अच्युतशतकम्
वेदान्तदेशिकविरचितम् ।
(तिरुवहीन्द्रपुराख्ये औषधगिरौ)
(इदं शतकं मूलं प्राकृतभाषायामास्ते ।)
(लेखकैरेव संस्कृते परिवर्तितं मूलमेव अत्र दीयते ।)
नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः ।
गरुडनदीतटतमालं अहीन्द्रनगरौषधाचलैकगजेन्द्रम् ॥ १॥
किङ्करसत्य स्तुतिस्तव स्वयम्भू गेहिनी विलासव्याहृतिमयी ।
फणिता बालेन मया पञ्जरशुक जल्पितमिव करोतु प्रसादम् ॥ २॥
मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्नाप्रसरे ।
लग्नं लभतां विशुद्धिं सलिलमिव त्रिपथगास्रोतोगतम् ॥ ३॥
त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे ।
वन्दित्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुतिः ॥ ४॥
अस्मद्गुरूणामच्युत जिह्वासिंहासने लब्धप्रतिष्ठः ।
प्रतिपादितपरमार्थो वारयस्यपण्डितत्वमस्माकम् ॥ ५॥
हृदयेषु देशिकानां जाह्नवीलहरीषु पूर्णचन्द्र इव स्फुटः ।
कलुषजलेष्विव हंसः कषायकर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥ ६॥
आगममात्रप्रमाणः आगोपीजनं प्रकाश निजमाहात्म्यः ।
श्रद्धितहृदयसुलभो दूरं मुञ्चसि नतसत्य दोलायमानान् ॥ ७॥
सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् ।
उल्लङ्घितत्रिविधान्तमुपनिषदां शतानि गायन्ति त्वाम् ॥ ८॥
करोषि न क्रियसे केनापि स्थापयसि न संस्थाप्यसेऽनन्यस्थितः ।
हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघज्योतिस्स्फुरन् ॥ ९॥
अणुप्रमितस्याप्यच्युत शक्तिस्तव सकलधारणादिप्रभूता ।
तेन प्रतिवस्तुपूर्णः श्रूयसेऽप्रतिहतनिजस्थितिः सर्वगतः ॥ १०॥
सकलानां धरणनियमनस्वामित्वनियमसंस्थितः सर्वतनुः ।
श्रूयसेऽच्युत सर्वः सदा दर्शितकार्यकारणत्वकर्बुरः ॥ ११॥
पुरुषप्रधानशरीरो भुवनानां भवस्यच्युतोपादानम् ।
निजसङ्कल्पसनाथो वहसि निमित्तत्त्वमप्यद्भुतशक्तिः ॥ १२॥
विषमगुणाङ्कुरप्रकरे जलमिव सामान्यकारणं तव केलिः ।
निजकर्मशक्तिनियता अच्युत ब्रह्मादि स्थावरान्तविशेषाः ॥ १३॥
पुरुषास्तव विभूतिः अच्युत लक्ष्म्याः स्त्रीसंज्ञाः ।
नास्ति परं युवयोः सापि श्रीर्भवति तव किं पुनरितरत् ॥ १४॥
न खलु तव सदृशाभ्यधिकाः नाथ त्वमेव सर्वलोकशरण्यः ।
एतावज्ज्ञानसारमिति ज्ञातुं त्रिदशनाथेतरविचिन्ता ॥ १५॥
भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकटप्रभूतफला ।
अपि द्रुहिणप्रमुखैः आज्ञप्तिस्तवालङ्घनीयप्रभावा ॥ १६॥
नियमविधीनां प्रवृत्तिः सर्वेषामपि दाससत्योद्दिश्य त्वाम् ।
श्राद्धनिमन्त्रितब्राह्मणसमाधिसिद्धां लभन्ते त्रिदशा भुक्तम् ॥ १७॥
