श्रीकृष्णलीलाशुकमुनिप्रणीता अभिनवकौस्तुभमाला
(कौस्तुभमालास्तोत्रम्)
लक्ष्मीश्च कौस्तुभश्चेति यद्रत्नद्वयमुद्धृतम् ।
तन्नः कामदुघं भूयात् तेजस्त्रैलोक्यमङ्गलम् ॥ १॥
यत्र साम्राज्यचिह्नानि यामिनां हृदयैः सह ।
श्रीश्च जाग्रति तज्जीयाच्छ्रीश! त्वच्चरणाम्बुजम् ॥ २॥
यच्चादिकवयो व्यासप्रमुखाः सपितामहाः ।
भागीरथीसरस्वत्योः प्रवाहप्रभवं विदुः ॥ ३॥
(युग्मकम्)
किं ब्रूमः प्रपदं देव! यस्य प्रतिनिधावपि(१) ।
पृष्ठे जरढकूर्मस्य जगती प्रतितिष्ठति ॥ ४॥
तेऽमी नखेन्दवो देव! यान् हि नाभिसरोजभूः ।
पुरा सिसृक्षितस्येन्दोः प्रतिमामन्वमन्यत ॥ ५॥
जयतां जगतां नाथ! गुल्फावुत्फुल्लविभ्रमौ ।
यावनुस्मरतां गाढमुन्नतिर्न(२) तथानयोः ॥ ६॥
तव देव! पदं धन्या मणिभूषणमण्डली ।
वेषान्तरेण वेदान्तवाणीव विनिषेवते ॥ ७॥
निर्वाणसंज्ञकं देव! तव तत् परमं पदम् ।
चिरात् प्रविशतां शङ्के जङ्घे मङ्गल्यतोरणे ॥ ८॥
एते ते जानुनी नाथ! यशोदाङ्गणरिङ्गिणी ।
लक्ष्मीः करीषगन्धान्ध्यच्छलाज्जिघ्रति(३) ये (स्मिता?)(४) ॥ ९॥
तावूरू जयतां यौ किं द्वौ करौ स्मरहस्तिनः ।
हस्तिपृष्ठाप्रतिष्ठश्चेन्नैव(५) देवः श्रियं जयेत् ॥ १०॥
त्वत्कटीतटसौभाग्ये स्वामिन्नास्मद्गिरां गतिः ।
लक्ष्मीवसुन्धराधन्यमनीषास्तत्र जाग्रतु ॥ ११॥
कामरूपैव देव! श्रीर्येयं वक्षस्तटे स्थिता ।
कटीतटेऽपि कामान्धा भाति पीताम्बरात्मना ॥ १२॥
काञ्चीयं काञ्चनी नाथ! भाति रत्नप्रभोद्भटा ।
मुग्धयेव कृता लक्ष्म्या मदान्धस्मरशृङ्खला ॥ १३॥
सेयं नाभी यया देव! शङ्खः सङ्घृष्य गर्जति ।
लक्ष्मीविरिञ्चयोः स्पर्धा वस्तुं यत्सरसीरुहे ॥ १४॥
वलित्रयमिदं देव! जगत्त्रयमनोहरम् ।
माधुर्यवारिधेर्धत्ते वीचीनां विभ्रमश्रियम् ॥ १५॥
श्रीमानुदरबन्धोऽयं श्रियं देवस्य पुष्यति ।
कान्तिसिन्धौ दृशोः क्रीडाप्लवः कॢप्त इव श्रियः ॥ १६॥
लोकैकनाथ! रम्येयं रोमराजी विराजते ।
कॢप्तेव प्रथमं लक्ष्म्या वक्षोहर्म्याधिरोहणी ॥ १७॥
श्रीवत्सः श्रीनिधे! सोऽयं श्रियं कामपि पुष्यति ।
यः पद्मजापदाम्भोजक्रीडाचिह्नानि निह्नुते ॥ १८॥
चकास्ति कौस्तुभः सोऽयं तव देव! भुजान्तरे ।
पयोधिराजकन्याया हर्म्यदीप इवार्पितः ॥ १९॥
नानारत्नसहस्राणि नाथ! वक्षसि जाग्रति ।
रत्नाकरसुतोद्वाहयौतकानीव कानिचित् ॥ २०॥
वैजयन्तीमिमां(६) देव! मन्ये साधारणीं(७) ध्रुवम् ।
ममत्वपात्रं भृङ्गाणां देवस्य(८) मदनस्य च ॥ २१॥
