षष्टिबालैः कृतं बालकृष्णस्तोत्रम्
तापसाः सिद्धिमन्तश्च यथा वै ब्रह्मचारिणः ।
नत्वा दिव्यं विमानं ते तस्थुः क्षणं विशश्रमुः ॥ ४८॥
अथ षष्टिर्दिव्यरूपा मिलित्वा ते नराः स्त्रियः ।
वृकायनं तथा चाट्वालर्षीन् सर्वान् प्रणम्य च ॥ ४९॥
स्तुतिं चक्रुर्विमानाभिमुखं विलोक्य भावतः ।
एकस्वरेण मुदिता नेत्रे प्रमील्य वै तदा ॥ ५०॥
व्यापको यः परब्रह्माऽनादिश्रीपुरुषोत्तमः ।
मुक्तमुक्तानिकासेव्यस्तस्मै कृष्णाय ते नमः ॥ ५१॥
अक्षरं ब्रह्म यत्रास्ते धाम दिव्यं परात्परम् ।
सेवते यं सदा तत्र तस्मै कृष्णाय ते नमः ॥ ५२॥
यन्मूर्तेस्तु समुत्पन्ना राधा शक्तिः सुरूपिणी ।
राधार्थं कृष्णरूपोऽभूत् तस्मै कृष्णाय ते नमः ॥ ५३॥
यं कृष्णं नित्यगोलोके गावो गोप्यश्च गोपकाः ।
सेवन्ते सुखदं रासे तस्मै कृष्णाय ते नमः ॥ ५४॥
यन्मूर्तेस्तु समुत्पन्ना लक्ष्मीर्मूर्तिः सुरूपिणी ।
नारायणोऽभूल्लक्ष्म्यर्थं तस्मै कृष्णाय ते नमः ॥ ५५॥
यं वैकुण्ठे पार्षदाः पार्षदान्यश्च भगानि च ।
प्रसेवन्ते सखीकोट्यस्तस्मै कृष्णाय ते नमः ॥ ५६॥
यो नाथोऽनादिसृष्टेश्च प्रवाहार्थं चतुष्टयम् ।
वासुदेवादिकं व्यूहं धत्ते कृष्णाय ते नमः ॥ ५७॥
यो देवो वै महाभूमा वैराजश्च पुराऽभवत् ।
त्रिदेवतां समापन्नस्तस्मै कृष्णाय ते नमः ॥ ५८॥
यः स्वमूर्तौ माणिकीं च रमां पद्मावतीं सतीम् ।
लक्ष्मीं नारायणीं धत्ते तस्मै कृष्णाय ते नमः ॥ ५९॥
यो हंसां सुगुणां मञ्जुलिकां धत्ते स्वविग्रहे ।
दयां जयां च ललितां तस्मै कृष्णाय ते नमः ॥ ६०॥
यो राधां यमुनां गङ्गां विरजां च सरस्वतीम् ।
शारदां कमलां धत्ते तस्मै कृष्णाय ते नमः ॥ ६१॥
यः स्वमूर्तेर्विवरेषु धत्ते ब्रह्माण्डकोटिकाः ।
ब्रह्माण्डेष्वन्वितश्चास्ते तस्मै कृष्णाय ते नमः ॥ ६२॥
अव्याकृतेऽमृते धाम्नि श्वेतद्वीपे नरायणः ।
यस्त्वास्ते श्रीरमासेव्यस्तस्मै कृष्णाय ते नमः ॥ ६३॥
आदित्यमण्डले हिरण्मयो यश्च विराजते ।
अग्नौ यज्ञस्वरूपश्च तस्मै कृष्णाय ते नमः ॥ ६४॥
ब्रह्माण्डे विष्णुरूपो यः स्वर्गे वामनरूपधृक् ।
बदर्यां च हरिश्चास्ते तस्मै कृष्णाय ते नमः ॥ ६५॥
शेषे नारायणरूपश्चात्मस्वन्तर्नियामकः ।
साक्षी यः सर्वभूतानां तस्मै कृष्णाय ते नमः ॥ ६६॥
यश्चास्ते बालकृष्णोऽयं श्रीमद्गोपालनन्दनः ।
कुङ्कुमवापिकाक्षेत्रे तस्मै कृष्णाय ते नमः ॥ ६७॥
येन गङ्गा कृता दिव्याऽस्मन्माता षष्टिबालका ।
पादाङ्गुष्ठेन सत्ये वै तस्मै कृष्णाय ते नमः ॥ ६८॥
मूर्तिरूपो विमानेऽत्र यश्चास्ते भगवान् हरिः ।
गङ्गाऽपत्यकृपावर्षी तस्मै कृष्णाय ते नमः ॥ ६९॥
कर्मकाण्डाय योगाय ज्ञानाय च विविक्तये ।
नीतये च विचाराय तस्मै कृष्णाय ते नमः ॥ ७०॥
जीवाय जीवकायापि प्राणाय कोशिने च ते ।
खाय काय च सत्याय तस्मै कृष्णात्मने नमः ॥ ७१॥
तीर्थाय साधुरूपाय सर्वज्ञाय विहारिणे ।
मुक्तये मुक्तिदात्रे च तस्मै कृष्णात्मने नमः ॥ ७२॥
चिदचित्सर्वरूपाय विमानस्थाय मूर्तये ।
बालाय बालकृष्णाय कान्तकृष्णाय ते नमः ॥ ७३॥
ब्रह्मप्रियाधिपतये कोटिशक्तीश्वराय च ।
शतचत्वारिंशदूर्ध्वकन्याकान्ताय ते नमः ॥ ७४॥
मायाकालपुरुषाणां पतये धामधामिनाम् ।
ईशजीवाधिपतये तस्मै कृष्णाय ते नमः ॥ ७५॥
गोचरायाऽगोचराय षष्टिवन्द्याय मूर्तये ।
शरणं स्मः समापन्नाः शरण्याय च ते नमः ॥ ७६॥
एवं स्तुत्वा राधिके! ते वृकायनाभिकाङ्क्षया ।
पुष्पाञ्जलीन्निबद्ध्यैव विमानभूमिकां ययुः ॥ ७७॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १६५-अध्यायान्तर्गतं
षष्टिबालैः कृतं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १६५/४८-७७॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 165/48-77..
Proofread by PSA Easwaran