वरुणसूक्तम् २
ऋग्वेदसंहितायां प्रथमं मण्डलं, पञ्चविंशं सूक्तम् ।
ऋषिः - शुनःशेप आजीगर्तिः, देवता - वरुणः, छन्दः गायत्री, स्वरः - षड्जः ।
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् ।
मि॒नी॒मसि॒ द्यवि॑द्यवि ॥ १.०२५.०१
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥ १.०२५.०२
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् ।
गी॒र्भिर्व॑रुण सीमहि ॥ १.०२५.०३
परा॒ हि मे॒ विम॑न्यवः॒ पत॑न्ति॒ वस्य॑इष्टये ।
वयो॒ न व॑स॒तीरुप॑ ॥ १.०२५.०४
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥ १.०२५.०५
तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः ।
धृ॒तव्र॑ताय दा॒शुषे॑ ॥ १.०२५.०६
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् ।
वेद॑ ना॒वः स॑मु॒द्रियः॑ ॥ १.०२५.०७
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
वेदा॒ य उ॑प॒जाय॑ते ॥ १.०२५.०८
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः ।
वेदा॒ ये अ॒ध्यास॑ते ॥ १.०२५.०९
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
साम्रा॑ज्याय सु॒क्रतुः॑ ॥ १.०२५.१०
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
कृ॒तानि॒ या च॒ कर्त्वा॑ ॥ १.०२५.११
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
प्र ण॒ आयूं॑षि तारिषत् ॥ १.०२५.१२
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् ।
परि॒ स्पशो॒ नि षे॑दिरे ॥ १.०२५.१३
न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् ।
न दे॒वम॒भिमा॑तयः ॥ १.०२५.१४
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
अ॒स्माक॑मु॒दरे॒ष्वा ॥ १.०२५.१५
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥ १.०२५.१६
सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् ।
होते॑व॒ क्षद॑से प्रि॒यम् ॥ १.०२५.१७
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
ए॒ता जु॑षत मे॒ गिरः॑ ॥ १.०२५.१८
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
त्वाम॑व॒स्युरा च॑के ॥ १.०२५.१९
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
स याम॑नि॒ प्रति॑ श्रुधि ॥ १.०२५.२०
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
अवा॑ध॒मानि॑ जी॒वसे॑ ॥ १.०२५.२१
स्वररहितम् ।
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यविद्यवि ॥ १.०२५.०१
मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
मा हृणानस्य मन्यवे ॥ १.०२५.०२
वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
गीर्भिर्वरुण सीमहि ॥ १.०२५.०३
परा हि मे विमन्यवः पतन्ति वस्यइष्टये ।
वयो न वसतीरुप ॥ १.०२५.०४
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
मृळीकायोरुचक्षसम् ॥ १.०२५.०५
तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
धृतव्रताय दाशुषे ॥ १.०२५.०६
वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
वेद नावः समुद्रियः ॥ १.०२५.०७
वेद मासो धृतव्रतो द्वादश प्रजावतः ।
वेदा य उपजायते ॥ १.०२५.०८
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
वेदा ये अध्यासते ॥ १.०२५.०९
नि षसाद धृतव्रतो वरुणः पस्त्या३स्वा ।
साम्राज्याय सुक्रतुः ॥ १.०२५.१०
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥ १.०२५.११
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥ १.०२५.१२
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो नि षेदिरे ॥ १.०२५.१३
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
न देवमभिमातयः ॥ १.०२५.१४
उत यो मानुषेष्वा यशश्चक्रे असाम्या ।
अस्माकमुदरेष्वा ॥ १.०२५.१५
परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
इच्छन्तीरुरुचक्षसम् ॥ १.०२५.१६
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
होतेव क्षदसे प्रियम् ॥ १.०२५.१७
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
एता जुषत मे गिरः ॥ १.०२५.१८
इमं मे वरुण श्रुधी हवमद्या च मृळय ।
त्वामवस्युरा चके ॥ १.०२५.१९
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
स यामनि प्रति श्रुधि ॥ १.०२५.२०
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
अवाधमानि जीवसे ॥ १.०२५.२१