आराध्य त्रिदशविलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् ।
कर्मणां कल्पितानां करिष्यति कल्पान्तरेषु को निर्वेशम् ॥ १८॥
कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाञ्चनलतासहितः ।
नतसत्य सदाफलानि निजच्छायानिर्भिन्ननित्यतापत्रिभुवनः ॥ १९॥
सकलागमानां निष्ठा सकलसुराणामप्यन्तर आत्मा ।
सकलफलानां प्रसूतिः सकलजनानां समः खलु नतसत्य त्वम् ॥ २०॥
इति सर्वेषां समानः सत्यस्थितो दाससत्य सदा परिपूर्णः ।
कथं वहसि पक्षपातं पाण्डवप्रमुखेषु प्रेषणमपि सहमानः ॥ २१॥
विषमे कर्ममार्गे विपरिस्खलतां विह्वलितकरणानाम् ।
नाथ निखिलानामन्यो नास्ति त्वन्नतसत्य हस्तालम्बः ॥ २२॥
ज्ञानस्य कोऽविषयोऽच्युत करुणायास्तव को दूरस्थितः ।
शक्तेः कोऽतिभरस्तस्मात्खलूपायस्त्वमेव स्वयं सिद्धः ॥ २३॥
सङ्कल्पकर्णधारः किङ्करसत्य भवसागरेऽतिगभीरे ।
अनघस्त्वं खलु पोत आत्मनः कृपासमीरणेन प्रयुक्तः ॥ २४॥
अच्युत न ददति मोक्षमीश्वरभावेन भाविता इतरसुराः ।
रात्रिं परिवर्तयितुं लक्षमालेख्य दिनकराणामपि न क्षमम् ॥ २५॥
अमृतरससागरस्येव अहीन्द्रपुरनाथ निर्मलमहार्घाणि ।
तीर्यन्ते न विगणयितुं अनन्यसुलभानि तव गुणरत्नानि ॥ २६॥
भूषितश्रुतिसीमन्तो भुजगेन्द्रपुरेश सर्वगुणसीमान्तः ।
क्षपिततृषा मलमोहो मुनीनां हृदयेषु स्फुरसि श्यामलमयूखः ॥ २७॥
शुभलक्षणश्रीवत्सः शोभसे निर्मुक्तविरहक्षणश्रीवत्सः ।
रणदेवन सविहगः उद्भटगरुडनदीतीरवनसविधगतः ॥ २८॥
अकुमारयौवनस्थितमहीन्द्रपुरनाथाभिमतमनुरूपम् ।
नित्यं स्वभावसिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥ २९॥
त्रिगुणं तस्य विकाराः अच्युत पुरुष इत्यागमगण्यमानाः ।
अर्थास्तव खलु समस्ताः परस्मिन् रूपे भूषणास्त्रस्वरूपाः ॥ ३०॥
निर्यन्ति त्वत्तोऽच्युत निक्षपितविपक्षनिष्ठुरपराक्रमणाः ।
संस्थापितपरमधर्माः साधु परित्राणसत्फला अवताराः ॥ ३१॥
हरिमणिसदृक्ष निजरुचिहरितायमान भुजगेन्द्रपुरपर्यन्तः ।
काले दासजनानां कृष्ण घनो भवसि दत्तकारुण्यरसः ॥ ३२॥
गरुडनदीकच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहरः ।
दृश्यमानबहुलदानो दिशा गजेन्द्र इव खण्डितदनुजेन्द्रद्रुमः ॥ ३३॥
मुखचन्द्रमौलि दिनकरमध्यस्थितस्तव चिकुरभारान्धकारः ।
अघटितघटनाशक्तिं सत्यं स्थापयति दाससत्य समग्राम् ॥ ३४॥
परिहसितपूर्णचन्द्रं पद्मसदृक्षप्रसन्नलोचनयुगलम् ।
सङ्कल्पितदुरितान्यपि संस्मृतं हरति दाससत्य तव मुखम् ॥ ३५॥
माहात्म्यं तव महितं माङ्गलिकं तुलसीकौस्तुभप्रमुखानाम् ।
अच्युत स्थिरवनमालं वत्सं दर्शयति लक्ष्मी लक्षणसुभगम् ॥ ३६॥
निर्विशति नित्यतापो देवजनो देवनायक विधिप्रमुखः ।
