आह्निकस्तोत्रम्

आह्निकस्तोत्रम्

वैशम्पायन उवाच - अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर । प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥ १॥ बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते । यञ्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥ २॥ कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् । धर्मकामैश्च मुनिभिरृषिभिश्चापि कीर्तितम् ॥ ३॥ कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे । उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥ ४॥ प्रद्युम्न उवाच - कृष्णानुज महाभाग रोहिणीतनय प्रभो । किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥ ५॥ श्रीबलदेव उवाच - सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः । अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥ ६॥ ऋचो यजूंषि सामानि छन्दांस्याथर्वणानि च । चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥ ७॥ पुराणमितिहासश्चाखिलान्युपखिलानि च । अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥ ८॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥ ९॥ व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः । वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥ १०॥ मरीचिरङ्गि रात्रिश्च पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो भगवान् पान्तु ते मां महर्षयः ॥ ११॥ कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश । नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥ १२॥ रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु । अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥ १३॥ ह्रीः श्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः । अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥ १४॥ हिमवान् हेमकूटश्च निषधः श्वेतपर्वतः । ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥ १५॥ सह्योदयश्च मलयो मेरुमन्दरदर्दुराः । क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥ १६॥ शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः । एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥ १७॥ हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ । तथा पूरणकश्चैव नागश्च करवीरकः ॥ १८॥ सुमनास्यो दधिमुखस्तथा श‍ृङ्गारपिण्डकः । मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥ १९॥ नागराडधिकर्णश्च तथा हारिद्रकोऽपरः । एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥ २०॥ भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः । समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥ २१॥ सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा । द्वारावती विपाशा च सरयूर्यमुना तथा ॥ २२॥ कल्माषी च रथोष्मा च बाहुदा च हिरण्यदा । प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥ २३॥ ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा । एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥ २४॥ उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् । वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥ २५॥ कृष्णा वेणा शुक्तिमती तमसा पुष्पवाहिनी । ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥ २६॥ नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा । वितस्ता भीमरथ्या च ऐला चैव महानदी ॥ २७॥ कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः । एताश्चान्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः ॥ २८॥ दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् । क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥ २९॥ सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका । पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥ ३०॥ ख्याता वेत्रवती चैव चापदासीति विश्रुता । प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥ ३१॥ चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी । उमा गुरुनदी चैव तापी च विमलोदका ॥ ३२॥ विमला विमलोदा च मत्तगङ्गा पयस्विनी । एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥ ३३॥ ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् । भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥ ३४॥ सा तु दहतु मे पापं कीर्तिता शम्भुना धृता । प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥ ३५॥ गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् । रामह्रदं विनशनं रामतीर्थं तथैव च ॥ ३६॥ गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः । कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥ ३७॥ सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलम् । दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥ ३८॥ बदरी चैव विख्याता नरनारायणाश्रमः । विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥ ३९॥ कोकामुखं पुण्यतमं गङ्गासागरमेव च । मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥ ४०॥ तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः । मां प्लावयन्तु सलिलैः यानि मे कीर्तितानि वै ॥ ४१॥ सूकरं योगमार्गं च श्वेतद्वीपं तथैव च । ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ॥ ४२॥ धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी । गङ्गा वैकुण्ठकेदारं सूकरोदभेदनं परम् । तच्छापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात् ॥ ४३॥ धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः । वरुणेशोऽथ धनदो यमो नियम एव च ॥ ४४॥ कालो नयः सन्नतिश्च क्रोधो मोहः क्षमा धृतिः । विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥ ४५॥ यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः । नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥ ४६॥ लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः । मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥ ४७॥ नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः । मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥ ४८॥ आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च । रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥ ४९॥ रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी । भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥ ५०॥ आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः । एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥ ५१॥ लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः । गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥ ५२॥ नानाभरणवेशाश्च नानारूपाङ्किताननाः । नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥ ५३॥ मेदोमज्जाप्रियाश्चैव मद्यमांसवसाप्रियाः । मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥ ५४॥ कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा । व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तद्या ॥ ५५॥ क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः । मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥ ५६॥ मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः । पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥ ५७॥ ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथावराः । नागायुतबलाश्चैव वायुवेगास्तथापराः ॥ ५८॥ एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः । बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥ ५९॥ मुखमण्डी बिडाली च पूतना गन्धपूतना । शीतवातोष्णवेताली रेवती ग्रहसंज्ञिताः ॥ ६०॥ प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः । सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥ ६१॥ नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः । मातरो मातृवत्पुत्रं रञ्जन्तु मम नित्यशः ॥ ६२॥ पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः । कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥ ६३॥ महाभीमा महावीर्या दर्पोदभूता महाबलाः । क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥ ६४॥ नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः । लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥ ६५॥ शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः । पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥ ६६॥ दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः । वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥ ६७॥ व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः । नानावस्वनसंवीताश्चित्रमाल्यानुलेपनाः ॥ ६८॥ गजाश्वोष्ट्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः । वराहोलूकगोमायुमृगाखुमहिषाननाः ॥ ६९॥ वामना विकटाः कुब्जाः कराला लूनमूर्धजाः । सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥ ७०॥ श्वेताः कैलाससङ्काशाः केचिद् दिनकरप्रभाः । केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥ ७१॥ एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे । निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः ॥ ७२॥ वापीतडागकूपेषु समुद्रेषु सरित्सु च । श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥ ७३॥ एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः । महागणपतिर्नन्दी महाकालो महाबलः । माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥ ७४॥ ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः । देवश्च वामदेवश्च घण्टाकर्णः करन्धमः ॥ ७५॥ श्वेतमोदः कपाली च जम्भकः शत्रुतापनः । मज्जनोन्मज्जनौ चोभौ सन्तापनविलापनौ ॥ ७६॥ निजघासोऽघसश्चैव स्थूणाकर्णः प्रशोषणः । उल्कामाली धमधमो ज्वालामाली प्रमर्दनः ॥ ७७॥ सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः । कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥ ७८॥ अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च । क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥ ७९॥ भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः । उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥ ८०॥ चपलोऽसमवेतालस्तामसः सुमहाकपिः । हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥ ८१॥ हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः । पार्वत्या रोषसम्भूताः सहस्राणि शतानि च ॥ ८२॥ शक्तिमन्तो धृतिमन्तो ब्रह्मण्याः सत्यसङ्गराः । सर्वकामापहन्तारो द्विषतां च मृधेमृधे ॥ ८३॥ रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः । तेषां गणानां पतयः सगणाः पान्तु मां सदा ॥ ८४॥ नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः । पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥ ८५॥ अगस्त्यो गालवो गार्ग्यः शक्तिर्धीम्यः पराशरः । कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥ ८६॥ बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः । द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥ ८७॥ विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः । उत्तङ्कश्चैव रैभ्यश्च पौलोमश्च द्वितस्त्रितः ॥ ८८॥ ऋषिर्वै कालवृक्षीयो मुनिर्मेधातिथिस्तथा । सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥ ८९॥ संवर्त ऋष्यश‍ृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः । ऋचीको जमदग्निश्च तथौर्वस्तपसां निधिः ॥ ९०॥ भरद्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः । बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥ ९१॥ वैतण्डी दीर्घतापश्च वेदगाथोंऽशुमाञ्छिवः । अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥ ९२॥ उद्दालकः क्षीरपाणिः श‍ृङ्गी गौरमुखस्तथा । अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥ ९३॥ एते चान्ये च ऋषयो बहवः शंसितव्रताः । मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥ ९४॥ त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः ॥ ९५॥ उच्चैःश्रवा हयः श्रीमान् वैद्यो धन्वन्तरिर्हरिः । अमृतं गौः सुपर्णश्च दधि गौराश्च सर्षपाः ॥ ९६॥ शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः । दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥ ९७॥ तथाप्रतिहतं चक्रं महोक्षश्चन्दनं विषम् । श्वेतो वृषः करी मत्तः सिंहो व्याघ्रो हयो गिरिः ॥ ९८॥ पृथिवी चोद्धृता लाजा ब्राह्मणा मधु पायसम् । स्वस्तिको वर्द्धमानश्च नन्द्यावर्तः प्रियङ्गवः ॥ ९९॥ श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः । ऋषिपत्न्यश्च कन्याश्च श्रीमद् भद्रासनं धनुः । रोचना रुचकश्चैव नदीनां सङ्गमोदकम् ॥ १००॥ सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः । नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥ १०१॥ आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च । पुण्यं वै विगतक्लेशं श्रीमद् वै मङ्गलान्वितम् ॥ १०२॥ रामेणोदाहृतं पूर्वमायुःश्रीजयकाङ्क्षिणा । य इदं श्रावयेद् विद्वांस्तथैव श‍ृणुयान्नरः ॥ १०३॥ मङ्गलाष्टशतं स्नातो जपन् पर्वणि पर्वणि । वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥ १०४॥ न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् । धन्यं यशस्यमायुष्यं पवित्रं वेदसम्मितम् ॥ १०५॥ श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् । शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् । सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ॥ १०६॥ श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः । सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥ १०७॥ ॥ इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : Ahnikastotram delivered by Balarama to Pradyumna
% File name             : Ahnikastotram.itx
% itxtitle              : Ahnikastotram (mahAbhArate khilabhAgAntargataM balarAmaproktam)
% engtitle              : Ahnikastotram
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Source                : mahAbhArate khilabhAge harivaMshe viShNuparvaNi
% Latest update         : June 8, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org