भगवद्विचारललितार्याः
निगमागमप्रबोधं विबुधनुतं वासुदेवपदवाच्यम् ।
देवं गुरुं च वन्दे श्रीहरिसर्वोत्तमत्वचिदवाप्त्यै ॥ १॥
ब्रह्माद्यमरसमूहान् नारदमुख्यान् समस्तदेवर्षीन् ।
ब्रह्मर्षीनपि वन्दे वर्णोचितकर्मरतिकृते मनसः ॥ २॥
पितरं रङ्गाचार्यं वेदपुराणेतिहासतत्त्वज्ञम् ।
वन्दे भवापनुत्त्यै साध्वीविनुतां सरस्वतीं जननीम् ॥ ३॥
निर्दोषः परमात्मा विभुः स्वतन्त्रः स सच्चिदानन्दः ।
श्रुतमिति सक्लृद्गुरुमुखादथ कर्तव्यं यतोऽस्य किल मननम् ॥ ४॥
परवासुदेवमूर्ते मद्गतमध्वार्यहृत्सरोजस्थ ।
पृच्छामि संशये त्वां सामीप्याच्छिन्धि तं मननसमये ॥ ५॥
चेतश्चाञ्चल्यान्न स्थिरभक्तिर्नामकीर्तनं न ततः ।
कर्तुं कर्म न शक्तस्त्वदनुग्रहमन्तरेण शर्म कुतः ॥ ६॥
मुक्त्वामृतफलभोक्तॄन् मुक्तिवने त्वं नरर्षभान् वत्सम् ।
बध्नासि मोहरज्ज्वाफलभवविपिने कुतोऽज मामीश ॥ ७॥
परपुरुष इति भवन्तं भजति नियुक्तापि न स्मृतिचलाक्षी ।
क्लेशयसि संसृतौ मामिदमनुचितमिति तवेश को ब्रूयात् ॥ ८॥
न धृता त्वद्भक्तिसती विवृतं न त्वद्रहस्यमपि तत् किम् ।
संयम्य प्रकृतिगुणैः संसृतिजलधौ क्षिपस्युचितमीश ॥ ९॥
त्वां परिचरितुमचिन्त्याद्भुतशक्तिं मम न कौशलं मां त्वम् ।
अपिधाय ज्ञानदृशं विसृजसि भवकानने किमिदमुचितम् ॥ १०॥
यन्तृकरस्थितरश्मिप्रचोदिताश्वानुयायिरथिक इव ।
मत्सङ्कल्पविधिज्ञ प्रकृतिवशोऽहं त्वयैव किमु दण्ड्यः ॥ ११॥
प्रकृतिवशतास्तु वा मम सा त्वदधीना किलात्र न वितर्कः ।
आद्यप्रकृतिवशं मां कुर्वन्नुचितकृत् ततोऽपि यदि दण्ड्यः ॥ १२॥
प्राक्कृतकर्मानुगुणां भजति प्रकृतिं किलात्र देहीति ।
चेत् तत् कारयिता कः सर्वव्यापिन् परेश भवदन्यः ॥ १३॥
देही स्वभावसिद्धं कर्म हि कुरुते न कारयति कश्चित् ।
इति चेत् स्वतन्त्रतास्य स्यात् तद्युक्तं न चोभयोः साम्यम् ॥ १४॥
आस्तामिति चेत् स्वाम्यं तुल्यं जगदीश देहिनो भवता ।
दण्डोऽस्य शास्त्रसिद्धः स च न घटेतास्य धारयितुरभावात् ॥ १५॥
कर्मानुगुणो दण्डः क्लृप्तो देहिनि पतत्यसाविति चेत् ।
तत्कल्पकेन भाव्यं दण्ड्यः परतन्त्र इति तु जनसिद्धम् ॥ १६॥
राज्ञः पुरुष इवास्ति स्वातन्त्र्यं तदुदितान्यथाकरणे ।
उक्तकरणे दण्डो देहिन इति किं जगत्पते न्याय्यम् ॥ १७॥
न्यायः किल सर्वसमः शूद्रासङ्गिन्यजामिले दण्डम् ।
अनिपात्य चोद्धृतः कथमीश तवेच्छात्र कारणं नूनम् ॥ १८॥
नारायणेति तेनोद्गीतं तन्नाम मरणसमय इति ।