शीतलशान्तप्रभूतां छायां तव विपुलबाहुकल्पद्रुमाणाम् ॥ ३७॥
सङ्कल्पचन्द्रक्षोभितत्रिगुणोदधि विपुलबुद्बुदप्रकरैः ।
ब्रह्माण्डैरपि भरितं किङ्करसत्य तव कस्मान्नु कृशमुदरम् ॥ ३८॥
नाभिरुहं तव नलिनं भुजगेश्वरनगरनाथ शोभते सुभगम् ।
मध्यस्थितब्रह्मभ्रमरं वत्सासनलक्ष्मीपादपीठसदृक्षम् ॥ ३९॥
दृढपीडितमधुकैटभशोणितपटलपरिपाटलाम्बरघटिता ।
राजत्यच्युत मुखरा रतिनाथ गजेन्द्रशृङ्खला तव रशना ॥ ४०॥
दासानां सत्य दृश्यते दानववीराणां दीर्घनिद्राशयनम् ।
तवोदरस्थितत्रिभुवनप्रासादस्तम्भसच्छायमूरुयुगम् ॥ ४१॥
जानुमणिदर्पणेन च जङ्घामरकतकलाचिकया च धन्या ।
अच्युत न मुञ्चति कान्तः लक्ष्मीरिव सरोजलाञ्छनौ तव चरणौ ॥ ४२॥
श्रुतिसीमन्तप्रसूनं शोभते नतसत्य तव सर्वशरण्यम् ।
क्रमणक्षणजनितसुरनदीप्रशमितत्रैलोक्यपातकं पदपद्मम् ॥ ४३॥
इति त्रिभुवनैकमूलमास्वादयन्त्यनघा अमृतस्वादुरसम् ।
ओषधिमहीधरपार्श्व उदितं त्वामोषधिमिव दासरुजाम् ॥ ४४॥
सिद्धाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्तः ।
अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्यन्ति त्वाम् ॥ ४५॥
विघटित निबिडान्धकारो घटमानज्योतिस्त्रिलोकैकग्रहपतिः ।
दृष्टगतो येषां त्वं नमत्सत्य न खलु तेषां मोहत्रियामा ॥ ४६॥
विषयरसे विरक्ताः विकारजननैरपि च न खलु विक्रियमाणाः ।
जीवन्मुक्तसदृशा अच्युत दृश्यन्ते पावनास्तव भक्ताः ॥ ४७॥
गन्धर्वनगरस्वप्नसदृक्षाणां श्रियां वनसरिताम् ।
न स्मरति त्वद्गृहीतः शरणागतसदामदो जीवगजः ॥ ४८॥
न महयन्ति ज्ञानवन्तः तरङ्गडिण्डीरबुद्बुदसदृक्षाणि ।
विधिप्रमुखाणां पदानि घनकन्दलीकन्द कदलीस्तम्भसमानि ॥ ४९॥
दृष्टस्वपरस्वभावाः पुरुषा गृहीत्वा स्वामिनस्तव शीलम् ।
नाथ नतसत्य सघृणाः न मुञ्चति कथमपि सर्वजनसौहार्दम् ॥ ५०॥
मानमदेर्ष्यामत्सरदम्भासूयाभयामर्षलोभमुखाः ।
दृश्यन्ते न मोहसुताः दोषा दासानां सत्य तव भक्तानाम् ॥ ५१॥
येषां मतिरितरमुखी कालः सकलोऽपि तेषां कलिविस्तारः ।
ये तव पदे प्रवणाः नास्ति कलिर्नागपतिनगरपते तेषाम् ॥ ५२॥
अत्यासन्नविनाशाः अच्युत पश्यन्ति तावके भक्तजने ।
मोक्षरुचीनां मूढा दिवसकरमण्डल इव च्छिद्रम् ॥ ५३॥
नित्रुटितदुर्मानघनाः निर्मलगुणघटिततारकाप्राग्भाराः ।
भासमानभक्तिज्योत्स्नाः नतसत्य स्फुरन्ति नभोनिभास्तव भक्ताः ॥
न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् ।
स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्तकिङ्कराणामिव लघ्वी ॥ ५५॥
कर्मगतिदोषदुःखिताः कृतान्तभ्रुकुटीभुजङ्गीदर्शनत्रस्ताः ।
अर्चन्ति तव चरणौ अच्युत प्रभ्रष्टमन्मथरसास्वादाः ॥ ५६॥
