अदितिकृतं १ विष्णुस्तोत्रम्
अदितिरुवाच ।
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याणकल्याणायादिवेधसे ॥ १७॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ॥ १८॥
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः पद्मासिहस्ताय नमः कनकरेतसे ॥ १९॥
तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥ २०॥
जगच्च तिष्ठते यत्र जगतो यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे ॥ २१॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः ॥ २२॥
बहिर्ज्योतिरलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥ २३॥
तस्मै समस्तजगताममराय नमो नमः ।
आद्यः प्रजापतिः सोऽपि पितॄणां परमः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ २४॥
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ २५॥
यस्तु सञ्चिन्त्यमानोऽपि सर्वं पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥ २६॥
ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् ।
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥ २७॥
यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ २८॥
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥ २९॥
यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥ ३०॥
आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥ ३१॥
योऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ ३२॥
मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः ।
रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ॥ ३३॥
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥ ३४॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभुमव्ययम् ॥ ३५॥
यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ ३६॥
इति वामनपुराणे सप्तविंशाध्यायान्तर्गतं
अदितिकृतं विष्णुस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय २७/१७-३६॥
vAmanapurANa . adhyAya 27/17-36..
Proofread by PSA Easwaran