आयुर्भूयात् । सर्वमायुर्गेषम् । भूर्भुवः सुवः । अग्निर्धर्मेणान्नादः । मृत्युर्धर्मेणान्नपतिः । ब्रह्म क्षत्र२ꣳ स्वाहा ॥ २। ५। ७। २॥ ३२ प्रजापतिः प्रणेता । बृहस्पतिः पुर एता । यमः पन्थाः । चन्द्रमाः पुनरसुः स्वाहा । अग्निरन्नादोऽन्नपतिः । अन्नाद्यमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । सोमो राजा राजपतिः । राज्यमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । वरुणः सम्राट्थ्सम्राट्पतिः । साम्राज्यमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा ॥ २। ५। ७। ३॥ ३३ मित्रः, क्षत्रं क्षत्रपतिः । क्षत्रमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । इन्द्रो बलं बलपतिः । बलमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । बृहस्पतिर्ब्रह्म ब्रह्मपतिः । ब्रह्मास्मिन्, यज्ञे यजमानाय ददातु स्वाहा । सविता राष्ट्रꣳ राष्ट्रपतिः । राष्ट्रमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । पूषा विशां विट्पतिः । विशमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । सरस्वती पुष्टिः पुष्टिपत्नी । पुष्टिमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा । त्वष्टा पशूनां मिथुनानाꣳ रूपकृद्रूपपतिः । रूपेणास्मिन्, यज्ञे यजमानाय पशून्ददातु स्वाहा ॥ २। ५। ७। ४॥ च स्वाहा साम्राज्यमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा विशमस्मिन्, यज्ञे यजमानाय ददातु स्वाहा चत्वारि च ॥ ७॥ अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टा दश ॥ ३४ स ईं पाहि य ऋजीषी तरुत्रः । यः शिप्रवान्वृषभो यो मतीनाम् । यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः । स इन्द्र चित्राꣳ अभितृन्धि वाजान् । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङ् । इन्द्र द्युम्नꣳ सुवर्वद्धेह्यस्मे । प्रोष्वस्मै पुरो रथम् । इन्द्राय शूषमर्चत ॥ २। ५। ८। १॥ ३५ अभी केचिदु लोककृत् । सङ्गे समथ्सु वृत्रहा । अस्माकं बोधि चोदिता । नभन्तामन्य केषाम् । ज्याका अधि धन्वसु । इन्द्रं वयꣳ शुनासीरम् । अस्मिन्, यज्ञे हवामहे । आ वाजैरुप नो गमत् । इन्द्राय शुनासीराय । स्रुचा जुहुत नो हविः ॥ २। ५। ८। २॥ ३६ जुषतां प्रति मेधिरः । प्र हव्यानि घृतवन्त्यस्मै । हर्यश्वाय भरता सजोषाः । इन्द्रर्तुभिर्ब्रह्मणा वावृधानः । शुनासीरी हविरिदं जुषस्व । वयः सुपर्णा उपसेदुरिन्द्रम् । प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुः । मुमुग्ध्यस्मान्निधयेव बद्धान् । बृहदिन्द्राय गायत ॥ २। ५। ८। ३॥ ३७ मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधः । देवं देवाय जागृवि । का मिहैकाः क इमे पतङ्गाः । मान्थालाः कुलि परि मा पतन्ति । अनावृतैनान्प्रधमन्तु देवाः । सौपर्णं चक्षुस्तनुवा विदेय । एवावन्दस्व वरुणं बृहन्तम् । नमस्या धीरममृतस्य गोपाम् । स नः शर्म त्रिवरूथं वियꣳसत् ॥ २। ५। ८। ४॥ ३८ यूयं पात स्वस्तिभिः सदा नः । नाके सुपर्णमुप यत्पतन्तम् । हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतम् । यमस्य योनौ शकुनं भुरण्युम् । शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः । ईशाना वार्याणाम् । क्षयन्तीश्चर्षणीनाम् ॥ २। ५। ८। ५॥ ३९ अपो याचामि भेषजम् । अप्सु मे सोमो अब्रवीत् । अन्तर्विश्वानि भेषजा । अग्निं च विश्वशंभुवम् । आपश्च विश्वभेषजीः । यदप्सु ते सरस्वति । गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति । मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या ॥ २। ५। ८। ६॥ ४० तस्यां मे रास्व । तस्यास्ते भक्षीय । तस्यास्ते भूयिष्ठभाजो भूयास्म । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । इहैव सन्तत्र सन्तं त्वाऽग्ने । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीत् ॥ २। ५। ८। ७॥ ४१ ज्योतिषा त्वा वैश्वानरेणोपतिष्ठे । अयं ते योनिरृत्वियः । यतो जातो अरोचथाः । तं जानन्नग्न आरोह । अथा नो वर्धया रयिम् । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्माऽऽत्मानम् । अच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् । जातवेदो भुव आजायमानः सक्षय एहि । उपावरोह जातवेदः पुनस्त्वम् ॥ २। ५। ८। ८॥ ४२ देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाꣳ रयिमस्मासु धेहि । अजस्रो दीदिहि नो दुरोणे । तमिन्द्रं जोहवीमि मघवानमुग्रम् । सत्रादधानमप्रतिष्कुतꣳ शवाꣳसि । मꣳहिष्ठो गीर्भिरा च यज्ञियोऽववर्तत् । राये नो विश्वा सुपथा कृणोतु वज्री । त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत् । सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुम् ॥ २। ५। ८। ९॥ ४३ सैनꣳ सश्चद्देवं देवः सत्यमिन्दुꣳ सत्य इन्द्रः । विदद्यती सरमा रुग्णमद्रेः । महि पाथः पूर्व्यꣳ सध्रियक्कः । अग्रं नयथ्सुपद्यक्षराणाम् । अच्छा रवं प्रथमा जानती गात् । विदद्गव्यꣳ सरमा दृढमूर्वम् । येना नुकं मानुषी भोजते विट् । आ ये विश्वा स्वपत्यानि चक्रुः । कृण्वानासो अमृतत्वाय गातुम् । त्वं नृभिर्नृपते देवहूतौ ॥ २। ५। ८। १०॥ ४४ भूरीणि वृत्वा हर्यश्व हꣳसि । त्वं निदस्युं चुमुरिम् । धुनिं चास्वापयो दभीतये सुहन्तु । एवा पाहि प्रत्नथा मन्दतु त्वा । श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषः । जहि शत्रूꣳरभि गा इन्द्र तृन्धि । अग्ने बाधस्व वि मृधो नुदस्व । अपामीवा अप रक्षाꣳसि सेध । अस्माथ्समुद्राद्बृहतो दिवो नः ॥ २। ५। ८। ११॥ ४५ अपां भूमानमुप नः सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा । वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन् । अधामृतेन जरितारमङ्ग्धि । इन्द्रः शुनावद्वितनोति सीरम् । संवथ्सरस्य प्रतिमाणमेतत् । अर्कस्य ज्योतिस्तदिदास ज्येष्ठम् । संवथ्सरꣳ शुनवथ्सीरमेतत् । इन्द्रस्य राधः प्रयतं पुरु त्मना । तदर्करूपं विमिमानमेति । द्वादशारे प्रतितिष्ठतीद्वृषा । अश्वायन्तो गव्यन्तो वाजयन्तः । हवामहे त्वोपगन्त वा उ । आभूषन्तस्त्वा सुमतौ नवायाम् । वयमिन्द्र त्वा शुनꣳ हुवेम ॥ २। ५। ८। १२॥ अर्चत हविर्गायत यꣳसच्चर्षणीनां वैशम्भल्या हासीत्त्वमुरुं देवहूतौ नस्त्मना षट्च ॥ ८॥ प्राण उदेहि पुनरा नो भर यज्ञो रायो वार्त्रहत्याय वसूनाꣳ स ईं पाह्यष्टौ ॥ ८॥ प्राणो रक्षत्यगृभीता धारावरा मरुतो दीर्घायुत्वाय ज्योतिषा त्वा पञ्चचत्वारिꣳशत् ॥ ४५॥ प्राणः शुनꣳ हुवेम ॥

द्वितीयाष्टके षष्ठः प्रपाठकः ६

१ स्वाद्वीं त्वा स्वादुना । तीव्रां तीव्रेण । अमृताममृतेन । मधुमतीं मधुमता । सृजामि सꣳसोमेन । सोमोऽस्यश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । परीतो षिञ्चता सुतम् । सोमो य उत्तमꣳ हविः ॥ २। ६। १। १॥ २ दधन्वा यो नऱ्यो अप्स्वन्तरा । सुषाव सोममद्रिभिः । पुनातु ते परिस्रुतम् । सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्ख्सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा । वायुः पूतः पवित्रेण । प्रत्यङ्ख्सोमो अतिद्रुतः ॥ २। ६। १। २॥ ३ इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ॥ २। ६। १। ३॥ ४ सरस्वत्या इन्द्राय सुत्राम्णे । एष ते योनिस्तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । नाना हि वां देवहितꣳ सदः कृतम् । मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिꣳसीः स्वां योनिमाविशन् ॥ २। ६। १। ४॥ ५ उपयामगृहीतोऽस्याश्विनं तेजः । सारस्वतं वीर्यम् । ऐन्द्रं बलम् । एष ते योनिर्मोदाय त्वा । आनन्दाय त्वा महसे त्वा । ओजोऽस्योजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । महोऽसि महो मयि धेहि । सहोऽसि सहो मयि धेहि । या व्याघ्रं विषूचिका । उभौ वृकं च रक्षति । श्येनं पतत्रिणꣳ सिꣳहम् । सेमं पात्वꣳहसः । संपृचः स्थ सं मा भद्रेण पृङ्क्त । विपृचः स्थ वि मा पाप्मना पृङ्क्त ॥ २। ६। १। ५॥ हविः प्रत्यङ्ख्सोमो अतिद्रुतो गृह्णाम्याविशन्विषूचिका पञ्च च ॥ १॥ ६ सोमो राजाऽमृतꣳ सुतः । ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रियम् । विपानꣳ शुक्रमन्धसः । इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु । सोममद्भ्यो व्यपिबत् । छन्दसा हꣳसः शुचिषत् । ऋतेन सत्यमिन्द्रियम् । अद्भ्यः, क्षीरं व्यपिबत् ॥ २। ६। २। १॥ ७ क्रुङ्ङाङ्गिरसो धिया । ऋतेन सत्यमिन्द्रियम् । अन्नात्परिस्रुतो रसम् । ब्रह्मणा व्यपिबत्क्षत्त्रम् । ऋतेन सत्यमिन्द्रियम् । रेतो मूत्रं विजहाति । योनिं प्रविशदिन्द्रियम् । गर्भो जरायुणाऽऽवृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियम् ॥ २। ६। २। २॥ ८ वेदेन रूपे व्यकरोत् । सतासती प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । सोमेन सोमौ व्यपिबत् । सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । दृष्ट्वा रूपे व्याकरोत् । सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधात् । श्रद्धाꣳ सत्ये प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । दृष्ट्वा परिस्रुतो रसम् । शुक्रेण शुक्रं व्यपिबत् । पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियम् । विपानꣳ शुक्रमन्धसः । इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु ॥ २। ६। २। ३॥ अद्भ्यः, क्षीरं व्यपिबज्जन्मनर्तेन सत्यमिन्द्रिय२ꣳ श्रद्धाꣳ सत्ये प्रजापतिरष्टौ च ॥ २॥ सोमो राजा विपानꣳ सोममद्भ्योऽन्नाद्रेतो मूत्रं वेदेन सतासती सोमेन सुतासुतौ दृष्ट्वा रूपे दृष्ट्वा परिस्रुता रसं विपानं दश ॥ ९ सुरावन्तं बर्हिषदꣳ सुवीरम् । यज्ञꣳ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु । मदेमेन्द्रं यजमानाः स्वर्काः । यस्ते रसः संभृत ओषधीषु । सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन । सरस्वतीमश्विनाविन्द्रमग्निम् । यमश्विना नमुचेरासुरादधि । सरस्वत्यसनोदिन्द्रियाय ॥ २। ६। ३। १॥ १० इमं तꣳ शुक्रं मधुमन्तमिन्दुम् । सोमꣳ राजानमिह भक्षयामि । यदत्र रिप्तꣳ रसिनः सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमꣳ राजानमिह भक्षयामि । पितृभ्यः स्वधाविभ्यः स्वधा नमः । पितामहेभ्यः स्वधाविभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नमः । अक्षन्पितरः ॥ २। ६। ३। २॥ ११ अमीमदन्त पितरः । अतीतृपन्त पितरः । अमीमृजन्त पितरः । पितरः शुन्धध्वम् । पुनन्तु मा पितरः सोम्यासः । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः ॥ २। ६। ३। ३॥ १२ पवित्रेण शतायुषा । विश्वमायुर्व्यश्नवै । अग्न आयूꣳषि पवसेऽग्ने पवस्व । पवमानः सुवर्जनः पुनन्तु मा देवजनाः । जातवेदः पवित्रवद्यत्ते पवित्रमर्चिषि । उभाभ्यां देव सवितर्वैश्वदेवी पुनती । ये समानाः समनसः । पितरो यमराज्ये । तेषां लोकः स्वधा नमः । यज्ञो देवेषु कल्पताम् ॥ २। ६। ३। ४॥ १३ ये सजाताः समनसः । जीवा जीवेषु मामकाः । तेषाग् श्रीर्मयि कल्पताम् । अस्मिं ल्लोके शतꣳ समाः । द्वे स्रुती अश‍ृणवं पितृणाम् । अहं देवानामुत मर्त्यानाम् । याभ्यामिदं विश्वमेजथ्समेति । यदन्तरा पितरं मातरं च । इदꣳ हविः प्रजननं मे अस्तु । दशवीरꣳ सर्वगण२ꣳ स्वस्तये । आत्मसनि प्रजासनि । पशुसन्यभयसनि लोकसनि । अग्निः प्रजां बहुलां मे करोतु । अन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरथ्स्वाहा ॥ २। ६। ३। ५॥ इन्द्रियाय पितरः शतायुषा पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः कल्पताग् स्वस्तये पञ्च च ॥ ३॥ १४ सीसेन तन्त्रं मनसा मनीषिणः । उर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञꣳ सविता सरस्वती । इन्द्रस्य रूपं वरुणो भिषज्यन् । तदस्य रूपममृतꣳ शचीभिः । तिस्रो दधुर्देवताः सꣳरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिः । त्वगस्य माꣳसमभवन्न लाजाः । तदश्विना भिषजा रुद्रवर्तनी । सरस्वती वयति पेशो अन्तरः ॥ २। ६। ४। १॥ १५ अस्थि मज्जानं मासरैः । कारोतरेण दधतो गवां त्वचि । सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितम् । नग्नहुर्धीरस्तसरं न वेम । पयसा शुक्रममृतं जनित्रम् । सुरया मूत्राज्जनयन्ति रेतः । अपामतिं दुर्मतिं बाधमानाः । ऊवध्यं वातꣳ सबुवं तदारात् ॥ २। ६। ४। २॥ १६ इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः ॥ २। ६। ४। ३॥ १७ प्लाशीर्व्यक्तः शतधार उथ्सः । दुहे न कुम्भीग् स्वधां पितृभ्यः । मुखꣳ सदस्य शिर इथ्सदेन । जिह्वा पवित्रमश्विना सꣳ सरस्वती । चप्पं न पायुर्भिषगस्य वालः । वस्तिर्न शेपो हरसा तरस्वी । अश्विभ्यां चक्षुरमृतं ग्रहाभ्याम् । छागेन तेजो हविषा श‍ृतेन । पक्ष्माणि गोधूमैः क्वलैरुतानि । पेशो न शुक्लमसितं वसाते ॥ २। ६। ४। ४॥ १८ अविर्न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्युपवाकैर्व्यानम् । नस्यानि बर्हिर्बदरैर्जजान । इन्द्रस्य रूपमृषभो बलाय । कर्णाभ्याग् श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि । कर्कन्धु जज्ञे मधु सारघं मुखात् । आत्मन्नुपस्थे न वृकस्य लोम । मुखे श्मश्रूणि न व्याघ्रलोमम् ॥ २। ६। ४। ५॥ १९ केशा न शीर्षन्, यशसे श्रियै शिखा । सिꣳहस्य लोम त्विषिरिन्द्रियाणि । अङ्गान्यात्मन्भिषजा तदश्विना । आत्मानमङ्गैः समधाथ्सरस्वती । इन्द्रस्य रूपꣳ शतमानमायुः । चन्द्रेण ज्योतिरमृतं दधाना । सरस्वती योन्यां गर्भमन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाꣳ रसेन वरुणो न साम्ना । इन्द्रग्ग् श्रियै जनयन्नप्सु राजा । तेजः पशूनाꣳ हविरिन्द्रियावत् । परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् । अमृतः सोम इन्दुः ॥ २। ६। ४। ६॥ अन्तर आरादन्तर्वसाते व्याघ्रलोमꣳ राजा चत्वारि च ॥ ४॥ २० मित्रोऽसि वरुणोऽसि । समहं विश्वैर्देवैः । क्षत्त्रस्य नाभिरसि । क्षत्त्रस्य योनिरसि । स्योना मा सीद । सुषदा मा सीद । मा त्वा हिꣳसीत् । मा मा हिꣳसीत् । निषसाद धृतव्रतो वरुणः । पस्त्यास्वा ॥ २। ६। ५। १॥ २१ साम्राज्याय सुक्रतुः । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन । तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । सरस्वत्यै भैषज्येन ॥ २। ६। ५। २॥ २२ वीर्यायान्नाद्यायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । इन्द्रस्येन्द्रियेण । श्रियै यशसे बलायाभिषिञ्चामि । कोऽसि कतमोऽसि । कस्मै त्वा काय त्वा । सुश्लोका ४ ं सुमङ्गला ४ ं सत्यराजा ३ न् । शिरो मे श्रीः ॥ २। ६। ५। ३॥ २३ यशो मुखम् । त्विषिः केशाश्च श्मश्रूणि । राजा मे प्राणोऽमृतम् । सम्राट्चक्षुः । विराट्छ्रोत्रम् । जिह्वा मे भद्रम् । वाङ्महः । मनो मन्युः । स्वराड्भामः । मोदाः प्रमोदा अङ्गुलीरङ्गानि ॥ २। ६। ५। ४॥ २४ चित्तं मे सहः । बाहू मे बलमिन्द्रियम् । हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम । पृष्टीर्मे राष्ट्रमुदरमꣳसौ । ग्रीवाश्च श्रोण्यौ । ऊरू अरत्नी जानुनी । विशो मेऽङ्गानि सर्वतः । नाभिर्मे चित्तं विज्ञानम् । पायुर्मेऽपचितिर्भसत् ॥ २। ६। ५। ५॥ २५ आनन्दनन्दावाण्डौ मे । भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रतिक्षत्त्रे प्रतितिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः । प्रतितिष्ठामि यज्ञे ॥ २। ६। ५। ६॥ २६ त्रया देवा एकादश । त्रयस्त्रिꣳशाः सुराधसः । बृहस्पतिपुरोहिताः । देवस्य सवितुः सवे । देवा देवैरवन्तु मा । प्रथमा द्वितीयैः । द्वितीयास्तृतीयैः । तृतीयाः सत्येन । सत्यं यज्ञेन । यज्ञो यजुर्भिः ॥ २। ६। ५। ७॥ २७ यजूꣳषि सामभिः । सामान्यृग्भिः । ऋचो याज्याभिः । याज्या वषट्कारैः । वषट्कारा आहुतिभिः । आहुतयो मे कामान्थ्समर्धयन्तु । भूः स्वाहा । लोमानि प्रयतिर्मम । त्वङ्म आनतिरागतिः । माꣳसं म उपनतिः । वस्वस्थि । मज्जा म आनतिः ॥ २। ६। ५। ८॥ पस्त्यास्वा सरस्वत्यै भैषज्येन श्रीरङ्गानि भसद्यज्ञे यज्ञो यजुर्भिरुपनतिर्द्वे च ॥ ५॥ २८ यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसः । विश्वान्मुञ्चत्वꣳहसः । यदि दिवा यदि नक्तम् । एनाꣳसि चकृमा वयम् । वायुर्मा तस्मादेनसः । विश्वान्मुञ्चत्वꣳहसः । यदि जाग्रद्यदि स्वप्ने । एनाꣳसि चकृमा वयम् ॥ २। ६। ६। १॥ २९ सूऱ्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वꣳहसः । यद्ग्रामे यदरण्ये । यथ्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च ॥ २। ६। ६। २॥ ३० अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्नात्वी मलादिव ॥ २। ६। ६। ३॥ ३१ पूतं पवित्रेणेवाज्यम् । आपः शुन्धन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् । प्रतियुतो वरुणस्य पाशः । प्रत्यस्तो वरुणस्य पाशः । एधोऽस्येधिषीमहि । समिदसि ॥ २। ६। ६। ४॥ ३२ तेजोऽसि तेजो मयि धेहि । अपो अन्वचारिषम् । रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमम् । तं मा सꣳसृज वर्चसा । प्रजया च धनेन च । समाववर्ति पृथिवी । समुषाः । समु सूर्यः । समु विश्वमिदं जगत् । वैश्वानर ज्योतिर्भूयासम् । विभुं कामं व्यश्नवै । भूः स्वाहा ॥ २। ६। ६। ५॥ स्वप्न एनाꣳसि चकृमा वयं मुञ्च मलादिव समिदसि जगत्त्रीणि च ॥ ६॥ ३३ होता यक्षथ्समिधेन्द्रमिडस्पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्थ्समिध्यते । ओजिष्ठश्चर्षणीसहान् । वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातम् । ऊतिभिर्जेतारमपराजितम् । इन्द्रं देवꣳ सुवर्विदम् । पथिभिर्मधुमत्तमैः । नराशꣳसेन तेजसा ॥ २। ६। ७। १॥ ३४ वेत्वाज्यस्य होतर्यज । होता यक्षदिडाभिरिन्द्रमीडितम् । आजुह्वानममर्त्यम् । देवो देवैः सवीर्यः । वज्रहस्तः पुरंदरः । वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिषीन्द्रं निषद्वरम् । वृषभं नर्यापसम् । वसुभी रुद्रैरादित्यैः । सयुग्भिर्बर्हिरासदत् ॥ २। ६। ७। २॥ ३५ वेत्वाज्यस्य होतर्यज । होता यक्षदोजो न वीर्यम् । सहो द्वार इन्द्रमवर्धयन् । सुप्रायणा विश्रयन्तामृतावृधः । द्वार इन्द्राय मीढुषे । वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषे इन्द्रस्य धेनू । सुदुघे मातरौ मही । सवातरौ न तेजसी । वथ्समिन्द्रमवर्धताम् ॥ २। ६। ७। ३॥ ३६ वीतामाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा । भिषजा सखाया । हविषेन्द्रं भिषज्यतः । कवी देवौ प्रचेतसौ । इन्द्राय धत्त इन्द्रियम् । वीतामाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीः । त्रयस्त्रिधातवोऽपसः । इडा सरस्वती भारती ॥ २। ६। ७। ४॥ ३७ महीन्द्रपत्नीर्हविष्मतीः । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रं देवम् । भिषजꣳ सुयजं घृतश्रियम् । पुरुरूपꣳ सुरेतसं मघोनिम् । इन्द्राय त्वष्टा दधदिन्द्रियाणि । वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम् । शमितारꣳ शतक्रतुम् । धियो जोष्टारमिन्द्रियम् ॥ २। ६। ७। ५॥ ३८ मध्वा समञ्जन्पथिभिः सुगेभिः । स्वदाति हव्यं मधुना घृतेन । वेत्वाज्यस्य होतर्यज । होता यक्षदिन्द्रग्ग् स्वाहाऽऽज्यस्य । स्वाहा मेदसः । स्वाहा स्तोकानाम् । स्वाहा स्वाहाकृतीनाम् । स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान् । स्वाहेन्द्रꣳ होत्राज्जुषाणाः । इन्द्र आज्यस्य वियन्तु । होतर्यज ॥ २। ६। ७। ६॥ तेजसाऽऽसददवर्धतां भारतीन्द्रियं जुषाणा द्वे च ॥ ७॥ समिधेन्द्रं तनूनपातमिडाभिर्बर्हिष्योज उषे दैव्या तिस्रस्त्वष्टारं वनस्पतिमिन्द्रम् । समिधेन्द्रं चतुर्वेत्वेको वियन्तु द्विर्वीतामेको वियन्तु द्विर्वेत्वेको वियन्तु होतर्यज ॥ ३९ समिद्ध इन्द्र उषसामनीके । पुरोरुचा पूर्वकृद्वावृधानः । त्रिभिर्देवैस्त्रिꣳशता वज्रबाहुः । जघान वृत्रं वि दुरो ववार । नराशꣳसः प्रति शूरो मिमानः । तनूनपात्प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन् । हिरण्यैश्चन्द्री यजति प्रचेताः । ईडितो देवैर्हरिवाꣳ अभिष्टिः । आजुह्वानो हविषा शर्धमानः ॥ २। ६। ८। १॥ ४० पुरंदरो मघवान् वज्रबाहुः । आयातु यज्ञमुप नो जुषाणः । जुषाणो बर्हिर्हरिवान्न इन्द्रः । प्राचीनꣳ सीदत्प्रदिशा पृथिव्याः । उरुव्यचाः प्रथमान२ꣳ स्योनम् । आदित्यैरक्तं वसुभिः सजोषाः । इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताम् । सुवीरा वीरं प्रथमाना महोभिः ॥ २। ६। ८। २॥ ४१ उषासा नक्ता बृहती बृहन्तम् । पयस्वती सुदुघे शूरमिन्द्रम् । पेशस्वती तन्तुना संव्ययन्ती । देवानां देवं यजतः सुरुक्मे । दैव्या मिमाना मनसा पुरुत्रा । होताराविन्द्रं प्रथमा सुवाचा । मूर्धन्, यज्ञस्य मधुना दधाना । प्राचीनं ज्योतिर्हविषा वृधातः । तिस्रो देवीर्हविषा वर्धमानाः । इन्द्रं जुषाणा वृषणं न पत्नीः ॥ २। ६। ८। ३॥ ४२ अच्छिन्नं तन्तुं पयसा सरस्वती । इडा देवी भारती विश्वतूर्तिः । त्वष्टा दधदिन्द्राय शुष्मम् । अपाकोऽचिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणं भूरिरेताः । मूर्धन्, यज्ञस्य समनक्तु देवान् । वनस्पतिरवसृष्टो न पाशैः । त्मन्या समञ्जच्छमिता न देवः । इन्द्रस्य हव्यैर्जठरं पृणानः । स्वदाति हव्यं मधुना घृतेन । स्तोकानामिन्दुं प्रति शूर इन्द्रः । वृषायमाणो वृषभस्तुराषाट् । घृतप्रुषा मधुना हव्यमुन्दन् । मूर्धन्, यज्ञस्य जुषताग् स्वाहा ॥ २। ६। ८। ४॥ शर्धमानो महोभिः पत्नीर्घृतेन चत्वारि च ॥ ८॥ ४३ आचर्षणि प्रा विवेष यन्मा । तꣳ सध्रीचीः । सत्यमित्तन्न त्वावाꣳ अन्यो अस्ति । इन्द्र देवो न मर्त्यो ज्यायान् । अहन्नहिं परिशयानमर्णः । अवासृजोऽपो अच्छा समुद्रम् । प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्राभर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । स शेवृधमधिधा द्युम्नमस्मे । महि क्षत्रं जनाषाडिन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन् । राये च नः स्वपत्या इषे धाः ॥ २। ६। ९। १॥ रेवतीनां चत्वारि च ॥ ९॥ ४४ देवं बर्हिरिन्द्रꣳ सुदेवं देवैः । वीरवथ्स्तीर्णं वेद्यामवर्धयत् । वस्तोर्वृतं प्राक्तोर्भृतम् । राया बर्हिष्मतोऽत्यगात् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वार इन्द्रꣳ संघाते । विड्वीर्यामन्नवर्धयन् । आ वथ्सेन तरुणेन कुमारेण च मीविता अपार्वाणम् । रेणुककाटं नुदन्ताम् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १०। १॥ ४५ देवी उषासा नक्ता । इन्द्रं यज्ञे प्रयत्यह्वेताम् । दैवीर्विशः प्रायासिष्टाम् । सुप्रीते सुधिते अभूताम् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती । देवमिन्द्रमवर्धताम् । अयाव्यन्याऽघा द्वेषाꣳसि । आऽन्याऽवाक्षीद्वसु वार्याणि । यजमानाय शिक्षिते ॥ २। ६। १०। २॥ ४६ वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रमवर्धताम् । इषमूर्जमन्याऽवाक्षीत् । सग्धिꣳ सपीतिमन्या । नवेन पूर्वं दयमाने । पुराणेन नवम् । अधातामूर्जमूर्जाहुती वसु वार्याणि । यजमानाय शिक्षिते । वसुवने वसुधेयस्य वीतां यज ॥ २। ६। १०। ३॥ ४७ देवा दैव्या होतारा । देवमिन्द्रमवर्धताम् । हताघशꣳसावाभार्ष्टां वसु वार्याणि । यजमानाय शिक्षितौ । वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीः । पतिमिन्द्रमवर्धयन् । अस्पृक्षद्भारती दिवम् । रुद्रैर्यज्ञꣳ सरस्वती । इडा वसुमती गृहान् ॥ २। ६। १०। ४॥ ४८ वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशꣳसः । त्रिवरूथस्त्रिवन्धुरः । देवमिन्द्रमवर्धयत् । शतेन शितिपृष्ठानामाहितः । सहस्रेण प्रवर्तते । मित्रावरुणेदस्य होत्रमर्हतः । बृहस्पतिः स्तोत्रम् । अश्विनाऽऽध्वर्यवम् । वसुवने वसुधेयस्य वेतु यज ॥ २। ६। १०। ५॥ ४९ देव इन्द्रो वनस्पतिः । हिरण्यपर्णो मधुशाखः सुपिप्पलः । देवमिन्द्रमवर्धयत् । दिवमग्रेणाप्रात् । आऽन्तरिक्षं पृथिवीमदृꣳहीत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनाम् । देवमिन्द्रमवर्धयत् । स्वासस्थमिन्द्रेणासन्नम् । अन्या बर्हीग्ष्यभ्यभूत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत् । देवमिन्द्रमवर्धयत् । स्विष्टं कुर्वन्थ्स्विष्टकृत् । स्विष्टमद्य करोतु नः । वसुवने वसुधेयस्य वेतु यज ॥ २। ६। १०। ६॥ वियन्तु यज शिक्षिते शिक्षिते वसुवने वसुधेयस्य वीतां यज गृहान्, वेतु यजाभूत्षट्च ॥ १०॥ देवं बर्हिर्देवीर्द्वारो देवी उषासा नक्ता देवी जोष्ट्री देवी ऊर्जाहुती देवा दैव्या होतारा शिक्षितौ देवीस्तिस्रस्तिस्रो देवीर्देव इन्द्रो नराशꣳसो देव इन्द्रो वनस्पतिर्देवं बर्हिर्वारितीनां देवो अग्निः स्विष्टकृद्देवम् ॥ वेतु वियन्तु चतुर्वीतामेको वियन्तु चतुर्वेतु । अवर्धयदवर्धयन्त्रिरवर्धतामेकोऽवर्धय २ꣳश्चतुरवर्धयत् । वस्तोरा वथ्सेन दैवीरयावीषꣳ हतास्पृक्षच्छतेन दिवमिन्द्रग्ग् स्वासस्थ२ꣳ स्विष्टम् । स्विष्टꣳ शिक्षिते शिक्षिते शिक्षितौ ॥ ५० होता यक्षथ्समिधाऽग्निमिडस्पदे । अश्विनेन्द्रꣳ सरस्वतीम् । अजो धूम्रो न गोधूमैः क्वलैर्भेषजम् । मधु शष्पैर्न तेज इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तनूनपाथ्सरस्वती । अविर्मेषो न भेषजम् । पथा मधुमताऽऽभरन् । अश्विनेन्द्राय वीर्यम् ॥ २। ६। ११। १॥ ५१ बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षन्नराशꣳसं न नग्नहुम् । पतिꣳसुरायै भेषजम् । मेषः सरस्वती भिषक् । रथो न चन्द्र्यश्विनोर्वपा इन्द्रस्य वीर्यम् । बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज ॥ २। ६। ११। २॥ ५२ होता यक्षदिडेडित आजुह्वानः सरस्वतीम् । इन्द्रं बलेन वर्धयन्न् । ऋषभेण गवेन्द्रियम् । अश्विनेन्द्राय वीर्यम् । यवैः कर्कन्धुभिः । मधु लाजैर्न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः सुष्टरीमोर्णम्रदाः । भिषङ्नासत्या ॥ २। ६। ११। ३॥ ५३ भिषजाऽश्विनाऽश्वा शिशुमती । भिषग्धेनुः सरस्वती । भिषग्दुह इन्द्राय भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दुरो दिशः । कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्थ्सरस्वती ॥ २। ६। ११। ४॥ ५४ अश्विनेन्द्राय भेषजम् । शुक्रं न ज्योतिरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षथ्सुपेशसोषे नक्तं दिवा । अश्विना संजानाने । समञ्जाते सरस्वत्या । त्विषिमिन्द्रे न भेषजम् । श्येनो न रजसा हृदा । पयः सोमः परिस्रुता घृतं मधु ॥ २। ६। ११। ५॥ ५५ वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा भिषजाऽश्विना । इन्द्रं न जागृवी दिवा नक्तं न भेषजैः । शूषꣳ सरस्वती भिषक् । सीसेन दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीर्न भेषजम् । त्रयस्त्रिधातवोऽपसः । रूपमिन्द्रे हिरण्ययम् ॥ ५६ अश्विनेडा न भारती । वाचा सरस्वती । मह इन्द्राय दधुरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रमश्विना । भिषजं न सरस्वतीम् । ओजो न जूतिरिन्द्रियम् । वृको न रभसो भिषक् । यशः सुरया भेषजम् ॥ २। ६। ११। ७॥ ५७ श्रिया न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम् । शमितारꣳ शतक्रतुम् । भीमं न मन्युꣳ राजानं व्याघ्रं नमसाऽश्विना भामम् । सरस्वती भिषक् । इन्द्राय दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज ॥ २। ६। ११। ८॥ ५८ होता यक्षदग्नि२ꣳ स्वाहाऽऽज्यस्य स्तोकानाम् । स्वाहा मेदसां पृथक् । स्वाहा छागमश्विभ्याम् । स्वाहा मेषꣳ सरस्वत्यै । स्वाहर्षभमिन्द्राय सिꣳहाय सहसेन्द्रियम् । स्वाहाऽग्निं न भेषजम् । स्वाहा सोममिन्द्रियम् । स्वाहेन्द्रꣳ सुत्रामाणꣳ सवितारं वरुणं भिषजां पतिम् । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् । स्वहा देवाꣳ आज्यपान् ॥ २। ६। ११। ९॥ ५९ स्वाहाऽग्निꣳ होत्राज्जुषाणो अग्निर्भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षदश्विना सरस्वतीमिन्द्रꣳ सुत्रामाणम् । इमे सोमाः सुरामाणः । छागैर्न मेषैरृषभैः सुताः । शष्पैर्न तोक्मभिः । लाजैर्महस्वन्तः । मदा मासरेण परिष्कृताः । शुक्राः पयस्वन्तोऽमृताः । प्रस्थिता वो मधुश्चुतः । तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । जुषन्ताꣳ सौम्यं मधु । पिबन्तु मदन्तु वियन्तु सोमम् । होतर्यज ॥ २। ६। ११। १०॥ वीर्यं वियन्त्वाज्यस्य होतर्यज नासत्या सरस्वती मधु हिरण्ययं भेषजं वियन्त्वाज्यस्य होतर्यजाज्यपानमृता पञ्च च ॥ ११॥ समिधाऽग्निꣳ षट् । तनूनपाथ्सप्त । नराशꣳसमृषिः । इडेडितो यवैरष्टौ । बर्हिः सप्त । दुरोऽश्विना शुक्रं नव । सुपेशस ऋषिः । दैव्या होतारा सीसेन रसः । तिस्रस्त्वष्टारमष्टावष्टौ । वनस्पतिमृषि । अग्निं त्रयोदश । अश्विना द्वादश त्रयोदश । समिधाऽग्निं बदरैर्बदरैर्यवैरश्विना त्विषिमश्विना न भेषजꣳ रूपमश्विना भीमं भामम् ॥ ६० समिद्धो अग्निरश्विना । तप्तो घर्मो विराट्थ्सुतः । दुहे धेनुः सरस्वती । सोमꣳ शुक्रमिहेन्द्रियम् । तनूपा भिषजा सुते । अश्विनोभा सरस्वती । मध्वा रजाꣳसीन्द्रियम् । इन्द्राय पथिभिर्वहान् । इन्द्रायेन्दुꣳ सरस्वती । नराशꣳसेन नग्नहुः ॥ २। ६। १२। १॥ ६१ अधातामश्विना मधु । भेषजं भिषजा सुते । आजुह्वाना सरस्वती । इन्द्रायेन्द्रियाणि वीर्यम् । इडाभिरश्विनाविषम् । समूर्जꣳ सꣳ रयिं दधुः । अश्विना नमुचेः सुतम् । सोमꣳ शुक्रं परिस्रुता । सरस्वती तमाभरत् । बर्हिषेन्द्राय पातवे ॥ २। ६। १२। २॥ ६२ कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्थ्सरस्वती । उषासा नक्तमश्विना । दिवेन्द्रꣳ सायमिन्द्रियैः । संजानाने सुपेशसा । समञ्जाते सरस्वत्या । पातं नो अश्विना दिवा । पाहि नक्तꣳ सरस्वति ॥ २। ६। १२। ३॥ ६३ दैव्या होतारा भिषजा । पातमिन्द्रꣳ सचा सुते । तिस्रस्त्रेधा सरस्वती । अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् । इन्द्राय सुषवुर्मदम् । अश्विना भेषजं मधु । भेषजं नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियम् । रूपꣳ रूपमधुः सुते । ऋतुथेन्द्रो वनस्पतिः । शशमानः परिस्रुता । कीलालमश्विभ्यां मधु । दुहे धेनुः सरस्वती । गोभिर्न सोममश्विना । मासरेण परिष्कृता । समधाताꣳ सरस्वत्या । स्वाहेन्द्रे सुतं मधु ॥ २। ६। १२। ४॥ नग्नहुः पातवे सरस्वत्यधुः सुतेऽष्टौ च ॥ १२॥ ६४ अश्विना हविरिन्द्रियम् । नमुचेर्धिया सरस्वती । आ शुक्रमासुराद्वसु । मघमिन्द्राय जभ्रिरे । यमश्विना सरस्वती । हविषेन्द्रमवर्धयन् । स बिभेद वलं मघम् । नमुचावासुरे सचा । तमिन्द्रं पशवः सचा । अश्विनोभा सरस्वती ॥ २। ६। १३। १॥ ६५ दधाना अभ्यनूषत । हविषा यज्ञमिन्द्रियम् । य इन्द्र इन्द्रियं दधुः । सविता वरुणो भगः । स सुत्रामा हविष्पतिः । यजमानाय सश्चत । सविता वरुणो दधत् । यजमानाय दाशुषे । आदत्त नमुचेर्वसु । सुत्रामा बलमिन्द्रियम् ॥ २। ६। १३। २॥ ६६ वरुणः, क्षत्त्रमिन्द्रियम् । भगेन सविता श्रियम् । सुत्रामा यशसा बलम् । दधाना यज्ञमाशत । अश्विना गोभिरिन्द्रियम् । अश्वेभिर्वीर्यं बलम् । हविषेन्द्रꣳ सरस्वती । यजमानमवर्धयन् । ता नासत्या सुपेशसा । हिरण्यवर्तनी नरा । सरस्वती हविष्मती । इन्द्र कर्मसु नोऽवत । ता भिषजा सुकर्मणा । सा सुदुघा सरस्वती । स वृत्रहा शतक्रतुः । इन्द्राय दधुरिन्द्रियम् ॥ २। ६। १३। ३॥ उभा सरस्वती बलमिन्द्रियं नरा षट्च ॥ १३॥ ६७ देवं बर्हिः सरस्वती । सुदेवमिन्द्रे अश्विना । तेजो न चक्षुरक्ष्योः । बर्हिषा दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवीर्द्वारो अश्विना । भिषजेन्द्रे सरस्वती । प्राणं न वीर्यं नसि । द्वारो दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १४। १॥ ६८ देवी उषासावश्विना । भिषजेन्द्रे सरस्वती । बलं न वाचमास्ये । उषाभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवी जोष्ट्री अश्विना । सुत्रामेन्द्रे सरस्वती । श्रोत्रं न कर्णयोर्यशः । जोष्ट्रीभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १४। २॥ ६९ देवी ऊर्जाहुती दुघे सुदुघे । पयसेन्द्रꣳ सरस्वत्यश्विना भिषजाऽवत । शुक्रं न ज्योतिः स्तनयोराहुती धत्त इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवा देवानां भिषजा । होताराविन्द्रमश्विना । वषट्कारैः सरस्वती । त्विषिं न हृदये मतिम् । होतृभ्यां दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १४। ३॥ ७० देवीस्तिस्रस्तिस्रो देवीः । सरस्वत्यश्विना भारतीडा । शूषं न मध्ये नाभ्याम् । इन्द्राय दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देव इन्द्रो नराशꣳसः । त्रिवरूथः सरस्वत्याऽश्विभ्यामीयते रथः । रेतो न रूपममृतं जनित्रम् । इन्द्राय त्वष्टा दधदिन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १४। ४॥ ७१ देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः सुपिप्पलः । इन्द्राय पच्यते मधु । ओजो न जूतिमृषभो न भामम् । वनस्पतिर्नो दधदिन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज । देवं बर्हिर्वारितीनाम् । अध्वरे स्तीर्णमश्विभ्याम् । ऊर्णम्रदाः सरस्वत्याः ॥ २। ६। १४। ५॥ ७२ स्योनमिन्द्र ते सदः । ईशायै मन्युꣳ राजानं बर्हिषा दधुरिन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । देवो अग्निः स्विष्टकृत् । देवान्, यक्षद्यथायथम् । होताराविन्द्रमश्विना । वाचा वाचꣳ सरस्वतीम् । अग्निꣳ सोमग्ग् स्विष्टकृत् । स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् । इष्टो देवो वनस्पतिः । स्विष्टा देवा आज्यपाः । इष्टो अग्निरग्निना । होता होत्रे स्विष्टकृत् । यशो न दधदिन्द्रियम् । ऊर्जमपचिति२ꣳ स्वधाम् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। १४। ६॥ द्वारो दधुरिन्द्रियं वसुवने वसुधेयस्य वियन्तु यज जोष्ट्रीभ्यां दधुरिन्द्रियं वसुवने वसुधेयस्य वियन्तु यज होतृभ्यां दधुरिन्द्रियं वसुवने वसुधेयस्य वियन्तु यजेन्द्रियाणि वसुवने वसुधेयस्य वियन्तु यज सरस्वत्या वनस्पतिः षट्च ॥ १४॥ देवं बर्हिर्देवीर्द्वारो देवी उषासावश्विना देवी जोष्ट्री देवी ऊर्जाहुती देवा देवानां भिषजा वषट्कारैर्देवीस्तिस्रस्तिस्रो देवीर्देव इन्द्रो नराशꣳसो देव इन्द्रो वनस्पतिर्देवं बर्हिर्वारितीनां देवो अग्निः स्विष्टकृद्देवान् ॥ समिधाऽग्निं देवं बर्हिः सरस्वत्यश्विना सर्वं वियन्तु । द्वारस्तिस्रः सर्वं वियन्तु । अज इन्द्रमोजोऽग्निंपरः सरस्वतीम् । नक्तंपूर्वः सरस्वति । अन्यत्र सरस्वती । भिषक्पूर्वं दुह इन्द्रियम् । अन्यत्र दधुरिन्द्रियम् । सौत्रामण्याꣳ सुतासुती । अञ्जन्त्ययं यजमानः ॥ ७३ अग्निमद्य होतारमवृणीत । अयꣳ सुतासुती यजमानः । पचन्पक्तीः । पचन्पुरोडाशान् । गृह्णन्ग्रहान् । बध्नन्नश्विभ्यां छागꣳ सरस्वत्या इन्द्राय । बध्नन्थ्सरस्वत्यै मेषमिन्द्रायाश्विभ्याम् । बध्नन्निन्द्रायर्षभमश्विभ्याꣳ सरस्वत्यै । सूपस्था अद्य देवो वनस्पतिरभवत् । अश्विभ्यां छागेन सरस्वत्या इन्द्राय ॥ २। ६। १५। १॥ ७४ सरस्वत्यै मेषेणेन्द्रायाश्विभ्याम् । इन्द्रायर्षभेणाश्विभ्याꣳ सरस्वत्यै । अक्षग्ग्स्तान्मेदस्तः प्रति पचताऽग्रभीषुः । अवीवृधन्त ग्रहैः । अपातामश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । सोमान्थ्सुराम्णः । उपो उक्थामदाः श्रौद्विमदा अदन् । अवीवृधन्ताङ्गूषैः । त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीत । अयꣳ सुतासुती यजमानः । बहुभ्य आसंगतेभ्यः । एष मे देवेषु वसुवार्या यक्ष्यत इति । ता या देवा देवदानान्यदुः । तान्यस्मा आ च शास्स्व । आ च गुरस्व । इषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः । सूक्तवाकाय सूक्ता ब्रूहि ॥ २। ६। १५। २॥ इन्द्राय यजमानः सप्त च ॥ १५॥ ७५ उशन्तस्त्वा हवामह आ नो अग्ने सुकेतुना । त्वꣳ सोम महे भगं त्वꣳ सोम प्रचिकितो मनीषा । त्वया हि नः पितरः सोम पूर्वे त्वꣳ सोम पितृभिः संविदानः । बर्हिषदः पितर आऽहं पितॄन् । उपहूताः पितरोऽग्निष्वात्ताः पितरः । अग्निष्वात्तानृतुमतो हवामहे । नराशꣳसे सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु । शं नो भवन्तु द्विपदे शं चतुष्पदे । ये अग्निष्वात्ता येऽनग्निष्वात्ताः ॥ २। ६। १६। १॥ ७६ अꣳहोमुचः पितरः सोम्यासः । परेऽवरेऽमृतासो भवन्तः । अधिब्रुवन्तु ते अवन्त्वस्मान् । वान्यायै दुग्धे जुषमाणाः करम्भम् । उदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदानाः । इन्द्रवन्तो हविरिदं जुषन्ताम् । यदग्ने कव्यवाहन त्वमग्न ईडितो जातवेदः । मातली कव्यैः । ये तातृपुर्देवत्रा जेहमानाः । होत्रावृधः स्तोमतष्टासो अर्कैः । आऽग्ने याहि सुविदत्रेभिरर्वाङ् । सत्यैः कव्यैः पितृभिर्घर्मसद्भिः । हव्यवाहमजरं पुरुप्रियम् । अग्निं घृतेन हविषा सपर्यन् । उपासदं कव्यवाहं पितृणाम् । स नः प्रजां वीरवतीꣳ समृण्वतु ॥ २। ६। १६। २॥ अनग्निष्वात्ता जेहमानाः सप्त च ॥ १६॥ ७७ होता यक्षदिडस्पदे । समिधानं महद्यशः । सुषमिद्धं वरेण्यम् । अग्निमिन्द्रं वयोधसम् । गायत्रीं छन्द इन्द्रियम् । त्र्यविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छुचिव्रतम् । तनूनपातमुद्भिदम् । यं गर्भमदितिर्दधे ॥ २। ६। १७। १॥ ७८ शुचिमिन्द्रं वयोधसम् । उष्णिहं छन्द इन्द्रियम् । दित्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षदीडेन्यम् । ईडितं वृत्रहन्तमम् । इडाभिरीड्यꣳ सहः । सोममिन्द्रं वयोधसम् । अनुष्टुभं छन्द इन्द्रियम् । त्रिवथ्सं गां वयो दधत् ॥ ७९ वेत्वाज्यस्य होतर्यज । होता यक्षथ्सुबर्हिषदम् । पूषण्वन्तममर्त्यम् । सीदन्तं बर्हिषि प्रिये । अमृतेन्द्रं वयोधसम् । बृहतीं छन्द इन्द्रियम् । पञ्चाविं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षद्व्यचस्वतीः । सुप्रायणा ऋतावृधः ॥ २। ६। १७। ३॥ ८० द्वारो देवीर्हिरण्ययीः । ब्रह्माण इन्द्रं वयोधसम् । पङ्क्तिं छन्द इहेन्द्रियम् । तुर्यवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षथ्सुपेशसे । सुशिल्पे बृहती उभे । नक्तोषासा न दर्शते । विश्वमिन्द्रं वयोधसम् । त्रिष्टुभं छन्द इन्द्रियम् ॥ २। ६। १७। ४॥ ८१ पष्ठवाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्प्रचेतसा । देवानामुत्तमं यशः । होतारा दैव्या कवी । सयुजेन्द्रं वयोधसम् । जगतीं छन्द इहेन्द्रियम् । अनड्वाहं गां वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षत्पेशस्वतीः ॥ २। ६। १७। ५॥ ८२ तिस्रो देवीर्हिरण्ययीः । भारतीर्बृहतीर्महीः । पतिमिन्द्रं वयोधसम् । विराजं छन्द इहेन्द्रियम् । धेनुं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षथ्सुरेतसम् । त्वष्टारं पुष्टिवर्धनम् । रूपाणि बिभ्रतं पृथक् । पुष्टिमिन्द्रं वयोधसम् ॥ २। ६। १७। ६॥ ८३ द्विपदं छन्द इहेन्द्रियम् । उक्षाणं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षच्छतक्रतुम् । हिरण्यपर्णमुक्थिनम् । रशनां बिभ्रतं वशिम् । भगमिन्द्रं वयोधसम् । ककुभं छन्द इहेन्द्रियम् । वशां वेहतं गां न वयो दधत् । वेत्वाज्यस्य होतर्यज । होता यक्षथ्स्वाहाकृतीः । अग्निं गृहपतिं पृथक् । वरुणं भेषजं कविम् । क्षत्त्रमिन्द्रं वयोधसम् । अतिच्छन्दसं छन्द इन्द्रियम् । बृहदृषभं गां वयो दधत् । वेत्वाज्यस्य होतर्यज ॥ २। ६। १७। ७॥ दधे दधदृतावृध इन्द्रियं पेशस्वतीर्वयोधसं वेत्वाज्यस्य होतर्यज सप्त च ॥ १७॥ इडस्पदेऽग्निं गायत्रीं त्र्यविम् । शुचिव्रतꣳशुचिमुष्णिहं दित्यवाहम् । ईडेऽन्यꣳ सोममनुष्टुभं त्रिवथ्सम् । सुबर्हिषदममृतेन्द्रं बृहतीं पञ्चाविम् । व्यचस्वतीः सुप्रायणा द्वारो ब्रह्माणः पङ्क्तिमिह तुर्यवाहम् । सुपेशसे विश्वमिन्द्रं त्रिष्टुभं पष्ठवाहम् । प्रचेतसा सयुजेन्द्रं जगतीमिहानड्वाहम् । पेशस्वतीस्तिस्रो भारतीः पतिं विराजमिह धेनुं न । सुरेतसं त्वष्टारं पुष्टिं द्विपदमिहोक्षाणं न । शतक्रतुं भगमिन्द्रं ककुभमिह वशां वेहतं गां न । स्वाहाकृतीः, क्षत्त्रमतिच्छन्दसं बृहदृषभं गां वयः । इन्द्रियमृषिवसुनवदशेहेन्द्रियमष्ट नव दश गां न वयो दधथ्सर्ववेतु ॥ ८४ समिद्धो अग्निः समिधा । सुषमिद्धो वरेण्यः । गायत्री छन्द इन्द्रियम् । त्र्यविर्गौर्वयो दधुः । तनूनपाच्छुचिव्रतः । तनूनपाच्च सरस्वती । उष्णिक्छन्द इन्द्रियम् । दित्यवाड्गौर्वयो दधुः । इडाभिरग्निरीड्यः । सोमो देवो अमर्त्यः ॥ २। ६। १८। १॥ ८५ अनुष्टुप्छन्द इन्द्रियम् । त्रिवथ्सो गौर्वयो दधुः । सुबर्हिरग्निः पूषण्वान् । स्तीर्णबर्हिरमर्त्यः । बृहती छन्द इन्द्रियम् । पञ्चाविर्गौर्वयो दधुः । दुरो देवीर्दिशो महीः । ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश्छन्द इहेन्द्रियम् । तुर्यवाड्गौर्वयो दधुः ॥ २। ६। १८। २॥ ८६ उषे यह्वी सुपेशसा । विश्वे देवा अमर्त्याः । त्रिष्टुप्छन्द इन्द्रियम् । पष्ठवाड्गौर्वयो दधुः । दैव्या होतारा भिषजा । इन्द्रेण सयुजा युजा । जगती छन्द इहेन्द्रियम् । अनड्वान्गौर्वयो दधुः । तिस्र इडा सरस्वती । भारती मरुतो विशः ॥ २। ६। १८। ३॥ ८७ विराट् छन्द इहेन्द्रियम् । धेनुर्गौर्न वयो दधुः । त्वष्टा तुरीपो अद्भुतः । इन्द्राग्नी पुष्टिवर्धना । द्विपाच्छन्द इहेन्द्रियम् । उक्षा गौर्न वयो दधुः । शमिता नो वनस्पतिः । सविता प्रसुवन्भगम् । ककुच्छन्द इहेन्द्रियम् । वशा वेहद्गौर्न वयो दधुः । स्वाहा यज्ञं वरुणः । सुक्षत्रो भेषजं करत् । अतिच्छन्दाश्छन्द इन्द्रियम् । बृहदृषभो गौर्वयो दधुः ॥ २। ६। १८। ४॥ अमर्त्यस्तुर्यवाड्गौर्वयो दधुर्विशो वशा वेहद्गौर्न वयो दधुश्चत्वारि च ॥ १८॥ ८८ वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिरृतुनाऽऽदित्याः । स्तोमे सप्तदशे स्तुतम् ॥ २। ६। १९। १॥ ८९ वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविꣳश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिꣳशेऽमृतग्ग् स्तुतम् । सत्येन रेवतीः, क्षत्त्रम् । हविरिन्द्रे वयो दधुः ॥ २। ६। १९। २॥ स्तोमे सप्तदशे स्तुतꣳ सहो हविरिन्द्रे वयो दधुश्चत्वारि च ॥ १९॥ वसन्तेन ग्रिष्मेण वर्षाभिः शारदेन हेमन्तेन शैशिरेण षट् ॥ ९० देवं बर्हिरिन्द्रं वयोधसम् । देवं देवमवर्धयत् । गायत्रिया छन्दसेन्द्रियम् । तेज इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारो देवमिन्द्रं वयोधसम् । देवीर्देवमवर्धयन् । उष्णिहा छन्दसेन्द्रियम् । प्राणमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज ॥ २। ६। २०। १॥ ९१ देवी देवं वयोधसम् । उषे इन्द्रमवर्धताम् । अनुष्टुभा छन्दसेन्द्रियम् । वाचमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । बृहत्या छन्दसेन्द्रियम् । श्रोत्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज ॥ २। ६। २०। २॥ ९२ देवी ऊर्जाहुती देवमिन्द्रं वयोधसम् । देवी देवमवर्धताम् । पङ्क्त्या छन्दसेन्द्रियम् । शुक्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा देवमिन्द्रं वयोधसम् । देवा देवमवर्धताम् । त्रिष्टुभा छन्दसेन्द्रियम् । त्विषिमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज ॥ २। ६। २०। ३॥ ९३ देवीस्तिस्रस्तिस्रो देवीर्वयोधसम् । पतिमिन्द्रमवर्धयन् । जगत्या छन्दसेन्द्रियम् । बलमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज । देवो नराशꣳसो देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । विराजा छन्दसेन्द्रियम् । रेत इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ॥ २। ६। २०। ४॥ ९४ देवो वनस्पतिर्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । द्विपदा छन्दसेन्द्रियम् । भगमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । ककुभा छन्दसेन्द्रियम् । यश इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृद्देवमिन्द्रं वयोधसम् । देवो देवमवर्धयत् । अतिच्छन्दसा छन्दसेन्द्रियम् । क्षत्त्रमिन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज ॥ २। ६। २०। ५॥ वियन्तु यज वीतां यज वीतां यज वेतु यज वेतु यज पञ्च च ॥ २०॥ देवं बर्हिर्गायत्रिया तेजः । देवीर्द्वार उष्णिहा प्राणम् । देवी देवमुषे अनुष्टुभा वाचम् । देवी जोष्ट्री बृहत्या श्रोत्रम् । देवी ऊर्जाहुती पङ्क्त्या शुक्रम् । देवा दैव्या होतारा त्रिष्टुभा त्विषिम् । देवीस्तिस्रस्तिस्रो देवीः पतिं जगत्या बलम् । देवो नराशꣳसो विराजा रेतः । देवो वनस्पतिर्द्विपदा भगम् । देवं बर्हिर्वारितीनां ककुभा यशः । देवो अग्निः स्विष्टकृदतिच्छन्दसा क्षत्त्रम् । वेतु वियन्तु चतुर्वीतामेको वियन्तु चतुर्वेत्ववर्धयदवर्धय२ꣳ श्चतुरवर्धतामेकोऽवर्धय२ꣳ श्चतुरवर्धयत् ॥ स्वाद्वीं त्वा सोमः सुरावन्तꣳ सीसेन मित्रोऽसि यद्देवा होता यक्षथ्समिधेन्द्रꣳ समिद्ध इन्द्र आचर्षणिप्रा देवं बर्हिर्होता यक्षथ्समिधाऽग्निꣳ समिद्धो अग्निरश्विनाऽश्विना हविरिन्द्रियं देवं बर्हिः सरस्वत्यग्निमद्योशन्तो होता यक्षदिडस्पदे समिद्धो अग्निः समिधा वसन्तेन देवं बर्हिरिन्द्रं वयोधसं विꣳशतिः ॥ २०॥ स्वाद्वीं त्वाऽमी मदन्त पितरः साम्राज्याय पूतं पवित्रेणेवाज्यमुषासानक्ता बदरैरधातामश्विना देव इन्द्रो वनस्पतिः पष्ठवाहं गां देवी देवं वयोधसं चतुर्नवतिः ॥ ९४॥ स्वाद्वीन्त्वा वेतु यज ॥