आलगति तव चरणौ अच्युत विधिनाऽप्यर्चनाऽऽचरिता ।
यैकान्तप्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥ ५७॥
तव मुखज्योत्स्ना द्रावितमानसशशिकान्तप्रवाहसन्निभबाष्पान् ।
अच्युत न मुञ्चसि भक्तान् कदम्बगोलनिभकण्टकायमाननिजाङ्गान् ॥
सर्वेऽपि निर्वैराः शरणागतसत्य गृहीतशाश्वतधर्माः ।
गतसङ्गास्तव भक्ताः यान्ति त्वामेव दुर्लभमितरैः ॥ ५९॥
अहिपतिनगरेन्द्र त्वां आसन्नमपि गगनमिव सदा दुर्ग्रहम् ।
विषयेषु विलगन्तः त्वरमाणा अपि न लभन्ते डोलायमानमनसः ॥ ६०॥
भक्तास्तावकसेवारसभरिताः सकलरक्षणोत्सुकरुचिना ।
करणानि धरन्ति चिरं काङ्क्षितमोक्षा अप्यच्युत त्वया स्थापिताः ॥
स्थिरगुणगिरिजनितैः सन्तारयसि नतसत्य निजभक्तैः ।
जन्मपरिपाटीजलधिं जङ्गमस्थिरसेतुदर्शनीयैर्जनान् ॥ ६२॥
प्रशमितभवान्तरभयाः प्राप्तं प्राप्तं हितमिति परिपश्यन्तः ।
भावयन्ति तव भक्ताः प्रियातिथिमिव नतसत्य पश्चिमदिवसम् ॥ ६३॥
प्रकटतिमिरे भुवने पात्रप्रतिष्ठापितपरमज्ञानप्रदीपाः ।
नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयम्प्रभं कृतकार्याः ॥ ६४॥
दृढतीव्रभक्तिनयनाः परिपश्यन्तोऽहीन्द्रपुरनाथ त्वाम् ।
प्राप्तास्तव सायुज्यं पङ्क्तिं पूरयन्ति पन्नगेन्द्रमुखानाम् ॥ ६५॥
सन्नतसुलभमच्युत समाधिसोपानक्रमविलम्बविमुखिताः ।
शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धुप्रमुखाः ॥ ६६॥
देवानां पशुसमानो जन्तुर्गत्वा देवनाथ तव पदम् ।
तैरेव सर्वैः संसरमाणैर्भवति सदा दत्तबलिः ॥ ६७॥
मोहान्धकारमहार्णवमूर्च्छितमायामहारजनिप्रत्यूषः ।
अच्युत तव कटाक्षो विमुक्तिप्रस्थानप्रथमपरिकरबन्धः ॥ ६८॥
मोक्षसुखवृक्षमूलं मोहजरातुरमहारसायनप्रवरम् ।
सकलकुशलैकक्षेत्रं किङ्करसत्य तव कीर्तनममृतनिभम् ॥ ६९॥
नास्त्यभिक्रमनाशो विच्छेदेऽपि प्रत्यवायप्रसङ्गः ।
स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तराद्भयात् ॥ ७०॥
अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्नाः ।
आराध्या भवन्ति परे किं तैः प्रसङ्गलम्भितप्रभावैः ॥ ७१॥
इतरत्रिदशाः प्रसन्नाः किङ्करसत्य मम किं नु करिष्यन्ति हितम् ।
नीहारघनशतैर्न खलु पूर्यते कथमपि चातकतृष्णा ॥ ७२॥
अनुगतसुखमृगतृष्णा अच्युत विश्राम्यति तव मामकतृष्णा ।
प्रवाहेषु प्रसृतायाः आश्रितप्रवहद्धनकृपासरितः ॥ ७३॥
विकलसकलाङ्गविषमान् धर्मान् नतसत्य ध्वजनिभान् धारयन् ।
कान्तारपान्थक इव स्खलच्चरणोऽस्मि कातरविशीर्यमाणः ॥ ७४॥
स्थिरधर्मवर्मस्थगितं अधर्मप्रवणानामग्रस्कन्धप्रवृत्तम् ।
अघटमानविप्रतीसारमच्युत मां हससि नूनं लक्ष्मीसमक्षम् ॥ ७५॥