भान्ति ते जगतां नाथ! भुजा भूषणभूषणाः ।
जगद्भारोद्वहैश्चक्रे यैश्चक्रादिभरश्रमः ॥ २२॥
पाणयश्चक्रपाणे! ते भान्ति भक्ताभयप्रदाः ।
येषां दक्षिणतैवासील्लक्ष्मीपाणिग्रहोत्सवे ॥ २३॥
लोकपालललाटेषु लक्ष्म्याश्च स्तनमण्डले ।
लेखारसज्ञैर्यैः पञ्चशाखैः पञ्चशरः स्मरः ॥ २४॥
(युग्मकम्)
तेऽमी कररुहा देव! येषां विभ्रमविक्रमाः ।
कमलाविपुलोत्तुङ्गस्तनयोर्हृदि च द्विषः ॥ २५॥
कम्बु ग्रीवामिमां नाथ! कथं नु कथयामहे ।
लक्ष्मीकङ्कणमुद्राभिर्या त्रिरेखास्थितिं जहौ(९) ॥ २६॥
कर्णपाशाविमौ देव! स्फुरन्मकरकुण्डलौ ।
अवशाद्यत्प्रवेशान्धा मृगा मृगदृशां दृशः ॥ २७॥
तौ कपोलाविमौ देव! यावुद्वीक्ष्य रमाभुवौ ।
मन्ये नान्यावमन्येतां(१०) मङ्गल्यमणिदर्पणौ ॥ २८॥
अधरं देव! बिम्बोष्ठममृतं भुवनोत्तरम् ।
आहुर्विपर्ययेणात्र(११) प्रमाणं प्राणवल्लभे ॥ २९॥
तवाधरसुधा सेयं यां निपीय पयोधिजा ।
ततः प्रभृति वै देव! सुधान्तरमुपेक्षते ॥ ३०॥
दन्तपङ्क्तिरियं देव! दशनच्छदरञ्जिता ।
मुखेन्दुकान्तेराधत्ते मुक्तावलिपरिष्क्रियाम् ॥ ३१॥
देव! त्वन्नासिकावज्रकुसुमं प्राप्य मन्मथः ।
कुसुमान्तरसम्पत्तिं मन्यते पङ्क्तिपूरणम् ॥ ३२॥
अनयोः पुण्डरीकाक्ष ! नेत्रयोः पुण्डरीकयोः ।
मुखेन्दुः कान्तिसरसी मूलभूमिस्तु चिन्त्यताम्(१२) ॥ ३३॥
देव! क्रीडाकटाक्षाय भूयो बद्धोऽयमञ्जलिः ।
कामं न केवलं लक्ष्म्या यो दुग्धे जगतामपि ॥ ३४॥
तदेतद् वदनं देव! माधुर्यमिव मूर्त्तिमत् ।
वीक्ष्य सेवाच्छलारूढनासाग्राङ्गुलि(१३) यज्जगत् ॥ ३५॥
यत्र स्वयंवरे स्पर्धा लक्ष्मीकान्त्योः किलाभवत् ।
वेदाश्च केलिजल्पाश्च सौभ्रात्रं यत्र बिभ्रते ॥ ३६॥
(युग्मकम्)
पद्मचन्द्रमधुज्योत्स्नाविवादान्ध्येष्वनादिषु ।
देव! त्वद्वक्रबिम्बस्य स्मितस्य च किमुच्यताम्(१४) ॥ ३७॥
कस्तूरीतिलकामोदे ललाटे भ्रमरैर्वृते ।
देव! त्वद्भ्रूलताभृङ्गचमू: पाति मुखाम्बुजम् ॥ ३८॥
अष्टमीन्दुनिभस्यास्य ललाटाष्टापदस्य ते ।
यौवराज्यपदं देव! मुखेन्दुरनुमन्यताम् ॥ ३९॥
नाथ! धम्मिल्लभारेऽस्मिन् नानासौरभनिर्भरे ।
भृङ्गैर्लक्ष्मीकटाक्षाणां जृम्भतेऽतिमृधं मुधा ॥ ४०॥
नाथ! त्वामेव मन्येऽहमचलं भुवनोन्नतम् ।
अनुल्लङ्घ्येव यन्मौलिं छलादर्कोऽपि(१५) सेवते ॥ ४१॥
देव! त्वद्भक्तिरथवा त्वत्तोऽपि द्विगुणोन्नता ।
जितस्त्वमसि यद्भाजा प्रह्लादेन रणेऽपि हि ॥ ४२॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ४३॥