द्वितीयाष्टके सप्तमः प्रपाठकः ७

१ त्रिवृथ्स्तोमो भवति । ब्रह्मवर्चसं वै त्रिवृत् । ब्रह्मवर्चसमेवावरुन्धे । अग्निष्टोमः सोमो भवति । ब्रह्मवर्चसं वा अग्निष्टोमः । ब्रह्मवर्चसमेवावरुन्धे । रथंतरꣳ साम भवति । ब्रह्मवर्चसं वै रथंतरम् । ब्रह्मवर्चसमेवावरुन्धे । परिस्रजी होता भवति ॥ २। ७। १। १॥ २ अरुणो मिर्मिरस्त्रिशुक्रः । एतद्वै ब्रह्मवर्चसस्य रूपम् । रूपेणैव ब्रह्मवर्चसमवरुन्धे । बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति । स एतं बृहस्पतिसवमपश्यत् । तमाहरत् । तेनायजत । ततो वै स देवानां पुरोधामगच्छत् । यः पुरोधाकामः स्यात् । स बृहस्पतिसवेन यजेत ॥ २। ७। १। २॥ ३ पुरोधामेव गच्छति । तस्य प्रातःसवने सन्नेषु नाराशꣳसेषु । एकादश दक्षिणा नीयन्ते । एकादश माध्यंदिने सवने सन्नेषु नाराशꣳसेषु । एकादश तृतीयसवने सन्नेषु नाराशꣳसेषु । त्रयस्त्रिꣳशथ्संपद्यन्ते । त्रयस्त्रिꣳशद्वै देवताः । देवता एवावरुन्धे । अश्वश्चतुस्त्रिꣳशः । प्राजापत्यो वा अश्वः ॥ २। ७। १। ३॥ ४ प्रजापतिश्चतुस्त्रिꣳशो देवतानाम् । यावतीरेव देवताः । ता एवावरुन्धे । कृष्णाजिनेऽभिषिञ्चति । ब्रह्मणो वा एतद्रूपम् । यत्कृष्णाजिनम् । ब्रह्मवर्चसेनैवैनꣳ समर्धयति । आज्येनाभिषिञ्चति । तेजो वा आज्यम् । तेज एवास्मिन्दधाति ॥ २। ७। १। ४॥ होता भवति यजत वा अश्वो दधाति ॥ १॥ ५ यदाग्नेयो भवति । अग्निमुखा ह्यृद्धिः । अथ यत्पौष्णः । पुष्टिर्वै पूषा । पुष्टिर्वैश्यस्य । पुष्टिमेवावरुन्धे । प्रसवाय सावित्रः । अथ यत्त्वाष्ट्रः । त्वष्टा हि रूपाणि विकरोति । निर्वरुणत्वाय वारुणः ॥ २। ७। २। १॥ ६ अथो य एव कश्च सन्थ्सूयते । स हि वारुणः । अथ यद्वैश्वदेवः । वैश्वदेवो हि वैश्यः । अथ यन्मारुतः । मारुतो हि वैश्यः । सप्तैतानि हवीꣳषि भवन्ति । सप्त गणा वै मरुतः । पृश्निः पष्ठौही मारुत्यालभ्यते । विड्वै मरुतः । विश एवैतन्मध्यतोऽभिषिच्यते । तस्माद्वा एष विशः प्रियः । विशो हि मध्यतोऽभिषिच्यते । ऋषभचर्मेऽध्यभिषिञ्चति । स हि प्रजनयिता । दध्नाऽभिषिञ्चति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति ॥ २। ७। २। २॥ वारुणो विड्वै मरुतोऽष्टौ च ॥ २॥ ७ यदाग्नेयो भवति । आग्नेयो वै ब्राह्मणः । अथ यथ्सौम्यः । सौम्यो हि ब्राह्मणः । प्रसवायैव सावित्रः । अथ यद्बार्हस्पत्यः । एतद्वै ब्राह्मणस्य वाक्पतीयम् । अथ यदग्नीषोमीयः । आग्नेयो वै ब्राह्मणः । तौ यदा संगच्छेते ॥ २। ७। ३। १॥ ८ अथ वीर्यावत्तरो भवति । अथ यथ्सारस्वतः । एतद्धि प्रत्यक्षं ब्राह्मणस्य वाक्पतीयम् । निर्वरुणत्वायैव वारुणः । अथो य एव कश्च सन्थ्सूयते । स हि वारुणः । अथ यद्द्यावापृथिव्यः । इन्द्रो वृत्राय वज्रमुदयच्छत् । तं द्यावापृथिवी नान्वमन्येताम् । तमेतेनैव भागधेयेनान्वमन्येताम् ॥ २। ७। ३। २॥ ९ वज्रस्य वा एषोऽनुमानाय । अनुमतवज्रः सूयाता इति । अष्टावेतानि हवीꣳषि भवन्ति । अष्टाक्षरा गायत्री । गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसमवरुन्धे । हिरण्येन घृतमुत्पुनाति । तेजस एव रुचे । कृष्णाजिनेऽभिषिञ्चति । ब्रह्मणो वा एतदृख्सामयो रूपम् । यत्कृष्णाजिनम् । ब्रह्मन्नेवैनमृख्सामयोरध्यभिषिञ्चति । घृतेनाभिषिञ्चति । तथा वीर्यावत्तरो भवति ॥ २। ७। ३। ३॥ संगच्छेते भागधेयेनान्वमन्येताꣳ रूपं चत्वारि च ॥ ३॥ १० न वै सोमेन सोमस्य सवोऽस्ति । हतो ह्येषः । अभिषुतो ह्येषः । न हि हतः सूयते । सौमीꣳ सूतवशामालभते । सोमो वै रेतोधाः । रेत एव तद्दधाति । सौम्यर्चाऽभिषिञ्चति । रेतोधा ह्येषा । रेतः सोमः । रेत एवास्मिन्दधाति । यत्किंच राजसूयमृते सोमम् । तथ्सर्वं भवति । अषाढं युथ्सु पृतनासु पप्रिम् । सुवर्षामप्स्वां वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसम् । जयन्तं त्वामनु मदेम सोम ॥ २। ७। ४। १॥ रेतः सोमः सप्त च ॥ ४॥ ११ यो वै सोमेन सूयते । स देवसवः । यः पशुना सूयते । स देवसवः । य इष्ट्या सूयते । स मनुष्यसवः । एतं वै पृथये देवाः प्रायच्छन् । ततो वै सोऽप्यारण्यानां पशूनामसूयत । यावतीः कियतीश्च प्रजा वाचं वदन्ति । तासाꣳ सर्वासाꣳ सूयते ॥ १२ य एतेन यजते । य उ चैनमेवं वेद । नाराशग्ग्स्यर्चाऽभिषिञ्चति । मनुष्या वै नराशꣳसः । निह्नुत्य वावै तत् । अथाभिषिञ्चति । यत्किंच राजसूयमनुत्तर वेदीकम् । तथ्सर्वं भवति । ये मे पञ्चाशतं ददुः । अश्वानाꣳ सधस्तुतिः । द्युमदग्ने महि श्रवः । बृहत्कृधि मघोनाम् । नृवदमृत नृणाम् ॥ २। ७। ५। २॥ सूयते सधस्तुतिस्त्रीणि च ॥ ५॥ १३ एष गोसवः । षट्त्रिꣳश उक्थ्यो बृहथ्सामा । पवमाने कण्वरथन्तरं भवति । यो वै वाजपेयः । स सम्राट्थ्सवः । यो राजसूयः । स वरुणसवः । प्रजापतिः स्वाराज्यं परमेष्ठी । स्वाराज्यं गौरेव । गौरिव भवति ॥ २। ७। ६। १॥ १४ य एतेन यजते । य उ चैनमेवं वेद । उभे बृहद्रथंतरे भवतः । तद्धि स्वाराज्यम् । अयुतं दक्षिणाः । तद्धि स्वाराज्यम् । प्रतिधुषाऽभिषिञ्चति । तद्धि स्वाराज्यम् । अनुद्धते वेद्यै दक्षिणत आहवनीयस्य बृहतस्तोत्रं प्रत्यभिषिञ्चति । इयं वाव रथंतरम् । १५ असौ बृहत् । अनयोरेवैनमनन्तर्हितमभिषिञ्चति । पशुस्तोमो वा एषः । तेन गोसवः । षट्त्रिꣳशः सर्वः । रेवज्जातः सहसा वृद्धः । क्षत्राणां क्षत्त्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः । क्षत्त्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीत्याह । स्वाराज्यमेवैनं गमयति ॥ २। ७। ६। ३॥ इव भवति रथंतरमाहैकं च ॥ ६॥ १६ सिꣳहे व्याघ्र उत या पृदाकौ । त्विषिरग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या राजन्ये दुन्दुभावायतायाम् । अश्वस्य क्रन्द्ये पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या हस्तिनि द्वीपिनि या हिरण्ये । त्विषिरश्वेषु पुरुषेषु गोषु ॥ २। ७। ७। १॥ १७ इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । राडसि विराडसि । सम्राडसि स्वराडसि । इन्द्राय त्वा तेजस्वते तेजस्वन्त२ꣳ श्रीणामि । इन्द्राय त्वौजस्वत ओजस्वन्त२ꣳ श्रीणामि ॥ २। ७। ७। २॥ १८ इन्द्राय त्वा पयस्वते पयस्वन्त२ꣳ श्रीणामि । इन्द्राय त्वाऽऽयुष्मत आयुष्मन्त२ꣳ श्रीणामि । तेजोऽसि । तत्ते प्रयच्छामि । तेजस्वदस्तु मे मुखम् । तेजस्वच्छिरो अस्तु मे । तेजस्वान्, विश्वतः प्रत्यङ् । तेजसा संपिपृग्धि मा । ओजोऽसि । तत्ते प्रयच्छामि ॥ २। ७। ७। ३॥ १९ ओजस्वदस्तु मे मुखम् । ओजस्वच्छिरो अस्तु मे । ओजस्वान्, विश्वतः प्रत्यङ् । ओजसा संपिपृग्धि मा । पयोऽसि । तत्ते प्रयच्छामि । पयस्वदस्तु मे मुखम् । पयस्वच्छिरो अस्तु मे । पयस्वान्, विश्वतः प्रत्यङ् । पयसा संपिपृग्धि मा ॥ २। ७। ७। ४॥ २० आयुरसि । तत्ते प्रयच्छामि । आयुष्मदस्तु मे मुखम् । आयुष्मच्छिरो अस्तु मे । आयुष्मान्, विश्वतः प्रत्यङ् । आयुषा संपिपृग्धि मा । इममग्न आयुषे वर्चसे कृधि । प्रियꣳ रेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ । विश्वे देवा जरदष्टिर्यथा सत् ॥ २। ७। ७। ५॥ २१ आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । यतो वातो मनोजवाः । यतः, क्षरन्ति सिन्धवः । तासां त्वा सर्वासाꣳ रुचा । अभिषिञ्चामि वर्चसा । समुद्र इवासि गह्मना । सोम इवास्यदाभ्यः । अग्निरिव विश्वतः प्रत्यङ् । सूर्य इव ज्योतिषा विभूः ॥ २। ७। ७। ६॥ २२ अपां यो द्रवणे रसः । तमहमस्मा आमुष्यायणाय । तेजसे ब्रह्मवर्चसाय गृह्णामि । अपां य ऊर्मौ रसः । तमहमस्मा आमुष्यायणाय । ओजसे वीर्याय गृह्णामि । अपां यो मध्यतो रसः । तमहमस्मा आमुष्यायणाय । पुष्ट्यै प्रजननाय गृह्णामि । अपां यो यज्ञियो रसः । तमहमस्मा आमुष्यायणाय । आयुषे दीर्घायुत्वाय गृह्णामि ॥ २। ७। ७। ७॥ गोष्वोजस्वन्त२ꣳ श्रीणाम्योजोऽसि तत्ते प्रयच्छामि पयसा संपिपृग्धि मा सद्विभूर्यज्ञियो रसो द्वे च ॥ ७॥ २३ अभिप्रेहि वीरयस्व । उग्रश्चेत्ता सपत्नहा । आतिष्ठ मित्रवर्धनः । तुभ्यं देवा अधिब्रवन् । अङ्कौ न्यङ्कावभित आतिष्ठ वृत्रहन्रथम् । आतिष्ठन्तं परि विश्वे अभूषन् । श्रियं वसानश्चरति स्वरोचाः । महत्तदस्यासुरस्य नाम । आ विश्वरूपो अमृतानि तस्थौ । अनु त्वेन्द्रो मदत्वनु बृहस्पतिः ॥ २। ७। ८। १॥ २४ अनु सोमो अन्वग्निरावीत् । अनु त्वा विश्वे देवा अवन्तु । अनु सप्त राजानो य उताभिषिक्ताः । अनु त्वा मित्रावरुणाविहावतम् । अनुद्यावापृथिवी विश्वशंभू । सूऱ्यो अहोभिरनु त्वाऽवतु । चन्द्रमा नक्षत्रैरनु त्वाऽवतु । द्यौश्च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद्दक्षिणा त्वा पिपर्तु । अनु स्वधा चिकिताꣳ सोमो अग्निः । आऽयं पृणक्तु रजसी उपस्थम् ॥ २। ७। ८। २॥ बृहस्पतिः सोमो अग्निरेकं च ॥ ८॥ २५ प्रजापतिः प्रजा असृजत । ता अस्माथ्सृष्टाः पराचीरायन् । स एतं प्रजापतिरोदनमपश्यत् । सोऽन्नं भूतोऽतिष्ठत् । ता अन्यत्रान्नाद्यमवित्त्वा । प्रजापतिं प्रजा उपावर्तन्त । अन्नमेवैनं भूतं पश्यन्तीः प्रजा उपावर्तन्ते । य एतेन यजते । य उ चैनमेवं वेद । सर्वाण्यन्नानि भवन्ति ॥ २। ७। ९। १॥ २६ सर्वे पुरुषाः । सर्वाण्येवान्नान्यवरुन्धे । सर्वान्पुरुषान् । राडसि विराडसीत्याह । स्वाराज्यमेवैनं गमयति । यद्धिरण्यं ददाति । तेजस्तेनावरुन्धे । यत्तिसृधन्वम् । वीर्यं तेन । यदष्ट्राम् ॥ २। ७। ९। २॥ २७ पुष्टिं तेन । यत्कमण्डलुम् । आयुष्टेन । यद्धिरण्यमाबध्नाति । ज्योतिर्वै हिरण्यम् । ज्योतिरेवास्मिन्दधाति । अथो तेजो वै हिरण्यम् । तेज एवात्मन्धत्ते । यदोदनं प्राश्नाति । एतदेव सर्वमवरुध्य ॥ २। ७। ९। ३॥ २८ तदस्मिन्नेकधाऽधात् । रोहिण्यां कार्यः । यद्ब्राह्मण एव रोहिणी । तस्मादेव । अथो वर्ष्मैवैनꣳ समानानां करोति । उद्यता सूर्येण कार्यः । उद्यन्तं वा एतꣳ सर्वाः प्रजाः प्रतिनन्दन्ति । दिदृक्षेण्यो दर्शनीयो भवति । य एवं वेद । ब्रह्मवादिनो वदन्ति ॥ २। ७। ९। ४॥ २९ अवेत्योऽवभृथा ३ ना ३ इति । यद्दर्भपुंजीलैः पवयति । तथ्स्विदेवावैति । तन्नावैति । त्रिभिः पवयति । त्रय इमे लोकाः । एभिरेवैनं लोकैः पवयति । अथो अपां वा एतत्तेजो वर्चः । यद्दर्भाः । यद्दर्भपुंजीलैः पवयति । अपामेवैनं तेजसा वर्चसाऽभिषिञ्चति ॥ २। ७। ९। ५॥ भवन्त्यष्ट्रामवरुध्य वदन्ति दर्भा यद्दर्भपुंजीलैः पवयत्येकं च ॥ ९॥ ३० प्रजापतिरकामयत बहोर्भूयान्थ्स्यामिति । स एतं पञ्चशारदीयमपश्यत् । तमाहरत् । तेनायजत । ततो वै स बहोर्भूयानभवत् । यः कामयेत बहोर्भूयान्थ्स्यामिति । स पञ्च शारदीयेन यजेत । बहोरेव भूयान्भवति । मरुथ्स्तोमो वा एषः । मरुतो हि देवानां भूयिष्ठाः ॥ २। ७। १०। १॥ ३१ बहुर्भवति । य एतेन यजते । य उ चैनमेवं वेद । पञ्चशारदीयो भवति । पञ्च वा ऋतवः संवथ्सरः । ऋतुष्वेव संवथ्सरे प्रतितिष्ठति । अथो पञ्चाक्षरा पङ्क्तिः । पाङ्क्तो यज्ञः । यज्ञमेवावरुन्धे । सप्तदश२ꣳ स्तोमा नातियन्ति । सप्तदशः प्रजापतिः । प्रजापतेराप्त्यै ॥ २। ७। १०। २॥ भूयिष्ठा यन्ति द्वे च ॥ १०॥ ३२ अगस्त्यो मरुद्भ्य उक्ष्णः प्रौक्षत् । तानिन्द्र आदत्त । त एनं वज्रमुद्यत्याभ्यायन्त । तानगस्त्यश्चैवेन्द्रश्च कयाशुभीयेनाशमयताम् । ताञ्छान्तानुपाह्वयत । यत्कयाशुभीयं भवति शान्त्यै । तस्मादेत ऐन्द्रा मारुता उक्षाणः सवनीया भवन्ति । त्रयः प्रथमेऽहन्नालभ्यन्ते । एवं द्वितीये । एवं तृतीये ॥ २। ७। ११। १॥ ३३ एवं चतुर्थे । पञ्चोत्तमेऽहन्नालभ्यन्ते । वर्षिष्ठमिव ह्येतदहः । वर्षिष्ठः समानानां भवति । य एतेन यजते । य उ चैनमेवं वेद । स्वाराज्यं वा एष यज्ञः । एतेन वा एकयावा कान्दमः स्वाराज्यमगच्छत् । स्वाराज्यं गच्छति । य एतेन यजते ॥ २। ७। ११। २॥ ३४ य उ चैनमेवं वेद । मारुतो वा एष स्तोमः । एतेन वै मरुतो देवानां भूयिष्ठा अभवन् । भूयिष्ठः समानानां भवति । य एतेन यजते । य उ चैनमेवं वेद । पञ्चशारदीयो वा एष यज्ञः । आ पञ्चमात्पुरुषादन्नमत्ति । य एतेन यजते । य उ चैनमेवं वेद । सप्तदश२ꣳ स्तोमा नातियन्ति । सप्तदशः प्रजापतिः । प्रजापतेरेव नैति ॥ २। ७। ११। ३॥ तृतीये गच्छति य एतेन यजतेऽत्ति य एतेन यजते य उ चैनमेवं वेद त्रीणि च ॥ ११॥ अगस्त्यः स्वाराज्यं मारुतः पञ्चशारदीयो वा एष यज्ञः सप्तदशः प्रजापतेरेव नैति ॥ ३५ अस्याजरासो दमा मरित्राः । अर्चद्धूमासो अग्नयः पावकाः । श्विचीचयः श्वात्रासो भुरण्यवः । वनर्षदो वायवो न सोमाः । यजा नो मित्रावरुणा । यजा देवाꣳ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् । अश्विना पिबतꣳ सुतम् । दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा ॥ २। ७। १२। १॥ ३६ द्वे विरूपे चरतः स्वर्थे । अन्याऽन्या वथ्समुपधापयेते । हरिरन्यस्यां भवति स्वधावान् । शुक्रो अन्यस्यां ददृशे सुवर्चाः । पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाऽभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । त्रीणि शता त्रीषहस्राण्यग्निम् । त्रिꣳशच्च देवा नव चासपर्यन् ॥ २। ७। १२। २॥ ३७ औक्षन्घृतैरास्तृणन्बर्हिरस्मै । आदिद्धोतारं न्यषादयन्त । अग्निनाऽग्निः समिध्यते । कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः । अग्निर्देवानां जठरम् । पूतदक्षः कविक्रतुः । देवो देवेभिरागमत् । अग्निश्रियो मरुतो विश्वकृष्टयः । आ त्वेषमुग्रमव ईमहे वयम् ॥ २। ७। १२। ३॥ ३८ ते स्वानिनो रुद्रिया वर्षनिर्णिजः । सिꣳहा न हेषक्रतवः सुदानवः । यदुत्तमे मरुतो मध्यमे वा । यद्वाऽवमे सुभगासो दिविष्ठ । ततो नो रुद्रा उत वाऽन्वस्य । अग्ने वित्ताद्धविषो यद्यजामः । ईडे अग्नि२ꣳ स्ववसं नमोभिः । इह प्रसप्तो विचयत्कृतं नः । रथैरिव प्रभरे वाजयद्भिः । प्रदक्षिणिन्मरुताग् स्तोममृध्याम् ॥ २। ७। १२। ४॥ ३९ श्रुधि श्रुत्कर्ण वह्निभिः । देवैरग्ने सयावभिः । आसीदन्तु बर्हिषि । मित्रो वरुणो अर्यमा । प्रातर्यावाणो अध्वरम् । विश्वेषामदितिर्यज्ञियानाम् । विश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामव आवृणानः । सुमृडीको भवतु विश्ववेदाः । त्वे अग्ने सुमतिं भिक्षमाणाः ॥ २। ७। १२। ५॥ ४० दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुरुषसा विरूपे । कृष्णं च वर्णमरुणं च संधुः । त्वामग्न आदित्यास आस्यम् । त्वां जिह्वाꣳ शुचयश्चक्रिरे कवे । त्वाꣳ रातिषाचो अध्वरेषु सश्चिरे । त्वे देवा हविरदन्त्याहुतम् । नि त्वा यज्ञस्य साधनम् । अग्ने होतारमृत्विजम् । वनुष्वद्देव धीमहि प्रचेतसम् । जीरं दूतममर्त्यम् ॥ २। ७। १२। ६॥ यज्ञवाहसा सपर्यन्वयमृध्यां भिक्षमाणाः प्रचेतसमेकं च ॥ १२॥ ४१ तिष्ठा हरी रथ आ युज्यमाना याहि । वायुर्न नियुतो नो अच्छ । पिबास्यन्धो अभिसृष्टो अस्मे । इन्द्र स्वाहा ररिमा ते मदाय । कस्य वृषा सुते सचा । नियुत्वान्वृषभो रणत् । वृत्रहा सोमपीतये । इन्द्रं वयं महाधने । इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ॥ २। ७। १३। १॥ ४२ द्वितायो वृत्रहन्तमः । विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् । स सूर आ जनयञ्ज्योतिरिन्द्रम् । अया धिया तरणिरद्रिबर्हाः । ऋतेन शुष्मीनवमानो अर्कैः । व्युस्रिधो अस्रो अद्रिर्बिभेद । उत त्यदाश्वश्वियम् । यदिन्द्र नाहुषीष्वा । अग्रे विक्षु प्रतीदयत् ॥ २। ७। १३। २॥ ४३ भरेष्विन्द्रꣳ सुहवꣳ हवामहे । अꣳहोमुचꣳ सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणꣳ सातये भगम् । द्यावापृथिवी मरुतः स्वस्तये । महि क्षेत्रं पुरुश्चन्द्रं विविद्वान् । आदिथ्सखिभ्यश्च रथꣳ समैरत् । इन्द्रो नृभिरजनद्दीद्यानः साकम् । सूर्यमुषसं गातुमग्निम् । उरुं नो लोकमनुनेषि विद्वान् । सुवर्वज्ज्योतिरभय२ꣳ स्वस्ति ॥ २। ७। १३। ३॥ ४४ ऋष्वा त इन्द्र स्थविरस्य बाहू । उपस्थेयाम शरणा बृहन्ता । आ नो विश्वाभिरूतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजथ्स्थविरेभिः सुशिप्र । अस्मे दधद्वृषणꣳ शुष्ममिन्द्र । इन्द्राय गाव आशिरम् । दुदुह्रे वज्रिणे मधु । यथ्सीमुपह्वरेऽविदत् । तास्ते वज्रिन्धेनवो जोजयुर्नः ॥ २। ७। १३। ४॥ ४५ गभस्तयो नियुतो विश्ववाराः । अहरहर्भूय इज्जोगुवानाः । पूर्णा इन्द्र क्षुमतो भोजनस्य । इमां ते धियं प्रभरे महो महीम् । अस्य स्तोत्रे धिषणा यत्त आनजे । तमुथ्सवे च प्रसवे च सासहिम् । इन्द्रं देवासः शवसा मदन्ननु ॥ २। ७। १३। ५॥ वज्रिणमयथ्स्वस्ति जोजयुर्नः सप्त च ॥ १३॥ ४६ प्रजापतिः पशूनसृजत । तेऽस्माथ्सृष्टाः पराञ्च आयन् । तानग्निष्टोमेन नाप्नोत् । तानुक्थ्येन नाप्नोत् । तान्थ्षोडशिना नाप्नोत् । तान्रात्रिया नाप्नोत् । तान्थ्संधिना नाप्नोत् । सोऽग्निमब्रवीत् । इमान्म ईप्सेति । तानग्निस्त्रिवृता स्तोमेन नाप्नोत् ॥ २। ७। १४। १॥ ४७ स इन्द्रमब्रवीत् । इमान्म ईप्सेति । तानिन्द्रः पञ्चदशेन स्तोमेन नाप्नोत् । स विश्वान्देवानब्रवीत् । इमान्म ईप्सतेति । तान्, विश्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् । स विष्णुमब्रवीत् । इमान्म ईप्सेति । तान्, विष्णुरेकविꣳशेन स्तोमेनाप्नोत् । वारवन्तीयेनावारयत ॥ २। ७। १४। २॥ ४८ इदं विष्णुर्विचक्रम इति व्यक्रमत । यस्मात्पशवः प्र प्रेव भ्रꣳशेरन् । स एतेन यजेत । यदाप्नोत् । तदप्तोर्यामस्याप्तोर्यामत्वम् । एतेन वै देवा जैत्वानि जित्वा । यं काममकामयन्त तमाप्नुवन् । यं कामं कामयते । तमेतेनाप्नोति ॥ २। ७। १४। ३॥ स्तोमेन नाप्नोदवारयत नव च ॥ १४॥ ४९ व्याघ्रोऽयमग्नौ चरति प्रविष्टः । ऋषीणां पुत्रो अभिशस्तिपा अयम् । नमस्कारेण नमसा ते जुहोमि । मा देवानां मिथुया कर्म भागम् । सावीर्हि देव प्रसवाय पित्रे । वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यꣳ सवितः सर्वताता । दिवे दिव आसुवा भूरिपश्वः । भूतो भूतेषु चरति प्रविष्टः । स भूतानामधिपतिर्बभूव ॥ २। ७। १५। १॥ ५० तस्य मृत्यौ चरति राजसूयम् । स राजा राज्यमनुमन्यतामिदम् । येभिः शिल्पैः पप्रथानामदृꣳहत् । येभिर्द्यामभ्यपिꣳशत्प्रजापतिः । येभिर्वाचं विश्वरूपाꣳ समव्ययत् । तेनेममग्न इह वर्चसा समङ्ग्धि । येभिरादित्यस्तपति प्रकेतुभिः । येभिः सूऱ्यो ददृशे चित्रभानुः । येभिर्वाचं पुष्कलेभिरव्ययत् । तेनेममग्न इह वर्चसा समङ्ग्धि ॥ २। ७। १५। २॥ ५१ आऽयं भातु शवसा पञ्च कृष्टीः । इन्द्र इव ज्येष्ठो भवतु प्रजावान् । अस्मा अस्तु पुष्कलं चित्रभानु । आऽयं पृणक्तु रजसी उपस्थम् । यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्थ्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधिविश्रयेमम् । द्यौरसि पृथिव्यसि । व्याघ्रो वैयाघ्रेऽधि ॥ २। ७। १५। ३॥ ५२ विश्रयस्व दिशो महीः । विशस्त्वा सर्वा वाञ्छन्तु । मा त्वद्राष्ट्रमधिभ्रशत् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । तासां त्वा सर्वासाꣳ रुचा । अभिषिञ्चामि वर्चसा । अभि त्वा वर्चसा सिचं दिव्येन । पयसा सह । यथाऽऽसा राष्ट्रवर्धनः ॥ २। ७। १५। ४॥ ५३ तथा त्वा सविता करत् । इन्द्रं विश्वा अवीवृधन् । समुद्रव्यचसं गिरः । रथीतमꣳ रथीनाम् । वाजानाꣳ सत्पतिं पतिम् । वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसा । रुद्रास्त्वा दक्षिणतोऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा । आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा । विश्वे त्वा देवा उत्तरतोऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । बृहस्पतिस्त्वोपरिष्टादभिषिञ्चतु पाङ्क्तेन छन्दसा ॥ २। ७। १५। ५॥ ५४ अरुणं त्वा वृकमुग्रं खजंकरम् । रोचमानं मरुतामग्रे अर्चिषः । सूर्यवन्तं मघवानं विषासहिम् । इन्द्रमुक्थ्येषु नामहूतमꣳ हुवेम । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इन्द्रस्य ते वीर्यकृतः । बाहू उपावहरामि ॥ २। ७। १५। ६॥ बभूवाव्ययत्तेनेममग्न इह वर्चसा समंग्धि वैयाघ्रेऽधि राष्ट्रवर्धनः पाङ्क्तेन छन्दसोपावहरामि ॥ १५॥ ५५ अभि प्रेहि वीरयस्व । उग्रश्चेत्ता सपत्नहा । आतिष्ठ वृत्रहन्तमः । तुभ्यं देवा अधिब्रवन् । अङ्कौ न्यङ्कावभितो रथं यौ । ध्वान्तं वाताग्रमनुसंचरन्तौ । दूरे हेतिरिन्द्रियावान्पतत्री । ते नोऽग्नयः पप्रयः पारयन्तु । नमस्त ऋषे गद । अव्यथायै त्वा स्वधायै त्वा ॥ २। ७। १६। १॥ ५६ मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवा ब्रह्मन्तवेदस्तु । तिष्ठा रथे अधि यद्वज्रहस्तः । आ रश्मीन्देव युवसे स्वश्वः । आतिष्ठ वृत्रहन्नातिष्ठन्तं परि । अनु त्वेन्द्रो मदत्वनु त्वा मित्रावरुणौ । द्यौश्च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद्दक्षिणा त्वा पिपर्तु । अनु स्वधा चिकिताꣳ सोमो अग्निः । अनु त्वाऽवतु सविता सवेन ॥ २। ७। १६। २॥ ५७ इन्द्रं विश्वा अवीवृधन् । समुद्रव्यचसं गिरः । रथीतमꣳ रथीनाम् । वाजानाꣳ सत्पतिं पतिम् । परि मा सेन्या घोषाः । ज्यानां वृञ्जन्तु गृध्नवः । मेथिष्ठाः पिन्वमाना इह । मां गोपतिमभिसंविशन्तु । तन्मेऽनुमतिरनुमन्यताम् । तन्माता पृथिवी तत्पिता द्यौः ॥ २। ७। १६। ३॥ ५८ तद्ग्रावाणः सोमसुतो मयोभुवः । तदश्विना श‍ृणुतꣳ सौभगा युवम् । अवते हेड उदुत्तमम् । एना व्याघ्रं परिषस्वजानाः । सिꣳहꣳ हिन्वन्ति महते सौभगाय । समुद्रं न सुहवं तस्थिवाꣳसम् । मर्मृज्यन्ते द्वीपिनमप्स्वन्तः । उदसावेतु सूर्यः । उदिदं मामकं वचः । उदिहि देव सूर्य । सह वग्नुना मम । अहं वाचो विवाचनम् । मयि वागस्तु धर्णसिः । यन्तु नदयो वर्षन्तु पर्जन्याः । सुपिप्पला ओषधयो भवन्तु । अन्नवतामोदनवतामामिक्षवताम् । एषाꣳ राजा भूयासम् ॥ २। ७। १६। ४॥ स्वधायै त्वा सवेन द्यौः सूर्य सप्त च ॥ १६॥ ५९ ये केशिनः प्रथमाः सत्रमासत । येभिराभृतं यदिदं विरोचते । तेभ्यो जुहोमि बहुधा घृतेन । रायस्पोषेणेमं वर्चसा सꣳसृजाथ । नर्ते ब्रह्मणस्तपसो विमोकः । द्विनाम्नी दीक्षा वशिनी ह्युग्रा । प्र केशाः सुवते काण्डिनो भवन्ति । तेषां ब्रह्मेदीशे वपनस्य नान्यः । आरोह प्रोष्ठं विषहस्व शत्रून् । अवास्राग्दीक्षा वशिनी ह्युग्रा ॥ २। ७। १७। १॥ ६० देहि दक्षिणां प्रतिरस्वायुः । अथा मुच्यस्व वरुणस्य पाशात् । येनावपथ्सविता क्षुरेण । सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जेमम् । रय्या वर्चसा सꣳसृजाथ । मा ते केशाननु गाद्वर्च एतत् । तथा धाता करोतु ते । तुभ्यमिन्द्रो बृहस्पतिः । सविता वर्च आदधात् ॥ २। ७। १७। २॥ ६१ तेभ्यो निधानं बहुधा व्यैच्छन् । अन्तरा द्यावापृथिवी अपः सुवः । दर्भस्तम्बे वीर्यकृते निधाय । पौग्स्येनेमं वर्चसा सꣳसृजाथ । बलं ते बाहुवोः सविता दधातु । सोमस्त्वाऽनक्तु पयसा घृतेन । स्त्रीषु रूपमश्विनैतन्निधत्तम् । पौग्स्येनेमं वर्चसा सꣳसृजाथ । यथ्सीमन्तं कङ्कतस्ते लिलेख । यद्वा क्षुरः परिववर्ज वपग्ग्स्ते । स्त्रीषु रूपमश्विनैतन्निधत्तम् । पौग्स्येनेमꣳ सꣳसृजाथो वीर्येण ॥ २। ७। १७। ३॥ अवास्राग्दीक्षा वशिनी ह्युग्राऽऽदधाद्ववर्ज वपग्ग्स्ते द्वे च ॥ १७॥ ये केशिनो नर्ते मा ते बलं यथ्सीमन्तं पञ्च ॥ / हेळिकोटिल्ल / ६२ इन्द्रं वै स्वा विशो मरुतो नापाचायन् । सोऽनपचाय्यमान एतं विघनमपश्यत् । तमाहरत् । तेनायजत । तेनैवासां तꣳ सग्ग्स्तम्भं व्यहन् । यद्व्यहन् । तद्विघनस्य विघनत्वम् । वि पाप्मानं भ्रातृव्यꣳ हते । य एतेन यजते । य उ चैनमेवं वेद ॥ २। ७। १८। १॥ ६३ यꣳ राजानं विशो नापचायेयुः । यो वा ब्राह्मणस्तमसा पाप्मना प्रावृतः स्यात् । स एतेन यजेत । विघनेनैवैनद्विहत्य । विशामाधिपत्यं गच्छति । तस्य द्वे द्वादशे स्तोत्रे भवतः । द्वे चतुर्विꣳशे । औद्भिद्यमेव तत् । एतद्वै क्षत्त्रस्यौद्भिद्यम् । यदस्मै स्वा विशो बलिꣳ हरन्ति ॥ २। ७। १८। २॥ ६४ हरन्त्यस्मै विशो बलिम् । ऐनमप्रतिख्यातं गच्छति । य एवं वेद । प्रबाहुग्वा अग्रे क्षत्त्राण्यातेपुः । तेषामिन्द्रः, क्षत्त्राण्यादत्त । न वा इमानि क्षत्त्राण्यभूवन्निति । तन्नक्षत्राणां नक्षत्रत्वम् । आ श्रेयसो भ्रातृव्यस्य तेज इन्द्रियं धत्ते । य एतेन यजते । य उ चैनमेवं वेद ॥ २। ७। १८। ३॥ ६५ तद्यथा ह वै सचक्रिणौ कप्लकावुपावहितौ स्याताम् । एवमेतौ युग्मन्तौ स्तोमौ । अयुक्षु स्तोमेषु क्रियेते । पाप्मनोऽपहत्यै । अप पाप्मानं भ्रातृव्यꣳ हते । य एतेन यजते । य उ चैनमेवं वेद । तद्यथा ह वै सूतग्रामण्यः । एवं छन्दाꣳसि । तेष्वसावादित्यो बृहतीरभ्यूढः ॥ २। ७। १८। ४॥ ६६ सतोबृहतीषु स्तुवते सतो बृहन् । प्रजया पशुभिरसानीत्येव । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तं वै क्षत्त्रं विशा । विशैवैनं क्षत्त्रेण व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै ग्रामणीः सजातैः । सजातैरेवैनं व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै पुरुषः पाप्मभिः । व्यतिषक्ताभिरेवास्य पाप्मनो नुदते ॥ २। ७। १८। ५॥ वेद हरन्त्येनमेवं वेदाभ्यूढः पाप्मभिरेकं च ॥ १८॥ त्रिवृद्यदाग्नेयोऽग्निमुखा ह्यृद्धिर्यदाग्नेय आग्नेयो न वै सोमेन यो वै सोमेनैष गोसवः सिꣳहेऽभि प्रेहि मित्रवर्धनः प्रजापतिस्ता ओदनं प्रजापतिरकामयत बहोर्भूयानगस्त्योऽस्या जरासास्तिष्ठा हरी प्रजापतिः पशून्व्याघ्रोऽयमभिप्रेहि वृत्रहन्तमो ये केशिन इन्द्रं वा अष्टादश ॥ १८॥ त्रिवृद्यो वै सोमेनायुरसि बहुर्भवति तिष्ठा हरीरथ आऽयं भातु तेभ्यो निधानꣳ षट्थ्षष्टिः ॥ ६६॥ त्रिवृत्पाप्मनोनुदते ॥

द्वितीयाष्टके अष्टमः प्रपाठकः ८

१ पीवोन्नाꣳ रयिवृधः सुमेधाः । श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वितस्थुः । विश्वेन्नरः स्वपत्यानि चक्रुः । रायेऽनु यं जज्ञतू रोदसी उभे । राये देवी धिषणा धाति देवम् । अधा वायुं नियुतः सश्चत स्वाः । उत श्वेतं वसुधितिं निरेके । आ वायो प्रयाभिः । प्र वायुमच्छा बृहती मनीषा ॥ २। ८। १। १॥ २ बृहद्रयिं विश्ववाराꣳ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः । कविः कविमियक्षसि प्रयज्यो । आ नो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन् हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः । प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु ॥ २। ८। १। २॥ ३ वय२ꣳ स्याम पतयो रयीणाम् । रयीणां पतिं यजतं बृहन्तम् । अस्मिन्भरे नृतमं वाजसातौ । प्रजापतिं प्रथमजामृतस्य । यजाम देवमधि नो ब्रवीतु । प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजानाम् । पतिर्विश्वस्य जगतः परस्पाः । हविर्नो देव विहवे जुषस्व । तवेमे लोकाः प्रदिशो दिशश्च ॥ २। ८। १। ३॥ ४ परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव । प्रतिहर्य हव्यम् । प्रजापतिं प्रथमं यज्ञियानाम् । देवानामग्रे यजतं यजध्वम् । स नो ददातु द्रविणꣳ सुवीर्यम् । रायस्पोषं विष्यतु नाभिमस्मे । यो राय ईशे शतदाय उक्थ्यः । यः पशूनाꣳ रक्षिता विष्ठितानाम् । प्रजापतिः प्रथमजा ऋतस्य ॥ २। ८। १। ४॥ ५ सहस्रधामा जुषताꣳ हविर्नः । सोमापूषणेमौ देवौ । सोमापूषणा रजसो विमानम् । सप्तचक्रꣳ रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानम् । तं जिन्वथो वृषणा पञ्चरश्मिम् । दिव्यन्यः सदनं चक्र उच्चा । पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुम् । रायस्पोषं विष्यतां नाभिमस्मे ॥ २। ८। १। ५॥ ६ धियं पूषा जिन्वतु विश्वमिन्वः । रयिꣳ सोमो रयिपतिर्दधातु । अवतु देव्यदितिरनर्वा । बृहद्वदेम विदथे सुवीराः । विश्वान्यन्यो भुवना जजान । विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे । युवभ्यां विश्वाः पृतना जयेम । उदुत्तमं वरुणास्तभ्नाद्द्याम् । यत्किंचेदं कितवासः । अव ते हेडस्तत्त्वा यामि । आदित्यानामवसा न दक्षिणा । धारयन्त आदित्यासस्तिस्रो भूमीर्धारयन् । यज्ञो देवानाꣳ शुचिरपः ॥ २। ८। १। ६॥ मनीषाऽस्तु चर्तस्यास्मे कितवासश्चत्वारि च ॥ १॥ ७ ते शुक्रासः शुचयो रश्मिवन्तः । सीदन्नादित्या अधि बर्हिषि प्रिये । कामेन देवाः सरथं दिवो नः । आयान्तु यज्ञमुप नो जुषाणाः । ते सूनवो अदितेः पीवसामिषम् । घृतं पिन्वत्प्रतिहर्यन्नृतेजाः । प्र यज्ञिया यजमानाय येमुरे । आदित्याः कामं पितुमन्तमस्मे । आ नः पुत्रा अदितेर्यान्तु यज्ञम् । आदित्यासः पथिभिर्देवयानैः ॥ २। ८। २। १॥ ८ अस्मे कामं दाशुषे सन्नमन्तः । पुरोडाशं घृतवन्तं जुषन्ताम् । स्कभायत निरृतिꣳ सेधतामतिम् । प्र रश्मिभिर्यतमाना अमृध्राः । आदित्याः काम प्रयतां वषट्कृतिम् । जुषध्वं नो हव्यदातिं यजत्राः । आदित्यान्काममवसे हुवेम । ये भूतानि जनयन्तो विचिख्युः । सीदन्तु पुत्रा अदितेरुपस्थम् । स्तीर्णं बर्हिर्हविरद्याय देवाः ॥ २। ८। २। २॥ ९ स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् । ध्राजाः सेधन्तो अमतिं दुरेवाम् । अस्मभ्यं पुत्रा अदितेः प्रयꣳसत । आदित्याः काम हविषो जुषाणाः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमौक्तिं विधेम । प्र वः शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ॥ २। ८। २। ३॥ १० यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकग्ग् स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र ॥ २। ८। २। ४॥ ११ अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्रीचीं नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची । इन्द्रं नरो युजे रथम् । जगृभ्णा ते दक्षिणमिन्द्र हस्तम् ॥ २। ८। २। ५॥ १२ वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनाम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । तवेदं विश्वमभितः पशव्यम् । यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र । भक्षीमहि ते प्रयतस्य वस्वः । समिन्द्र णो मनसा नेषि गोभिः । सꣳ सूरिभिर्मघवन्थ्स२ꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति ॥ २। ८। २। ६॥ १३ सं देवानाꣳ सुमत्या यज्ञियानाम् । आराच्छत्रुमपबाधस्व दूरम् । उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र । कृधी धियं जरित्रे वाजरत्नाम् । आवेधसꣳ स हि शुचिः । बृहस्पतिः प्रथमं जायमानः । महोज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण । वि सप्तरश्मिरधमत्तमाꣳसि ॥ २। ८। २। ७॥ १४ बृहस्पतिः समजयद्वसूनि । महो व्रजान्गोमतो देव एषः । अपः सिषासन्थ्सुवर प्रतीत्तः । बृहस्पतिर्हन्त्यमित्रमर्कैः । बृहस्पते पर्येवा पित्रे । आ नो दिवः पावीरवी । इमा जुह्वाना यस्ते स्तनः । सरस्वत्यभि नो नेषि । इयꣳ शुष्मेभिर्बिसखा इवारुजत् । सानु गिरीणां तविषेभिरूर्मिभिः । पारावदघ्नीमवसे सुवृक्तिभिः । सरस्वतीमाविवासेम धीतिभिः ॥ २। ८। २। ८॥ देवयानैर्देवाः सुपूतं यजत्र हस्तमस्ति तमाग् स्यूर्मिभिर्द्वे च ॥ २॥ १५ सोमो धेनुꣳ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु । सादन्यं विदथ्यꣳ सभेयम् । पितुःश्रवणं यो ददाशदस्मै । अषाढं युथ्सु त्वꣳ सोम क्रतुभिः । या ते धामानि हविषा यजन्ति । त्वमिमा ओषधीः सोम विश्वाः । त्वमपो अजनयस्त्वं गाः । त्वमाततन्थोर्वन्तरिक्षम् । त्वं ज्योतिषा वितमो ववर्थ ॥ २। ८। ३। १॥ १६ या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो विश्वैः सुमना अहेडन् । राजन्थ्सोम प्रति हव्या गृभाय । विष्णोर्नु कं तदस्य प्रियम् । प्र तद्विष्णुः । परो मात्रया तनुवा वृधान । न ते महित्वमन्वश्ञुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् । परमस्य विथ्से ॥ २। ८। ३। २॥ १७ विचक्रमे त्रिर्देवः । आ ते महो यो जात एव । अभि गोत्राणि । आभिः स्पृधो मिथतीररिषण्यन् । अमित्रस्य व्यथया मन्युमिन्द्र । आभिर्विश्वा अभियुजो विषूचीः । आर्याय विशोऽवतारीर्दासीः । अयꣳ श‍ृण्वे अध जयन्नुत घ्नन् । अयमुत प्रकृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रः ॥ २। ८। ३। ३॥ १८ विश्वं दृढं भयत एजदस्मात् । अनु स्वधामक्षरन्नापो अस्य । अवर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन । हन्मनाऽहन्नभिद्यून् । मरुत्वन्तं वृषभं वावृधानम् । अकवारिं दिव्यꣳ शासमिन्द्रम् । विश्वासाहमवसे नूतनाय । उग्रꣳ सहोदामिह तꣳ हुवेम । जनिष्ठा उग्रः सहसे तुराय ॥ २। ८। ३। ४॥ १९ मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र । माता यद्वीरं दधनद्धनिष्ठा । क्व स्या वो मरुतः स्वधाऽऽसीत् । यन्मामेकꣳ समधत्ताहिहत्ये । अह२ꣳ ह्युग्रस्तविषस्तुविष्मान् । विश्वस्य शत्रोरनमं वधस्नैः । वृत्रस्य त्वा श्वसथादीषमाणाः । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु ॥ २। ८। ३। ५॥ २० अथेमा विश्वाः पृतना जयासि । वधीं वृत्रं मरुत इन्द्रियेण । स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्राः । सुगा अपश्चकर वज्रबाहुः । स यो वृषा वृष्णियेभिः समोकाः । महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्त्वा हव्यो भरेषु । मरुत्वान्नो भवत्विन्द्र ऊती । इन्द्रो वृत्रमतरद्वृत्रतूर्ये ॥ २। ८। ३। ६॥ २१ अनाधृष्यो मघवा शूर इन्द्रः । अन्वेनं विशो अमदन्त पूर्वीः । अयꣳ राजा जगतश्चर्षणीनाम् । स एव वीरः स उ वीर्यावान् । स एकराजो जगतः परस्पाः । यदा वृत्रमतरच्छूर इन्द्रः । अथाभवद्दमिताऽभिक्रतूनाम् । इन्द्रो यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशस्य जुषताꣳ हविर्नः । वृत्रं तीर्त्वा दानवं वज्रबाहुः ॥ २। ८। ३। ७॥ २२ दिशोऽदृꣳहद्दृꣳहिता दृꣳहणेन । इमं यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशं प्रतिगृभ्णात्विन्द्रः । यदा वृत्रमतरच्छूर इन्द्रः । अथैकराजो अभवज्जनानाम् । इन्द्रो देवाञ्छम्बरहत्य आवत् । इन्द्रो देवानामभवत्पुरोगाः । इन्द्रो यज्ञे हविषा वावृधानः । वृत्रतूर्णो अभयꣳ शर्म यꣳसत् । यः सप्त सिन्धूꣳरदधात्पृथिव्याम् । यः सप्त लोकानकृणोद्दिशश्च । इन्द्रो हविष्मान्थ्सगणो मरुद्भिः । वृत्रतूर्णो यज्ञमिहोपयासत् ॥ २। ८। ३। ८॥ ववर्थ विथ्स इन्द्रस्तु रायास्तु वृत्रतूर्ये वज्रबाहुः पृथिव्यां त्रीणि च ॥ ३॥ २३ इन्द्रस्तरस्वानभिमाति होग्रः । हिरण्यवाशीरिषिरः सुवर्षाः । तस्य वयꣳ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । हिरण्यवर्णो अभयं कृणोतु । अभिमातिहेन्द्रः पृतनासु जिष्णुः । स नः शर्म त्रिवरूथं वियꣳसत् । यूयं पात स्वस्तिभिः सदा नः । इन्द्रग्ग् स्तुहि वज्रिणग्ग् स्तोमपृष्ठम् । पुरोडाशस्य जुषताꣳ हविर्नः ॥ २। ८। ४। १॥ २४ हत्वाऽभिमातीः पृतनाः सहस्वान् । अथाभयं कृणुहि विश्वतो नः । स्तुहि शूरं वज्रिणमप्रतीत्तम् । अभिमातिहनं पुरुहूतमिन्द्रम् । य एक इच्छतपतिर्जनेषु । तस्मा इन्द्राय हविराजुहोत । इन्द्रो देवानामधिपाः पुरोहितः । दिशां पतिरभवद्वाजिनीवान् । अभिमातिहा तविषस्तुविष्मान् । अस्मभ्यं चित्रं वृषणꣳ रयिं दात् ॥ २। ८। ४। २॥ २५ य इमे द्यावापृथिवी महित्वा । बलेनादृꣳहदभिमातिहेन्द्रः । स नो हविः प्रतिगृभ्णातु रातये । देवानां देवो निधिपा नो अव्यात् । अनवस्ते रथं वृष्णे यत्ते । इन्द्रस्य नु वीर्याण्यहन्नहिम् । इन्द्रो यातोऽवसितस्य राजा । शमस्य च श‍ृङ्गिणो वज्रबाहुः । सेदु राजा क्षेति चर्षणीनाम् । अरान्न नेमिः परिता बभूव ॥ २। ८। ४। ३॥ २६ अभि सिध्मो अजिगादस्य शत्रून् । वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः । प्र स्वां मतिमतिरच्छाशदानः । विष्णुं देवं वरुणमूतये भगम् । मेदसा देवा वपया यजध्वम् । ता नो यज्ञमागतं विश्वधेना । प्रजावदस्मे द्रविणेह धत्तम् । मेदसा देवा वपया यजध्वम् । विष्णुं च देवं वरुणं च रातिम् ॥ २। ८। ४। ४॥ २७ ता नो अमीवा अपबाधमानौ । इमं यज्ञं जुषमाणावुपेतम् । विष्णूवरुणा युवमध्वराय नः । विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्यू हविषा वृधाना । ज्योतिषाऽरातीर्दहतं तमाꣳसि । ययोरोजसा स्कभिता रजाꣳसि । वीर्येभिर्वीरतमा शविष्ठा । याऽपत्येते अप्रतीत्ता सहोभिः । विष्णू अगन्वरुणा पूर्वहूतौ ॥ २। ८। ४। ५॥ २८ विष्णूवरुणावभिशस्तिपा वाम् । देवा यजन्त हविषा घृतेन । अपामीवाꣳ सेधतꣳ रक्षसश्च । अथा धत्तं यजमानाय शं योः । अꣳहोमुचा वृषभा सुप्रतूर्ती । देवानां देवतमा शचिष्ठा । विष्णूवरुणा प्रतिहर्यतं नः । इदं नरा प्रयतमूतये हविः । मही नु द्यावापृथिवी इह ज्येष्ठे । रुचा भवताꣳ शुचयद्भिरर्कैः ॥ २। ८। ४। ६॥ २९ यथ्सीं वरिष्ठे बृहती विमिन्वन् । नृवद्भ्योऽक्षा पप्रथानेभिरेवैः । प्र पूर्वजे पितरा नव्यसीभिः । गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन । जनेन यातं महि वां वरूथम् । स इथ्स्वपा भुवनेष्वास । य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके । अवꣳशे धीरः शच्या समैरत् ॥ २। ८। ४। ७॥ ३० भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे । तं पिपृतꣳ रोदसी सत्यवाचम् । इदं द्यावापृथिवी सत्यमस्तु । पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिः । विद्यामेषं वृजनं जीरदानुम् । उर्वी पृथ्वी बहुले दूरे अन्ते । उपब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती । द्यावा रक्षतं पृथिवी नो अभ्वात् । या जाता ओषधयोऽतिविश्वाः परिष्ठाः । या ओषधयः सोम राज्ञीरश्वावतीꣳ सोमवतीम् । ओषधीरिति मातरोऽन्या वो अन्यामवतु ॥ २। ८। ४। ८॥ हविर्नो दाद्बभूव रातिं पूर्वहूतावर्कैरैरदस्मिन्पञ्च च ॥ ४॥ ३१ शुचिं नु स्तोमग्ग् श्नथद्वृत्रम् । उभा वामिन्द्राग्नी प्रचर्षणिभ्यः । आवृत्रहणा गीर्भिर्विप्रः । ब्रह्मणस्पते त्वमस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवाः । बृहद्वदेम विदथे सुवीराः । स ईꣳ सत्येभिः सखिभिः शुचद्भिः । गोधायसं वि धनसैरतर्दत् । ब्रह्मणस्पतिर्वृषभिर्वराहैः ॥ २। ८। ५। १॥ ३२ घर्मस्वेदेभिर्द्रविणं व्यानट् । ब्रह्मणस्पतेरभवद्यथा वशम् । सत्यो मन्युर्महि कर्मा करिष्यतः । यो गा उदाजथ्स दिवे वि चाभजत् । महीव रीतिः शवसा सरत्पृथक् । इन्धानो अग्निं वनवद्वनुष्यतः । कृतब्रह्मा शूशुवद्रातहव्य इत् । जातेन जातमति सृत्प्रसृꣳसते । यं यं युजं कृणुते ब्रह्मणस्पतिः । ब्रह्मणस्पते सुयमस्य विश्वहा ॥ २। ८। ५। २॥ ३३ रायः स्याम रथ्यो विवस्वतः । वीरेषु वीराꣳ उपपृङ्ग्धि नस्त्वम् । यदीशानो ब्रह्मणा वेषि मे हवम् । स इज्जनेन स विशा स जन्मना । स पुत्रैर्वाजं भरते धना नृभिः । देवानां यः पितरमाविवासति । श्रद्धामना हविषा ब्रह्मणस्पतिम् । यास्ते पूषन्ना वो अन्तः । शुक्रं ते अन्यत्पूषेमा आशाः । प्रपथे पथामजनिष्ट पूषा ॥ २। ८। ५। ३॥ ३४ प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आपृथिव्याः । इडस्पतिर्मघवा दस्मवर्चाः । तं देवासो अददुः सूर्यायै । कामेन कृतं तवसग्ग् स्वञ्चम् । अजाश्वः पशुपा वाजबस्त्यः । धियंजिन्वो विश्वे भुवने अर्पितः । अष्ट्रां पूषा शिथिरामुद्वरीवृजत् ॥ २। ८। ५। ४॥ ३५ संचक्षाणो भुवना देव ईयते । शुची वो हव्या मरुतः शुचीनाम् । शुचिꣳ हिनोम्यध्वरꣳ शुचिभ्यः । ऋतेन सत्यमृतसाप आयन् । शुचिजन्मानः शुचयः पावकाः । प्र चित्रमर्कं गृणते तुराय । मारुताय स्वतवसे भरध्वम् । ये सहाꣳसि सहसा सहन्ते । रेजते अग्ने पृथिवी मखेभ्यः । अꣳसेष्वा मरुतः खादयो वः ॥ २। ८। ५। ५॥ ३६ वक्षस्सु रुक्मा उपशिश्रियाणाः । वि विद्युतो न वृष्टिभी रुचानाः । अनु स्वधामायुधैर्यच्छमानाः । या वः शर्म शशमानाय सन्ति । त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वियन्त । रयिं नो धत्त वृषणः सुवीरम् । इमे तुरं मरुतो रामयन्ति । इमे सहः सहस आनमन्ति । इमे शꣳसं वनुष्यतो निपान्ति ॥ २। ८। ५। ६॥ ३७ गुरुद्वेषो अररुषे दधन्ति । अरा इवेदचरमा अहेव । प्र प्रजायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः । स्वया मत्या मरुतः संमिमिक्षुः । अनु ते दायि मह इन्द्रियाय । सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्त्रमनु सहो यजत्र । इन्द्र देवेभिरनु ते नृषह्ये । य इन्द्र शुष्मो मघवन्ते अस्ति ॥ २। ८। ५। ७॥ ३८ शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वꣳ हि दृढा मघवन्विचेताः । अपावृधि परिवृतिं न राधः । इन्द्रो राजा जगतश्चर्षणीनाम् । अधिक्षमि विषुरूपं यदस्ति । ततो ददातु दाशुषे वसूनि । चोदद्राध उपस्तुतश्चिदर्वाक् । तमु ष्टुहि यो अभिभूत्योजाः । वन्वन्नवातः पुरुहूत इन्द्रः । अषाढमुग्रꣳ सहमानमाभिः । ३९ गीर्भिर्वर्ध वृषभं चर्षणीनाम् । स्थूरस्य रायो बृहतो य ईशे । तमु ष्टवाम विदथेष्विन्द्रम् । यो वायुना जयति गोमतीषु । प्र धृष्णुया नयति वस्यो अच्छ । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङ् । इन्द्र द्युम्नꣳ सुवर्वद्धेह्यस्मे ॥ २। ८। ५। ८॥ वराहैर्विश्वहाऽजनिष्ट पूषोद्वरीवृजत्खादयो वः पान्त्यस्त्याभिर्नव च ॥ ५॥ ४० आ देवो यातु सविता सुरत्नः । अन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि । निवेशयन्च प्रसुवञ्च भूम । अभीवृतं कृशनैर्विश्वरूपम् । हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्रथꣳ सविता चित्रभानुः । कृष्णा रजाꣳसि तविषीं दधानः । सघा नो देवः सविता सवाय । आसाविषद्वसुपतिर्वसूनि ॥ २। ८। ६। १॥ ४१ विश्रयमाणो अमतिमुरूचीम् । मर्तभोजनमध रासते न । वि जनाञ्छ्यावाः शितिपादो अख्यन् । रथꣳ हिरण्यप्र उगं वहन्तः । शश्वद्दिशः सवितुर्दैव्यस्य । उपस्थे विश्वा भुवनानि तस्थुः । वि सुपर्णो अन्तरिक्षाण्यख्यत् । गभीरवेपा असुरः सुनीथः । क्वेदानीꣳ सूर्यः कश्चिकेत । कतमां द्याꣳ रश्मिरस्याततान ॥ २। ८। ६। २॥ ४२ भगं धियं वाजयन्तः पुरन्धिम् । नराशꣳसो ग्नास्पतिर्नो अव्यात् । आऽये वामस्य संगथे रयीणाम् । प्रिया देवस्य सवितुः स्याम । आ नो विश्वे अस्क्रा गमन्तु देवाः । मित्रो अर्यमा वरुणः सजोषाः । भुवन् यथा नो विश्वे वृधासः । करन्थ्सुषाहा विथुरं न शवः । शं नो देवा विश्वदेवा भवन्तु । शꣳ सरस्वती सह धीभिरस्तु ॥ २। ८। ६। ३॥ ४३ शमभिषाचः शमु रातिषाचः । शं नो दिव्याः पार्थिवाः शं नो अप्याः । ये सवितुः सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नः । दधातन द्रविणं चित्रमस्मे । अग्ने याहि दूत्यं वारिषेण्यः । देवाꣳ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विनाऽपः । यक्षि देवान्रत्नधेयाय विश्वान् ॥ २। ८। ६। ४॥ ४४ द्यौः पितः पृथिवि मातरध्रुक् । अग्ने भ्रातर्वसवो मृडता नः । विश्व आदित्या अदिते सजोषाः । अस्मभ्यꣳ शर्म बहुलं वियन्त । विश्वे देवाः श‍ृणुतेमꣳ हवं मे । ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्राः । आसद्यास्मिन्बर्हिषि मादयध्वम् । आ वां मित्रावरुणा हव्यजुष्टिम् । नमसा देवाववसाऽऽववृत्याम् ॥ २। ८। ६। ५॥ ४५ अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् । वृष्टिर्दिव्या सुपारा । युवं वस्त्राणि पीवसा वसाथे । युवोरच्छिद्रा मन्तवो ह सर्गाः । अवातिरतमनृतानि विश्वा । ऋतेन मित्रावरुणा सचेथे । तथ्सु वां मित्रावरुणा महित्वम् । ईर्मा तस्थुषीरहभिर्दुदुह्रे । विश्वाः पिन्वथ स्वसरस्य धेनाः । अनु वामेकः पविराववर्ति ॥ २। ८। ६। ६॥ ४६ यद्बꣳहिष्ठं नातिविदे सुदानू । अच्छिद्रꣳ शर्म भुवनस्य गोपा । ततो नो मित्रावरुणाववीष्टम् । सिषासन्तो जीगिवाꣳसः स्याम । आ नो मित्रावरुणा हव्यदातिम् । घृतैर्गव्यूतिमुक्षतमिडाभिः । प्रतिवामत्र वरमा जनाय । पृणीतमुद्नो दिव्यस्य चारोः । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन ॥ २। ८। ६। ७॥ ४७ आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इमा रुद्राय स्थिरधन्वने गिरः । क्षिप्रेषवे देवाय स्वधाम्ने । अषाढाय सहमानाय मीढुषे । तिग्मायुधाय भरता श‍ृणोतन । त्वा दत्तेभी रुद्र शंतमेभिः । शतꣳ हिमा अशीय भेषजेभिः । व्यस्मद्द्वेषो वितरं व्यꣳहः । व्यमीवाग्श्चातयस्वा विषूचीः ॥ २। ८। ६। ८॥ ४८ अर्हन्बिभर्षि मा नस्तोके । आ ते पितर्मरुताꣳ सुम्नमेतु । मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः । एवा बभ्रो वृषभ चेकितान । यथा देव न हृणीषे न हꣳसि । हावनश्रूर्नो रुद्रेह बोधि । बृहद्वदेम विदथे सुवीराः । परि णो रुद्रस्य हेतिः स्तुहि श्रुतम् । मीढुष्टमार्हन्बिभर्षि । त्वमग्ने रुद्र आ वो राजानम् ॥ २। ८। ६। ९॥ वसूनि ततानास्तु विश्वान् ववृत्यां ववर्ति घृतेन विषूचीः श्रुतं द्वे च ॥ ६॥ ४९ सूऱ्यो देवीमुषसꣳ रोचमाना मर्यः । न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्राय भद्रम् । भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः । परि द्यावापृथिवी यन्ति सद्यः । तथ्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततꣳ संजभार ॥ २। ८। ७। १॥ ५० यदेदयुक्त हरितः सधस्थात् । आद्रात्री वासस्तनुते सिमस्मै । तन्मित्रस्य वरुणस्याभिचक्षे । सूऱ्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः । कृष्णमन्यद्धरितः संभरन्ति । अद्या देवा उदिता सूर्यस्य । निरꣳहसः पिपृतान्निरवद्यात् । तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः ॥ २। ८। ७। २॥ ५१ दिवो रुक्म उरुचक्षा उदेति । दूरेअर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूताः । आयन्नर्थानि कृणवन्नपाꣳसि । शं नो भव चक्षसा शं नो अह्ना । शं भानुना शꣳ हिमाशं घृणेन । यथा शमस्मै शमसद्दुरोणे । तथ्सूर्य द्रविणं धेहि चित्रम् । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेः ॥ २। ८। ७। ३॥ ५२ आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च । त्वष्टा दधत्तन्नस्तुरीपम् । त्वष्टा वीरं पिशङ्गरूपः । दशेमं त्वष्टुर्जनयन्त गर्भम् । अतन्द्रासो युवतयो बिभर्त्रम् । तिग्मानीकग्ग् स्वयशसंजनेषु । विरोचमानं परिषीं नयन्ति । आविष्ट्यो वर्धते चारुरासु । जिह्मानामूर्ध्वः स्वयशा उपस्थे ॥ २। ८। ७। ४॥ ५३ उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिꣳहं प्रतिजोषयेते । मित्रो जनान् प्रसमित्र । अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयꣳ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । अनमीवास इडया मदन्तः । मितज्मवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्ष्यन्तः ॥ २। ८। ७। ५॥ ५४ वयं मित्रस्य सुमतौ स्याम । मित्रं न ईꣳ शिम्या गोषु गव्यवत् । स्वाधियो विदथे अप्स्वजीजनन् । अरेजयताꣳ रोदसी पाजसा गिरा । प्रति प्रियं यजतं जनुषामवः । महाꣳ आदित्यो नमसोपसद्यः । यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टम् । अग्नौ मित्राय हविराजुहोत । आ वाꣳ रथो रोदसी बद्बधानः ॥ २। ८। ७। ६॥ ५५ हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचानः । इषां वोढा नृपतिर्वाजिनीवान् । स पप्रथानो अभि पञ्चभूम । त्रिवन्धुरो मनसाऽऽयातु युक्तः । विशो येन गच्छथो देवयन्तीः । कुत्राचिद्याममश्विना दधाना । स्वश्वा यशसाऽऽयातमर्वाक् । दस्रा निधिं मधुमन्तं पिबाथः । वि वाꣳ रथो वध्वा यादमानः ॥ २। ८। ७। ७॥ ५६ अन्तान्दिवो बाधते वर्तनिभ्याम् । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः । परिघ्रꣳ सवां मनावां वयोगाम् । यो ह स्य वाꣳ रथिरा वस्त उस्राः । रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ । न्यश्विना वहतं यज्ञे अस्मिन् । युवं भुज्युमवविद्धꣳ समुद्रे ॥ २। ८। ७। ८॥ ५७ उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिः । दꣳसनाभिरश्विना पारयन्ता । अग्नीषोमा यो अद्य वाम् । इदं वचः सपर्यति । तस्मै धत्तꣳ सुवीर्यम् । गवां पोषग्ग् स्वश्वियम् । यो अग्नीषोमा हविषा सपर्यात् । देवद्रीचा मनसा यो घृतेन । तस्य व्रतꣳ रक्षतं पातमꣳहसः ॥ २। ८। ७। ९॥ ५८ विशे जनाय महि शर्म यच्छतम् । अग्नीषोमा य आहुतिम् । यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यम् । विश्वमायुर्व्यश्नवत् । अग्नीषोमा चेति तद्वीर्यं वाम् । यदमुष्णीतमवसं पणिं गोः । अवातिरतं प्रथयस्य शेषः । अविन्दतं ज्योतिरेकं बहुभ्यः । अग्नीषोमाविमꣳ सुमेऽग्नीषोमा हविषः प्रस्थितस्य ॥ २। ८। ७। १०॥ जभार द्यौरग्नेरुपस्थ उपक्ष्यन्तो बद्बधानो यादमानः समुद्रेऽꣳहसः प्रस्थितस्य ॥ ७॥ ५९ अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इदेव माऽऽवाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपि दहत्यन्नम् । यत्तौ हाऽऽसाते अहमुत्तरेषु । व्यात्तमस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः । जहाम्यन्यं न जहाम्यन्यम् । अहमन्नं वशमिच्चरामि ॥ २। ८। ८। १॥ ६० समानमर्थं पर्येमि भुञ्जत् । को मामन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्गुप्तमन्नम् । यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् । तथ्संपिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः ॥ २। ८। ८। २॥ ६१ अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् । मोघमन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इथ्स तस्य । नार्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादी । अहं मेघः स्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्म्यन्यान् ॥ २। ८। ८। ३॥ ६२ अहꣳ सदमृतो भवामि । मदादित्या अधि सर्वे तपन्ति । देवीं वाचमजनयन्त यद्वाग्वदन्ती । अनन्तामन्तादधिनिर्मितां महीम् । यस्यां देवा अदधुर्भोजनानि । एकाक्षरां द्विपदाꣳ षट्पदां च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमा विश्वा भुवनान्यर्पिता ॥ २। ८। ८। ४॥ ६३ सा नो हवं जुषतामिन्द्रपत्नी । वागक्षरं प्रथमजा ऋतस्य । वेदानां माताऽमृतस्य नाभिः । सा नो जुषाणोपयज्ञमागात् । अवन्ती देवी सुहवा मे अस्तु । यामृषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन्देवास्तपसा श्रमेण । तां देवीं वाचꣳ हविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक्परिमिता पदानि ॥ २। ८। ८। ५॥ ६४ तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धयाऽग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मूर्धनि । वचसाऽऽवेदयामसि । प्रिय२ꣳ श्रद्धे ददतः । प्रिय२ꣳ श्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु ॥ २। ८। ८। ६॥ ६५ इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकमुदितं कृधि । श्रद्धां देवा यजमानाः । वायुगोपा उपासते । श्रद्धाꣳ हृदय्ययाऽऽकूत्या । श्रद्धया हूयते हविः । श्रद्धां प्रातर्हवामहे ॥ २। ८। ८। ७॥ ६६ श्रद्धां मध्यंदिनं परि । श्रद्धाꣳ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापयेह मा । श्रद्धा देवानधिवस्ते । श्रद्धा विश्वमिदं जगत् । श्रद्धां कामस्य मातरम् । हविषा वर्धयामसि । ब्रह्म जज्ञानं प्रथमं पुरस्तात् । वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः ॥ २। ८। ८। ८॥ ६७ सतश्च योनिमसतश्च विवः । पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तमर्कैरभ्यर्चन्ति वथ्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः, क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्निमे लोकाः ॥ २। ८। ८। ९॥ ६८ अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिꣳशत् । ब्रह्मन्निन्द्रप्रजापती । ब्रह्मन् ह विश्वा भूतानि । नावीवान्तः समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरꣳ सुवीरम् ॥ २। ८। ८। १०॥ ६९ ब्रह्म समिद्भवत्याहुतीनाम् । आ गावो अग्मन्नुत भद्रमक्रन् । सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्राय पूर्वीरुषसो दुहानाः । इन्द्रो यज्वने पृणते च शिक्षति । उपेद्ददाति न स्वं मुषायति । भूयो भूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न तानशन्ति न ता अर्वा ॥ २। ८। ८। ११॥ ७० गावो भगो गाव इन्द्रो मे अच्छात् । गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्रः । इच्छामीद्धृदा मनसा चिदिन्द्रम् । यूयं गावो मेदयथा कृशं चित् । अश्लीलं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचः । बृहद्वो वय उच्यते सभासु । प्रजावतीः सूयवसꣳ रिशन्तीः । शुद्धा अपः सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माऽघशꣳसः । परि वो हेती रुद्रस्य वृञ्ज्यात् । उपेदमुप पर्चनम् । आसु गोषूपपृच्यताम् । उपर्षभस्य रेतसि । उपेन्द्र तव वीर्ये ॥ २। ८। ८। १२॥ चरामि कनीयोऽन्यानर्पिता पदानि यज्वसु हवामहे विष्ठा लोकाः सुवीरमर्वा पिबन्तीष्षट् च ॥ ८॥ ७१ ता सूर्याचन्द्रमसा विश्वभृत्तमा महत् । तेजो वसुमद्राजतो दिवि । सामात्माना चरतः सामचारिणा । ययोर्व्रतं न ममे जातु देवयोः । उभावन्तौ परियात अर्म्या । दिवो न रश्मीग्स्तनुतो व्यर्णवे । उभा भुवन्ती भुवना कविक्रतू । सूर्या न चन्द्रा चरतो हतामती । पती द्युमद्विश्वविदा उभा दिवः । सूर्या उभा चन्द्रमसा विचक्षणा ॥ २। ८। ९। १॥ ७२ विश्ववारा वरिवोभा वरेण्या । ता नोऽवतं मतिमन्ता महिव्रता । विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दृशये भूरिरश्मी । सूर्या हि चन्द्रा वसु त्वेष दर्शता । मनस्विनोभाऽनुचरतो नु सं दिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावा क्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्रमसाऽभिचक्षे । श्रद्धे कमिन्द्र चरतो विचर्तुरम् ॥ २। ८। ९। २॥ ७३ पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाऽभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । हिरण्यवर्णाः शुचयः पावका यासाꣳ राजा । यासां देवाः शिवेन मा चक्षुषा पश्यत । आपो भद्रा आदित्पश्यामि । नासदासीन्नो सदासीत्तदानीम् । नासीद्रजो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् ॥ २। ८। ९। ३॥ ७४ अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न । रात्रिया अह्न आसीत्प्रकेतः । आनीदवात२ꣳ स्वधया तदेकम् । तस्माद्धान्यं न परः किंच नास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलꣳ सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत् । तमसस्तन्महिना जायतैकम् । कामस्तदग्रे समवर्तताधि ॥ २। ८। ९। ४॥ ७५ मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिरेषाम् । अधः स्विदासी ३ दुपरि स्विदासी ३ त् । रेतोधा आसन्महिमान आसन् । स्वधा अवस्तात्प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय ॥ २। ८। ९। ५॥ ७६ अथा को वेद यत आ बभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद । कि२ꣳस्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तत् । यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ॥ २। ८। ९। ६॥ ७७ यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्यतिष्ठद्भुवनानि धारयन् । प्रातरग्निं प्रातरिन्द्रꣳ हवामहे । प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोममुत रुद्रꣳ हुवेम । प्रातर्जितं भगमुग्रꣳ हुवेम । वयं पुत्रमदितेऱ्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चित् ॥ २। ८। ९। ७॥ ७८ राजाचिद्यं भगं भक्षीत्याह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदव ददन्नः । भग प्र णो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । उतेदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्थ्सूर्यस्य । वयं देवानाꣳ सुमतौ स्याम । भग एव भगवाꣳ अस्तु देवाः ॥ २। ८। ९। ८॥ ७९ तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुर एता भवेह । समध्वरायोषसो नमन्त । दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नः । रथमिवाश्वा वाजिन आवहन्तु । अश्वावतीर्गोमतीर्न उषासः । वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः ॥ २। ८। ९। ९॥ विचक्षणा विचर्तुरꣳ शर्मन्नधिविसर्जनाय ब्रह्म वनं ब्रह्म स वृक्ष आसीत्तुरश्चिद्देवाः प्रपीना एकं च ॥ ९॥ पीवोऽन्नान्ते शुक्रासः सोमो धेनुमिन्द्रस्तरस्वाञ्छुचिमा देवो यातु सूऱ्यो देवीमहमस्मि ता सूर्याचन्द्रमसा नव ॥ ९॥ पीवोऽन्नानग्ने त्वं पारयानाधृष्यः शुचिं नु स्तोमं विश्रयमाणो दिवो रुक्मोऽन्नं प्राणमन्नं ता सूर्याचन्द्रमसा नवसप्ततिः ॥ ७९॥ पीवोऽन्नान्, यूयं पातस्वस्तिभिः सदानः ॥ इति द्वितीयं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ तृतीयं अष्टकम् ॥

॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥

तृतीयाष्टके प्रथमः प्रपाठकः १

नक्षत्रेष्टि

१ अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रियम् । इदमासां विचक्षणम् । हविरासं जुहोतन । यस्य भान्ति रश्मयो यस्य केतवः । यस्येमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिरभि संवसानः । अग्निर्नो देवः सुविते दधातु । प्रजापते रोहिणी वेतु पत्नी । विश्वरूपा बृहती चित्रभानुः ॥ ३। १। १। १॥ २ सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदः सवीराः । रोहिणी देव्युदगात्पुरस्तात् । विश्वा रूपाणि प्रतिमोदमाना । प्रजापतिꣳ हविषा वर्धयन्ती । प्रिया देवानामुपयातु यज्ञम् । सोमो राजा मृगशीर्षेण आगन् । शिवं नक्षत्रं प्रियमस्य धाम । आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु ॥ ३। १। १। २॥ ३ यत्ते नक्षत्रं मृगशीर्षमस्ति । प्रियꣳ राजन्प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शं न एधि द्विपदे शं चतुष्पदे । आर्द्रया रुद्रः प्रथमान एति । श्रेष्ठो देवानां पतिरघ्नियानाम् । नक्षत्रमस्य हविषा विधेम । मा नः प्रजाꣳ रीरिषन्मोत वीरान् । हेती रुद्रस्य परि णो वृणक्तु । आर्द्रा नक्षत्रं जुषताꣳ हविर्नः ॥ ३। १। १। ३॥ ४ प्रमुञ्चमानौ दुरितानि विश्वा । अपाघशꣳसं नुदतामरातिम् । पुनर्नो देव्यदितिः स्पृणोतु । पुनर्वसू नः पुनरेतां यज्ञम् । पुनर्नो देवा अभियन्तु सर्वे । पुनः पुनर्वो हविषा यजामः । एवा न देव्यदितिरनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती । प्रियं देवानामप्येतु पाथः ॥ ३। १। १। ४॥ ५ बृहस्पतिः प्रथमं जायमानः । तिष्यं नक्षत्रमभि संबभूव । श्रेष्ठो देवानां पृतनासु जिष्णुः । दिशो नु सर्वा अभयं नो अस्तु । तिष्यः पुरस्तादुत मध्यतो नः । बृहस्पतिर्नः परिपातु पश्चात् । बाधेतां द्वेषो अभयं कृणुताम् । सुवीर्यस्य पतयः स्याम । इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः ॥ ३। १। १। ५॥ ६ ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनु संचरन्ति । येषामाश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । उपहूताः पितरो ये मघासु । मनोजवसः सुकृतः सुकृत्याः । ते नो नक्षत्त्रे हवमागमिष्ठाः । स्वधाभिर्यज्ञं प्रयतं जुषन्ताम् ॥ ३। १। १। ६॥ ७ ये अग्निदग्धा येऽनग्निदग्धाः । येऽमुं लोकं पितरः, क्षियन्ति । याग्श्च विद्म याꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतं जुषन्ताम् । गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन्वरुण मित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तमुप संविशेम । येनेमा विश्वा भुवनानि संजिता । यस्य देवा अनु संयन्ति चेतः ॥ ८ अर्यमा राजाऽजरस्तुविष्मान् । फल्गुनीनामृषभो रोरवीति । श्रेष्ठो देवानां भगवो भगासि । तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्त्रमजरꣳ सुवीर्यम् । गोमदश्ववदुप संनुदेह । भगो ह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैः सधमादं मदेम ॥ ३। १। १। ८॥ ९ आयातु देवः सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन् हस्तꣳ सुभगं विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छत्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् । त्वष्टा नक्षत्त्रमभ्येति चित्राम् । सुभꣳससं युवतिꣳ रोचमानाम् ॥ ३। १। १। ९॥ १० निवेशयन्नमृतान्मर्त्याग्श्च । रूपाणि पिꣳशन्भुवनानि विश्वा । तन्नस्त्वष्टा तदु चित्रा विचष्टाम् । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नः प्रजां वीरवतीꣳ सनोतु । गोभिर्नो अश्वैः समनक्तु यज्ञम् । वायुर्नक्षत्रमभ्येति निष्ट्याम् । तिग्मश‍ृङ्गो वृषभो रोरुवाणः । समीरयन्भुवना मातरिश्वा । अप द्वेषाꣳसि नुदतामरातीः ॥ ३। १। १। १०॥ ११ तन्नो वायुस्तदु निष्ट्या श‍ृणोतु । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नो देवासो अनुजानन्तु कामम् । यथा तरेम दुरितानि विश्वा । दूरमस्मच्छत्रवो यन्तु भीताः । तदिन्द्राग्नी कृणुतां तद्विशाखे । तन्नो देवा अनुमदन्तु यज्ञम् । पश्चात्पुरस्तादभयं नो अस्तु । नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ ॥ ३। १। १। ११॥ १२ विषूचः शत्रूनप बाधमानौ । अप क्षुधं नुदतामरातिम् । पूर्णा पश्चादुत पूर्णा पुरस्तात् । उन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्तः । उत्तमे नाक इह मादयन्ताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्युदगाच्छोभमाना । आप्याययन्ती दुरितानि विश्वा । उरुं दुहां यजमानाय यज्ञम् ॥ ३। १। १। १२॥ चित्रभानुर्यजमाने दधातु हविर्नः पाथश्चेतो जुषन्तां चेतो मदेम रोचमानामरातीर्गोपौ यज्ञम् ॥ १॥ १३ ऋध्यास्म हव्यैर्नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान्, हविषा वर्धयन्तः । शतं जीवेम शरदः सवीराः । चित्रं नक्षत्त्रमुदगात्पुरस्तात् । अनूराधास इति यद्वदन्ति । तन्मित्र एति पथिभिर्देवयानैः । हिरण्ययैर्विततैरन्तरिक्षे । इन्द्रो ज्येष्ठामनु नक्षत्त्रमेति । यस्मिन्वृत्रं वृत्रतूर्ये ततार ॥ ३। १। २। १॥ १४ तस्मिन्वयममृतं दुहानाः । क्षुधं तरेम दुरितिं दुरिष्टिम् । पुरन्दराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इन्द्राय ज्येष्ठा मधुमद्दुहाना । उरुं कृणोतु यजमानाय लोकम् । मूलं प्रजां वीरवतीं विदेय । पराच्येतु निरृतिः पराचा । गोभिर्नक्षत्त्रं पशुभिः समक्तम् । अहर्भूयाद्यजमानाय मह्यम् ॥ ३। १। २। २॥ १५ अहर्नो अद्य सुविते दधातु । मूलं नक्षत्त्रमिति यद्वदन्ति । पराचीं वाचा निरृतिं नुदामि । शिवं प्रजायै शिवमस्तु मह्यम् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । यासामषाढा अनुयन्ति कामम् । ता न आपः श२ꣳ स्योना भवन्तु । याश्च कूप्या याश्च नाद्याः समुद्रियाः । याश्च वैशन्तीरुत प्रासचीर्याः ॥ ३। १। २। ३॥ १६ यासामषाढा मधु भक्षयन्ति । ता न आपः श२ꣳ स्योना भवन्तु । तन्नो विश्वे उप श‍ृण्वन्तु देवाः । तदषाढा अभि संयन्तु यज्ञम् । तन्नक्षत्त्रं प्रथतां पशुभ्यः । कृषिर्वृष्टिर्यजमानाय कल्पताम् । शुभ्राः कन्या युवतयः सुपेशसः । कर्मकृतः सुकृतो वीर्यावतीः । विश्वान्देवान् हविषा वर्धयन्तीः । अषाढाः काममुपयान्तु यज्ञम् ॥ ३। १। २। ४॥ १७ यस्मिन्ब्रह्माभ्यजयथ्सर्वमेतत् । अमुं च लोकमिदमू च सर्वम् । तन्नो नक्षत्त्रमभिजिद्विजित्य । श्रियं दधात्वहृणीयमानम् । उभौ लोकौ ब्रह्मणा संजितेमौ । तन्नो नक्षत्त्रमभिजिद्विचष्टाम् । तस्मिन्वयं पृतनाः संजयेम । तं नो देवासो अनुजानन्तु कामम् । श‍ृण्वन्ति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपश‍ृणोमि वाचम् ॥ ३। १। २। ५॥ १८ महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीचीमेनाꣳ हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । महीं दिवं पृथिवीमन्तरिक्षम् । तच्छ्रोणैति श्रव इच्छमाना । पुण्यग्ग् श्लोकं यजमानाय कृण्वती । अष्टौ देवा वसवः सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यज्ञं पान्तु रजसः परस्तात् । संवथ्सरीणममृतग्ग् स्वस्ति ॥ ३। १। २। ६॥ १९ यज्ञं नः पान्तु वसवः पुरस्तात् । दक्षिणतोऽभियन्तु श्रविष्ठाः । पुण्यं नक्षत्त्रमभि संविशाम । मा नो अरातिरघशꣳसा गन् । क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्त्राणाꣳ शतभिषग्वसिष्ठः । तौ देवेभ्यः कृणुतो दीर्घमायुः । शतꣳ सहस्रा भेषजानि धत्तः । यज्ञं नो राजा वरुण उपयातु । तं नो विश्वे अभि संयन्तु देवाः ॥ ३। १। २। ७॥ २० तन्नो नक्षत्त्रꣳ शतभिषग्जुषाणम् । दीर्घमायुः प्रतिरद्भेषजानि । अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रतिमोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानः समिधान उग्रः । आऽन्तरिक्षमरुहदगन्द्याम् । तꣳ सूर्यं देवमजमेकपादम् । प्रोष्ठपदासो अनुयन्ति सर्वे ॥ ३। १। २। ८॥ २१ अहिर्बुध्नियः प्रथमान एति । श्रेष्ठो देवानामुत मानुषाणाम् । तं ब्राह्मणाः सोमपाः सोम्यासः । प्रोष्ठपदासो अभिरक्षन्ति सर्वे । चत्वार एकमभिकर्म देवाः । प्रोष्ठपदास इति यान्, वदन्ति । ते बुध्नियं परिषद्यग्ग् स्तुवन्तः । अहिꣳ रक्षन्ति नमसोपसद्य । पूषा रेवत्यन्वेति पन्थाम् । पुष्टिपती पशुपा वाजबस्त्यौ ॥ ३। १। २। ९॥ २२ इमानि हव्या प्रयता जुषाणा । सुगैर्नो यानैरुपयातां यज्ञम् । क्षुद्रान्पशून्रक्षतु रेवती नः । गावो नो अश्वाꣳ अन्वेतु पूषा । अन्नꣳ रक्षन्तौ बहुधा विरूपम् । वाजꣳ सनुतां यजमानाय यज्ञम् । तदश्विनावश्वयुजोपयाताम् । शुभं गमिष्ठौ सुयमेभिरश्वैः । स्वं नक्षत्त्रꣳ हविषा यजन्तौ । मध्वा संपृक्तौ यजुषा समक्तौ ॥ ३। १। २। १०॥ २३ यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूतावमृतस्य गोपौ । तौ नक्षत्त्रं जुजुषाणोपयाताम् । नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम् । अप पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भगवान् विचष्टाम् । लोकस्य राजा महतो महान् हि । सुगं नः पन्थामभयं कृणोतु । यस्मिन्नक्षत्त्रे यम एति राजा । यस्मिन्नेनमभ्यषिञ्चन्त देवाः । तदस्य चित्रꣳ हविषा यजाम । अप पाप्मानं भरणीर्भरन्तु । निवेशनी यत्ते देवा अदधुः ॥ ३। १। २। ११॥ ततार मह्यं प्रासचीर्या यान्तु यज्ञं वाचग्ग् स्वस्ति देवा अनु यन्ति सर्वे वाजबस्त्यौ समक्तौ देवास्त्रीणि च ॥ २॥ २४ नवो नवो भवति जायमानो यमादित्या अꣳशुमाप्याययन्ति । ये विरूपे समनसा संव्ययन्ती । समानं तन्तुं परि तातनाते । विभू प्रभू अनुभू विश्वतो हुवे । ते नो नक्षत्त्रे हवमागमेतम् । वयं देवी ब्रह्मणा संविदानाः । सुरत्नासो देववीतिं दधानाः । अहोरात्रे हविषा वर्धयन्तः । अति पाप्मानमतिमुक्त्या गमेम । प्रत्युवदृश्यायती ॥ ३। १। ३। १॥ २५ व्युच्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा । तमो ज्योतिष्कृणोति सूनरी । उदुस्रियाः सचते सूर्यः । सचा उद्यन्नक्षत्त्रमर्चिमत् । तवेदुषो व्युषि सूर्यस्य च । सं भक्तेन गमेमहि । तन्नो नक्षत्रमर्चिमत् । भानुमत्तेज उच्चरत् । उप यज्ञमिहागमत् ॥ ३। १। ३। २॥ २६ प्र नक्षत्राय देवाय । इन्द्रायेन्दुꣳ हवामहे । स नः सविता सुवथ्सनिम् । पुष्टिदां वीरवत्तमम् । उदु त्यं चित्रम् । अदितिर्न उरुष्यतु महीमूषु मातरम् । इदं विष्णुः प्र तद्विष्णुः । अग्निर्मूर्धा भुवः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । हव्यवाहग्ग् स्विष्टम् ॥ ३। १। ३। ३॥ आयत्यगमथ्स्विष्टम् ॥ ३॥ २७ अग्निर्वा अकामयत । अन्नादो देवानाग् स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत् । ततो वै सोऽन्नादो देवानामभवत् । अग्निर्वै देवानामन्नादः । यथा ह वा अग्निर्देवानामन्नादः । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायै स्वाहा दुलायै स्वाहा । नितत्न्यै स्वाहाऽभ्रयन्त्यै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहेति ॥ ३। १। ४। १॥ २८ प्रजापतिः प्रजा असृजत । ता अस्माथ्सृष्टाः पराचीरायन्न् । तासाꣳ रोहिणीमभ्यध्यायत् । सोऽकामयत । उप मा वर्तेत । समेनया गच्छेयेति । स एतं प्रजापतये रोहिण्यै चरुं निरवपत् । ततो वै सा तमुपावर्तत । समेनयाऽगच्छत । उप ह वा एनं प्रियमावर्तते । सं प्रियेण गच्छते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा रोहिण्यै स्वाहा । रोचमानायै स्वाहा प्रजाभ्यः स्वाहेति ॥ ३। १। ४। २॥ २९ सोमो वा अकामयत । ओषधीनाꣳ राज्यमभिजयेयमिति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ४। १॥ ३० रुद्रो वा अकामयत । पशुमान्थ्स्यामिति । स एतꣳ रुद्रायार्द्रायै प्रैय्यङ्गवं चरुं पयसि निरवपत् । ततो वै स पशुमानभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । रुद्राय स्वाहाऽऽर्द्रायै स्वाहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहेति ॥ ३। १। ४। ४॥ ३१ ऋक्षा वा इयमलोमकाऽऽसीत् । साऽकामयत । ओषधीभिर्वनस्पतिभिः प्रजायेयेति । सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत । प्रजायते ह वै प्रजया पशुभिः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अदित्यै स्वाहा पुनर्वसुभ्याम् । स्वाहाऽऽभूत्यै स्वाहा प्रजात्यै स्वाहेति ॥ ३। १। ४। ५॥ ३२ बृहस्पतिर्वा अकामयत । ब्रह्मवर्चसी स्यामिति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । ततो वै स ब्रह्मवर्चस्यभवत् । ब्रह्मवर्चसी ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । बृहस्पतये स्वाहा तिष्याय स्वहा । ब्रह्मवर्चसाय स्वाहेति ॥ ३। १। ४। ६॥ ३३ देवासुराः संयत्ता आसन्न् । ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तानेताभिरेव देवताभिरुपानयन् । एताभिर्ह वै देवताभिर्द्विषन्तं भ्रातृव्यमुपनयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सर्पेभ्यः स्वाहाऽऽश्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहेति ॥ ३। १। ४। ७॥ ३४ पितरो वा अकामयन्त । पितृलोक ऋध्नुयामेति । त एतं पितृभ्यो मघाभ्यः पुरोडाशꣳ षट्कपालं निरवपन्न् । ततो वै ते पितृलोक आर्ध्नुवन् । पितृलोके ह वा ऋध्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पितृभ्यः स्वाहा मघाभ्यः । स्वाहाऽनघाभ्यः स्वाहाऽगदाभ्यः । स्वाहाऽरुन्धतीभ्यः स्वाहेति ॥ ३। १। ४। ८॥ ३५ अर्यमा वा अकामयत । पशुमान्थ्स्यामिति । स एतमर्यम्णे फल्गुनीभ्यां चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अर्यम्णे स्वाहा फल्गुनीभ्याग् स्वाहा । पशुभ्यः स्वाहेति ॥ ३। १। ४। ९॥ ३६ भगो वा अकामयत । भगी श्रेष्ठी देवानाग् स्यामिति । स एतं भगाय फल्गुनीभ्यां चरुं निरवपत् । ततो वै स भगी श्रेष्ठी देवानामभवत् । भगी ह वै श्रेष्ठी समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । भगाय स्वाहा फल्गुनीभ्याग् स्वाहा । श्रैष्ठ्याय स्वाहेति ॥ ३। १। ४। १०॥ ३७ सविता वा अकामयत । श्रन्मे देवा दधीरन्न् । सविता स्यामिति । स एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपदाशूनां व्रीहीणाम् । ततो वै तस्मै श्रद्देवा अदधत । सविताऽभवत् । श्रद्ध वा अस्मै मनुष्या दधते । सविता समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सवित्रे स्वाहा हस्ताय । स्वाहा ददते स्वाहा पृणते । स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहेति ॥ ३। १। ४। ११॥ ३८ त्वष्टा वा अकामयत । चित्रं प्रजां विन्देयेति । स एतं त्वष्ट्रे चित्रायै पुरोडाशमष्टाकपालं निरवपत् । ततो वै स चित्रं प्रजामविन्दत । चित्रꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । त्वष्ट्रे स्वाहा चित्रायै स्वाहा । चैत्राय स्वाहा प्रजायै स्वाहेति ॥ ३। १। ४। १२॥ ३९ वायुर्वा अकामयत । कामचारमेषु लोकेष्वभिजयेयमिति । स एतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धं पयो निरवपत् । ततो वै स कामचारमेषु लोकेष्वभ्यजयत् । कामचारꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वायवे स्वाहा निष्ट्यायै स्वाहा । कामचाराय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ४। १३॥ ४० इन्द्राग्नी वा अकामयेताम् । श्रैष्ठ्यं देवानामभिजयेवेति । तावेतमिन्द्राग्निभ्यां विशाखाभ्यां पुरोडाशमेकादशकपालं निरवपताम् । ततो वै तौ श्रैष्ठ्यं देवानामभ्यजयताम् । श्रैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्राग्निभ्याग् स्वाहा विशाखाभ्याग् स्वाहा । श्रैष्ठ्याय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ४। १४॥ ४१ अथैतत्पौर्णमास्या आज्यं निर्वपति । कामो वै पौर्णमासी । काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । पौर्णमास्यै स्वाहा कामाय स्वाहाऽगत्यै स्वाहेति ॥ ३। १। ४। १५॥ ४२ मित्रो वा अकामयत । मित्रधेयमेषु लोकेष्वभिजयेयमिति । स एतं मित्रायानूराधेभ्यश्चरुं निरवपत् । ततो वै स मित्रधेयमेषु लोकेष्वभ्यजयत् । मित्रधेयꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । मित्राय स्वाहाऽनूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ५। १॥ ४३ इन्द्रो वा अकामयत । ज्यैष्ठ्यं देवानामभिजयेयमिति । स एतमिन्द्राय ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपन् महाव्रीहीणाम् । ततो वै स ज्यैष्ठ्यं देवानामभ्यजयत् । ज्यैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्राय स्वाहा ज्येष्ठायै स्वाहा । ज्यैष्ठ्याय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ५। २॥ ४४ प्रजापतिर्वा अकामयत । मूलं प्रजां विन्देयेति । स एतं प्रजापतये मूलाय चरुं निरवपत् । ततो वै स मूलं प्रजामविन्दत । मूलꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा मूलाय स्वाहा । प्रजायै स्वाहेति ॥ ३। १। ५। ३॥ ४५ आपो वा अकामयन्त । समुद्रं काममभिजयेमेति । ता एतमद्भ्योऽषाढाभ्यश्चरुं निरवपन्न् । ततो वै ताः समुद्रं काममभ्यजयन्न् । समुद्रꣳ ह वै काममभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहेति ॥ ३। १। ५। ४॥ ४६ विश्वे वै देवा अकामयन्त । अनपजय्यं जयेमेति । त एतं विश्वेभ्यो देवेभ्योऽषाढाभ्यश्चरुं निरवपन्न् । ततो वै तेऽनपजय्यमजयन् । अनपजय्यꣳ ह वै जयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहेति ॥ ३। १। ५। ५॥ ४७ ब्रह्म वा अकामयत । ब्रह्मलोकमभि जयेयमिति । तदेतं ब्रह्मणेऽभिजिते चरुं निरवपत् । ततो वै तद्ब्रह्मलोकमभ्यजयत् । ब्रह्मलोकꣳ ह वा अभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । ब्रह्मणे स्वाहाऽभिजिते स्वाहा । ब्रह्मलोकाय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ५। ६॥ ४८ विष्णुर्वा अकामयत । पुण्यग्ग् श्लोकꣳ श‍ृण्वीय । न मा पापी कीर्तिरागच्छेदिति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् । ततो वै स पुण्यग्ग् श्लोकमश‍ृणुत । नैनं पापी कीर्तिरागच्छत् । पुण्यꣳ ह वै श्लोकꣳ श‍ृणुते । नैनं पापी कीर्तिरागच्छति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विष्णवे स्वाहा श्रोणायै स्वाहा । श्लोकाय स्वाहा श्रुताय स्वाहेति ॥ ३। १। ५। ७॥ ४९ वसवो वा अकामयन्त । अग्रं देवतानां परीयामेति । त एतं वसुभ्यः श्रविष्ठाभ्यः पुरोडाशमष्टाकपालं निरवपन्न् । ततो वै तेऽग्रं देवतानां पर्यायन्न् । अग्रꣳ ह वै समानानां पर्येति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा परीत्यै स्वाहेति ॥ ३। १। ५। ८॥ ५० इन्द्रो वा अकामयत । दृढोऽशिथिलः स्यामिति । स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत्कृष्णानां व्रीहीणाम् । ततो वै स दृढोऽशिथिलोऽभवत् । दृढो ह वा अशिथिलो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वरुणाय स्वाहा शतभिषजे स्वाहा । भेषजेभ्यः स्वाहेति ॥ ३। १। ५। ९॥ ५१ अजो वा एकपादकामयत । तेजस्वी ब्रह्मवर्चसी स्यामिति । स एतमजायैकपदे प्रोष्ठपदेभ्यश्चरुं निरवपत् । ततो वै स तेजस्वी ब्रह्मवर्चस्यभवत् । तेजस्वी ह वै ब्रह्मवर्चसी भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहेति ॥ ३। १। ५। १०॥ ५२ अहिर्वै बुध्नियोऽकामयत । इमां प्रतिष्ठां विन्देयेति । स एतमहये बुध्नियाय प्रोष्ठपदेभ्यः पुरोडाशं भूमिकपालं निरवपत् । ततो वै स इमां प्रतिष्ठामविन्दत । इमाꣳ ह वै प्रतिष्ठां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ॥ ३। १। ५। ११॥ ५३ पूषा वा अकामयत । पशुमान्थ्स्यामिति । स एतं पूष्णे रेवत्यै चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पूष्णे स्वाहा रेवत्यै स्वाहा । पशुभ्यः स्वाहेति ॥ ३। १। ५। १२॥ ५४ अश्विनौ वा अकामयेताम् । श्रोत्रस्विनावबधिरौ स्यावेति । तावेतमश्विभ्यामश्वयुग्भ्यां पुरोडाशं द्विकपालं निरवपताम् । ततो वै तौ श्रोत्रस्विनावबधिरावभवताम् । श्रोत्रस्वी ह वा अबधिरो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अश्विभ्याग् स्वाहाऽश्वयुग्भ्याग् स्वाहा । श्रोत्राय स्वाहा श्रुत्यै स्वाहेति ॥ ३। १। ५। १३॥ ५५ यमो वा अकामयत । पितृणाꣳ राज्यमभिजयेयमिति । स एतं यमायापभरणीभ्यश्चरुं निरवपत् । ततो वै स पितृणाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । यमाय स्वाहाऽपभरणीभ्यः स्वाहा । राज्याय स्वाहाऽभिजित्यै स्वाहेति ॥ ३। १। ५। १४॥ ५६ अथैतदमावास्याया आज्यं निर्वपति । कामो वा अमावास्या । काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । अमावास्यायै स्वाहा कामाय स्वाहाऽगत्यै स्वाहेति ॥ ३। १। ५। १५॥ ५७ चन्द्रमा वा अकामयत । अहोरात्रानर्धमासान् मासानृतून्थ्संवथ्सरमाप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकतामाप्नुयामिति । स एतं चन्द्रमसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालं निरवपत् । ततो वै सोऽहोरात्रानर्ध मासान्मासानृतून्थ्संवथ्सरमाप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकतामाप्नोत् । अहोरात्रान् ह वा अर्ध मासान्मासानृतून्थ्संवथ्सरमाप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकतामाप्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । चन्द्रमसे स्वाहा प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहाऽर्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहार्तुभ्यः स्वाहा । संवथ्सराय स्वाहेति ॥ ३। १। ६। १॥ ५८ अहोरात्रे वा अकामयेताम् । अत्यहोरात्रे मुच्येवहि । न नावहोरात्रे आप्नुयातामिति । ते एतमहोरात्राभ्यां चरुं निरवपताम् । द्वयानां व्रीहीणाम् । शुक्लानां च कृष्णानां च । सवात्योर्दुग्धे । श्वेतायै च कृष्णायै च । ततो वै ते अत्यहोरात्रे अमुच्येते । नैने अहोरात्रे आप्नुताम् । अति ह वा अहोरात्रे मुच्यते । नैनमहोरात्रे आप्नुतः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अह्ने स्वाहा रात्रियै स्वाहा । अतिमुक्त्यै स्वाहेति ॥ ३। १। ६। २॥ ५९ उषा वा अकामयत । प्रियाऽऽदित्यस्य सुभगा स्यामिति । सैतमुषसे चरुं निरवपत् । ततो वै सा प्रियाऽऽदित्यस्य सुभगाऽभवत् । प्रियो ह वै समानानाꣳ सुभगो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । उषसे स्वाहा व्युष्ट्यै स्वाहा । व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा । व्युष्टायै स्वाहेति ॥ ३। १। ६। ३॥ ६० अथैतस्मै नक्षत्त्राय चरुं निर्वपति । यथा त्वं देवानामसि । एवमहं मनुष्याणां भूयासमिति । यथा ह वा एतद्देवानाम् । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । नक्षत्त्राय स्वाहोदेष्यते स्वाहा । उद्यते स्वाहोदिताय स्वाहा । हरसे स्वाहा भरसे स्वाहा । भ्राजसे स्वाहा तेजसे स्वाहा । तपसे स्वाहा ब्रह्मवर्चसाय स्वाहेति ॥ ३। १। ६। ४॥ ६१ सूऱ्यो वा अकामयत । नक्षत्त्राणां प्रतिष्ठा स्यामिति । स एतꣳ सूर्याय नक्षत्त्रेभ्यश्चरुं निरवपत् । ततो वै स नक्षत्त्राणां प्रतिष्ठाऽभवत् । प्रतिष्ठा ह वै समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सूर्याय स्वाहा नक्षत्त्रेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ॥ ३। १। ६। ५॥ ६२ अथैतमदित्यै चरुं निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । सोऽत्र जुहोति । अदित्यै स्वाहा प्रतिष्ठायै स्वाहेति ॥ ३। १। ६। ६॥ ६३ अथैतं विष्णवे चरुं निर्वपति । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति । सोऽत्र जुहोति । विष्णवे स्वाहा यज्ञाय स्वाहा । प्रतिष्ठायै स्वाहेति ॥ ३। १। ६। ७॥ अग्निः पंचदश प्रजापतिः षोडश सोम एकादश रुद्रो दशर्क्षैकादश बृहस्पतिर्दश देवासुरा नव पितर एकादशार्यमा भगो दशदश सविता चतुर्दश त्वष्टा वायुरिंद्राग्नी दश दशाथैतत्पौर्णमास्या अष्टौ पंचदश ॥ मित्र इन्द्रः प्रजापतिर्दशदशाप एकादश विश्वे ब्रह्म दशदश विष्णुस्त्रयोदश वसव इन्द्रोऽजोऽहिर्वै बुध्नियः पूषाऽश्विनौ यमो दशदशाथैतदमावास्याया अष्टौ पञ्चदश । चन्द्रमाः पञ्चदशाहोरात्रे सप्तदशोषा एकादशाथैतस्मै नक्षत्त्राय त्रयोदश सूऱ्यो दशाथैतमदित्यै पञ्चाथैतं विष्णवे षट्थ्सप्त । सविताऽऽशूनां व्रीहिणामिन्द्रो महाव्रीहीणामिन्द्रः कृष्णानां व्रीहीणामहोरात्रे द्वयानां व्रीहीणाम् । पितरः षट्कपालꣳ सविता द्वादशकपालमिंद्राग्नी एकादशकपालमिंद्र एकादशकपालमिन्द्रो दशकपालं विष्णुस्त्रि कपालमहिर्भूमि कपालमश्विनौ द्विकपालं चन्द्रमाः पञ्चदश कपालमग्निस्त्वष्टा वसवोऽष्टाकपालमन्यत्र चरुम् । रुद्रोऽर्यमा पूषा पशुमान्थ्स्याꣳ सोमो रुद्रो बृहस्पतिः पयसि वायुः पयः सोमो वायुरिंद्राग्नी मित्र इन्द्र आपो ब्रह्म यमोऽभिजित्यै त्वष्टा प्रजापतिः प्रजायै पौर्णमास्या अमावास्याया आगत्यै विश्वे जित्या अश्विनौ श्रुत्यै ॥ ब्रह्मतदेतं विष्णुः स एतं वायुः स एतदापस्ताः ॥ पितरो विश्वे वसवोऽकामयन्तमेति त एतं निरवपन् । आपो कामयंतमेति ता एतन्निरवपन् । इंद्राग्नी अश्विनावकामयेतां वेति तावेतन्निरवपताम् । अहोरात्रे वा अकामयेतामिति ते एतं निरवपताम् । अन्यत्राकामयतमिति स एतं निरवपत् । इन्द्राग्नी श्रैष्ठ्यमिन्द्रो ज्यैष्ठ्यमिन्द्रो दृढः । अहिः सूऱ्योऽदित्यै विष्णवे प्रतिष्ठायै । सोमो यमः समानानाम् । अग्निर्नोरीरिषन्नन्यत्र रीरिषः । हविषा विदुषो य उ चैनदेवं वेद यजते चिनुते य उ चैनमेवं वेद ॥ अग्निर्न ऋध्यास्म नवो नवोऽग्निर्मित्रश्चंद्रमाः षट् ॥ अग्निर्नस्तन्नो वायुरहिर्बुध्निय ऋक्षा वा इयमथैतत्पौर्णमास्या अजो वा एकपाथ्सूर्यस्त्रिषष्टिः ॥ अग्निर्नः पातु प्रतिष्ठायै स्वाहेति ॥

तृतीयाष्टके द्वितीयः प्रपाठकः २

१ तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याऽहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णः । यत्पर्णशाखया वथ्सानपाकरोति । ब्रह्मणैवैनानपाकरोति । गायत्रो वै पर्णः । गायत्राः पशवः ॥ ३। २। १। १॥ २ तस्मात्त्रीणि त्रीणि पर्णस्य पलाशानि । त्रिपदा गायत्री । यत्पर्णशाखया गाः प्रार्पयति । स्वयैवैना देवतया प्रार्पयति । यं कामयेतापशुः स्यादिति । अपर्णां तस्मै शुष्काग्रामाहरेत् । अपशुरेव भवति । यं कामयेत पशुमान्थ्स्यादिति । बहुपर्णां तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति ॥ ३। २। १। २॥ ३ यत्प्राचीमाहरेत् । देवलोकमभिजयेत् । यदुदीचीं मनुष्यलोकम् । प्राचीमुदीचीमाहरति । उभयोर्लोकयोरभिजित्यै । इषे त्वोर्जे त्वेत्याह । इषमेवोर्जं यजमाने दधाति । वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः ॥ ३। २। १। ३॥ ४ वायव एवैनान्परिददाति । प्र वा एनानेतदाकरोति । यदाह । वायवः स्थेत्युपायवः स्थेत्याह । यजमानायैव पशूनुपह्वयते । देवो वः सविता प्रार्पयत्वित्याह प्रसूत्यै । श्रेष्ठतमाय कर्मण इत्याह । यज्ञो हि श्रेष्ठतमं कर्म । तस्मादेवमाह । आप्यायध्वमघ्निया देवभागमित्याह ॥ ३। २। १। ४॥ ५ वथ्सेभ्यश्च वा एताः पुरा मनुष्येभ्यश्चाप्यायन्त । देवेभ्य एवैना इन्द्रायाप्याययति । ऊर्जस्वतीः पयस्वतीरित्याह । ऊर्जꣳ हि पयः संभरन्ति । प्रजावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै । मा वः स्तेन ईशत माऽघशꣳस इत्याह गुप्त्यै । रुद्रस्य हेतिः परि वो वृणक्त्वित्याह । रुद्रादेवैनास्त्रायते । ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्याह । ध्रुवा एवास्मिन्बह्वीः करोति ॥ ३। २। १। ५॥ ६ यजमानस्य पशून्पाहीत्याह । पशूनां गोपीथाय । तस्माथ्सायं पशव उपसमावर्तन्ते । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। २। १। ६॥ पशवः करोति पशवो देवभागमित्याह करोति नव च ॥ १॥ ७ देवस्य त्वा सवितुः प्रसव इत्यश्वपर्शुमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । यो वा ओषधीः पर्वशो वेद । नैनाः स हिनस्ति । प्रजापतिर्वा ओषधीः पर्वशो वेद । स एना न हिनस्ति । अश्वपर्श्वा बर्हिरच्छैति । प्राजापत्यो वा अश्वः सयोनित्वाय ॥ ३। २। २। १॥ ८ ओषधीनामहिꣳसायै । यज्ञस्य घोषदसीत्याह । यजमान एव रयिं दधाति । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । प्रेयमगाद्धिषणा बर्हिरच्छेत्याह । विद्या वै धिषणा । विद्ययैवैनदच्छैति । मनुना कृता स्वधया वितष्टेत्याह । मानवी हि पर्शुः स्वधा कृता ॥ ३। २। २। २॥ ९ त आवहन्ति कवयः पुरस्तादित्याह । शुश्रुवाꣳसो वै कवयः । यज्ञः पुरस्तात् । मुखत एव यज्ञमारभते । अथो यदेतदुक्त्वा यतः कुतश्चाहरति । तत्प्राच्या एव दिशो भवति । देवेभ्यो जुष्टमिह बर्हिरासद इत्याह । बर्हिषः समृद्ध्यै । कर्मणोऽनपराधाय । देवानां परिषूतमसीत्याह ॥ ३। २। २। ३॥ १० यद्वा इदं किंच । तद्देवानां परिषूतम् । अथो यथा वस्यसे प्रतिप्रोच्याहेदं करिष्यामीति । एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य बर्हिर्दाति । आत्मनोऽहिꣳसायै । यावतः स्तम्बान्परिदिशेत् । यत्तेषामुच्छिग्ग्ष्यात् । अति तद्यज्ञस्य रेचयेत् । एकग्ग् स्तम्बं परिदिशेत् । तꣳ सर्वं दायात् ॥ ३। २। २। ४॥ ११ यज्ञस्यानतिरेकाय । वर्षवृद्धमसीत्याह । वर्षवृद्धा वा ओषधयः । देव बर्हिरित्याह । देवेभ्य एवैनत्करोति । मा त्वाऽन्वङ्मा तिर्यगित्याहाहिꣳसायै । पर्वते राध्यासमित्याहर्द्ध्यै । आच्छेत्ता ते मारिषमित्याह । नास्यात्मनो मीयते । य एवं वेद ॥ ३। २। २। ५॥ १२ देव बर्हिः शतवल्शं विरोहेत्याह । प्रजा वै बर्हिः । प्रजानां प्रजननाय । सहस्रवल्शा वि वयꣳ रुहेमेत्याह । आशिषमेवैतामाशास्ते । पृथिव्याः संपृचः पाहीत्याह प्रतिष्ठित्यै । अयुङ्गाऽयुङ्गान्मुष्टीन्लुनोति । मिथुनत्वाय प्रजात्यै । सुसंभृता त्वा संभरामीत्याह । ब्रह्मणैवैनथ्संभरति ॥ ३। २। २। ६॥ १३ अदित्यै रास्नाऽसीत्याह । इयं वा अदितिः । अस्या एवैनद्रास्नां करोति । इन्द्राण्यै संनहनमित्याह । इन्द्राणी वा अग्रे देवतानाꣳ समनह्यत । साऽऽर्ध्नोत् । ऋद्ध्यै सन्नह्यति । प्रजा वै बर्हिः । प्रजानामपरावापाय । तस्माथ्स्नावसंतताः प्रजा जायन्ते ॥ ३। २। २। ७॥ १४ पूषा ते ग्रन्थिं ग्रथ्नात्वित्याह । पुष्टिमेव यजमाने दधाति । स ते माऽऽस्थादित्याहाहिꣳसायै । पश्चात्प्राञ्चमुप गूहति । पश्चाद्वै प्राचीनꣳ रेतो धीयते । पश्चादेवास्मै प्राचीनꣳ रेतो दधाति । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्याह । इन्द्रियमेव यजमाने दधाति । बृहस्पतेर्मूर्ध्ना हरामीत्याह । ब्रह्म वै देवानां बृहस्पतिः ॥ ३। २। २। ८॥ १५ ब्रह्मणैवैनद्धरति । उर्वन्तरिक्षमन्विहीत्याह गत्यै । देवंगममसीत्याह । देवानेवैनद्गमयति । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। २। २। ९॥ सयोनित्वाय स्वधाकृताऽसीत्याह दायाद्वेद भरति जायन्ते बृहस्पतिः समष्ट्यै ॥ २॥ १६ पूर्वेद्युरिध्माबर्हिः करोति । यज्ञमेवारभ्य गृहीत्वोपवसति । प्रजापतिर्यज्ञमसृजत । तस्योखे अस्रꣳसेताम् । यज्ञो वै प्रजापतिः । यथ्सांन्नाय्योखे भवतः । यज्ञस्यैव तदुखे उपदधात्यप्रस्रꣳसाय । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । मातरिश्वनो घर्मोऽसीत्याह ॥ ३। २। ३। १॥ १७ अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानां विधृत्यै । द्यौरसि पृथिव्यसीत्याह । दिवश्च ह्येषा पृथिव्याश्च संभृता । यदुखा । तस्मादेवमाह । विश्वधाया असि परमेण धाम्नेत्याह । वृष्टिर्वै विश्वधायाः । वृष्टिमेवावरुन्धे । दृꣳहस्व मा ह्वारित्याह धृत्यै ॥ ३। २। ३। २॥ १८ वसूनां पवित्रमसीत्याह । प्राणा वै वसवः । तेषां वा एतद्भागधेयम् । यत्पवित्रम् । तेभ्य एवैनत्करोति । शतधारꣳ सहस्रधारमित्याह । प्राणेष्वेवायुर्दधाति सर्वत्वाय । त्रिवृत्पलाश शाखायां दर्भमयं भवति । त्रिवृद्वै प्राणः । त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति ॥ ३। २। ३। ३॥ १९ सौम्यः पर्णः सयोनित्वाय । साक्षात्पवित्रं दर्भाः । प्राख्सायमधिनिदधाति । तत्प्राणापानयो रूपम् । तिर्यक्प्रातः । तद्दर्शस्य रूपम् । दार्श्य२ꣳ ह्येतदहः । अन्नं वै चन्द्रमाः । अन्नं प्राणाः । उभयमेवोपैत्यजामित्वाय ॥ ३। २। ३। ४॥ २० तस्मादयꣳ सर्वतः पवते । हुतः स्तोको हुतो द्रप्स इत्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । न हि हुत२ꣳ स्वाहाकृतग्ग् स्कन्दति । दिवि नाको नामाग्निः । तस्य विप्रुषो भागधेयम् । अग्नये बृहते नाकायेत्याह । नाकमेवाग्निं भागधेयेन समर्धयति । स्वाहा द्यावापृथिवीभ्यामित्याह । द्यावापृथिव्योरेवैनत् प्रतिष्ठापयति ॥ ३। २। ३। ५॥ २१ पवित्रवत्यानयति । अपां चैवौषधीनां च रसꣳ सꣳसृजति । अथो ओषधीष्वेव पशून्प्रतिष्ठापयति । अन्वारभ्य वाचं यच्छति । यज्ञस्य धृत्यै । धारयन्नास्ते । धारयन्त इव हि दुहन्ति । कामधुक्ष इत्याहा तृतीयस्यै । त्रय इमे लोकाः । इमानेव लोकान्, यजमानो दुहे ॥ ३। २। ३। ६॥ २२ अमूमिति नाम गृह्णाति । भद्रमेवासां कर्माविष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह । इयं वै विश्वायुः । अन्तरिक्षं विश्वव्यचाः । असौ विश्वकर्मा । इमानेवैताभिर्लोकान्, यथापूर्वं दुहे । अथो यथा प्रदात्रे पुण्यमाशास्ते । एवमेवैना एतदुपस्तौति । तस्मात्प्रादादित्युन्नीय वन्दमाना उपस्तुवन्तः पशून्दुहन्ति ॥ ३। २। ३। ७॥ २३ बहु दुग्धीन्द्राय देवेभ्यो हविरिति वाचं विसृजते । यथादेवतमेव प्रसौति । दैव्यस्य च मानुषस्य च व्यावृत्त्यै । त्रिराह । त्रिषत्या हि देवाः । अवाचं यमोऽनन्वारभ्योत्तराः । अपरिमितमेवावरुन्धे । न दारुपात्रेण दुह्यात् । अग्निवद्वै दारुपात्रम् । यद्दारुपात्रेण दुह्यात् ॥ ३। २। ३। ८॥ २४ यातयाम्ना हविषा यजेत । अथो खल्वाहुः । पुरोडाशमुखानि वै हवीꣳषि । नेत इतः पुरोडाशꣳ हविषो यामोऽस्तीति । काममेव दारुपात्रेण दुह्यात् । शूद्र एव न दुह्यात् । असतो वा एष संभूतः । यच्छूद्रः । अहविरेव तदित्याहुः । यच्छूद्रो दोग्धीति ॥ ३। २। ३। ९॥ २५ अग्निहोत्रमेव न दुह्याच्छूद्रः । तद्धि नोत्पुनन्ति । यदा खलु वै पवित्रमत्येति । अथ तद्धविरिति । संपृच्यध्वमृतावरीरित्याह । अपां चैवौषधीनां च रसꣳ सꣳसृजति । तस्मादपां चौषधीनां च रसमुपजीवामः । मन्द्रा धनस्य सातय इत्याह । पुष्टिमेव यजमाने दधाति । सोमेन त्वाऽऽतनच्मीन्द्राय दधीत्याह ॥ ३। २। ३। १०॥ २६ सोममेवैनत्करोति । यो वै सोमं भक्षयित्वा । संवथ्सरꣳ सोमं न पिबति । पुनर्भक्ष्योऽस्य सोमपीथो भवति । सोमः खलु वै सान्नाय्यम् । य एवं विद्वान्थ्सांनाय्यं पिबति । अपुनर्भक्ष्योऽस्य सोमपीथो भवति । न मृन्मयेनापिदध्यात् । यन्मृन्मयेनापिदध्यात् । पितृदेवत्यग्ग् स्यात् ॥ ३। २। ३। ११॥ २७ अयस्पात्रेण वा दारुपात्रेण वाऽपिदधाति । तद्धि सदेवम् । उदन्वद्भवति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अदस्तमसि विष्णवे त्वेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनददस्तं करोति । विष्णो हव्यꣳ रक्षस्वेत्याह गुप्त्यै । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। २। ३। १२॥ असीत्याह धृत्यै यजमाने दधात्यजामित्वाय स्थापयति दुहे दुहन्ति दुह्याद्दोग्धीति दधीत्याह स्याथ्सादयति पञ्च च ॥ ३॥ २८ कर्मणे वां देवेभ्यः शकेयमित्याह शक्त्यै । यज्ञस्य वै संततिमनु प्रजाः पशवो यजमानस्य संतायन्ते । यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते । यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येत्याहवनीयाथ्संतनोति । यजमानस्य प्रजायै पशूनाꣳ संतत्यै । अपः प्रणयति । श्रद्धा वा आपः । श्रद्धामेवारभ्य प्रणीय प्रचरति । अपः प्रणयति । यज्ञो वा आपः ॥ ३। २। ४। १॥ २९ यज्ञमेवारभ्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियं धाम । देवानामेव प्रियं धाम प्रणीय प्रचरति ॥ ३। २। ४। २॥ ३० अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । वेषाय त्वेत्याह । वेषाय ह्येनदादत्ते । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । धूरसीत्याह । एष वै धुऱ्योऽग्निः । तं यदनुपस्पृश्यातीयात् ॥ ३। २। ४। ३॥ ३१ अध्वर्युं च यजमानं च प्रदहेत् । उपस्पृश्यात्येति । अध्वऱ्योश्च यजमानस्य चाप्रदाहाय । धूर्वतं योऽस्मान्धूर्वति तं धूर्वयं वयं धूर्वाम इत्याह । द्वौ वाव पुरुषौ । यं चैव धूर्वति । यश्चैनं धूर्वति । तावुभौ शुचाऽर्पयति । त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममित्याह । यथा यजुरेवैतत् ॥ ३। २। ४। ४॥ ३२ अह्रुतमसि हविर्धानमित्याहानार्त्यै । दृꣳहस्व मा ह्वारित्याह धृत्यै । मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय । मा भेर्मा संविक्था मा त्वा हिꣳसिषमित्याहाहिꣳसायै । यद्वै किंच वातो नाभिवाति । तथ्सर्वं वरुणदेवत्यम् । उरुवातायेत्याह । अवारुणमेवैनत्करोति । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह ॥ ३। २। ४। ५॥ ३३ अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । अग्नये जुष्टं निर्वपामीत्याह । अग्नय एवैनां जुष्टं निर्वपति । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे । स एवमेवानु पूर्वꣳ हवीꣳषि निर्वपति ॥ ३। २। ४। ६॥ ३४ इदं देवानामिदमुनः सहेत्याह व्यावृत्त्यै । स्फात्यै त्वा नारात्या इत्याह गुप्त्यै । तमसीव वा एषोऽन्तश्चरति । यः परीणहि । सुवरभि विख्येषं वैश्वानरं ज्योतिरित्याह । सुवरेवाभि विपश्यति वैश्वानरं ज्योतिः । द्यावापृथिवी हविषि गृहीत उदवेपेताम् । दृꣳहन्तां दुर्या द्यावापृथिव्योरित्याह । गृहाणां द्यावापृथिव्योर्धृत्यै । उर्वन्तरिक्षमन्विहीत्याह गत्यै । अदित्यास्त्वोपस्थे सादयामीत्याह । इयं वा अदितिः । अस्या एवैनदुपस्थे सादयति । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ॥ ३। २। ४। ७॥ यज्ञो वा आपो धाम प्रणीय प्रचरत्यतीयादेतद्बाहुभ्यामित्याह हवीꣳषि निर्वपति गत्यै चत्वारि च ॥ ४॥ ३५ इन्द्रो वृत्रमहन्न् । सोऽपः । अभ्यम्रियत । तासां यन्मेध्यं यज्ञियꣳ सदेवमासीत् । तदपोदक्रामत् । ते दर्भा अभवन्न् । यद्दर्भैरप उत्पुनाति । या एव मेध्या यज्ञियाः सदेवा आपः । ताभिरेवैना उत्पुनाति । द्वाभ्यामुत्पुनाति ॥ ३। २। ५। १॥ ३६ द्विपाद्यजमानः प्रतिष्ठित्यै । देवो वः सवितोत्पुनात्वित्याह । सवितृप्रसूत एवैना उत्पुनाति । अच्छिद्रेण पवित्रेणेत्याह । असौ वा आदित्योऽच्छिद्रं पवित्रम् । तेनैवैना उत्पुनाति । वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः । प्राणा वसवः । प्राणा रश्मयः ॥ ३। २। ५। २॥ ३७ प्राणैरेव प्राणान्थ्संपृणक्ति । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिष्षमृद्धत्वाय । आपो देवीरग्रेपुवो अग्रे गुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्र एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् ॥ ३। २। ५। ३॥ ३८ युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह । वृत्रꣳ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतथ्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह । तेनापः प्रोक्षिताः । अग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यामित्याह । यथादेवतमेवैनान्प्रोक्षति । त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः ॥ ३। २। ५। ४॥ ३९ अथो रक्षसामपहत्यै । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय । अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः ॥ ३। २। ५। ५॥ ४० अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीन ग्रीवमुत्तरलोमोप स्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते । तस्मात्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरध्यवहन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय ॥ ३। २। ५। ६॥ ४१ अधिषवणमसि वानस्पत्यमित्याह । अधिषवणमेवैनत्करोति । प्रति त्वाऽदित्यास्त्वग्वेत्वित्याह सयत्वाय । अग्नेस्तनूरसीत्याह । अग्नेर्वा एषा तनूः । यदोषधयः । वाचो विसर्जनमित्याह । यदा हि प्रजा ओषधीनामश्नन्ति । अथ वाचं विसृजन्ते । देववीतये त्वा गृह्णामीत्याह ॥ ३। २। ५। ७॥ ४२ देवताभिरेवैनथ्समर्धयति । अद्रिरसि वानस्पत्य इत्याह । ग्रावाणमेवैनत्करोति । स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्वेत्याह शान्त्यै । हविष्कृदेहीत्याह । य एव देवानाꣳ हविष्कृतः । तान्ह्वयति । त्रिर्ह्वयति । त्रिषत्या हि देवाः । इषमा वदोर्जमा वदेत्याह ॥ ३। २। ५। ८॥ ४३ इषमेवोर्जं यजमाने दधाति । द्युमद्वदत वयꣳ संघातं जेष्मेत्याह भ्रातृव्याभिभूत्यै । मनोः श्रद्धादेवस्य यजमानस्यासुरघ्नी वाक् । यज्ञायुधेषु प्रविष्टाऽऽसीत् । तेऽसुरा यावन्तो यज्ञायुधानामुद्वदतामुपाश‍ृण्वन्न् । ते पराभवन्न् । तस्माथ्स्वानां मध्येऽवसाय यजेत । यावन्तोऽस्य भ्रातृव्या यज्ञायुधानामुद्वदतामुपश‍ृण्वन्ति । ते पराभवन्ति । उच्चैः समाहन्तवा आह विजित्यै ॥ ३। २। ५। ९॥ ४४ वृङ्क्त एषामिन्द्रियं वीर्यम् । श्रेष्ठ एषां भवति । वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्वित्याह । वर्षवृद्धा वा ओषधयः । वर्षवृद्धा इषीकाः समृद्ध्यै । यज्ञꣳ रक्षाग्स्यनुप्राविशन्न् । तान्यस्ना पशुभ्यो निरवादयन्त । तुषैरोषधीभ्यः । परापूतꣳ रक्षः परापूता अरातय इत्याह । रक्षसामपहत्यै ॥ ३। २। ५। १०॥ ४५ रक्षसां भागोऽसीत्याह । तुषैरेव रक्षाꣳसि निरवदयते । अप उपस्पृशति मेध्यत्वाय । वायुर्वो विविनक्त्वित्याह । पवित्रं वै वायुः । पुनात्येवैनान् । अन्तरिक्षादिव वा एते प्रस्कन्दन्ति । ये शूर्पात् । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । त्रिष्फली कर्तवा आह । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय ॥ ३। २। ५। ११॥ द्वाभ्यामुत्पुनाति रश्मयो नयन्त्यग्रे यज्ञपतिं यज्ञोऽदितिरस्कन्दाय गृह्णामीत्याह वदेत्याह विजित्या अपहत्या अस्कन्दाय त्रीणि च ॥ ५॥ ४६ अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः । अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीन ग्रीवमुत्तर लोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते । तस्मात्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत ॥ ३। २। ६। १॥ ४७ कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरधि पिनष्टि । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय । द्यावापृथिवी सहास्ताम् । ते शम्यामात्रमेकमहर्व्यैताꣳ शम्यामात्रमेकमहः । दिवः स्कम्भनिरसि प्रति त्वाऽदित्यास्त्वग्वेत्वित्याह । द्यावापृथिव्योर्वीत्यै । धिषणाऽसि पर्वत्या प्रति त्वा दिवः स्कम्भ निर्वेत्वित्त्याह । द्यावापृथिव्योर्विधृत्यै ॥ ३। २। ६। २॥ ४८ धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्वित्याह । द्यावापृथिव्योर्धृत्यै । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । अधिवपामीत्याह । यथादेवतमेवैनानधिवपति । धान्यमसि धिनुहि देवानित्याह । एतस्य यजुषो वीर्येण ॥ ३। २। ६। ३॥ ४९ यावदेका देवता कामयते यावदेका । तावदाहुतिः प्रथते । न हि तदस्ति । यत्तावदेव स्यात् । यावज्जुहोति । प्राणाय त्वाऽपानायत्वेत्याह । प्राणानेव यजमाने दधाति । दीर्घामनु प्रसितिमायुषे धामित्याह । आयुरेवास्मिन्दधाति । अन्तरिक्षादिव वा एतानि प्रस्कन्दन्ति । यानि दृषदः । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । असंवपन्ती पिꣳषाणूनि कुरुतादित्याह मेध्यत्वाय ॥ ३। २। ६। ४॥ निलायत विधृत्यै वीर्येण स्कन्दन्ति चत्वारि च ॥ ६॥ ५० धृष्टिरसि ब्रह्म यच्छेत्याह धृत्यै । अपाग्नेऽग्नि मा मादं जहि निष्क्रव्यादꣳ सेधा देवयजं वहेत्याह । य एवामात्क्रव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्याह । रक्षाग्स्येव निर्दहति । अग्निवत्युपदधाति । अस्मिन्नेव लोके ज्योतिर्धत्ते । अङ्गारमधि वर्तयति ॥ ३। २। ७। १॥ ५१ अन्तरिक्ष एव ज्योतिर्धत्ते । आदित्यमेवामुष्मिं ल्लोके ज्योतिर्धत्ते । ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति । य एवं वेद । ध्रुवमसि पृथिवीं दृꣳहेत्याह । पृथिवीमेवैतेन दृꣳहति । धर्त्रमस्यन्तरिक्षं दृꣳहेत्याह । अन्तरिक्षमेवैतेन दृꣳहति । धरुणमसि दिवं दृꣳहेत्याह । दिवमेवैतेन दृꣳहति ॥ ३। २। ७। २॥ ५२ धर्माऽसि दिशो दृꣳहेत्याह । दिश एवैतेन दृꣳहति । इमानेवैतैर्लोकान्दृꣳहति । दृꣳहन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । त्रीण्यग्रे कपालान्युपदधाति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । एकमग्रे कपालमुपदधाति । एकं वा अग्रे कपालं पुरुषस्य संभवति ॥ ३। २। ७। ३॥ ५३ अथ द्वे । अथ त्रीणि । अथ चत्वारि । अथाष्टौ । तस्मादष्टाकपालं पुरुषस्य शिरः । यदेवं कपालान्युपदधाति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिꣳ स२ꣳस्करोति । आत्मानमेव तथ्स२ꣳस्करोति । तꣳ स२ꣳस्कृतमात्मानम् ॥ ३। २। ७। ४॥ ५४ अमुष्मिं ल्लोकेऽनु परैति । यदष्टावुपदधाति । गायत्रिया तथ्संमितम् । यन्नव । त्रिवृता तत् । यद्दश । विराजा तत् । यदेकादश । त्रिष्टुभा तत् । यद्द्वादश ॥ ३। २। ७। ५॥ ५५ जगत्या तत् । छन्दःसंमितानि स उपदधत्कपालानि । इमान् लोकाननुपूर्वं दिशो विधृत्यै दृꣳहति । अथायुः प्राणान्प्रजां पशून्, यजमाने दधाति । सजातानस्मा अभितो बहुलान्करोति । चितः स्थेत्याह । यथा यजुरेवैतत् । भृगूणामंगिरसां तपसा तप्यध्वमित्याह । देवतानामेवैनानि तपसा तपति । तानि ततः स२ꣳस्थिते । यानि घर्मे कपालान्युपचिन्वन्ति वेधस इति चतुष्पदयर्चा विमुञ्चति । चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ॥ ३। २। ७। ६॥ वर्तयति दिवमेवैतेन दृꣳहति सम्भवति तꣳ स२ꣳस्कृतमात्मानं द्वादश स२ꣳस्थिते त्रीणि च ॥ ७॥ ५६ देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । सं वपामीत्याह । यथादेवतमेवैनानि संवपति । समापो अद्भिरग्मत समोषधयो रसेनेत्याह । आपो वा ओषधीर्जिन्वन्ति । ओषधयोऽपो जिन्वन्ति । अन्या वा एतासामन्या जिन्वन्ति ॥ ३। २। ८। १॥ ५७ तस्मादेवमाह । सꣳ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । आपो वै रेवतीः । पशवो जगतीः । ओषधयो मधुमतीः । आप ओषधीः पशून् । तानेवास्मा एकधा सꣳसृज्य । मधुमतः करोति । अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वमिति पर्याप्लावयति । यथा सुवृष्ट इमामनु विसृत्य ॥ ३। २। ८। २॥ ५८ आप ओषधीर्महयन्ति । तादृगेव तत् । जनयत्यै त्वा संयौमीत्याह । प्रजा एवैतेन दाधार । अग्नये त्वाऽग्नीषोमाभ्यामित्याह व्यावृत्त्यै । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्पुरोडाशः । तस्मादेवमाह ॥ ३। २। ८। ३॥ ५९ घर्मोसि विश्वायुरित्याह । विश्वमेवायुर्यजमाने दधाति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह । यजमानमेव प्रजया पशुभिः प्रथयति । त्वचं गृह्णीष्वेत्याह । सर्वमेवैनꣳ सतनुं करोति । अथाप आनीय परिमार्ष्टि । माꣳस एव तत्त्वचं दधाति । तस्मात्त्वचा माꣳसं छन्नम् । घर्मो वा एषोऽशान्तः ॥ ३। २। ८। ४॥ ६० अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । स ईश्वरो यजमानꣳ शुचाऽप्रदहः । पर्यग्नि करोति । पशुमेवैनमकः । शान्त्या अप्रदाहाय । त्रिः पर्यग्नि करोति । त्र्यावृद्धि यज्ञः । अथो रक्षसामपहत्यै । अन्तरितꣳ रक्षोऽन्तरिता अरातय इत्याह ॥ ३। २। ८। ५॥ ६१ रक्षसामन्तर्हित्यै । पुरोडाशं वा अधिश्रितꣳ रक्षाग्स्यजिघाꣳसन्न् । दिवि नाको नामाग्नी रक्षोहा । स एवास्माद्रक्षाग्स्यपाहन्न् । देवस्त्वा सविता श्रपयत्वित्याह । सवितृप्रसूत एवैनग्ग् श्रपयति । वर्षिष्ठे अधिनाक इत्याह । रक्षसामपहत्यै । अग्निस्ते तनुवं माऽति धागित्याहानतिदाहाय । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ॥ ३। २। ८। ६॥ ६२ अविदहन्त श्रपयतेति वाचं विसृजते । यज्ञमेव हवीग्ष्यभिव्याहृत्य प्रतनुते । पुरोरुचमविदाहाय श‍ृत्यै करोति । मस्तिष्को वै पुरोडाशः । तं यन्नाभिवासयेत् । आविर्मस्तिष्कः स्यात् । अभिवासयति । तस्माद्गुहा मस्तिष्कः । भस्मनाऽभिवासयति । तस्मान्माꣳसेनास्थि छन्नम् ॥ ३। २। ८। ७॥ ६३ वेदेनाभि वासयति । तस्मात्केशैः शिरश्छन्नम् । अखलतिभावुको भवति । य एवं वेद । पशोर्वै प्रतिमा पुरोडाशः । स नायजुष्कमभिवास्यः । वृथेव स्यात् । ईश्वरा यजमानस्य पशवः प्रमेतोः । सं ब्रह्मणा पृच्यस्वेत्याह । प्राणा वै ब्रह्म ॥ ३। २। ८। ८॥ ६४ प्राणाः पशवः । प्राणैरेव पशून्थ्सं पृणक्ति । न प्रमायुका भवन्ति । यजमानो वै पुरोडाशः । प्रजा पशवः पुरीषम् । यदेवमभि वासयति । यजमानमेव प्रजया पशुभिः समर्धयति । देवा वै हविर्भृत्वाऽब्रुवन्न् । कस्मिन्निदं म्रक्ष्यामह इति । सोऽग्निरब्रवीत् ॥ ३। २। ८। ९॥ ६५ मयि तनूः संनिधध्वम् । अहं वस्तं जनयिष्यामि । यस्मिन् म्रक्ष्यध्व इति । ते देवा अग्नौ तनूः संन्यदधत । तस्मादाहुः । अग्निः सर्वा देवता इति । सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् ॥ ३। २। ८। १०॥ ६६ ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । यदद्भ्योऽजायन्त । तदाप्यानामाप्यत्वम् । यदात्मभ्योऽजायन्त । तदात्म्यानामात्म्यत्वम् । ते देवा आप्येष्वमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते ॥ ३। २। ८। ११॥ ६७ सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि । तद्ब्रह्महणं नात्यच्यवत । अन्तर्वेदि निनयत्यवरुध्यै । उल्मुकेनाभि गृह्णाति श‍ृतत्वाय । श‍ृतकामा इव हि देवाः ॥ ३। २। ८। १२॥ अन्या जिन्वन्त्यनुविसृत्यैवमाहाशान्त आह गुप्त्यै छन्नं ब्रह्माब्रवीद् द्वितीयमभ्यपातयत् सूर्याभिनिम्रुक्ते देवाः ॥ ८॥ ६८ देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आदद इन्द्रस्य बाहुरसि दक्षिण इत्याह । इन्द्रियमेव यजमाने दधाति । सहस्रभृष्टिः शततेजा इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । वायुरसि तिग्मतेजा इत्याह । तेजो वै वायुः ॥ ३। २। ९। १॥ ६९ तेज एवास्मिन्दधाति । विषाद्वै नामासुर आसीत् । सोऽबिभेत् । यज्ञेन मा देवा अभिभविष्यन्तीति । स पृथिवीमभ्यवमीत् । साऽमेध्याऽभवत् । अथो यदिन्द्रो वृत्रमहन्न् । तस्य लोहितं पृथिवीमनु व्यधावत् । साऽमेध्याऽभवत् । पृथिवि देव यजनीत्याह ॥ ३। २। ९। २॥ ७० मेध्यामेवैनां देवयजनीं करोति । ओषध्यास्ते मूलं मा हिꣳसिषमित्याह । ओषधीनामहिꣳसायै । व्रजं गच्छ गोस्थानमित्याह । छन्दाꣳसि वै व्रजो गोस्थानः । छन्दाग्स्येवास्मै व्रजं गोस्थानं करोति । वर्षतु ते द्यौरित्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे । बधान देव सवितः परमस्यां परावतीत्याह ॥ ३। २। ९। ३॥ ७१ द्वौ वाव पुरुषौ । यं चैव द्वेष्टि । यश्चैनं द्वेष्टि । तावुभौ बध्नाति परमस्यां परावति शतेन पाशैः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगित्याहानिम्रुक्त्यै । अररुर्वै नामासुर आसीत् । स पृथिव्यामुपम्लुप्तोऽशयत् । तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् । भ्रातृव्यो वा अररुः । अपहतोऽररुः पृथिव्या इति यदाह ॥ ३। २। ९। ४॥ ७२ भ्रातृव्यमेव पृथिव्या अपहन्ति । तेऽमन्यन्त । दिवं वा अयमितः पतिष्यतीति । तमररुस्ते दिवं मा स्कानिति दिवः पर्यबाधन्त । भ्रातृव्यो वा अररुः । अररुस्ते दिवं मा स्कानिति यदाह । भ्रातृव्यमेव दिवः परिबाधते । स्तम्बयजुर् हरति । पृथिव्या एव भ्रातृव्यमपहन्ति । द्वितीयꣳ हरति ॥ ३। २। ९। ५॥ ७३ अन्तरिक्षादेवैनमपहन्ति । तृतीयꣳ हरति । दिव एवैनमपहन्ति । तूष्णीं चतुर्थꣳ हरति । अपरिमितादेवैनमपहन्ति । असुराणां वा इयमग्र आसीत् । यावदासीनः परापश्यति । तावद्देवानाम् । ते देवा अब्रुवन् । अस्त्वेव नो स्यामपीति ॥ ३। २। ९। ६॥ ७४ क्यन्नो दास्यथेति । यावथ्स्वयं परिगृह्णीथेति । ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्न् । रुद्रास्त्वेति पश्चात् । आदित्यास्त्वेत्युत्तरतः । तेऽग्निना प्राञ्चोऽजयन्न् । वसुभिर्दक्षिणा । रुद्रैः प्रत्यञ्चः । आदित्यैरुदञ्चः । यस्यैवं विदुषो वेदिं परिगृह्णन्ति ॥ ३। २। ९। ७॥ ७५ भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्याह प्रसूत्यै । कर्म कृण्वन्ति वेधस इत्याह । इषितꣳ हि कर्म क्रियते । पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् । प्राचीनमुदीचीनं मेध्यम् । प्रतीचीनं दक्षिणाऽमेध्यम् । प्राचीमुदीचीं प्रवणां करोति । मेध्यामेवैनां देवयजनीं करोति ॥ ३। २। ९। ८॥ ७६ प्राञ्चौ वेद्यꣳसावुन्नयति । आहवनीयस्य परिगृहीत्यै । प्रतिची श्रोणी । गार्हपत्यस्य परिगृहीत्यै । अथो मिथुनत्वाय । उद्धन्ति । यदेवास्या अमेध्यम् । तदपहन्ति । उद्धन्ति । तस्मादोषधयः पराभवन्ति ॥ ३। २। ९। ९॥ ७७ मूलं छिनत्ति । भ्रातृव्यस्यैव मूलं छिनत्ति । मूलं वा अतितिष्ठद्रक्षाग्स्यनूत्पिपते । यद्धस्तेन छिन्द्यात् । कुनखिनीः प्रजाः स्युः । स्फ्येन छिनत्ति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञाद्रक्षाग्स्यपहन्ति । पितृदेवत्याऽतिखाता । इयतीं खनति ॥ ३। २। ९। १०॥ ७८ प्रजापतिना यज्ञमुखेन संमिताम् । वेदिर्देवेभ्यो निलायत । तां चतुरङ्गुलेऽन्वविन्दन्न् । तस्माच्चतुरङ्गुलं खेया । चतुरङ्गुलं खनति । चतुरङ्गुले ह्योषधयः प्रतितिष्ठन्ति । आप्रतिष्ठायै खनति । यजमानमेव प्रतिष्ठां गमयति । दक्षिणतो वर्षीयसीं करोति । देवयजनस्यैव रूपमकः ॥ ३। २। ९। ११॥ ७९ पुरीषवतीं करोति । प्रजा वै पशवः पुरीषम् । प्रजयैवैनं पशुभिः पुरीषवन्तं करोति । उत्तरं परिग्राहं परिगृह्णाति । एतावती वै पृथिवी । यावती वेदिः । तस्या एतावत एव भ्रातृव्यं निर्भज्य । आत्मन उत्तरं परिग्राहं परिगृह्णाति । ऋतमस्यृत सदनमस्यृत श्रीरसीत्याह । यथायजुरेवैतत् ॥ ३। २। ९। १२॥ ८० क्रूरमिव वा एतत्करोति । यद्वेदिं करोति । धा असि स्वधा असीति योयुप्यते शान्त्यै । उर्वी चासि वस्वी चासीत्याह । उर्वीमेवैनां वस्वीं करोति । पुरा क्रूरस्य विसृपो विरफ्शिन्नित्याह मेध्यत्वाय । उदादाय पृथिवीं जीरदानुर्यामैरयञ्चन्द्रमसि स्वधाभिरित्याह । यदेवास्या अमेध्यम् । तदपहत्य । मेध्यां देवयजनीं कृत्वा ॥ ३। २। ९। १३॥ ८१ यददश्चन्द्रमसि मेध्यम् । तदस्यामेरयति । तां धीरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै । प्रोक्षणीरासादय । इध्माबर्हिरुपसादय । स्रुवं च स्रुचश्च संमृढ्ढि । पत्नीꣳ संनह्य । आज्येनोदेहीत्याहानुपूर्वतायै । प्रोक्षणीरासादयति । आपो वै रक्षोघ्नीः ॥ ३। २। ९। १४॥ ८२ रक्षसामपहत्यै । स्फ्यस्य वर्त्मन्थ्सादयति । यज्ञस्य संतत्यै । उवाच हासितो दैवलः । एतावतीर्वा अमुष्मिं ल्लोक आप आसन्न् । यावतीः प्रोक्षणीरिति । तस्माद्बह्वीरासाद्याः । स्फ्यमुदस्यन्न् । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति ॥ ३। २। ९। १५॥ वै वायुराह परावतीत्याहाह द्वितीयꣳ हरतीति परिगृह्णन्ति देवयजनीं करोति भवन्ति खनत्यकरेतत्कृत्वा रक्षोघ्नीरर्पयति ॥ ९॥ ८३ वज्रो वै स्फ्यः । यदन्वञ्चं धारयेत् । वज्रेऽध्वर्युः, क्षण्वीत । पुरस्तात्तिर्यञ्चं धारयति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाग्स्यपहन्ति । अग्निभ्यां प्राचश्च प्रतीचश्च । स्फ्येनोदीचश्चाधराचश्च । स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यमपहत्य । उत्करेऽधि प्रवृश्चति ॥ ३। २। १०। १॥ ८४ यथोपधाय वृश्चन्त्येवम् । हस्ताववनेनिक्ते । आत्मानमेव पवयते । स्फ्यं प्रक्षालयति मेध्यत्वाय । अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं छिनत्ति । इध्माबर्हिरुपसादयति युक्त्यै । यज्ञस्य मिथुनत्वाय । अथो पुरोरुचमेवैतां दधाति । उत्तरस्य कर्मणोऽनुख्यात्यै । न पुरस्तात्प्रत्यगुपसादयेत् ॥ ३। २। १०। २॥ ८५ यत्पुरस्तात्प्रत्यगुपसादयेत् । अन्यत्राऽऽहुतिपथादिध्मं प्रतिपादयेत् । प्रजा वै बर्हिः । अपराध्नुयाद्बर्हिषा प्रजानां प्रजननम् । पश्चात्प्रागुपसादयति । आहुतिपथेनेध्मं प्रतिपादयति । संप्रत्येव बर्हिषा प्रजानां प्रजननमुपैति । दक्षिणमिध्मम् । उत्तरं बर्हिः । आत्मा वा इध्मः । प्रजा बर्हिः । प्रजा ह्यात्मन उत्तरतरा तीर्थे । ततो मेधमुपनीय । यथादेवतमेवैनत्प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ॥ ३। २। १०। ३॥ वृश्चति सादयेदिध्मः पञ्च च ॥ १०॥ तृतीयस्यां देवस्याश्वपर्शुं यो वै पूर्वेद्युः कर्मणे वामिन्द्रो वृत्रमहन्थ्सोऽपोवधूतं धृष्टिर्देवस्येत्याह संवपामि देवस्य स्फ्यमाददे वज्रो वै स्फ्यो दश ॥ १०॥ तृतीयस्यां यज्ञस्यानतिरेकाय पवित्रवत्यध्वर्युं चाधिषवणमस्यन्तरिक्ष एव रक्षसामन्तर्हित्यै द्वौ वाव पुरुषौ यददश्चन्द्रमसि मेध्यं पञ्चाशीतिः ॥ ८५॥ तृतीयस्यां यजमानः ॥