तरितुमच्युत दुरितमस्मिन् देह एक दिवसेऽपि कृतम् ।
कालोऽलं न सकलः करुणायास्तव पूर्णपात्रमस्म्ययम् ॥ ७६॥
अच्युत तव गुणानां मम दोषाणामपि नास्ति कुत्रापि गणना ।
तथापि जयः प्रथमानामधिकं लीनानां भवति न खलु दौर्बल्यम् ॥ ७७॥
रात्रिं दिवसमच्युत त्रुटितः पतन्त्यायुर्द्रुमखण्डानि ।
दृष्ट्वापि दृप्तमनसं बालमिदानीमपि भरस्व मामप्रमत्तः ॥ ७८॥
निश्वासशङ्कनीये देहे पटलान्तसलिलबिन्दुसदृक्षे ।
जानासि नतसत्य त्वं जरत्करणेऽपि दीर्घयौवनतृष्णम् ॥ ७९॥
अज्ञातनिजकर्तव्यं यदृच्छया ज्ञातेषु मामपि प्रतिकूलगतिम् ।
इति निजस्वभावव्रीलितं हातुं दासानां सत्य न खलु तव युक्तम् ॥ ८०॥
कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् ।
शक्नोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निजहृदयनिक्षिप्तम् ॥ ८१॥
इदानीमुपर्यप्ययं गुणगृहीतो दारुपुत्रक इव परवशः ।
तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुखसङ्कल्पः ॥ ८२॥
निजकर्मनिगलयुगलमच्युत कृत्वा मम प्रियाप्रियवर्गे ।
कदा घोरकलेवरकारागृहकुहरनिर्गतं करिष्यसि माम् ॥ ८३॥
हार्दे त्वयि कदा विश्रान्तं ब्रह्मधमनिमार्गं गमिष्यन्तम् ।
दिनकरदत्ताग्रकरमच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥ ८४॥
कदा अमानवान्ताः अग्निमुखा आतिवाहिकास्तव पुरुषाः ।
अतिलङ्घयिष्यन्ति मामच्युत तमोगहनत्रिगुणमरुकान्तारम् ॥ ८५॥
लङ्घितविरजासरितं लम्भित सदा शुद्धसत्त्वमय सौम्यतनुम् ।
कृतब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥ ८६॥
संसारसागरादुत्क्षिप्तं त्रिदशनाथ स्फुरितालोकम् ।
कदा करिष्यसि हृदये कौस्तुभमणिदर्पणमिव लक्ष्मीपुलकितम् ॥ ८७॥
कदा तव पादपद्मे भविष्यामि नतसत्य केलिक्रान्त त्रिभुवने
मदनरिपुमकुटमण्डनसुरसरित्स्रोतः सूचितमधुप्रवाहे ॥ ८८॥
उपनिषच्छिरः कुसुममुत्तंसयित्वा तव पदाम्बुजयुगळम् ।
दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्षः ॥ ८९॥
अपुनर्निवृत्तियोग्यमवतारविहारसहचरत्वधन्यम् ।
आत्मसमभोगमात्रमनुभविष्यसि देवनाथ कदा नु माम् ॥ ९०॥
इति स्फुटमनोरथं मामेतादृशवचनमात्रसारं वशगम् ।
कुरुष्व निजगुणगणैः सत्यं दासानां सत्य सदा स्वच्छन्दः ॥ ९१॥
बालप्लवग इव तरळो मारुतिजातिरिति सागरं तरितुमनाः ।
प्रार्थये त्वामच्युत काङ्क्षितपदपद्म क्षमस्व मम कापेयम् ॥ ९२॥
अच्युतविषयाक्रान्तं भवार्णवावर्तभ्रमि निस्त्रुट्यमानम् ।
जननी स्तनन्धयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥ ९३॥
कर्ममयघर्मतप्तं सुखमृगतृष्णाभिः कदाऽप्यतृष्णाकम् ।
