भजनाष्टकम्
(कोकिलक वृत्तम्)
विहरति योऽक्षरेऽक्षर-पदाक्षर-मुक्तपतिः
पुरुषविधो विधिं विधिहरीश्वरमुख्यबुधाः ।
शिरसि वहन्ति ते समुदितं किल येन मुदा
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ १॥
प्रकृतिमया गुणा न च भवन्ति हि यत्र हरौ-
इति निगमागमा अपि वदन्ति च निर्गुणकम् ।
इति सगुणं गुणैरपि युतं परदिव्यशुभै-
र्हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ २॥
शमदम-कौशलसमृति-तपोबल-कान्तिभग-
श्रुतशुचिसत्यता-स्ववशतार्जव-कीर्तिमुखाः ।
अपरिमिता गुणा ध्रुवतयात्र वसन्ति सदा
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ३॥
प्रकृति-पराक्षरे बृहति धामनि मूर्तिधरैर्
निगमनिजायुधैश्च निजपार्षद-मुख्यगणैः ।
उरु य उपास्यतेऽपि रमया रमणीयतनुर्
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ४॥
निखिलभगैश्च योऽक्षरपदे दिवि देवगणै-
रखिलविभूतिभिर्विभवभूमिरुपास्यत ए ।
रतिपतिदर्पहा-रमणरम्यक-रूपनिधिर्
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ५॥
विजितमनोभवा भुवि भजन्ति च यं सततं
शमदमसाधनैः प्रशमितेन्द्रिय-वाजिरयाः ।
प्रकटित-मानुषाकृतिमिमे मुनिदेवगणा
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ६॥
द्विज-वृष-साधुगो-मुनिगणानवितुं भुवि यो
वृषभवने वृषाद् धृतजनिर्जनको जगताम् ।
प्रकृतिभुवामपि प्रशमितुं यदधर्मकुलं
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ७॥
ऋषिभिरभिष्टुतो नृपगणैर्नत-पादतलः
श्रुतिशिरसां गणैरुदितसूज्जवल-कीर्तिरसौ ।
अतिकृतिभिः प्रगीत इति यः कविकोकिलकैर्
हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ८॥
इति श्रीयोगानन्दमुनिविरचितं भजनाष्टकं सम्पूर्णम् ।