श्री ओप्पिलिअप्पन् सुप्रभातं अथवा आकाशनगरीशसुप्रभातम्
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचारवर्यो मे सनिधत्ताम् सदा हृदि ॥
उद्यत्कोटिदिवाकरेन्दुसुभगं पीताम्बरालङ्कृतं
नानाभूषणभूषितं नवघनश्यामं प्रसन्नाननम् ।
लावण्याम्बुनिधिं निरस्तलवणं श्रीशङ्खचक्राञ्चितं
श्रीवैकुण्ठपुराधिपं शुभतनुं भूम्याः पतिं संश्रये ॥ १॥
मार्कण्डेयमहातपः फलतया श्रीव्योमपुर्यां पुरा
सञ्जाता परिणीय तत्पुरपतिं त्यक्त्वा रसं सैन्धवम् ।
भक्तानामभयप्रदाननिरता फुल्लारविन्देक्षणा
सेयं पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ २॥
कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ ३॥
उत्तिष्ठोत्तिष्ठ सर्वेश उत्तिष्ठ धरणीपते ।
उत्तिष्ठाभ्रपुराधीश लोकानां मङ्गलं कुरु ॥ ४॥
तव सुप्रभातममलायतेक्षणे
भगवन्मृकण्डुसुतपुत्रि शोभने ।
करुणामयैस्तव कटाक्षतल्लजैः
अभिरक्ष नो धरणिदेवि तावकान् ॥ ५॥
मातर्महीश्वरि मृकण्डुकुलावतीर्णे
स्वायत्तकान्तविभवे सरसीरुहाक्षि ।
त्वं जागृहि श्रुतिसुखस्तुतिगीतवाद्यैः
श्रीश्रीनिवासदयिते तव सुप्रभातम् ॥ ६॥
प्राच्यामुदेति दिशि दीपशिखेव भानुः
विप्राः स्वकर्मनिरताः प्रणमन्ति सन्ध्याम् ।
उत्तिष्ठ भूस्तनतटद्वयमध्यसुप्त
वैकुण्ठपुर्यधिपते तव सुप्रभातम् ॥ ७॥
भृङ्गाञ्चितानि मधुमन्ति विकस्वराणि
पुष्पाणि पूजयितुमर्च्यमुपाहरन्तः ।
द्वारान्तिके विधिमुखाः प्रतिपालयन्ति
श्रीव्योमपत्तनपते तव सुप्रभातम् ॥ ८॥
गेयं भवन्तमुपवीणयितुं प्रवृत्तान्
कासारभूकलिविरोधिमहच्छठारीन् ।
द्वारि स्थिताननुगृहाण शुभैः कटाक्षैः
आकाशपत्तनपते तव सुप्रभातम् ॥ ९॥
वैकुण्ठनाथ इति सूरिनुतोऽसि शुद्धं
आनन्दमालयविमानमुदैरयंस्ते ।
निद्राऽपि ते निखिलरक्षणचिन्तनैव
दासान् विलोकय विभो तव सुप्रभातम् ॥ १०॥
क्षेत्रे मृकण्डुसुतदिव्यतपस्समृद्ध्यै
त्वं सन्निधाय तुलसीविपिनेऽवतीर्णाम् ।
भूमिं प्रियामनघ यां परिरभ्य शेषे
बुध्यस्व भोः सह तया तव सुप्रभातम् ॥ ११॥
भूदारतामुपगतो जलधेर्धरित्रीं
प्रागुद्दधार हि भवान् किमु तच्छ्रमेण ।
भूदार एव शयितोऽत्र भुवः कुचाद्रौ
शान्तश्रमो नु भगवन् तव सुप्रभातम् ॥ १२॥
पुण्यं तवावतरणात् श्रवणं वनं च
त्याज्यं बभूव लवणं परिणेतुमुर्वीम् ।
भव्येक्षणेन भवतः कृतिनो भवेम
स्वापं विमुञ्च धरणीश्वर सुप्रभातम् ॥ १३॥
मुक्तामयो मणिमयः कनकस्वरूपो
वैकुण्ठदिव्यनगरीनिलयो निजश्च ।
स्वामीति पञ्चविधमेष शठारिसूरिः
त्वामुद्गृणाति भगवन् तव सुप्रभातम् ॥ १४॥
श्रीनाथयामुनयतीन्द्रमुखा महान्तः
अहोरात्रपुष्करिणिकाविहितावगाहाः ।
धामान्तिकेऽञ्जलिभृतः प्रतिपालयन्ति
त्वां व्योमपत्तनपते तव सुप्रभातम् ॥ १५॥
वेदान्तदेशिकमणिर्गुणरत्नसिन्धुः
भक्त्योद्गृणन् अघटितं घटयन्तमत्र ।
त्वां सेवितुं श्रितजनैः सह सन्निधत्ते
श्रीव्योमपुर्यधिपते तव सुप्रभातम् ॥ १६॥
वैखानसेन विधिनाऽर्चितपादपद्म
वैकुण्ठपुर्यधिपते विनतार्तिहारिन् ।
त्वद्वैश्वरूप्यविभवानुभवोत्सुकान् नः
धन्यान् विधेहि धरणिप्रिय सुप्रभातम् ॥ १७॥
श्रेयोनिदानमिदमेव समस्तजन्तोः
इत्याशयं करुणया स्वपदारविन्दम् ।
निर्दिश्य दर्शयसि भूमिपते करेण
त्वं दक्षिणेन भगवन् तव सुप्रभातम् ॥ १८॥
बध्वाऽञ्जलिं दुरितकृद्गतिरत्र केति