तदिदं त्वद्वपुर्देव! नीलं निर्वृतिमन्मयम् ।
कान्तिभूषाशताभोगकर्बुरं भातु मे मुहुः ॥ ४४॥
तत्त्वं परं किमपि यत् स्वरसावभासि
सान्द्रप्रमोदलहरीभरिताखिलाशम् ।
कैवल्यविग्रहमिदं तदनुग्रहार्थ-
मस्मादृशां जयति तादृगुपात्तमूर्त्ति ॥ ४५॥
अनुभवतममुं भृशं दृशावभिनवकौस्तुभमालयानयां(१६) ।
भुवनविभुमभूतपूर्वया पुलकपरम्परया च भूषितम् ॥ ४६॥
श्रीकृष्णकेलिशुकवाङ्मयवीचिमाला-
लीलारसज्ञ(मकर) श्रवणाञ्चलस्य ।
देवस्य दिव्यहृदये हृदयङ्गमेयं
कण्ठस्थले च सुकृतां सुचिराय जीयात् ॥ ४७॥
इति श्रीकृष्णलीलाशुकमुनिविरचिता
सप्तचत्वारिंशत्सङ्ख्या अभिनवकौस्तुभमाला समाप्ता ।
पादटिप्पणी
१. साक्षात् तस्मिन् जगती प्रतितिष्ठतीति किमु वक्तव्यमित्यापिशब्देन द्योत्यते ।
२. उन्नतिरुत्कर्ष उत्सेधश्च ।
३. करीषगन्धान्ध्यं शुष्कगोमयगन्धव्याप्तत्वं तस्यच्छलात्
तद्रूपाद्वा कल्पिता-लिङ्गादित्यर्थः । जिघ्रति स्पृशति इति मन्ये इति
शेषः । एवञ्च लक्ष्मीसंसर्गजमेवेदं जानुनोः करीषगन्धान्ध्यं,
न त्वङ्गणरिङ्गणवशजनितमिति तात्पर्यं फलितम् । लक्ष्मीश्च
करीषिणी श्रीसूक्ते श्रूयते -- ``गन्धद्वारान्दुराधर्षां नित्यपुष्टां
करीषिणीम् । ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम्'' इति ।
४. ``सदा'' इति वा ``मुदा'' इति वा पाठो भवेत् ।
५. इदमर्धं ``इतिप्रविष्टप्रतिश्नेनैव देवः श्रियं जयेत्?''
इत्येवादर्श - पुस्तके दृश्यते ।
६. ``वैजयन्ती पताकायां जयन्त्यां केशवस्रजि'' इति यादवः ।
७. साधारणीं सामान्यवनिताम् ।
८. देवस्य प्रकरणात् तवेत्यर्थः ।
९. कम्बुना त्रिरेखेण भाव्यं, न तु त्रिरेखाहीनेन । ``त्रयी तु कम्बुः
शङ्खोऽस्त्री सुग्रीवो मधुरस्वनः । त्रिरेखः षोडशावर्तः'' इति वैजयन्ती ।
१०. अन्यौ वास्तवौ ।
११. भुवनोत्तरत्वादुत्तर शति हि बिम्बोष्ठो वक्तव्यः, न त्वधर इति ।
१२. विरोधिन इन्दोरुत्पत्तिस्थानत्वमद्भुतमिति भावः ।
१३. सेवायाः सेवाकालिकाञ्जलेश्छलाव्द्याजाद् वस्तुतो विस्मयादित्यर्थः
आरूढनासाग्रा अङ्गुलयो यस्य तत् ।
१४. पद्मचन्द्रयोर्मधुज्योत्स्नयोश्चोत्कर्षाप्रतिष्ठानान्न किमपि
वक्तुमर्हमुपानतयेति भावः ।
१५. नेत्रस्थानावस्थानव्याजादित्यर्थः ।
सेवनं च मौल्यनुल्लङ्घनपूर्वमिहोत्प्रेक्ष्यम् ।
१६. अभिनवेति स्तुत्यर्थे नूतनार्थे च ।
Proofread by Preeti N. Bhandare