चेत् स्वामिंस्तत् प्रथितं तेनाहूतः सुतोऽतिवात्सल्यात् ॥ १९॥
अथ चेद् यथाकथञ्चित् तव शुभनामाक्षरक्रमोच्चारः ।
आमरणरचितदुरितध्वंसाय नृणामलं च मोक्षाय ॥ २०॥
गजरक्षक नरकान्तक सुरवर नारायणेति कीर्तनतः ।
मुक्तिश्चेदीश कुतो ब्रह्मविचारः कुतस्तपःकर्म ॥ २१॥
प्राग्जन्मनि सज्ज्ञानी लवदुरितवशाद् द्विजस्तथावृत्तः ।
भोगाद् दुरितविपाके नामोच्चारात् स तारितः सहसा ॥ २२॥
जीर्णोऽनुभवाद् रोगो नश्यति सकृदपि यथौषधग्रहणात् ।
आयुष्मान् भवति सुखी नाम्ना दुरितक्षये तथा ज्ञानी ॥ २३॥
यदजामिलेन नारायणेति चान्त्ये कथञ्चिदाकलितम् ।
तेन स दुर्वृत्तोऽपि ज्ञानी विप्रः पुरेति वा ज्ञेयम् ॥ २४॥
आस्तां स प्राग् ज्ञानी नामोच्चारात् कथं च समयेऽन्त्ये ।
मुक्तो नामग्रहणादेवेत्यत्रास्ति संशयो बलवान् ॥ २५॥
काश्यां सुतनिकटे वा मुक्तिर्मरणादिति स्मृतिः प्रथिता ।
सुतसामीप्ये सिद्धेऽप्यजामिले त्वत्स्मृतिः कुतः साध्या ॥ २६॥
असदृशमार्योत्पन्नः पुत्रो न मृतिर्न केवलं मुक्तिः ।
किन्त्विह नष्टे दुरिते ज्ञानान्मोक्ष इति किमसि निर्दोषः ॥ २७॥
भक्त्या त्वज्ज्ञानाप्तिः सा किल दास्यार्चनादिरूपा हि ।
त्वमगोचरश्च मनसः संशयमेतं निवार्य मां पाहि ॥ २८॥
ब्रह्माण्डाद् बहिरस्यण्वन्तस्त्वमिति श्रुतिस्तदनुमेयम् ।
उपगन्तुं वा द्रष्टुं ज्ञातुं शक्यं कथं न्वपरिमेयम् ॥ २९॥
लोका विशन्ति भवति प्रलये श्रुतिराह चेत्थमविकलये ।
तत् कथमपि नित्यं त्वामपरिच्छिन्नं दिवि च भुवि कलये ॥ ३०॥
नाण्वन्तर्व्रजति महद् दृष्टं न च न श्रुतं श्रुतिर्वदति ।
तं खलु गुरूपदेशं लघु चेतो न सहते हिं धूर्वदति ॥ ३१॥
द्युतिरस्त्यन्तर्बहिरपि पृथौ पृथुतरे लघौ च हीरमणौ ।
महति च महत्तरे त्वं तद्वच्छ्रुतिवेद्य ननु किमणौ ॥ ३२॥
नह्यविकाराभासं योगाद्वा जगति तनु महद् भवति ।
घटते चैकत्वं कथमविकारे सङ्गवर्जिते भवति ॥ ३३॥
प्राग् यो हि घटाकाशः स महाकाशस्तु भवति घटविलये ।
महदाकाशः स गते सङ्गविकारौ न खस्य खलु निलये ॥ ३४॥
संज्ञा तथान्तरात्मा परमात्मेति त्वयीश सामनुते ।
इति किं त्वदचिन्त्याद्भुतशक्तिं ज्ञातुं श्रुतिर्हि सा मनुते ॥ ३५॥
स्वच्छन्दचारिंणी वाग् योषेव ह्यविनयेन सामान्या ।
योज्या कथं तत्र नुतौ चिद्धनयुक्ता तथैनस मान्या ॥ ३६॥
कामाद्यरिगणवञ्चितहृद्वशगं विषयलोलमनवरतम् ।
विनिवेशयामि कथमहमक्षगणं त्वयि च विबुधजनवर तम् ॥ ३७॥
