षोडशायुधस्तोत्रम्
वेदान्तदेशिकविरचितम् ।
(श्रीसुदर्शनदेवस्य करस्थायुधस्तुतिः)
स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १॥
यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।
पातु वस्त्वपरं चक्रं चक्ररूपस्य चक्रिणः ॥ २॥
यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः ।
स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३॥
हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ ४॥
दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।
हेतिदण्डेश दण्डोऽसौ भवतां दण्डयेद्विषः ॥ ५॥
अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् ।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ ६॥
सम्भूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ ७॥
अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ ८॥
क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ ९॥
तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ १०॥
यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम् ।
अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गिधन्वनः ॥ ११॥
आयुधेन्द्रेण येनैव विश्वसर्गो विविच्यते ।
स वः सौदर्शनः कुर्यात्पाशः पाशविमोचनम् ॥ १२॥
विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।
व्यज्यते तेन सारेण नासीरविजयोऽस्तु वः ॥ १३॥
आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीश वज्रोऽसावदधीच्यस्थिसम्भवः ॥ १४॥
विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।
सा वः सौदर्शनी भूयाद्गदप्रशमिनी गदा ॥ १५॥
यात्यतिक्षोदशालित्वं मुसलो येन तेन वः ।
हेतीश मुसलेनाशु भिद्यतां मोहमौसलम् ॥ १६॥
शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात्त्रिशूलेन विशूलता ॥ १७॥
अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात्सुदर्शनो विश्वमायुधैः षोडशायुधः ॥ १८॥
श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ १९॥
इति वेदान्तदेशिकविरचितं षोडशायुधस्तोत्रं सम्पूर्णम् ।
This stotra further elaborates the greatness and glory of sudarshana by singing about the weapons which sudarshana wields. The first of them is sudarshana itself (546) and the sixteenth is trizUlam (561). shloka 562 invokes the protective grace of sudarshana who is referred to as ShoDazAyudha--one who has 16 weapons. One peculiarity of this stotra is that all the shlokas, 545 to 561, invoke protection of shrI sudarshana on the listener - May He protect you or confer auspiciousness on you and so on.
It is believed that this stotram (possibly sudarshanAShTakam too) was sung by deshika at kA~nchIpuram when he was told that at Tirupputkuzhi (about 5 miles from kA~nchIpuram) a fever was raging in epidemic form. His prayers made in this stotra were answered and the place was freed from the epidemic and people re-settled there as before. This tradition explains why these two stotras, sudarshanAShTakam and ShoDazAyudha stotram, find a place next to paramArtha stuti, which as we saw was a hymn in praise of the Perumal of that place.
Proofread by PSA Easwaran