श्रीभक्तिवैजयन्तीस्तोत्रम्

श्रीभक्तिवैजयन्तीस्तोत्रम्

श्रीकृष्णाय नमः समस्तहृदयाम्भोजावदातत्विषे भक्तौघस्मयमानमानसवते दैत्यावलीविद्विषे । गोपीवल्लविकाय नायकगुणग्रामप्रणालीजुषे लीलावैणविकाय कायसुषमानीलाम्बुजश्रीजुषे ॥ १॥ अव्यक्तं श्रुतिशेखरान्तरवने व्यक्तं च वृन्दावने गूढं वेदविचारचारुवदनैगूढं च गोपीजनैः । अस्पष्टं हृदि योगिनामपिः पुनः स्पष्टं च सेवावतां श्रीकृष्णं कमनीयकान्तिकुहकं ब्रह्माद्भुतं संश्रये ॥ २॥ पद्मापीनपयोधरप्रणिहितं प्राणप्रदं प्राणिनां पिजञ्छाडम्बरपीवरं प्रणायिनीप्रेमाप्रियं भावुकम् । पीतं पद्मविलोचनापरिषदा प्रत्यक्षतः प्रीतया पायाद्वः प्रतिमाभिनापिहितं पीताम्बरं प्राभवम् ॥ ३॥ कालो गत्वर एष केनचिदहो मार्गेण यास्यत्यलं योगक्षेमविचारघोरनरके रात्रिन्दिवं मन्जताम् । येषां याति मुकुन्दचित्रचरितश्रेयोऽमृताकर्णन- प्रेयोनन्दितचेतसां सुमनसां तेभ्यो महद्भयो नमः ॥ ४॥ बाह्वोरङ्कितशङ्खचक्रयुगलं कण्ठे तुलस्याञ्चितं स्वान्ते प्रस्फुटकृष्णपादकमलं नामामृताढ्यं मुखे । नेत्रे हर्षजलोज्ज्वलं शुचितरे गात्रे च रोमाञ्चितम् । धन्या एव विलोकयन्ति नयनैर्विष्णोः समं वैष्णवम् ॥ ५॥ सत्यं ज्ञानमनन्तमेकममलं ज्योतिः स्वतो भास्वरं ब्रह्मानन्दघनं परं गुरुमुखाद्विज्ञाय वेदान्ततः । सद्यः स्मेरसरोजसुन्दरतरं लक्ष्म्या मुदोपासितं तद्विष्णोः परमं पदं हृदि सदा पश्यन्ति यत्सूरयः ॥ ६॥ अव्यक्तं परमं निराकृति हरे रूपं वचश्चेतसोः- दूरं केवलचित्प्रकाशमतुलं ज्ञात्वा श्रुतेः शेखरे । व्यक्तं विस्तृतपुण्डरीकनयनं वंशीनिनादप्रियं वृन्दारण्यविनोदवञ्चनपरं संसेव्यतां मुक्तये ॥ ७॥ आर्द्रान्तःकरणं गुणैर्भगवतस्त्यक्तान्यमार्गभ्रमं रोमाञ्चैर्विपुलैः समावृततनुं हर्षाश्रुपूर्णक्षणम् । आनन्दोदयमोदमानमनिशं श्रीकृष्णनामामृतैः मुक्तिः सन्तनुते स्वयंवरविधिं दृष्ट्वा स्वयं वैष्णवम् ॥ ८॥ धिग्जिह्वां पिशुनस्य कृत्तमुसलीपुच्छोपमं विह्वलां दुस्तर्कोपलताडनैर्भगवतो भक्तेर्द्विषाणां मृषा । कैवल्यागमकर्तरीं कलिपटीनिर्माणकाले तुरीं मर्मोद्भेदनसूचिकां निजहतेः संसूचिकां सूचिकाम् ॥ ९॥ भेदोऽयं याद नाम जीवपरयोः स्वाभाविको वर्तते यद्वौपाधिक एव मूर्तिपदवीपर्यन्तमत्र ध्रुवः । तत्रैवं सति सेव्यसेवकभिदा सिद्धा प्रसिद्धा श्रुतौ निष्कामो निजमुक्तये परमुपासीतेति वाक्यैः स्फुटम् ॥ १०॥ एके षोडशषट्पदार्थविषयज्ञानं समाचक्षते कमैवेति विचारयन्ति कतिचिद्योगं च केचिज्जगुः । पुंसोऽथ प्रकृतेश्च जीवपरयोर्ज्ञानं परे मेनिरे सर्वं क्लृप्तमिदं गुणैर्भगवतो भक्तिः परं मुक्तये ॥ ११॥ या काचित् परिकल्पिता खलकथा तामागप्यजातभ्रमाः पाकायातिभयङ्कराय विरसाकाराय लब्धाश्रमाः । नाकाधीशपतेरपारपरमानन्दाप्तिमन्दाकिनीं शाकास्वादपराः सुधामिव सुधा नेच्छन्ति भक्तिं बुधाः ॥ १२॥ कं कः सेवत इत्युदीरयति योऽभेदे स कङ्कः स्वयम् । का का भक्तिरितीरयन्ति बहु ये काका वराका हि ते । ब्रह्माहं विषमेऽत्र मे कृतशमे किं मे भवेदीश्वरः सेव्योऽसाविति संलपन्नुरुगलः सोऽयं खलश्छागलः ॥ १३॥ स्वाध्यायाध्ययने तथोपनिषदां जातेऽक्षराणां ग्रहे विज्ञाते श्रवणे च जीवपरयोरैक्ये विमुक्तेक्षणः । श्रीकृष्णं भजमान एव बहुधा सङ्कीर्तनाद्यैः सदा सत्यं ज्ञानमनन्तमेकमखिलं तद्ब्रह्म सम्पद्यते ॥ १४॥ एतैः षोडशभिः पदार्थनिचयैर्ज्ञार्तैर्विमुक्तिः कथं जल्पंस्तत्र फलं परस्य विजयः स्यात्तेन किं वा ततः । ज्ञानं चेत परमेश्वरस्य तदिदं भक्त्यर्थमेवोचितं सिद्धान्तेष्विदमूचिरे स्फुटतरं प्रामाणिकास्तार्किकाः ॥ १५॥ द्रव्यादौ विदिते पदार्थनिवहे कैवल्यसिद्धिः कथं पाणिन्यादिविवेचनादिव सुखं ज्ञाता भवेत् प्रक्रिया । शब्दस्याप्यनुमानभावभजनं बौद्धस्य पन्था न किं तस्मादीशमुपासितुं श्रुतमिदं द्रव्यादिचिन्ताफलम् ॥ १६॥ ब्रूते षोडशषट्पदार्थकलनात् का वा विमुक्तिं श्रुतिः किं वा संस्मरणं पुराणवचनं न्यायोऽपि कस्तादृशः । तर्को वेदविचारणाय घटितेऽनुग्राहकः केवलं तस्यै तत्प्रतिपक्षता यदि तदा सिद्धा न किं बौद्धता ॥ १७॥ भेदोऽयं घटकुम्भयोः समुचितं प्रत्यक्षतो गृह्यते श्रुत्या केवलमेव जीवपरयोः कैवल्यमुद्भाव्यते । भेदाभेदविवेचने प्रभवति प्रत्यक्षयोवास्पदे तस्यागोचरके कथं प्रसरतु भ्रान्तेऽपि तुल्योदयम् ॥ १८॥ भेदं लोकनितं वदिष्यति कथं पश्चादभेदश्रुतिः भीता लोकमितेर्भविध्यति पुनः स्वार्थीपचारे कथम् । बाधं लौकिकमानतः कथमियं गच्छेदथापौरुषी । यद्येषा पुरषोदिता स पुरुषः किं त्वादृशोऽन्यादृशः ॥ १९॥ यस्मिन् सर्वमिदं विभाति निहितं यस्मात् पुनर्जायते यस्मिन्नेव लयं प्रयाति सकलं कर्मापि यत्प्रीतये । सर्वं कर्मफलं विमुक्तिपदवी यस्य प्रसादाद्भवेत् यच्छवासप्रतिमा श्रुतिः स भगवान् कैश्चित् कथं नेष्यते ॥ २०॥ द्रोहं श्रीपरमेश्वरे विद्धते ये लौकिकैः कल्पनैः वेदान्तैरुपगीयमानचरिते न्यायैश्च संसविते । ते व्यर्थं पशुमारणैकरसिकाः सन्मार्गसन्दूषकाः- कन्थां कर्ममयीं निधाय निभृता मीमांसका राक्षसाः ॥ २१॥ कर्मैव प्रतिपाद्यतां स्वसमयैर्न्यायैः सहस्रैः स्फुटं तस्यानुष्ठितिसिद्धये क्रमवती व्याख्यायतां पद्धतिः । जाने यूयमिहात्मनाशरसिका मीमांसका हिंसकाः यद्द्रोहात् परमेश्वरस्य भवतां स्वर्गोऽपवर्गो हतः ॥ २२॥ मोहोऽयं कपिलस्य जैमिनिमुनेर्द्रोहोऽयमीशे परे तद्भुक्तिं कणभुक् तथाक्षचरणस्तर्केण चक्रे पराम् । व्यासः कृष्णमतानुसारि कृतवान् सूत्रं निरस्तभ्रमः कृष्णोपासनया समाधिविभवः पातञ्जलेः प्रक्रमः ॥ २३॥ स्वर्गो दुर्गतिमागतोऽक्षयमुखो मोक्षोऽपि विक्षोभितः स्वेच्छाकल्पनयानया रचनया वेदोऽपि विप्लावितः । मोक्षार्थं मिलतां सुमुधामतिमतां साङ्खयेन सङ्कयावतां द्वेषार्थः परमेश्वरस्य नितरां लाभो महागौरवः ॥ २४॥ वेदानीश्वरसेवनव्यसनिनो मुक्त्वा तदेकव्रतान् विद्याभावनयाल्पया प्रकटयं तां पल्लवग्राहिणीम् । नारत्येवेश्वर इत्युदीरयति यः सूत्रेण बद्धो गले नाशायैव कृतोद्यमः स हि पशुः कालस्य नूनं बलिः ॥ २५॥ ईशद्रोहपरायणं मतभिदं नैवोज्ज्वलं कापिलं ग्राह्यं जैमिनिकल्पितं भगवतो द्रोहादृते कर्मताम् । नास्त्येवेश्वर इत्युदीरणपरो द्रोहं विषं दोन्धि गाम् । तत् पीत्वा निपतत्यपारनिरये भूयो विनष्टस्मृतिः ॥ २६॥ न्याया यान्तु विदूरमेव भवतां भक्तौ कृतज्ञो यदा मीमांसे बहिरास्व भक्तिवचने यद्यर्थवादाध्वनी । वेदान्ताः सुतरां न दान्तहृदया भक्तेर्न शेषा यदा भक्त्यर्था यदि वो नमः समुचिते मार्गे सुखं स्थीयताम् ॥ २७॥ भेदाक्रन्दनवावदूकरसनस्तर्केण तर्केण किं तत्तद्वेदकथाविमर्दकुहनासाङ्ख्येन साङ्खयेन किम् । स्वान्ताश्रान्तनिरोधयोधकलनोद्योगेन योगेन किं भक्तिं भागवतीं श्रयन्तु सुधियः स्वर्गापवर्गप्रदाम् ॥ २८॥ यद्वेदाः समुदीरयन्ति बहुधा स्वेषां च तज्जन्यतां स्वेनैव प्रतिपादयन्ति नियतां तच्छेषतां कर्मणाम् । एषामर्पणमेव यत्र नियतं मोक्षाय सञ्जायते तस्याभावमुदीरयन् विजयते स स्यात् कथं वैदिकः ॥ २९॥ लब्ध्वा मानुषजन्म पूर्वसुकृतैः पुण्यां च मेधावितां तत्तज्जातिनिजाश्रमस्थितिमिमां श्रीवैष्णवैः सङ्कथाम । शोच्या यूयममी भविष्यथ तदा ज्ञानं श्रिता दुर्लभं मुक्तम्मन्यतया यदा भगवतो भक्तिः परित्यज्यते ॥ ३०॥ यूयं तत्त्वविदः श्रुतिस्मृतिगिरां ज्ञानेन धौताशयाः मुक्त्यै भागवती परं भगवती भक्तिः समाश्रीयताम् । संसाराम्बुधिपारमाप्तुमनसो धृत्वैव वो मज्जयन् धीराः कोऽपि दुराग्रहो हि भवतां ग्राहो भविष्यत्ययम् ॥ ३१॥ ज्ञानं स्त्यानमिदं कुरुध्वममलैः श्रीविष्णुभक्ते रसैः कर्माणि प्रतिकर्मनर्मसुभगं भक्त्या तनुध्वं हरेः । योगं भोगसमाश्रितं भगवतो रूपैः श्रयध्वं सदा भक्तेः शेषतया विधाय सकलं धीराः समाध्वं सुखम् ॥ ३२॥ योगो रोग इवेह दुर्लभतरः खेदाय सञ्जायते ज्ञानं ग्लानिमिदं प्रयाति नितरां यत्नेन सम्पादितम् । मर्मच्छेदनमेव कर्म कलितं क्लेशाय सञ्जायते विष्णोभक्तिरियं यदा न भवतां मुक्तिः प्रियम्भावुकी ॥ ३३॥ बेदान्ताध्ययनादतः प्रकृतता तस्योचिता वृत्तता तस्यानन्तरताथ शब्दघटिता तत्राधिकारीदृशः । तेन ब्रह्मणि वेदमातृविदिते ज्ञातुं विशेषेण तत्- कार्येच्छेत्यनुवक्ति वेदवचनं सूत्रं च वैयासिकम् ॥ ३४॥ जन्माद्यस्य यतो भवेत् स भगवान् ब्रह्मेति वेदोदितं सूत्रेणानुकृतं ततोऽस्य जगतां निर्मातृता लक्षणम् । तत्सामान्यविशेषतः श्रवणतो ज्ञात्वा विशुद्धाशयः तस्योपासनमाचरेदविरतं मुक्त्यै निरस्तेषणः ॥ ३५॥ विश्वं विश्वकृता कृतं पुनरिदं तस्यैव माया स्फुटं सा तद्भक्तिविशेषतो यदि निवर्तेतेति वेदोदितम् । उत्सूत्रः श्रुतिलक्षणेन रहितस्तत्कल्पनानिष्फलः शास्त्रारम्भसमर्थनाय विकलोऽध्यासः कथं वर्तते ॥ ३६॥ ईशाद्विश्वमितीरणं श्रुतिगिरां तेन प्रकारेण तत् ज्ञात्वोपासनमामनन्ति विदुषः कैवल्यसंसिद्धये । अध्यस्तं परमेश्वरे जगदिदं नैतादृशो दृश्यते वेदः कोऽपि वृथैव जल्पनमिदं कैश्चिद्बलात् कल्पितम् ॥ ३७॥ भ्रान्तिश्चेत् परमेश्वरस्य विहता सर्वज्ञता तद्गता जीवस्येति यदा स एव कथमन्योऽन्याश्रयाज्जीयताम् । तत्रानादितया यदा परिहृतिर्जन्मान्तरीयं स्मरन् किं सर्वं कथमुल्लसेदनुभवो नैतादृशो विभ्रमः ॥ ३८॥ अज्ञाते यदि रङ्गसीसशकले जायेत रूप्यभ्रमः- तस्याभावविनिश्चितेः स न भवेत् काधिष्ठितेतिता । तज्ज्ञानं यदि पूर्वमिष्टममलब्रह्मात्मनाधिष्ठितेः संसारभ्रम ईदृशः किमुदये कस्मात् पुनर्लीयताम् ॥ ३९॥ यत्रेदं रजतं विभाति निहितं ज्ञातं पुरा किं ततो बाधे तब्द्यतिरेक एव रजतं नेदं भवेदित्यतः । तत्तत्वप्रथनं निवर्तयति न भ्रान्तिं ततस्तेन किं न ज्ञानेन निवर्तयेत् क्षतरुजः शङ्खस्मृतेः पीतिमा ॥ ४०॥ अज्ञानाद्यदि जीवता कथमिदं सर्वेश्वरो जायतां जीवे चेन्नितरां परस्परहतं माया ततः श्रीहरेः । झानाभावनिवर्तकं तत इदं ज्ञानं मतं ज्ञानिनां मायासन्तरणे परं भगवतो भक्तेः श्रुतौ श्रूयते ॥ ४१॥ येयं नाश्रयमोहिनी परवशा कर्तुश्च माया हे सा- यासावाश्रयमोहिनी निगदिता विद्या न कर्तुर्वशा । सा ज्ञानेन निवर्तते भगवती माया पुनर्वैष्णवी भक्त्यैवेह विलीयते भगवतो लीलाकृतेः श्रीपतेः ॥ ४२॥ स्वेनाध्यस्तमिदं जगद्भगवता स्वस्मिन् यदेतीयते का युक्तिः श्रुतिरेव का न सकलज्ञानस्य युक्तो भ्रमः । ईशाजातमिदं समस्तमिति चेत् सूत्रं श्रुतिः श्रूयते बुद्धेर्बन्धनमेव कैश्चिदुदिताध्यासे वृथा फक्किका ॥ ४३॥ सर्वज्ञस्य कुतो भ्रमः कथमसौ जीवो नु भूयः स्मरेत् अध्यस्येदिह यद्भवेन विदितेऽध्यासः कथं जायताम् । नैवाधिष्ठितिनिश्चयाद्विघटतेऽध्यासो यथा पीतिमा शङ्के रोगशमात् परं न खलु तज्ज्ञानं भवेन्निश्चितम् ॥ ४४॥ अज्ञातेऽपि पुरेह शुक्तिशकले रूप्यानुभूतिस्मृतेः तत्ल्हातिभ्रमबाधनं च रजताभावप्रकाराद्भवेत् । आरोप्यानुभवो यथा यदि तथाधिष्ठानसंवेदनं पूर्व ब्रह्म यदा मतं कथमसौ संसाररूपो भ्रमः ॥ ४५॥ तज्ज्ञानेन विना यदा कथमधिष्ठानं भ्रमो बोधयेत् बाधस्तत्र न हि प्रभुः स हि समारोप्यस्य विध्वंसकः । नात्मा चेद्विदितः षडूर्मिरहितो देहाद्विभिन्नो विभुः नित्यं कः कुरुतां धनक्षयकरं दुःखाकरं कर्म तत् ॥ ४६॥ अज्ञात्वाक्षरमत्र यो हि यजते तस्याखिलं क्षीयते श्रुत्यैवं प्रतिपादितं भगवता गीतासु तव्द्याकृतम् । ज्ञानं मोचकमत्र बन्धकमिदं कर्मेति कैश्चिन्मतं तज्ज्ञाने भगवन्मते न घटते वैदैः सदा सम्मते ॥ ४७॥ बन्धार्थं फलमेव तत्परिहृतं कर्मैव भक्त्यात्मना श्रीकृष्णर्पितमेककं विजयते संसारतो मुक्तये । ज्ञानानन्तरमीरितं भगवतः संसेवनं भूरिभिः वाक्यैर्मुक्तिफलान्वितैः श्रुतफलं नैवार्थवादायते ॥ ४८॥ ज्ञानं पापविनाशनं यदि भवेत्तत्रापि मोक्षश्रुतिः सैषाङ्गेषु फलश्रुतिर्नयवशादत्रार्थवादायते । ज्ञानञ्चेन्न विधीयते तव जना नैतत्प्रधानं भवेत् तस्याङ्ग किमिहास्तु यस्य भविता भाव्यश्रुतेर्वादता (?) ॥ ४९॥ भतिर्ज्ञानमपेक्ष्य साधयति ते द्वारं विमुक्तिं तदा (विमुक्तेः) तस्याः कारणता मतं श्रवणतस्तत्स्यादिति व्याहतम् । ब्रह्माहं न हि मे भिदा भगवता काचिद्यथार्था श्रुतिः कैवल्यप्रतिपादिका भगवती किं त्वेकमभ्यर्थये ॥ ५०॥ यावत्कालभुपाधिरेष कलितो देहात्मना दृश्यते तावत्कालमहं भजामि सततं भक्तप्रियं श्रीप्रियम् । पीतं पङ्कजलोचनाक्षिपुटकैः पीतं दिलासाम्बरे रक्तं गोपनितम्बिनीकुचतटे रक्तं वरोल्लासने ॥ ५१॥ शुक्लं कोमलमन्दहासकुसुमे शुक्लं युगोपक्रमे कृष्णं चारुकलेवरे गुणवरे कृष्णं श्रिये संश्रये । जातिः काचिदिहास्तु कश्चन विधिः प्राप्तस्तथैवाश्रमः तद्धर्मस्थितिपालनं फलपरित्यागेन कृष्णार्पणम् ॥ ५२॥ ज्ञानं तस्य निजाधिकारनियमैः सम्पाद्य लक्षीपतेः पादाम्भोरुहसेवनं हि तनुते लोकस्य निःश्रेयसम् । सञ्जाते श्रवणे ततः समुदिते ज्ञाने परात्माश्रये शुद्धेऽन्तःकरणे नरस्य सुकृते जात्याश्रमस्थे कृते ॥ ५३॥ कामे निर्गलिते मुकुन्दपदयोराविष्कृतायां रतौ साकारस्य हरेरुपासनमिदं सिद्धं श्रुतौ मुक्तये । सत्यं ज्ञानमनन्तमेकमखिलं ब्रह्मामृतं निश्चितं सर्वात्मा परमेश्वरः स सकलं सन्निर्ममे मायया ॥ ५४॥ निर्माय स्वयमेव तत्र कृतवान् स्वस्य प्रवेशं प्रभुः तत्रोपाधिसमावृतस्य नियता भक्तिर्भवेदात्मनः । ज्ञानासूत्रकृतस्तथोपनिषदां व्याख्याकृतः पण्डिताः (नानासूत्र) तत्राप्युत्तमबुद्धयो मतकृतः केचिद्विवादप्रियाः ॥ ५५॥ श्रीकृष्णस्य कला भवन्तु न समास्तेनेति निर्धारितं तस्मात्तन्मतबाधनं कथमिदं तेषां मतेर्जायते । अव्यक्तं समुपास्यमित्युपहतव्यक्तस्य सेवा श्रुता सर्वासूपनिषत्सु निश्चितमिदं कृष्णेन गीतामृतैः ॥ ५६॥ भक्तेर्मुक्तिरितीरितं भगवता सारूप्यचिन्तात्मिका स्पष्टे राजपथे सुखामृतरसे धीरा रमध्वं सुखम् । हे धीराः किमिहोदितैर्बहुतरैश्चित्तस्य चिन्ताकरैः युष्माभिः सकलं श्रुतिस्मृतिगतं व्याख्याशतं ज्ञायते ॥ ५७॥ शाने शास्त्रकृते कृतं मतिमतामर्थार्थमत्यादरैः सर्वं तत्परिमुच्यतां निजकृते कृष्णः परं सेव्यताम् । वादैर्भक्तिरियं गतेति हृदयं भूयस्तरां वेपते विद्वांसो विमलाशयाः प्रतिभयात् सर्वं स्वयं जानते ॥ ५८॥ निति परमेश्वरेण बहुधा गीतासु सर्व मतं स्पष्टं भागवतं (भागवते) तथा निगदितं स्वर्गापवर्गप्रदम् । एकं ब्रह्म यथार्थमेतदखिलं तब्द्याकृतं जृम्भते सर्वे निर्जरनायकाश्च तदिमे सर्वं जगत्तन्मयम् ॥ ५९॥ सर्वा मूर्तिरियं स्फुटा भगवतो नारायणस्य प्रभोः चेतः केवलमीहते कलयितुं गोपाललीलं महः ।? ? ?? ? ?॥ ?????????????॥ ६०॥ मायासैर्बहुभिर्विवादविहितैः सिद्धान्तचिन्ताभवैः मायामव्यसनैरलं श्रुतिशिरस्तत्त्वं परं चिन्त्यताम् । मायाविभ्रमदायिनी मरकतश्यामा मनोमोहिनी माया काचन मानसे मिलतु मे मायूरपिञ्छप्रिया ॥ ६१॥ सेवा भक्तिरपि प्रपत्तिरपरा तत्संश्रितिः प्रह्वता तद्वत्तत्परता तदीयपरतोऽपास्ता शरण्या गतिः । इत्येकार्थपदैः श्रुतिस्मृतिपुराणाद्यैः समुल्लासिता । भूयाद्वो भवबन्धभेदनकरी भक्तिर्विभोर्भासुरा ॥ ६२॥ यो ध्यातो विमलेन्द्रनीलरुचिरः कृष्णेति सङ्कीर्तितः सद्यः क्लेशचयं निहत्य वितरत्यानन्दबोधोदयम् । हे धीरा बहुशास्त्रतत्त्वकलनासंशुद्धबुद्धाशयाः श्रीकृष्णे विलसत्युदारमहिमाम्भोधौ कथं खिद्यते ॥ ६३॥ तल्लीलाश्रवणं शुभेन मनसा तन्नामसङ्कीर्तनं तन्मूर्तिस्मरणं च तत्प्रतिकृतेः पादाम्बुजोपासनम् । तत्पूजा विविधा नमस्कृतिनुतिस्तस्मिंश्च तद्रासता तत्सख्यात्मनिवेदनेन विविधा भक्तिः श्रुता वैष्णवी ॥ ६४॥ एषा षोडशधेति केऽपि नवधा केचित्तथैवाष्टधा प्राहुः केऽपि तथैकधेति मुनयो यस्मिन्न कश्चिद्ग्रहः । एकाग्रेण तदाश्रितेन मनसा तिष्ठन् मुहुवैष्णवः सर्वं युक्तमिदं करोति पिबतस्तृप्तिः सुधायां कथम् ॥ ६५॥ पीतं कर्णपुटेन यादवपतेश्चित्रं चरित्रामृतं गीतं वैणिकशेखरेण मुनिना मत्या (भक्त्या) महत्या मुहुः । नीतं भावनयानुरागघनया स्वस्यान्तरं सान्तरं पीतं दुर्लभसौरभोज्ज्वलरसं तापत्रयोन्मूलनम् ॥ ६६॥ स्वादु स्वादुरसायनं श्रवणयोः सन्तर्पणं चेतसः कामायासपिपासुतोपशमनं निर्वाणमाशाक्षुधाम् । आलानं भ्रमतो मदेन बहुशः सङ्कल्पदुर्दन्तिनः संसारज्वरनाशनं भगवतो वार्तामृतं पीयाताम् ॥ ६५॥ केशिक्लेशन कंससूदन कृपाम्भोधे कलानां निधे क्रीडाकोल कलापचूड कमलाकान्त कमकीडन । कल्किन् केशव केशय क्रतुपते कञ्जाक्ष कम्बुनिय क्रोधाधीश्वर कालकाल कलये कल्याणदां ते कथाम् ॥ ६८॥ विस्फोटप्रतिमे दृशौ भगवतो रूपावलोकं विना हस्तौ तत्परिचर्यया विरहितौ दुर्दग्धदर्वीसमौ । तन्नामामृतपानरङ्गरहिता जिह्वा जलव्यालिका पुच्छं वृश्चिकजं मनो हरिकथाहीनं नृणामान्तरम् ॥ ६९॥ नेत्रे प्रेरय मे तवाकृतिकृते कौँ कथाकर्णने घ्राणं पूजितमाल्यगन्धकलने पादाम्बुशैत्ये त्वचम् । नैवेद्यान्नरसायनं रसयितुं जिह्वां मनः सन्ततं लीलाकल्पितरूपचिन्तनविधौ भक्तप्रिय श्रीपते ॥ ७०॥ सख्यं श्रीपुरुषोत्तमेन कलयेत् को वा जनः प्राकृतः तस्याभिन्नतया परप्रियतया किञ्जैतदुज्जृम्भते । प्रेमानन्दविश‍ृङ्खलस्य मनसः किं किं न सम्भाव्यते सत्यं तस्य परेशितुर्निरवधि प्रेमास्पदं तत्पदम् ॥ ७१॥ इष्टं दत्तमिदं हुतं निशमितं दत्तं च तप्तं च यत् क्षेत्रापत्यकलत्रमित्रभवनोद्यानानि यद्यत् प्रियम् । तत्सर्वं विनिवेदये भगवते कृष्णाय हृष्टात्मना प्रारब्धोपहृतं वपुः परमुपासार्थं परस्याश्रयन् ॥ ७२॥ श्रीकृष्णाच्युत देव राम नृहरे जिष्णो हरे श्रीपते विष्णो माधव केशवेश्वर विभो विश्वेश वाणीपते । गोपालाव्यय गोप यादवपते गोविन्द गोपीपते नामैकावलिका गले मिलतु मे मोक्षाय लक्ष्मीपतेः ॥ ७३॥ मल्लीकोरकमुग्धमाल्यमहिता मन्दारमूलश्रिताः माकन्दाञ्चितमाधवीमधुझरीमेदस्विमन्दस्मिताः । मन्दान्दोलनमोदमानमुरलीमाधुर्यमाद्यज्जनाः मोदन्तां मम मानसे मधुपतेर्मुक्तिप्रदा मूर्तयः ॥ ७४॥ मन्दोदश्चितहासमुन्नतमुखं माकन्दमूलस्थितं मारोन्मादकरं मनोरमगुणं नायूरबर्हाञ्चितम् । मन्द्रापूरितवंशिकामुखरितं मालासमालालितं मायामानववित्रहं मुररिपुं मोक्षाय मन्यामहे ॥ ७५॥ केकारावकरम्बिते कुतुकितां कुञ्जे कनरकेतके क्रीडाक्लृप्तकदम्बकोरककुलालङ्कारकल्लोलिनीम् । काशत्कल्पितकाञ्चनारकुसुमां कार्तस्वराभास्वरां कैवल्याक्रमकौतुकाय करुणाकादम्बिनीं कामये ॥ ७६॥ माकन्दस्य मनोरमस्य महिते मूले मिलन्तं मुदा मारोदश्चितमन्दहासमुखरं मल्लीस्रजा मण्डितम् । मुग्धं मौरलिकं मरालगमनामुक्तावलीमध्यगं मायामाणवकं महोदयमहो मान्यं महो मन्महे ॥ ७७॥ वेदान्तैर्बहुधोदितं बुधगणैवृन्दारकैर्वन्दितं वृन्देन स्फुरितं गवां विदधतं बाल्योचितां विक्रियाम् । विश्वस्तं व्रजयौवतस्य विलसद्वक्रालकं बालकं विद्मो वैणविकं विलासविवशं वृन्दावने वञ्चकम् ॥ ७८॥ चातुर्यागमदेवता परिचिता चर्यावती चामरैः चाम्पेयस्तबकावतंससुभगा चर्यावती चम्पकैः । चन्द्राकारविशोभमानवदना चूडावती चन्द्रकैः चर्चा काचन चेतसि स्फुरतु मे चर्चावती चन्दनैः ॥ ७९॥ चूडाचुम्बितचारुचन्द्रकचयं चामीकराभास्वरं चञ्चच्चन्दनसौरभं चटुतरं चातुर्यचर्चाचणम् । चारीरञ्जितचाल्यमानचरणं चाम्पेयमालाधरं चेतश्चिन्तय चञ्चलापरिवृतं चर्चासु चन्द्राननम् ॥ ८०॥ नित्योत्सारितभेदवेदशिरसां नीलोत्पलस्थासकं (स्थासकपदवासः) गोपीनां मृगनाभिलेपरचनावक्षोजकुम्भान्तरे । भक्तानां परितापशान्तिविधये कल्याणकादम्बिनी जन्मारम्भफलं दृशां च जयतात् काचित् कला कैशवी ॥ ८१॥ नानारङ्गवशो निरञ्जनरसो निःश्रेयसोद्भावनो नेत्रानन्दकरो नवोदयवरो नीलोत्पलश्रीधरः । नादास्वादपरो नवीनमदनो नन्दात्मजो नायको नित्यं नोऽस्तु निरन्तरं नयनयोर्नित्यप्रियो नीलिमा ॥ ८२॥ कालिन्दीकमनीयकूलमिलितं कस्तूरिकाकन्दलं कन्दर्पोदयकार्मणैकवदनं कर्पूरकुन्दस्मितम् । कृष्णाचुम्बिकदम्बकुब्जकुहरे केलिक्रियाकोमलं (कुञ्जकुहरे) कृष्णाख्यं कलये कदा नु कलये कौतूहलं केवलम् ॥ ८३॥ रासोल्लासरसायने च रसिकं रामाभिराराधितं राकाचन्द्रसमाननं रतिकरं राजीवराजेक्षणम् । रक्तिमस्तुतरङ्गरागरचनं रक्तोल्लसत्कुण्डलं रक्ताशोकतरोरधो रसमयं राधासखं राधये ॥ ८४॥ गत्वा श्रीहरिमन्दिरं भगवतो रूपं विलोक्याद्भुतं प्रक्षाल्यास्य भवादिवन्धचरणं गङ्गादितीर्थाम्बुभिः । मालाभूषणगन्धपीतवसनैर्नोपहारक्रमैः धन्या एव दिवानिशं भगवतः सेवासुखं तन्वते ॥ ८५॥ सर्वव्यापिकदम्बमूलमिलितं लोकत्रयीपालकं गोपालं परिपूर्णसंविदमहो गोपीजनैर्वञ्जितम् । इन्द्रादीप्सितदायकं ब्रजवधूसन्तोषयाच्यापरं कौमारोपचितं पुराणपुरुषं ब्रह्म प्रपद्ये परम् ॥ ८६॥ राधाकिङ्करमीश्वरं त्रिजगतां सर्वज्ञमज्ञं बजे चिन्तारत्नविराजमानचरणं मुक्ताविभूषाञ्जितम् । पीयूषास्पदलालसं विरचितस्तेयं पुनर्गोरसे संसेवे महिमानमद्भुतगुणं नानागुणं निर्गुणम् ॥ ८७॥ कर्पू रैः कुसुमैमनोज्ञसुषमैर्धूपैः प्रदीपोत्तमैः सूपैः स्वादुरसैनर्वोदितघृतानूपैरपूपैः सदा । पूजा श्रीपुरुषोत्तमस्य विभवो यद्यस्ति विस्तार्यताम् । नो चेदस्ति जलं फलं वनभवं देव्यास्तुलस्या दलम् ॥ ८८॥ चञ्चच्चम्पकसारसारसदलं नीलोत्पलपोल्लस- न्मल्लीकेसरनागकेसरलसत्पुन्नागभाजा स्रजा । मूर्तिः श्रीमधुसूदनस्य महिता सुस्थैर्गृहस्थैर्यथा वन्यैः काशकुशै रसादपचितैर्दुःस्थैर्दनस्थैस्तथा ॥ ८९॥ उत्तालैः कलकाहलीकलकलैर्मूर्च्छन्मृदङ्गारवैः घण्टागोङ्कृति घोषणैर्बहुतरैर्भेरीरवाडम्बरैः । (घण्टौघैः कृत) गानैरुत्तमधातुमातुरचनैः संशुद्धगानैर्धनैः साटोपैर्नटनैर्दनैर्मनोज्ञघटनैः पद्मापतिं प्रीणये ॥ ९०॥ गानैर्वैणिकमाधुरीसममिलत्तानैः समानैः शुभैः वाद्यैः श्रोत्ररसायनीयमहसामाद्यैः सतोद्यैस्ततैः (ततातोद्यकैः) । नृत्ये रम्यरसानुरूपघटनाकृत्यैः स्वभृत्यैः कृतैः नव्यैः स्तोत्रपदैर्वचोमय गवीगव्यैः सुभव्यैर्यजेत् ॥ ९१॥ (गवीगव्यं - गोक्षीरम्) कस्तूरीसुरभीकृतैर्जलकणासिक्तैसस्तुलस्या दलैः पन्नीरागुरुसारचन्द्रकणिकासम्मेलितैश्चन्दनैः । क्लृप्तोपाहृति पूजयन् यदुपतिं देवासुरैः पूजिते तस्मिन्नेव महोदये स्वसमये तेजोमये युज्यते ॥ ९२॥ उत्फुल्लैः कुसुमैमनोज्ञसुषमै रत्नोपमैः सद्रुमैः कर्पूरारचनैरशेषमनसामानन्दनैश्चन्दनैः । नानाकारनिवेदनै रसघनैः पीयूषकल्पैर्नवैः येऽत्रार्चन्ति रमापतिं सविभवास्तेषां भवोऽसम्भवः ॥ ९३॥ एषा षोडशिभिस्तथैव दशभिस्तद्वत् पुनः पञ्चभिः पूजा श्रीपुरुषोत्तमस्य रचिता येनोपचारैः क्रमात् । तस्मिन्नेव तनोति मुक्ति महिला कामेन रागोदयं तस्यायुः कृतकृत्यभावमयते तस्यैव जन्मोज्ज्वलम् ॥ ९४॥ पारावारशयं परावरमयं पारायणं पापिनां पुण्यप्रच्युतिपूरकं प्रभुवरं पार्थप्रियं पूर्वजम् । पुष्पामोदपरिष्कृतं पुलकितं पारिप्लवं पावनं प्रत्युप्तं प्रमदाशतैः प्रमुदितं प्राणाधिकं पूजये ॥ ९५॥ रोमाञ्जैः समुदञ्चितैश्चुलुकितं बिभ्रद्वपुः सुन्दरं नेत्रे हर्षजलोज्ज्वले विकसितस्मेरारविन्दश्रिणी । चेतः प्रेमपरिप्लुतं भगवतो लीलाप्रवीणैर्गुणैः यः स्तौति प्रतिवासरं मुरहरं मुक्त्यै स शक्तः परम् ॥ ९६॥ संसारज्वरचन्दनैः सुमनसामानन्दनैर्वन्दनैः आनन्दादति नन्दनन्दनममुं वन्देतयस्सुन्दरैः । तद् वृन्दारकवन्दितं पदमिदं धिक्कृत्य पौरन्दरं विन्दत्यव्ययसंविदं स परमानन्दाद्वितीयं महः ॥ ९७॥ योगी तं तनुते पुरो मुररिपोर्नामामृतैरायतैः योगीन्द्रः श्रुतिशासने सुषमतो मोहोल्लसन्मानसः । भोगीशस्फुटतल्पकल्पनममुं सेवेत यः केशवं भोगीशः स पुमान् स एव चतुरो भुक्तेश्च मुक्तेः क्षमः ॥ ९८॥ कालोल्लासिकदम्बकोरककुले कार्पूरिते केतकैः केलीकुञ्जकुटीरके कलकलैः कल्लोलिते केकिनाम् । क्लिष्टानां कमनीयकान्तिसुषमः कस्तूरिकाकोमलः कल्याणानि करोतु कौतुकमयः क्लृतोदयः कालिमा ॥ ९९॥ मौलौ नीलमणिच्छटा मृगदृशां नीलोत्पलं कर्णयोः चक्षुष्यञ्जनरञ्जनं कुचयुगे कस्तूरिकालेपनम् । नीलं नेत्रदलं नितम्बफलके पादाम्बुजे षट्पदं (नेत्रम्-जटा वस्त्राञ्चलं च) सर्वस्वं श्रुतिशेखरस्य कलये वृन्दावने व्याकृतम् ॥ १००॥ मुग्धेन्दीवरमालिकाविरचनं वृन्दावनक्ष्मारुहा- मामोदाय गवां नवाम्बुदसमं सारं तमालाङ्कुरम् । माद्यन्मन्मथमानयौवनमदाघूर्णभ्रुवां सुभ्रुवा- मास्वाद्यं महये महो महदहो माधुर्यमूलायनम् ॥ १०१॥ दिक्पालावलिमौलिरञ्जितपदाम्भोजं त्रिलोकेश्वरं गोपस्त्रीजनवस्त्रमोषणकलापरीणपाटच्चरम् । लक्ष्मीकल्पितदिव्यतल्पविलसत्पर्यङ्कपर्याकुलं कालिन्दीतटसैकतीयशयने स्वेच्छासुषुप्तं श्रये ॥ १०२॥ यद्दण्डग्रहणं कषायवसनादानं शिरोमुण्डनं भक्तिं भागवतीं विना हतमतेः तत्केवलं दण्डनम् । कृष्णाने यदि दण्डवन्निपतनं तद्यातनां दण्डयेत् यातायातकृतां भवेत् (भवे) परिभवे तत्सम्भवेन्मण्डनम् ॥ १०३॥ दण्डेनैकतरेण किं गुरुतरैर्दण्डैस्त्रिभिः किं कृतं दीर्घश्मश्रुभवैर्जटायतजटाभारैरपारैरलम् । केशक्लेशनवेष एष भगवद्भक्तिं विना सज्जनाः श्रीनारायणमाश्रयध्वमिह वो मुक्तौ यदा कामना ॥ १०४॥ नैवेद्यौदनभोजनं भगवतो निर्माल्यमाल्योत्तमैः भूषा तच्चरणाब्जकुङ्कुमकणैर्फालस्थलोद्धृलनम् । तन्युक्ताम्बरडम्बरैरनुपमैरुष्णीषसंवेष्टनं भूयासुर्मम मुक्तये मुनिमताः सेवाभिषेकोत्सवाः ॥ १०५॥ नैवेद्यं पुरुपोत्तमस्य सुरसं पीयूषसारोपमं सामोदैस्तुलसीदलैः परिचितं सर्वाधगर्वापहम् । कर्परोत्करसौरभं शुभतरं चक्षुर्मनोरञ्जनं भुञ्जानो भवरञ्जनं कलयते विष्णोः पदं केवलम् ॥ १०६॥ दास्याय क्षणिकायुषां प्रभवते देवावलीसम्पदां नैराश्याय फलेषु दर्शितमहालोभेषु भोगेच्छया । लास्याय प्रियसम्पदां विदधते विख्यातमाचार्यकं दास्याय स्पृहयामहे भगवतो मोक्षैकदीक्षागुरोः ॥ १०७॥ नित्यं कर्मकरौ करौ शुचितरौ सेवाकथातत्परौ पादौ सुन्दरमन्दिरागमसुसंवादौ सदार्द्रै कृतौ । घ्राणं मौलिविमुक्तमुग्धतुलसीघ्राणे कृतप्रीणने विद्वत्ता कविता विचित्रचरिते कृष्णस्य मे नन्दताम् ॥ १०८॥ जारत्वं गुरुतल्पदोषशमनं गोपीषु यस्य प्रभोः सद्यो ब्रह्मवधं धुनोति बहुधा यद्ब्रह्मरक्षोवधः । स्त्रीभिः शीधुनिषेवणं गुरुसुधापानं क्षिणोति क्षणात् (गुरुसुरापानं) स्तेयं गोरसमोषणं शतमहो तत्सङ्गमः सङ्गमः ॥ १०९॥ वेदान्तैर्बहुधावृतं श्रुतिशतैः सङ्घाकृतं श्रीकृतं सिद्धान्तैरुररीकृतं मुनिवरैः सर्वैः पुराणैर्वृतम् । चित्त स्वास्थ्यहृतं हरेण विवृतं मोक्षार्थमत्यादृतं (चित्ता) श्रीकृष्णस्य निपीयतां रसभृतं श्रोत्रेण नामामृतम् ॥ ११०॥ लीलासंश्रवणे हरोऽतिरसिकः श्रीनारदः कीर्तने ब्रह्मा संस्मरणे पदाम्बुरुहयोः संसेवने पद्मजा । पूजायां सुरनायकः स्तुतिविधौ व्यासो गरुत्मान् पुनः दास्ये सख्यकृते नरोऽप्यतिरतः स्वात्मार्पणे श्रीपतेः ॥ १११॥ एकोऽपि त्रिगुणानुबिम्बकलया त्रैविध्यमाभासयन् मायाकल्पलताश्रयः शुकमुखैः संसेवितो यो द्विजैः । आयासैरफलैरलं कृतधियः सोऽयं परं सेव्यतां नीलक्ष्माधरमौलिमण्डनमणिः कैवल्यकल्पद्रुमः ॥ ११२॥ देवश्रेणिकिरीटपङ्कजविसंवादेन पादेन त- द्वेदोदीरितचित्प्रकाशपरमाह्लादेन नादेन तत् । सिद्धं चेदखिलं मनोज्ञमुरलीनादेन मादेन नो वागाडम्बरजृम्ममाणकलहोन्मादेन वादेन किम् ॥ ११३॥ इत्येषा पुरुषोत्तमस्य कथिता भक्तिर्विमुक्तिप्रदा नास्यां वादकथा तथा मतिमतां कल्याणिनी शोभते । साकारस्य हरेरुपासनमिदं नाकारसम्मेलनं पुंसः सन्तनुते तनोति परमब्रह्मामृतं केवलम् ॥ ११४॥ को मूढः सुपथे स्थितेऽपि चतुरैर्विद्वज्जनैःसंश्रिते नानोपद्रववर्जिते स्वसुकृतैरावर्तितैरर्जिते । यैः कैश्चित् कृपणैः कृतं परिहतं विज्ञैः कदर्थीकृतं कर्तुं दुष्करमुग्रदुःखविकटं दुष्टं दुरध्वं श्रयेत् ॥ ११५॥ हे सौमत्य जितं त्वया भगवता पाण्डित्यकृत्यं कृतं वादित्वप्रतिपादितं तदशुभं तत्त्वे कवित्वस्थितम (?) । मार्गान् दुर्गमकण्टकातिविकटान भूयः कृताधोगतीन् यन्मुक्त्वा हरिराश्रितः सुमनसां स्वर्गापवर्गप्रदः ॥ ११६॥ श्रीजीवः कविडिण्डिमो नृपगुरुः षड्दर्शिनीपण्डितो भक्तिप्रस्थितदेशिकोऽखिलकलालङ्काररत्नाकरः । विंशत्यूर्ध्वप्रशतीमितैर्व्यरचयत् पद्यैः क्रमाद्गुम्भितैः श्रीकृष्णस्य समर्चनाविधिकृते श्रीवैजयन्ती शुभाम् ॥ ११७॥ श्रीनीलाचलवासिनो भगवतो मोकचिन्तामणेः लीलाविग्रहशालिनः श्रुतिशिरोराजिष्णुचूडामणेः । श्रीमजीवकवीश्वरेण चरणाम्भोजातयोरर्पिता सम्मृष्टा गुणशालिनी विजयतां श्रीवैजयन्ती चिरम् ॥ ११८॥ इति श्रीमत्कविराजराजगुरुत्रिलोचनाचार्यतनय श्रीमद्भक्तिप्रस्थानप्रणयनाभिनव बादरायण श्रीनारायणचरणपरायणकविडिण्डिमवाहिनीपति गजराजराजगुरु श्रीजीवदेवाचार्यविरचितं भक्तिवैजयन्तीस्तोत्रं सम्पूर्णम् । Proofread by Gopalakrishnan
% Text title            : Shri Bhaktivaijayanti Stotram 06 15
% File name             : bhaktivaijayantIstotram.itx
% itxtitle              : bhaktivaijayantIstotram (jIvadevAchAryavirachitam)
% engtitle              : bhaktivaijayantIstotram
% Category              : vishhnu, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : jIvadevAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-15
% Source                : jIvadevAchArya
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org