कारय निर्वृतं मां करकाशिशिरैरच्युत कटाक्षैः ॥ ९४॥
तव चिन्तनविमुखानां दृष्टविषाणामिव दर्शनान्मोचयन् ।
अमृतमुखानामिव मामच्युत भक्तानां नयस्व नयनासारम् ॥ ९५॥
विषमिलितमधुनिभेषु च तृणप्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् ।
अमृतनिधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥ ९६॥
नित्यमस्मिन् कृपणे निक्षिप नमत्सत्य निधिसदृक्षौ ।
प्रवहन्नखप्रभाझरप्रशमितप्रणमत्सञ्ज्वरौ तव चरणौ ॥ ९७॥
शरणागत इति जनिते जनवादेऽपि यद्यच्युत न रक्षसि माम् ।
भवेत्खलु सागरघोषः सागरपुलिने तादृशं तव वचनम् ॥ ९८॥
निक्षिप्तोऽस्मि चागतिः निपुणैस्त्वयि नाथ कारुणिकैः ।
तांस्तव दृष्ट्वा प्रियान् भृतं नतसत्य भरस्वात्मनो भरम् ॥ ९९॥
नतसत्य पक्कणानीतगलितकिरातभ्रमनिजकुमारमिव नृपः ।
भविष्यद्यौवनवधूं वर इव मां लभस्व मन्त्रजनविज्ञापितम् ॥ १००॥
इति कवितार्किककेसरि वेदान्ताचार्य वेङ्कटेशविरचितम् ।
सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥ १०१॥
इति वेदान्तदेशिकविरचितं अच्युतशतकं सम्पूर्णम् ।
This is a stotra in prAkR^itam (a vernacular dialect derived from Sanskrit). Ladies in ancient Sanskrit plays were invariably made to talk only in this language, As deshika regarded himself as a nAyikA (lady love) in regard to the Lord of Tiruvahindrapuram, he must have sung this stotra in what he himself calls “chintai-kavar-prAkR^itam” (prAkR^itam that attracts the mind). The poet himself has named the stotra as achyuta shatakam. The names devanAtha, and dasha-satya also occur very frequently in addition to the name achyuta. Being a shatakam (100 shlokas) several topics of philosophy and religion are dealt with in detail. After the prefatory portion, the stotra can be seen to deal with the Lord’s svarUpa up to shloka 163. As in devanAyaka pa~nchAshat here also the several parts (a~Ngas) of the Lord's Tirumeni (Body) are enjoyed in the order from head to foot (172 to 181). shlokas 182 to 203 deal elaborately with several aspects of the greatness of the Lord’s Devotees. shlokas 210 onwards are about the poet himself, his present afflicted state, his hopes, fears and prayers, and appeals for help and succour. The stotra winds up with a request to the Lord to receive him as a bridegroom receives his bride at a wedding.
Proofread by PSA Easwaran