ब्राह्मणप्रोक्तं सारस्वतं विष्णुस्तोत्रम्
ब्राह्मण उवाच ।
श्रूयतां तव यच्छ्रेयस्तथाऽन्येषां च पापिनाम् ।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ ६४॥
प्रातरुत्थाय जप्तव्यं मध्याह्नेऽह्नः क्षयेऽपि ।
वाऽसंशयं सदा जप्यो जपतां पुष्टिशान्तिदः ॥ ६५॥
(स्तोत्रम्)- ॐ हरिं कुष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ६६॥
चराचरगुरुं नाथं गोविन्दं शेषशायिनम् ।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥ ६७॥
शङ्खिनं चक्रिणं शार्ङ्गधारिणं स्रग्धरं परम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ६८॥
दामोदरमुदाराक्षं पुण्डरीकाक्षमच्युतम् ।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ ६९॥
नारायणं नरं शौरिं माधवं मधुसूदनम् ।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥ ७०॥
केशवं चन्द्रसूर्याक्षं कंसकेशिनिषूदनम् ।
प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु ॥ ७१॥
श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ ७२॥
यमीशं सर्वभूतानां ध्यायन्ति यतयो ।
अक्षरम्।वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ ७३॥
समस्तालम्बनेभ्यो यं व्यावृत्त्य मनसो गतिम् ।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ ७४॥
सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् ।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ ७५॥
परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥ ७६॥
पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ ७७॥
ब्रह्म भूत्वा जगत्सर्वं सदेवासुरमानुषम् ।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ ७८॥
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।
प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः ॥ ७९॥
ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् ।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥ ८०॥
स्रष्टा भूत्वा स्थितो योगी स्थितावसुरसूदनः ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ ८१॥
धृता मही हता दैत्याः परित्रातास्तथा सुराः ।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि जनार्दनम् ॥ ८२॥
यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ८३॥
पातालवीथीभूतानि तथा लोकान् निहन्ति यः ।
तमन्तपुरुषं रुद्रं प्रणतोऽस्मि सनातनम् ॥ ८४॥
सम्भक्षयित्वा सकलं यथासृष्टमिदं जगत् ।
यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥ ८५॥
सुरासुराः पितृगणाः यक्षगन्धर्वराक्षसाः ।
सम्भूता यस्य देवस्य सर्वगं तं नमाम्यहम् ॥ ८६॥
समस्तदेवाः सकला मनुष्याणां च जातयः ।
यस्यांशभूता देवस्य सर्वगं तं नतोऽस्म्यहम् ॥ ८७॥
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ८८॥
यस्मान्नान्यत्परं किञ्चिद्यस्मिन् सर्वं महात्मनि ।
यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् ॥ ८९॥
यथा सर्वेषु भूतेषु गूढोऽग्निरिव दारुषु ।
विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ॥ ९०॥
यथा विष्णुमयं सर्वं ब्रह्मादि सचराचरम् ।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ ९१॥
शुभाशुभानि कर्माणि रजःसत्त्वतमांसि च ।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ ९२॥
यन्निशायां च यत्प्रातर्यन्मध्याह्नापराह्नयोः ।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ ९३॥
यत्तिष्ठता यद्व्रजता यच्च शय्यागतेन मे ।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ ९४॥
अज्ञानतो ज्ञानतो वा मदाच्चलितमानसैः ।
तत्क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ॥ ९५॥
परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ॥ ९६॥
यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने ।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥ ९७॥
यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम ।
वयः परिणतौ यच्च यच्च जन्मातरे कृतम् ॥ ९८॥
तन्नारायण-गोविन्द-हरिकृष्णेश-कीर्तनात् ।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥ ९९॥
विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ १००॥
भविष्यन्नरकघ्नाय नमः कंसविघातिने ।
अरिष्टकेशिचाणूरदेवारिक्षयिणे नमः ॥ १०१॥
कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति ।
कोऽन्यो नाशयति बलाद्दर्पं हैहयभूपतेः ॥ १०२॥
कः करिष्यत्यथाऽन्यो वै सागरे सेतुबन्धनम् ।
वधिष्यति दशग्रीवं कः सामात्यपुरःसरम् ॥ १०३॥
कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति ।
प्रलम्बपूतनादीनां त्वामृते मधुसूदन ।
निहन्ताऽप्यथवा शास्ता देवदेव भविष्यति ॥ १०४॥
(फलश्रुतिः)-जपन्नेवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् ।
इष्टानिष्टप्रसङ्गेभ्यो ज्ञानतोऽज्ञानतोऽपि वा ॥ १०५॥
कृतं तेन तु यत्पापं सप्तजन्मान्तराणि वै ।
महापातकसंज्ञं वा तथा चैवोपपातकम् ॥ १०६॥
यज्ञादीनि च पुण्यानि जपहोमव्रतानि च ।
नाशयेद्योगिनां सर्वमामपात्रमिवाम्भसि ॥ १०७॥
नरः संवत्सरं पूर्णं तिलपात्राणि षोडश ।
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् ॥ १०८॥
अविलुप्तब्रह्मचर्यं सम्प्राप्य स्मरणं हरेः ।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ १०९॥
यथैतत्सत्यमुक्तं मे न ह्यल्पमपि मे मृषा ।
राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ ११०॥
इति वामनपुराणे षडशीतितमाध्यायान्तर्गतं
ब्राह्मणप्रोक्तं सारस्वतं विष्णुस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय ८६/६६-११०॥
vAmanapurANa . adhyAya 86/66-110..
Proofread by PSA Easwaran