भावविज्ञप्तिस्तवः

भावविज्ञप्तिस्तवः

श्रियः पतिं तत्पदपङ्कजस्पृहा- तृणीकृतान्यं यतिशेखरं तथा । श्रीरङ्गसूरिं मम देशिकेन्द्रं श्रीमच्छठारिं च नितान्तमाश्रये ॥ १॥ यद्वक्षःस्थलमन्दिरं प्रविलसन्माणिक्यमुक्तावली- दोलान्दोलनरागलोलहृदया निःसीमभाग्योदया । श्रीदेवी समलङ्करोति करुणापीयूषपाथोनिधि- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ २॥ भागं यस्य च दक्षिणं भगवती सौभाग्यसौशील्यभू- र्भूदेवी सततं विभूषयति यद्वामं च लीलाभिधा । देवीनीलसरोजसुन्दररुचिःसौन्दर्यलीलागृहं चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ३॥ निर्लोभैरपि निःस्पृहैरपि दरानन्दैकमग्नैरपि प्रेम्णा सस्पृहमात्तलोभमसकृद्यद्रूपमालोक्यते । नैतावन्न भवन्त्यनुक्षणमभिप्रेक्ष्यापि तृप्तास्तत- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ४॥ श्रीदेवीपरिशोभिताच्छहृदया भूभूषितादक्षिणे लीलास्वीकृतवामभागरुचिरा मूर्तिः परा राजते । यस्यैवोत्सवमूर्तिरित्यभिधया चेतश्चमत्कारिणी चेतासद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ५॥ यस्याङ्घ्रिस्मरणं समस्तविपदामुन्मूलनं सम्पदा सर्वासामभिवृद्धिदं स्वजनतोद्धारप्रवृद्धाग्रहम् । सद्विद्योदयदं जवादभयदं श्रेयःसमूहप्रदं चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ६॥ भ्रारन्त्वाभूवलयं दिशोऽपि निखिला लोकानधस्थांस्तथै- वोर्ध्वस्थानभिवीक्ष्य नात्मसदृशं लावण्यलक्ष्मीः स्वयम् । प्रेम्णामुं समुपाश्रितेति जनधीर्यद्दर्शने जायते चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ७॥ इन्दौ शारदरात्रिकैरवसभासौभाग्यशोभाकरे पद्मे पद्मनिवासिनीमुखनिभेप्यत्यन्तमन्दादरा । यस्मिन्नीक्षणगोचरे सति नृणां दृष्टिः सदाजायते चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ८॥ रेवत्यां स्वजनाभिलाषचयधुक्पादाब्जयुग्मानतेः श्रीदेवीविलसत्सुवक्षस इलालीलाश्रितस्य प्रभोः । यात्रा यस्य विमानगस्य नगरे सञ्जायते सर्वत- श्चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः स मे ॥ ९॥ कति कति न विलोकितानि लोके हरिसदनानि मनोमनोहराणि । तदपि मम रतिः सुरासुरार्च्ये प्रतिदिनमेधत एव रङ्गराजे ॥ १०॥ पुर्य्यः सप्त नमोऽस्तु वः प्रतिदिनं मोक्षाख्यभिक्षाप्रदा यूयं वः शुभकीर्तयः प्रतिमहाशास्त्रं प्रसिद्धाश्चिरात् । क्षन्तव्यं मम मानसं तु चपलं संसेव्य युष्मानपि प्रेम्णा शान्तिमुपैति नैवहि विना श्रीरङ्गराजप्रभुम् ॥ ११॥ दृष्टेव काशी मथुरा च काञ्चीयुगं प्रभो द्वारवती तथैव । पुर्यप्ययोध्या न मयानुभूतं कुत्रापि युष्मात्पुरवाससौख्यम् ॥ १२॥ तर्कव्याकरणामृताब्धिविरता साहित्यमन्दादरा- वेदान्तेष्वपि निःस्पृहापि च महाकोशेषु मुक्तादरा । चेतोवृत्तिरियं प्रभो विरहिणी कान्तेव सद्वंशजा त्यक्त्वा ये चरणाम्बुजं न रमते श्रीरङ्गभर्तुः प्रभो ॥ १३॥ प्रभो गङ्गायां वा सरिति यमुनायामपि मुदा प्रयागे वा तिष्ठन् शयनमशनं वाऽप्यनुभवन् । कदा श्रीरङ्गेशप्रभुचरणसेवासुखमहं पुनः प्राप्स्यामीति प्रतिलवमनुध्याननिरतः ॥ १४॥ भक्ताभीप्सितपूर्तिपण्डितपदाम्भोजैकवारस्मृते- र्विश्वापत्प्रशमप्रवीणहृदय श्रीरङ्गराजप्रभो । आयासः कतमस्तवाऽस्ति भगवन् भावत्कपादाम्बुज- द्वन्द्वाऽदूरनिवासवाञ्छितफलं दातुं दयाब्धेऽद्यमे ॥ १५॥ इन्द्रायेन्द्रपदं निधीश्वरपदं यक्षाधिराजाय वा दारिद्र्यापरमूर्तये निरुपमैश्वर्यंसुदाम्नेमुदा । दातुं गाढनिबद्धसत्परिकरस्यासीन्नलो भाङ्कुरो मद्वाञ्छापरिपूरणे कथमहो क्षोभोऽस्ति लोभस्तव ॥ १६॥ नैन्द्रे पदे न निधिनाथपदे पदे न क्ष्मापालकस्य न परत्रच मेऽस्ति वाञ्छा । श्रीरङ्गराज भवदेकसमीपवास- वाञ्छास्तिसाऽपि भवता न हि पूर्यते किम् ॥ १७॥ जिह्वे निरर्गलतरासि विचारय त्वं किं जल्पसि प्रणतवत्सल एष ईशः । यद्यत्करोति स विभुस्तदसंशयांशं विद्धि स्वकीयजनतोभयलोकपथ्यम् ॥ १८॥ युष्मत्पादाम्बुरुहविरहव्याधितप्ताशयोऽयं दासो जल्पेत्किमपि यदिह श्रापते तन्न चिन्त्यम् । जाने यद्यप्यखिलजगतां श्रेयसे ते प्रवृत्ति बद्धोत्साहां त्यजति न मनोऽथाऽपि वाचालतां मे ॥ १९॥ श्रीरङ्गराज हृदयं भवदङ्घ्रियुग्मे देहस्तु सञ्चरित सम्प्रति यत्र कुत्र । इच्छा भवेत्तव यदा भगवंस्तदाऽयं कार्यस्त्वदीयपदपङ्कजसन्निधिस्थः ॥ २०॥ श्रीरङ्गराज तदलं बहुजल्पनेन यत्र क्व वा भवतु भाग्यवशात्स्थितिर्मे । चेतस्थितिस्तु भवदीयददाब्जयुग्मे भूयादहर्निशमियं चरमाऽर्थना मे ॥ २१॥ श्रीवेणुगोपालशठारिनाथ- श्रीभाष्यकारा अपि चारुरूपाः । श्रीसौम्यजामातृमुनिश्च नित्यं यद्दक्षिणे भान्ति कृतप्रतिष्ठाः ॥ २२॥ श्रीमद्रमारमणवेङ्कटशैलनाथा- ऽनाथं जनं विविधतापभियाऽभियातम् । यद्वामभागपरिशोभितदिव्यरूपः शं पश्य मां निजकटाक्षविचित्रपातैः ॥ २३॥ सतस्तलोकस्म मनोहरन्ती निःसीमसौन्दर्यभरेण नित्यम् । मूर्तिर्मनो मोहमतो स्म सा मे श्रीरङ्गनाथस्य दयासुधाब्धेः ॥ २४॥ हे वेणुगोपाल मदीयगोगणः समर्पितोऽस्त्येव भवत्पदान्तिके । स चेद्विमार्गं श्रयिता तदा तु तद्गोपालतालाञ्छनकृत्तव प्रभोः ॥ २५॥ ततः प्रणामान् शतशः सहस्रशः समर्प्य विज्ञापयतीह किङ्करः । एष त्वदीयः स मदीयगोगणो विमार्गगो नैव भवेतथा कुरु ॥ २६॥ शठारे स्वामिन् हे मम तव पदाम्भोरुहयुगं श्रितस्यापीहैते दृढतरहठादिन्द्रियशठाः । तुदन्ति स्वान्तं तत्किमिति शठशत्रोस्तव जगत्पवित्रां कीर्ति नो हरति तदिमान् दण्डय विभो ॥ २७॥ वेदान्ताम्बुधिमन्थते न हि सुरा नैवाऽसुरानाऽचलो नाहिर्नात्मनि कूर्पता विषभिया शम्भुश्च नापेक्षितः । यस्याऽशेषमनुष्यपेयमकरोद्वेदार्थसारामृतं यस्तं त्वद्भुतविष्णुमानसमना रामानुजार्यं मुहुः ॥ २८॥ येऽपारसंसारसमुद्रमग्रा- नज्ञान् विलोक्यातिदयार्द्रचित्ताः । सन्दर्शयामासुरमुं सुमार्गे श्रीलक्ष्मणार्यान्नम मे मनस्तान् ॥ २९॥ श्रीभाष्यनिर्माणयशःशरीर- मद्याऽपि येषामतिचित्रमस्ति । अमृत्युमार्यं चरसाऽप्यजीयं श्रीलक्ष्मणार्यान् नम तान् मनो मे ॥ ३०॥ आत्मप्रवर्तितमनुत्तमसम्प्रदायं द्रष्टुं पुनर्धृतजनीनिव लक्ष्मणार्यान् । मन्यन्त उत्तम जनानिह यान्मनस्तान् जान्मातृसंज्ञकमुनीन्नम सौम्य पूर्वान् ॥ ३१॥ अञ्जनाचल श‍ृङ्गारे श्रीनिवासे रतिर्मम । कालत्रये निरावाधा भूयादित्यर्थ्यतेऽनिशम् ॥ ३२॥ वैश्या धार्मिककर्ममग्नमनसो यत्पादपद्मद्वयी- भक्तिं प्रेमरसप्रभिन्नमनसः कुर्वन्ति निर्हेतुकीम् । यस्तेषां परिपूर्णतां नयति हृद्वाञ्छाः क्षणेनाऽखिला- श्चेतःसद्मनि सर्वदा विजयतां श्रीरङ्गराजप्रभुः ॥ ३३॥ काले नेत्रधराङ्कभूमितशुभे वर्षेऽथ मासे शुभे विद्वद्वन्दितकृष्णमिश्रतनयैः श्रीरङ्गपादाश्रयैः । रामाचार्यपुरःसरैर्विरचिता यस्य प्रतिष्ठामुदा चेतः सद्मनि सर्वदा विजयतां श्रीरङ्गराजः प्रभुः ॥ ३४॥ श्रीमदीयपदपङ्कजसम्पत्कृष्णमिश्रकुलेजेष्वखिलेषु । अस्ति ते निरुपमा करुणादृक् तत्कृतेऽत्र पुनरुक्तिरियं मे ॥ ३५॥ आर्या रामाचार्याः स्वाचरणारामशरणाश्च । विश्वख्यातसुयशसः सोऽयंश्रीरङ्गनाथ ते महिमा ॥ ३६॥ पराङ्कुशा वादिविद्वद्गजराजपराङ्कुशाः । आसन् यत् पितृपादा मे महिमा सोऽपि तावकः ॥ ३७॥ भक्तिसारा भक्तिसारा भक्तिसारोपमानकाः । भवन्ति भ्रातरो मे यन्महिमा सोऽपि तावकः ॥ ३८॥ मत्कनिष्ठान् श्रीनिवासमधुसूदनसंज्ञकान् । घनश्यामं च गोपालं पाहि श्रीरङ्ग सर्वदा ॥ ३९॥ श्रीरङ्गराज करुणावरुणालय त्व- त्पादाब्जयुग्मशरणः किल वासुदेवः । स्वप्नेऽपि नाऽन्यशरणोऽस्ति ततोऽत्र कार्या नित्यं दयादृगिह दासजने दयाब्धे ॥ ४०॥ नारायणात्मजनुषो मम वासुदेवे- त्याख्यस्य राम गुरुवर्य्यकृपाप्तनीतेः । एषा कृतिर्विजयतामुपपुण्डरीकं श्रीमत्फतेपुरजनेर्हितरङ्गधाम्नः ॥ ४१॥ बिहांणीपत्तनीय श्रीरङ्गधामैकजीविना । श्रीमता वासुदेवेन कृत श्रीरङ्गराट्स्तुतिः ॥ ४२॥ इति भावविज्ञप्ति नामा स्तवः सम्पूर्णः ॥ Encoded and proofread by Mohan Chettoor
% Text title            : Bhava Vijnapti Stavah
% File name             : bhAvavijnaptistavaH.itx
% itxtitle              : bhAvavijnaptistavaH
% engtitle              : bhAvavijnaptistavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor, NA
% Description/comments  : Ramanuja Sampradaya.
% Indexextra            : (Scan)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org