अष्टप्रासपुष्पाञ्जलिः

अष्टप्रासपुष्पाञ्जलिः

त्राता यो जगतां सकृत्प्रपदनप्रीतान्तरात्मा मुहु- र्दाताभूदभयस्य चेति जगति ख्यातापदानावलिः । नैतादृक् करुणाकरोऽन्य इति निर्धूतान्यदेवः सदा सीतानायकमेव तं मम मनो जातादरं सेवते ॥ १॥ जेता नूतननीलनीरदरुचां भ्राता च नीलोत्पल- व्राताभाविततेः सखा हरिमणीजाताञ्जनौषत्विषाम् । सीतापाङ्गमरीचिवीचिनिचयस्फीतात्मरूपः श्रिता- नेतान् नः परिपात्वसौ रघुपतेः पूताकृतेनलिमा ॥ २॥ ये तावद् बहुदुःखसागरगता भीता जनाः संसृतौ यातायातनितान्ततान्तहृदया नीताश्च नीचां दशाम् । एतादृक्ष्वपि दुर्दशासु मनसा सीतापतिं यान्ति चेद् यातायातपरिश्रमं जहति ते का तावता स्यात् क्षतिः ॥ ३॥ मातारो न हि यन्महिम्न इह विख्याता महान्तोऽप्यसा- वेतावानिति योगिनोऽपि सततं ध्यातात्मरूपा अपि । सीतानाथमहिम्नि तत्र किमनाघ्रातात्मदृष्टिक्रमो ज्ञाताभूवमिहेदृशोऽहमधुना स्तोता भवेयं कथम् ॥ ४॥ नेतादित्यकुलस्य सन्नपि जनान् क्रीतान् स्वकीयैर्गुणैः शीतालोकमृदॄक्तिभिश्च सुखयन् मातापितृभ्योऽधिकम् । धौतान् कार्तयुगांश्च धर्मनिवहांस्त्रेतायुगेऽप्याचरन् व्यातानीद्रतिसाधु राज्यमिह यः सीतापतिः पातु सः ॥ ५॥ लोका यूयमुपाश्रयध्वमधुना लोकाभिरामं कृपा- लोकासारकृतावनं रघुपतिं लोकातिशायिप्रभुम् । लोकालोकधरावधीह गमने लोकान्तरोद्धावने- ऽप्येकापीतरदेवता न शरणं काकासुरस्याप्यभूत् ॥ ६॥ मूकात्माप्यहमाश्रये रघुपतिं नाकाधिपाद्यैर्नृतं राकाचन्द्रनिभाननं स्तुतिकृते लोकान् विधातुं मुदा । काकारावसमास्तदन्यविषयश्लोका इति ज्ञानवा- ञ्शोकानामपनोदनाय जगतामेकाधिपं सन्ततम् ॥ ७॥ शैलानामपि यस्य पादरजसा चेलादिभूषामणी- जालानि स्फुटमम्बुजादिसुमनोमालाश्च सम्पादिताः । सा लावण्यमयी तनुस्तनुमतां हेलादियोग्या च तं फालाक्षादिनुतं श्रये रघुवरं शीलान्वितं सर्वदा ॥ ८॥ आदायाशु करेण शैलनिवहान् व्यादाय वक्त्रं च या खादाय द्रुतमापतन्त्यभिमुखं खेदावहा प्राणिनाम् । सीदामीति हतापतद् यदिषुणा सा दारुणा ताटका मोदाढ्या मुनयोऽस्तुवन् तमनघं वेदान्तवेद्यं भजे ॥ ९॥ मारीचो हि यदीयबाणविभवे वैरीभवन्नादिमो दूरीकृत्य निपातने निपुणतामूरीचकाराद्भुताम् । दारीयस्तनदारणः सुदुरहङ्कारी किलामोघतां वारीणां निधिरर्चिषां च विभवं भूरीडितं तं भजे ॥ १०॥ सिद्धा यत्र जना भवन्ति तपसा सिद्धाश्रमं तं भज- ञ्शुद्धात्मा रघुनन्दनो गुरुवचस्तद्धारयंश्चेतसा । रुद्धाकाशमपास्य राक्षसकुलं युद्धाय पातास्त्रतः श्रद्धातो गुरुयज्ञरक्षणपरो हृद्धाम्नि भूयाच्चिरम् ॥ ११॥ शूराग्रेसरमानिनोऽत्र भुवि ये धीरास्तथा भूमिपा भाराद् यच्चलनाधिरोपणकथादूरा निराशा गताः । पौराणां पुरतस्तदीश्वरधनुर्यो रागतो लीलया साराढ्योऽथ बिभेद तं रघुपतिं वीराग्रगण्यं भजे ॥ १२॥ तारानाथनिभाननं जनकजा माराभिरामाकृतिं स्फाराक्ष्युत्पलमालिकाभिरभितो नीराजयन्ती मुहुः । सारासारविवेकलम्पटमतिर्धीराथ वव्रे पतिं श्रीरामं सुकुमारमूर्तिरनिशं स्मेराननं तं भजे ॥ १३॥ कारागारमवापिताः क्रनुभुजो ये रावणेनार्दिता नैराश्यान्निजजीवनेऽप्यशरणाः क्षीराम्बुराशेस्तटे । दूरादच्युतमस्तुवन् जनकजाश्रीरामचन्द्रावुभा- वारात् ते कलयन्त एव मनसा क्रूराशरेशं हतम् ॥ १४॥ क्षीराब्धेरवतीर्य चैत्य विमलाकारां प्रसन्नां सदा- चाराढ्यां तनुमुज्ज्वलां कुवलयं दूरादसौ हर्षयन् । आराध्य द्विजराजभावममृतासाराभिवर्षी नृणां घोराणीह तमांस्यपोह्य जयति श्रीरामचन्द्रो भुवि ॥ १५॥ ये धावन्त्यपि तानहो भुवि महीनाथान् समस्तानपि क्रोधाग्नौ हि जुहाव यो निजपितुर्बाधाप्रवृद्धार्चिषि । आघात् तं जमदग्निजं मुनिमसौ साधारणं चेति यद् गाधाः साधु पठन्ति तं रघुपतिं मेधाविनं संश्रये ॥ १६॥ त्यक्त्वा राज्यमकण्टकं पितृकृते कृत्वा निवासं वने हत्वा क्रूरतरं विराधमसुरं धृत्वा जटावल्कले । नत्वागस्त्यमुखानृपीञ्शुचितमान् सत्त्वालयान् राघवः स्थित्वा पञ्चवटीतटे सदयितः सत्त्वाश्रयो नः प्रभुः ॥ १७॥ भीमा शूर्पणखाभिधा निशिचरी कामाभिरामाकृतौ रामाख्ये पुरुषोत्तमे पतिमतिं कामातुरा व्यातनोत् । मा मा त्वन्मतिरीदृशी मदनुजं प्रेमास्पदीकुर्विति क्षामा येन निषेधिता त्रिजगतीक्षेमावहं तं भजे ॥ १८॥ धामागत्य निशाचरी तदनु सा रामानुजं प्राप्य तद्- भीमासिप्रतिकृत्तकर्णसुनसा गामाश्रिताक्रन्दती । या मायाखरदूषणत्रिशिरसोऽलीकानि सङ्कीर्त्य सा गामाकाशमपि स्वनान्मुखरयामासाथ घोरस्वरैः ॥ १९॥ बाणानस्यत एकदैव बहुलान् बाणासनादद्भुतं प्राणानप्यथ रक्षसां खरशिरःस्थूणासदृक्षान् भुजान् । पाणावामलकं व यस्य ददृशुर्वीणामुनीन्द्रादयः शोणाभं परिषस्वजे जनकजा प्राणाधिपं तं नुमः ॥ २०॥ पायान्मामिह कोसलेश्वरसुतादायाद एष ज्वलन् मायारूपमृगस्य तूर्णमिषुणा कायादसून् मोचयन् । जायाहर्तृदशाननस्य पदवीमायासतो जल्पतः प्रेयानाशु ददौ जटायुष उरुश्रेयांसि यः सानुजः ॥ २१॥ त्वं पाहीति वदत्कबन्धमवटे तं पातयित्वा ततः शम्पातुल्यतनुं गतेन दनुजासम्पादितोपायतः । पम्पामेत्य रघूद्वहो हनुमता सम्पाद्य सख्यं हरे- स्तं पापं हनमैक्षत त्रिजगतीकम्पावहं रावणम् ॥ २२॥ सालान् सप्त गिरीन् रसातलमसौ कालानलाकारिणा हेलाकृष्टशरेण केनचिदहो नालानिवाम्भोरुहाम् । योऽलावीद् द्रढयन् मनश्च सुहृदो डोलायितं हर्षयन् नीलाधीनभुजं भजे रघुपतिं नीलाम्बुदश्यामलम् ॥ २३॥ को योद्धा भुवने मयेति च धिया भूयोमदं वालिनं न्यायोपेतनिजानुजत्यजनतज्जायोपभोगाद्यघैः । हेयोऽसाविति योऽवधीत् तमिषुणा मायोद्धतं धार्मिकं भूयो भूय उपास्महे तमनघं श्रेयोनिधिं राघवम् ॥ २४॥ राजा सर्वधनुष्मतां हनुमता श्रीजानकीवृत्तम- प्याजानन्नखिलैर्वृतो वसुमतीभाजां कपीनां गणैः । व्याजाद् दारहृदुत्थरोषशिखिनो भाजालदुष्प्रेक्षणो यो जातो विजयप्रयाणसमये श्रीजानिमेनं भजे ॥ २५॥ इन्धानोऽथ वनौकसां बहुबलैर्मन्थानभूभृत्समैः पन्थानं द्युसदां नृणां च रघुराडिन्धानरूपः श्रिया । संवायाथ विभीषणेन जलधौ बन्धाय सेतोर्दृढं सन्धामेष विधाय च त्रिदिवसं सिन्धावशेन स्थले ॥ २६॥ बुद्ध्वा वारिनिधिं प्रमत्तमधिकं क्रुद्ध्वा शितैः सायकै- र्दग्ध्वा तं रघुराड् विशोष्य जलजं वध्वा सहाक्रन्दयन् । बद्ध्वा सेतुमसौ वलीमुखबलैरध्वानमावृत्य त- न्निध्वानैरपि रोदसी रिपुपुरं रुद्ध्वा सुवेले व्यभात् ॥ २७॥ कोटीभिश्च वनौकसां सह जवादाटीकमानः प्रभुः कोटीरं च सुवेलनामकगिरेः पाटीरगन्धान्वितम् । घोटीदन्तिघटाच्छटारथभटैश्चेटीजनैः संवृतां वाटीभिश्च महीरुहामरिपुरीं पेटीमवैत् सम्पदाम् ॥ २८॥ वेगादागतमीक्ष्य राक्षसबलं रागाद् रणे राघवो नागाश्वादिसमाकुलं हरिबलेष्वागांसि कुर्वन् भृशम् । यो गाढं निजघान सायकवरैश्छागान् यथा केसरी रोगाणां प्रशमाय तं हरिमणीमागाहमानं भजे ॥ २९॥ योगासक्तहृदो मुनीन् समवधीद् यागानुपङ्गानपि प्रागाक्रम्य हठादसावसुपरित्यागावधीति प्रभुः । भोगाशा न भवेद् यथास्य भुजगीभोगाभचापच्युतै- र्द्रागागत्य तथा शरैरगमयद् वेगात् पुरीं रावणम् ॥ ३०॥ भीत्या यस्य न तेपिरे रविकरा वात्यास्तथा चन्द्रमाः शैत्यायास्य च सौधगस्य पुरतो भीत्यास्तृणीते करान् । प्रीत्याकृत्य शिरो ममार्ज दयया कात्यायनीवल्लभो नीत्यावर्जित एष राघवभयाद् दैत्याधिप प्राद्रवत् ॥ ३१॥ नीचानां प्रथमं नितान्तपरुषं स्त्रीचापलेन क्षणात् प्राचामप्ययशोऽभिवध्यमलिनं वाचाममेयांहसा । आचारै रहितं दशाननमसौ वाचालयन् खेचरान् आचार्यात्तशरैर्जघान रघुराड् ये चानुगास्तैः सह ॥ ३२॥ लङ्काराज्यपदे विभीषणममुं शङ्कालवेनोत्थितं स्वं कारुण्यममोघयन् रघुपतिः पङ्कातिगः स्थापयन् । टङ्कग्रैरिव पर्वतं बहुमदाहङ्कारपूर्णं रिपुं तं कालातिथिमाकलस्य च शरैर्हुङ्कारधूतारम् ॥ ३३॥ दुष्टानां प्रथमेन येन रिपुणा कष्टां दशां प्रापिता भ्रष्टास्ते पदतो निजात् सुरगणा अष्टासु दिक्षु द्रुताः । घृष्टाग्र्येण रघूद्वहेन निहतं हृष्टाशया वीक्ष्य तं हृष्टा राममवाकिरन् सुमगणैर्नष्टापदः स्वःपुरात् ॥ ३४॥ वृद्धानां समुपासिता रघुवरो बद्धादरः सद्व्रते क्रुद्धात्मेव शुचौ प्रवेश्य दयितां शुद्धां गृहीत्वा ततः । यद्धात्रा कृतमेष पुष्पकमदो निर्धार्य यातुं पुरं युद्धादागतवानरैः सह जवान्दद्धा प्रतस्थे मुदा ॥ ३५॥ प्रासादैर्बहुभिर्वृतां हृतरिपुर्योऽसावयोध्यापुरी प्रासाद्याखिलवानरैः सह नृपैर्व्यासादितुल्यैर्द्विजैः । श्रीसाम्राज्यपदेऽभ्यपिच्यत भृशं भासार्ककोट्युज्ज्वलो दासान् पातु रघूद्वहः सदयितो हंसावलोकान्वितः ॥ ३६॥ नानादेशसमागतान् नरपतीन् मानातिगप्राभवा- ंज्ञानाब्धीनृषिसत्तमान् कपिवरान् यानासनालिङ्गनैः । दीनानाथजनांस्तथा धनमणीदानादिभिर्मानय- न्नेनान् नः परिपात्वसौ रघुपतिः स्थानाश्रितः सानुगः ॥ ३७॥ श्रीमानेष रघूद्वह स्त्रिजगतां क्षेमाय पूषान्वये भूमावत्र सतां कृतावतरणः सीमातिगप्राभवः । वामाक्षीमणिजानकीनिरवधिप्रेमार्द्रवीक्षावशः सोमादित्यमुखामरैरभिनुतो मामादरात् त्रायताम् ॥ ३८॥ इति श्रीसुन्दरदासविरचिता अष्टप्रासपुष्पाञ्जलिः समाप्ता । स्तोत्रसमुच्चयः २ (५१) Proofread by Rajesh Thyagarajan
% Text title            : Ashtaprasapushpanjalih
% File name             : aShTaprAsapuShpAnjaliH.itx
% itxtitle              : aShTaprAsapuShpAnjaliH (shrIsundaradAsavirachitA)
% engtitle              : aShTaprAsapuShpAnjaliH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrIsundaradAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org