अम्लानपङ्कजमालाबन्धपञ्चकम्
(स्रग्धरावृत्तम् *)
धाता दाताविता त्वं गृह इह गहने लोकशोकघ्नकर्मा
दीनानां नाथ! नान्यो (१)हृतनतपतनस्त्वां विना विश्ववित्तः(२) ।
(३)मायेगा ये न ये स्वामनु ननु मनुजास्तैः कृतं कृत्मकृत्यं
वाविद्यावित्तविघ्नैर्वत! हृतमतयो राम! वा मद्यमत्ताः ॥ १॥
ज्ञानात्मानादिनाथः (४)स्वजनजयजनुः पावनो वर्ण्यवर्यः
सेवा ते वासवार्हा किमुत मुनिमुदे राम! भूमन् ! नमस्ते ।
(५)कालं कालं बलं त्वद्भुजमज! । न जहातीश! भो शर्वशक्ते!
त्वं हंहो हन्त(६) ! हन्ता हरिररिहरिणो रावणोऽवद्यवर्त्मा ॥ २॥
वीरो धीरो गुरो ! त्वं शुचि(७)रुचिरुचितं सेवितुं विज्ञवित्तं
मोदाढ्यो दासदायः(८) खलबलविलयो भावनावत्सु(९) वश्यः ।
शान्तोऽनन्तोऽतितोषात्समममरमणे! । भासि पासि स्वसिद्धः
साधुर्बन्धुर्विधुर्भोः कुरु गुरुकरुणां सेवकेऽव स्ववत्सम् ॥ ३॥
माने दानेऽवनेऽलं त्वमसि महिमनोमोहनो हर्षहर्म्यं
कीशादीशातिशातं सुरनरवर! ते ह्यादरादत्र दत्तम् ।
स्वाचारं चापचारुव्रतमत इतरे त्वां न केऽनर्घ्यनम्राः
सेवां ह्येवाङ्ग वाञ्छन्कपिरपि स पिनाकी सदा सख्यसक्तः ॥ ४॥
स्वौजा(१०) राजा प्रजानां त्वमतिमहिमहःपालको लब्धलक्षो
भोगी त्यागी भगी(११) सोत्सवनवसवको मन्दकन्दर्पदर्पः ।
आशानाशान्न शाठ्यं कृतमुत नतरां घात एतच्च तज्ज्ञै-
र्ज्ञातं तातं हितं त्वां जगुरगुरुगुरुं(१२) ज्ञानिनो नित्यनिष्ठाः ॥ ५॥
इति श्रीरामनन्दनमयूरेश्वरकृतं अम्लानपङ्कजमालाबन्धपञ्चकं सम्पूर्णम् ।
टिप्पणि
* स्रग्धरावृत्तपादे सर्वेऽपि यतिविभागाः समानाः सप्ताक्षराश्च । अतश्चित्रकाव्येष्वन्यतमस्याम्लानपङ्कजमालाबन्धस्य तदेवातावोपकरोति । अस्मिन् हि द्वादश यतिविभागाः प्रतिश्लोकं तावन्ति पङ्कजानीति कल्प्यते । उद्धाररातिस्त्वियम् । प्रथमस्यां पङ्क्तावक्षरमेकं द्वितीयस्यां त्रीण्यक्षराणि तृतीयस्यां च पुनरक्षरमेकमिति क्रमेण लिखिते एतान्येव पञ्चाक्षराणि सप्त सम्पद्यन्ते । प्रथमपङ्क्तिस्थितं प्रथममक्षरं, द्वितीयपङ्क्तिस्थितं मध्यमं द्वितीयमक्षरं, द्वितीयपङ्क्तिस्थितं प्रथम तृतीयं, मध्यमं चतुर्थ, तृतीयं पञ्चमं पुनर्मध्यमं षष्ठं, तृतीयपङ्क्तिस्थं च सप्तममिति वाचनक्रमस्तु इह योजितादुद्धारादर्शपत्रादवगम्येत ।
१। हृतं नतानां भक्तानां पतनं नाशो निरयगमनं वा येन सः ।
२। विश्वमेव वित्तं धनं यस्य तादृशः ।
३। ये मायेशाः मायाधीनाः, ये च त्वदनुसरणेऽनुत्कण्ठाः तेषां नान्यत्किञ्चित्कर्तव्यं विद्यते । ते हि अविद्यैव वित्तं तदेव विनास्तैर्दूषितमतयो भवन्ति वा मद्यमत्ता वा भवन्तीति कथञ्चिद्योजनीयम् ।
४। स्वजनानां भक्तानां जयस्याभ्युदयस्य जनुः प्रभवः ।
५। कालं कालं सर्वदा बलं त्वद्भुजं न जहातीत्यन्वयः ।
६। हंहो इत्याश्चर्यार्थकमव्ययम् । हन्ता हरिः मारकः सिंहः, निन्धकर्मा रावणस्तु अरिहरिणः ।
७। शुद्धतेजाः ।
८। दासस्य दायः पित्राद्यागतं धनम् ।
९। भक्तिमत्सु ।
१०। स्वयम्प्रकाशः ।
११। सिद्धिसम्पन्नः ।
१२। अविद्यमानः गुरुः श्रेष्ठः यस्य सः अगुरुः सर्वश्रेष्ठो गुरुरित्यर्थः ।
Proofread by Rajesh Thyagarajan