तृतीयाष्टके तृतीयः प्रपाठकः ३

१ प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्याह मेध्यत्वाय । स्रुचः संमार्ष्टि । स्रुवमग्रे । पुमाꣳसमेवाभ्यः स२ꣳश्यति मिथुनत्वाय । अथ जुहूम् । अथोपभृतम् । अथ ध्रुवाम् । असौ वै जुहूः ॥ ३। ३। १। १॥ २ अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा इमान् लोकाननुपूर्वं कल्पयति । ते ततः क्लृप्ताः समेधन्ते । समेधन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । यदि कामयेत वर्षुकः पर्जन्यः स्यादिति । अग्रतः संमृज्यात् ॥ ३। ३। १। २॥ ३ वृष्टिमेव नियच्छति । अवाचीनाग्रा हि वृष्टिः । यदि कामयेतावर्षुकः स्यादिति । मूलतः संमृज्यात् । वृष्टिमेवोद्यच्छति । तदु वा आहुः । अग्रत एवोपरिष्टाथ्संमृज्यात् । मूलतोऽधस्तात् । तदनुपूर्वं कल्पते । वर्षुको भवतीति ॥ ३। ३। १। ३॥ ४ प्राचीमभ्याकारम् । अग्रैरन्तरतः । एवमिव ह्यन्नमद्यते । अथो अग्राद्वा ओषधीनामूर्जं प्रजा उपजीवन्ति । ऊर्ज एवान्नाद्यस्यावरुध्यै । अधस्तात्प्रतीचीम् । दण्डमुत्तमतः । मूलेन मूलं प्रतिष्ठित्यै । तस्मादरत्नौ प्राञ्च्युपरिष्टाल्लोमानि । प्रत्यञ्च्यधस्तात् ॥ ३। ३। १। ४॥ ५ स्रुग्घ्येषा । प्राणो वै स्रुवः । जुहूर्दक्षिणो हस्तः । उपभृथ्सव्यः । आत्मा ध्रुवा । अन्नꣳ संमार्जनानि । मुखतो वै प्राणोऽपानो भूत्वा । आत्मानमन्नं प्रविश्य । बाह्यतस्तनुवꣳ शुभयति । तस्माथ्स्रुवमेवाग्रे संमार्ष्टि । मुखतो हि प्राणोऽपानो भूत्वा । आत्मानमन्नमाविशति । तौ प्राणापानौ । अव्यर्धुकः प्राणापानाभ्यां भवति । य एवं वेद ॥ ३। ३। १। ५॥ जुहूर्मृज्याद्भवतीति प्रत्यञ्च्यधस्तान्मार्ष्टि पञ्च च ॥ १॥ ६ दिवः शिल्पमवततम् । पृथिव्याः ककुभि श्रितम् । तेन वयꣳ सहस्रवल्शेन । सपत्नं नाशयामसि स्वाहेति स्रुख्संमार्जनान्यग्नौ प्रहरति । आपो वै दर्भाः । रूपमेवैषामेतन्महिमानं व्याचष्टे । अनुष्टुभर्चा । आनुष्टुभः प्रजापतिः । प्राजापत्यो वेदः । वेदस्याग्रग्ग् स्रुख्संमार्जनानि ॥ ३। ३। २। १॥ ७ स्वेनैवैनानि छन्दसा । स्वया देवतया समर्धयति । अथो ऋग्वाव योषा । दर्भो वृषा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः । तान्येके वृथैवापास्यन्ति । तत्तथा न कार्यम् । आरब्धस्य यज्ञियस्य कर्मणः सः विदोहः ॥ ३। ३। २। २॥ ८ यद्येनानि पशवोऽभितिष्ठेयुः । न तत्पशुभ्यः कम् । अद्भिर्मार्जयित्वोत्करे न्यस्येत् । यद्वै यज्ञियस्य कर्मणोऽन्यत्राहुतीभ्यः संतिष्ठते । उत्करो वाव तस्य प्रतिष्ठा । एताꣳ हि तस्मै प्रतिष्ठां देवाः समभरन् । यदद्भिर्मार्जयति । तेन शान्तम् । यदुत्करे न्यस्यति । प्रतिष्ठामेवैनानि तद्गमयति ॥ ३। ३। २। ३॥ ९ प्रतितिष्ठति प्रजया पशुभिर्यजमानः । अथो स्तम्बस्य वा एतद्रूपम् । यथ्स्रुख्संमार्जनानि । स्तम्बशो वा ओषधयः । तासां जरत्कक्षे पशवो न रमन्ते । अप्रियो ह्येषां जरत्कक्षः । यावदप्रियो ह वै जरत्कक्षः पशूनाम् । तावदप्रियः पशूनां भवति । यस्यैतान्यन्यत्राग्नेर्दधति । नवदाव्यासु वा ओषधीषु पशवो रमन्ते ॥ ३। ३। २। ४॥ १० नवदावो ह्येषां प्रियः । यावत्प्रियो ह वै नवदावः पशूनाम् । तावत्प्रियः पशूनां भवति । यस्यैतान्यग्नौ प्रहरन्ति । तस्मादेतान्यग्नावेव प्रहरेत् । यतरस्मिन्थ्संमृज्यात् । पशूनां धृत्यै । यो भूतानामधिपतिः । रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिꣳसीः । एतदस्तु हुतं तव स्वाहेत्यग्निसंमार्जनान्यग्नौ प्रहरति । एषा वा एतेषां योनिः । एषा प्रतिष्ठा । स्वामेवैनानि योनिम् । स्वां प्रतिष्ठां गमयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ॥ ३। ३। २। ५॥ वेदस्याग्रग्ग् स्रुख्संमार्जनानि विदोहो गमयति पशवो रमन्ते हिꣳसीष्षट्च ॥ २॥ ११ अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः प्रजायेरन् । पत्न्यन्वास्ते । यज्ञमेवाकः । प्रजानां प्रजननाय । यत्तिष्ठन्ती संनह्येत । प्रियं ज्ञातिꣳ रुन्ध्यात् । आसीना संनह्यते । आसीना ह्येषा वीर्यं करोति ॥ ३। ३। ३। १॥ १२ यत्पश्चात्प्राच्यन्वासीत । अनया समदं दधीत । देवानां पत्निया समदं दधीत । देशाद्दक्षिणत उदीच्यन्वास्ते । आत्मनो गोपीथाय । आशासाना सौमनसमित्याह । मेध्यामेवैनां केवलीं कृत्वा । आशिषा समर्धयति । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमित्याह । एतद्वै पत्नियै व्रतोपनयनम् ॥ ३। ३। ३। २॥ १३ तेनैवैनां व्रतमुपनयति । तस्मादाहुः । यश्चैवं वेद यश्च न । योक्त्रमेव युते । यमन्वास्ते । तस्यामुष्मिं ल्लोके भवतीति योक्त्रेण । यद्योक्त्रम् । स योगः । यदास्ते । स क्षेमः ॥ ३। ३। ३। ३॥ १४ योगक्षेमस्य क्लृप्त्यै । युक्तं क्रियाता आशीःकामे युज्याता इति । आशिषः समृद्ध्यै । ग्रन्थिं ग्रथ्नाति । आशिष एवास्यां परिगृह्णाति । पुमान् वै ग्रन्थिः । स्त्री पत्नी । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः ॥ ३। ३। ३। ४॥ १५ अथो अर्धो वा एष आत्मनः । यत्पत्नी । यज्ञस्य धृत्या अशिथिलं भावाय । सुप्रजसस्त्वा वयꣳ सुपत्नीरुपसेदिमेत्याह । यज्ञमेव तन्मिथुनी करोति । ऊनेऽतिरिक्तं धीयाता इति प्रजात्यै । महीनां पयोऽस्योषधीनाꣳ रस इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्याह । आशिषमेवैतामाशास्ते ॥ ३। ३। ३। ५॥ करोति व्रतोपनयनं क्षेमो यजमानः शास्ते ॥ ३॥ १६ घृतं च वै मधु च प्रजापतिरासीत् । यतो मध्वासीत् । ततः प्रजा असृजत । तस्मान्मधुषि प्रजननमिवास्ति । तस्मान्मधुषा न प्रचरन्ति । यातयाम हि । आज्येन प्रचरन्ति । यज्ञो वा आज्यम् । यज्ञेनैव यज्ञं प्रचरन्त्ययातयामत्वाय । पत्न्यवेक्षते ॥ ३। ३। ४। १॥ १७ मिथुनत्वाय प्रजात्यै । यद्वै पत्नी यज्ञस्य करोति । मिथुनं तत् । अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै । अमेध्यं वा एतत्करोति । यत्पत्न्यवेक्षते । गार्हपत्येऽधिश्रयति मेध्यत्वाय । आहवनीयमभ्युद्द्रवति । यज्ञस्य सन्तत्यै । तेजोऽसि तेजोऽनु प्रेहीत्याह ॥ ३। ३। ४। २॥ १८ तेजो वा अग्निः । तेज आज्यम् । तेजसैव तेजः समर्धयति । अग्निस्ते तेजो मा विनैदित्याहाहिꣳसायै । स्फ्यस्य वर्त्मन्थ्सादयति । यज्ञस्य सन्तत्यै । अग्नेर्जिह्वाऽसि सुभूर्देवानामित्याह । यथायजुरेवैतत् । धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे भवेत्याह । आशिषमेवैतामाशास्ते ॥ ३। ३। ४। ३॥ १९ तद्वा अतः पवित्राभ्यामेवोत्पुनाति । यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । पुनराहारम् । एवमिव हि प्राणापानौ संचरतः । शुक्रमसि ज्योतिरसि तेजोऽसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । त्रिर्यजुषा । त्रय इमे लोकाः ॥ ३। ३। ४। ४॥ २० एषां लोकानामाप्त्यै । त्रिः । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथाज्यवतीभ्यामपः । रूपमेवासामेतद्वर्णं दधाति । अपि वा उताहुः । यथा ह वै योषा सुवर्णꣳ हिरण्यं पेशलं बिभ्रती रूपाण्यास्ते । एवमेता एतर्हीति । आपो वै सर्वा देवताः ॥ ३। ३। ४। ५॥ २१ एषा हि विश्वेषां देवानां तनूः । यदाज्यम् । तत्रोभयोर्मीमाꣳसा । जामिः स्यात् । यद्यजुषाऽऽज्यं यजुषाऽप उत्पुनीयात् । छन्दसाऽप उत्पुनात्यजामित्वाय । अथो मिथुनत्वाय । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिःषमृद्धत्वाय । अद्भिरेवौषधीः संनयति । ओषधीभिः पशून् । पशुभिर्यजमानम् । शुक्रं त्वा शुक्रायां ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वाऽर्चिषीत्याह सर्वत्वाय । पर्याप्त्या अनन्तरायाय ॥ ३। ३। ४। ६॥ ईक्षत आह शास्ते लोका देवता भवति षट्च ॥ ४॥ २२ देवासुराः संयत्ता आसन् । स एतमिन्द्र आज्यस्यावकाशमपश्यत् । तेनावैक्षत । ततो देवा अभवन् । पराऽसुराः । य एवं विद्वानाज्यमवेक्षते । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवीग्ष्यभि घारयति ॥ ३। ३। ५। १॥ २३ अथ केनाज्यमिति । सत्येनेति ब्रूयात् । चक्षुर्वै सत्यम् । सत्येनैवैनदभि घारयति । ईश्वरो वा एषोऽन्धो भवितोः । यश्चक्षुषाऽऽज्यमवेक्षते । निमील्यावेक्षेत । दाधारात्मन्चक्षुः । अभ्याज्यं घारयति । आज्यं गृह्णाति ॥ ३। ३। ५। २॥ २४ छन्दाꣳसि वा आज्यम् । छन्दाग्स्येव प्रीणाति । चतुर्जुह्वां गृह्णाति । चतुष्पादः पशवः । पशूनेवावरुन्धे । अष्टावुपभृति । अष्टाक्षरा गायत्री । गायत्रः प्राणः । प्राणमेव पशुषु दधाति । चतुर्ध्रुवायाम् ॥ ३। ३। ५। ३॥ २५ चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । चतुर्जुह्वां गृह्णन्भूयो गृह्णीयात् । अष्टावुपभृति गृह्णन्कनीयः । यजमानायैव भ्रातृव्यमुपस्तिं करोति । गौर्वै स्रुचः । चतुर्जुह्वां गृह्णाति । तस्माच्चतुष्पदी ॥ ३। ३। ५। ४॥ २६ अष्टावुपभृति । तस्मादष्टाशफा । चतुर्ध्रुवायाम् । तस्माच्चतुस्स्तना । गामेव तथ्स२ꣳस्करोति । साऽस्मै स२ꣳस्कृतेषमूर्जं दुहे । यज्जुह्वां गृह्णाति । प्रयाजेभ्यस्तत् । यदुपभृति । प्रयाजानूयाजेभ्यस्तत् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्ध्रुवायामाज्यम् ॥ ३। ३। ५। ५॥ अभिघारयति गृह्णाति ध्रुवायां चतुष्पदी प्रयाजानूयाजेभ्यस्तद्द्वे च ॥ ५॥ २७ आपो देवीरग्रेपुवो अग्रे गुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्र एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् । युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह । वृत्रꣳ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतथ्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह ॥ ३। ३। ६। १॥ २८ तेनापः प्रोक्षिताः । अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह । अग्नय एवैनं जुष्टं करोति । अथो अग्नेरेव मेधमवरुन्धे । वेदिरसि बर्हिषे त्वा स्वाहेत्याह । प्रजा वै बर्हिः । पृथिवी वेदिः ॥ ३। ३। ६। २॥ २९ प्रजा एव पृथिव्यां प्रतिष्ठापयति । बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याह । प्रजा वै बर्हिः । यजमानः स्रुचः । यजमानमेव प्रजासु प्रतिष्ठापयति । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिरासाद्य प्रोक्षति । एभ्य एवैनं ल्लोकेभ्यः प्रोक्षति । अथ ततः सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रजा वै बर्हिः । यथा सूत्यै काल आपः पुरस्ताद्यन्ति ॥ ३। ३। ६। ३॥ ३० तादृगेव तत् । स्वधा पितृभ्य इत्याह । स्वधाकारो हि पितृणाम् । ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेरोत्तरस्यै निनयति संतत्यै । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । मासा वा ओषधीर्वर्धयन्ति । मासाः पचन्ति समृद्ध्यै । अनतिस्कन्दन् ह पर्जन्यो वर्षति । यत्रैतदेवं क्रियते ॥ ३। ३। ६। ४॥ ३१ ऊर्जा पृथिवीं गच्छतेत्याह । पृथिव्यामेवोर्जं दधाति । तस्मात्पृथिव्या ऊर्जा भुञ्जते । ग्रन्थिं विस्रꣳसयति । प्रजनयत्येव तत् । ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति । तस्मात्प्राचीनꣳ रेतो धीयते । प्रतीचीः प्रजा जायन्ते । विष्णोः स्तूपोऽसीत्याह । यज्ञो वै विष्णुः ॥ ३। ३। ६। ५॥ ३२ यज्ञस्य धृत्यै । पुरस्तात्प्रस्तरं गृह्णाति । मुख्यमेवैनं करोति । इयन्तं गृह्णाति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं गृह्णाति । यज्ञपरुषा संमितम् । इयन्तं गृह्णाति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ॥ ३। ३। ६। ६॥ ३३ अपरिमितं गृह्णाति । अपरिमितस्यावरुद्ध्यै । तस्मिन्पवित्रे अपिसृजति । यजमानो वै प्रस्तरः । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । ऊर्णाम्रदसं त्वा स्तृणामीत्याह । यथायजुरेवैतत् । स्वासस्थं देवेभ्य इत्याह । देवेभ्य एवैनथ्स्वासस्थं करोति ॥ ३। ३। ६। ७॥ ३४ बर्हिः स्तृणाति । प्रजा वै बर्हिः । पृथिवी वेदिः । प्रजा एव पृथिव्यां प्रतिष्ठापयति । अनतिदृश्न२ꣳ स्तृणाति । प्रजयैवैनं पशुभिरनतिदृश्नं करोति । धारयन्प्रस्तरं परिधीन्परिदधाति । यजमानो वै प्रस्तरः । यजमान एव तथ्स्वयं परिधीन्परिदधाति । गन्धर्वोऽसि विश्वावसुरित्याह ॥ ३। ३। ६। ८॥ ३५ विश्वमेवायुर्यजमाने दधाति । इन्द्रस्य बाहुरसि दक्षिण इत्याह । इन्द्रियमेव यजमाने दधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तामित्याह । प्राणापानौ मित्रावरुणौ । प्राणापानावेवास्मिन्दधाति । सूर्यस्त्वा पुरस्तात् पात्वित्याह । रक्षसामपहत्यै । कस्याश्चिदभिशस्त्या इत्याह । अपरिमितादेवैनं पाति ॥ ३। ३। ६। ९॥ ३६ वीतिहोत्रं त्वा कव इत्याह । अग्निमेव होत्रेण समर्धयति । द्युमन्तꣳ समिधीमहीत्याह समिद्ध्यै । अग्ने बृहन्तमध्वर इत्याह वृद्ध्यै । विशो यन्त्रे स्थ इत्याह । विशां यत्यै । उदीचीनाग्रे निदधाति प्रतिष्ठित्यै । वसूनाꣳ रुद्राणामादित्यानाꣳ सदसि सीदेत्याह । देवतानामेव सदने प्रस्तरꣳ सादयति । जुहूरसि घृताची नाम्नेत्याह ॥ ३। ३। ६। १०॥ ३७ असौ वै जुहूः । अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । तासामेतदेव प्रियं नाम । यद्घृताचीति । यद्घृताचीत्याह । प्रियेणैवैना नाम्ना सादयति । एता असदन्थ्सुकृतस्य लोक इत्याह । सत्यं वै सुकृतस्य लोकः । सत्य एवैनाः सुकृतस्य लोके सादयति । ता विष्णो पाहीत्याह । यज्ञो वै विष्णुः । यज्ञस्य धृत्यै । पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियमित्याह । यज्ञाय यजमानायात्मने । तेभ्य एवाशिषमाशास्तेऽनार्त्यै ॥ ३। ३। ६। ११॥ स्थेत्याह पृथिवी वेदिर्यन्ति क्रियते विष्णुर्वीर्यसंमितं करोत्याह पाति नाम्नेत्याह लोके सादयति षट्च ॥ ६॥ ३८ अग्निना वै होत्रा । देवा असुरानभ्यभवन् । अग्नये समिद्ध्यमानायानुब्रूहीत्याह भ्रातृव्याभिभूत्यै । एकविꣳशतिमिध्मदारूणि भवन्ति । एकविꣳशो वै पुरुषः । पुरुषस्याप्त्यै । पञ्चदशेध्मदारूण्यभ्यादधाति । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवथ्सर आप्यते । त्रीन्परिधीन्परिदधाति ॥ ३। ३। ७। १॥ ३९ ऊर्ध्वे समिधावादधाति । अनूयाजेभ्यः समिधमतिशिनष्टि । षट्थ्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेनोपवाजयति । प्राजापत्यो वै वेदः । प्राजापत्यः प्राणः । यजमान आहवनीयः । यजमान एव प्राणं दधाति ॥ ३। ३। ७। २॥ ४० त्रिरुपवाजयति । त्रयो वै प्राणाः । प्राणानेवास्मिन्दधाति । वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिं मुखत आरभते । अथो प्रजापतिः सर्वा देवताः । सर्वा एव देवताः प्रीणाति । अग्निमग्नीत्त्रिस्त्रिः संमृढ्ढीत्याह । त्र्यावृद्धि यज्ञः ॥ ३। ३। ७। ३॥ ४१ अथो रक्षसामपहत्यै । परिधीन्थ्संमार्ष्टि । पुनात्येवैनान् । त्रिस्त्रिः संमार्ष्टि । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथो एते वै देवाश्वाः । देवाश्वानेव तथ्संमार्ष्टि । सुवर्गस्य लोकस्य समष्ट्यै । आसीनोऽन्यमाघारमाघारयति ॥ ३। ३। ७। ४॥ ४२ तिष्ठन्नन्यम् । यथाऽनो वा रथं वा युञ्ज्यात् । एवमेव तदध्वर्युर्यज्ञं युनक्ति । सुवर्गस्य लोकस्याभ्यूढ्यै । वहन्त्येनं ग्राम्याः पशवः । य एवं वेद । भुवनमसि विप्रथस्वेत्याह । यज्ञो वै भुवनम् । यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति । अग्ने यष्टरिदं नम इत्याह ॥ ३। ३। ७। ५॥ ४३ अग्निर्वै देवानां यष्टा । य एव देवानां यष्टा । तस्मा एव नमस्करोति । जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इत्याह । आग्नेयी वै जुहूः । सावित्र्युपभृत् । ताभ्यामेवैने प्रसूत आदत्ते । अग्नाविष्णू मा वामवक्रमिषमित्याह । अग्निः पुरस्तात् । विष्णुर्यज्ञः पश्चात् ॥ ३। ३। ७। ६॥ ४४ ताभ्यामेव प्रतिप्रोच्यात्याक्रामति । विजिहाथां मा मा संताप्तमित्याहाहिꣳसायै । लोकं मे लोककृतौ कृणुतमित्याह । आशिषमेवैतामाशास्ते । विष्णोः स्थानमसीत्याह । यज्ञो वै विष्णुः । एतत्खलु वै देवानामपराजितमायतनम् । यद्यज्ञः । देवानामेवापराजित आयतने तिष्ठति । इत इन्द्रो अकृणोद्वीर्याणीत्याह ॥ ३। ३। ७। ७॥ ४५ इन्द्रियमेव यजमाने दधाति । समारभ्योर्ध्वो अध्वरो दिविस्पृशमित्याह वृद्ध्यै । आघारमाघार्यमाणमनु समारभ्य । एतस्मिन्काले देवाः सुवर्गं लोकमायन् । साक्षादेव यजमानः सुवर्गं लोकमेति । अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकमेति । अह्रुतो यज्ञो यज्ञपतेरित्याहानार्त्यै । इन्द्रावान्थ्स्वाहेत्याह । इन्द्रियमेव यजमाने दधाति । बृहद्भा इत्याह ॥ ३। ३। ७। ८॥ ४६ सुवर्गो वै लोको बृहद्भाः । सुवर्गस्य लोकस्य समष्ट्यै । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । प्राण आघारः । यथ्सग्ग्स्पर्शयेत् । भ्रातृव्येऽस्य प्राणं दध्यात् । असग्ग्स्पर्शयन्नत्याक्रामति । यजमान एव प्राणं दधाति । पाहि माऽग्ने दुश्चरितादामा सुचरिते भजेत्याह ॥ ३। ३। ७। ९॥ ४७ अग्निर्वाव पवित्रम् । वृजिनमनृतं दुश्चरितम् । ऋजुकर्मꣳ सत्यꣳ सुचरितम् । अग्निरेवैनं वृजिनादनृताद्दुश्चरितात्पाति । ऋजुकर्मे सत्ये सुचरिते भजति । तस्मादेवमाशास्ते । आत्मनो गोपीथाय । शिरो वा एतद्यज्ञस्य । यदाघारः । आत्मा ध्रुवा ॥ ३। ३। ७। १०॥ ४८ आघारमाघार्य ध्रुवाꣳ समनक्ति । आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति । द्विः समनक्ति । द्वौ हि प्राणापानौ । तदाहुः । त्रिरेव समञ्ज्यात् । त्रिधातु हि शिर इति । शिर इवैतद्यज्ञस्य । अथो त्रयो वै प्राणाः । प्राणानेवास्मिन्दधाति । मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामित्याह । ज्योतिरेवास्मा उपरिष्टाद्दधाति । सुवर्गस्य लोकस्यानुख्यात्यै ॥ ३। ३। ७। ११॥ परिदधाति प्राणं दधाति हि यज्ञो घारयति नम इत्याह पश्चाद्वीर्याणीत्याह भा इत्याह भजेत्याह ध्रुवैवास्मिन्दधाति त्रीणि च ॥ ७॥ ४९ धिष्णिया वा एते न्युप्यन्ते । यद्ब्रह्मा । यद्धोता । यदध्वर्युः । यदग्नीत् । यद्यजमानः । तान्, यदन्तरेयात् । यजमानस्य प्राणान्थ्संकर्षेत् । प्रमायुकः स्यात् । पुरोडाशमपगृह्य संचरत्यध्वर्युः ॥ ३। ३। ८। १॥ ५० यजमानायैव तल्लोकꣳ शिꣳषति । नास्य प्राणान्थ्संकर्षति । न प्रमायुको भवति । पुरस्तात् प्रत्यङ्ङासीनः । इडाया इडामादधाति । हस्त्याꣳ होत्रे । पशवो वा इडा । पशवः पुरुषः । पशुष्वेव पशून् प्रतिष्ठापयति । इडायै वा एषा प्रजातिः ॥ ३। ३। ८। २॥ ५१ तां प्रजातिं यजमानोऽनु प्रजायते । द्विरङ्गुलावनक्ति पर्वणोः । द्विपाद्यजमानः प्रतिष्ठित्यै । सकृदुपस्तृणाति । द्विरादधाति । सकृदभिघारयति । चतुः संपद्यते । चत्वारि वै पशोः प्रतिष्ठानानि । यावानेव पशुः । तमुपह्वयते ॥ ३। ३। ८। ३॥ ५२ मुखमिव प्रत्युपह्वयेत । संमुखानेव पशूनुपह्वयते । पशवो वा इडा । तस्माथ्साऽन्वारभ्या । अध्वर्युणा च यजमानेन च । उपहूतः पशुमानसानीत्याह । उप ह्येनौ ह्वयते होता । इडायै देवतानामुपहवे । उपहूतः पशुमान्भवति । य एवं वेद ॥ ३। ३। ८। ४॥ ५३ यां वै हस्त्यामिडामादधाति । वाचः सा भागधेयम् । यामुपह्वयते । प्राणानाꣳ सा । वाचं चैव प्राणाग्श्चावरुन्धे । अथ वा एतर्ह्युपहूतायामिडायाम् । पुरोडाशस्यैव बर्हिषदो मीमाꣳसा । यजमानं देवा अब्रुवन् । हविर्नो निर्वपेति । नाहमभागो निर्वप्स्यामीत्यब्रवीत् ॥ ३। ३। ८। ५॥ ५४ न मयाऽभागयाऽनु वक्ष्यथेति वागब्रवीत् । नाहमभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या । नाहमभागा याज्या भविष्यामीति याज्या । न मया भागेन वषट्करिष्यथेति वषट्कारः । यद्यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति । तानेव तद्भागिनः करोति । चतुर्धा करोति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति । बर्हिषदं करोति ॥ ३। ३। ८। ६॥ ५५ यजमानो वै पुरोडाशः । प्रजा बर्हिः । यजमानमेव प्रजासु प्रतिष्ठापयति । तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति । माꣳसेनान्याः । अथो खल्वाहुः । दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्यवरुध्यन्ते । यत्पुरोडाशं बर्हिषदं करोतीति । चतुर्धा करोति । चत्वारो ह्येते हविर्यज्ञस्यर्त्विजः ॥ ३। ३। ८। ७॥ ५६ ब्रह्मा होताऽध्वर्युरग्नीत् । तमभिमृशेत् । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीध इति । यथैवादः सौम्येऽध्वरे । आदेशमृत्विग्भ्यो दक्षिणा नीयन्ते । तादृगेव तत् । अग्नीधे प्रथमाया दधाति ॥ ३। ३। ८। ८॥ ५७ अग्निमुखा ह्यृद्धिः । अग्निमुखामेवेर्द्धिं यजमान ऋध्नोति । सकृदुपस्तीर्य द्विरादधत् । उपस्तीर्य द्विरभिघारयति । षट्थ् संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागं परिहरति । प्राजापत्यो वै वेदः । प्राजापत्यो ब्रह्मा ॥ ३। ३। ८। ९॥ ५८ सविता यज्ञस्य प्रसूत्यै । अथ काममन्येन । ततो होत्रे । मध्यं वा एतद्यज्ञस्य । यद्धोता । मध्यत एव यज्ञं प्रीणाति । अथाध्वर्यवे । प्रतिष्ठा वा एषा यज्ञस्य । यदध्वर्युः । तस्माद्धविर्यज्ञस्यैतामेवावृतमनु ॥ ३। ३। ८। १०॥ ५९ अन्या दक्षिणा नीयन्ते । यज्ञस्य प्रतिष्ठित्यै । अग्निमग्नीथ्सकृथ्सकृथ्संमृढ्ढीत्याह । पराङिव ह्येतर्हि यज्ञः । इषिता दैव्याहोतार इत्याह । इषितꣳ हि कर्म क्रियते । भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्याह । आशिषमेवैतामाशास्ते । स्वगा दैव्याहोतृभ्य इत्याह । यज्ञमेव तथ्स्वगा करोति । स्वस्तिर्मानुषेभ्य इत्याह । आशिषमेवैतामाशास्ते । शंयोर्ब्रूहीत्याह । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयति ॥ ३। ३। ८। ११॥ चरत्यध्वर्युः प्रजातिर्ह्वयते वेदाब्रवीद्बर्हिषदं करोत्यृत्विजो दधाति ब्रह्माऽनुकरोति चत्वारि च ॥ ८॥ ६० अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति । प्रतिष्ठा वा अनुष्टुक् । अन्नं वाजः प्रतिष्ठित्यै । अन्नाद्यस्यावरुध्यै । प्राचीं जुहूमूहति । जातानेव भ्रातृव्यान्प्रणुदते । प्रतीचीमुपभृतम् । जनिष्यमाणानेव प्रतिनुदते । स विषूच एवापोह्य सपत्नान् यजमानः । अस्मिं ल्लोके प्रतितिष्ठति ॥ ३। ३। ९। १॥ ६१ द्वाभ्याम् । द्विप्रतिष्ठो हि । वसुभ्यस्त्वा रुद्रेभ्यस्त्वाऽऽदित्येभ्यस्त्वेत्याह । यथायजुरेवैतत् । स्रुक्षु प्रस्तरमनक्ति । इमे वै लोकाः स्रुचः । यजमानः प्रस्तरः । यजमानमेव तेजसाऽनक्ति । त्रेधाऽनक्ति । त्रय इमे लोकाः ॥ ३। ३। ९। २॥ ६२ एभ्य एवैनं लोकेभ्योऽनक्ति । अभिपूर्वमनक्ति । अभिपूर्वमेव यजमानं तेजसाऽनक्ति । अक्तꣳ रिहाणा इत्याह । तेजो वा आज्यम् । यजमानः प्रस्तरः । यजमानमेव तेजसाऽनक्ति । वियन्तु वय इत्याह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति ॥ ६३ प्रजां योनिं मा निर्मृक्षमित्याह । प्रजायै गोपीथाय । आप्यायन्तामाप ओषधय इत्याह । आप एवौषधीराप्याययति मरुतां पृषतयः स्थेत्याह । मरुतो वै वृष्ट्या ईशते । वृष्टिमेवावरुन्धे । दिवं गच्छ ततो नो वृष्टिमेरयेत्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे ॥ ३। ३। ९। ४॥ ६४ यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते । आयुष्पा अग्नेऽस्यायुर्मे पाहीत्याह । आयुरेवाऽऽत्मन्धत्ते । यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्य चक्षुर्मीयते । चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्याह । चक्षुरेवात्मन्धत्ते । ध्रुवाऽसीत्याह प्रतिष्ठित्यै । यं परिधिं पर्यधत्था इत्याह ॥ ३। ३। ९। ५॥ ६५ यथायजुरेवैतत् । अग्ने देवपणिभिर्वीर्यमाण इत्याह । अग्नय एवैनं जुष्टं करोति । तं त एतमनुजोषं भरामीत्याह । सजातानेवास्मा अनुकान्करोति । नेदेष त्वदपचेतया ता इत्याहानुख्यात्यै । यज्ञस्य पाथ उपसमितमित्याह । भूमानमेवोपैति । परिधीन्प्रहरति । यज्ञस्य समिष्ट्यै ॥ ३। ३। ९। ६॥ ६६ स्रुचौ संप्रस्रावयति । यदेव तत्र क्रूरम् । तत्तेन शमयति । जुह्वामुपभृतम् । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । यजमानायैव भ्रातृव्यमुपस्तिं करोति । सग्ग्स्रावभागाः स्थेत्याह । वसवो वै रुद्रा आदित्याः सग्ग्स्रावभागाः । तेषां तद्भागधेयम् ॥ ३। ३। ९। ७॥ ६७ तानेव तेन प्रीणाति । वैश्वदेव्यर्चा । एते हि विश्वे देवाः । त्रिष्टुग्भवति । इन्द्रियं वै त्रिष्टुक् । इन्द्रियमेव यजमाने दधाति । अग्नेर्वामपन्नगृहस्य सदसि सादयामीत्याह । इयं वा अग्निरपन्नगृहः । अस्या एवैने सदने सादयति । सुम्नाय सुम्निनी सुम्ने मा धत्तमित्याह ॥ ३। ३। ९। ८॥ ६८ प्रजा वै पशवः सुम्नम् । प्रजामेव पशूनात्मन्धत्ते । धुरि धुर्यौ पातमित्याह । जायापत्योर्गोपीथाय । अग्नेऽदब्धायोऽशीततनो इत्याह । यथायजुरेवैतत् । पाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादित्याह । आशिषमेवैतामाशास्ते । अविषं नः पितुं कृणु सुषदा योनिग्ग् स्वाहेतीध्म संवृश्चनान्यन्वाहार्यपचनेऽभ्याधाय फलीकरणहोमं जुहोति । अतिरिक्तानि वा इध्मसंवृश्चनानि ॥ ३। ३। ९। ९॥ ६९ अतिरिक्ताः फलीकरणाः । अतिरिक्तमाज्योच्छेषणम् । अतिरिक्त एवातिरिक्तं दधाति । अथो अतिरिक्तेनैवातिरिक्तमाप्त्वाऽवरुन्धे । वेदिर्देवेभ्यो निलायत । तां वेदेनान्वविन्दन् । वेदेन वेदिं विविदुः पृथिवीम् । सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तः । ततो यज्ञो जायते विश्वदानिरिति पुरस्ताथ्स्तम्बयजुषो वेदेन वेदिꣳ संमार्ष्ट्यनुवित्त्यै ॥ ३। ३। ९। १०॥ ७० अथो यद्वेदश्च वेदिश्च भवतः । मिथुनत्वाय प्रजात्यै । प्रजापतेर्वा एतानि श्मश्रूणि । यद्वेदः । पत्निया उपस्थ आस्यति । मिथुनमेव करोति । विन्दते प्रजाम् । वेदꣳ होताऽऽहवनीयाथ्स्तृणन्नेति । यज्ञमेव तथ्संतनोत्योत्तरस्मादर्धमासात् । तꣳ संततमुत्तरेऽर्धमास आलभते ॥ ३। ३। ९। ११॥ ७१ तं काले काल आगते यजते । ब्रह्मवादिनो वदन्ति । स त्वा अध्वर्युः स्यात् । यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते । देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह । यत एव यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ॥ ३। ३। ९। १२॥ तिष्ठतीमे लोका गमयति द्यौर्वृष्टिमेवावरुन्धे पर्यधत्था इत्याह समिष्ट्यै भागधेयं धत्तमित्याह वा इध्मसंवृश्चनान्यनुवित्त्यै लभते यजमानः ॥ ९॥ ७२ यो वा अयथादेवतं यज्ञमुपचरति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । योऽयथादेवतम् । न देवताभ्य आवृश्च्यते । वसीयान्भवति । वारुणो वै पाशः । इमं विष्यामि वरुणस्य पाशमित्याह । वरुणपाशादेवैनां मुञ्चति । सवितृप्रसूतो यथादेवतम् ॥ ३। ३। १०। १॥ ७३ न देवताभ्य आवृश्च्यते । वसीयान्भवति । धातुश्च योनौ सुकृतस्य लोक इत्याह । अग्निर्वै धाता । पुण्यं कर्म सुकृतस्य लोकः । अग्निरेवैनां धाता । पुण्ये कर्मणि सुकृतस्य लोके दधाति । स्योनं मे सह पत्या करोमीत्याह । आत्मनश्च यजमानस्य चानात्यै संत्वाय । समायुषा सं प्रजयेत्याह ॥ ३। ३। १०। २॥ ७४ आशिषमेवैतामाशास्ते पूर्णपात्रे । अन्ततोऽनुष्टुभा । चतुष्पद्वा एतच्छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति । अस्मिं ल्लोके प्रतितिष्ठानीति । अस्मिन्नेव लोके प्रतितिष्ठति । अथो वाग्वा अनुष्टुक् । वाङ्मिथुनम् । आपो रेतः प्रजननम् । एतस्माद्वै मिथुनाद्विद्योतमानः स्तनयन्वर्षति । रेतः सिञ्चन् ॥ ३। ३। १०। ३॥ ७५ प्रजाः प्रजनयन्न् । यद्वै यज्ञस्य ब्रह्मणा युज्यते । ब्रह्मणा वै तस्य विमोकः । अद्भिः शान्तिः । विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा । आदायैनत्पत्नी सहाप उपगृह्णीते शान्त्यै । अञ्जलौ पूर्णपात्रमानयति । रेत एवास्यां प्रजां दधाति । प्रजया हि मनुष्यः पूर्णः । मुखं विमृष्टे । अवभृथस्यैव रूपं कृत्वोत्तिष्ठति ॥ ३। ३। १०। ४॥ सवितृप्रसूतो यथादेवतं प्रजयेत्याह सिञ्चन्मृष्ट एकं च ॥ १०॥ ७६ परिवेषो वा एष वनस्पतीनाम् । यदुपवेषः । य एवं वेद । विन्दते परिवेष्टारम् । तमुत्करे । यं देवा मनुष्येषु । उपवेषमधारयन् । ये अस्मदप चेतसः । तानस्मभ्यमिहाकुरु । उपवेषोपविड्ढि नः ॥ ३। ३। ११। १॥ ७७ प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदः । ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुपगूहति । तस्मात्पुरस्तात्प्रत्यञ्चः शूद्रा अवस्यन्ति । स्थविमत उपगूहति । अप्रतिवादिन एवैनान्कुरुते । धृष्टिर्वा उपवेषः । शुचर्तो वज्रो ब्रह्मणा सꣳशितः । योपवेषे शुक् । साऽमुमृच्छतु यं द्विष्म इति ॥ ३। ३। ११। २॥ ७८ अथास्मै नामगृह्य प्रहरति । निरमुं नुद ओकसः । सपत्नो यः पृतन्यति । निर्बाध्येन हविषा । इन्द्र एणं पराशरीत् । इहि तिस्रः परावतः । इहि पञ्चजनाꣳ अति । इहि तिस्रोऽति रोचनायावत् । सूऱ्यो असद्दिवि । परमां त्वा परावतम् ॥ ३। ३। ११। ३॥ ७९ इन्द्रो नयतु वृत्रहा । यतो न पुनरायसि । शश्वतीभ्यः समाभ्य इति । त्रिवृद्वा एष वज्रो ब्रह्मणा सꣳशितः । शुचैवैनं विद्ध्वा । एभ्यो लोकेभ्यो निर्णुद्य । वज्रेण ब्रह्मणा स्तृणुते । हतोऽसाववधिष्मामुमित्याह स्तृत्यै । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति ॥ ३। ३। ११। ४॥ नोद्विष्म इति परावतमर्पयति ॥ ११॥ प्रत्युष्टं दिवः शिल्पमयज्ञो घृतं च देवासुराः स एतमिन्द्र आपो देवीरग्निना धिष्णिया अथ स्रुचौ यो वा अयथादेवतं परिवेषो वा एकादश ॥ ११॥ प्रत्युष्टमयज्ञ एषा हि विश्वेषां देवानामूर्जा पृथिवीमथो रक्षसां तां प्रजातिं द्वाभ्यां तं कालेकाले नवसप्ततिः ॥ ७९॥ प्रत्युष्टꣳ शुचैवैनमर्पयति ॥

तृतीयाष्टके चतुर्थः प्रपाठकः ४

१ ब्रह्मणे ब्राह्मणमालभते । क्षत्त्राय राजन्यम् । मरुद्भ्यो वैश्यम् । तपसे शूद्रम् । तमसे तस्करम् । नारकाय वीरहणम् । पाप्मने क्लीबम् । आक्रयायायोगूम् । कामाय पु२ꣳश्चलूम् । अतिक्रुष्टाय मागधम् ॥ ३। ४। १। १॥ ॥ १॥ २ गीताय सूतम् । नृत्ताय शैलूषम् । धर्माय सभाचरम् । नर्माय रेभम् । नरिष्ठायै भीमलम् । हसाय कारिम् । आनन्दाय स्त्रीषखम् । प्रमुदे कुमारीपुत्रम् । मेधायै रथकारम् । धैर्याय तक्षाणम् ॥ ३। ४। २। १॥ ॥ २॥ ३ श्रमाय कौलालम् । मायायै कार्मारम् । रूपाय मणिकारम् । शुभे वपम् । शरव्याया इषुकारम् । हेत्यै धन्वकारम् । कर्मणे ज्याकारम् । दिष्टाय रज्जुसर्गम् । मृत्यवे मृगयुम् । अन्तकाय श्वनितम् ॥ ३। ४। ३। १॥ ॥ ३॥ ४ सन्धये जारम् । गेहायोपपतिम् । निरृत्यै परिवित्तम् । आर्त्यै परिविविदानम् । अराध्यै दिधिषूपतिम् । पवित्राय भिषजम् । प्रज्ञानाय नक्षत्रदर्शम् । निष्कृत्यै पेशस्कारीम् । बलायोपदाम् । वर्णायानूरुधम् ॥ ३। ४। ४। १॥ ॥ ४॥ ५ नदीभ्यः पौंजिष्टम् । ऋक्षीकाभ्यो नैषादम् । पुरुषव्याघ्राय दुर्मदम् । प्रयुद्भ्य उन्मत्तम् । गन्धर्वाफ्सराभ्यो व्रात्यम् । सर्पदेवजनेभ्योऽप्रतिपदम् । अवेभ्यः कितवम् । इर्यताया अकितवम् । पिशाचेभ्यो बिदलकारम् । यातुधानेभ्यः कण्टककारम् ॥ ३। ४। ५। ५॥ ॥ ५॥ ६ उथ्सादेभ्यः कुब्जम् । प्रमुदे वामनम् । द्वार्भ्यः स्रामम् । स्वप्नायान्धम् । अधर्माय बधिरम् । संज्ञानाय स्मरकारीम् । प्रकामोद्यायोपसदम् । आशिक्षायै प्रश्निनम् । उपशिक्षाया अभिप्रश्निनम् । मर्यादायै प्रश्नविवाकम् ॥ ३। ४। ६। ६॥ ॥ ६॥ ७ ऋत्यै स्तेनहृदयम् । वैरहत्याय पिशुनम् । विवित्त्यै क्षत्तारम् । औपद्रष्टाय संग्रहीतारम् । बलायानुचरम् । भूम्ने परिष्कन्दम् । प्रियाय प्रियवादिनम् । अरिष्ट्या अश्वसादम् । मेधाय वासः पल्पूलीम् । प्रकामाय रजयित्रीम् ॥ ३। ४। ७। १॥ ॥ ७॥ ८ भायै दार्वाहारम् । प्रभाया आग्नेन्धम् । नाकस्य पृष्ठायाभिषेक्तारम् । ब्रध्नस्य विष्टपाय पात्रनिर्णेगम् । देवलोकाय पेशितारम् । मनुष्यलोकाय प्रकरितारम् । सर्वेभ्यो लोकेभ्य उपसेक्तारम् । अवर्त्यै वधायोपमन्थितारम् । सुवर्गाय लोकाय भागदुघम् । वर्षिष्ठाय नाकाय परिवेष्टारम् ॥ ३। ४। ८। १॥ ॥ ८॥ ९ अर्मेभ्यो हस्तिपम् । जवायाश्वपम् । पुष्ट्यै गोपालम् । तेजसेऽजपालम् । वीर्यायाविपालम् । इरायै कीनाशम् । कीलालाय सुराकारम् । भद्राय गृहपम् । श्रेयसे वित्तधम् । अध्यक्षायानुक्षत्तारम् ॥ ३। ४। ९। १॥ ॥ ९॥ १० मन्यवेऽयस्तापम् । क्रोधाय निसरम् । शोकायाभिसरम् । उत्कूलविकूलाभ्यां त्रिस्थिनम् । योगाय योक्तारम् । क्षेमाय विमोक्तारम् । वपुषे मानस्कृतम् । शीलायाञ्जनीकारम् । निरृत्यै कोशकारीम् । यमायासूम् ॥ ३। ४। १०। १॥ ॥ १०॥ ११ यम्यै यमसूम् । अथर्वभ्योऽवतोकाम् । संवथ्सराय पर्यारिणीम् । परिवथ्सरायाविजाताम् । इदावथ्सरायापस्कद्वरीम् । इद्वथ्सरायातीत्वरीम् । वथ्सराय विजर्जराम् । सर्वंथ्सराय पलिक्नीम् । वनाय वनपम् । अन्यतोऽरण्याय दावपम् ॥ ३। ४। ११। १॥ ॥ ११॥ १२ सरोभ्यो धैवरम् । वेशन्ताभ्यो दाशम् । उपस्थावरीभ्यो बैन्दम् । नड्वलाभ्यः शौष्कलम् । पार्याय कैवर्तम् । अवार्याय मार्गारम् । तीर्थेभ्य आन्दम् । विषमेभ्यो मैनालम् । स्वनेभ्यः पर्णकम् । गुहाभ्यः किरातम् । सानुभ्यो जम्भकम् । पर्वतेभ्यः किंपूरुषम् ॥ ३। ४। १२। १॥ ॥ १२॥ १३ प्रतिश्रुत्काया ऋतुलम् । घोषाय भषम् । अन्ताय बहुवादिनम् । अनन्ताय मूकम् । महसे वीणावादम् । क्रोशाय तूणवध्मम् । आक्रन्दाय दुन्दुभ्याघातम् । अवरस्पराय शङ्खध्मम् । ऋभुभ्योऽजिनसन्धायम् । साध्येभ्यश्चर्मम्णम् ॥ ३। ४। १३। १॥ ॥ १३॥ १४ बीभथ्सायै पौल्कसम् । भूत्यै जागरणम् । अभूत्यै स्वपनम् । तुलायै वाणिजम् । वर्णाय हिरण्यकारम् । विश्वेभ्यो देवेभ्यः सिध्मलम् । पश्चाद्दोषाय ग्लावम् । ऋत्यै जनवादिनम् । व्यृद्ध्या अपगल्भम् । सꣳशराय प्रच्छिदम् ॥ ३। ४। १४। १॥ ॥ १४॥ १५ हसाय पु२ꣳश्चलूमालभते । वीणावादं गणकं गीताय । यादसे शाबुल्याम् । नर्माय भद्रवतीम् । तूष्णवध्मं ग्रामण्यं पाणिसंघातं नृत्ताय । मोदायानुक्रोशकम् । आनन्दाय तलवम् ॥ ३। ४। १५। १॥ ॥ १५॥ १६ अक्षराजाय कितवम् । कृताय सभाविनम् । त्रेताया आदिनवदर्शम् । द्वापराय बहिःसदम् । कलये सभास्थाणुम् । दुष्कृताय चरकाचार्यम् । अध्वने ब्रह्मचारिणम् । पिशाचेभ्यः सैलगम् । पिपासायै गोव्यच्छम् । निरृत्यै गोघातम् । क्षुधे गोविकर्तम् । क्षुत्तृष्णाभ्यां तम् । यो गां विकृन्तन्तं माꣳसं भिक्षमाण उपतिष्ठते ॥ ३। ४। १६। १॥ ॥ १६॥ १७ भूम्यै पीठसर्पिणमालभते । अग्नयेऽꣳसलम् । वायवे चाण्डालम् । अन्तरिक्षाय वꣳशनर्तिनम् । दिवे खलतिम् । सूर्याय हर्यक्षम् । चन्द्रमसे मिर्मिरम् । नक्षत्रेभ्यः किलासम् । अह्ने शुक्लं पिङ्गलम् । रात्रियै कृष्णं पिङ्गाक्षम् ॥ ३। ४। १७। १॥ ॥ १७॥ १८ वाचे पुरुषमालभते । प्राणमपानं व्यानमुदानꣳ समानं तान्, वायवे । सूर्याय चक्षुरालभते । मनश्चन्द्रमसे । दिग्भ्यः श्रोत्रम् । प्रजापतये पुरुषम् ॥ ३। ४। १८। १॥ ॥ १८॥ १९ अथैतानरूपेभ्य आलभते । अतिह्रस्वमतिदीर्घम् । अतिकृशमत्यꣳसलम् । अतिशुक्लमतिकृष्णम् । अतिश्लक्ष्णमतिलोमशम् । अतिकिरिटमतिदन्तुरम् । अतिमिर्मिरमतिमेमिषम् । आशायै जामिम् । प्रतीक्षायै कुमारीम् ॥ ३। ४। १९। १॥ ॥ १९॥ ब्रह्मणे गीताय श्रमाय सन्धये नदीभ्य उथ्सादेभ्य ऋत्यैभाया अर्मेभ्यो मन्यवे यम्यै दशदश सरोभ्यो द्वादश प्रतिश्रुत्कायै बीभथ्सायै दशदश हसाय सप्ताख्ष राजाय त्रयोदश भूम्यै दश वाचे षडथ नवैकान्न विꣳशतिः ॥ १९॥ ब्रह्मणे यम्यै नवदश ॥ १९॥ ब्रह्मणे कुमारीम् ॥

