बलिकृतं १ श्रीकृष्णस्तोत्रम्
बलिरुवाच ।
अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेन च ।
पुरा वामनरूपेण त्वयाऽहं वञ्चितः प्रभो ॥ २३॥
सम्पद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः ।
शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम् ॥ २४॥
अधुना मम पुत्रोऽयं बाणः शङ्करकिङ्करः ।
आराच्च रक्षितः सोऽपि तेनैव भक्तबन्धुना ॥ २५॥
परिपुष्टश्च पार्वत्या यथा मात्रा सुतस्तथा ।
गृहीतवांश्च तत्कन्यां बलेन युवतीं सतीम् ॥ २६॥
समुद्यतश्च तं हन्तुं कार्तिकेनापि वारितः ।
आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमः ॥ २७॥
सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः ।
करोषि जगतां नाथ कथमेवं व्यतिक्रमः ॥ २८॥
त्वया च निहतो यो हि तस्य को रक्षिता भुवि ।
सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम् ॥ २९॥
केषां सुराणामस्त्रेण तदेव च निवारितम् ।
यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम् ॥ ३०॥
तथा भवांश्च देवानां सर्वेषामीश्वरः परः ।
यथा भवांस्तथा कृष्णो विधाता वेधसामपि ॥ ३१॥
विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा ।
स्वयं विधाता रजसः सृष्टिकर्ता पितामहः ॥ ३२॥
कालाग्निरुद्रो भगवान्विश्वसंहारकारकः ।
तमसश्चाश्रयः सोऽपि रुद्राणां प्रवरो महान् ॥ ३३॥
स एव शङ्करांशश्चाप्यन्ये रुद्राश्च तत्कलाः ।
भवांश्च निर्गुणस्तेषां प्रकृतेश्च परस्तथा ॥ ३४॥
सर्वेषां परमात्मा वै प्राणा विष्णुस्वरूपिणः ।
मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः ॥ ३५॥
प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्वरी ।
स्वात्मनः प्रतिबिम्बस्ते जीवः सर्वेषु देहिषु ॥ ३६॥
जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा ।
सर्वे यान्ति त्वयि गते नरदेवे यथाऽनुगाः ॥ ३७॥
सद्यः पतति देहश्च शवोऽस्पृश्यस्त्वया विना ।
बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया ॥ ३८॥
त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते ।
त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी ॥ ३९॥
परा नारायणीशानी तव माया दुरत्यया ।
त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः ॥ ४०॥
सर्वेषामपि विश्वेषामाश्रयो यो महान्विराट् ।
स शेते च जले योगाद्विश्वेशो गोकुले यथा ॥ ४१॥
स एव वासुर्भगवांस्तस्य देवो भवान्परः ।
वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः ॥ ४२॥
त्वमेव कलया सूर्यस्त्वमेव कलया शशी ।
कलया च हुताशश्च कलया पवनः स्वयम् ॥ ४३॥
कलया वरुणश्चैव कुबेरश्च यमस्तथा ।
कलया त्वं महेन्द्रश्च कलया धर्म एव च ॥ ४४॥
त्वमेव कलया शेष ईशानो नैऋतिस्तथा ।
मुनयो मनवश्चैव ग्रहाश्च फलदायकः ॥ ४५॥
कलाकलायाश्चांशेन सर्वे जीवाश्चराचराः ।
त्वं ब्रह्म परमं ज्योतिर्ध्यायन्ते योगिनः सदा ॥ ४६॥
तं त्वाद्रियन्ते भक्तास्ते ध्यायन्ते य तदन्तरे ।
नवीननीरदश्यामं पीतकौशेयवाससम् ॥ ४७॥
ईषद्धास्यप्रसन्नास्यं भक्तेशं भक्तवत्सलम् ।
चन्दनोक्षितसर्वाङ्गं द्विभुजं मुरलीधरम् ॥ ४८॥
मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ।
अमूल्यरत्ननिर्माणकेयूरवलयाविन्तम् ॥ ४९॥
मणिकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
रत्नसाराङ्गलीयं च क्वणन्मञ्जीररञ्जितम् ॥ ५०॥
कोटिकन्दर्पलीलाभं शरत्कमललोचनम् ।
शरत्पूर्णैन्दुनिन्दास्यं चन्द्रकोटिसमप्रभम् ॥ ५१॥
वीक्षितं सस्मिताभिश्च गोपीनां कोटिकोटिभिः ।
वयस्यैः पार्षदैर्गोपैः सेवितं श्वेतचामरैः ॥ ५२॥
गोपबालकवेषं च राधावक्षःस्थलस्थितम् ।
ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम् ॥ ५३॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च योगीन्द्रैः प्रणतं स्तुतम् ।
वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम् ॥ ५४॥
स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतमं परम् ।
सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम् ॥ ५५॥
निर्लिप्तं च निरीहं च भगवन्तं सनातनम् ।
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे
एकोनविंशाधिकशाततमाध्यायान्तर्गतं बलिकृतं
श्रीकृष्णस्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय ११९/२३-४६॥
brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 119/23-46..
Proofread by PSA Easwaran