पार्श्वस्थया वसुधया कृपयाऽनुयुक्तः ।
एषेति दक्षिणकरेण पदारविन्दं
नैजं प्रदर्शयसि भूप्रिय सुप्रभातम् ॥ १९॥
मामाश्रितस्य सुमतेरतिभीषणोऽपि
संसारसागर इयान् भवतीति नूनम् ।
हस्तेन सूचयसि नाथ कटिस्थितेन
वामेन भूमिकमितस्तव सुप्रभातम् ॥ २०॥
मद्विप्रयोगपरिखिन्नशठारिसूरि-
संश्लेषदं गगनपत्तनमेतदासीत् ।
हातुं तदेतदुचितं न कदाचनेति
त्वं नित्यवासमिह वाञ्छसि सुप्रभातम् ॥ २१॥
आकाशदिव्यनगरीश शुभां त्वदीयां
मूर्तिं भजेय सततं दयतां भवान् मे ।
पश्चाद्भवं प्रतिभयं न हि कामयेति
आचष्ट ते कलिरिपुस्तव सुप्रभातम् ॥ २२॥
अल्पाऽस्थिरं वितरतः फलमीश्वरादीन्
नाहं स्मरामि दिवि तेऽनुभवादि लिप्से ।
भूवल्लभेत्यकथयत्तव सन्निधाने
षट्सूक्तिकारकलिजित्तव सुप्रभातम् ॥ २३॥
कुक्षौ स्थितिं तदनु जन्मजरामृतीश्च
त्वद्विस्मृतेर्मुहुरगां खपुराधिनाथ ।
इत्यभ्यधान्निजदशां भवतः समीपे
भूम्याः पते कलिरिपुस्तव सुप्रभातम् ॥ २४॥
त्वं श्रीश्च दिव्यभुवने समयं विधाय
प्राप्तौ पृथग्वनमिदं जगतो विभूत्यै ।
व्याजो मृकण्डुतनयस्य तपोऽवतारे
तस्याश्च ते च वसुधाधव सुप्रभातम् ॥ २५॥
निर्निद्रपद्मसुभगं नयनाम्बुजं ते
वैकुण्ठसीमनि निषेव्य वियत्पुरेऽस्मिन् ।
नित्याः सुषुप्तिसुषमामनुभूय तृप्ताः
निद्रां विमुञ्च धरणीश्वर सुप्रभातम् ॥ २६॥
भाग्येन केनचन किङ्करताधिराज्यं
भक्ता जना भुवि भवत्कृपया प्रपन्नाः ।
भोगैः समर्चयितुमीश भवत्प्रतीक्षाः
भूमीश जागृहि विभो तव सुप्रभातम् ॥ २७॥
रूपेषु पञ्चसु परं तव दिव्यमाद्यं
व्यूहस्तथा विभवसंज्ञमथान्तरं च ।
अर्चेति तेषु चरमे कृतिनो रमन्ते
ये तान् विलोकय महीश्वर सुप्रभातम् ॥ २८॥
सूरीश्वरैर्बहुमते शठकोपमुख्यैः
अष्टोत्तरे सति शते भगवत्स्थलानाम् ।
सौलभ्यमभ्यधिकमत्र पुरे वितन्वन्
वीक्षस्व नः क्षितिपते तव सुप्रभातम् ॥ २९॥
त्वत्सेवया तव गुणावलिकीर्तनेन
त्वद्भुक्तभोगरसतस्त्वदनन्यभक्त्या ।
कालं समस्तमिह नः सफलं चिकीर्षून्
प्रीत्याऽवलोकय महीश्वर सुप्रभातम् ॥ ३०॥
अप्राकृतं श्रुतिशतोक्तमकालकाल्यं
आनन्दसान्द्रमनघं परमं पदं तत् ।
त्यक्त्वाऽऽगतस्त्वमवनेरवनाय देव
सर्वंसहेश भगवन् तव सुप्रभातम् ॥ ३१॥
शारीरकाधिकरणद्रमिडप्रबन्ध-
दुग्धाब्धिनिर्मथनजैर्गुणदिव्यरत्नैः ।
वेदान्तदेशिकगुरुग्रथितां सुमालां
कण्ठे कुरु क्षितिपते तव सुप्रभातम् ॥ ३२॥
एलादिसंस्कृतसुगन्धिनदीजलाढ्यैः
हैमैर्घटैर्निजशिरोविधृतैर्लसन्तः ।
त्वत्किङ्करास्त्वदभिषेककृते समेताः
तानादिशावनिपते तव सुप्रभातम् ॥ ३३॥
कालोचिता गुणनिधे विविधाः सपर्याः
भक्ता यथाऽधिकरणं प्रविधातुकामाः ।
उत्थानमत्र भवतः प्रतिपालयन्ति
वैकुण्ठपुर्यधिपते तव सुप्रभातम् ॥ ३४॥
त्वत्तोऽधिका पुरुषकारतया धरित्री
तुल्या त्वया ह फलताफलदातृताभ्याम् ।
उक्ताकृतित्रयविशिष्टगृहिण्युपेत
वैकुण्ठपुर्यधिपते तव सुप्रभातम्॥ ३५॥
आकाशपत्तनपते तव सुप्रभातं
एतज्जनाः प्रतिदिनं भवतस्समीपे ।
प्रातः पठन्तु सकलं शुभमाप्नुवन्तु
त्वत्पादपद्ममधुपानरता भवन्तु ॥ ३६॥
इति वैकुण्ठवासि श्री यु वे रामदेशिकाचार्य स्वामि विरचितं
श्री ओप्पिलिअप्पन् सुप्रभातं अथवा आकाशनगरीशसुप्रभातं सम्पूर्णम् ॥
श्री भूमिदेवीसमेत श्री ओप्पिलिअप्पन् तिरुवडिगले आकाशनगरीशपादपद्मौ शरणम् ।