तृतीयाष्टके पञ्चमः प्रपाठकः ५

१ सत्यं प्रपद्ये । ऋतं प्रपद्ये । अमृतं प्रपद्ये । प्रजापतेः प्रियां तनुवमनार्तां प्रपद्ये । इदमहं पञ्चदशेन वज्रेण । द्विषन्तं भ्रातृव्यमवक्रामामि । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । भूर्भुवः सुवः । हिम् ॥ ३। ५। १। १॥ सत्यं दश ॥ १॥ २ प्र वो वाजा अभिद्यवः । हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः । अग्न आयाहि वीतये । गृणानो हव्यदातये । निहोता सथ्सि बर्हिषि । तं त्वा समिद्भिरङ्गिरः । घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । स नः पृथु श्रवाय्यम् ॥ ३। ५। २। १॥ ३ अच्छा देव विवाससि । बृहदग्ने सुवीर्यम् । ईडेन्यो नमस्यस्तिरः । तमाꣳसि दर्शतः । समग्निरिद्ध्यते वृषा । वृषो अग्निः समिद्ध्यते । अश्वो न देववाहनः । तꣳ हविष्मन्त ईडते । वृषणं त्वा वयं वृषन् । वृषाणः समिधीमहि ॥ ३। ५। २। २॥ ४ अग्ने दीद्यतं बृहत् । अग्निं दूतं वृणीमहे । होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । समिद्ध्यमानो अध्वरे । अग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे । समिद्धो अग्न आहुत । देवान्, यक्षि स्वध्वर । त्वꣳ हि हव्यवाडसि । आजुहोत दुवस्यत । अग्निं प्रयत्यध्वरे । वृणीध्वꣳ हव्यवाहनम् । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ॥ ३। ५। २। ३॥ श्रवाय्यमिधीमह्यसि सप्त च ॥ २॥ ५ अग्ने महाꣳ असि ब्राह्मण भारत । असावसौ । देवेद्धो मन्विद्धः । ऋषिष्टुतो विप्रानुमदितः । कविशस्तो ब्रह्मसꣳशितो घृताहवनः । प्रणीर्यज्ञानाम् । रथीरध्वराणाम् । अतूर्तो होता । तूर्णिर्हव्यवाट् । आस्पात्रं जुहूर्देवानाम् ॥ ३। ५। ३। १॥ ६ चमसो देवपानः । अराꣳ इवाग्ने नेमिर्देवाग्स्त्वं परिभूरसि । आवह देवान्, यजमानाय । अग्निमग्न आवह । सोममावह । अग्निमावह । प्रजापतिमावह । अग्नीषोमावावह । इन्द्राग्नी आवह । इन्द्रमावह । महेन्द्रमावह । देवाꣳ आज्यपाꣳ आवह । अग्निꣳ होत्रायावह । स्वं महिमानमावह । आ चाग्ने देवान्, वह । सुयजा च यज जातवेदः ॥ ३। ५। ३। २॥ देवानामिन्द्रमावह षट्च ॥ ३॥ ७ अग्निर्होता वेत्वग्निः । होत्रं वेत्तु प्रावित्रम् । स्मो वयम् । साधु ते यजमान देवता । घृतवतीमध्वऱ्यो स्रुचमास्यस्व । देवायुवं विश्ववाराम् । ईडामहै देवाꣳ ईडेऽन्यान् । नमस्याम नमस्यान् । यजाम यज्ञियान् ॥ ३। ५। ४। १॥ अग्निर्होता नव ॥ ४॥ ८ समिधो अग्न आज्यस्य वियन्तु । तनूनपादग्न आज्यस्य वेतु । इडो अग्न आज्यस्य वियन्तु । बर्हिरग्न आज्यस्य वेतु । स्वाहाऽग्निम् । स्वाहा सोमम् । स्वाहाऽग्निम् । स्वाहा प्रजापतिम् । स्वाहाग्नीषोमौ । स्वाहेन्द्राग्नी । स्वाहेन्द्रम् । स्वाहा महेन्द्रम् । स्वाहा देवाꣳ आज्यपान् । स्वाहाऽग्निꣳ होत्राज्जुषाणाः । अग्न आज्यस्य वियन्तु ॥ ३। ५। ५। १॥ इन्द्राग्नी पञ्च च ॥ ५॥ ९ अग्निर्वृत्राणि जङ्घनत् । द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः । जुषाणो अग्निराज्यस्य वेतु । त्वꣳ सोमासि सत्पतिः । त्वꣳ राजोत वृत्रहा । त्वं भद्रो असिक्रतुः । जुषाणः सोम आज्यस्य हविषो वेतु । अग्निः प्रत्नेन जन्मना । शुम्भानस्तनुवग्ग् स्वाम् । कविर्विप्रेण वावृधे । जुषाणो अग्निराज्यस्य वेतु । सोम गीर्भिष्ट्वा वयम् । वर्धयामो वचोविदः । सुमृडीको न आविश । जुषाणः सोम आज्यस्य हविषो वेतु ॥ ३। ५। ६। १॥ स्वाꣳ षट्च ॥ ६॥ १० अग्निर्मूर्धा दिवः ककुत् । पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति । भुवो यज्ञस्य रजसश्च नेता । यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षाम् । जिह्वामग्ने चकृषे हव्यवाहम् । प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु ॥ ३। ५। ७। १॥ ११ वय२ꣳ स्याम पतयो रयीणाम् । स वेद पुत्रः पितरꣳ स मातरम् । स सूनुर्भुवथ्स भुवत्पुनर्मघः । स द्यामौर्णोदन्तरिक्षꣳ स सुवः । स विश्वा भुवो अभवथ्स आभवत् । अग्नीषोमा सवेदसा । सहूती वनतं गिरः । सं देवत्रा बभूवथुः । युवमेतानि दिवि रोचनानि । अग्निश्च सोम सक्रतू अधत्तम् ॥ ३। ५। ७। २॥ १२ युवꣳ सिन्धूꣳ रभिशस्तेरवद्यात् । अग्नीषोमावमुञ्चतं गृभीतान् । इन्द्राग्नी रोचना दिवः । परि वाजेषु भूषथः । तद्वाञ्चेति प्रवीर्यम् । श्नथद्वृत्रमुत सनोति वाजम् । इन्द्रायो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः । सहस्तमा सहसा वाजयन्ता । एन्द्र सानसिꣳ रयिम् ॥ ३। ५। ७। ३॥ १३ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर । प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्राभर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । महाꣳ इन्द्रो य ओजसा । पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वथ्सस्य वावृधे । महाꣳ इन्द्रो नृवदाचर्षणिप्राः ॥ ३। ५। ७। ४॥ १४ उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग्वावृधे वीर्याय । उरुः पृथुः सुकृतः कर्तृभिर्भूत् । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳ रृतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने । त्वꣳ होतॄणामस्या यजिष्ठः । अग्नि२ꣳ स्विष्टकृतम् । अयाडग्निरग्नेः प्रिया धामानि । अयाट्थ्सोमस्य प्रिया धामानि ॥ ३। ५। ७। ५॥ १५ अयाडग्नेः प्रिया धामानि । अयाट्प्रजापतेः प्रिया धामानि । अयाडग्नीषोमयोः प्रिया धामानि । अयाडिन्द्राग्नियोः प्रिया धामानि । अयाडिन्द्रस्य प्रिया धामानि । अयाण्महेन्द्रस्य प्रिया धामानि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः प्रिया धामानि । यक्षथ्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यदद्य विशो अध्वरस्य होतः । पावक शोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वियद्भूः । हव्या वह यविष्ठया ते अद्य ॥ ३। ५। ७। ६॥ अस्त्वधत्तꣳ रयिं चर्षणिप्राः सोमस्य प्रिया धामानीषष्षट्च ॥ ७॥ १६ उपहूतꣳ रथन्तरꣳ सह पृथिव्या । उप मा रथन्तरꣳ सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यꣳ सहान्तरिक्षेण । उप मा वामदेव्यꣳ सहान्तरिक्षेण ह्वयताम् । उपहूतं बृहथ्सह दिवा । उप मा बृहथ्सह दिवा ह्वयताम् । उपहूताः सप्त होत्राः । उप मा सप्तहोत्रा ह्वयन्ताम् । उपहूता धेनुः सहर्षभा । उप मा धेनुः सहर्षभा ह्वयताम् ॥ ३। ५। ८। १॥ १७ उपहूतो भक्षः सखा । उप मा भक्षः सखा ह्वयताम् । उपहूता ४ ं हो । इडोपहूता । उपहूतेडा । उपो अस्माꣳ इडा ह्वयताम् । इडोपहूता । उपहूतेडा । मानवी घृतपदी मैत्रावरुणी । ब्रह्मदेवकृतमुपहूतम् ॥ ३। ५। ८। २॥ १८ दैव्या अध्वर्यव उपहूताः । उपहूता मनुष्याः । य इमं यज्ञमवान् । ये यज्ञपतिं वर्धान् । उपहूते द्यावापृथिवी । पूर्वजे ऋतावरी । देवी देवपुत्रे । उपहूतोऽयं यजमानः । उत्तरस्यां देवयज्यायामुपहूतः । भूयसि हविष्करण उपहूतः । दिव्ये धामन्नुपहूतः । इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूतः । विश्वमस्य प्रियमुपहूतम् । विश्वस्य प्रियस्योपहूतस्योपहूतः ॥ ३। ५। ८। ३॥ सहर्षभा ह्वयतामुपहूतꣳ हविष्करण उपहूतश्चत्वारि च ॥ ८॥ १९ देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत् । सुद्रविणा मन्द्रः कविः । सत्यमन्माऽऽयजी होता । होतुर्होतुरायजीयान् । अग्ने यान्देवानयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमथ्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञमेरयेमम् । स्विष्टकृच्चाग्ने होताऽभूः । वसुवने वसुधेयस्य नमोवाके वीहि ॥ ३। ५। ९। १॥ अपिप्रे पञ्च च ॥ ९॥ २० इदं द्यावापृथिवी भद्रमभूत् । आर्ध्म सूक्तवाकम् । उत नमोवाकम् । ऋध्यास्म सूक्तोच्यमग्ने । त्वꣳ सूक्तवागसि । उपश्रितो दिवः पृथिव्योः । ओमन्वती तेऽस्मिन्, यज्ञे यजमान द्यावापृथिवी स्ताम् । शङ्गये जीरदानू । अत्रस्नू अप्रवेदे । उरुगव्यूती अभयं कृतौ ॥ ३। ५। १०। १॥ २१ वृष्टिद्यावारीत्यापा । शम्भुवौ मयोभुवौ । ऊर्जस्पती च पयस्वती च । सूपचरणा च स्वधिचरणा च । तयोराविदि । अग्निरिदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । सोम इदꣳ हविरजुषत । अवीवृधत महोज्यायोऽकृत । अग्निरिदꣳ हविरजुषत ॥ ३। ५। १०। २॥ २२ अवीवृधत महोज्यायोऽकृत । प्रजापतिरिदꣳ हविरजुषत । अवीवृधत महोज्यायोऽकृत । अग्नीषोमाविदꣳ हविरजुषेताम् । अवीवृधेतां महोज्यायोऽक्राताम् । इन्द्राग्नी इदꣳ हविरजुषेताम् । अवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र इदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । महेन्द्र इदꣳ हविरजुषत ॥ ३। ५। १०। ३॥ २३ अवीवृधत महो ज्यायोऽकृत । देवा आज्यपा आज्यमजुषन्त । अवीवृधन्त महोज्यायोऽक्रत । अग्निर्होत्रेणेदꣳ हविरजुषत । अवीवृधत महोज्यायोऽकृत । अस्यामृधद्धोत्रायां देवंगमायाम् । आशास्तेऽयं यजमानोऽसौ । आयुराशास्ते । सुप्रजास्त्वमाशास्ते । सजातवनस्यामाशास्ते ॥ ३। ५। १०। ४॥ २४ उत्तरां देवयज्यामाशास्ते । भूयो हविष्करणमाशास्ते । दिव्यं धामाशास्ते । विश्वं प्रियमाशास्ते । यदनेन हविषाऽऽशास्ते । तदश्यात्तदृद्ध्यात् । तदस्मै देवा रासन्ताम् । तदग्निर्देवो देवेभ्यो वनते । वयमग्नेर्मानुषाः । इष्टं च वीतं च । उभे च नो द्यावापृथिवी अꣳहसः स्पाताम् । इह गतिर्वामस्येदं च । नमो देवेभ्यः ॥ ३। ५। १०। ५॥ अभयंकृतावकृताग्निरिदꣳ हविरजुषत महेन्द्र इदꣳ हविरजुषत सजातवनस्यामाशास्ते वीतं च त्रीणि च ॥ १०॥ २५ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ ३। ५। ११। १॥ तच्छंयोरष्टौ ॥ ११॥ २६ आप्यायस्व सं ते । इह त्वष्टारमग्रियं तन्नस्तुरीपम् । देवानां पत्नीरुशतीरवन्तु नः । प्रावन्तु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते । ता नो देवीः सुहवाः शर्म यच्छत । उतग्ना वियन्तु देवपत्नीः । इन्द्राण्यग्नाय्यश्विनी राट् । आ रोदसी वरुणानी श‍ृणोतु । वियन्तु देवीर्य ऋतुर्जनीनाम् ॥ अग्निर्होता गृहपतिः स राजा । विश्वा वेद जनिमा जातवेदाः । देवानामुत यो मर्त्यानाम् । यजिष्ठः स प्रयजतामृता वा । वयमु त्वा गृहपते जनानाम् । अग्ने अकर्म समिधा बृहन्तम् । अस्थूरिणो गार्हपत्यानि सन्तु । तिग्मेन नस्तेजसा सꣳशिशाधि ॥ ३। ५। १२। १॥ जनीनामष्टौ च ॥ १२॥ २७ उपहूतꣳ रथन्तरꣳ सह पृथिव्या । उप मा रथन्तरꣳ सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यꣳ सहान्तरिक्षेण । उप मा वामदेव्यꣳ सहान्तरिक्षेण ह्वयताम् । उपहूतं बृहथ्सह दिवा । उप मा बृहथ्सह दिवा ह्वयताम् । उपहूताः सप्तहोत्राः । उप मा सप्तहोत्रा ह्वयन्ताम् । उपहूता धेनुः सहर्षभा । उप मा धेनुः सहर्षभा ह्वयताम् ॥ ३। ५। १३। १॥ २८ उपहूतो भक्षः सखा । उप मा भक्षः सखा ह्वयताम् । उपहूता ४ ं हो । इडोपहूता । उपहूतेडा । उपो अस्माꣳ इडा ह्वयताम् । इडोपहूता । उपहूतेडा । मानवी घृतपदी मैत्रावरुणी । ब्रह्म देवकृतमुपहूतम् ॥ ३। ५। १३। २॥ २९ दैव्या अध्वर्यव उपहूताः । उपहूता मनुष्याः । य इमं यज्ञमवान् । ये यज्ञपत्नीं वर्धान् । उपहूते द्यावापृथिवी । पूर्वजे ऋतावरी । देवी देवपुत्रे । उपहूतेयं यजमाना । इन्द्राणीवाविधवा । अदितिरिव सुपुत्रा । उत्तरस्यां देवयज्यायामुपहूता । भूयसि हविष्करण उपहूता । दिव्ये धामन्नुपहूता । इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूता । विश्वमस्याः प्रियमुपहूतम् । विश्वस्य प्रियस्योप हूतस्योपहूता ॥ ३। ५। १३। ३॥ सहर्षभा ह्वयतामुपहूतꣳ सुपुत्रा षट्च ॥ १३॥ सत्यं प्रवोऽग्ने महानग्निर्होता समिधोऽग्निर्वृत्राण्यग्निर्मूर्धोप हूतं देवं बर्हिरिदं द्यावापृथिवी तच्छंयोरा प्यायस्वोपहूतं त्रयोदश ॥ १३॥ सत्यं वय२ꣳ स्याम वृष्टिद्यावा नवविꣳशतिः ॥ २९॥ सत्यमुपहूता ॥

तृतीयाष्टके षष्ठः प्रपाठकः ६

१ अञ्जन्ति त्वामध्वरे देवयन्तः । वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठाद्द्रविणेह धत्तात् । यद्वा क्षयो मातुरस्या उपस्थे । उच्छ्रयस्व वनस्पते । वर्ष्मन्पृथिव्या अधि । सुमिती मीयमानः । वर्चोधा यज्ञवाहसे । समिद्धस्य श्रयमाणः पुरस्तात् । ब्रह्म वन्वानो अजरꣳ सुवीरम् ॥ ३। ६। १। १॥ २ आरे अस्मदमतिं बाधमानः । उच्छ्रयस्व महते सौभगाय । ऊर्ध्व ऊषुण ऊतये । तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिः । वाघद्भिर्विह्वयामहे । ऊर्ध्वो नः पाह्यꣳहसो नि केतुना । विश्वꣳ समत्त्रिणं दह । कृधी न ऊर्ध्वाञ्च रथाय जीवसे । विदा देवेषु नो दुवः ॥ ३। ६। १। २॥ ३ जातो जायते सुदिनत्वे अह्नाम् । स मर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा । देवया विप्र उदियर्ति वाचम् । युवा सुवासाः परिवीत आगात् । स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तः । पृथुपाजा अमर्त्यः । घृतनिर्णिख्स्वाहुतः ॥ ३। ६। १। ३॥ ४ अग्निर्यज्ञस्य हव्यवाट् । तꣳ सबाधो यतस्रुचः । इत्था धिया यज्ञवन्तः । आचक्रुरग्निमूतये । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ॥ ३। ६। १। ४॥ सुवीरं दुवः स्वाहुतोऽष्टौ च ॥ १॥ ५ होता यक्षदग्निꣳ समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य । वर्ष्मन्दिव इडस्पदे वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातमदितेर्गर्भं भुवनस्य गोपाम् । मध्वाऽद्य देवो देवेभ्यो देवयानान्पथो अनक्तु वेत्वाज्यस्य होतर्यज । होता यक्षन्नराशꣳसं नृशस्त्रं नॄग्ः प्रणेत्रम् । गोभिर्वपावान्थ्स्याद्वीरैः शक्तीवान्रथैः प्रथमयावा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज । होता यक्षदग्निमिड ईडितो देवो देवाꣳ आवक्षद्दूतो हव्यवाडमूरः । उपेमं यज्ञमुपेमां देवो देवहूतिमवतु वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः सुष्टरीमोर्णं म्रदा अस्मिन्, यज्ञे वि च प्र च प्रथताग् स्वासस्थं देवेभ्यः । एमेनदद्य वसवो रुद्रा आदित्याः सदन्तु प्रियमिन्द्रस्यास्तु वेत्वाज्यस्य होतर्यज ॥ ३। ६। २। १॥ ६ होता यक्षद्दुर ऋष्वाः कवष्योऽकोष धावनीरुदाताभिर्जिहतां वि पक्षोभिः श्रयन्ताम् । सुप्रायणा अस्मिन्, यज्ञे विश्रयन्तामृतावृधो वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषासानक्ता बृहती सुपेशसा नॄग्ः पतिभ्यो योनिं कृण्वाने । सग्ग्स्मयमाने इन्द्रेण देवैरेदं बर्हिः सीदतां वीतामाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा । स्विष्टमद्यान्यः करदिषा स्वभिगूर्तमन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीतामाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीरपसामपस्तमा अच्छिद्रमद्येदमपस्तन्वताम् । देवेभ्यो देवीर्देवमपो वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमचिष्टुमपाकꣳ रेतोधां विश्रवसं यशोधाम् । पुरुरूपमकामकर्शनꣳ सुपोषः पोषैः स्याथ्सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिमुपावस्रक्षद्धियो जोष्टारꣳ शशमन्नरः । स्वदाथ्स्वधितिरृतुथाऽद्य देवो देवेभ्यो हव्याऽवाड्वेत्वाज्यस्य होतर्यज । होता यक्षदग्नि२ꣳ स्वाहाऽऽज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाग् स्वाहा स्वाहाकृतीनाग् स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान्थ्स्वाहाऽग्निꣳ होत्राज्जुषाणा अग्न अज्यस्य वियन्तु होतर्यज ॥ ३। ६। २। २॥ प्रियमिन्द्रस्यास्तु वेत्वाज्यस्य होतर्यज सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज चत्वारि च ॥ २॥ अग्निं तनूनपातं नराशꣳसमग्निमिड ईडितो बर्हिर्दुर उषासानक्ता दैव्या तिस्रस्त्वष्टारं वनस्पतिमग्निम् । पञ्च वेत्वेको वियन्तु द्विर्वीतामेको वियन्तु द्विर्वेत्वेको वियन्तु होतर्यज ॥ ७ समिद्धो अद्य मनुषो दुरोणे । देवो देवान्, यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान् । त्वं दूतः कविरसि प्रचेताः । तनूनपात्पथ ऋतस्य यानान् । मध्वा समञ्जन्थ्स्वधया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन् । देवत्रा च कृणुह्यध्वरं नः । नराशꣳसस्य महिमानमेषाम् । उपस्तोषाम यजतस्य यज्ञैः ॥ ३। ६। ३। १॥ ८ ते सुक्रतवः शुचयो धियंधाः । स्वदन्तु देवा उभयानि हव्या । आजुह्वान ईड्यो वन्द्यश्च । आयाह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता । स एनान्, यक्षीषितो यजीयान् । प्राचीनं बर्हिः प्रदिशा पृथिव्याः । वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्युप्रथते वितरं वरीयः । देवेभ्यो अदितये स्योनम् ॥ ३। ६। ३। २॥ ९ व्यचस्वतीरुर्विया विश्रयन्ताम् । पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वाः । देवेभ्यो भवथ सुप्रायणाः । आ सुष्वयन्ती यजते उपाके । उषासा नक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे । अधि श्रियꣳ शुक्रपिशं दधाने । दैव्या होतारा प्रथमा सुवाचा । मिमाना यज्ञं मनुषो यजध्यै ॥ ३। ६। ३। ३॥ १० प्रचोदयन्ता विदथेषु कारू । प्राचीनं ज्योतिः प्रदिशा दिशन्ता । आ नो यज्ञं भारती तूयमेतु । इडा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बर्हिरेद२ꣳ स्योनम् । सरस्वतीः स्वपसः सदन्तु । य इमे द्यावापृथिवी जनित्री । रूपैरपिꣳशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान् । देवं त्वष्टारमिह यक्षि विद्वान् ॥ ३। ६। ३। ४॥ ११ उपावसृजत्त्मन्या समञ्जन् । देवानां पाथ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो अग्निः । स्वदन्तु हव्यं मधुना घृतेन । सद्योजातो व्यमिमीत यज्ञम् । अग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य वाचि । स्वाहाकृतꣳ हविरदन्तु देवाः ॥ ३। ६। ३। ५॥ यज्ञैः स्योनं यजध्यै विद्वानष्टौ च ॥ ३॥ १२ अग्निर्होता नो अध्वरे । वाजी सन्परिणीयते । देवो देवेषु यज्ञियः । परि त्रिविष्ट्यध्वरम् । यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविः । अग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ ३। ६। ४। १॥ अग्निर्होता नो नव ॥ ४॥ १३ अजैदग्निः । असनद्वाजं नि । देवो देवेभ्यो हव्याऽवाट् । प्राञ्जोभिर् हिन्वानः । धेनाभिः कल्पमानः । यज्ञस्यायुः प्रतिरन् । उपप्रेष्य होतः । हव्या देवेभ्यः ॥ ३। ६। ५। १॥ अजैदष्टौ ॥ ५॥ १४ दैव्याः शमितार उत मनुष्या आरभध्वम् । उपनयत मेध्या दुरः । आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत । स्तृणीत बर्हिः । अन्वेनं माता मन्यताम् । अनु पिता । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । उदीचीनाꣳ अस्य पदो निधत्तात् ॥ ३। ६। ६। १॥ १५ सूर्यं चक्षुर्गमयतात् । वातं प्राणमन्ववसृजतात् । दिशः श्रोत्रम् । अन्तरिक्षमसुम् । पृथिवीꣳ शरीरम् । एकधाऽस्य त्वचमाच्छ्यतात् । पुरा नाभ्या अपिशसो वपामुत्खिदतात् । अन्तरेवोष्माणं वारयतात् । श्येनमस्य वक्षः कृणुतात् । प्रशसा बाहू ॥ ३। ६। ६। २॥ १६ शला दोषणी । कश्यपेवाꣳसा । अच्छिद्रे श्रोणी । कवषोरू स्रेकपर्णाऽष्ठीवन्ता । षड्विꣳशतिरस्य वङ्क्रयः । ता अनुष्ठ्योच्च्यावयतात् । गात्रं गात्रमस्यानूनं कृणुतात् । ऊवध्यगूहं पार्थिवं खनतात् । अस्ना रक्षः सꣳसृजतात् । वनिष्ठुमस्य मा राविष्ट ॥ ३। ६। ६। ३॥ १७ उरूकं मन्यमानाः । नेद्वस्तोके तनये । रविता रवच्छमितारः । अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगो । अध्रिगुश्चापापश्च । उभौ देवानाꣳ शमितारौ । ताविमं पशु२ꣳ श्रपयतां प्रविद्वाꣳसौ । यथा यथाऽस्य श्रपणं तथा तथा ॥ ३। ६। ६। ४॥ धत्ताद्बाहू मा राविष्ट तथातथा ॥ ६॥ १८ जुषस्व सप्रथस्तमम् । वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि । इमं नो यज्ञममृतेषु धेहि । इमा हव्या जातवेदो जुषस्व । स्तोकानामग्ने मेदसो घृतस्य । होतः प्राशान प्रथमो निषद्य । घृतवन्तः पावक ते । स्तोकाः श्चोतन्ति मेदसः । स्वधर्मं देववीतये ॥ ३। ६। ७। १॥ १९ श्रेष्ठं नो धेहि वार्यम् । तुभ्यग्ग् स्तोका घृतश्चुतः । अग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे । यज्ञस्य प्राविता भव । तुभ्यग्ग् श्चोतन्त्यध्रिगो शचीवः । स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनाऽऽगाः । हव्या जुषस्व मेधिर । ओजिष्ठं ते मध्यतो मेद उद्भृतम् । प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधित्वचि । प्रति तान्देवशो विहि ॥ ३। ६। ७। २॥ देववीतय उद्भृतं त्रीणि च ॥ ७॥ २० आ वृत्रहणा वृत्रहभिः शुष्मैः । इन्द्र यातं नमोभिरग्ने अर्वाक् । युवꣳ राधोभिरकवेभिरिन्द्र । अग्ने अस्मे भवतमुत्तमेभिः । होता यक्षदिन्द्राग्नी । छागस्य वपाया मेदसः । जुषेताꣳ हविः । होतर्यज । वि ह्यख्यन्मनसा वस्य इच्छन् । इन्द्राग्नी ज्ञास उत वा सजातान् ॥ ३। ६। ८। १॥ २१ नान्या युवत्प्रमतिरस्ति मह्यम् । स वां धियं वाजयन्तीमतक्षम् । होता यक्षदिन्द्राग्नी । पुरोडाशस्य जुषेताꣳ हविः । होतर्यज । त्वामीडते अजिरं दूत्याय । हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्ने । अहान्यस्मै सुदिना भवन्तु । होता यक्षदग्निम् । पुरोडाशस्य जुषताꣳ हविः । होतर्यज ॥ ३। ६। ८। २॥ सजातानग्निं द्वे च ॥ ८॥ २२ गीर्भिर्विप्रः प्रमतिमिच्छमानः । ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा । प्र णो नव्येभिस्तिरतं देष्णैः । मा च्छेद्म रश्मीꣳरिति नाधमानाः । पितृणाꣳ शक्तीरनु यच्छमानाः । इन्द्राग्निभ्यां कं वृषणो मदन्ति । ता ह्यद्री धिषणाया उपस्थे । अग्निꣳ सुदीतिꣳ सुदृशं गृणन्तः । नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिꣳ हव्यवाहम् । देवा अकृण्वन्नमृतस्य नाभिम् ॥ ३। ६। ९। १॥ जातवेदो द्वे च ॥ ९॥ २३ त्व२ꣳ ह्यग्ने प्रथमो मनोता । अस्या धियो अभवो दस्म होता । त्वꣳ सीं वृषन्नकृणोर्दुष्टरीतु । सहो विश्वस्मै सहसे सहध्यै । अधा होता न्यसीदो यजीयान् । इडस्पद इषयन्नीड्यः सन् । तं त्वा नरः प्रथमं देवयन्तः । महो राये चितयन्तो अनुग्मन् । वृतेव यन्तं बहुभिर्वसव्यैः । त्वे रयिं जागृवाꣳसो अनुग्मन् ॥ ३। ६। १०। १॥ २४ रुशन्तमग्निं दर्शतं बृहन्तम् । वपावन्तं विश्वहा दीदिवाꣳसम् । पदं देवस्य नमसा वियन्तः । श्रवस्यवः श्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियानि । भद्रायां ते रणयन्त संदृष्टौ । त्वां वर्धन्ति क्षितयः पृथिव्याम् । त्वꣳ राय उभयासो जनानाम् । त्वं त्राता तरणे चेत्यो भूः । पिता माता सदमिन्मानुषाणाम् ॥ ३। ६। १०। २॥ २५ स पर्येण्यः स प्रियो विक्ष्वग्निः । होता मन्द्रो निषसादा यजीयान् । तं त्वा वयं दम आ दीदिवाꣳसम् । उपज्ञु बाधो नमसा सदेम । तं त्वा वयꣳ सुधियो नव्यमग्ने । सुम्नायव ईमहे देवयन्तः । त्वं विशो अनयो दीद्यानः । दिवो अग्ने बृहता रोचनेन । विशां कविं विश्पतिꣳ शश्वतीनाम् । नितोशनं वृषभं चर्षणीनाम् ॥ ३। ६। १०। ३॥ २६ प्रेतीषणिमिषयन्तं पावकम् । राजन्तमग्निं यजतꣳ रयीणाम् । सो अग्न ईजे शशमे च मर्तः । यस्त आनट् समिधा हव्यदातिम् । य आहुतिं परिवेदा नमोभिः । विश्वेथ्स वामा दधते त्वोतः । अस्मा उ ते महि महे विधेम । नमोभिरग्ने समिधोत हव्यैः । वेदी सूनो सहसो गीर्भिरुक्थैः । आ ते भद्रायाꣳ सुमतौ यतेम ॥ ३। ६। १०। ४॥ २७ आ यस्ततन्थ रोदसी वि भासा । श्रवोभिश्च श्रवस्यस्तरुत्रः । बृहद्भिर्वाजैः स्थविरेभिरस्मे । रेवद्भिरग्ने वितरं विभाहि । नृवद्वसो सदमिद्धे ह्यस्मे । भूरि तोकाय तनयाय पश्वः । पूर्वीरिषो बृहतीरारे अघाः । अस्मे भद्रा सौश्रवसानि सन्तु । पुरूण्यग्ने पुरुधा त्वाया । वसूनि राजन्वसुताते अश्याम् । पुरूणि हि त्वे पुरुवार सन्ति । अग्ने वसु विधते राजनि त्वे ॥ ३। ६। १०। ५॥ जागृवाꣳसो अनुग्मन्मानुषाणां चर्षणीनां यतेमाश्यां द्वे च ॥ १०॥ २८ आभरतꣳ शिक्षतं वज्रबाहू । अस्माꣳ इन्द्राग्नी अवतꣳ शचीभिः । इमे नु ते रश्मयः सूर्यस्य । येभिः सपित्वं पितरो न आयन् । होता यक्षदिन्द्राग्नी । छागस्य हविष आत्तामद्य । मध्यतो मेद उद्भृतम् । पुरा द्वेषोभ्यः । पुरा पौरुषेय्या गृभः । घस्तान्नूनम् ॥ ३। ६। ११। १॥ २९ घासे अज्राणां यवसप्रथमानाम् । सुमत्क्षराणाꣳ शतरुद्रियाणाम् । अग्निष्वात्तानां पीवोपवसनानाम् । पार्श्वतः श्रोणितः शितामत उथ्सादतः । अङ्गादङ्गादवत्तानाम् । करत एवेन्द्राग्नी । जुषेताꣳ हविः । होतर्यज । देवेभ्यो वनस्पते हवीꣳषि । हिरण्यपर्ण प्रदिवस्ते अर्थम् ॥ ३। ६। ११। २॥ ३० प्रदक्षिणिद्रशनया नियूय । ऋतस्य वक्षि पथिभी रजिष्ठैः । होता यक्षद्वनस्पतिमभि हि । पिष्टतमया रभिष्ठया रशनयाऽऽधित । यत्रेन्द्राग्नियोश्छागस्य हविषः प्रिया धामानि । यत्र वनस्पतेः प्रिया पाथाꣳसि । यत्र देवानामाज्यपानां प्रिया धामानि । यत्राग्नेर्होतुः प्रिया धामानि । तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षत् । रभीयाꣳसमिव कृत्वी ॥ ३। ६। ११। ३॥ ३१ करदेवं देवो वनस्पतिः । जुषताꣳ हविः । होतर्यज । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳर् ऋतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने । त्वꣳ होतॄणामस्यायजिष्ठः । होता यक्षदग्नि२ꣳ स्विष्टकृतम् । अयाडग्निरिन्द्राग्नियोश्छागस्य हविषः प्रिया धामानि । अयाड्वनस्पतेः प्रिया पाथाꣳसि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर् होतुः प्रिया धामानि । यक्षथ्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । होतर्यज ॥ ३। ६। ११। ४॥ नूनमर्थं कृत्वी पाथाꣳसि सप्त च ॥ ११॥ ३२ उपोह यद्विदथं वाजिनो गूः । गीर्भिर्विप्राः प्रमतिमिच्छमानाः । अर्वन्तो न काष्ठां नक्षमाणाः । इन्द्राग्नी जोहुवतो नरस्ते । वनस्पते रशनयाऽभिधाय । पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवीꣳषि । प्र च दातारममृतेषु वोचः । अग्नि२ꣳ स्विष्टकृतम् । अयाडग्निरिन्द्राग्नियोश्छागस्य हविषः प्रिया धामानि ॥ ३। ६। १२। १॥ ३३ अयाड्वनस्पतेः प्रिया पाथाꣳसि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर् होतुः प्रिया धामानि । यक्षथ्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यदद्य विशो अध्वरस्य होतः । पावक शोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद्भूः । हव्या वह यविष्ठ या ते अद्य ॥ ३। ६। १२। २॥ धामानि भूरेकं च ॥ १२॥ ३४ देवं बर्हिः सुदेवं देवैः स्याथ्सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान्राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारः संघाते विड्वीर्यामञ्छिथिरा ध्रुवा देवहूतौ वथ्स ईमेनास्तरुण आमिमीयात्कुमारो वा नवजातो मैना अर्वा रेणुककाटः पृणग्वसुवने वसुधेयस्य वियन्तु यज । देवी उषासा नक्ताऽद्यास्मिन्, यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ययोरन्याऽघा द्वेषाꣳसि यूयवदाऽन्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती इषमूर्जमन्या वक्षथ्सग्धिꣳ सपीतिमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज । देवा दैव्याहोतारा नेष्टारा पोतारा हताघशꣳसावाभरद्वसू वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीरिडा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षथ् सरस्वतीमꣳ रुद्रैर्यज्ञमावीदिहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज । देवो नराशꣳसस्त्रि शीर्षा षडक्षः शतमिदेनꣳ शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिः स्तोत्रमश्विनाऽऽध्वर्यवं वसुवने वसुधेयस्य वेतु यज । देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग्द्यामग्रेणास्पृक्षदाऽन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृꣳहीद्वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां निधे धासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिषाऽन्या बर्हीग्ष्यभिष्याम वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृथ्सुद्रविणा मन्द्रः कविः सत्यमन्माऽऽयजी होता होतुर् होतुरायजीयानग्ने यान्देवानयाड्याꣳ अपिप्रेर्ये ते होत्रे अमथ्सत ताꣳ ससनुषीꣳ होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेम२ꣳ स्विष्टकृच्चाग्ने होताऽभूर्वसुवने वसुधेयस्य नमोवाके वीहि यज ॥ ३। ६। १३। १॥ यजैकं च ॥ १३॥ ३५ देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवीर्द्वारः । वसुवने वसुधेयस्य वियन्तु । देवी उषासानक्ता । वसुवने वसुधेयस्य वीताम् । देवी जोष्ट्री । वसुवने वसुधेयस्य वीताम् । देवी ऊर्जाहुती । वसुवने वसुधेयस्य वीताम् ॥ ३। ६। १४। १॥ ३६ देवा दैव्या होतारा । वसुवने वसुधेयस्य वीताम् । देवीस्तिस्रस्तिस्रो देवीः । वसुवने वसुधेयस्य वियन्तु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो वनस्पतिः । वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनाम् । वसुवने वसुधेयस्य वेतु ॥ ३। ६। १४। २॥ ३७ देवो अग्निः स्विष्टकृत् । सुद्रविणा मन्द्रः कविः । सत्यमन्माऽऽयजी होता । होतुर् होतुरायजीयान् । अग्नेयान्देवानयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमथ्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञमेरयेमम् । स्विष्टकृच्चाग्ने होताऽभूः । वसुवने वसुधेयस्य नमोवाके वीहि ॥ ३। ६। १४। ३॥ वीतां वेत्वभूरेकं च ॥ १४॥ ३८ अग्निमद्य होतारमवृणीतायं यजमानः पचन्पक्तीः पचन्पुरोडाशं बध्नन्निन्द्राग्निभ्यां छागꣳ सूपस्था अद्य देवो वनस्पतिरभवदिन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रति पचताऽग्रभीष्टामवीवृधेतां पुरोडाशेन त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ३। ६। १५। १॥ अग्निमद्यैकम् ॥ १५॥ अञ्जन्ति होता यक्षथ्समिद्धो अद्याग्निरजैद्दैव्या जुषस्वावृत्रहणा गीर्भिस्त्व२ꣳ ह्याभरतमुपोह यद्देवं बर्हिः सुदेवं देवं बर्हिरग्निमद्य पञ्चदश ॥ १५॥ अञ्जन्त्युपावसृजन्नान्या युवत्कर देवमष्टात्रिꣳशत् ॥ ३८॥ अञ्जन्ति सूक्ताब्रूहि ॥

तृतीयाष्टके सप्तमः प्रपाठकः ७

अच्छिद्रम्

१ सर्वान् वा एषोऽग्नौ कामान्प्रवेशयति । योऽग्नीनन्वाधाय व्रतमुपैति । स यदनिष्ट्वा प्रयायात् । अकामप्रीता एनं कामा नानुप्रयायुः । अतेजा अवीर्यः स्यात् । स जुहुयात् । तुभ्यं ता अङ्गिरस्तम । विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिर इति । कामानेवास्मिन्दधाति ॥ ३। ७। १। १॥ २ कामप्रीता एनं कामा अनु प्रयान्ति । तेजस्वी वीर्यावान्भवति । संततिर्वा एषा यज्ञस्य । योऽग्नीनन्वाधाय व्रतमुपैति । स यदुद्वायति । विच्छित्तिरेवास्य सा । तं प्राञ्चमुद्धृत्य । मनसोपतिष्ठेत । मनो वै प्रजापतिः । प्राजापत्यो यज्ञः ॥ ३। ७। १। २॥ ३ मनसैव यज्ञꣳ संतनोति । भूरित्याह । भूतो वै प्रजापतिः । भूतिमेवोपैति । वि वा एष इन्द्रियेण वीर्येणर्द्ध्यते । यस्याहिताग्नेरग्निरपक्षायति । यावच्छम्यया प्रविध्येत् । यदि तावदपक्षायेत् । तꣳ संभरेत् । इदं त एकं पर उत एकम् ॥ ३। ७। १। ३॥ ४ तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि । प्रिये देवानां परमे जनित्र इति । ब्रह्मणैवैनꣳ संभरति । सैव ततः प्रायश्चित्तिः । यदि परस्तरामपक्षायेत् । अनु प्रयायावस्येत् । सो एव ततः प्रायश्चित्तिः । ओषधीर्वा एतस्य पशून्पयः प्रविशति । यस्य हविषे वथ्सा अपाकृता धयन्ति ॥ ३। ७। १। ४॥ ५ तान्, यद्दुह्यात् । यातयाम्ना हविषा यजेत । यन्न दुह्यात् । यज्ञपरुरन्तरियात् । वायव्यां यवागूं निर्वपेत् । वायुर्वै पयसः प्रदापयिता । स एवास्मै पयः प्रदापयति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे ॥ ३। ७। १। ५॥ ६ अथोत्तरस्मै हविषे वथ्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । अन्यतरान्, वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं गृहमागच्छन्ति । यस्य सायं दुग्धꣳ हविरार्तिमार्छति । इन्द्राय व्रीहीन्निरुप्योपवसेत् । पयो वा ओषधयः । पय एवारभ्य गृहीत्वोपवसति । यत्प्रातः स्यात् । तच्छृतं कुर्यात् ॥ ३। ७। १। ६॥ ७ अथेतर ऐन्द्रः पुरोडाशः स्यात् । इन्द्रिये एवास्मै समीची दधाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वथ्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । उभयान्, वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं च प्रातश्च गृहमागच्छन्ति । यस्योभयꣳ हविरार्तिमार्छति ॥ ३। ७। १। ७॥ ८ ऐन्द्रं पञ्चशरावमोदनं निर्वपेत् । अग्निं देवतानां प्रथमं यजेत् । अग्निमुखा एव देवताः प्रीणाति । अग्निं वा अन्वन्या देवताः । इन्द्रमन्वन्याः । ता एवोभयीः प्रीणाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वथ्सानपाकुर्यात् ॥ ३। ७। १। ८॥ ९ सैव ततः प्रायश्चित्तिः । अर्धो वा एतस्य यज्ञस्य मीयते । यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत । सर्वेणैव यज्ञेन यजते । तामिष्ट्वोपह्वयेत । अमूहमस्मि । सा त्वम् । द्यौरहम् । पृथिवी त्वम् । सामाहम् । ऋक्त्वम् । तावेहि संभवाव । सह रेतो दधावहै । पुꣳसे पुत्राय वेत्तवै । रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते । सैव ततः प्रायश्चित्तिः ॥ ३। ७। १। ९॥ दधाति यज्ञ उत एकं धयन्ति रुन्धे कुर्यादार्छत्यपाकुर्यात्पृथिवी त्वमष्टौ च ॥ १॥ सर्वान् वि वै यदि परस्तरामोषधीरन्यतरानुभयानर्धो वै ॥ १० यद्विष्षण्णेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । प्राजापत्ययर्चा वल्मीकवपायामवनयेत् । प्राजापत्यो वै वल्मीकः । यज्ञः प्रजापतिः । प्रजापतावेव यज्ञं प्रतिष्ठापयति । भूरित्याह । भूतो वै प्रजापतिः ॥ ३। ७। २। १॥ ११ भूतिमेवोपैति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्कीटावपन्नेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । मध्यमेन पर्णेन द्यावापृथिव्ययर्चाऽन्तःपरिधि निनयेत् । द्यावापृथिव्योरेवैनत्प्रतिष्ठापयति ॥ ३। ७। २। २॥ १२ तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यदव वृष्टेन जुहुयात् । अपरूपमस्यात्मञ्जायेत । किलासो वा स्यादर्शसो वा । यत्प्रत्येयात् । यज्ञं विच्छिन्द्यात् । स जुहुयात् । मित्रो जनान्कल्पयति प्रजानन् ॥ ३। ७। २। ३॥ १३ मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाऽभिचष्टे । सत्याय हव्यं घृतवज्जुहोतेति । मित्रेणैवैनत्कल्पयति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पूर्वस्यामाहुत्याꣳ हुतायामुत्तराऽऽहुतिः स्कन्देत् । द्विपाद्भिः पशुभिर्यजमानो व्यृद्ध्येत । यदुत्तरयाऽभिजुहुयात् ॥ ३। ७। २। ४॥ १४ चतुष्पाद्भिः पशुभिर्यजमानो व्यृद्ध्येत । यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय । तूष्णीमेव पुनर्जुहुयात् । वनस्पतिनैव यज्ञस्यार्तां चानार्तां चाहुती विदाधार । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पुरा प्रयाजेभ्यः प्राङङ्गारः स्कन्देत् । अध्वर्यवे च यजमानाय चाकग्ग् स्यात् ॥ ३। ७। २। ५॥ १५ यद्दक्षिणा । ब्रह्मणे च यजमानाय चाकग्ग् स्यात् । यत्प्रत्यक् । होत्रे च पत्नियै च यजमानाय चाकग्ग् स्यात् । यदुदङ्ङ् । अग्नीधे च पशुभ्यश्च यजमानाय चाकग्ग् स्यात् । यदभिजुहुयात् । रुद्रोऽस्य पशून् घातुकः स्यात् । यन्नाभिजुहुयात् । अशान्तः प्रह्रियेत ॥ ३। ७। २। ६॥ १६ स्रुवस्य बुध्नेनाभिनिदध्यात् । मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् । नमस्ते अस्त्वायते । नमो रुद्र परायते । नमो यत्र निषीदसि । अमुं मा हिꣳसीरमुं मा हिꣳसीरिति येन स्कन्देत् । तं प्रहरेत् । सहस्रश‍ृङ्गो वृषभो जातवेदाः । स्तोमपृष्ठो घृतवान्थ्सुप्रतीकः । मा नो हासीन्मेत्थितो नेत्त्वा जहाम । गोपोषं नो वीरपोषं च यच्छेति । ब्रह्मणैवैनं प्रहरति । सैव ततः प्रायश्चित्तिः ॥ ३। ७। २। ७॥ वै प्रजापतिः स्थापयति प्रजानन्नभि जुहुयाथ्स्याद्ध्रियेत जहाम त्रीणि च ॥ २॥ यद्विष्षण्णेन प्राजापत्यया यत्कीटा मध्यमेन यदववृष्टेन यत्पूर्वस्यां यत्पुरा प्रयाजेभ्यः प्राङङ्गारो यद्दक्षिणा यत्प्रत्यग्यदुदन्दश ॥ १७ वि वा एष इन्द्रियेण वीर्येणर्द्ध्यते । यस्याहिताग्नेरग्निर्मथ्यमानो न जायते । यत्रान्यं पश्येत् । तत आहृत्य होतव्यम् । अग्नावेवास्याग्नि होत्रꣳ हुतं भवति । यद्यन्यं न विन्देत् । अजायाꣳ होतव्यम् । आग्नेयी वा एषा । यदजा । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति ॥ ३। ७। ३। १॥ १८ अजस्य तु नाश्नीयात् । यदजस्याश्नीयात् । यामेवाग्नावाहुतिं जुहुयात् । तामद्यात् । तस्मादजस्य नाश्यम् । यद्यजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष वा अग्निर्वैश्वानरः । यद्ब्राह्मणः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति ॥ ३। ७। ३। २॥ १९ ब्राह्मणं तु वसत्यै नापरुन्ध्यात् । यद्ब्राह्मणं वसत्या अपरुन्ध्यात् । यस्मिन्नेवाग्नावाहुतिं जुहुयात् । तं भागधेयेन व्यर्धयेत् । तस्माद्ब्राह्मणो वसत्यै नापरुध्यः । यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् । अग्निवान्, वै दर्भस्तम्बः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति । दर्भाग्स्तु नाध्यासीत ॥ २० यद्दर्भानध्यासीत । यामेवाग्नावाहुतिं जुहुयात् । तामध्यासीत । तस्माद्दर्भा नाध्यासितव्याः । यदि दर्भान्न विन्देत् । अप्सु होतव्यम् । आपो वै सर्वा देवताः । देवतास्वेवास्याग्निहोत्रꣳ हुतं भवति । आपस्तु न परिचक्षीत । यदापः परिचक्षीत ॥ ३। ७। ३। ४॥ २१ यामेवाप्स्वाहुतिं जुहुयात् । तां परिचक्षीत । तस्मादापो न परिचक्ष्याः । मेध्या च वा एतस्यामेध्या च तनुवौ सꣳसृज्येते । यस्याहिताग्नेरन्यैरग्निभिरग्नयः सꣳसृज्यन्ते । अग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत् । मेध्यां चैवास्यामेध्यां च तनुवौ व्यावर्तयति । अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् । अग्निमेव व्रतपतिग्ग् स्वेन भागधेयेनोपधावति । स एवैनं व्रतमालम्भयति ॥ ३। ७। ३। ५॥ २२ गर्भग्ग् स्रवन्तमगदमकः । अग्निरिन्द्रस्त्वष्टा बृहस्पतिः । पृथिव्यामवचुश्चोतैतत् । नाभिप्राप्नोति निरृतिं पराचैः । रेतो वा एतद्वाजिनमाहिताग्नेः । यदग्निहोत्रम् । तद्यथ्स्रवेत् । रेतोऽस्य वाजिन२ꣳ स्रवेत् । गर्भग्ग् स्रवन्तमगदमकरित्याह । रेत एवास्मिन्वाजिनं दधाति ॥ ३। ७। ३। ६॥ २३ अग्निरित्याह । अग्निर्वै रेतोधाः । रेत एव तद्दधाति । इन्द्र इत्याह । इन्द्रियमेवास्मिन्दधाति । त्वष्टेत्याह । त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृत् । रूपमेव पशुषु दधाति । बृहस्पतिरित्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवास्मै प्रजाः प्रजनयति । पृथिव्यामवचुश्चोतैतदित्याह । अस्यामेवैनत्प्रतिष्ठापयति । नाभि प्राप्नोति निरृतिं पराचैरित्याह । रक्षसामपहत्यै ॥ ३। ७। ३। ७॥ अजाऽग्नावेवास्याग्निहोत्रꣳ हुतं भवति भवत्यासीत परिचक्षीत लम्भयति दधाति देवानां बृहस्पतिः पञ्च च ॥ ३॥ वि वै यद्यन्यमजायां ब्राह्मणस्य दर्भस्तम्बेऽफ्सु होतव्यम् ॥ २४ याः पुरस्तात्प्रस्रवन्ति । उपरिष्टाथ्सर्वतश्च याः । ताभी रश्मि पवित्राभिः । श्रद्धां यज्ञमारभे । देवा गातुविदः । गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन । वाताद्यज्ञः प्रयुज्यताम् । तृतीयस्यै दिवः । गायत्रिया सोम आभृतः ॥ २५ सोमपीथाय संनयितुम् । वकलमन्तरमाददे । आपो देवीः शुद्धाः स्थ । इमा पात्राणि शुन्धत । उपातङ्क्याय देवानाम् । पर्णवल्कमुत शुन्धत । पयो गृहेषु पयो अघ्नियासु । पयो वथ्सेषु पय इन्द्राय हविषे ध्रियस्व । गायत्री पर्णवल्केन । पयः सोमं करोत्विमम् ॥ ३। ७। ४। २॥ २६ अग्निं गृह्णामि सुरथं यो मयोभूः । य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमम् । श्वो यज्ञाय रमतां देवताभ्यः । वसून्रुद्रानादित्यान् । इन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टाः । तान्देवान्परिगृह्णामि पूर्वः ॥ ३। ७। ४। ३॥ २७ अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि । आमावास्यꣳ हविरिदमेषां मयि । अन्तराऽग्नी पशवः । देवसꣳसदमागमन् । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इह प्रजा विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि ॥ ३। ७। ४। ४॥ २८ स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभि संवसानाः । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । अयं पितृणामग्निः । अवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णामि । अविषं नः पितुं करत् । अजस्रं त्वाꣳ सभापालाः ॥ ३। ७। ४। ५॥ २९ विजयभागꣳ समिन्धताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः शतम् । अन्नमावसथीयम् । अभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रम् । अहिर्बुध्नियो नियच्छतु । इदमहमग्नि ज्येष्ठेभ्यः । वसुभ्यो यज्ञं प्रब्रवीमि । इदमहमिन्द्रज्येष्ठेभ्यः ॥ ३। ७। ४। ६॥ ३० रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्यः । आदित्येभ्यो यज्ञं प्रब्रवीमि । पयस्वतीरोषधयः । पयस्वद्वीरुधां पयः । अपां पयसो यत्पयः । तेन मामिन्द्र सꣳसृज । अग्ने व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते ॥ ३। ७। ४। ७॥ ३१ व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । इमां प्राचीमुदीचीम् । इषमूर्जमभि स२ꣳस्कृताम् । बहुपर्णामशुष्काग्राम् । हरामि पशुपामहम् । यत्कृष्णो रूपं कृत्वा । प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविꣳशतिधा । संभरामि सुसंभृता ॥ ३। ७। ४। ८॥ ३२ त्रीन्परिधीग्स्तिस्रः समिधः । यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिम् । संभरामि सुसंभृता । या जाता ओषधयः । देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासम् । परिस्तरमाहरन् । अपां मेध्यं यज्ञियम् । सदेवꣳ शिवमस्तु मे ॥ ३। ७। ४। ९॥ ३३ आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम् । अपरिमितानां परिमिताः । संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहम् । पुनरुत्थाय बहुला भवन्तु । सकृदाच्छिन्नं बर्हिरूर्णामृदु । स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्थ्सीदन्तु मे पितरः सोम्याः । पितामहाः प्रपितामहाश्चानुगैः सह ॥ ३। ७। ४। १०॥ ३४ त्रिवृत्पलाशे दर्भः । इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् । पयो हव्यं करोतु मे । इमौ प्राणापानौ । यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम् । पवित्रे हव्यशोधने । पवित्रे स्थो वैष्णवी । वायुर्वां मनसा पुनातु ॥ ३। ७। ४। ११॥ ३५ अयं प्राणश्चापानश्च । यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ । पवित्रे हव्यशोधने । त्वया वेदिं विविदुः पृथिवीम् । त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान् । त्वया होता संतनोत्यर्धमासान् । त्रयस्त्रिꣳशोऽसि तन्तूनाम् । पवित्रेण सहागहि ॥ ३। ७। ४। १२॥ ३६ शिवेयꣳ रज्जुरभिधानी । अघ्नियामुपसेवताम् । अप्रस्रꣳसाय यज्ञस्य । उखे उपदधाम्यहम् । पशुभिः संनीतं बिभृताम् । इन्द्राय श‍ृतं दधि । उपवेषोऽसि यज्ञाय । त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः । शिवः शग्मो भवासि नः ॥ ३। ७। ४। १३॥ ३७ अमृन्मयं देवपात्रम् । यज्ञस्यायुषि प्रयुज्यताम् । तिरःपवित्रमति नीताः । आपो धारय माऽतिगुः । देवेन सवित्रोत्पूताः । वसोः सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुम् । सर्वा पात्राणि शुन्धत । एता आचरन्ति मधुमद्दुहानाः । प्रजावतीर्यशसो विश्वरूपाः ॥ ३। ७। ४। १४॥ ३८ बह्वीर्भवन्तीरुपजायमानाः । इह व इन्द्रो रमयतु गावः । पूषा स्थ । अयक्ष्मा वः प्रजया सꣳसृजामि । रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च । जीवो जीवन्तीरुप वः सदेयम् । द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ ३। ७। ४। १५॥ ३९ उथ्सं दुहन्ति कलशं चतुर्बिलम् । इडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत् । तद्यजमानममृतत्वे दधातु । कामधुक्षः प्र णो ब्रूहि । इन्द्राय हविरिन्द्रियम् । अमूं यस्यां देवानाम् । मनुष्याणां पयो हितम् । बहु दुग्धीन्द्राय देवेभ्यः । हव्यमाप्यायतां पुनः ॥ ३। ७। ४। १६॥ ४० वथ्सेभ्यो मनुष्येभ्यः । पुनर्दोहाय कल्पताम् । यज्ञस्य संततिरसि । यज्ञस्य त्वा संततिमनु संतनोमि । अदस्तमसि विष्णवे त्वा । यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण । याः पूताः परिशेरते । अयं पयः सोमं कृत्वा । स्वां योनिमपिगच्छतु ॥ ३। ७। ४। १७॥ ४१ पर्णवल्कः पवित्रम् । सौम्यः सोमाद्धि निर्मितः । इमौ पर्णं च दर्भं च । देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय । विष्णो हव्यꣳ हि रक्षसि । उभावग्नी उपस्तृणते । देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि । मह्यं गोपतये पशून् ॥ ३। ७। ४। १८॥ आभृत इमं गृह्णामि पूर्वस्ताः पूर्वः परिगृह्णामि सभापाला इन्द्रज्येष्ठेभ्य आदित्य व्रतपते सुसंभृता मे सह पुनातु गहि नो विश्वरूपा दधातु पुनर्गच्छतु पशून् ॥ ४॥ याः पुरस्तादिमामूर्जमिह प्रजा इह पशवोऽयं पितृणामग्निः ॥ ४२ देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह माऽवत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इदमहꣳ सेनाया अभीत्वर्यै ॥ ३। ७। ५। १॥ ४३ मुखमपोहामि । सूर्य ज्योतिर्विभाहि । महत इन्द्रियाय । आप्यायतां घृतयोनिः । अग्निर्हव्याऽनुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व । सुरूपं त्वा वसुविदम् । पशूनां तेजसा । अग्नये जुष्टमभिघारयामि । स्योनं ते सदनं करोमि ॥ ३। ७। ५। २॥ ४४ घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्थ्सीदामृते प्रतितिष्ठ । व्रीहीणां मेध सुमनस्यमानः । आर्द्रः प्रथस्नुर्भुवनस्य गोपाः । श‍ृत उथ्स्नाति जनिता मतीनाम् । यस्त आत्मा पशुषु प्रविष्टः । देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्थ्सोम घृतवान् हि भूत्वा । देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् । इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् ॥ ३। ७। ५। ३॥ ४५ देवाः पितरः पितरो देवाः । योऽहमस्मि स सन्, यजे । यस्यास्मि न तमन्तरेमि । स्वं म इष्ट२ꣳ स्वं दत्तम् । स्वं पूर्त२ꣳ स्व२ꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्रष्टा । वायुरुपश्रोता । आदित्योऽनुख्याता । द्यौः पिता ॥ ३। ७। ५। ४॥ ४६ पृथिवी माता । प्रजापतिर्बन्धुः । य एवास्मि स सन्, यजे । मा भेर्मा संविक्था मा त्वा हिꣳसिषम् । मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिꣳसीः । यदवदानानि तेऽवद्यन् । विलोमाकार्षमात्मनः ॥ ३। ७। ५। ५॥ ४७ आज्येन प्रत्यनज्म्येनत् । तत्त आप्यायतां पुनः । अज्यायो यवमात्रात् । आव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य । शुद्ध२ꣳ स्विष्टमिदꣳ हविः । मनुना दृष्टां घृतपदीम् । मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन् । अवद्याम्येकतोमुखाम् ॥ ३। ७। ५। ६॥ ४८ इडे भागं जुषस्व नः । जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम । सर्वात्मानः सर्वगणाः । ब्रध्न पिन्वस्व । ददतो मे मा क्षायि । कुर्वतो मे मोपदसत् । दिशां क्लृप्तिरसि । दिशो मे कल्पन्ताम् । कल्पन्तां मे दिशः ॥ ३। ७। ५। ७॥ ४९ दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवथ्सरो मे कल्पताम् । क्लृप्तिरसि कल्पतां मे । आशानां त्वाऽऽशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः ॥ ३। ७। ५। ८॥ ५० विधेम हविषा वयम् । भजतां भागी भागम् । माऽभागोऽभक्त । निरभागं भजामः । अपस्पिन्व । ओषधीर्जिन्व । द्विपात्पाहि । चतुष्पादव । दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविः ॥ ३। ७। ५। ९॥ ५१ सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणः । नेहाब्राह्मणस्यास्ति । समङ्क्तां बर्हिर्हविषा घृतेन । समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्ताम् । दिव्यं नभो गच्छतु यथ्स्वाहा । इन्द्राणीवाविधवा भूयासम् । अदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्य ॥ ३। ७। ५। १०॥ ५२ उपनिषदे सुप्रजास्त्वाय । सं पत्नी पत्या सुकृतेन गच्छताम् । यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीः । दिवि ज्योतिरजरमारभेताम् । दश ते तनुवो यज्ञ यज्ञियाः । ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानः । देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् । यं वां देवा अकल्पयन् ॥ ३। ७। ५। ११॥ ५३ ऊर्जो भागꣳ शतक्रतू । एतद्वां तेन प्रीणानि । तेन तृप्यतमꣳहहौ । अहं देवानाꣳ सुकृतामस्मि लोके । ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् । यदाभ्यामिन्द्रो अदधाद्भागधेयम् । अदारसृद्भवत देव सोम । अस्मिन्, यज्ञे मरुतो मृडता नः । मा नो विददभि भामो अशस्तिः ॥ ३। ७। ५। १२॥ ५४ मा नो विदद्वृजना द्वेष्या या । ऋषभं वाजिनं वयम् । पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । प्राणाय सुराधसे । पूर्णमासाय स्वाहा । अमावास्या सुभगा सुशेवा । धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । अपानाय सुराधसे । अमावास्यायै स्वाहा । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरिताः सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने ॥ ३। ७। ५। १३॥ अभीत्वर्यै करोमि क्रमीत्पिताऽऽत्मन एकतोमुखां मे दिशोऽध्यक्षेभ्यो हविर्गार्हपत्याकल्पयन्नशस्तिः सा नो दोहताꣳ सुवीर्यꣳ सप्त च ॥ ५॥ ५५ परिस्तृणीत परिधत्ताग्निम् । परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णः । निष्का इमे यजमानस्य सन्तु कामदुघाः । अमुत्रामुष्मिं ल्लोके । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे । अहं भूपतिरहं भुवनपतिः । अहं महतो भूतस्य पतिः ॥ ३। ७। ६। १॥ ५६ देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देवसवितरेतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तदहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब्जगत्यै । जगत्यनुष्टुभे । अनुष्टुक् पङ्क्त्यै । पङ्क्तिः प्रजापतये ॥ ३। ७। ६। २॥ ५७ प्रजापतिर्विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर्ब्रह्मणे । ब्रह्म भूर्भुवः सुवः । बृहस्पतिर्देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इदं तस्मै हर्म्यं करोमि । यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्वी ॥ ३। ७। ६। ३॥ ५८ अन्तर्दूतश्चरति मानुषीषु । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । भूमिर्भूत्वा महिमानं पुपोष । ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं च । ओषधीराप इह शक्वरीश्च । यो मा हृदा मनसा यश्च वाचा ॥ ३। ७। ६। ४॥ ५९ यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च । तस्येन्द्र वज्रेण शिरश्छिनद्मि । ऊर्णामृदु प्रथमान२ꣳ स्योनम् । देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि । मां नाकस्य पृष्ठे परमे व्योमन् । चतुः शिखण्डा युवतिः सुपेशाः । घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय ॥ ३। ७। ६। ५॥ ६० सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व । ब्रह्मतेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व ॥ ३। ७। ६। ६॥ ६१ अस्मिन्, यज्ञ उप भूय इन्नु मे । अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयान् । अग्निर्द्वेषाꣳसि निरितो नुदातै । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान् । जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनान् । अह२ꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिम् । विश्वं पाप्मानममतिं दुर्मरायुम् ॥ ३। ७। ६। ७॥ ६२ सीदन्ती देवी सुकृतस्य लोके । धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतम् । प्रजां मयि धारयतम् । पशून्मयि धारयतम् । अयं प्रस्तर उभयस्य धर्ता । धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपाः । तस्मिन्थ्स्रुचो अध्यासादयामि । आरोह पथो जुहु देवयानान् ॥ ३। ७। ६। ८॥ ६३ यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाऽजिरा सम्भृताङ्गा । वहासि मा सुकृतां यत्र लोकाः । अवाहं बाध उपभृता सपत्नान् । जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुम् । अहमुत्तरो भूयासम् । अधरे मथ्सपत्नाः । यो मा वाचा मनसा दुर्मरायुः । हृदाऽरातीयादभिदासदग्ने ॥ ३। ७। ६। ९॥ ६४ इदमस्य चित्तमधरं ध्रुवायाः । अहमुत्तरो भूयासम् । अधरे मथ्सपत्नाः । ऋषभोऽसि शाक्वरः । घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद । स्योनो मे सीद सुषदः पृथिव्याम् । प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षे । अहमुत्तरो भूयासम् ॥ ३। ७। ६। १०॥ ६५ अधरे मथ्सपत्नाः । इय२ꣳ स्थाली घृतस्य पूर्णा । अच्छिन्नपयाः शतधार उथ्सः । मारुतेन शर्मणा दैव्येन । यज्ञोऽसि सर्वतः श्रितः । सर्वतो मां भूतं भविष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । प्रजापतिरसि सर्वतः श्रितः ॥ ३। ७। ६। ११॥ ६६ सर्वतो मां भूतं भविष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । इदमिन्द्रियममृतं वीर्यम् । अनेनेन्द्राय पशवोऽचिकिथ्सन् । तेन देवा अवतोप माम् । इहेषमूर्जं यशः सह ओजः सनेयम् । श‍ृतं मयि श्रयताम् । यत्पृथिवीमचरत्तत्प्रविष्टम् ॥ ३। ७। ६। १२॥ ६७ येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवत् । येनोपरिष्टादधि नोन्महेन्द्रम् । दधि मां धिनोतु । अयं वेदः पृथिवीमन्वविन्दत् । गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकम् । अच्छिद्रं यज्ञं भूरिकर्मा करोतु । अयं यज्ञः समसदद्धविष्मान् । ऋचा साम्ना यजुषा देवताभिः ॥ ३। ७। ६। १३॥ ६८ तेन लोकान्थ्सूर्यवतो जयेम । इन्द्रस्य सख्यममृतत्वमश्याम् । यो नः कनीय इह कामयातै । अस्मिन्, यज्ञे यजमानाय मह्यम् । अप तमिन्द्राग्नी भुवनान्नुदेताम् । अहं प्रजां वीरवतीं विदेय । अग्ने वाजजित् । वाजं त्वा सरिष्यन्तम् । वाजं जेष्यन्तम् । वाजिनं वाजजितम् ॥ ३। ७। ६। १४॥ ६९ वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । उपहूतो द्यौः पिता । उप मां द्यौः पिता ह्वयताम् । अग्निराग्नीद्ध्रात् । आयुषे वर्चसे । जीवात्वै पुण्याय । उपहूता पृथिवी माता । उप मां माता पृथिवी ह्वयताम् । अग्निराग्नीद्ध्रात् ॥ ३। ७। ६। १५॥ ७० आयुषे वर्चसे । जीवात्वै पुण्याय । मनो ज्योतिर्जुषतामाज्यम् । विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नः । विश्वे देवा इह मादयन्ताम् । यं ते अग्न आवृश्चामि । अहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत ॥ ३। ७। ६। १६॥ ७१ अग्ने यो नोऽभिदासति । समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदः । यं चाहं द्वेष्मि यश्च माम् । सर्वाग्स्तानग्ने संदह । याग्श्चाहं द्वेष्मि ये च माम् । अग्ने वाजजित् । वाजं त्वा ससृवाꣳसम् ॥ ३। ७। ६। १७॥ ७२ वाजं जिगिवाꣳसम् । वाजिनं वाजजितम् । वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । वेदिर्बर्हिः श‍ृतꣳ हविः । इध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुः । याज्याश्च वषट्काराः । सं मे संनतयो नमन्ताम् । इध्मसंनहने हुते ॥ ३। ७। ६। १८॥ ७३ दिवः खीलोऽवततः । पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन । द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचतु । ओषधे मो अहꣳ शुचम् । यज्ञ नमस्ते यज्ञ । नमो नमश्च ते यज्ञ । शिवेन मे संतिष्ठस्व । स्योनेन मे संतिष्ठस्व ॥ ३। ७। ६। १९॥ ७४ सुभूतेन मे संतिष्ठस्व । ब्रह्मवर्चसेन मे संतिष्ठस्व । यज्ञस्यर्द्धिमनु संतिष्ठस्व । उप ते यज्ञ नमः । उप ते नमः । उप ते नमः । त्रिष्फली क्रियमाणानाम् । यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयम् । आपस्तत्प्रवहतादितः ॥ ३। ७। ६। २०॥ ७५ उलूखले मुसले यच्च शूर्पे । आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि । विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीः । अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि । उद्यन्नद्य मित्रमहः । सपत्नान्मे अनीनशः । दिवैनान्, विद्युता जहि । निम्रोचन्नधरान्कृधि ॥ ३। ७। ६। २१॥ ७६ उद्यन्नद्य वि नो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमहः । आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि ॥ ३। ७। ६। २२॥ ७७ अथो हारिद्रवेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रधम् । यो नः शपादशपतः । यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च । सर्वं पापꣳ समूहताम् ॥ ३। ७। ६। २३॥ ७८ यो नः सपत्नो यो रणः । मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किञ्चन । अवसृष्टः परापत । शरो ब्रह्मसꣳशितः । गच्छामित्रान्प्रविश । मैषां कंचनोच्छिषः ॥ ३। ७। ६। २४॥ पतिः प्रजापतये तपस्वी वाचा सौभगाय पशून्मे पिन्वस्व दुर्मरायुं देवयानानग्नेऽन्तरिक्षेऽहमुत्तरो भूयासं प्रजापतिरसि सर्वतः श्रितः प्रविष्टं देवताभिर्वाजजितं पृथिवी ह्वयतामग्निराग्नीद्ध्राद्वृश्चत ससृवाꣳ सꣳ हुते स्योनेन मे संतिष्ठस्वेतः कृधि दध्मस्यूहतामष्टौ च ॥ ६॥ ७९ सक्षेदं पश्य । विधर्तरिदं पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्याहुः । सूऱ्यो वरिष्ठो अक्षभिर्विभाति । अनु द्यावापृथिवी देवपुत्रे । दीक्षाऽसि तपसो योनिः । तपोऽसि ब्रह्मणो योनिः ॥ ३। ७। ७। १॥ ८० ब्रह्मासि क्षत्रस्य योनिः । क्षत्रमस्यृतस्य योनिः । ऋतमसि भूरारभे । श्रद्धां मनसा । दीक्षां तपसा । विश्वस्य भुवनस्याधिपत्नीम् । सर्वे कामा यजमानस्य सन्तु । वातं प्राणं मनसाऽन्वारभामहे । प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वꣳहसः ॥ ३। ७। ७। २॥ ८१ ज्योग्जीवा जरामशीमहि । इन्द्र शाक्वर गायत्रीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर जगतीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वरानुष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये ॥ ३। ७। ७। ३॥ ८२ तां ते युनज्मि । आऽहं दीक्षामरुहमृतस्य पत्नीम् । गायत्रेण छन्दसा ब्रह्मणा च । ऋतꣳ सत्येऽधायि । सत्यमृतेऽधायि । ऋतं च मे सत्यं चाभूताम् । ज्योतिरभूवꣳ सुवरगमम् । सुवर्गं लोकं नाकस्य पृष्ठम् । ब्रध्नस्य विष्टपमगमम् । पृथिवी दीक्षा ॥ ३। ७। ७। ४॥ ८३ तयाऽग्निर्दीक्षया दीक्षितः । ययाऽग्निर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा । तया वायुर्दीक्षया दीक्षितः । यया वायुर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा । तयाऽऽदित्यो दीक्षया दीक्षितः । ययाऽऽदित्यो दीक्षया दीक्षितः ॥ ३। ७। ७। ५॥ ८४ तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा । तया चन्द्रमा दीक्षया दीक्षितः । यया चन्द्रमा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । यया वरुणो राजा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा ॥ ३। ७। ७। ६॥ ८५ तया सोमो राजा दीक्षया दीक्षितः । यया सोमो राजा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा । तया प्राणो दीक्षया दीक्षितः । यया प्राणो दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनु दीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनु दीक्षताम् । द्यौस्त्वा दीक्षमाणमनु दीक्षताम् ॥ ३। ७। ७। ७॥ ८६ दिशस्त्वा दीक्षमाणमनु दीक्षन्ताम् । आपस्त्वा दीक्षमाणमनु दीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनु दीक्षन्ताम् । वाक्त्वा दीक्षमाणमनु दीक्षताम् । ऋचस्त्वा दीक्षमाणमनु दीक्षन्ताम् । सामानि त्वा दीक्षमाणमनु दीक्षन्ताम् । यजूꣳषि त्वा दीक्षमाणमनु दीक्षन्ताम् । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च ॥ ३। ७। ७। ८॥ ८७ आपश्चौषधयश्च । ऊर्क्च सूनृता च । तास्त्वा दीक्षमाणमनु दीक्षन्ताम् । स्वे दक्षे दक्षपितेह सीद । देवानाꣳ सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व । पितेवैधि सूनव आसुशेवः । शिवो मा शिवमाविश । सत्यं म आत्मा । श्रद्धा मे क्षितिः ॥ ३। ७। ७। ९॥ ८८ तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु । सत्यमस्मि । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । आजुह्वानः सुप्रतीकः पुरस्तात् । अग्ने स्वां योनिमासीद साध्या । अस्मिन्थ्सधस्थे अध्युत्तरस्मिन् ॥ ३। ७। ७। १०॥ ८९ विश्वे देवा यजमानश्च सीदत । एकमिषे विष्णुस्त्वाऽन्वेतु । द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु । त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु । चत्वारि मायो भवाय विष्णुस्त्वाऽन्वेतु । पञ्च पशुभ्यो विष्णुस्त्वाऽन्वेतु । षड्रायस्पोषाय विष्णुस्त्वाऽन्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेतु । सखायः सप्तपदा अभूम । सख्यं ते गमेयम् ॥ ३। ७। ७। ११॥ ९० सख्यात्ते मा योषम् । सख्यान्मे मा योष्ठाः । साऽसि सुब्रह्मण्ये । तस्यास्ते पृथिवी पादः । साऽसि सुब्रह्मण्ये । तस्यास्तेऽन्तरिक्षं पादः । साऽसि सुब्रह्मण्ये । तस्यास्ते द्यौः पादः । साऽसि सुब्रह्मण्ये । तस्यास्ते दिशः पादः ॥ ३। ७। ७। १२॥ ९१ परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्मवर्चसमन्नाद्यम् । विमिमे त्वा पयस्वतीम् । देवानां धेनुꣳ सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु । क्षेमो अस्तु नः । इमां नराः कृणुत वेदिमेत्य । वसुमतीꣳ रुद्रवतीमादित्यवतीम् ॥ ३। ७। ७। १३॥ ९२ वर्ष्मन्दिवः । नाभा पृथिव्याः । यथाऽयं यजमानो न रिष्येत् । देवस्य सवितुः सवे । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । तस्याꣳ सुपर्णावधि यौ निविष्टौ । तयोर्देवानामधि भागधेयम् । अप जन्यं भयं नुद । अप चक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् । न वा उवेतन्म्रियसे न रिष्यसि । देवाꣳ इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः । तत्र त्वा देवः सविता दधातु ॥ ३। ७। ७। १४॥ ब्रह्मणो योनिरꣳहसः पङ्क्तिं प्रपद्ये दीक्षा ययाऽऽदित्यो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयाम्योषधयो दीक्षा द्यौस्त्वा दीक्षमाणमनु दीक्षतामप चितिश्चाक्षितिरुत्तरस्मिन्गमेयं दिशः पाद आदित्यवतीं वर्तय पञ्च च ॥ ७॥ ९३ यदस्य पारे रजसः । शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषः । अग्ने वैश्वानर स्वाहा । यस्माद्भीषाऽवाशिष्ठाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे । यस्माद्भीषा न्यषदः । ततो नो अभयं कृधि ॥ ३। ७। ८। १॥ ९४ प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे । उदुस्र तिष्ठ प्रतितिष्ठ मा रिषः । मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि । शं न एधि द्विपदे शं चतुष्पदे । यस्माद्भीषाऽवेपिष्ठाः पलायिष्ठाः समज्ञास्थाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे ॥ ३। ७। ८। २॥ ९५ य इदमकः । तस्मै नमः । तस्मै स्वाहा । न वा उ वेतन्म्रियसे । आशानां त्वा विश्वा आशाः । यज्ञस्य हि स्थ ऋत्वियौ । इन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतम् । अहुतस्य हुतस्य च । हुतस्य चाहुतस्य च । अहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य । वीतं पिबतं जुषेथाम् । मा यजमानं तमो विदत् । मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात् । सꣳसृष्टमुभयं कृतम् ॥ ३। ७। ८। ३॥ कृधि मीढुषेऽहुतस्य च सप्त च ॥ ८॥ ९६ अनागसस्त्वा वयम् । इंद्रेण प्रेषिता उप । वायुष्टे अस्त्वꣳशभूः । मित्रस्ते अस्त्वꣳशभूः । वरुणस्ते अस्त्वꣳशभूः । अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो नपातारः । वग्नुनेन्द्रग्ग् ह्वयत । घोषेणामीवाग्श्चातयत ॥ ३। ७। ९। १॥ ९७ युक्ताः स्थ वहत । देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः परावतः । आऽस्माथ्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः । ब्रह्मवर्चसं म आसुषवुः । समरे रक्षाग्स्यवधिषुः । अपहतं ब्रह्मज्यस्य । वाक्च त्वा मनश्च श्रिणीताम् ॥ ३। ७। ९। २॥ ९८ प्राणश्च त्वाऽपानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । श‍ृतोऽसि श‍ृतं कृतः । श‍ृताय त्वा श‍ृतेभ्यस्त्वा । यमिन्द्रमाहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ॥ ३। ७। ९। ३॥ ९९ यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा । मयि त्यदिन्द्रियं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो विभातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । तस्य दोहमशीमहि ॥ ३। ७। ९। ४॥ १०० तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । वाग्जुषाणा सोमस्य तृप्यतु । मित्रो जनान्प्रसमित्र । यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे ॥ ३। ७। ९। ५॥ १०१ प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिरः । इन्द्राधिपतेऽधिपतिस्त्वं देवानामसि । अधिपतिं माम् । आयुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ॥ ३। ७। ९। ६॥ १०२ इन्द्रश्च सम्राड्वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु । प्रजापतिर्विश्वकर्मा । तस्य मनो देवं यज्ञेन राध्यासम् । अर्थे गा अस्य जहितः । अवसानपतेऽवसानं मे विन्द । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे ॥ ३। ७। ९। ७॥ १०३ उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे । यान्यपामित्यान्यप्रतीत्तान्यस्मि । यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामः । जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्ननृणाः परस्मिन् । तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः ॥ ३। ७। ९। ८॥ १०४ सर्वान्पथो अनृणा आक्षीयेम । इदमूनुः श्रेयोऽवसानमागन्म । शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत् । सुवीरा वीरैरनु संचरेम । अर्कः पवित्रꣳ रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने । घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महत् । अशीमहि गाधमुत प्रतिष्ठाम् ॥ ३। ७। ९। ९॥ चातयत श्रीणीताꣳ सत्यमाहुरशीमहि गणे कुरु विद्रवणे पितृयाणा अर्को रजसो विमानस्त्रीणि च ॥ ९॥ १०५ उदस्तांप्सीथ्सविता मित्रो अर्यमा । सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तम् । रथन्तरे श्रयस्व स्वाहा पृथिव्याम् । वामदेव्ये श्रयस्व स्वाहाऽन्तरिक्षे । बृहति श्रयस्व स्वाहा दिवि । बृहता त्वोपस्तभ्नोमि । आ त्वा ददे यशसे वीर्याय च । अस्मास्वघ्निया यूयं दधाथेन्द्रियं पयः । यस्ते द्रप्सो यस्त उदर्षः ॥ ३। ७। १०। १॥ १०६ दैव्यः केतुर्विश्वं भुवनमाविवेश । स नः पाह्यरिष्ट्यै स्वाहा । अनु मा सर्वो यज्ञोऽयमेतु । विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दाꣳसि निविदो यजूꣳषि । अस्यै पृथिव्यै यद्यज्ञियम् । प्रजापतेर्वर्तनिमनुवर्तस्व । अनु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैः । अनु प्रजयाऽन्विन्द्रियेण ॥ ३। ७। १०। २॥ १०७ देवा नो यज्ञमृजुधा नयन्तु । प्रति क्षत्त्रे प्रति तिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याऽभिवावृधे । तदन्यस्यामधिश्रितम् । दिवे च विश्वकर्मणे । पृथिव्यै चाकरं नमः । अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः ॥ ३। ७। १०। ३॥ १०८ स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आस्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहि । ये देवा येषामिदं भागधेयं बभूव । येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः । अग्निहोतृभ्यो देवेभ्यः स्वाहा । उत त्या नो दिवा मतिः ॥ ३। ७। १०। ४॥ १०९ अदितिरूत्याऽऽगमत् । सा शन्ताची मयस्करत् । अप स्रिधः । उत त्या दैव्या भिषजा । शं नस्करतो अश्विना । यूयातामस्मद्रपः । अप स्रिधः । शमग्निरग्निभिस्करत् । शं नस्तपतु सूर्यः । शं वातो वात्वरपाः ॥ ३। ७। १०। ५॥ ११० अप स्रिधः । तदित्पदं न विचिकेत विद्वान् । यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृत् । जीवो गर्भो न मृतः स जीवात् । प्रत्यस्मै पिपीषते । विश्वानि विदुषे भर । अरंगमाय जग्मवे । अपश्चाद्दध्वने नरे । इन्दुरिन्द्रमवागात् । इन्दोरिन्द्रोऽपात् । तस्य त इन्दविन्द्रपीतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि ॥ ३। ७। १०। ६॥ उदर्ष इन्द्रियेण गा मतिररपा अगात्त्रीणि च ॥ १०॥ १११ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताऽऽहुतिरेतु देवान् । आश्रावितमत्याश्रावितम् । वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताऽऽहुतिरेतु देवान् ॥ ३। ७। ११। १॥ ११२ यद्वो देवा अतिपादयानि । वाचा चित्प्रयतं देव हेडनम् । अरायो अस्माꣳ अभिदुच्छुनायते । अन्यत्रास्मन् मरुतस्तन्निधेतन । ततं म आपस्तदु तायते पुनः । स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः । स्वाहाकृतस्य समुतृप्णुतर्भुवः । उद्वयं तमसस्परि । उदु त्यं चित्रम् ॥ ३। ७। ११। २॥ ११३ इमं मे वरुण तत्त्वा यामि । त्वं नो अग्ने स त्वं नो अग्ने । त्वमग्ने अयासि प्रजापते । इमं जीवेभ्यः परिधिं दधामि । मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीः । तिरो मृत्युं दधतां पर्वतेन । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा ॥ ३। ७। ११। ३॥ ११४ ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । यत इन्द्र भयामहे । ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये । वि द्विषो वि मृधो जहि । स्वस्तिदा विशस्पतिः । वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः । स्वस्तिदा अभयंकरः । आभिर्गीर्भिर्यदतो न ऊनम् ॥ ३। ७। ११। ४॥ ११५ आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यदाज्ञातम् । यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । पुरुषसंमितो यज्ञः । यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवाꣳ ऋतुशो यजाति ॥ ३। ७। ११। ५॥ देवाग्श्चित्रं तनूभ्यः स्वाहोनं पुरुषसंमितोऽग्ने तदस्य कल्पय पञ्च च ॥ ११॥ ११६ यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चत । ऋतस्यर्तेन मामुत । देवा जीवनकाम्या यत् । वाचाऽनृतमूदिम । अग्निर्मा तस्मादेनसः । गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् ॥ ३। ७। १२। १॥ ११७ ऋतेन द्यावापृथिवी । ऋतेन त्वꣳ सरस्वति । ऋतान्मा मुञ्चताꣳहसः । यदन्यकृतमारिम । सजातशꣳसादुत वा जामिशꣳसात् । ज्यायसः शꣳसादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनः । तस्मात्त्वमस्मान्जातवेदो मुमुग्धि । यद्वाचा यन्मनसा । बाहुभ्यामूरुभ्यामष्ठीवद्भ्याम् ॥ ३। ७। १२। २॥ ११८ शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसः । यद्धस्ताभ्यां चकर किल्बिषाणि । अक्षाणां वग्नुमुप जिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च । तान्यप्सरसावनु दत्ता मृणानि । अदीव्यन्नृणं यदहं चकार । यद्वाऽदास्यन्थ्संजगारा जनेभ्यः । अग्निर्मा तस्मादेनसः । यन्मयि माता गर्भे सति ॥ ३। ७। १२। ३॥ ११९ एनश्चकार यत्पिता । अग्निर्मा तस्मादेनसः । यदा पिपेष मातरं पितरम् । पुत्रः प्रमुदितो धयन् । अहिꣳसितौ पितरौ मया तत् । तदग्ने अनृणो भवामि । यदन्तरिक्षं पृथिवीमुत द्याम् । यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसः । यदाशसा निशसा यत्पराशसा ॥ ३। ७। १२। ४॥ १२० यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसः । अतिक्रामामि दुरितं यदेनः । जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतः । तमारोहामि सुकृतां नु लोकम् । त्रिते देवा अमृजतैतदेनः । त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किंचिदानशे । अग्निर्मा तस्मादेनसः ॥ ३। ७। १२। ५॥ १२१ गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् । दिवि जाता अप्सु जाताः । या जाता ओषधीभ्यः । अथो या अग्निजा आपः । ता नः शुन्धन्तु शुन्धनीः । यदापो नक्तं दुरितं चराम । यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः । इमं मे वरुण तत्त्वा यामि । त्वं नो अग्ने स त्वं नो अग्ने । त्वमग्ने अयाऽसि ॥ ३। ७। १२। ६॥ अनेनसमष्ठीवद्भ्याꣳ सति पराशसाऽऽनशेऽग्निर्मा तस्मादेनसः पुनीत नस्त्रीणि च ॥ १२॥ यद्देवा देवा ऋतेन सजातशꣳसाद्यद्वाचा यद्धस्ताभ्यामदीव्यं यन्मयि माता यदापिपेष यदन्तरिक्षं यदाशसाऽतिक्रामामि त्रिते देवा दिवि जाता अप्सु जाता यदाप इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि ॥ १२२ यत्ते ग्राव्ण्णा चिच्छिदुः सोम राजन् । प्रियाण्यङ्गानि स्वधिता परूꣳषि । तथ्संधथ्स्वाज्येनोत वर्धयस्व । अनागसो अधमिथ्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुः । नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते । निष्ट्यायतां देव सोम । यत्ते त्वचं बिभिदुर्यच्च योनिम् । यदास्थानात्प्रच्युतो वेनसि त्मना ॥ ३। ७। १३। १॥ १२३ त्वया तथ्सोम गुप्तमस्तु नः । सा नः संधाऽसत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्य । अन्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षाः सोम उत शुश्रुगस्तु । मा नो विहासीद्गिर आवृणानः । अनागास्तनुवो वावृधानः । आ नो रूपं वहतु जायमानः ॥ ३। ७। १३। २॥ १२४ उपक्षरन्ति जुह्वो घृतेन । प्रियाण्यङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद्वषट्च । उप मा राजन्थ्सुकृते ह्वयस्व । संप्राणापानाभ्याꣳ समु चक्षुषा त्वम् । स२ꣳ श्रोत्रेण गच्छस्व सोम राजन् । यत्त आस्थितꣳ शमु तत्ते अस्तु । जानीतान्नः संगमने पथीनाम् । एतं जानीतात्परमे व्योमन् । वृकाः सधस्था विद रूपमस्य ॥ ३। ७। १३। ३॥ १२५ यदा गच्छात्पथिभिर्देवयानैः । इष्टापूर्ते कृणुतादाविरस्मै । अरिष्टो राजन्नगदः परेहि । नमस्ते अस्तु चक्षसे रघूयते । नाकमारोह सह यजमानेन । सूर्यं गच्छतात्परमे व्योमन् । अभूद्देवः सविता वन्द्यो नु नः । इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्रविणं यथा दधत् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घविषा परि णो वृणक्तु । आप्यायस्व सं ते ॥ ३। ७। १३। ४॥ त्मना जायमानोऽस्य दधत्पञ्च च ॥ १३॥ १२६ यद्दिदीक्षे मनसा यच्च वाचा । यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रेतसा मिथुनेनाप्यात्मना । अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रियम् । यदृचा साम्ना यजुषा । पशूनां चर्मन् हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतौ । अद्भ्यो लोका दधिरे तेज इन्द्रियम् ॥ ३। ७। १४। १॥ १२७ शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रियम् । येन ब्रह्म येन क्षत्रम् । येनेन्द्राग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणाः । अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रियम् । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम ॥ ३। ७। १४। २॥ १२८ अग्नेः प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । इन्द्रस्य प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । विश्वेषां देवानां प्रियतमꣳ हविः स्वाहा । वयꣳ सोम व्रते तव । मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहि ॥ ३। ७। १४। ३॥ १२९ देवेभ्यः पितृभ्यः स्वाहा । सोम्येभ्यः पितृभ्यः स्वाहा । कव्येभ्यः पितृभ्यः स्वाहा । देवास इह मादयध्वम् । सोम्यास इह मादयध्वम् । कव्यास इह मादयध्वम् । अनन्तरिताः पितरः सोम्याः सोमपीथात् । अपैतु मृत्युरमृतं न आगन् । वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिव ॥ ३। ७। १४। ४॥ १३० अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः । परं मृत्यो अनुपरेहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते श‍ृण्वते ते ब्रवीमि । मा नः प्रजाꣳ रीरिषो मोत वीरान् । इदमूनु श्रेयोऽवसानमागन्म । यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिव । अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः ॥ ३। ७। १४। ५॥ वनस्पतावद्भ्यो लोका दधिरे तेज इन्द्रियं धामाशीमहीवाभि नः शीयताꣳ रयिरेकं च ॥ १४॥ सर्वान् यद्विष्षण्णेन वि वै याः पुरस्ताद्देवा देवेषु परि स्तृणीत सक्षेदं यदस्य पारेऽनागस उदस्तांप्सीद्ब्रह्म प्रतिष्ठा यद्देवा यत्ते ग्राव्ण्णा यद्दिदीक्षे चतुर्दश ॥ १४॥ सर्वान्भूतिमेव यामेवाप्स्वाहुतिं व्रतानां पर्णवल्कः सोम्यानामस्मिन्, यज्ञेऽग्ने यो नो ज्योग्जीवाः परोरजाः प्रतेमहे ब्रह्म प्रतिष्ठा गार्हपत्यस्त्रिꣳशदुत्तरशतम् ॥ १३०॥ सर्वान्नः शचीपतिः ॥

