अदितिकृतं ३ विष्णुस्तोत्रम्
अदितिरुवाच ।
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन ।
सत्त्वादिगुणभेदेन लोकव्यापारकारण ॥ १९॥
नमस्ते बहुरूपायारूपाय महात्मने ।
सर्वैकरूपरूपाय निर्गुणाय गुणात्मने ॥ २०॥
नमस्ते लोकनाथाय परमज्ञानरूपिणे ।
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥ २१॥
यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः ।
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ॥ २२॥
श्रुतयो यं न जानन्ति न जानन्ति च सूरयः ।
तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ॥ २३॥
यस्यावलोकनं चित्रं मायोपद्रवकारणम् ।
जगद्रूपं जगद्धेतुं तं वन्दे सर्ववन्दितम् ॥ २४॥
यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ।
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ॥ २५॥
यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ।
अत्यासन्नं च भक्तानां तं वन्दे भक्तसङ्गिनम् ॥ २६॥
यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ।
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ॥ २७॥
यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्ठितम् ।
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ २८॥
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ २९॥
हरिरूपी महादेवः शिवरूपी जनार्दनः ।
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ॥ ३०॥
ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः ।
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ ३१॥
हृत्पद्मस्थोऽपि योग्यानां दूरस्थ इव भासते ।
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ॥ ३२॥
यन्मुखाद्ब्राह्मणो जातो बाहुभ्यां क्षत्रियोऽजनि ।
ऊर्वोर्वैश्यः समुत्पन्नः पद्भ्यां शूद्रोऽभ्यजायत ॥ ३३॥
मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।
मुखादग्निस्तथेन्द्रश्च प्राणाद्वायुरजायत ॥ ३४॥
ऋग्यजुःसामरूपाय सत्यस्वरगतात्मने ।
षडङ्गरूपिणे तुभ्यं भूयो भूयो नमो नमः ॥ ३५॥
इति नारदपुराणे पूर्वभागे एकादशाध्यायान्तर्गतं
अदितिकृतं विष्णुस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय १०॥ ११/१९-३९॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 10.. 11/19-39..
Proofread by PSA Easwaran