भीष्मप्रोक्तं २ श्रीकृष्णस्तोत्रम्
कृष्णः पृथ्वीमसृजत्खं दिवं च वराहोऽयं भीमबलः पुराणः ।
अस्य चाधोऽथान्तरिक्षं दिवं च दिशश्चतस्रः प्रदिशश्चतस्रः ।
सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणम् ॥ ७॥
अस्य नाभ्यां पुष्करं सम्प्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः ।
येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥ ८॥
कृते युगे धर्म आसीत्समग्र स्त्रेताकाले ज्ञानमनुप्रपन्नः ।
बलं त्वासीद्द्वापरे पार्थ कृष्णः कलावधर्मः क्षितिमाजगाम ॥ ९॥
स पूर्वदेवो निजघान दैत्यान्स पूर्वदेवश्च बभूव संराट् ।
स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चापि गोप्ता ॥ १०॥
यदा धर्मो ग्लायति वै सुराणां तदा कृष्णो जायते मानुषेषु ।
धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च याति ॥ ११॥
त्याज्यांस्त्यक्त्वाथासुराणां वधाय कार्याकार्ये कारणं चैव पार्थ ।
कृतं करिष्यत्क्रियते च देवो मुहुः सोमं विद्धि च शक्रमेतम् ॥ १२॥
स विश्वकर्मा स च विश्वरूपः स विश्वभृद्विश्वसृग्विश्वजिच्च ।
स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ १३॥
तं गन्धर्वा अप्सरसश्च नित्य मुपतिष्ठन्ते विबुधानां शतानि ।
तं राक्षसाश्च परिसंवहन्ते रायस्पोषः स विजिगीषुरेकः ॥ १४॥
तमध्वरे शंसितारः स्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति ।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति ॥ १५॥
स पौराणीं ब्रह्मगुहां प्रविष्टो महीसत्रं भारताग्रे ददर्श ।
स चैव गामुद्दधाराग्र्यकर्मा विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ १६॥
तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति ।
तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य ॥ १७॥
स कुम्भरेताः ससृजे पुराणं यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ।
स मातरिश्वा विभुरश्ववाजी स रश्मिमान्सविता चादिदेवः ॥ १८॥
तेनासुरा विजिताः सर्व एव तस्य विक्रान्तैर्विजितानीह त्रीणि ।
स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम् ॥ १९॥
स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे ।
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं तापयन्तः ॥ २०॥
तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो भामुपयुज्य भाति ।
स मासि मास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति ॥ २१॥
स एकयुक्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधामा ।
महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान्धारयते तथैकः ॥ २२॥
अश्नन्ननश्नंश्च तथैव धीरः कृष्णं सदा पार्थ कर्तारमेहि ॥ २२॥
स एकदा कक्षगतो महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः ।
स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति ॥ २३॥
स एवाश्वः श्वेतमश्वं प्रयच्छत्स एवाश्वानथ सर्वांश्चकार ।
त्रिवन्धुरस्तस्य रथस्त्रिचक्र स्त्रिवृच्छिराश्चतुरस्रश्च तस्य ॥ २४॥
स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम् ।
एवं रम्यानसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ २५॥
स लङ्घयन्वै सरितो जिघांसन्स तं वज्रं प्रहरन्तं निरास ।
स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ २६॥
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः ।
तमेवाहुरृषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् ॥ २७॥
वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान् ।
कामे वेदे लौकिके यत्फलं च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ २८॥
ज्योतींषि शुक्लानि च सर्वलोके त्रयो लोका लोकपालास्त्रयश्च ।
त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव ॥ २९॥
संवत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः ।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ ३०॥
चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमास्यः ।
नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ ३१॥
रुद्रादित्या वसवोऽथाश्विनौ च साध्या विश्वे मरुतां षड्गणाश्च ।
प्रजापतिर्देवमातादितिश्च सर्वे कृष्णादृषयश्चैव सप्त ॥ ३२॥
वायुर्भूत्वा विक्षिपते च विश्व मग्निर्भूत्वा दहते विश्वरूपः ।
आपो भूत्वा मज्जयते च सर्वं ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ॥ ३३॥
वेद्यं च यद्वेदयते च वेदान्विधिश्च यश्चाश्रयते विधेयान् ।
धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि ॥ ३४॥
ज्योतिर्भूतः परमोऽसौ पुरस्ता त्प्रकाशयन्प्रभया विश्वरूपः ।
अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः पुराकरोत्सर्वमेवाथ विश्वम् ॥ ३५॥
ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च ।
सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥ ३६॥
विश्वावासं निर्गुणं वासुदेवं सङ्कर्षणं जीवभूतं वदन्ति ।
ततः प्रद्युम्नमनिरुद्धं चतुर्थ माज्ञापयत्यात्मयोनिर्महात्मा ॥ ३७॥
स पञ्चधा पञ्चजनोपपन्नं सञ्चोदयन्विश्वमिदं सिसृक्षुः ।
ततश्चकारावनिमारुतौ च खं ज्योतिरापश्च तथैव पार्थ ॥ ३८॥
स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा ।
ततो भूमिं व्यदधात्पञ्चबीजां द्यौः पृथिव्यां धास्यति भूरि वारि ॥ ३९॥
तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः ॥ ३९॥
ततो देवानसुरान्मानुषांश्च लोकानृषींश्चाथ पितॄन्प्रजाश्च ।
समासेन विविधान्प्राणिलोकान्सर्वान्सदा भूतपतिः सिसृक्षुः ॥ ४०॥
शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि ।
यद्वर्तते यच्च भविष्यतीह सर्वमेतत्केशवं त्वं प्रतीहि ॥ ४१॥
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः शाश्वतो धर्मवाहः ।
भूतं च यच्चेह न विद्म किञ्चिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ ४२॥
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् ।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ॥ ४३॥
एतादृशः केशवोऽयं स्वयम्भूर्नारायणः परमश्चाव्ययश्च ।
मध्यं चास्य जगतस्तस्थुषश्च सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥ ४४॥
इति महाभारते अनुशासनपर्वणि १४३ अध्यायान्तर्गतं
भीष्मप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
महाभारत । अनुपर्व । अध्याय १४३/७-४४॥
mahAbhArata . anuparva . adhyAya 143/7-44..
Proofread by PSA Easwaran