तृतीयाष्टके अष्टमः प्रपाठकः ८

अश्वमेधम् वैश्वदेवं कांडं तत्र प्रथममहः

१ सांग्रहण्येष्ट्या यजते । इमां जनताꣳ संगृह्णानीति । द्वादशारत्नी रशना भवति । द्वादश मासाः संवथ्सरः । संवथ्सरमेवावरुन्धे । मौञ्जी भवति । ऊर्ग्वै मुञ्जाः । ऊर्जमेवावरुन्धे । चित्रा नक्षत्रं भवति । चित्रं वा एतत्कर्म ॥ ३। ८। १। १॥ २ यदश्वमेधः समृद्ध्यै । पुण्यनाम देवयजनमध्यवस्यति । पुण्यामेव तेन कीर्तिमभिजयति । अपदातीनृत्विजः समावहन्त्या सुब्रह्मण्यायाः । सुवर्गस्य लोकस्य समष्ट्यै । केशश्मश्रु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते । पाप्मनोऽपहत्यै । वाचं यत्वोपवसति । सुवर्गस्य लोकस्य गुप्त्यै । रात्रिं जागरयन्त आसते । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। ८। १। २॥ कर्म धत्ते पञ्च च ॥ १॥ ३ चतुष्टय्य आपो भवन्ति । चतुःशफो वा अश्वः प्राजापत्यः समृद्ध्यै । ता दिग्भ्यः समाभृता भवन्ति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे । तासु ब्रह्मौदनं पचति । रेत एव तद्दधाति ॥ ३। ८। २। १॥ ४ चतुःशरावो भवति । दिक्ष्वेव प्रतितिष्ठति । उभयतो रुक्मौ भवतः । उभयत एवास्मिन्रुचं दधाति । उद्धरति श‍ृतत्वाय । सर्पिष्वान्भवति मेध्यत्वाय । चत्वार आर्षेयाः प्राश्नन्ति । दिशामेव ज्योतिषि जुहोति । चत्वारि हिरण्यानि ददाति । दिशामेव ज्योतीग्ष्यवरुन्धे ॥ ३। ८। २। २॥ ५ यदाज्यमुच्छिष्यते । तस्मिन्रशनां न्युनत्ति । प्रजापतिर्वा ओदनः । रेत आज्यम् । यदाज्ये रशनां न्युनत्ति । प्रजापतिमेव रेतसा समर्धयति । दर्भमयी रशना भवति । बहु वा एष कुचरोऽमेध्यमुपगच्छति । यदश्वः । पवित्रं वै दर्भाः ॥ ३। ८। २। ३॥ ६ यद्दर्भमयी रशना भवति । पुनात्येवैनम् । पूतमेनं मेध्यमालभते । अश्वस्य वा आलब्धस्य महिमोदक्रामत् । स महर्त्विजः प्राविशत् । तन्महर्त्विजां महर्त्विक्त्वम् । यन्महर्त्विजः प्राश्नन्ति । महिमानमेवास्मिन्तद्दधति । अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तथ्सुवर्णꣳ हिरण्यमभवत् । यथ्सुवर्णꣳ हिरण्यं ददाति । रेत एव तद्दधाति । ओदने ददाति । रेतो वा ओदनः । रेतो हिरण्यम् । रेतसैवास्मिन्रेतो दधाति ॥ ३। ८। २। ४॥ दधाति रुन्धे दर्भा अभवथ्षट् च ॥ २॥ ७ यो वै ब्रह्मणे देवेभ्यः प्रजापतयेऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यः प्रतिप्रोच्य । न देवताभ्य आवृश्च्यते । वसीयान्भवति । यदाह । ब्रह्मन्नश्वं मेध्यं भन्थ्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति । ब्रह्म वै ब्रह्मा । ब्रह्मण एव देवेभ्यः प्रजापतये प्रतिप्रोच्याश्वं मेध्यं बध्नाति ॥ ३। ८। ३। १॥ ८ न देवताभ्य आवृश्च्यते । वसीयान्भवति । देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । व्यृद्धं वा एतद्यज्ञस्य । यदयजुष्केण क्रियते । इमामगृभ्णन्रशनामृतस्येत्यधिवदति यजुष्कृत्यै । यज्ञस्य समृद्ध्यै ॥ ३। ८। ३। २॥ ९ तदाहुः । द्वादशारत्नी रशना कर्तव्या ३ त्रयोदशारत्नी ३ रिति । ऋषभो वा एष ऋतूनाम् । यथ्संवथ्सरः । तस्य त्रयोदशो मासो विष्टपम् । ऋषभ एष यज्ञानाम् । यदश्वमेधः । यथा वा ऋषभस्य विष्टपम् । एवमेतस्य विष्टपम् । त्रयोदशमरत्निꣳ रशनायामुपादधाति ॥ ३। ८। ३। ३॥ १० यथर्षभस्य विष्टपꣳ स२ꣳस्करोति । तादृगेव तत् । पूर्व आयुषि विदथेषु कव्येत्याह । आयुरेवास्मिन्दधाति । तया देवाः सुतमाबभूवुरित्याह । भूतिमेवोपावर्तते । ऋतस्य सामन्थ्सरमारपन्तीत्याह । सत्यं वा ऋतम् । सत्येनैवैनमृतेनारभते । अभिधा असीत्याह ॥ ३। ८। ३। ४॥ ११ तस्मादश्वमेधयाजी सर्वाणि भूतान्यभिभवति । भुवनमसीत्याह । भूमानमेवोपैति । यन्ताऽसीत्याह । यन्तारमेवैनं करोति । धर्ताऽसीत्याह । धर्तारमेवैनं करोति । सोऽग्निं वैश्वानरमित्याह । अग्नावेवैनं वैश्वानरे जुहोति । सप्रथसमित्याह ॥ ३। ८। ३। ५॥ १२ प्रजयैवैनं पशुभिः प्रथयति । स्वाहाकृत इत्याह । होम एवास्यैषः । पृथिव्यामित्याह । अस्यामेवैनं प्रतिष्ठापयति । यन्ता राड्यन्ताऽसि यमनो धर्ताऽसि धरुण इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वेत्याह । आशिषमेवैतामाशास्ते । स्वगा त्वा देवेभ्य इत्याह । देवेभ्य एवैनग्ग् स्वगा करोति । स्वाहा त्वा प्रजापतय इत्याह । प्राजापत्यो वा अश्वः । यस्या एव देवताया आलभ्यते । तयैवैनꣳ समर्धयति ॥ ३। ८। ३। ६॥ बध्नाति समृद्ध्या उपादधात्यसीत्याह सप्रथसमित्याह देवेभ्य इत्याह पञ्च च ॥ ३॥ १३ यः पितुरनुजायाः पुत्रः । स पुरस्तान्नयति । यो मातुरनुजायाः पुत्रः । स पश्चान्नयति । विष्वञ्चमेवास्मात्पाप्मानं विवृहतः । यो अर्वन्तं जिघाꣳसति तमभ्यमीति वरुण इति श्वानं चतुरक्षं प्रसौति । परो मर्तः परः श्वेति शुनश्चतुरक्षस्य प्रहन्ति । श्वेव वै पाप्मा भ्रातृव्यः । पाप्मानमेवास्य भ्रातृव्यꣳ हन्ति । सैध्रकं मुसलं भवति ॥ ३। ८। ४। १॥ १४ कर्म कर्मैवास्मै साधयति । पौग्श्चलेयो हन्ति । पुग्ग्श्चल्वां वै देवाः शुचं न्यदधुः । शुचैवास्य शुचꣳ हन्ति । पाप्मा वा एतमीप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अश्वस्याधस्पदमुपास्यति । वज्री वा अश्वः प्राजापत्यः । वज्रेणैव पाप्मानं भ्रातृव्यमवक्रामति । दक्षिणाऽपप्लावयति ॥ ३। ८। ४। २॥ १५ पाप्मानमेवास्माच्छमलमपप्लावयति । ऐषीक उदूहो भवति । आयुर्वा इषीकाः । आयुरेवास्मिन्दधति । अमृतं वा इषीकाः । अमृतमेवास्मिन्दधति । वेतस शाखोप संबद्धा भवति । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्वादेवैनं योनेर्निर्मिमीते । पुरस्तात्प्रत्यञ्चमभ्युदूहति । पुरस्तादेवास्मिन्प्रतीच्यमृतं दधाति । अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति । ब्रह्मक्षत्त्रे एव संदधाति । अभि क्रत्वेन्द्र भूरधज्मन्नित्यध्वर्युर्यजमानं वाचयत्यभिजित्यै ॥ ३। ८। ४। ३॥ भवति प्लावयति मिमीते पञ्च च ॥ ४॥ १६ चत्वार ऋत्विजः समुक्षन्ति । आभ्य एवैनं चतसृभ्यो दिग्भ्योऽभिसमीरयन्ति । शतेन राजपुत्रैः सहाध्वर्युः । पुरस्तात्प्रत्यङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजा वृत्रं वध्यादिति । राज्यं वा अध्वर्युः । क्षत्त्रꣳ राजपुत्रः । राज्येनैवास्मिन् क्षत्त्रं दधाति । शतेनाराजभिरुग्रैः सह ब्रह्मा ॥ ३। ८। ५। १॥ १७ दक्षिणत उदङ् तिष्ठन् प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजाऽप्रतिधृष्योऽस्त्विति । बलं वै ब्रह्मा । बलमराजोग्रः । बलेनैवास्मिन्बलं दधाति । शतेन सूतग्रामणिभिः सह होता । पश्चात् प्राङ् तिष्ठन् प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजाऽस्यै विशः ॥ ३। ८। ५। २॥ १८ बहुग्वै बह्वश्वायै बह्वजाविकायै । बहुव्रीहियवायै बहुमाषतिलायै । बहुहिरण्यायै बहुहस्तिकायै । बहुदासपूरुषायै रयिमत्यै पुष्टिमत्यै । बहुरायस्पोषायै राजाऽस्त्विति । भूमा वै होता । भूमा सूतग्रामण्यः । भूम्नैवास्मिन्भूमानं दधाति । शतेन क्षत्तसंग्रहीतृभिः सहोद्गाता । उत्तरतो दक्षिणा तिष्ठन् प्रोक्षति ॥ ३। ८। ५। ३॥ १९ अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजा सर्वमायुरेत्विति । आयुर्वा उद्गाता । आयुः, क्षत्तसंग्रहीतारः । आयुषैवास्मिन्नायुर्दधाति । शतꣳ शतं भवन्ति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । चतुःशता भवन्ति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति ॥ ३। ८। ५। ४॥ ब्रह्मा विश उक्षिति दिश एकं च ॥ ५॥ २० यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यन्निक्तमनालब्धमुथ्सृजन्ति । यथ्स्तोक्या अन्वाह । सर्वहुतमेवैनं करोत्यस्कन्दाय । अस्कन्नꣳ हि तत् । यद्धुतस्य स्कन्दति । सहस्रमन्वाह । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै ॥ ३। ८। ६। १॥ २१ यत्परिमिता अनुब्रूयात् । परिमितमवरुन्धीत । अपरिमिता अन्वाह । अपरिमितः सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । स्तोक्या जुहोति । या एव वर्ष्या आपः । ता अवरुन्धे । अस्यां जुहोति । इयं वा अग्निर्वैश्वानरः ॥ ३। ८। ६। २॥ २२ अस्यामेवैनाः प्रतिष्ठापयति । उवाच ह प्रजापतिः । स्तोक्यासु वा अहमश्वमेधꣳ स२ꣳस्थापयामि । तेन ततः स२ꣳस्थितेन चरामीति । अग्नये स्वाहेत्याह । अग्नय एवैनं जुहोति । सोमाय स्वाहेत्याह । सोमायैवैनं जुहोति । सवित्रे स्वाहेत्याह । सवित्र एवैनं जुहोति ॥ ३। ८। ६। ३॥ २३ सरस्वत्यै स्वाहेत्याह । सरस्वत्या एवैनं जुहोति । पूष्णे स्वाहेत्याह । पूष्ण एवैनं जुहोति । बृहस्पतये स्वाहेत्याह । बृहस्पतय एवैनं जुहोति । अपां मोदाय स्वाहेत्याह । अद्भ्य एवैनं जुहोति । वायवे स्वाहेत्याह । वायव एवैनं जुहोति ॥ ३। ८। ६। ४॥ २४ मित्राय स्वाहेत्याह । मित्रायैवैनं जुहोति । वरुणाय स्वाहेत्याह । वरुणायैवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दश दश संपादं जुहोति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । प्र वा एषोऽस्माल्लोकाच्च्यवते । यः पराचीराहुतीर्जुहोति । पुनः पुनरभ्यावर्तं जुहोति । अस्मिन्नेव लोके प्रतितिष्ठति । एताꣳ ह वाव सोऽश्वमेधस्य स२ꣳस्थितिमुवाचास्कन्दाय । अस्कन्नꣳ हि तत् । यद्यज्ञस्य स२ꣳस्थितस्य स्कन्दति ॥ ३। ८। ६। ५॥ अभिजित्यै वैश्वानरः सवित्र एवैनं जुहोति वायव एवैनं जुहोति च्यवते षट्च ॥ ६॥ २५ प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात् प्रत्यङ् तिष्ठन् प्रोक्षति । प्रजापतिर्वै देवानामन्नादो वीर्यावान् । अन्नाद्यमेवास्मिन्वीर्यं दधाति । तस्मादश्वः पशूनामन्नादो वीर्यावत्तमः । इन्द्राग्निभ्यां त्वेति दक्षिणतः । इन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ । ओज एवास्मिन्बलं दधाति । तस्मादश्वः पशूनामोजिष्ठो बलिष्ठः । वायवे त्वेति पश्चात् । वायुर्वै देवानामाशुः सारसारितमः ॥ ३। ८। ७। १॥ २६ जवमेवास्मिन्दधाति । तस्मादश्वः पशूनामाशुः सारसारितमः । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतः । विश्वे वै देवा देवानां यशस्वितमाः । यश एवास्मिन्दधाति । तस्मादश्वः पशूनां यशस्वितमः । देवेभ्यस्त्वेत्यधस्तात् । देवा वै देवानामपचिततमाः । अपचितिमेवास्मिन्दधाति । तस्मादश्वः पशूनामपचिततमः ॥ ३। ८। ७। २॥ २७ सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् । सर्वे वै देवास्त्विषिमन्तो हरस्विनः । त्विषिमेवास्मिन् हरो दधाति । तस्मादश्वः पशूनां त्विषिमान् हरस्वितमः । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याह । एभ्य एवैनं लोकेभ्यः प्रोक्षति । सते त्वाऽसते त्वाऽद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्य इत्याह । तस्मादश्वमेधयाजिनꣳ सर्वाणि भूतान्युपजीवन्ति । ब्रह्मवादिनो वदन्ति । यत्प्राजापत्योऽश्वः । अथ कस्मादेनमन्याभ्यो देवताभ्योऽपि प्रोक्षतीति । अश्वे वै सर्वा देवता अन्वायत्ताः । तं यद्विश्वेभ्यस्त्वा भूतेभ्य इति प्रोक्षति । देवता एवास्मिन्नन्वायातयति । तस्मादश्वे सर्वा देवता अन्वायत्ताः ॥ ३। ८। ७। ३॥ सारसारितमोपचिततमः प्राजापत्योऽश्वः पञ्च च ॥ ७॥ २८ यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यत्प्रोक्षितमनालब्धमुथ्सृजन्ति । यदश्वचरितानि जुहोति । सर्वहुतमेवैनं करोत्यस्कन्दाय । अस्कन्नꣳ हि तत् । यद्धुतस्य स्कन्दति । ईंकाराय स्वाहेंकृताय स्वाहेत्याह । एतानि वा अश्वचरितानि । चरितैरेवैनꣳ समर्धयति ॥ ३। ८। ८। १॥ २९ तदाहुः । अनाहुतयो वा अश्वचरितानि । नैता होतव्या इति । अथो खल्वाहुः । होतव्या एव । अत्र वावैवं विद्वानश्वमेधꣳ स२ꣳस्थापयति । यदश्वचरितानि जुहोति । तस्माद्धोतव्या इति । बहिर्धा वा एनमेतदायतनाद्दधाति । भ्रातृव्यमस्मै जनयति ॥ ३। ८। ८। २॥ ३० यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति । सावित्रिया इष्ट्याः पुरस्ताथ्स्विष्टकृतः । आहवनीयेऽश्वचरितानि जुहोति । आयतन एवास्याहुतीर्जुहोति । नास्मै भ्रातृव्यं जनयति । तदाहुः । यज्ञमुखे यज्ञमुखे होतव्याः । यज्ञस्य क्लृप्त्यै । सुवर्गस्य लोकस्यानुख्यात्या इति । अथो खल्वाहुः । ३१ यद्यज्ञमुखे यज्ञमुखे जुहुयात् । पशुभिर्यजमानं व्यर्धयेत् । अव सुवर्गाल्लोकात्पद्येत । पापीयान्थ्स्यादिति । सकृदेव होतव्याः । न यजमानं पशुभिर्व्यर्धयति । अभि सुवर्गं लोकं जयति । न पापीयान्भवति । अष्टाचत्वारिꣳशतमश्वरूपाणि जुहोति । अष्टाचत्वारिꣳशदक्षरा जगती । जागतोऽश्वः प्राजापत्यः समृद्ध्यै । एकमतिरिक्तं जुहोति । तस्मादेकः प्रजास्वर्धुकः ॥ ३। ८। ८। ४॥ अर्धयति जनयति खल्वाहुर्जगती त्रीणि च ॥ ८॥ ३२ विभूर्मात्रा प्रभूः पित्रेत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अश्वोऽसि हयोऽसीत्याह । शास्त्येवैनमेतत् । तस्माच्छिष्टाः प्रजा जायन्ते । अत्योऽसीत्याह । तस्मादश्वः सर्वान्पशूनत्येऽति । तस्मादश्वः सर्वेषां पशूनाग् श्रैष्ठ्यं गच्छति ॥ ३। ८। ९। १॥ ३३ प्र यशः श्रैष्ठ्यमाप्नोति । य एवं वेद । नरोऽस्यर्वाऽसि सप्तिरसि वाज्यसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । ययुर्नामाऽसीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेनाभिवदति । तस्मादप्यामित्रौ संगत्य । नाम्ना चेद्ध्वयेते । मित्रमेव भवतः ॥ ३। ८। ९। २॥ ३४ आदित्यानां पत्वाऽन्विहीत्याह । आदित्यानेवैनं गमयति । अग्नये स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युथ्सृजति सर्वत्वाय । देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं गोपायतेत्याह । शतं वै तल्प्या राजपुत्रा देवा आशापालाः । तेभ्य एवैनं परिददाति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहेति चतृषु पथ्सु जुहोति ॥ ३। ८। ९। ३॥ ३५ एता वा अश्वस्य बन्धनम् । ताभिरेवैनं बध्नाति । तस्मादश्वः प्रमुक्तो बन्धनमागच्छति । तस्मादश्वः प्रमुक्तो बन्धनं न जहाति । राष्ट्रं वा अश्वमेधः । राष्ट्रे खलु वा एते व्यायच्छन्ते । येऽश्वं मेध्यꣳ रक्षन्ति । तेषां य उदृचं गच्छन्ति । राष्ट्रादेव ते राष्ट्रं गच्छन्ति । अथ य उदृचं न गच्छन्ति । ३६ राष्ट्रादेव ते व्यवच्छिद्यन्ते । परा वा एष सिच्यते । योऽबलोऽश्वमेधेन यजते । यदमित्रा अश्वं विन्देरन् । हन्येतास्य यज्ञः । चतुःशता रक्षन्ति । यज्ञस्याघाताय । अथान्यमानीय प्रोक्षेयुः । सैव ततः प्रायश्चित्तिः ॥ ३। ८। ९। ४॥ गच्छति भवतः पथ्सु जुहोति न गच्छन्ति नव च ॥ ९॥ ३७ प्रजापतिरकामयताश्वमेधेन यजेयेति । स तपोऽतप्यत । तस्य तेपानस्य । सप्तात्मनो देवता उदक्रामन् । सा दीक्षाऽभवत् । स एतानि वैश्वदेवान्यपश्यत् । तान्यजुहोत् । तैर्वै स दीक्षामवारुन्ध । यद्वैश्वदेवानि जुहोति । दीक्षामेव तैर्यजमानोऽवरुन्धे ॥ ३। ८। १०। १॥ ३८ सप्त जुहोति । सप्त हि ता देवता उदक्रामन् । अन्वहं जुहोति । अन्वहमेव दीक्षामवरुन्धे । त्रीणि वैश्वदेवानि जुहोति । चत्वार्यौद्ग्रहणानि । सप्त संपद्यन्ते । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेव प्राणान्दीक्षामवरुन्धे ॥ ३। ८। १०। २॥ ३९ एकविꣳशतिं वैश्वदेवानि जुहोति । एकविꣳशतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳशः । एष सुवर्गो लोकः । तद्दैव्यं क्षत्त्रम् । सा श्रीः । तद्ब्रध्नस्य विष्टपम् । तथ्स्वाराज्यमुच्यते ॥ ३। ८। १०। ३॥ ४० त्रिꣳशतमौद्ग्रहणानि जुहोति । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । त्रेधा विभज्य देवतां जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्लृप्त्यै । अप वा एतस्मात् प्राणाः क्रामन्ति ॥ ३। ८। १०। ४॥ ४१ यो दीक्षामति रेचयति । सप्ताहं प्रचरन्ति । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेव प्राणान्दीक्षामवरुन्धे । पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णाहुतिः । सर्वमेवाप्नोति । अथो इयं वै पूर्णाहुतिः । अस्यामेव प्रतितिष्ठति ॥ ३। ८। १०। ५॥ रुन्धे प्राणान्दीक्षामवरुन्ध उच्यते क्रामन्ति तिष्ठति ॥ १०॥ ४२ प्रजापतिरश्वमेधमसृजत । तꣳ सृष्टं न किंचनोदयच्छत् । तं वैश्वदेवान्येवोदयच्छन् । यद्वैश्वदेवानि जुहोति । यज्ञस्योद्यत्यै । स्वाहाऽऽधिमाधीताय स्वाहा । स्वाहाऽऽधीतं मनसे स्वाहा । स्वाहा मनः प्रजापतये स्वाहा । काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्ये मुख्ये भवतः । प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छते ॥ ३। ८। ११। १॥ ४३ अदित्यै स्वाहाऽदित्यै मह्यै स्वाहाऽदित्यै सुमृडीकायै स्वाहेत्याह । इयं वा अदितिः । अस्या एवैनं प्रतिष्ठायोद्यच्छते । सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहेत्याह । वाग्वै सरस्वती । वाचैवैनमुद्यच्छते । पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरन्धिषाय स्वाहेत्याह । पशवो वै पूषा । पशुभिरेवैनमुद्यच्छते । त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेत्याह । त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृत् । रूपमेव पशुषु दधाति । अथो रूपैरेवैनमुद्यच्छते । विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वाहा विष्णवे निभूयपाय स्वाहेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनमुद्यच्छते । पूर्णाहुतिमुत्तमां जुहोति । प्रत्युत्तब्ध्यै सयत्वाय ॥ ३। ८। ११। २॥ यच्छते पुरुरूपाय स्वाहेत्याहाष्टौ च ॥ ११॥ ४४ सावित्रमष्टाकपालं प्रातर्निर्वपति । अष्टाक्षरा गायत्री । गायत्रं प्रातःसवनम् । प्रातःसवनादेवैनं गायत्रियाश्छन्दसोऽधि निर्मिमीते । अथो प्रातःसवनमेव तेनाप्नोति । गायत्रीं छन्दः । सवित्रे प्रसवित्र एकादशकपालं मध्यन्दिने । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यन्दिनꣳ सवनम् । माध्यन्दिनादेवैनꣳ सवनात् त्रिष्टुभश्छन्दसोऽधि निर्मिमीते ॥ ३। ८। १२। १॥ ४५ अथो माध्यन्दिनमेव सवनं तेनाप्नोति । त्रिष्टुभं छन्दः । सवित्र आसवित्रे द्वादशकपालमपराह्णे । द्वादशाक्षरा जगती । जागतं तृतीयसवनम् । तृतीयसवनादेवैनं जगत्याश्छन्दसोऽधि निर्मिमीते । अथो तृतीयसवनमेव तेनाप्नोति । जगतीं छन्दः । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहेति चतस्र आहुतीर्जुहोति । ४६ चतस्रो दिशः । दिग्भिरेवैनं परिगृह्णाति । आश्वत्थो व्रजो भवति । प्रजापतिर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवथ्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । यदाश्वत्थो व्रजो भवति । स्व एवैनं योनौ प्रतिष्ठापयति ॥ ३। ८। १२। २॥ त्रिष्टुभश्छन्दसोऽधि निर्मिमीते जुहोति नव च ॥ १२॥ ४७ आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामित्याह । ब्राह्मण एव ब्रह्मवर्चसं दधाति । तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चस्यजायत । आऽस्मिन्राष्ट्रे राजन्य इषव्यः शूरो महारथो जायतामित्याह । राजन्य एव शौर्यं महिमानं दधाति । तस्मात्पुरा राजन्य इषव्यः शूरो महारथोऽजायत । दोग्ध्री धेनुरित्याह । धेन्वामेव पयो दधाति । तस्मात्पुरा दोग्ध्री धेनुरजायत । वोढाऽनड्वानित्याह ॥ ३। ८। १३। १॥ ४८ अनडुह्येव वीर्यं दधाति । तस्मात्पुरा वोढाऽनड्वानजायत । आशुः सप्तिरित्याह । अश्व एव जवं दधाति । तस्मात् पुराऽऽशुरश्वोऽजायत । पुरंधिऱ्योषेत्याह । योषित्येव रूपं दधाति । तस्माथ्स्त्री युवतिः प्रिया भावुका । जिष्णू रथेष्ठा इत्याह । आ ह वै तत्र जिष्णू रथेष्ठा जायते ॥ ३। ८। १३। २॥ ४९ यत्रैतेन यज्ञेन यजन्ते । सभेयो युवेत्याह । यो वै पूर्ववयसी । स सभेयो युवा । तस्माद्युवा पुमान्प्रियो भावुकः । आऽस्य यजमानस्य वीरो जायतामित्याह । आ ह वै तत्र यजमानस्य वीरो जायते । यत्रैतेन यज्ञेन यजन्ते । निकामे निकामे नः पर्जन्यो वर्षत्वित्याह । निकामे निकामे ह वै तत्र पर्जन्यो वर्षति । यत्रैतेन यज्ञेन यजन्ते । फलिन्यो न ओषधयः पच्यन्तामित्याह । फलिन्यो ह वै तत्रौषधयः पच्यन्ते । यत्रैतेन यज्ञेन यजन्ते । योगक्षेमो नः कल्पतामित्याह । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्रैतेन यज्ञेन यजन्ते ॥ ३। ८। १३। ३॥ अनड्वानित्याह जायते वर्षति सप्त च ॥ १३॥ ५० प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् । स आत्मन्नश्वमेधमधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यदश्वमेधः । अप्येव नोऽत्रास्त्विति । तेभ्य एतानन्नहोमान् प्रायच्छत् । तानजुहोत् । तैर्वै स देवानप्रीणात् । यदन्नहोमाञ्जुहोति ॥ ३। ८। १४। १॥ ५१ देवानेव तैर्यजमानः प्रीणाति । आज्येन जुहोति । अग्नेर्वा एतद्रूपम् । यदाज्यम् । यदाज्येन जुहोति । अग्निमेव तत्प्रीणाति । मधुना जुहोति । महत्यै वा एतद्देवतायै रूपम् । यन्मधु । यन्मधुना जुहोति ॥ ३। ८। १४। २॥ ५२ महतीमेव तद्देवतां प्रीणाति । तण्डुलैर्जुहोति । वसूनां वा एतद्रूपम् । यत्तण्डुलाः । यत्तण्डुलैर्जुहोति । वसूनेव तत्प्रीणाति । पृथुकैर्जुहोति । रुद्राणां वा एतद्रूपम् । यत्पृथुकाः । यत्पृथुकैर्जुहोति ॥ ३। ८। १४। ३॥ ५३ रुद्रानेव तत्प्रीणाति । लाजैर्जुहोति । आदित्यानां वा एतद्रूपम् । यल्लाजाः । यल्लाजैर्जुहोति । आदित्यानेव तत्प्रीणाति । करम्बैर्जुहोति । विश्वेषां वा एतद्देवानाꣳ रूपम् । यत्करम्बाः । यत्करम्बैर्जुहोति ॥ ३। ८। १४। ४॥ ५४ विश्वानेव तद्देवान्प्रीणाति । धानाभिर्जुहोति । नक्षत्राणां वा एतद्रूपम् । यद्धानाः । यद्धानाभिर्जुहोति । नक्षत्राण्येव तत्प्रीणाति । सक्तुभिर्जुहोति । प्रजापतेर्वा एतद्रूपम् । यथ्सक्तवः । यथ्सक्तुभिर्जुहोति ॥ ३। ८। १४। ५॥ ५५ प्रजापतिमेव तत्प्रीणाति । मसूस्यैर्जुहोति । सर्वासां वा एतद्देवतानाꣳ रूपम् । यन्मसूस्यानि । यन्मसूस्यैर्जुहोति । सर्वा एव तद्देवताः प्रीणाति । प्रियङ्गुतण्डुलैर्जुहोति । प्रियाङ्गा ह वै नामैते । एतैर्वै देवा अश्वस्याङ्गानि समदधुः । यत्प्रियङ्गुतण्डुलैर्जुहोति । अश्वस्यैवाङ्गानि संदधाति । दशान्नानि जुहोति । दशाक्षरा विराट् । विराट्कृथ्स्नस्यान्नाद्यस्यावरुद्ध्यै ॥ ३। ८। १४। ६॥ जुहोति मधुना जुहोति पृथुकैर्जुहोति करम्बैजुहोति सक्तुभिर्जुहोति प्रियङ्गुतण्डुलैर्जुहोति चत्वारि च ॥ १४॥ अन्नहोमानाज्येनाग्नेर्मधुना तण्डुलैः पृथुकैर्लाजैः करम्बैर्धानाभिः सक्तुभिर्मसूस्यैः प्रियङ्गुतण्डुलैर्दशान्नानि विराड् द्वादश ॥ ५६ प्रजापतिरश्वमेधमसृजत । तꣳ सृष्टꣳ रक्षाग्स्यजिघाꣳसन् । स एतान्प्रजापतिर्नक्तꣳ होमानपश्यत् । तानजुहोत् । तैर्वै स यज्ञाद्रक्षाग्स्यपाहन् । यन्नक्तꣳहोमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाग्स्यपहन्ति । आज्येन जुहोति । वज्रो वा आज्यम् । वज्रेणैव यज्ञाद्रक्षाग्स्यपहन्ति ॥ ३। ८। १५। १॥ ५७ आज्यस्य प्रतिपदं करोति । प्राणो वा आज्यम् । मुखत एवास्य प्राणं दधाति । अन्नहोमाञ्जुहोति । शरीरवदेवावरुन्धे । व्यत्यासं जुहोति । उभयस्यावरुध्यै । नक्तं जुहोति । रक्षसामपहत्यै । आज्येनान्ततो जुहोति ॥ ३। ८। १५। २॥ ५८ प्राणो वा आज्यम् । उभयत एवास्य प्राणं दधाति । पुरस्ताच्चोपरिष्टाच्च । एकस्मै स्वाहेत्याह । अस्मिन्नेव लोके प्रतितिष्ठति । द्वाभ्याग् स्वाहेत्याह । अमुष्मिन्नेव लोके प्रतितिष्ठति । उभयोरेव लोकयोः प्रतितिष्ठति । अस्मि२ꣳश्चामुष्मिग्ग्श्च । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । सर्वस्मै स्वाहेत्याह । अपरिमितमेवावरुन्धे ॥ ३। ८। १५। ३॥ एव यज्ञाद्रक्षाग्स्यपहन्त्यन्ततो जुहोति शताय स्वाहेत्याह सप्त च ॥ १५॥ ५९ प्रजापतिं वा एष ईप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अथो आहुः । सर्वाणि भूतानीति । एकस्मै स्वाहेत्याह । प्रजापतिर्वा एकः । तमेवाप्नोति । एकस्मै स्वाहा द्वाभ्याग् स्वाहेत्यभि पूर्वमाहुतीर्जुहोति । अभिपूर्वमेव सुवर्गं लोकमेति । एकोत्तरं जुहोति ॥ ३। ८। १६। १॥ ६० एकवदेव सुवर्गं लोकमेति । सन्ततं जुहोति । सुवर्गस्य लोकस्य संतत्यै । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहेत्याह ॥ ३। ८। १६। २॥ ६१ त्रय इमे लोकाः । इमानेव लोकानवरुन्धे । अर्बुदाय स्वाहेत्याह । वाग्वा अर्बुदम् । वाचमेवावरुन्धे । न्यर्बुदाय स्वाहेत्याह । यो वै वाचो भूमा । तन्न्यर्बुदम् । वाच एव भूमानमवरुन्धे । समुद्राय स्वाहेत्याह ॥ ३। ८। १६। ३॥ ६२ समुद्रमेवाप्नोति । मध्याय स्वाहेत्याह । मध्यमेवाप्नोति । अन्ताय स्वाहेत्याह । अन्तमेवाप्नोति । परार्धाय स्वाहेत्याह । परार्धमेवाप्नोति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्याह । रात्रिर्वा उषाः । अहर्व्युष्टिः । अहोरात्रे एवावरुन्धे । अथो अहोरात्रयोरेव प्रतितिष्ठति । ता यदुभयीर्दिवा वा नक्तं वा जुहुयात् । अहोरात्रे मोहयेत् । उषसे स्वाहा व्युष्ट्यै स्वाहोदेष्यते स्वाहोद्यते स्वाहेत्यनुदिते जुहोति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते जुहोति । अहोरात्रयोरव्यतिमोहाय ॥ ३। ८। १६। ४॥ एकोत्तरं जुहोति प्रयुताय स्वाहेत्याह समुद्राय स्वाहेत्याहाहर्व्युष्टिः सप्त च ॥ १६॥ ६३ विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि जुहोति । उभयोरेवैनं लोकयोर्नामधेयं गमयति । आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति । सर्वमेवैनमस्कन्नꣳ सुवर्गं लोकं गमयति । अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहेत्याह । यथा यजुरेवैतत् । अग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षा जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति ॥ ३। ८। १७। १॥ ६४ पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहेत्येकविꣳशिनीं दीक्षां जुहोति । एकविꣳशतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳशः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । भुवो देवानां कर्मणेत्यृतुदीक्षा जुहोति । ऋतूनेवास्मै कल्पयति । अग्नये स्वाहा वायवे स्वाहेति जुहोत्यनन्तरित्यै ॥ ३। ८। १७। २॥ ६५ अर्वाङ्यज्ञः संक्रामत्वित्याप्तीर्जुहोति । सुवर्गस्य लोकस्याप्त्यै । भूतं भव्यं भविष्यदिति पर्याप्तीर्जुहोति । सुवर्गस्य लोकस्य पर्याप्त्यै । आ मे गृहा भवन्त्वित्याभूर्जुहोति । सुवर्गस्य लोकस्याभूत्यै । अग्निना तपोऽन्वभवदित्यनुभूर्जुहोति । सुवर्गस्य लोकस्यानुभूत्यै । स्वाहाऽऽधिमाधीताय स्वाहेति समस्तानि वैश्वदेवानि जुहोति । समस्तमेव द्विषन्तं भ्रातृव्यमतिक्रामति ॥ ३। ८। १७। ३॥ ६६ दद्भ्यः स्वाहा हनूभ्याग् स्वाहेत्यङ्गहोमाञ्जुहोति । अङ्गे अङ्गे वै पुरुषस्य पाप्मोपश्लिष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोति । रूपैरेवैनꣳ समर्धयति । ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहेत्योषधि होमाञ्जुहोति । द्वय्यो वा ओषधयः । पुष्पेभ्योऽन्याः फलं गृह्णन्ति । मूलेभ्योऽन्याः । ता एवोभयीरवरुन्धे ॥ ३। ८। १७। ४॥ ६७ वनस्पतिभ्यः स्वाहेति वनस्पतिहोमाञ्जुहोति । आरण्यस्यान्नाद्यस्यावरुध्यै । मेषस्त्वा पचतैरवत्वित्यपाव्यानि जुहोति । प्राणा वै देवा अपाव्याः । प्राणानेवावरुन्धे । कूप्याभ्यः स्वाहाऽद्भ्यः स्वाहेत्यपाꣳ होमाञ्जुहोति । अप्सु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे ॥ ३। ८। १७। ५॥ पूर्वदीक्षा जुहोति पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामत्यनन्तरित्यै क्रामति रुन्धे जायत एकं च ॥ १७॥ ६८ अम्भाꣳसि जुहोति । अयं वै लोकोऽम्भाꣳसि । तस्य वसवोऽधिपतयः । अग्निर्ज्योतिः । यदम्भाꣳसि जुहोति । इममेव लोकमवरुन्धे । वसूनाꣳ सायुज्यं गच्छति । अग्निं ज्योतिरवरुन्धे । नभाꣳसि जुहोति । अन्तरिक्षं वै नभाꣳसि ॥ ३। ८। १८। १॥ ६९ तस्य रुद्रा अधिपतयः । वायुर्ज्योतिः । यन्नभाꣳसि जुहोति । अन्तरिक्षमेवावरुन्धे । रुद्राणाꣳ सायुज्यं गच्छति । वायुं ज्योतिरवरुन्धे । महाꣳसि जुहोति । असौ वै लोको महाꣳसि । तस्यादित्या अधिपतयः । सूऱ्यो ज्योतिः ॥ ३। ८। १८। २॥ ७० यन्महाꣳसि जुहोति । अमुमेव लोकमवरुन्धे । आदित्यानाꣳ सायुज्यं गच्छति । सूर्यं ज्योतिरवरुन्धे । नमो राज्ञे नमो वरुणायेति यव्यानि जुहोति । अन्नाद्यस्यावरुध्यै । मयोभूर्वातो अभि वातूस्रा इति गव्यानि जुहोति । पशूनामवरुध्यै । प्राणाय स्वाहा व्यानाय स्वाहेति संततिहोमाञ्जुहोति । सुवर्गस्य लोकस्य संतत्यै ॥ ३। ८। १८। ३॥ ७१ इताय स्वाहाऽसिताय स्वाहेति प्रमुक्तीर्जुहोति । सुवर्गस्य लोकस्य प्रमुक्त्यै । पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहेत्याह । यथा यजुरेवैतत् । दत्त्वते स्वाहाऽदन्तकाय स्वाहेति शरीरहोमाञ्जुहोति । पितृलोकमेव तैर्यजमानोऽवरुन्धे । कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्, युनक्ति । इमे वै लोकाः परिधयः । इमानेवास्मै लोकान्, युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। ८। १८। ४॥ ७२ यः प्राणतो य आत्मदा इति महिमानौ जुहोति । सुवर्गो वै लोको महः । सुवर्गमेव ताभ्यां लोकं यजमानोऽवरुन्धे । आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि जुहोति । ब्रह्मवर्चसमेव तैर्यजमानोऽवरुन्धे । जज्ञि बीजमिति जुहोत्यनन्तरित्यै । अग्नये समनमत्पृथिव्यै समनमदिति सन्नति होमाञ्जुहोति । सुवर्गस्य लोकस्य संनत्यै । भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ जुहोति । अयं वै लोको भूतम् ॥ ३। ८। १८। ५॥ ७३ असौ भविष्यत् । अनयोरेव लोकयोः प्रतितिष्ठति । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं जुहोति । सर्वस्याप्त्यै । सर्वस्य जित्यै । सर्वमेव तेनाप्नोति । सर्वं जयति । योऽश्वमेधेन यजते ॥ ३। ८। १८। ६॥ ७४ य उ चैनमेवं वेद । यज्ञꣳ रक्षाग्स्यजिघाꣳसन् । स एतान्प्रजापतिर्नक्तꣳ होमानपश्यत् । तानजुहोत् । तैर्वै स यज्ञाद्रक्षाग्स्यपाहन् । यन्नक्तꣳहोमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाग्स्यपहन्ति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्यन्ततो जुहोति । सुवर्गस्य लोकस्य समष्ट्यै ॥ ३। ८। १८। ७॥ वै नभाꣳसि सूऱ्यो ज्योतिः संतत्यै समष्ट्यै भूतं यजते नव च ॥ १८॥ ७५ एकयूपो वैकादशिनी वा । अन्येषां यज्ञानां यूपा भवन्ति । एकविꣳशिन्यश्वमेधस्य । सुवर्गस्य लोकस्याभिजित्यै । बैल्वो वा खादिरो वा पालाशो वा । अन्येषां यज्ञक्रतूनां यूपा भवन्ति । राज्जुदाल एकविꣳशत्यरत्निरश्वमेधस्य । सुवर्गस्य लोकस्य समष्ट्यै । नान्येषां पशूनां तेजन्या अवद्यन्ति । अवद्यन्त्यश्वस्य ॥ ३। ८। १९। १॥ ७६ पाप्मा वै तेजनी । पाप्मनोऽपहत्यै । प्लक्षशाखायामन्येषां पशूनामवद्यन्ति । वेतसशाखायामश्वस्य । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्व एवास्य योनाववद्यति । यूपेषु ग्राम्यान्पशून्नियुञ्जन्ति । आरोकेष्वारण्यान्धारयन्ति । पशूनां व्यावृत्त्यै । आ ग्राम्यान् पशून्लभन्ते । प्रारण्यान्थ्सृजन्ति । पाप्मनोऽपहत्यै ॥ ३। ८। १९। २॥ अश्वस्य व्यावृत्त्यै त्रीणि च ॥ १९॥ ७७ राज्जुदालमग्निष्ठं मिनोति । भ्रूणहत्याया अपहत्यै । पौतुद्रवावभितो भवतः । पुण्यस्य गन्धस्यावरुध्यै । भ्रूणहत्यामेवास्मादपहत्य । पुण्येन गन्धेनोभयतः परिगृह्णाति । षड्बैल्वा भवन्ति । ब्रह्मवर्चसस्यावरुद्ध्यै । षट्खादिराः । तेजसोऽवरुध्यै ॥ ३। ८। २०। १॥ ७८ षट्पालाशाः । सोमपीथस्यावरुध्यै । एकविꣳशतिः संपद्यन्ते । एकविꣳशतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳशः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । शतं पशवो भवन्ति ॥ ३। ८। २०। २॥ ७९ शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । सर्वं वा अश्वमेध्याप्नोति । अपरिमिता भवन्ति । अपरिमितस्यावरुद्ध्यै । ब्रह्मवादिनो वदन्ति । कस्माथ्सत्यात् । दक्षिणतोऽन्येषां पशूनामवद्यन्ति । उत्तरतोऽश्वस्येति । वारुणो वा अश्वः ॥ ३। ८। २०। ३॥ ८० एषा वै वरुणस्य दिक् । स्वायामेवास्य दिश्यवद्यति । यदितरेषां पशूनामवद्यति । शतदेवत्यं तेनावरुन्धे । चितेऽग्नावधिवैतसे कटेऽश्वं चिनोति । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्व एवैनं योनौ प्रतिष्ठापयति । पुरस्तात्प्रत्यञ्चं तूपरं चिनोति । पश्चात्प्राचीनं गोमृगम् ॥ ३। ८। २०। ४॥ ८१ प्राणापानावेवास्मिन्थ्सम्यञ्चौ दधाति । अश्वं तूपरं गोमृगमिति सर्वहुत एताञ्जुहोति । एषां लोकानामभिजित्यै । आत्मनाऽभिजुहोति । सात्मानमेवैनꣳ सतनुं करोति । सात्माऽमुष्मिं ल्लोके भवति । य एवं वेद । अथो वसोरेव धारां तेनावरुन्धे । इलुवर्दाय स्वाहा बलिवर्दाय स्वाहेत्याह । संवथ्सरो वा इलुवर्दः । परिवथ्सरो बलिवर्दः । संवथ्सरादेव परिवथ्सरादायुरवरुन्धे । आयुरेवास्मिन्दधाति । तस्मादश्वमेधयाजी जरसा विस्रसाऽमुं लोकमेति ॥ ३। ८। २०। ५॥ तेजसोऽवरुध्यै भवन्त्यश्वो गोमृगमिलुवर्दश्चत्वारि च ॥ २०॥ ८२ एकविꣳशोऽग्निर्भवति । एकविꣳशः स्तोमः । एकविꣳशतिर्यूपाः । यथा वा अश्वा वर्षभा वा वृषाणः स२ꣳस्फुरेरन् । एवमेतथ्स्तोमाः स२ꣳस्फुरन्ते । यदेकविꣳशाः । ते यथ्समृच्छेरन् । हन्येतास्य यज्ञः । द्वादश एवाग्निः स्यादित्याहुः । द्वादशः स्तोमः । ८३ एकादश यूपाः । यद्द्वादशोऽग्निर्भवति । द्वादश मासाः संवथ्सरः । संवथ्सरेणैवास्मा अन्नमवरुन्धे । यद्दश यूपा भवन्ति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । य एकादशः । स्तन एवास्यै सः । ८४ दुह एवैनां तेन । तदाहुः । यद्द्वादशोऽग्निः स्याद्द्वादशः स्तोम एकादश यूपाः । यथा स्थूरिणा यायात् । तादृक्तत् । एकविꣳश एवाग्निः स्यादित्याहुः । एकविꣳशः स्तोमः । एकविꣳशतिर्यूपाः । यथा प्रष्टिभिर्याति । तादृगेव तत् ॥ ३। ८। २१। ३॥ ८५ यो वा अश्वमेधे तिस्रः ककुभो वेद । ककुद्ध राज्ञां भवति । एकविꣳशोऽग्निर्भवति । एकविꣳशः स्तोमः । एकविꣳशतिर्यूपाः । एता वा अश्वमेधे तिस्रः ककुभः । य एवं वेद । ककुद्ध राज्ञां भवति । यो वा अश्वमेधे त्रीणि शीर्षाणि वेद । शिरो ह राज्ञां भवति । एकविꣳशोऽग्निर्भवति । एकविꣳशः स्तोमः । एकविꣳशतिर्यूपाः । एतानि वा अश्वमेधे त्रीणि शीर्षाणि । य एवं वेद । शिरो ह राज्ञां भवति ॥ ३। ८। २१। ४॥ द्वादशः स्तोमः स एव तच्छिरो ह राज्ञां भवति षट्च ॥ २१॥ ८६ देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यदश्वमेधेऽश्वेन मेध्येनोदञ्चो बहिष्पवमानꣳ सर्पन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । न वै मनुष्यः सुवर्गं लोकमञ्जसा वेद । अश्वो वै सुवर्गं लोकमञ्जसा वेद । यदुद्गातोद्गायेत् । यथाऽक्षेत्रज्ञोऽन्येन पथा प्रतिपादयेत् । तादृक्तत् ॥ ३। ८। २२। १॥ ८७ उद्गातारमपरुद्ध्य । अश्वमुद्गीथाय वृणीते । यथा क्षेत्रज्ञोऽञ्जसा नयति । एवमेवैनमश्वः सुवर्गं लोकमञ्जसा नयति । पुच्छमन्वारभन्ते । सुवर्गस्य लोकस्य समष्ट्यै । हिं करोति । सामैवाकः । हिं करोति । उद्गीथ एवास्य सः ॥ ३। ८। २२। २॥ ८८ वडबा उपरुन्धन्ति । मिथुनत्वाय प्रजात्यै । अथो यथोपगातार उपगायन्ति । तादृगेव तत् । उदगासीदश्वो मेध्य इत्याह । प्राजापत्यो वा अश्वः । प्रजापतिरुद्गीथः । उद्गीथमेवावरुन्धे । अथो ऋख्सामयोरेव प्रतितिष्ठति । हिरण्येनोपाकरोति । ज्योतिर्वै हिरण्यम् । ज्योतिरेव मुखतो दधाति । यजमाने च प्रजासु च । अथो हिरण्यज्योतिरेव यजमानः सुवर्गं लोकमेति ॥ ३। ८। २२। ३॥ तथ्स उपाकरोति चत्वारि च ॥ २२॥ ८९ पुरुषो वै यज्ञः । यज्ञः प्रजापतिः । यदश्वे पशून्नियुञ्जन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । अश्वं तूपरं गोमृगम् । तानग्निष्ठ आलभते । सेनामुखमेव तथ्स२ꣳश्यति । तस्माद्राजमुखं भीष्मं भावुकम् । आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे । पूर्वाग्निमेव तं कुरुते ॥ ३। ८। २३। १॥ ९० तस्मात्पूर्वाग्निं पुरस्ताथ्स्थापयन्ति । पौष्णमन्वञ्चम् । अन्नं वै पूषा । तस्मात्पूर्वाग्नावाहार्यमाहरन्ति । ऐन्द्रापौष्णमुपरिष्टात् । ऐन्द्रो वै राजन्योऽन्नं पूषा । अन्नाद्येनैवैनमुभयतः परिगृह्णाति । तस्माद्राजन्योऽन्नादो भावुकः । आग्नेयौ कृष्णग्रीवौ बाहुवोः । बाहुवोरेव वीर्यं धत्ते ॥ ३। ८। २३। २॥ ९१ तस्माद्राजन्यो बाहुबली भावुकः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । सक्थ्योरेव वीर्यं धत्ते । तस्माद्राजन्य ऊरुबली भावुकः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । ब्रह्मवर्चसमेवोपरिष्टाद्धत्ते । अथो कवचे एवैते अभितः पर्यूहते । तस्माद्राजन्यः संनद्धो वीर्यं करोति । धात्रे पृषोदरमधस्तात् । प्रतिष्ठामेवैतां कुरुते । अथो इयं वै धाता । अस्यामेव प्रतितिष्ठति । सौर्यं बलक्षं पुच्छे । उथ्सेधमेव तं कुरुते । तस्मादुथ्सेधं भये प्रजा अभिस२ꣳश्रयन्ति ॥ ३। ८। २३। ३॥ कुरुते धत्ते कुरुते पञ्च च ॥ २३॥ साङ्ग्रहण्या चतुष्टय्यो यो वै यः पितुश्चत्वारो यथा निक्तं प्रजापतये त्वा यथा प्रोक्षितं विभूराह प्रजापतिरकामयताश्वमेधेन प्रजापतिर्न किञ्च न सावित्रमा ब्रह्मन् प्रजापतिर्देवेभ्यः प्रजापती रक्षाꣳसि प्रजापतिमीप्सति विभूरश्वनामान्यम्भाग्स्येकयूपो राज्जुदालमेकविꣳशो देवाः पुरुषस्त्रयोविꣳशतिः ॥ २३॥ साङ्ग्रहण्या तस्मादश्वमेधयाजी यत्परिमिता यद्यज्ञमुखे यो दीक्षां देवानेव त्रय इमे सिताय प्राणापानावेवास्मिन् तस्माद्राजन्य एकनवतिः ॥ ९१॥ साङ्ग्रहण्या स२ꣳश्रयन्ति ॥