श्रीब्रह्मामरपरिवृढमुखसुरमुक्त्येकहेतुपदकमलम् ।
कृपया न दर्शयसि यदि शरणं यामि त्रयीड्य वद कमलम् ॥ ३८॥
तृषितं मरीचिकायां मृगयूथ सलिलशङ्कि मरुगमितम् ।
तद्वद्विषयेऽत्रान्तः प्राप्यस्यां विमलशङ्किमरुगमितम् ॥ ३९॥
नश्वरविषयापणिकश्चिद्धनहृद्यस्य बत सखा-नु भवः ।
भवशमन त्वदवाप्तिं विनेश तस्य तु कथं सुखानुभवः ॥ ४०॥
भवरोगिणाविचाराद् विषयापथ्यं हि सेवितं विपदि ।
तन्मां सदोषमव भवरुग्वैद्याकलय चिदञ्जनं सपदि ॥ ४१॥
त्वय्यस्त्यखिलविशेषस्तल्पीभवति नु न चेत् कथं शेषः ।
स्थितिलयसृष्टिकृदेष स्तौतिं त्वामिति हि सुरगणोऽशेषः ॥ ४२॥
दत्तस्त्वयावकाशः कुक्षौ जगतां न तेऽस्ति नीकाशः ।
त्वत्तो जगत्प्रकाशस्त्वन्नाभेरजनि यदयमाकाशः ॥ ४३॥
नकुले सोऽस्युरगे यस्ततो हि समभूस्त्वमसुरसुरगेयः ।
त्वां भक्तवशं कलये न दिशसि तद्धृदि यतः पदं कलये ॥ ४४॥
विलसति ते दासमता ह्याब्रह्मस्तम्बमपि सदा समता ।
अघनुत् त्वत्पदकमलं भजति श्रीस्तत्सदैव पदकमलम् ॥ ४५॥
अण्वन्तर्ब्रह्माण्डाद् बहिरपि विलसति यतस्तु तव सत्त्वम् ।
भूताधुनिकभविष्यत्कालनियन्तेति चोच्यसे स त्वम् ॥ ४६॥
ध्यायन्ति ये तव पदं भजन्ति ते वाञ्छितं तदेव पदम् ।
ज्ञानमयं ते सकलं वपुरित्युक्तं रमानिवासकलम् ॥ ४७॥
त्वां कृष्टकेशमवनौ भजमानाश्चाप्नुवन्नवदकेशम् ।
आनन्दमयं तव वपुरिति वोद्गीतं तदा प्रपदकेशम् ॥ ४८॥
त्वं निखिलदोषरहितो व्याप्तश्च सकलजगदीशः ।
कालत्रयनिरपायः सर्वज्ञो विजयसे सदात्मरतिः ॥ ४९॥
गोविन्दाचार्येण श्रीकौलगिवासुदेवगुरुकृपया ।
प्रीत्यर्थमेव हि हरेर्ग्रथिता भगवद्विचारललितार्याः ॥ ५०॥
रचिता वसता स्वार्याः चेरकेरलदेशयोः ।
भगवद्विचारललिताः कलिमाने शुभेधवे (४९४५) ॥ ५१॥
इति गोविन्दाचार्यविरचिताः श्रीभगवद्विचारललितार्याः समाप्ताः ।
स्तोत्रसमुच्चयः २ (६६)
Govindacarya, the author of the
Bhagavadvicaralalitaryah (66) was the son of
Rangacharya and Sarasvati and belonged to the
uTake family. He mentions his Guru’s name as
(kauLagi) Vasudevacharya. He also pays homage
to one (Kaulagi) Raghunathacarya. Obviously the
author was a follower of Madhvacharya whose name
he mentions in verse 5. It was written in the
Kali year 4945 (A.D. 1844) when the author was
residing in the Cera-Kerala region.
Proofread by Rajesh Thyagarajan