तृतीयाष्टके नवमः प्रपाठकः ९

अश्वमेधस्य द्वितीय तृतीयाहर्विधानम्

१ प्रजापतिरश्वमेधमसृजत । सोऽस्माथ्सृष्टोऽपाक्रामत् । तमष्टादशिभिरनु प्रायुङ्क्त । तमाप्नोत् । तमाप्त्वाऽष्टादशिभिरवारुन्ध । यदष्टादशिन आलभ्यन्ते । यज्ञमेव तैराप्त्वा यजमानोऽवरुन्धे । संवथ्सरस्य वा एषा प्रतिमा । यदष्टादशिनः । द्वादश मासाः पञ्चर्तवः ॥ ३। ९। १। १॥ २ संवथ्सरोऽष्टादशः । यदष्टादशिन आलभ्यन्ते । संवथ्सरमेव तैराप्त्वा यजमानोऽवरुन्धे । अग्निष्ठेऽन्यान्पशूनुपाकरोति । इतरेषु यूपेष्वष्टादशिनोऽजामित्वाय । नव नवालभ्यन्ते सवीर्यत्वाय । यदारण्यैः सग्ग्स्थापयेत् । व्यवस्येतां पितापुत्रौ । व्यध्वानः क्रामेयुः । विदूरं ग्रामयोर्ग्रामान्तौ स्याताम् ॥ ३। ९। १। २॥ ३ ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस्तस्करा अरण्येष्वाजायेरन् । तदाहुः । अपशवो वा एते । यदारण्याः । यदारण्यैः सग्ग्स्थापयेत् । क्षिप्रे यजमानमरण्यं मृतꣳ हरेयुः । अरण्यायतना ह्यारण्याः पशव इति । यत्पशून्नालभेत । अनवरुद्धा अस्य पशवः स्युः । यत्पर्यग्निकृतानुथ्सृजेत् ॥ ३। ९। १। ३॥ ४ यज्ञवेशसं कुर्यात् । यत्पशूनालभते । तेनैव पशूनवरुन्धे । यत् पर्यग्नि कृतानुथ्सृजत्ययज्ञ वेशसाय । अवरुद्धा अस्य पशवो भवन्ति । न यज्ञवेशसं भवति । न यजमानमरण्यं मृतꣳ हरन्ति । ग्राम्यैः स२ꣳस्थापयति । एते वै पशवः, क्षेमो नाम । सं पितापुत्राववस्यतः । समध्वानः क्रामन्ति । समन्तिकं ग्रामयोर्ग्रामान्तौ भवतः । नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस्तस्करा अरण्येष्वाजायन्ते ॥ ३। ९। १। ४॥ ऋतवः स्यातामुथ्सृजेथ्स्यतस्त्रीणि च ॥ १॥ ५ प्रजापतिरकामयतोभौ लोकाववरुन्धीयेति । स एतानुभयान्पशूनपश्यत् । ग्राम्याग्श्चारण्याग्श्च । तानालभत । तैर्वै स उभौ लोकाववारुन्ध । ग्राम्यैरेव पशुभिरिमं लोकमवारुन्ध । आरण्यैरमुम् । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् ॥ ३। ९। २। १॥ ६ अमुं तैः । अनवरुद्धो वा एतस्य संवथ्सर इत्याहुः । य इत इतश्चातुर्मास्यानि संवथ्सरं प्रयुङ्क्त इति । एतावान् वै संवथ्सरः । यच्चातुर्मास्यानि । यदेते चातुर्मास्याः पशव आलभ्यन्ते । प्रत्यक्षमेव तैः संवथ्सरं यजमानोऽवरुन्धे । वि वा एष प्रजया पशुभिरृद्ध्यते । यः संवथ्सरं प्रयुङ्क्ते । संवथ्सरः सुवर्गो लोकः ॥ ३। ९। २। २॥ ७ सुवर्गं तु लोकं नापराध्नोति । प्रजा वै पशव एकादशिनी । यदेत ऐकादशिनाः पशव आलभ्यन्ते । साक्षादेव प्रजां पशून्, यजमानोऽवरुन्धे । प्रजापतिर्विराजमसृजत । सा सृष्टाऽश्वमेधं प्राविशत् । तां दशिभिरनु प्रायुङ्क्त । तामाप्नोत् । तामाप्त्वा दशिभिरवारुन्ध । यद्दशिन आलभ्यन्ते ॥ ३। ९। २। ३॥ ८ विराजमेव तैराप्त्वा यजमानोऽवरुन्धे । एकादश दशत आलभ्यन्ते । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः । पशूनेवावरुन्धे । वैश्वदेवो वा अश्वः । नानादेवत्याः पशवो भवन्ति । अश्वस्य सर्वत्वाय । नानारूपा भवन्ति । तस्मान्नानारूपाः पशवः । बहुरूपा भवन्ति । तस्माद्बहुरूपाः पशवः समृद्ध्यै ॥ ३। ९। २। ४॥ आरण्यान्लोको दशिन आलभ्यन्ते नानारूपाः पशवो द्वे च ॥ २॥ ९ अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते । अमुष्मा आरण्याः । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् । अमुं तैः । उभयान्पशूनालभते । ग्राम्याग्श्चारण्याग्श्च । उभयोर्लोकयोरवरुद्ध्यै । उभयान् पशूनालभते ॥ ३। ९। ३। १॥ १० ग्राम्याग्श्चारण्याग्श्च । उभयस्यान्नाद्यस्यावरुद्ध्यै । उभयान्पशूनालभते । ग्राम्याग्श्चारण्याग्श्च । उभयेषां पशूनामवरुद्ध्यै । त्रयस्त्रयो भवन्ति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । ब्रह्मवादिनो वदन्ति । कस्माथ्सत्यात् ॥ ३। ९। ३। २॥ ११ अस्मिं ल्लोके बहवः कामा इति । यथ्समानीभ्यो देवताभ्योऽन्येऽन्ये पशव आलभ्यन्ते । अस्मिन्नेव तं ल्लोके कामान्दधाति । तस्मादस्मिं ल्लोके बहवः कामाः । त्रयाणां त्रयाणाꣳ सह वपा जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्लृप्त्यै । पर्यग्निकृतानारण्यानुथ्सृजन्त्यहिꣳसायै ॥ ३। ९। ३। ३॥ अवरुद्ध्या उभयान्पशूनालभते सत्यादहिꣳसायै ॥ ३॥ १२ युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति । अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परितस्थुष इत्याह ॥ ३। ९। ४। १॥ १३ इमे वै लोकाः परितस्थुषः । इमानेवास्मै लोकान्, युनक्ति । रोचन्ते रोचना दिवीत्याह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति । युञ्जन्त्यस्य काम्येत्याह । कामानेवास्मै युनक्ति । हरी विपक्षसेत्याह । इमे वै हरी विपक्षसा । इमे एवास्मै युनक्ति ॥ ३। ९। ४। २॥ १४ शोणा धृष्णू नृवाहसेत्याह । अहोरात्रे वै नृवाहसा । अहोरात्रे एवास्मै युनक्ति । एता एवास्मै देवता युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै । केतुं कृण्वन्नकेतव इति ध्वजं प्रतिमुञ्चति । यश एवैनꣳ राज्ञां गमयति । जीमूतस्येव भवति प्रतीकमित्याह । यथा यजुरेवैतत् । ये ते पन्थानः सवितः पूर्व्यास इत्यध्वर्युर्यजमानं वाचयत्यभिजित्यै ॥ ३। ९। ४। ३॥ १५ परा वा एतस्य यज्ञ एति । यस्य पशुरुपाकृतोऽन्यत्र वेद्या एति । एत२ꣳ स्तोतरेतेन पथा पुनरश्वमावर्तयासि न इत्याह । वायुर्वै स्तोता । वायुमेवास्य परस्ताद्दधात्यावृत्त्यै । यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यदस्योपाकृतस्य लोमानि शीयन्ते । यद्वालेषु काचानावयन्ति । लोमान्येवास्य तथ्संभरन्ति ॥ ३। ९। ४। ४॥ १६ भूर्भुवः सुवरिति प्राजापत्याभिरावयन्ति । प्राजापत्यो वा अश्वः । स्वयैवैनं देवतया समर्धयन्ति । भूरिति महिषी । भुव इति वावाता । सुवरिति परिवृक्ती । एषां लोकानामभिजित्यै । हिरण्ययाः काचा भवन्ति । ज्योतिर्वै हिरण्यम् । राष्ट्रमश्वमेधः ॥ ३। ९। ४। ५॥ १७ ज्योतिश्चैवास्मै राष्ट्रं च समीची दधाति । सहस्रं भवन्ति । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै । अप वा एतस्मात्तेज इन्द्रियं पशवः श्रीः क्रामन्ति । योऽश्वमेधेन यजते । वसवस्त्वाऽञ्जन्तु गायत्रेण छन्दसेति महिष्यभ्यनक्ति । तेजो वा आज्यम् । तेजो गायत्री । तेजसैवास्मै तेजोऽवरुन्धे ॥ ३। ९। ४। ६॥ १८ रुद्रास्त्वाऽञ्जन्तु त्रैष्टुभेन छन्दसेति वावाता । तेजो वा आज्यम् । इन्द्रियं त्रिष्टुप् । तेजसैवास्मा इन्द्रियमवरुन्धे । आदित्यास्त्वाऽञ्जन्तु जागतेन छन्दसेति परिवृक्ती । तेजो वा आज्यम् । पशवो जगती । तेजसैवास्मै पशूनवरुन्धे । पत्नयोऽभ्यञ्जन्ति । श्रिया वा एतद्रूपम् ॥ ३। ९। ४। ७॥ १९ यत्पत्नयः । श्रियमेवास्मिन्तद्दधति । नास्मात्तेज इन्द्रियं पशवः श्रीरपक्रामन्ति । लाजी ३ ञ्छाची ३ न्, यशोममा ४ ं इत्यतिरिक्तमन्नमश्वायोपाहरन्ति । प्रजामेवान्नादीं कुर्वते । एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापत इत्याह । प्रजायामेवान्नाद्यं दधते । यदि नावजिघ्रेत् । अग्निः पशुरासीदित्यवघ्रापयेत् । अव हैव जिघ्रति । आक्रान् वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते । एषां लोकानामभिजित्यै । समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति सरूपत्वाय ॥ ३। ९। ४। ८॥ परितस्थुष इत्याहेमे एवास्मै युनक्त्यभिजित्यै भरन्त्यश्वमेधो रुन्धे रूपं जिघ्रति त्रीणि च ॥ ४॥ २० तेजसा वा एष ब्रह्मवर्चसेन व्यृद्ध्यते । योऽश्वमेधेन यजते । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः । दक्षिणतो ब्रह्मा भवति । दक्षिणत आयतनो वै ब्रह्मा । बार्हस्पत्यो वै ब्रह्मा । ब्रह्मवर्चसमेवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः । उत्तरतो होता भवति ॥ ३। ९। ५। १॥ २१ उत्तरत आयतनो वै होता । आग्नेयो वै होता । तेजो वा अग्निः । तेज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्धस्तेजस्वितरः । यूपमभितो वदतः । यजमानदेवत्यो वै यूपः । यजमानमेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः । कि२ꣳस्विदासीत्पूर्वचित्तिरित्याह । द्यौर्वै वृष्टिः पूर्वचित्तिः ॥ ३। ९। ५। २॥ २२ दिवमेव वृष्टिमवरुन्धे । कि२ꣳ स्विदासीद्बृहद्वय इत्याह । अश्वो वै बृहद्वयः । अश्वमेवावरुन्धे । कि२ꣳस्विदासीत्पिशंगिलेत्याह । रात्रिर्वै पिशंगिला । रात्रिमेवावरुन्धे । कि२ꣳस्विदासीत्पिलिप्पिलेत्याह । श्रीर्वै पिलिप्पिला । अन्नाद्यमेवावरुन्धे ॥ ३। ९। ५। ३॥ २३ कः स्विदेकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरति । तेज एवावरुन्धे । क उ स्विज्जायते पुनरित्याह । चन्द्रमा वै जायते पुनः । आयुरेवावरुन्धे । कि२ꣳस्विद्धिमस्य भेषजमित्याह । अग्निर्वै हिमस्य भेषजम् । ब्रह्मवर्चसमेवावरुन्धे । कि२ꣳस्विदावपनं महदित्याह ॥ ३। ९। ५। ४॥ २४ अयं वै लोक आवपनं महत् । अस्मिन्नेव लोके प्रतितिष्ठति । पृच्छामि त्वा परमं तं पृथिव्या इत्याह । वेदिर्वै परोऽन्तः पृथिव्याः । वेदिमेवावरुन्धे । पृच्छामि त्वा भुवनस्य नाभिमित्याह । यज्ञो वै भुवनस्य नाभिः । यज्ञमेवावरुन्धे । पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह । सोमो वै वृष्णो अश्वस्य रेतः । सोमपीथमेवावरुन्धे । पृच्छामि वाचः परमं व्योमेत्याह । ब्रह्म वै वाचः परमं व्योम । ब्रह्मवर्चसमेवावरुन्धे ॥ ३। ९। ५। ५॥ होता भवति वै वृष्टिः पूर्वचित्तिरन्नाद्यमेवाव रुन्धे महदित्याह सोमो वै वृष्णो अश्वस्य रेतश्चत्वारि च ॥ ५॥ २५ अप वा एतस्मात्प्राणाः क्रामन्ति । योऽश्वमेधेन यजते । प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति । प्राणानेवास्मिन्दधाति । नास्मात्प्राणा अपक्रामन्ति । अवन्ती स्थावन्तीस्त्वाऽवन्तु । प्रियं त्वा प्रियाणाम् । वर्षिष्ठमाप्यानाम् । निधीनां त्वा निधिपतिꣳ हवामहे वसो ममेत्याह । अपैवास्मै तद्ध्नुवते ॥ ३। ९। ६। १॥ २६ अथो धुवन्त्येवैनम् । अथो न्येवास्मै ह्नुवते । त्रिः परियन्ति । त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट्थ्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते । अप वा एतेभ्यः प्राणाः क्रामन्ति ॥ ३। ९। ६। २॥ २७ ये यज्ञे धुवनं तन्वते । नवकृत्वः परियन्ति । नव वै पुरुषे प्राणाः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । अम्बे अम्बाल्यम्बिक इति पत्नीमुदानयति । अह्वतैवैनाम् । सुभगे काम्पीलवासिनीत्याह । तप एवैनामुपनयति । सुवर्गे लोके संप्रोर्ण्वाथामित्याह ॥ ३। ९। ६। ३॥ २८ सुवर्गमेवैनां लोकं गमयति । आऽहमजानि गर्भधमा त्वमजासि गर्भधमित्याह । प्रजा वै पशवो गर्भः । प्रजामेव पशूनात्मन्धत्ते । देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यथ्सूचीभिरसि पथान्कल्पयन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । गायत्री त्रिष्टुब्जगतीत्याह ॥ ३। ९। ६। ४॥ २९ यथा यजुरेवैतत् । त्रय्यः सूच्यो भवन्ति । अयस्मय्यो रजता हरिण्यः । अस्य वै लोकस्य रूपमयस्मय्यः । अन्तरिक्षस्य रजताः । दिवो हरिण्यः । दिशो वा अयस्मय्यः । अवान्तरदिशा रजताः । ऊर्ध्वा हरिण्यः । दिश एवास्मै कल्पयति । कस्त्वा छ्यति कस्त्वा विशास्तीत्याहाहिꣳसायै ॥ ३। ९। ६। ५॥ ह्नुवते क्रामन्त्यूर्ण्वाथामित्याह जगतीत्याह कल्पयत्येकं च ॥ ६॥ ३० अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ऊर्ध्वामेनामुच्छ्रयतादित्याह । श्रीर्वै राष्ट्रमश्वमेधः । श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति । वेणुभारं गिराविवेत्याह । राष्ट्रं वै भारः । राष्ट्रमेवास्मै पर्यूहति । अथास्या मध्यमेधतामित्याह । श्रीर्वै राष्ट्रस्य मध्यम् ॥ ३। ९। ७। १॥ ३१ श्रियमेवावरुन्धे । शीते वाते पुनन्निवेत्याह । क्षेमो वै राष्ट्रस्य शीतो वातः । क्षेममेवावरुन्धे । यद्धरिणी यवमत्तीत्याह । विड्वै हरिणी । राष्ट्रं यवः । विशं चैवास्मै राष्ट्रं च समीची दधाति । न पुष्टं पशुमन्यत इत्याह । तस्माद्राजा पशून्न पुष्यति ॥ ३। ९। ७। २॥ ३२ शूद्रा यदर्यजारा न पोषाय धनायतीत्याह । तस्माद्वैशीपुत्रं नाभिषिञ्चन्ते । इयं यका शकुन्तिकेत्याह । विड्वै शकुन्तिका । राष्ट्रमश्वमेधः । विशं चैवास्मै राष्ट्रं च समीची दधाति । आहलमिति सर्पतीत्याह । तस्माद्राष्ट्राय विशः सर्पन्ति । आहतं गभे पस इत्याह । विड्वै गभः ॥ ३। ९। ७। ३॥ ३३ राष्ट्रं पसः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विशं घातुकम् । माता च ते पिता च त इत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अग्रं वृक्षस्य रोहत इत्याह । श्रीर्वै वृक्षस्याग्रम् । श्रियमेवावरुन्धे ॥ ३। ९। ७। ४॥ ३४ प्रसुलामीति ते पिता गभे मुष्टिमतꣳसयदित्याह । विड्वै गभः । राष्ट्रं मुष्टिः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विशं घातुकम् । अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञेऽपूतं वदन्ति । दधिक्राव्ण्णो अकारिषमिति सुरभिमतीमृचं वदन्ति । प्राणा वै सुरभयः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । आपो हि ष्ठा मयोभुव इत्यद्भिर्मार्जयन्ते । आपो वै सर्वा देवताः । देवताभिरेवात्मानं पवयन्ते ॥ ३। ९। ७। ५॥ राष्ट्रस्य मध्यं पुष्यति गभो रुन्धे दधते चत्वारि च ॥ ७॥ ३५ प्रजापतिः प्रजाः सृष्ट्वा प्रेणाऽनु प्राविशत् । ताभ्यः पुनः संभवितुं नाशक्नोत् । सोऽब्रवीत् । ऋध्नवदिथ्सः । यो मेतः पुनः संभरदिति । तं देवा अश्वमेधेनैव समभरन् । ततो वै त आर्ध्नुवन् । योऽश्वमेधेन यजते । प्रजापतिमेव संभरत्यृध्नोति । पुरुषमालभते ॥ ३। ९। ८। १॥ ३६ वैराजो वै पुरुषः । विराजमेवालभते । अथो अन्नं वै विराट् । अन्नमेवावरुन्धे । अश्वमालभते । प्राजापत्यो वा अश्वः । प्रजापतिमेवालभते । अथो श्रीर्वा एकशफम् । श्रियमेवावरुन्धे । गामालभते ॥ ३। ९। ८। २॥ ३७ यज्ञो वै गौः । यज्ञमेवालभते । अथो अन्नं वै गौः । अन्नमेवावरुन्धे । अजावी आलभते भूम्ने । अथो पुष्टिर्वै भूमा । पुष्टिमेवावरुन्धे । पर्यग्निकृतं पुरुषं चारण्याग्श्चोथ्सृजन्त्यहिꣳसायै । उभौ वा एतौ पशू आलभ्येते । यश्चावमो यश्च परमः । तेऽस्योभये यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता भवन्ति । नैनं दंक्ष्णवः पशवो यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता हिꣳसन्ति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ॥ ३। ९। ८। ३॥ लभते गामालभते परमोऽष्टौ च ॥ ८॥ ३८ प्रथमेन वा एष स्तोमेन राध्वा । चतुष्टोमेन कृतेनायानामुत्तरेऽहन् । एकविꣳशे प्रतिष्ठायां प्रतितिष्ठति । एकविꣳशात्प्रतिष्ठाया ऋतूनन्वारोहति । ऋतवो वै पृष्ठानि । ऋतवः संवथ्सरः । ऋतुष्वेव संवथ्सरे प्रतिष्ठाय । देवता अभ्यारोहति । शक्वरयः पृष्ठं भवन्त्यन्यदन्यच्छन्दः । अन्येऽन्ये वा एते पशव आलभ्यन्ते ॥ ३। ९। ९। १॥ ३९ उतेव ग्राम्याः । उतेवारण्याः । अहरेव रूपेण समर्धयति । अथो अह्न एवैष बलिर्ह्रियते । तदाहुः । अपशवो वा एते । यदजावयश्चारण्याश्च । एते वै सर्वे पशवः । यद्गव्या इति । गव्यान्पशूनुत्तमेऽहन्नालभते ॥ ३। ९। ९। २॥ ४० तेनैवोभयान्पशूनवरुन्धे । प्राजापत्या भवन्ति । अनभिजितस्याभिजित्यै । सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति । अन्तत एव ब्रह्मवर्चसमवरुन्धे । सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वन्द्विनः पशूनालभते । अहोरात्राणामभिजित्यै । पशुभिर्वा एष व्यृद्ध्यते । योऽश्वमेधेन यजते । छगलं कल्माषं किकिदीविं विदीगयमिति त्वाष्ट्रान्पशूनालभते । पशुभिरेवात्मानꣳ समर्धयति । ऋतुभिर्वा एष व्यृद्ध्यते । योऽश्वमेधेन यजते । पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते । ऋतुभिरेवात्मानꣳ समर्धयति । आ वा एष पशुभ्यो वृश्च्यते । योऽश्वमेधेन यजते । पर्यग्निकृता उथ्सृजन्त्यनाव्रस्काय ॥ ३। ९। ९। ३॥ लभ्यन्ते लभते त्वाष्ट्रान्पशूनालभतेऽष्टौ च ॥ ९॥ ४१ प्रजापतिरकामयत महानन्नादः स्यामिति । स एतावश्वमेधे महिमानावपश्यत् । तावगृह्णीत । ततो वै स महानन्नादोऽभवत् । यः कामयेत महानन्नादः स्यामिति । स एतावश्वमेधे महिमानौ गृह्णीत । महानेवान्नादो भवति । यजमानदेवत्या वै वपा । राजा महिमा । यद्वपां महिम्नोभयतः परियजति । यजमानमेव राज्येनोभयतः परिगृह्णाति । पुरस्ताथ्स्वाहाकारा वा अन्ये देवाः । उपरिष्टाथ्स्वाहाकारा अन्ये । ते वा एतेऽश्व एव मेध्य उभयेऽवरुध्यन्ते । यद्वपां महिम्नोभयतः परियजति । तानेवोभयान्प्रीणाति ॥ ३। ९। १०। १॥ परियजति षट्च ॥ १०॥ ४२ वैश्वदेवो वा अश्वः । तं यत्प्राजापत्यं कुर्यात् । या देवता अपिभागाः । ता भागधेयेन व्यर्धयेत् । देवताभ्यः समदं दध्यात् । स्तेगान्द२ꣳष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरिति । आज्यमवदानं कृत्वा प्रतिसंख्यायमाहुतीर्जुहोति । या एव देवता अपिभागाः । ता भागधेयेन समर्धयति । न देवताभ्यः समदं दधाति ॥ ३। ९। ११। १॥ ४३ चतुर्दशैताननुवाकाञ्जुहोत्यनन्तरित्यै । प्रयासाय स्वाहेति पञ्चदशम् । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवथ्सर आप्यते । देवासुराः संयत्ता आसन् । तेऽब्रुवन्नग्नयः स्विष्टकृतः । अश्वस्य मेध्यस्य वयमुद्धारमुद्धरामहै । अथैतानभिभवामेति । ते लोहितमुदहरन्त । ततो देवा अभवन् ॥ ३। ९। ११। २॥ ४४ पराऽसुराः । यथ्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै । भवत्यात्मना । पराऽस्य भ्रातृव्यो भवति । गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । पशवो वै गोमृगः । रुद्रोऽग्निः स्विष्टकृत् । रुद्रादेव पशूनन्तर्दधाति । अथो यत्रैषाऽऽहुतिर्हूयते । न तत्र रुद्रः पशूनभिमन्यते ॥ ३। ९। ११। ३॥ ४५ अश्वशफेन द्वितीयामाहुतिं जुहोति । पशवो वा एकशफम् । रुद्रोऽग्निः स्विष्टकृत् । रुद्रादेव पशूनन्तर्दधाति । अथो यत्रैषाऽऽहुतिर् हूयते । न तत्र रुद्रः पशूनभिमन्यते । अयस्मयेन कमण्डलुना तृतीयाम् । आहुतिं जुहोत्यायास्यो वै प्रजाः । रुद्रोऽग्निः स्विष्टकृत् । रुद्रादेव प्रजा अन्तर्दधाति । अथो यत्रैषाऽऽहुतिर्हूयते । न तत्र रुद्रः प्रजा अभिमन्यते ॥ ३। ९। ११। ४॥ दधात्यभवन्मन्यते प्रजा अन्तर्दधाति द्वे च ॥ ११॥ ४६ अश्वस्य वा आलब्धस्य मेध उदक्रामत् । तदश्वस्तोमीयमभवत् । यदश्वस्तोमीयं जुहोति । स मेधमेवैनमालभते । आज्येन जुहोति । मेधो वा आज्यम् । मेधोऽश्वस्तोमीयम् । मेधेनैवास्मिन्मेधं दधाति । षट्त्रिꣳशतं जुहोति । षट्त्रिꣳशदक्षरा बृहती ॥ ३। ९। १२। १॥ ४७ बार्हताः पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्धयति । ता यद्भूयसीर्वा कनीयसीर्वा जुहुयात् । पशून्मात्रया व्यर्धयेत् । षट्त्रिꣳशतं जुहोति । षट्त्रिꣳशदक्षरा बृहती । बार्हताः पशवः । सा पशूनां मात्रा । पशूनेव मात्रया समर्धयति ॥ ३। ९। १२। २॥ ४८ अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । द्विपाद्वै पुरुषो द्विप्रतिष्ठः । तदेनं प्रतिष्ठया समर्धयति । तदाहुः । अश्वस्तोमीयं पूर्वꣳ होतव्या ३ ं द्विपदा ३ इति । अश्वो वा अश्वस्तोमीयम् । पुरुषो द्विपदाः । अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । तस्माद्द्विपाच्चतुष्पादमत्ति । अथो द्विपद्येव चतुष्पदः प्रतिष्ठापयति । द्विपदा हुत्वा । नान्यामुत्तरामाहुतिं जुहुयात् । यदन्यामुत्तरामाहुतिं जुहुयात् । प्र प्रतिष्ठायाश्च्यवेत । द्विपदा अन्ततो जुहोति प्रतिष्ठित्यै ॥ ३। ९। १२। ३॥ बृहत्यर्धयति स्थापयति पञ्च च ॥ १२॥ ४९ प्रजापतिरश्वमेधमसृजत । सोऽस्माथ्सृष्टोऽपाक्रामत् । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । यथ्संवथ्सरमिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । सावित्रियो भवन्ति ॥ ३। ९। १३। १॥ ५० इयं वै सविता । यो वा अस्यां नश्यति यो निलयते । अस्यां वाव तं विन्दन्ति । न वा इमां कश्चनेत्याहुः । तिर्यङ्नोर्ध्वोऽत्येतुमर्हतीति । यथ्सावित्रियो भवन्ति । सवितृप्रसूत एवैनमिच्छति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । यथ्सायं धृतीर्जुहोति । अश्वस्य यत्यै धृत्यै ॥ ३। ९। १३। २॥ ५१ यत्प्रातरिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । यथ्सायं धृतीर्जुहोति । अश्वस्यैव यत्यै धृत्यै । तस्माथ्सायं प्रजाः, क्षेम्या भवन्ति । यत्प्रातरिष्टिभिर्यजते । अश्वमेव तदन्विच्छति । तस्माद्दिवा नष्टैष एति । यत्प्रातरिष्टिभिर्यजते सायं धृतीर्जुहोति । अहोरात्राभ्यामेवैनमन्विच्छति । अथो अहोरात्राभ्यामेवास्मै योगक्षेमं कल्पयति ॥ ३। ९। १३। ३॥ भवन्ति धृत्या एनमन्विच्छत्येकं च ॥ १३॥ ५२ अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ब्राह्मणौ वीणागाथिनौ गायतः । श्रिया वा एतद्रूपम् । यद्वीणा । श्रियमेवास्मिन्तद्धत्तः । यदा खलु वै पुरुषः श्रियमश्नुते । वीणाऽस्मै वाद्यते । तदाहुः । यदुभौ ब्राह्मणौ गायेताम् ॥ ३। ९। १४। १॥ ५३ प्रभ्रꣳशुकाऽस्माच्छ्रीः स्यात् । न वै ब्राह्मणे श्री रमत इति । ब्राह्मणोऽन्यो गायेत् । राजन्योऽन्यः । ब्रह्म वै ब्राह्मणः । क्षत्त्रꣳ राजन्यः । तथा हास्य ब्रह्मणा च क्षत्त्रेण चोभयतः श्रीः परिगृहीता भवति । तदाहुः । यदुभौ दिवा गायेताम् । अपास्माद्राष्ट्रं क्रामेत् ॥ ३। ९। १४। २॥ ५४ न वै ब्राह्मणे राष्ट्रꣳ रमत इति । यदा खलु वै राजा कामयते । अथ ब्राह्मणं जिनाति । दिवा ब्राह्मणो गायेत् । नक्तꣳ राजन्यः । ब्रह्मणो वै रूपमहः । क्षत्त्रस्य रात्रिः । तथा हास्य ब्रह्मणा च क्षत्त्रेण चोभयतो राष्ट्रं परिगृहीतं भवति । इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् । इष्टापूर्तं वै ब्राह्मणस्य ॥ ३। ९। १४। ३॥ ५५ इष्टापूर्तेनैवैनꣳ स समर्धयति । इत्यजिना इत्ययुध्यथा इत्यमुꣳ संग्राममहन्निति राजन्यः । युद्धं वै राजन्यस्य । युद्धेनैवैनꣳ स समर्धयति । अक्लृप्ता वा एतस्यर्तव इत्याहुः । योऽश्वमेधेन यजत इति । तिस्रोऽन्यो गायति तिस्रोऽन्यः । षट्थ्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेवास्मै कल्पयतः । ताभ्याꣳ सग्ग्स्थायाम् । अनोयुक्ते च शते च ददाति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति ॥ ३। ९। १४। ४॥ गायेतां क्रामेद्ब्राह्मणस्य कल्पयतश्चत्वारि च ॥ १४॥ ५६ सर्वेषु वा एषु लोकेषु मृत्यवोऽन्वायत्ताः । तेभ्यो यदाहुतीर्न जुहुयात् । लोके लोक एनं मृत्युर्विन्देत् । मृत्यवे स्वाहा मृत्यवे स्वाहेत्यभि पूर्वमाहुतीर्जुहोति । लोकाल्लोकादेव मृत्युमवयजते । नैनं लोके लोके मृत्युर्विन्दति । यदमुष्मै स्वाहाऽमुष्मै स्वाहेति जुह्वथ्संचक्षीत । बहुं मृत्युममित्रं कुर्वीत । मृत्यवे स्वाहेत्येकस्मा एवैकां जुहुयात् । एको वा अमुष्मिं ल्लोके मृत्युः ॥ ३। ९। १५। १॥ ५७ अशनया मृत्युरेव । तमेवामुष्मिं ल्लोकेऽवयजते । भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति । भ्रूणहत्यामेवावयजते । तदाहुः । यद्भ्रूणहत्याऽपात्र्याऽथ । कस्माद्यज्ञेऽपि क्रियत इति । अमृत्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । भ्रूणहत्या वाव मृत्युरिति । यद्भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति ॥ ३। ९। १५। २॥ ५८ मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा । भ्रूणघ्ने भेषजं करोति । एताꣳ ह वै मुण्डिभ औदन्यवः । भ्रूणहत्यायै प्रायश्चित्तिं विदाञ्चकार । यो हास्यापि प्रजायां ब्राह्मणꣳ हन्ति । सर्वस्मै तस्मै भेषजं करोति । जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति । वरुणो वै जुम्बकः । अन्तत एव वरुणमवयजते । खलतेर्विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धञ्जुहोति । एतद्वै वरुणस्य रूपम् । रूपेणैव वरुणमवयजते ॥ ३। ९। १५। ३॥ लोके मृत्युर्जुहोति मूर्धञ्जुहोति द्वे च ॥ १५॥ ५९ वारुणो वा अश्वः । तं देवतया व्यर्धयति । यत्प्राजापत्यं करोति । नमो राज्ञे नमो वरुणायेत्याह । वारुणो वा अश्वः । स्वयैवैनं देवतया समर्धयति । नमोऽश्वाय नमः प्रजापतय इत्याह । प्राजापत्यो वा अश्वः । स्वयैवैनं देवतया समर्धयति । नमोऽधिपतय इत्याह ॥ ३। ९। १६। १॥ ६० धर्मो वा अधिपतिः । धर्ममेवावरुन्धे । अधिपतिरस्यधिपतिं मा कुर्वधिपतिरहं प्रजानां भूयासमित्याह । अधिपतिमेवैनꣳ समानानां करोति । मां धेहि मयि धेहीत्याह । आशिषमेवैतामाशास्ते । उपाकृताय स्वाहेत्युपाकृते जुहोति । आलब्धाय स्वाहेति नियुक्ते जुहोति । हुताय स्वाहेति हुते जुहोति । एषां लोकानामभिजित्यै ॥ ३। ९। १६। २॥ ६१ प्र वा एष एभ्यो लोकेभ्यश्च्यवते । योऽश्वमेधेन यजते । आग्नेयमैन्द्राग्नमाश्विनम् । तान्पशूनालभते प्रतिष्ठित्यै । यदाग्नेयो भवति । अग्निः सर्वा देवताः । देवता एवावरुन्धे । ब्रह्म वा अग्निः । क्षत्त्रमिन्द्रः । यदैन्द्राग्नो भवति ॥ ३। ९। १६। ३॥ ६२ ब्रह्मक्षत्त्रे एवावरुन्धे । यदाश्विनो भवति । आशिषामवरुद्ध्यै । त्रयो भवन्ति । त्रय इमे लोकाः । एष्वेव लोकेषु प्रतितिष्ठति । अग्नयेऽꣳहोमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति सर्वत्वाय ॥ ३। ९। १६। ४॥ अधिपतय इत्याहाभिजित्या ऐन्द्राग्नो भवति रुन्ध एकं च ॥ १६॥ ६३ यद्यश्वमुपतपद्विन्देत् । आग्नेयमष्टाकपालं निर्वपेत् । सौम्यं चरुम् । सावित्रमष्टाकपालम् । यदाग्नेयो भवति । अग्निः सर्वा देवताः । देवताभिरेवैनं भिषज्यति । यथ्सौम्यो भवति । सोमो वा ओषधीनाꣳ राजा । याभ्य एवैनं विन्दति ॥ ३। ९। १७। १॥ ६४ ताभिरेवैनं भिषज्यति । यथ्सावित्रो भवति । सवितृप्रसूत एवैनं भिषज्यति । एताभिरेवैनं देवताभिर्भिषज्यति । अगदो हैव भवति । पौष्णं चरुं निर्वपेत् । यदि श्लोणः स्यात् । पूषा वै श्लौण्यस्य भिषक् । स एवैनं भिषज्यति । अश्लोणो हैव भवति ॥ ३। ९। १७। २॥ ६५ रौद्रं चरुं निर्वपेत् । यदि महती देवताऽभिमन्येत । एतद्देवत्यो वा अश्वः । स्वयैवैनं देवतया भिषज्यति । अगदो हैव भवति । वैश्वानरं द्वादशकपालं निर्वपेन्मृगाखरे यदि नागच्छेत् । इयं वा अग्निर्वैश्वानरः । इयमेवैनमर्चिभ्यां परिरोधमानयति । आ हैव सुत्यमहर्गच्छति । यद्यधीयात् ॥ ३। ९। १७। ३॥ ६६ अग्नयेऽꣳहोमुचेऽष्टाकपालः । सौर्यं पयः । वायव्य आज्यभागः । यजमानो वा अश्वः । अꣳहसा वा एष गृहीतः । यस्याश्वो मेधाय प्रोक्षितोऽध्येति । यदꣳहोमुचे निर्वपति । अꣳहस एव तेन मुच्यते । यजमानो वा अश्वः । रेतसा वा एष व्यृध्यते ॥ ३। ९। १७। ४॥ ६७ यस्याश्वो मेधाय प्रोक्षितोऽध्येति । सौर्यꣳ रेतः । यथ्सौर्यं पयो भवति । रेतसैवैनꣳ स समर्धयति । यजमानो वा अश्वः । गर्भैर्वा एष व्यृध्यते । यस्याश्वो मेधाय प्रोक्षितोऽध्येति । वायव्या गर्भाः । यद्वायव्य आज्यभागो भवति । गर्भैरेवैनꣳ स समर्धयति । अथो यस्यैषाऽश्वमेधे प्रायश्चितिः क्रियते । इष्ट्वा वसीयान्भवति ॥ ३। ९। १७। ५॥ विन्दत्यश्लोणो हैव भवत्यधीयादृद्ध्यते गर्भैरेवैनꣳ समर्धयति द्वे च ॥ १७॥ ६८ तदाहुः । द्वादश ब्रह्मौदनान्थ्स२ꣳस्थिते निर्वपेत् । द्वादशभिर्वेष्टिभिर्यजेतेति । यदिष्टिभिर्यजेत । उपनामुक एनं यज्ञः स्यात् । पापीयाग्स्तु स्यात् । आप्तानि वा एतस्य छन्दाꣳसि । य ईजानः । तानि क एतावदाशु पुनः प्रयुंजीतेति । सर्वा वै स२ꣳस्थिते यज्ञे वागाप्यते ॥ ३। ९। १८। १॥ ६९ साऽऽप्ता भवति यातयाम्नी । क्रूरीकृतेव हि भवत्यरुष्कृता । सा न पुनः प्रयुज्येत्याहुः । द्वादशैव ब्रह्मौदनान्थ्स२ꣳस्थिते निर्वपेत् । प्रजापतिर्वा ओदनः । यज्ञः प्रजापतिः । उपनामुक एनं यज्ञो भवति । न पापीयान्भवति । द्वादश भवन्ति । द्वादश मासाः संवथ्सरः । संवथ्सर एव प्रतितिष्ठति ॥ ३। ९। १८। २॥ आप्यते संवथ्सर एकं च ॥ १८॥ ७० एष वै विभूर्नाम यज्ञः । सर्वꣳ ह वै तत्र विभु भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै प्रभूर्नाम यज्ञः । सर्वꣳ ह वै तत्र प्रभु भवति । यत्रैतेन यज्ञेन यजन्ते । एष वा ऊर्जस्वान्नाम यज्ञः । सर्वꣳ ह वै तत्रोर्जस्वद्भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै पयस्वान्नाम यज्ञः ॥ ३। ९। १९। १॥ ७१ सर्वꣳ ह वै तत्र पयस्वद्भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै विधृतो नाम यज्ञः । सर्वꣳ ह वै तत्र विधृतं भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै व्यावृत्तो नाम यज्ञः । सर्वꣳ ह वै तत्र व्यावृत्तं भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै प्रतिष्ठितो नाम यज्ञः । सर्वꣳ ह वै तत्र प्रतिष्ठितं भवति ॥ ३। ९। १९। २॥ ७२ यत्रैतेन यज्ञेन यजन्ते । एष वै तेजस्वी नाम यज्ञः । सर्वꣳ ह वै तत्र तेजस्वि भवति । यत्रैतेन यज्ञेन यजन्ते । एष वै ब्रह्मवर्चसी नाम यज्ञः । आ ह वै तत्र ब्राह्मणो ब्रह्मवर्चसी जायते । यत्रैतेन यज्ञेन यजन्ते । एष वा अतिव्याधी नाम यज्ञः । आ ह वै तत्र राजन्योऽतिव्याधी जायते । यत्रैतेन यज्ञेन यजन्ते । एष वै दीर्घो नाम यज्ञः । दीर्घायुषो ह वै तत्र मनुष्या भवन्ति । यत्रैतेन यज्ञेन यजन्ते । एष वै क्लृप्तो नाम यज्ञः । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्रैतेन यज्ञेन यजन्ते ॥ ३। ९। १९। ३॥ पयस्वान्नाम यज्ञः प्रतिष्ठितं भवति यत्रैतेन यज्ञेन यजन्ते षट्च ॥ १९॥ एष वै विभूः प्रभूरूर्जस्वान् पयस्वान् विधृतो व्यावृत्तः प्रतिष्ठितस्तेजस्वी ब्रह्मवर्चस्यति व्याधी दीर्घः क्लृप्तो द्वादश ॥ ७३ तार्प्येणाश्वꣳ संज्ञपयन्ति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनꣳ समर्धयन्ति । यामेन साम्ना प्रस्तोताऽनूपतिष्ठते । यमलोकमेवैनं गमयति । तार्प्ये च कृत्त्यधीवासे चाश्वꣳ संज्ञपयन्ति । एतद्वै पशूनाꣳ रूपम् । रूपेणैव पशूनवरुन्धे । हिरण्यकशिपु भवति । तेजसोऽवरुद्ध्यै ॥ ३। ९। २०। १॥ ७४ रुक्मो भवति । सुवर्गस्य लोकस्यानुख्यात्यै । अश्वो भवति । प्रजापतेराप्त्यै । अस्य वै लोकस्य रूपं तार्प्यम् । अन्तरिक्षस्य कृत्त्यधीवासः । दिवो हिरण्यकशिपु । आदित्यस्य रुक्मः । प्रजापतेरश्वः । इममेव लोकं तार्प्येणाप्नोति ॥ ७५ अन्तरिक्षं कृत्यधीवासेन । दिवꣳ हिरण्यकशिपुना । आदित्यꣳ रुक्मेण । अश्वेनैव मेध्येन प्रजापतेः सायुज्यꣳ सलोकतामाप्नोति । एतासामेव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समानलोकतामाप्नोति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ॥ ३। ९। २०। ३॥ अवरुद्ध्या आप्नोत्यष्टौ च ॥ २०॥ ७६ आदित्याश्चांगिरसश्च सुवर्गे लोकेऽस्पर्धन्त । तेऽंगिरस आदित्येभ्यः । अमुमादित्यमश्वग्ग् श्वेतं भूतं दक्षिणामनयन् । तेऽब्रुवन् । यं नोऽनेष्ट । स वऱ्योऽभूदिति । तस्मादश्वꣳ सवर्येत्याह्वयन्ति । तस्माद्यज्ञे वरो दीयते । यत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वो नाम ॥ ३। ९। २१। १॥ ७७ यच्छ्वयदरुरासीत् । तस्मादर्वा नाम । यथ्सद्यो वाजान्थ्समजयत् । तस्माद्वाजी नाम । यदसुराणां लोकानादत्त । तस्मादादित्यो नाम । अग्निर्वा अश्वमेधस्य योनिरायतनम् । सूऱ्योऽग्नेऱ्योनिरायतनम् । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिमुपवपति । योनिमन्तमेवैनमायतनवन्तं करोति ॥ ३। ९। २१। २॥ ७८ योनिमानायतनवान्भवति । य एवं वेद । प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ । प्राणापानावेवावरुन्धे । ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । ओजो बलमेवावरुन्धे । अग्निर्वा अश्वमेधस्य योनिरायतनम् । सूऱ्योऽग्नेऱ्योनिरायतनम् । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिं चिनोति । तावर्काश्वमेधौ । अर्काश्वमेधावेवावरुन्धे । अथो अर्काश्वमेधयोरेव प्रतितिष्ठति ॥ ३। ९। २१। ३॥ नाम करोति सूऱ्योऽग्नेऱ्योनिरायतनं चत्वारि च ॥ २१॥ ७९ प्रजापतिं वै देवाः पितरम् । पशुं भूतं मेधायालभन्त । तमालभ्योपावसन् । प्रातर्यष्टास्मह इति । एकं वा एतद्देवानामहः । यथ्संवथ्सरः । तस्मादश्वः पुरस्ताथ्संवथ्सर आलभ्यते । यत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वः । यथ्सद्यो मेधोऽभवत् ॥ ३। ९। २२। १॥ ८० तस्मादश्वमेधः । वेदुकोऽश्वमाशुं भवति । य एवं वेद । यद्वै तत्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वः प्रजापतेः पशूनामनुरूपतमः । आऽस्य पुत्रः प्रतिरूपो जायते । य एवं वेद । सर्वाणि भूतानि संभृत्यालभते । समेनं देवास्तेजसे ब्रह्मवर्चसाय भरन्ति । योऽश्वमेधेन यजते ॥ ३। ९। २२। २॥ ८१ य उ चैनमेवं वेद । एतद्वै तद्देवा एतां देवताम् । पशुं भूतं मेधायालभन्त । यज्ञमेव । यज्ञेन यज्ञमयजन्त देवाः । कामप्रं यज्ञमकुर्वत । तेऽमृतत्वमकामयन्त । तेऽमृतत्वमगच्छन् । योऽश्वमेधेन यजते । देवानामेवायनेनैति ॥ ३। ९। २२। ३॥ ८२ प्राजापत्येनैव यज्ञेन यजते कामप्रेण । अपुनर्मारमेव गच्छति । एतस्य वै रूपेण पुरस्तात्प्राजापत्यमृषभं तूपरं बहुरूपमा लभते । सर्वेभ्यः कामेभ्यः । सर्वस्याप्त्यै । सर्वस्य जित्यै । सर्वमेव तेनाप्नोति । सर्वं जयति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ॥ ३। ९। २२। ४॥ मेधोऽभवद्यजत एति वेद ॥ २२॥ ८३ यो वा अश्वस्य मेध्यस्य लोमनी वेद । अश्वस्यैव मेध्यस्य लोमं ल्लोमञ्जुहोति । अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी । यथ्सायं प्रातर्जुहोति । अश्वस्यैव मेध्यस्य लोमं ल्लोमञ्जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य लोमं ल्लोमञ्जुह्वति । यो वा अश्वस्य मेध्यस्य पदे वेद । अश्वस्यैव मेध्यस्य पदे पदे जुहोति । दर्शपूर्णमासौ वा अश्वस्य मेध्यस्य पदे ॥ ३। ९। २३। १॥ ८४ यद्दर्शपूर्णमासौ यजते । अश्वस्यैव मेध्यस्य पदे पदे जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य पदे पदे जुह्वति । यो वा अश्वस्य मेध्यस्य विवर्तनं वेद । अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति । असौ वा आदित्योऽश्वः । स आहवनीयमागच्छति । तद्विवर्तते । यदग्निहोत्रं जुहोति । अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य विवर्तने विवर्तने जुह्वति ॥ ३। ९। २३। २॥ पदे अग्निहोत्रं जुहोति त्रीणि च ॥ २३॥ प्रजापतिस्तमष्टादशिभिः प्रजापतिरकामयतो भावस्मै युञ्जन्ति तेजसाऽप प्राणा अप श्रीरूर्ध्वां प्रजापतिः प्रेणाऽनु प्रथमेन प्रजापतिरकामयत महान्, वैश्वदेवो वा अश्वोऽश्वस्य प्रजापतिस्तं यज्ञक्रतुभिरप श्रीर्ब्राह्मणौ सर्वेषु वारुणो यद्यश्वं तदाहुरेष वै विभूस्तार्प्येणादित्याः प्रजापतिं वै देवाः पितरं यो वा अश्वस्य मेध्यस्य लोमनी त्रयोविꣳशतिः ॥ २३॥ प्रजापतिरस्मिं ल्लोक उत्तरतः श्रियमेव प्रजापतिरकामयत महान्, यत्प्रातः प्र वा एष एभ्यो लोकेभ्यः सर्वꣳ ह वै तत्र पयस्वद्य उ चैनमेवं वेद चत्वार्यशीतिः ॥ ८४॥ प्रजापतिरश्वमेधं जुह्वति ॥ इति तृतीयं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ काठकम् ॥

॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥

काठके प्रथमः प्रपाठकः १

सावित्र चयनम्

१ संज्ञानं विज्ञानं प्रज्ञानं जानदभिजानत् । संकल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लृप्तं क्लृप्तम् । श्रेयो वसीय आयथ्संभूतं भूतम् । चित्रः केतुः प्रभानाभान्थ्संभान् । ज्योतिष्माग् स्तेजस्वानातपग्ग् स्तपन्नभितपन् । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना । आप्यायमाना प्यायमाना प्याया सूनृतेरा । आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी । दाता प्रदाताऽऽनन्दो मोदः प्रमोदः ॥ ३। १०। १। १॥ २ आवेशयन्निवेशयन्थ्संवेशनः सꣳशान्तः शान्तः । आभवन्प्रभवन्थ्संभवन्थ्संभूतो भूतः । प्रस्तुतं विष्टुतꣳ स२ꣳस्तुतं कल्याणं विश्वरूपम् । शुक्रममृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन्मरीचिमदभितपत्तपस्वत् । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः । ज्वलञ्ज्वलिता तपन्वितपन्थ्संतपन् । रोचनो रोचमानः शुम्भूः शुम्भमानो वामः । सुता सुन्वती प्रसुता सूयमानाऽभिषूयमाणा । पीती प्रपा संपा तृप्तिस्तर्पयन्ती ॥ ३। १०। १। २॥ ३ कान्ता काम्या कामजाताऽऽयुष्मती कामदुघा । अभिशास्ताऽनुमन्ताऽऽनन्दो मोदः प्रमोदः । आसादयन्निषादयन्थ्सꣳसादनः सꣳसन्नः सन्नः । आभूर्विभूः प्रभूः शंभूर्भुवः । पवित्रं पवियिष्यन्पूतो मेध्यः । यशो यशस्वानायुरमृतः । जीवो जीविष्यन्थ्स्वर्गो लोकः । सहस्वान्थ्सहीयानोजस्वान्थ्सहमानः । जयन्नभिजयन्थ्सुद्रविणो द्रविणोदाः । आर्द्रपवित्रो हरिकेशो मोदः प्रमोदः ॥ ३। १०। १। ३॥ ४ अरुणोऽरुणरजाः पुण्डरीको विश्वजिदभिजित् । आर्द्रः पिन्वमानोऽन्नवान्रसवानिरावान् । सर्वौषधः सम्भरो महस्वान् । एजत्का जोवत्काः । क्षुल्लकाः शिपिविष्टकाः । सरिस्रराः सुशेरवः । अजिरासो गमिष्णवः । इदानीं तदानीमेतर्हि क्षिप्रमजिरम् । आशुर्निमेषः फणो द्रवन्नतिद्रवन् । त्वरग्ग्स्त्वरमाण आशुराशीयाञ्जवः । अग्निष्टोम उक्थ्योऽतिरात्रो द्विरात्रस्त्रिरात्रश्चतूरात्रः । अग्निरृतुः सूर्य ऋतुश्चन्द्रमा ऋतुः । प्रजापतिः संवथ्सरो महान्कः ॥ ३। १०। १। ४॥ प्रमोदस्तर्पयन्ती प्रमोदो जवस्त्रीणि च ॥ १॥ ५ भूरग्निं च पृथिवीं च मां च । त्रीग्श्च लोकान्थ्संवथ्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । भुवो वायुं चान्तरिक्षं च मां च । त्रीग्श्च लोकान्थ्संवथ्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । स्वरादित्यं च दिवं च मां च । त्रीग्श्च लोकान्थ्संवथ्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । भूर्भुवः स्वश्चन्द्रमसं च दिशश्च मां च । त्रीग्श्च लोकान्थ्संवथ्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। १०। २। १॥ संवथ्सरं च षट्च ॥ २॥ ६ त्वमेव त्वां वेत्थ योऽसि सोऽसि । त्वमेव त्वामचैषीः । चितश्चासि संचितश्चास्यग्ने । एतावाग्श्चासि भूयाग्श्चास्यग्ने । यत्ते अग्ने न्यूनं यदु तेऽतिरिक्तम् । आदित्यास्तदंगिरसश्चिन्वन्तु । विश्वे ते देवाश्चितिमापूरयन्तु । चितश्चासि संचितश्चास्यग्ने । एतावाग्श्चासि भूयाग्श्चास्यग्ने । मा ते अग्ने चयेन माऽति च येनायुरावृक्षि । सर्वेषां ज्योतिषां ज्योतिर्यददावुदेति । तपसो जातमनिभृष्टमोजः । तत्ते ज्योतिरिष्टके । तेन मे तप । तेन मे ज्वल । तेन मे दीदिहि । यावद्देवाः । यावदसाति सूर्यः । यावदुतापि ब्रह्म ॥ ३। १०। ३। १॥ आ वृक्षि नव च ॥ ३॥ ७ संवथ्सरोऽसि परिवथ्सरोऽसि । इदावथ्सरोऽसीदु वथ्सरोऽसि । इद्वथ्सरोऽसि वथ्सरोऽसि । तस्य ते वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् ॥ ३। १०। ४। १॥ ८ अहोरात्राणीष्टकाः । ऋषभोऽसि स्वर्गो लोकः । यस्यां दिशि महीयसे । ततो नो मह आवह । वायुर्भूत्वा सर्वा दिश आवाहि । सर्वा दिशोऽनु विवाहि । सर्वा दिशोऽनु संवाहि । चित्या चितिमापृण । अचित्या चितिमापृण । चिदसि समुद्रयोनिः ॥ ३। १०। ४। २॥ ९ इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्थ्सधस्थे ध्रुव आनिषत्तः । नमस्ते अस्तु मा मा हिꣳसीः । एति प्रेति वीति समित्युदिति । दिवं मे यच्छ । अन्तरिक्षं मे यच्छ । पृथिवीं मे यच्छ । पृथिवीं मे यच्छ । अन्तरिक्षं मे यच्छ । दिवं मे यच्छ । अह्ना प्रसारय । रात्र्या समच । रात्र्या प्रसारय । अह्ना समच । कामं प्रसारय । कामꣳ समच ॥ ३। १०। ४। ३॥ पुरीषꣳ समुद्रयोनिः पृथिवीं मे यच्छान्तरिक्षं मे यच्छ सप्त च ॥ ४॥ १० भूर्भुवः स्वः । ओजो बलम् । ब्रह्म क्षत्त्रम् । यशो महत् । सत्यं तपो नाम । रूपममृतम् । चक्षुः श्रोत्रम् । मन आयुः । विश्वं यशो महः । समं तपो हरो भाः । जातवेदा यदि वा पावकोऽसि । वैश्वानरो यदि वा वैद्युतोऽसि । शं प्रजाभ्यो यजमानाय लोकम् । ऊर्जं पुष्टिं दददभ्याववृथ्स्व ॥ ३। १०। ५। १॥ भाश्चत्वारि च ॥ ५॥ ११ राज्ञी विराज्ञी । सम्राज्ञी स्वराज्ञी । अर्चिः शोचिः । तपो हरो भाः । अग्निरिन्द्रो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते मा सर्वे यशसा सꣳसृजन्तु ॥ ३। १०। ६। १॥ राज्ञीन्द्रो मा सप्त ॥ ६॥ १२ असवे स्वाहा वसवे स्वाहा । विभुवे स्वाहा विवस्वते स्वाहा । अभिभुवे स्वाहाऽधिपतये स्वाहा । दिवां पतये स्वाहाऽꣳहस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा विराज्ञे स्वाहा । संराज्ञे स्वाहा स्वराज्ञे स्वाहा । शूषाय स्वाहा सूर्याय स्वाहा । चन्द्रमसे स्वाहा ज्योतिषे स्वाहा । सꣳसर्पाय स्वाहा कल्याणाय स्वाहा । अर्जुनाय स्वाहा ॥ ३। १०। ७। १॥ कल्याणाय स्वाहैकं च ॥ ७॥ १३ विपश्चिते पवमानाय गायत । मही न धाराऽत्यन्धो अर्षति । अहिर्ह जीर्णामतिसर्पति त्वचम् । अत्यो न क्रीडन्नसरद्वृषा हरिः । उपयामगृहीतोऽसि मृत्यवे त्वा जुष्टं गृह्णामि । एष ते योनिर्मृत्यवे त्वा । अप मृत्युमप क्षुधम् । अपेतः शपथं जहि । अधा नो अग्न आवह । रायस्पोषꣳ सहस्रिणम् ॥ ३। १०। ८। १॥ १४ ये ते सहस्रमयुतं पाशाः । मृत्यो मर्त्याय हन्तवे । तान्, यज्ञस्य मायया । सर्वानवयजामहे । भक्षोऽस्यमृतभक्षः । तस्य ते मृत्युपीतस्यामृतवतः । स्वगाकृतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि । मन्द्राऽभिभूतिः केतुर्यज्ञानां वाक् । असावेहि ॥ ३। १०। ८। २॥ १५ अन्धो जागृविः प्राण । असावेहि । बधिर आक्रन्दयितरपान । असावेहि । अहस्तोऽस्त्वा चक्षुः । असावेहि । अपादाशो मनः । असावेहि । कवे विप्रचित्ते श्रोत्र । असावेहि । १६ सुहस्तः सुवासाः । शूषो नामास्यमृतो मर्त्येषु । तं त्वाऽहं तथा वेद । असावेहि । अग्निर्मे वाचि श्रितः । वाग्घृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । वायुर्मे प्राणे श्रितः ॥ ३। १०। ८। ४॥ १७ प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । सूऱ्यो मे चक्षुषि श्रितः । चक्षुर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । चन्द्रमा मे मनसि श्रितः ॥ ३। १०। ८। ५॥ १८ मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । दिशो मे श्रोत्रे श्रिताः । श्रोत्रꣳ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आपो मे रेतसि श्रिताः ॥ ३। १०। ८। ६॥ १९ रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पृथिवी मे शरीरे श्रिता । शरीरꣳ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ओषधिवनस्पतयो मे लोमसु श्रिताः ॥ ३। १०। ८। ७॥ २० लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । इन्द्रो मे बले श्रितः । बलꣳ हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पर्जन्यो मे मूर्ध्नि श्रितः ॥ ३। १०। ८। ८॥ २१ मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ईशानो मे मन्यौ श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः ॥ ३। १०। ८। ९॥ २२ आत्मा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानः । अन्तस्तिष्ठत्वमृतस्य गोपाः ॥ ३। १०। ८। ९॥ सहस्रिणमिहि श्रोत्रासावेहि प्राणे श्रितो मनसि श्रितो रेतसि श्रिता लोमसु श्रिता मूर्ध्नि श्रित आत्मनि श्रितोऽष्टौ च ॥ ८॥ अग्निर्वायुः सूर्यश्चन्द्रमा दिश आपः पृथिव्योषधिवनस्पतय इन्द्रः पर्जन्य ईशान आत्मा पुनर्मे त्रयोदश ॥ २३ प्रजापतिर्देवानसृजत । ते पाप्मना संदिता अजायन्त । तान्व्यद्यत् । यद्व्यद्यत् । तस्माद्विद्युत् । तमवृश्चत् । यदवृश्चत् । तस्माद्वृष्टिः । तस्माद्यत्रैते देवते अभिप्राप्नुतः । वि च हैवास्य तत्र पाप्मानं द्यतः ॥ ३। १०। ९। १॥ २४ वृश्चतश्च । सैषा मीमाꣳसाऽग्निहोत्र एव संपन्ना । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । होष्यन्नप उपस्पृशेत् । विद्युदसि विद्य मे पाप्मानमिति । अथ हुत्वोपस्पृशेत् । वृष्टिरसि वृश्च मे पाप्मानमिति । यक्ष्यमाणो वेष्ट्वा वा । वि च हैवास्यैते देवते पाप्मानं द्यतः ॥ ३। १०। ९। २॥ २५ वृश्चतश्च । अत्यꣳहो हारुणिः । ब्रह्मचारिणे प्रश्नान्प्रोच्य प्रजिघाय । परेहि । प्लक्षं दैयाम्पातिं पृच्छ । वेत्थ सावित्रा ३ न्न वेत्था ३ इति । तमागत्य पप्रच्छ । आचाऱ्यो मा प्राहैषीत् । वेत्थ सावित्रा ३ न्न वेत्था ३ इति । स होवाच वेदेति ॥ ३। १०। ९। ३॥ २६ स कस्मिन्प्रतिष्ठित इति । परोरजसीति । कस्तद्यत्परोरजा इति । एष वाव स परोरजा इति होवाच । य एष तपति । एषोऽर्वाग्रजा इति । स कस्मिन्त्वेष इति । सत्य इति । किं तथ्सत्यमिति । तप इति ॥ ३। १०। ९। ४॥ २७ कस्मिन्नु तप इति । बल इति । किं तद्बलमिति । प्राण इति । मा स्म प्राणमति पृच्छ इति माऽऽचाऱ्योऽब्रवीदिति होवाच ब्रह्मचारी । स होवाच प्लक्षो दय्याम्पातिः । यद्वै ब्रह्मचारिन्प्राणमत्यप्रक्ष्यः । मूर्धा ते व्यपतिष्यत् । अहमुत आचार्याच्छ्रेयान्भविष्यामि । यो मा सावित्रे समवादिष्टेति ॥ ३। १०। ९। ५॥ २८ तस्माथ्सावित्रे न संवदेत । स यो ह वै सावित्रं विदुषा सावित्रे संवदते । सहास्मिञ्छ्रियं दधाति । अनु ह वा अस्मा असौ तपञ्छ्रियं मन्यते । अन्वस्मै श्रीस्तपो मन्यते । अन्वस्मै तपो बलं मन्यते । अन्वस्मै बलं प्राणं मन्यते । स यदाह । संज्ञानं विज्ञानं दर्शा दृष्टेति । एष एव तत् ॥ ३। १०। ९। ६॥ २९ अथ यदाह । प्रस्तुतं विष्टुतꣳ सुता सुन्वतीति । एष एव तत् । एष ह्येव तान्यहानि । एष रात्रयः । अथ यदाह । चित्रः केतुर्दाता प्रदाता सविता प्रसविताऽभिशास्ताऽनुमन्तेति । एष एव तत् । एष ह्येव तेऽह्नो मुहूर्ताः । एष रात्रेः ॥ ३। १०। ९। ७॥ ३० अथ यदाह । पवित्रं पवयिष्यन्थ्सहस्वान् थ्सहीयानरुणोऽरुणरजा इति । एष एव तत् । एष ह्येव तेऽर्धमासाः । एष मासाः । अथ यदाह । अग्निष्टोम उक्थ्योऽग्निरृतुः प्रजापतिः संवथ्सर इति । एष एव तत् । एष ह्येव ते यज्ञक्रतवः । एष ऋतवः । ३१ एष संवथ्सरः । अथ यदाह । इदानीं तदानीमिति । एष एव तत् । एष ह्येव ते मुहूर्तानां मुहूर्ताः । जनको ह वैदेहः । अहोरात्रैः समाजगाम । तꣳ होचुः । यो वा अस्मान्, वेद । विजहत्पाप्मानमेति ॥ ३। १०। ९। ९॥ ३२ सर्वमायुरेति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिं ल्लोकेऽन्नं क्षीयत इति । विजहद्ध वै पाप्मानमेति । सर्वमायुरेति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिं ल्लोकेऽन्नं क्षीयते । य एवं वेद । अहीना हाश्वथ्यः । सावित्रं विदांचकार ॥ ३। १०। ९। १०॥ ३३ स ह हꣳसो हिरण्मयो भूत्वा । स्वर्गं लोकमियाय । आदित्यस्य सायुज्यम् । हꣳसो ह वै हिरण्मयो भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । य एवं वेद । देवभागो ह श्रौतर्षः । सावित्रं विदांचकार । तꣳ ह वागदृश्यमानाऽभ्युवाच ॥ ३। १०। ९। ११॥ ३४ सर्वं बत गौतमो वेद । यः सावित्रं वेदेति । स होवाच । कैषा वागसीति । अयमहꣳ सावित्रः । देवानामुत्तमो लोकः । गुह्यं महो बिभ्रदिति । एतावति ह गौतमः । यज्ञोपवीतं कृत्वाऽधो निपपात । नमो नम इति ॥ ३। १०। ९। १२॥ ३५ स होवाच । मा भैषीर्गौतम । जितो वै ते लोक इति । तस्माद्ये के च सावित्रं विदुः । सर्वे ते जितलोकाः । स यो ह वै सावित्रस्याष्टाक्षरं पद२ꣳ श्रियाऽभिषिक्तं वेद । श्रिया हैवाभिषिच्यते । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि ॥ ३। १०। ९। १३॥ ३६ एतद्वै सावित्रस्याष्टाक्षरं पद२ꣳ श्रियाऽभिषिक्तम् । य एवं वेद । श्रिया हैवाभिषिच्यते । तदेतदृचाऽभ्युक्तम् । ऋचो अक्षरे परमे व्योमन् । यस्मिन्देवा अधि विश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति । य इत्तद्विदुस्त इमे समासत इति । न ह वा एतस्यर्चा न यजुषा न साम्नाऽर्थोऽस्ति । यः सावित्रं वेद ॥ ३। १०। ९। १४॥ ३७ तदेतत्परि यद्देवचक्रम् । आर्द्रं पिन्वमान२ꣳ स्वर्गे लोक एति । विजहद्विश्वा भूतानि संपश्यत् । आर्द्रो ह वै पिन्वमानः स्वर्गे लोक एति । विजहन्विश्वा भूतानि संपश्यन् । य एवं वेद । शूषो ह वै वार्ष्णेयः । आदित्येन समाजगाम । तꣳ होवाच । एहि सावित्रं विद्धि । अयं वै स्वर्ग्योऽग्निः पारयिष्णुरमृताथ्संभूत इति । एष वाव स सावित्रः । य एष तपति । एहि मां विद्धि । इति हैवैनं तदुवाच ॥ ३। १०। ९। १५॥ द्यतो द्यतो वेदेति तप इति समवादिष्टेति तद्रात्रेर् ऋतव एति चकारोवाच नम इत्यादित्य इति त्रीणि सावित्रं वेद विद्धि पञ्च च ॥ ९॥ प्रजापतिर्देवान्थ्संज्ञानं प्रस्तुतं तान्यहान्येष रात्रयश्चित्रः केतुस्तेऽह्नो मुहूर्ता रात्रेः पवित्रं तेऽर्धमासा अग्निष्टोमा यज्ञक्रतव इदानीं मुहूर्तानां जनकोऽहीना देवभागः कैषा वाङ्माशूषो ह वै षोडश ॥ ३८ इयं वाव सरघा । तस्या अग्निरेव सारघं मधु । या एताः पूर्वपक्षापरपक्षयो रात्रयः । ता मधुकृतः । यान्यहानि । ते मधुवृषाः । स यो ह वा एता मधुकृतश्च मधुवृषाग्श्च वेद । कुर्वन्ति हास्यैता अग्नौ मधु । नास्येष्टापूर्तं धयन्ति । अथ यो न वेद ॥ ३। १०। १०। १॥ ३९ न हास्यैता अग्नौ मधु कुर्वन्ति । धयन्त्यस्येष्टापूर्तम् । यो ह वा अहोरात्राणां नामधेयानि वेद । नाहोरात्रेष्वार्तिमार्च्छति । संज्ञानं विज्ञानं दर्शा दृष्टेति । एतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि । प्रस्तुतं विष्टुतꣳ सुता सुन्वतीति । एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानि । नाहोरात्रेष्वार्तिमार्च्छति । य एवं वेद ॥ ३। १०। १०। २॥ ४० यो ह वै मुहूर्तानां नामधेयानि वेद । न मुहूर्तेष्वार्तिमार्च्छति । चित्रः केतुर्दाता प्रदाता सविता प्रसविताऽभिशास्ताऽनुमन्तेति । एतेऽनुवाका मुहूर्तानां नामधेयानि । न मुहूर्तेष्वार्तिमार्च्छति । य एवं वेद । यो ह वा अर्धमासानां च मासानां च नामधेयानि वेद । नार्धमासेषु न मासेष्वार्तिमार्च्छति । पवित्रं पवियिष्यन्थ्सहस्वान्थ्सहीयानरुणोऽरुणरजा इति । एतेऽनुवाका अर्धमासानां च मासानां च नामधेयानि ॥ ३। १०। १०। ३॥ ४१ नार्धमासेषु न मासेष्वार्तिमार्च्छति । य एवं वेद । यो ह वै यज्ञक्रतूनां चर्तूनां च संवथ्सरस्य च नामधेयानि वेद । न यज्ञक्रतुषु नर्तुषु न संवथ्सर आर्तिमार्च्छति । अग्निष्टोम उक्थ्योऽग्निर् ऋतुः प्रजापतिः संवथ्सर इति । एतेऽनुवाका यज्ञक्रतूनां चर्तूनां च संवथ्सरस्य च नामधेयानि । न यज्ञक्रतुषु नर्तुषु न संवथ्सर आर्तिमार्च्छति । य एवं वेद । यो ह वै मुहूर्तानां मुहूर्तान्, वेद । न मुहूर्तानां मुहूर्तेष्वार्तिमार्च्छति । ४२ इदानीं तदानीमिति । एते वै मुहूर्तानां मुहूर्ताः । न मुहूर्तानां मुहूर्तेष्वार्तिमार्च्छति । य एवं वेद । अथो यथा क्षेत्रज्ञो भूत्वाऽनु प्रविश्यान्नमत्ति । एवमेवैतान् क्षेत्रज्ञो भूत्वाऽनु प्रविश्यान्नमत्ति । स एतेषामेव सलोकताꣳ सायुज्यमश्नुते । अप पुनर्मृत्युं जयति । य एवं वेद ॥ ३। १०। १०। ४॥ न वेदैवं वेदानुवाका अर्धमासानां च मासानां च नामधेयानि मुहूर्तेष्वार्तिमार्च्छति नव च ॥ १०॥ इयमहोरात्राणाꣳ संज्ञानं पूर्वपक्षस्य प्रस्तुतमपरपक्षस्य मुहूर्तानां चित्रः केतुरर्धमासानां पवित्रं यज्ञक्रतूनामग्निष्टोमो यज्ञक्रतूनामिदानीं मुहूर्तानां मुहूर्तान्, वेदेदानीमथो द्वादश ॥ ४३ कश्चिद्ध वा अस्माल्लोकात्प्रेत्य । आत्मानं वेद । अयमहमस्मीति । कश्चिथ्स्वं लोकं न प्रति प्रजानाति । अग्निमुग्धो हैव धूमतान्तः । स्वं लोकं न प्रति प्रजानाति । अथ यो हैवैतमग्निꣳ सावित्रं वेद । स एवास्माल्लोकात्प्रेत्य । आत्मानं वेद । अयमहमस्मीति ॥ ३। १०। ११। १॥ ४४ स स्वं लोकं प्रतिप्रजानाति । एष उ वेवैनं तथ्सावित्रः । स्वर्गं लोकमभिवहति । अहोरात्रैर्वा इदꣳ सयुग्भिः क्रियते । इतिरात्रायादीक्षिषत । इतिरात्राय व्रतमुपागुरिति । तानिहानेवं विदुषः । अमुष्मिं ल्लोके शेवधिं धयन्ति । धीतꣳ हैव स शेवधिमनु परैति । अथ यो हैवैतमग्निꣳ सावित्रं वेद ॥ ३। १०। ११। १॥ ४५ तस्य हैवाहोरात्राणि । अमुष्मिं ल्लोके शेवधिं न धयन्ति । अधीतꣳ हैव स शेवधिमनु परैति । भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास । तꣳ ह जीर्णिग्ग् स्थविरꣳ शयानम् । इन्द्र उप व्रज्योवाच । भरद्वाज । यत्ते चतुर्थमायुर्दद्याम् । किमेनेन कुर्या इति । ब्रह्मचर्यमेवैनेन चरेयमिति होवाच ॥ ३। १०। ११। ३॥ ४६ तꣳ ह त्रीन्गिरिरूपानविज्ञातानिव दर्शयांचकार । तेषाꣳ हैकैकस्मान्मुष्टिनाऽऽददे । स होवाच । भरद्वाजेत्यामन्त्र्य । वेदा वा एते । अनन्ता वै वेदाः । एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः । अथ त इतरदननूक्तमेव । एहीमं विद्धि । अयं वै सर्वविद्येति ॥ ३। १०। ११। ४॥ ४७ तस्मै हैतमग्निꣳ सावित्रमुवाच । तꣳ स विदित्वा । अमृतो भूत्वा । स्वर्गं लोकमियाय । आदित्यस्य सायुज्यम् । अमृतो हैव भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । य एवं वेद । एषो एव त्रयी विद्या ॥ ३। १०। ११। ५॥ ४८ यावन्तꣳ ह वै त्रय्या विद्यया लोकं जयति । तावन्तं लोकं जयति । य एवं वेद । अग्नेर्वा एतानि नामधेयानि । अग्नेरेव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । वायोर्वा एतानि नामधेयानि । वायोरेव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । इन्द्रस्य वा एतानि नामधेयानि ॥ ३। १०। ११। ६॥ ४९ इन्द्रस्यैव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । बृहस्पतेर्वा एतानि नामधेयानि । बृहस्पतेरेव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । प्रजापतेर्वा एतानि नामधेयानि । प्रजापतेरेव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । ब्रह्मणो वा एतानि नामधेयानि । ब्रह्मण एव सायुज्यꣳ सलोकतामाप्नोति । य एवं वेद । स वा एषोऽग्निरपक्षपुच्छो वायुरेव । तस्याग्निर्मुखम् । असावादित्यः शिरः । स यदेते देवते अन्तरेण । तथ्सर्वꣳ सीव्यति । तस्माथ्सावित्रः ॥ ३। १०। ११। ७॥ अयमहमस्मीति वेद होवाच सर्वविद्येति विद्येन्द्रस्य वा एतानि नामधेयानि ब्रह्मण एव सायुज्यꣳ सलोकतामाप्नोति सप्त च ॥ ११॥ अग्नेर्वायोरिन्द्रस्य बृहस्पतेः प्रजापतेर्ब्रह्मणः स वै सप्त ॥ संज्ञानं भूस्त्वमेव संवथ्सरोसि भू राज्ञ्यसवे विपश्चिते प्रजापतिर्देवानियं वाव सरघा कश्चिद्धैकादश ॥ ११॥ संज्ञानꣳ राज्ञी मूर्धा हृदय एष संवथ्सरो नार्धमासेषु नव चत्वारिꣳशत् ॥ ४९॥ संज्ञानꣳ सावित्रः ॥

काठके द्वितीयः प्रपाठकः २

नाचिकेत चयनम्

१ लोकोऽसि स्वर्गोऽसि । अनन्तोऽस्यपारोऽसि । अक्षितोऽस्यक्षय्योऽसि । तपसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १॥ २ तपोऽसि लोके श्रितम् । तेजसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। २॥ ३ तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ३॥ ४ समुद्रोऽसि तेजसि श्रितः । अपां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ४॥ ५ आपः स्थ समुद्रे श्रिताः । पृथिव्याः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्ऱ्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ५॥ ६ पृथिव्यस्यप्सु श्रिता । अग्नेः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ६॥ ७ अग्निरसि पृथिव्याग् श्रितः । अन्तरिक्षस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ७॥ ८ अन्तरिक्षमस्यग्नौ श्रितम् । वायोः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ८॥ ९ वायुरस्यन्तरिक्षे श्रितः । दिवः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ९॥ १० द्यौरसि वायौ श्रिता । आदित्यस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १०॥ ११ आदित्योऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। ११॥ १२ चन्द्रमा अस्यादित्ये श्रितः । नक्षत्राणां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १२॥ १३ नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवथ्सरस्य प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तॄणि विश्वस्य जनयितॄणि । तानि व उपदधे कामदुघान्यक्षितानि । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १३॥ १४ संवथ्सरोऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १४॥ १५ ऋतवः स्थ संवथ्सरे श्रिताः । मासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्, व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १५॥ १६ मासाः स्थर्तुषु श्रिताः । अर्धमासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्, व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १६॥ १७ अर्धमासाः स्थ मासु श्रिताः । अहोरात्रयोः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्, व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १७॥ १८ अहोरात्रे स्थोऽर्धमासेषु श्रिते । भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे । युवयोरिदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यौ विश्वस्य जनयित्र्यौ । ते वामुपदधे कामदुघे अक्षिते । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १८॥ १९ पौर्णमास्यष्टकाऽमावास्या । अन्नादाः स्थान्नदुघो युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्ऱ्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। १९॥ २० राडसि बृहती श्रीरसीन्द्रपत्नी धर्मपत्नी । विश्वं भूतमनुप्रभूता । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। २०॥ २१ ओजोऽसि सहोऽसि । बलमसि भ्राजोऽसि । देवानां धामामृतम् । अमर्त्यस्तपोजाः । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। ११। १। २१॥ लोकस्तपस्तेजः समुद्र आपः पृथिव्यग्निरन्तरिक्षं वायुर्द्यौरादित्यश्चन्द्रमा नक्षत्राणि संवथ्सर ऋतवो मासा अर्धमासा अहोरात्रे पौर्णमासी राडस्योजोस्येकविꣳशतिः ॥ १॥ लोकोऽसि भर्ता तम् । तपस्तेजोऽसि भर्तृ तत् । समुद्रोऽसि भर्ता तम् । आपः स्थ भर्त्र्यस्ता वः । पृथिवी भर्त्री ताम् । अग्निरसि भर्ता तम् । अन्तरिक्षं भर्तृ तत् । वायुरसि भर्ता तम् । द्यौरसि भर्त्री ताम् । आदित्यश्चन्द्रमा भर्ता तम् । नक्षत्राणि स्थ भर्तॄणि तानि वः । संवथ्सरोसि भर्ता तम् । ऋतवो मासा अर्धमासा भर्तारस्तान्, वः । अहोरात्रे भर्त्र्यौ ते वाम् । पौर्णमासी भर्त्र्यस्ता वः । राडसि भर्त्री ताम् । ओजोऽसि भर्ता तमेकविꣳशतिः ॥ २२ त्वमग्ने रुद्रो असुरो महो दिवः । त्वꣳ शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैररुणैर्यासि शङ्गयः । त्वं पूषा विधतः पासि नु त्मना । देवा देवेषु श्रयध्वम् । प्रथमा द्वितीयेषु श्रयध्वम् । द्वितीयास्तृतीयेषु श्रयध्वम् । तृतीयाश्चतुर्थेषु श्रयध्वम् । चतुर्थाः पञ्चमेषु श्रयध्वम् । पञ्चमाः षष्ठेषु श्रयध्वम् ॥ ३। ११। २। १॥ २३ षष्ठाः सप्तमेषु श्रयध्वम् । सप्तमा अष्टमेषु श्रयध्वम् । अष्टमा नवमेषु श्रयध्वम् । नवमा दशमेषु श्रयध्वम् । दशमा एकादशेषु श्रयध्वम् । एकादशा द्वादशेषु श्रयध्वम् । द्वादशास्त्रयोदशेषु श्रयध्वम् । त्रयोदशाश्चतुर्दशेषु श्रयध्वम् । चतुर्दशाः पञ्चदशेषु श्रयध्वम् । पञ्चदशाः षोडशेषु श्रयध्वम् ॥ ३। ११। २। २॥ २४ षोडशाः सप्तदशेषु श्रयध्वम् । सप्तदशा अष्टादशेषु श्रयध्वम् । अष्टादशा एकान्नविꣳशेषु श्रयध्वम् । एकान्नविꣳशा विꣳशेषु श्रयध्वम् । विꣳशा एकविꣳशेषु श्रयध्वम् । एकविꣳशा द्वाविꣳशेषु श्रयध्वम् । द्वाविꣳशास्त्रयोविꣳशेषु श्रयध्वम् । त्रयोविꣳशाश्चतुर्विꣳशेषु श्रयध्वम् । चतुर्विꣳशाः पञ्चविꣳशेषु श्रयध्वम् । पञ्चविꣳशाः षड्विꣳशेषु श्रयध्वम् ॥ ३। ११। २। ३॥ २५ षड्विꣳशाः सप्तविꣳशेषु श्रयध्वम् । सप्तविꣳशा अष्टाविꣳशेषु श्रयध्वम् । अष्टाविꣳशा एकान्नत्रिꣳशेषु श्रयध्वम् । एकान्नत्रिꣳशास्त्रिꣳशेषु श्रयध्वम् । त्रिꣳशा एकत्रिꣳशेषु श्रयध्वम् । एकत्रिꣳशा द्वात्रिꣳशेषु श्रयध्वम् । द्वात्रिꣳशास्त्रयस्त्रिꣳशेषु श्रयध्वम् । देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिꣳशाः । उत्तरे भवत । उत्तरवर्त्मान उत्तरसत्वानः । यत्काम इदं जुहोमि । तन्मे समृद्ध्यताम् । वय२ꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ॥ ३। ११। २। ४॥ षष्ठेषु श्रयध्वꣳ षोडशेषु श्रयध्वꣳ षड्विꣳशेषु श्रयध्वमुत्तरे भवतोत्तर वर्त्मान उत्तरसत्वानश्चत्वारि च ॥ २॥ २६ अग्नाविष्णू सजोषसा । इमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतम् । राज्ञी विराज्ञी । सम्राज्ञी स्वराज्ञी । अर्चिः शोचिः । तपो हरो भाः । अग्निः सोमो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते सर्वे संगत्य । इदं मे प्रावता वचः । वय२ꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ॥ ३। ११। ३। १॥ संगत्य त्रीणि च ॥ ३॥ २७ अन्नपतेऽन्नस्य नो देहि । अनमीवस्य शुष्मिणः । प्र प्रदातारं तारिषः । ऊर्जं नो धेहि द्विपदे चतुष्पदे । अग्ने पृथिवीपते । सोम वीरुधां पते । त्वष्टः समिधां पते । विष्णवाशानां पते । मित्र सत्यानां पते । वरुण धर्मणां पते ॥ ३। ११। ४। १॥ २८ मरुतो गणानां पतयः । रुद्र पशूनां पते । इन्द्रौजसां पते । बृहस्पते ब्रह्मणस्पते । आ रुचा रोचेऽह२ꣳ स्वयम् । रुचा रुरुचे रोचमानः । अतीत्यादः स्वरा भरेह । तस्मिन् योनौ प्रजनौ प्रजायेय । वय२ꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ॥ ३। ११। ४। २॥ वरुण धर्मणां पते स्वः स्वाहा ॥ ४॥ २९ सप्त ते अग्ने समिधः सप्त जिह्वाः । सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्रा अनुविद्वान् । सप्त योनीरा पृणस्वा घृतेन । प्राची दिक् । अग्निर्देवता । अग्निꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । दक्षिणा दिक् । इन्द्रो देवता ॥ ३। ११। ५। १॥ ३० इन्द्रꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । प्रतीची दिक् । सोमो देवता । सोमꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । उदीची दिक् । मित्रावरुणौ देवता । मित्रावरुणौ स दिशां देवौ देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति ॥ ३। ११। ५। २॥ ३१ ऊर्ध्वा दिक् । बृहस्पतिर्देवता । बृहस्पतिꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । इयं दिक् । अदितिर्देवता । अदितिꣳ स दिशां देवीं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । पुरुषो दिक् । पुरुषो मे कामान्थ्समर्धयतु ॥ ३। ११। ५। ३॥ ३२ अन्धो जागृविः प्राण । असावेहि । बधिर आक्रन्दयितरपान । असावेहि । उषसमुषसमशीय । अहमसो ज्योतिरशीय । अहमसोऽपोऽशीय । वय२ꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ॥ ३। ११। ५। ३॥ दक्षिणा दिगिन्द्रो देवता मित्रावरुणौ स दिशां देवौ देवतानामृच्छतु यो मैतस्यै दिशोऽभिदासत्यर्धयतु नव च ॥ ५॥ ३३ यत्तेऽचितं यदु चितं ते अग्ने । यत्त ऊनं यदु तेऽतिरिक्तम् । आदित्यास्तदंगिरसश्चिन्वन्तु । विश्वे ते देवाश्चितिमा पूरयन्तु । चितश्चासि संचितश्चास्यग्ने । एतावाग्श्चासि भूयाग्श्चास्यग्ने । लोकं पृण च्छिद्रं पृण । अथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिः । अस्मिन्, योनावसीषदन् ॥ ३। ११। ६। १॥ ३४ तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । ता अस्य सूददोहसः । सोमग्ग् श्रीणन्ति पृश्नयः । जन्मन्देवानां विशः । त्रिष्वारोचने दिवः । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । अग्ने देवाꣳ इहावह । जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठम् ॥ ३। ११। ६। २॥ ३५ यो दीदाय समिद्ध स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी । स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनम् । अग्निꣳ होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित् । त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा निधीमहि । मनुष्वथ्समिधीमहि । अग्ने मनुष्वदङ्गिरः ॥ ३। ११। ६। ३॥ ३६ देवान्देवायते यज । अग्निर्हि वाजिनं विशे । ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवम् । स प्रीतो याति वार्यम् । इषग्ग् स्तोतृभ्य आभर । पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् । पृष्टो विश्वा ओषधीराविवेश । वैश्वानरः सहसा पृष्टो अग्निः । स नो दिवा स रिषः पातु नक्तम् ॥ ३। ११। ६। ४॥ असीषदन् यविष्ठमङ्गिरो नक्तम् ॥ ६॥ ३७ अयं वाव यः पवते । सोऽग्निर्नाचिकेतः । स यत्प्राङ्पवते । तदस्य शिरः । अथ यद्दक्षिणा । स दक्षिणः पक्षः । अथ यत्प्रत्यक् । तत्पुच्छम् । यदुदङ् । स उत्तरः पक्षः ॥ ३। ११। ७। १॥ ३८ अथ यथ्संवाति । तदस्य समञ्चनं च प्रसारणं च । अथो सम्पदेवास्य सा । सꣳ ह वा अस्मै स कामः पद्यते । यत्कामो यजते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । यो ह वा अग्नेर्नाचिकेतस्यायतनं प्रतिष्ठां वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् ॥ ३। ११। ७। २॥ ३९ हिरण्यं वा अग्नेर्नाचिकेतस्यायतनं प्रतिष्ठा । य एवं वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् । यो ह वा अग्नेर्नाचिकेतस्य शरीरं वेद । सशरीर एव स्वर्गं लोकमेति । हिरण्यं वा अग्नेर्नाचिकेतस्य शरीरम् । य एवं वेद । सशरीर एव स्वर्गं लोकमेति । अथो यथा रुक्म उत्तप्तो भाय्यात् ॥ ३। ११। ७। ३॥ ४० एवमेव स तेजसा यशसा । अस्मि२ꣳश्च लोकेऽमुष्मिग्ग्श्च भाति । उरवो ह वै नामैते लोकाः । येऽवरेणादित्यम् । अथ हैते वरीयाꣳसो लोकाः । ये परेणादित्यम् । अन्तवन्तꣳ ह वा एष क्षय्यं लोकं जयति । योऽवरेणादित्यम् । अथ हैषोऽनन्तमपारमक्षय्यं लोकं जयति । यः परेणादित्यम् ॥ ३। ११। ७। ४॥ ४१ अनन्तꣳ ह वा अपारमक्षय्यं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथो यथा रथे तिष्ठन्पक्षसी पर्यावर्तमाने प्रत्यपेक्षते । एवमहोरात्रे प्रत्यपेक्षते । नास्याहोरात्रे लोकमाप्नुतः । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ॥ ३। ११। ७। ५॥ उत्तरः पक्षो गच्छति प्रतिष्ठां भाय्याद्यः परेणादित्यमष्टौ च ॥ ७॥ ४२ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तꣳ ह कुमारꣳ सन्तम् । दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । स होवाच । तत कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तꣳ ह परीत उवाच । मृत्यवे त्वा ददामीति । तꣳ ह स्मोत्थितं वागभिवदति ॥ ३। ११। ८। १॥ ४३ गौतम कुमारमिति । स होवाच । परेहि मृत्योर्गृहान् । मृत्यवे वै त्वाऽदामिति । तं वै प्रवसन्तं गन्तासीति होवाच । तस्य स्म तिस्रो रात्रीरनाश्वान्गृहे वसतात् । स यदि त्वा पृच्छेत् । कुमार कति रात्रीरवाथ्सीरिति । तिस्र इति प्रति ब्रूतात् । किं प्रथमाꣳ रात्रिमाश्ना इति ॥ ३। ११। ८। २॥ ४४ प्रजां त इति । किं द्वितीयामिति । पशूग्स्त इति । किं तृतीयामिति । साधुकृत्यां त इति । तं वै प्रवसन्तं जगाम । तस्य ह तिस्रो रात्रीरनाश्वान्गृह उवास । तमागत्य पप्रच्छ । कुमार कति रात्रीरवाथ्सीरिति । तिस्र इति प्रत्युवाच ॥ ३। ११। ८। ३॥ ४५ किं प्रथमाꣳ रात्रिमाश्ना इति । प्रजां त इति । किं द्वितीयामिति । पशूग्स्त इति । किं तृतीयामिति । साधुकृत्यां त इति । नमस्ते अस्तु भगव इति होवाच । वरं वृणीष्वेति । पितरमेव जीवन्नयानीति । द्वितीयं वृणीष्वेति ॥ ३। ११। ८। ४॥ ४६ इष्टापूर्तयोर्मेऽक्षितिं ब्रूहीति होवाच । तस्मै हैतमग्निं नाचिकेतमुवाच । ततो वै तस्येष्टापूर्ते ना क्षीयेते । नास्येष्टापूर्ते क्षीयेते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । तृतीयं वृणीष्वेति । पुनर्मृत्योर्मेऽपजितिं ब्रूहीति होवाच । तस्मै हैतमग्निं नाचिकेतमुवाच । ततो वै सोऽप पुनर्मृत्युमजयत् ॥ ३। ११। ८। ५॥ ४७ अप पुनर्मृत्युं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । प्रजापतिर्वै प्रजाकामस्तपोऽतप्यत । स हिरण्यमुदास्यत् । तदग्नौ प्रास्यत् । तदस्मै नाच्छदयत् । तद्द्वितीयं प्रास्यत् । तदस्मै नैवाच्छदयत् । तत्तृतीयं प्रास्यत् ॥ ३। ११। ८। ६॥ ४८ तदस्मै नैवाच्छदयत् । तदात्मन्नेव हृदय्येऽग्नौ वैश्वानरे प्रास्यत् । तदस्मा अच्छदयत् । तस्माद्धिरण्यं कनिष्ठं धनानाम् । भुञ्जत्प्रियतमम् । हृदयजꣳ हि । स वै तमेव नाविन्दत् । यस्मै तां दक्षिणामनेष्यत् । ताग् स्वायैव हस्ताय दक्षिणायानयत् । तां प्रत्यगृह्णात् ॥ ३। ११। ८। ७॥ ४९ दक्षाय त्वा दक्षिणां प्रतिगृह्णामीति । सोऽदक्षत दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । एतद्ध स्म वै तद्विद्वाꣳसो वाजश्रवसा गोतमाः । अप्यनूदेश्यां दक्षिणां प्रतिगृह्णन्ति । उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रतिगृह्येति । तेऽदक्षन्त दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । प्रहान्यं व्लीनाति ॥ ३। ११। ८। ८॥ वदत्याश्ना इत्युवाच द्वितीयं वृणीष्वेत्यजयत्तृतीयं प्रास्यदगृह्णाद्य एवं वेदैकं च ॥ ८॥ ५० तꣳ हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वते । उत्तरवेदिसम्मित एषोऽग्निरिति वदन्तः । तन्न तथा कुर्यात् । एतमग्निं कामेन व्यर्द्धयेत् । स एनं कामेन व्यृद्धः । कामेन व्यर्द्धयेत् । सौम्ये वावैनमध्वरे चिन्वीत । यत्र वा भूयिष्ठा आहुतयो हूयेरन् । एतमग्निं कामेन समर्द्धयति । स एनं कामेन समृद्धः ॥ ३। ११। ९। १॥ ५१ कामेन समर्द्धयति । अथ हैनं पुरर्षयः । उत्तरवेद्यामेव सत्रियमचिन्वत । ततो वै तेऽविन्दन्त प्रजाम् । अभि स्वर्गं लोकमजयन् । विन्दत एव प्रजाम् । अभि स्वर्गं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं वायुरृद्धिकामः ॥ ३। ११। ९। २॥ ५२ यथान्युप्तमेवोपदधे । ततो वै स एतामृद्धिमार्ध्नोत् । यामिदं वायुर् ऋद्धः । एतामृद्धिमृध्नोति । यामिदं वायुर् ऋद्धः । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं गोबलो वार्ष्णः पशुकामः । पाङ्क्तमेव चिक्ये । पञ्च पुरस्तात् ॥ ३। ११। ९। ३॥ ५३ पञ्च दक्षिणतः । पञ्च पश्चात् । पञ्चोत्तरतः । एकां मध्ये । ततो वै स सहस्रं पशून्प्राप्नोत् । प्र सहस्रं पशूनाप्नोति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं प्रजापतिर्ज्यैष्ठ्यकामो यशस्कामः प्रजननकामः । त्रिवृतमेव चिक्ये ॥ ३। ११। ९। ४॥ ५४ सप्त पुरस्तात् । तिस्रो दक्षिणतः । सप्त पश्चात् । तिस्र उत्तरतः । एकां मध्ये । ततो वै स प्र यशो ज्यैष्ठ्यमाप्नोत् । एतां प्रजातिं प्राजायत । यामिदं प्रजाः प्रजायन्ते । त्रिवृद्वै ज्यैष्ठ्यम् । माता पिता पुत्रः ॥ ३। ११। ९। ५॥ ५५ त्रिवृत्प्रजननम् । उपस्थो योनिर्मध्यमा । प्र यशो ज्यैष्ठ्यमाप्नोति । एतां प्रजातिं प्रजायते । यामिदं प्रजाः प्रजायन्ते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनमिन्द्रो ज्यैष्ठ्यकामः । ऊर्ध्वा एवोपदधे । ततो वै स ज्यैष्ठ्यमगच्छत् ॥ ३। ११। ९। ६॥ ५६ ज्यैष्ठ्यं गच्छति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनमसावादित्यः स्वर्गकामः । प्राचीरेवोपदधे । ततो वै सोऽभि स्वर्गं लोकमजयत् । अभि स्वर्गं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । स यदीच्छेत् ॥ ३। ११। ९। ७॥ ५७ तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति । प्राङाहोतुर्धिष्ण्यादुथ्सर्पेत् । येयं प्रागाद्यशस्वती । सा मा प्रोर्णोतु । तेजसा यशसा ब्रह्मवर्चसेनेति । तेजस्व्येव यशस्वी ब्रह्मवर्चसी भवति । अथ यदीच्छेत् । भूयिष्ठं मे श्रद्दधीरन् । भूयिष्ठा दक्षिणा नयेयुरिति । दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोप हत्याहवनीये जुहुयात् ॥ ३। ११। ९। ८॥ ५८ भूयिष्ठमेवास्मै श्रद्दधते । भूयिष्ठा दक्षिणा नयन्ति । पुरीषमुपधाय । चितिक्लृप्तिभिरभिमृश्य । अग्निं प्रणीयोपसमाधाय । चतस्र एता आहुतीर्जुहोति । त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अग्नाविष्णू इति वसोर्धारायाः । अन्नपत इत्यन्न होमः । सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ॥ ३। ११। ९। ९॥ समृद्ध ऋद्धिकामः पुरस्ताच्चिक्ये पुत्रोऽगच्छदिच्छेज्जुहुयाद्विश्वप्रीः ॥ ९॥ पुरर्षयो वायुर्गोबलः सहस्रं प्रजापतिस्त्रिवृदिन्द्रोसावादित्यः स यदीच्छेत् ॥ ५९ यां प्रथमामिष्टकामुपदधाति । इमं तया लोकमभिजयति । अथो या अस्मि३ꣳल्लोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । यां द्वितीयामुपदधाति । अन्तरिक्षलोकं तयाऽभिजयति । अथो या अन्तरिक्षलोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । यां तृतीयामुपदधाति । अमुं तया लोकमभिजयति ॥ ३। ११। १०। १॥ ६० अथो या अमुष्मिं ल्लोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । अथो या अमूरितरा अष्टादश । य एवामी उरवश्च वरीयाꣳसश्च लोकाः । तानेव ताभिरभिजयति । कामचारो ह वा अस्योरुषु च वरीयःसु च लोकेषु भवति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । संवथ्सरो वा अग्निर्नाचिकेतः । तस्य वसन्तः शिरः ॥ ३। ११। १०। २॥ ६१ ग्रीष्मो दक्षिणः पक्षः । वर्षा उत्तरः । शरत्पुच्छम् । मासाः कर्मकाराः । अहोरात्रे शतरुद्रीयम् । पर्जन्यो वसोर्धारा । यथा वै पर्जन्यः सुवृष्टं वृष्ट्वा । प्रजाभ्यः सर्वान्कामान्थ्संपूरयति । एवमेव स तस्य सर्वान्कामान्थ्संपूरयति । योऽग्निं नाचिकेतं चिनुते ॥ ३। ११। १०। ३॥ ६२ य उ चैनमेवं वेद । संवथ्सरो वा अग्निर्नाचिकेतः । तस्य वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । एष वाव सोऽग्निरग्निमयः पुनर्णवः । अग्निमयो ह वै पुनर्णवो भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ॥ ३। ११। १०। ४॥ अमुं तया लोकमभि जयति शिरश्चिनुत इष्टकाष्षट्च ॥ १०॥ लोकस्त्वमग्नेऽग्नाविष्णू अन्नपते सप्त ते अग्ने यत्ते चितमयमुशन्, ह वै तꣳ हैतं यां प्रथमामिष्टकां दश ॥ १०॥ लोक आदित्य ओजोस्यूर्ध्वा दिगनन्तꣳ ह वै कामेन ग्रीष्मो द्विषष्टिः ॥ ६२॥ लोकोसि य उचैनमेवं वेद ॥

काठके तृतीयः प्रपाठकः ३

चातुर्होत्र चयनं वैश्वसृज चयनं च

१ तुभ्यं ता अङ्गिरस्तमाऽश्याम तं काममग्ने । आशानां त्वा विश्वा आशाः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । कामो भूतस्य कामस्तदग्रे । ब्रह्म जज्ञानं पिता विराजाम् । यज्ञो रायोऽयं यज्ञः । आपो भद्रा आदित्पश्यामि । तुभ्यं भरन्ति यो देह्यः । पूर्वं देवा अपरेण प्राणापानौ । हव्यवाहग्ग् स्विष्टम् ॥ ३। १२। १। १॥ तुभ्यं दश ॥ १॥ २ देवेभ्यो वै स्वर्गो लोकस्तिरोऽभवत् । ते प्रजापतिमब्रुवन् । प्रजापते स्वर्गो वै नो लोकस्तिरोऽभूत् । तमन्विच्छेति । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ ३। १२। २। १॥ ३ तमाशाऽब्रवीत् । प्रजापत आशया वै श्राम्यसि । अहमु वा आशाऽस्मि । मां नु यजस्व । अथ ते सत्याऽऽशा भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । आशायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्याऽऽशाऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्याशा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाऽऽशायै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। २॥ ४ तं कामोऽब्रवीत् । प्रजापते कामेन वै श्राम्यसि । अहमु वै कामोऽस्मि । मां नु यजस्व । अथ ते सत्यः कामो भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । कामाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यः कामोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यो ह वा अस्य कामो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा कामाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ३॥ ५ तं ब्रह्माब्रवीत् । प्रजापते ब्रह्मणा वै श्राम्यसि । अहमु वै ब्रह्मास्मि । मां नु यजस्व । अथ ते ब्रह्मण्वान्, यज्ञो भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । ब्रह्मणे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य ब्रह्मण्वान्, यज्ञोऽभवत् । अनु स्वर्गं लोकमविन्दत् । ब्रह्मण्वान्, ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ४॥ ६ तं यज्ञोऽब्रवीत् । प्रजापते यज्ञेन वै श्राम्यसि । अहमु वै यज्ञोऽस्मि । मां नु यजस्व । अथ ते सत्यो यज्ञो भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । यज्ञाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यो यज्ञोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यो ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहा यज्ञाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ५॥ ७ तमापोऽब्रुवन् । प्रजापतेऽप्सु वै सर्वे कामाः श्रिताः । वयमु वा आपः स्मः । अस्मान्नु यजस्व । अथ त्वयि सर्वे कामाः श्रयिष्यन्ते । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अद्भ्यश्चरुम् । अनुमत्यै चरुम् । ततो वै तस्मिन्थ्सर्वे कामा अश्रयन्त । अनु स्वर्गं लोकमविन्दत् । सर्वे ह वा अस्मिन् कामाः श्रयन्ते । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाऽद्भ्यः स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ६॥ ८ तमग्निर्बलिमानब्रवीत् । प्रजापतेऽग्नये वै बलिमते सर्वाणि भूतानि बलिꣳ हरन्ति । अहमु वा अग्निर्बलिमानस्मि । मां नु यजस्व । अथ ते सर्वाणि भूतानि बलिꣳ हरिष्यन्ति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अग्नये बलिमते चरुम् । अनुमत्यै चरुम् । ततो वै तस्मै सर्वाणि भूतानि बलिमहरन् । अनु स्वर्गं लोकमविन्दत् । सर्वाणि ह वा अस्मै भूतानि बलिꣳ हरन्ति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाऽग्नये बलिमते स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ७॥ ९ तमनुवित्तिरब्रवीत् । प्रजापते स्वर्गं वै लोकमनु विविथ्ससि । अहमु वा अनुवित्तिरस्मि । मां नु यजस्व । अथ ते सत्याऽनुवित्तिर्भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमग्नये कामाय पुरोडाशमष्टाकपालं निरवपत् । अनुवित्त्यै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्याऽनुवित्तिरभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्यानुवित्तिर्भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये कामाय स्वाहाऽनुवित्त्यै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। २। ८॥ १० ता वा एताः सप्त स्वर्गस्य लोकस्य द्वारः । दिवःश्येनयोऽनुवित्तयो नाम । आशा प्रथमाꣳ रक्षति । कामो द्वितीयाम् । ब्रह्म तृतीयाम् । यज्ञश्चतुर्थीम् । आपः पञ्चमीम् । अग्निर्बलिमान्त्षष्ठीम् । अनुवित्तिः सप्तमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारोऽस्य स्वर्गे लोके भवति । य एताभिरिष्टिभिर्यजते । य उ चैना एवं वेद । तास्वन्विष्टि । पष्ठौहीवरां दद्यात्कꣳसं च । स्त्रियै चाभारꣳ समृद्ध्यै ॥ ३। १२। २। ९॥ ११ तपसा देवा देवतामग्र आयन् । तपसर्षयः स्वरन्वविन्दन् । तपसा सपत्नान् प्रणुदामारातीः । येनेदं विश्वं परिभूतं यदस्ति । प्रथमजं देवꣳ हविषा विधेम । स्वयंभु ब्रह्म परमं तपो यत् । स एव पुत्रः स पिता स माता । तपो ह यक्षं प्रथमꣳ संबभूव । श्रद्धया देवो देवत्वमश्नुते । श्रद्धा प्रतिष्ठा लोकस्य देवी ॥ ३। १२। ३। १॥ १२ सा नो जुषाणोप यज्ञमागात् । कामवथ्साऽमृतं दुहाना । श्रद्धा देवी प्रथमजा ऋतस्य । विश्वस्य भर्त्री जगतः प्रतिष्ठा । ताग् श्रद्धाꣳ हविषा यजामहे । सा नो लोकममृतं दधातु । ईशाना देवी भुवनस्याधिपत्नी । आगाथ्सत्यꣳ हविरिदं जुषाणम् । यस्माद्देवा जज्ञिरे भुवनं च विश्वे । तस्मै विधेम हविषा घृतेन ॥ ३। १२। ३। २॥ १३ यथा देवैः सधमादं मदेम । यस्य प्रतिष्ठोर्वन्तरिक्षम् । यस्माद्देवा जज्ञिरे भुवनं च सर्वे । तथ्सत्यमर्चदुप यज्ञं न आगात् । ब्रह्माहुतीरुपमोदमानम् । मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्वियाय । भीष्मो हि देवः सहसः सहीयान् । स नो जुषाण उप यज्ञमागात् । आकूतीनामधिपतिं चेतसां च ॥ ३। १२। ३। ३॥ १४ संकल्पजूतिं देवं विपश्चिम् । मनो राजानमिह वर्धयन्तः । उपहवेऽस्य सुमतौ स्याम । चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अति पाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु । अग्निर्मूर्धा भुवः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । हव्यवाहग्ग् स्विष्टम् ॥ ३। १२। ३। ४॥ देवी घृतेन चेतसां च दोहमानं चत्वारि च ॥ ३॥ १५ देवेभ्यो वै स्वर्गो लोकस्तिरोऽभवत् । ते प्रजापतिमब्रुवन् । प्रजापते स्वर्गो वै नो लोकस्तिरोऽभूत् । तमन्विच्छेति । तं यज्ञक्रतुभिरन्वैच्छत् । तं यज्ञक्रतुभिर्नान्वविन्दत् । तमिष्टिभिरन्वैच्छत् । तमिष्टिभिरन्वविन्दत् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ॥ ३। १२। ४। १॥ १६ तं तपोऽब्रवीत् । प्रजापते तपसा वै श्राम्यसि । अहमु वै तपोऽस्मि । मां नु यजस्व । अथ ते सत्यं तपो भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । तपसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं तपोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यꣳ ह वा अस्य तपो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा तपसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। ४। २॥ १७ त२ꣳ श्रद्धाऽब्रवीत् । प्रजापते श्रद्धया वै श्राम्यसि । अहमु वै श्रद्धाऽस्मि । मां नु यजस्व । अथ ते सत्या श्रद्धा भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । श्रद्धायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्या श्रद्धाऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्या ह वा अस्य श्रद्धा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा श्रद्धायै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। ४। ३॥ १८ तꣳ सत्यमब्रवीत् । प्रजापते सत्येन वै श्राम्यसि । अहमु वै सत्यमस्मि । मां नु यजस्व । अथ ते सत्यꣳ सत्यं भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । सत्याय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यꣳ सत्यमभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यꣳ ह वा अस्य सत्यं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा सत्याय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। ४। ४॥ १९ तं मनोऽब्रवीत् । प्रजापते मनसा वै श्राम्यसि । अहमु वै मनोऽस्मि । मां नु यजस्व । अथ ते सत्यं मनो भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । मनसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं मनोऽभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यꣳ ह वा अस्य मनो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा मनसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। ४। ५॥ २० तं चरणमब्रवीत् । प्रजापते चरणेन वै श्राम्यसि । अहमु वै चरणमस्मि । मां नु यजस्व । अथ ते सत्यं चरणं भविष्यति । अनु स्वर्गं लोकं वेथ्स्यसीति । स एतमाग्नेयमष्टाकपालं निरवपत् । चरणाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं चरणमभवत् । अनु स्वर्गं लोकमविन्दत् । सत्यꣳ ह वा अस्य चरणं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा चरणाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ ३। १२। ४। ६॥ २१ ता वा एताः पञ्च स्वर्गस्य लोकस्य द्वारः । अपाघा अनुवित्तयो नाम । तपः प्रथमाꣳ रक्षति । श्रद्धा द्वितीयाम् । सत्यं तृतीयाम् । मनश्चतुर्थीम् । चरणं पञ्चमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारोऽस्य स्वर्गे लोके भवति । य एताभिरिष्टिभिर्यजते । य उ चैना एवं वेद । तास्वन्विष्टि । पष्ठौहीवरां दद्यात्कꣳसं च । स्त्रियै चाभारꣳ समृद्ध्यै ॥ ३। १२। ४। ७॥ २२ ब्रह्म वै चतुर्होतारः । चतुर्होतृभ्योऽधि यज्ञो निर्मितः । नैनꣳ शप्तम् । नाभिचरितमागच्छति । य एवं वेद । यो ह वै चतुर्होतृणां चतुर्होतृत्वं वेद । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । वाचस्पतिर् होता दशहोतॄणाम् । पृथिवी होता चतुर्होतॄणाम् ॥ ३। १२। ५। १॥ २३ अग्निर्होता पञ्चहोतॄणाम् । वाग्घोता षड्ढोतॄणाम् । महाहविर् होता सप्तहोतॄणाम् । एतद्वै चतुर्होतृणां चतुर्होतृत्वम् । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । य एवं वेद । एषा वै सर्वविद्या । एतद्भेषजम् । एषा पङ्क्तिः स्वर्गस्य लोकस्याञ्जसाऽयनिः स्रुतिः ॥ ३। १२। ५। २॥ २४ एतान्, योऽध्यैत्यछदिर्दर्शे यावत्तरसम् । स्वरेति । अनपब्रवः सर्वमायुरेति । विन्दते प्रजाम् । रायस्पोषं गौपत्यम् । ब्रह्मवर्चसी भवति । एतान्, योऽध्यैति । स्पृणोत्यात्मानम् । प्रजां पितॄन् । एतान्, वा अरुण औपवेशिर्विदाञ्चकार ॥ ३। १२। ५। ३॥ २५ एतैरधिवादमपाजयत् । अथो विश्वं पाप्मानम् । स्वर्ययौ । एतान्, योऽध्यैति । अधिवादं जयति । अथो विश्वं पाप्मानम् । स्वरेति । एतैरग्निं चिन्वीत स्वर्गकामः । एतैरायुष्कामः । प्रजा पशुकामो वा ॥ ३। १२। ५। ४॥ २६ पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्पदम् । हृदयं यजुषी पत्न्यौ च । दक्षिणतः प्राञ्चं चतुर्होतारम् । पश्चादुदञ्चं पञ्चहोतारम् । उत्तरतः प्राञ्चꣳ षड्ढोतारम् । उपरिष्टात्प्राञ्चꣳ सप्तहोतारम् । हृदयं यजूꣳषि पत्न्यश्च । यथावकाशं ग्रहान् । यथावकाशं प्रतिग्रहां ल्लोकंपृणाश्च । सर्वा हास्यैता देवताः प्रीता अभीष्टा भवन्ति ॥ ३। १२। ५। ५॥ २७ सदेवमग्निं चिनुते । रथसंमितश्चेतव्यः । वज्रो वै रथः । वज्रेणैव पाप्मानं भ्रातृव्य२ꣳ स्तृणुते । पक्षः संमितश्चेतव्यः । एतावान् वै रथः । यावत्पक्षः । रथसंमितमेव चिनुते । इममेव लोकं पशुबन्धेनाभिजयति । अथो अग्निष्टोमेन ॥ ३। १२। ५। ६॥ २८ अन्तरिक्षमुक्थ्येन । स्वरतिरात्रेण । सर्वान् लोकानहीनेन । अथो सत्रेण । वरो दक्षिणा । वरेणैव वरग्ग् स्पृणोति । आत्मा हि वरः । एकविꣳशतिर्दक्षिणा ददाति । एकविꣳशो वा इतः स्वर्गो लोकः । प्र स्वर्गं लोकमाप्नोति ॥ ३। १२। ५। ७॥ २९ असावादित्य एकविꣳशः । अमुमेवादित्यमाप्नोति । शतं ददाति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । सहस्रं ददाति । सहस्रसंमितः स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै । अन्विष्टकं दक्षिणा ददाति । सर्वाणि वयाꣳसि ॥ ३। १२। ५। ८॥ ३० सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै । यदि न विन्देत । मन्थानेतावतो दद्यादोदनान्, वा । अश्नुते तं कामम् । यस्मै कामायाग्निश्चीयते । पष्ठौहीं त्वन्तर्वतीं दद्यात् । सा हि सर्वाणि वयाꣳसि । सर्वस्याप्त्यै । सर्वस्यावरुद्ध्यै ॥ ३। १२। ५। ९॥ ३१ हिरण्यं ददाति । हिरण्यज्योतिरेव स्वर्गं लोकमेति । वासो ददाति । तेनायुः प्रतिरते । वेदितृतीये यजेत । त्रिषत्या हि देवाः । स सत्यमग्निं चिनुते । तदेतत्पशुबन्धे ब्राह्मणं ब्रूयात् । नेतरेषु यज्ञेषु । यो ह वै चतुर्होतॄननुसवनं तर्पयितव्यान् वेद ॥ ३। १२। ५। १०॥ ३२ तृप्यति प्रजया पशुभिः । उपैनꣳ सोमपीथो नमति । एते वै चतुर्होतारोऽनुसवनं तर्पयितव्याः । ये ब्राह्मणा बहुविदः । तेभ्यो यद्दक्षिणा न नयेत् । दुरिष्ट२ꣳ स्यात् । अग्निमस्य वृञ्जीरन् । तेभ्यो यथाश्रद्धं दद्यात् । स्विष्टमेवैतत्क्रियते । नास्याग्निं वृञ्जते ॥ ३। १२। ५। ११॥ ३३ हिरण्येष्टको भवति । यावदुत्तममङ्गुलिकाण्डं यज्ञपरुषा संमितम् । तेजो हिरण्यम् । यदि हिरण्यं न विन्देत् । शर्करा अक्ता उपदध्यात् । तेजो घृतम् । सतेजसमेवाग्निं चिनुते । अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा । वीर्येण वा एष व्यृद्ध्यते । योऽग्निं चिनुते । ३४ यावदेव वीर्यम् । तदस्मिन्दधाति । ब्रह्मणः सायुज्यꣳ सलोकतामाप्नोति । एतासामेव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समान लोकतामाप्नोति । य एतमग्निं चिनुते । य उ चैनमेवं वेद । एतदेव सावित्रे ब्राह्मणम् । अथो नाचिकेते ॥ ३। १२। ५। १२॥ होता चतुर्होतॄणाग् स्रुतिश्चकार वा भवन्त्यग्निष्टोमेनाप्नोति वयाꣳसि वयाꣳसि सर्वस्याप्त्यै सर्वस्यावरुध्यै वेद वृञ्जते चिनुते नव च ॥ ५॥ ३५ यच्चामृतं यच्च मर्त्यम् । यच्च प्राणिति यच्च न । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । सर्वाः स्त्रियः सर्वान् पुꣳसः । सर्वं न स्त्रीपुमं च यत् । सर्वास्ताः । यावन्तः पाꣳसवो भूमेः ॥ ३। १२। ६। १॥ ३६ संख्याता देवमायया । सर्वास्ताः । यावन्त ऊषाः पशूनाम् । पृथिव्यां पुष्टिर्हिताः । सर्वास्ताः । यावतीः सिकताः सर्वाः । अप्स्वन्तश्च याः श्रिताः । सर्वास्ताः । यावतीः शर्करा धृत्यै । अस्यां पृथिव्यामधि ॥ ३। १२। ६। २॥ ३७ सर्वास्ताः । यावन्तोऽश्मानोऽस्यां पृथिव्याम् । प्रतिष्ठासु प्रतिष्ठिताः । सर्वास्ताः । यावतीर्वीरुधः सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ताः । यावतीरोषधीः सर्वाः । विष्ठिताः पृथिवीमनु । सर्वास्ताः ॥ ३। १२। ६। ३॥ ३८ यावन्तो वनस्पतयः । अस्यां पृथिव्यामधि । सर्वास्ताः । यावन्तो ग्राम्याः पशवः सर्वे । आरण्याश्च ये । सर्वास्ताः । ये द्विपादश्चतुष्पादः । अपाद उदरसर्पिणः । सर्वास्ताः । यावदाञ्जनमुच्यते ॥ ३। १२। ६। ४॥ ३९ देवत्रा यच्च मानुषम् । सर्वास्ताः । यावत्कृष्णायसꣳ सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । यावल्लोहायसꣳ सर्वम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । सर्वꣳ सीसꣳ सर्वं त्रपु । देवत्रा यच्च मानुषम् ॥ ३। १२। ६। ५॥ ४० सर्वास्ताः । सर्वꣳ हिरण्यꣳ रजतम् । देवत्रा यच्च मानुषम् । सर्वास्ताः । सर्वꣳ सुवर्णꣳ हरितम् । देवत्रा यच्च मानुषम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। १२। ६। ६॥ भूमेरधि विष्ठिताः पृथिवीमनु सर्वास्ता उच्यते मानुषꣳ सीद ॥ ६॥ यच्च स्त्रियः पाꣳसव ऊषाः सिकताः शर्करा अश्मानो वीरुध ओषधीर्वनस्पतयो ग्राम्या ये द्विपादो यावदाञ्जनं यावत्कृष्णायसं लोहायसꣳ सीसꣳ हिरण्यꣳ सुवर्णꣳ हरितमष्टादश ॥ ४१ सर्वा दिशो दिक्षु । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । अन्तरिक्षं च केवलम् । यच्चास्मिन्नन्तराहितम् । सर्वास्ताः । आन्तरिक्ष्यश्च याः प्रजाः ॥ ३। १२। ७। १॥ ४२ गन्धर्वाप्सरसश्च ये । सर्वास्ताः । सर्वानुदारान्थ्सलिलान् । अन्तरिक्षे प्रतिष्ठितान् । सर्वास्ताः । सर्वानुदारान्थ्सलिलान् । स्थावराः प्रोष्याश्च ये । सर्वास्ताः । सर्वां धुनिꣳ सर्वान्ध्वꣳसान् । हिमो यच्च शीयते ॥ ३। १२। ७। २॥ ४३ सर्वास्ताः । सर्वान्मरीचीन् विततान् । नीहारो यच्च शीयते । सर्वास्ताः । सर्वा विद्युतः सर्वान्थ्स्तनयित्नून् । ह्रादुनीर्यच्च शीयते । सर्वास्ताः । सर्वाः स्रवन्तीः सरितः । सर्वमप्सुचरं च यत् । सर्वास्ताः ॥ ३। १२। ७। ३॥ ४४ याश्च कूप्या याश्च नाद्याः समुद्रियाः । याश्च वैशन्तीरुत प्रासचीर्याः । सर्वास्ताः । ये चोत्तिष्ठन्ति जीमूताः । याश्च वर्षन्ति वृष्टयः । सर्वास्ताः । तपस्तेज आकाशम् । यच्चाकाशे प्रतिष्ठितम् । सर्वास्ताः । वायुं वयाꣳसि सर्वाणि ॥ ३। १२। ७। ४॥ ४५ अन्तरिक्षचरं च यत् । सर्वास्ताः । अग्निꣳ सूर्यं चन्द्रम् । मित्रं वरुणं भगम् । सर्वास्ताः । सत्य२ꣳ श्रद्धां तपो दमम् । नाम रूपं च भूतानाम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। १२। ७। ५॥ प्रजा हिमो यच्च शीयते सर्वास्ताः सर्वाणि ब्रह्मणैकं च ॥ ७॥ दिशोऽन्तरिक्षमान्तरिक्ष्य उदारानुदारान्धुनिं मरीचीन्, विद्युतः स्रवन्तीर्याश्च ये च तपो वायुमग्निꣳ सत्यं पञ्चदश ॥ ४६ सर्वान्दिवꣳ सर्वान्देवान्दिवि । यच्चान्तर्भूतं प्रतिष्ठितम् । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । यावतीस्तारकाः सर्वाः । वितता रोचने दिवि । सर्वास्ताः । ऋचो यजूꣳषि सामानि ॥ ३। १२। ८। १॥ ४७ अथर्वाङ्गिरसश्च ये । सर्वास्ताः । इतिहासपुराणं च । सर्पदेवजनाश्च ये । सर्वास्ताः । ये च लोका ये चालोकाः । अन्तर्भूतं प्रतिष्ठितम् । सर्वास्ताः । यच्च ब्रह्म यच्चाब्रह्म । अन्तर्ब्रह्मन्प्रतिष्ठितम् ॥ ३। १२। ८। २॥ ४८ सर्वास्ताः । अहोरात्राणि सर्वाणि । अर्धमासाग्श्च केवलान् । सर्वास्ताः । सर्वानृतून्थ्सर्वान्मासान् । संवथ्सरं च केवलम् । सर्वास्ताः । सर्वं भूतꣳ सर्वं भव्यम् । यच्चातोऽधि भविष्यति । सर्वास्ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेनर्षिणा तेन ब्रह्मणा । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद ॥ ३। १२। ८। ३॥ सामानि ब्रह्मन्प्रतिष्ठितं कृत्वा त्रीणि च ॥ ८॥ दिवं तारका ऋच इतिहासपुराणं च ये च यच्चाहोरात्राण्यृतून्भूतं नव ॥ ४९ ऋचां प्राची महती दिगुच्यते । दक्षिणामाहुर्यजुषामपाराम् । अथर्वणामंगिरसां प्रतीची । साम्नामुदीची महती दिगुच्यते । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो जाताꣳ सर्वशो मूर्तिमाहुः । सर्वा गतिर्याजुषी हैव शश्वत् ॥ ३। १२। ९। १॥ ५० सर्वं तेजः सामरूप्यꣳ ह शश्वत् । सर्वꣳ हेदं ब्रह्मणा हैव सृष्टम् । ऋग्भ्यो जातं वैश्यं वर्णमाहुः । यजुर्वेदं क्षत्रियस्याहुऱ्योनिम् । सामवेदो ब्राह्मणानां प्रसूतिः । पूर्वे पूर्वेभ्यो वच एतदूचुः । आदर्शमग्निं चिन्वानाः । पूर्वे विश्वसृजोऽमृताः । शतं वर्ष सहस्राणि । दीक्षिताः सत्त्रमासत ॥ ३। १२। ९। २॥ ५१ तप आसीद्गृहपतिः । ब्रह्म ब्रह्माऽभवथ्स्वयम् । सत्यꣳ ह होतैषामासीत् । यद्विश्वसृज आसत । अमृतमेभ्य उदगायत् । सहस्रं परिवथ्सरान् । भूतꣳ ह प्रस्तोतैषामासीत् । भविष्यत्प्रति चाहरत् । प्राणो अध्वर्युरभवत् । इदꣳ सर्वꣳ सिषासताम् ॥ ३। १२। ९। ३॥ ५२ अपानो विद्वानावृतः । प्रति प्रातिष्ठदध्वरे । आर्तवा उपगातारः । सदस्या ऋतवोऽभवन् । अर्धमासाश्च मासाश्च । चमसाध्वर्यवोऽभवन् । अशꣳसद्ब्रह्मणस्तेजः । अच्छावाकोऽभवद्यशः । ऋतमेषां प्रशास्ताऽऽसीत् । यद्विश्वसृज आसत ॥ ३। १२। ९। ४॥ ५३ ऊर्ग्राजानमुदवहत् । ध्रुवगोपः सहोऽभवत् । ओजोऽभ्यष्टौद्ग्राव्ण्णः । यद्विश्वसृज आसत । अपचितिः पोत्रीयामयजत् । नेष्ट्रीयामयजत्त्विषिः । आग्नीद्ध्राद्विदुषी सत्यम् । श्रद्धा हैवायजथ्स्वयम् । इरा पत्नी विश्वसृजाम् । आकूतिरपिनड्ढविः ॥ ३। १२। ९। ५॥ ५४ इध्मꣳ ह क्षुच्चैभ्य उग्रे । तृष्णा चावहतामुभे । वागेषाꣳ सुब्रह्मण्याऽऽसीत् । छन्दोयोगान्, विजानती । कल्पतन्त्राणि तन्वानाऽहः । सग्ग्स्थाश्च सर्वशः । अहोरात्रे पशुपाल्यौ । मुहूर्ताः प्रेष्या अभवन् । मृत्युस्तदभवद्धाता । शमितोग्रो विशां पतिः ॥ ३। १२। ९। ६॥ ५५ विश्वसृजः प्रथमाः सत्त्रमासत । सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपाः । हिरण्मयः शकुनिर्ब्रह्म नाम । येन सूर्यस्तपति तेजसेद्धः । पिता पुत्रेण पितृमान्, योनि योनौ । नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानꣳ संपराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् ॥ ३। १२। ९। ७॥ ५६ तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन । पञ्चपञ्चाशतस्त्रिवृतः संवथ्सराः । पञ्चपञ्चाशतः पञ्चदशाः । पञ्चपञ्चाशतः सप्तदशाः । पञ्च पञ्चाशत एकविꣳशाः । विश्वसृजाꣳ सहस्रसंवथ्सरम् । एतेन वै विश्वसृज इदं विश्वमसृजन्त । यद्विश्वमसृजन्त । तस्माद्विश्वसृजः । विश्वमेनाननु प्रजायते । ब्रह्मणः सायुज्यꣳ सलोकतां यन्ति । एतासामेव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समान लोकतां यन्ति । य एतदुपयन्ति । ये चैनत्प्राहुः । येभ्यश्चैनत्प्राहुः । (ओम्) (संप्रदायदल्लि हेळुवुदिल्ल) ॥ ३। १२। ९। ८॥ शश्वदासत सिषासतामासत हविष्पतिः कनीयान्तस्माद्विश्वसृजोऽष्टौ च ॥ ९॥ तुभ्यं देवेभ्यस्तपसा देवेभ्यो ब्रह्म वै चतुर् होतारो यच्चामृतꣳ सर्वा दिशो दिक्षु सर्वां दिवमृचां प्राची नव ॥ ९॥ तुभ्यं तपसा ता वा एताः पञ्च हिरण्यं ददाति सर्वा दिशस्तप आसीद्गृहपतिः षट्पञ्चाशत् ॥ ५६॥ तुभ्यं येभ्यश्चैनत्प्राहुः ॥ (तुभ्यमोम्) ॥ (संप्रदायदल्लि हेळुवुदिल्ल) इति काठकं संपूर्णम् ॥ इति तैत्तिरीय-ब्राह्मणम् ॥ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ ओं शान्तिः शान्तिः शान्तिः ॥ ॥ हरिः ओ(३)म् ॥ ॥ श्री कृष्णार्पणमस्तु ॥ Encoded and proofread by Muralidhara B A muraliba at gmail.com Shri muralidhar has studied kRRiShNayajurveda from his father Anathakrishna, Proffessor in Chamarajendra Sanskrit College, Chamarajpet, Bangalore. Muralidhar received MA from Karnataka Samskrit University.
% Text title            : Taittiriya Brahmanam
% File name             : taittirIyabrAhmaNamniHsvaraH.itx
% itxtitle              : taittirIya brAhmaNam niHsvaraH
% engtitle              : Taittiriya Brahmanam (without Vedic accents)
% Category              : veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muralidhara B A muraliba at gmail.com
% Description-comments  : See Samhita and Aranyakam as separate files
% Indexextra            : (with Commentaries, Text, Samhita 1, 2, Aranyakam 1, 2)
% Acknowledge-Permission: Professor Anathakrishna
% Latest update         : March 21, 2018, May 30, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org