ब्रह्माशिवदेवादिभिः कृतं विष्णुस्तोत्रम्

ब्रह्माशिवदेवादिभिः कृतं विष्णुस्तोत्रम्

(ब्रह्मा-शिव-देवादय ऊचुः) महत्तमा मूर्तिमयी तवाजा तदास्य पूर्वाज्जनितोहऽमादौ । मया ततं विश्वमिदं सदैव यतो नमस्तत्पुरुषोत्तमाय ॥ १९॥ अजस्य याम्याज्जनितोऽहमादौ विष्णुर्महाकल्पकरोऽधिकारी । स्वकीयनाम्ना तु मया ततं तद्विश्वे सदैवं च नमो नमस्ते ॥ २०॥ अव्यक्तपाश्चात्यमुखात्सुजन्मा शिवोऽहमादौ सुरतत्त्वकारी । मया महाकल्पकरस्तृतीया त्वदाज्ञया देव नमो नमस्ते ॥ २१॥ प्रधानवक्त्रोत्तरतोऽहमादौ जातो गणेशः किल कल्पकर्ता । मया ततं विश्वमिदं सदैव तस्मै नमः कारुणिकोत्तमाय ॥ २२॥ अजार्द्धवक्त्राज्जनितोऽहमादौ मरुन्महाकल्पकरो महेन्द्रः । मया ततं विश्वमिदं स्वकल्पे यदाज्ञया देव नमो नमस्ते ॥ २३॥ प्रथानभालाक्षिसमुद्भवोऽहं वह्नेर्महाकल्पकरो गुहाख्यः । विनिर्मितं विश्वमिदं मया तद्यदाज्ञया नाथ नमो नमस्ते ॥ २४॥ अजामुखात्पूर्वगताच्च जातश्चादौ महाकल्पकरोऽहमग्निः । ब्रह्माण्डमेतच्च मया ततं वै ब्रह्माण्डकल्पाय नमो नमस्ते ॥ २५॥ अजाभुजाद्दक्षिणतोऽहमादौ जातो महाकल्पकरः सधर्मः । मया सदेवै रचितं समग्रं लिङ्गाख्यकल्पाय नमो नमस्ते ॥ २६॥ अजाभुजात्पश्चिमतोऽहमादौ जातो महाकल्पकरः स यज्ञः । मया ततं विश्वमिदं समग्रं मत्स्याख्यकल्पाय नमो नमस्ते ॥ २७॥ प्रधानबाहूत्तरतोऽहमादौ जातो महाकल्पकरः प्रचेताः । मया ततं नाथ तवाज्ञयेदं कर्माख्यकल्पाय नमो नमस्ते ॥ २८॥ ब्रह्माण्डतमसो जातस्त्वद्दासोऽहं विभीषणः । मया ततं त्रिलोकं च नमस्ते मनुरूपिणे ॥ २९॥ ब्रह्माण्डसद्गुणाज्जातश्चित्तोऽहं मनुकारकः । मया ततं च त्रैलोक्यं स्वायम्भुव नमोऽस्तु ते ॥ ३०॥ ब्रह्माण्डरजसो जातो वायुर्मन्वन्तरं ततम् । मया स्वारोचिषं स्वामिन्नमस्ते मनुरूपिणे ॥ ३१॥ ब्रह्माण्डमनसो जातो ध्रुवोऽहं मनुकारकः । मयोत्तमं च रचितं नमस्तेऽस्तु तवाज्ञया ॥ ३२॥ ब्रह्माण्डश्रवणाज्जातो विश्वकर्माहमीश्वरः । मया ततं रैवतं च नमो देव तवाज्ञया ॥ ३३॥ ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः । तवाज्ञया ततं विश्वं मनुरूपाय ते नमः ॥ ३४॥ ब्रह्माण्डनेत्रतो जातः सोमोऽहं तु मया ततम् । वैवस्वतान्तरं रम्यं नमस्ते मनुरूपिणे ॥ ३५॥ ब्रह्माण्डरसनाज्जातो मोहोऽहं मनुकारकः । नमस्ते मनुरूपाय मया सावर्णिकं ततम् ॥ ३६॥ ब्रह्माण्डघ्राणतो जातो बुधोऽहं नाथ किङ्करः । निर्मितं ब्रह्मसावर्णं मया तात नमो नमः ॥ ३७॥ ब्रह्माण्डवक्त्रतो जातो जीवोऽहं मनुकारकः । मया वै दक्षसावर्णं ततं तत्ते नमो नमः ॥ ३८॥ ब्रह्माण्डकरतो जातः शुक्रोहं तव किङ्करः । निर्मितं रुद्रसावर्णं मया तुभ्यं नमो नमः ॥ ३९॥ ब्रह्माण्डपदतो जातो मन्दोऽहं नाथ तेऽनुगः । ततं वै धर्मसावर्णं प्रभातेऽस्मै नमो नमः ॥ ४०॥ ब्रह्माण्डलिङ्गतो जातो राहुश्चाहं तव प्रियः । मया भौमं कृतं नाथ नमस्ते मनुरूपिणे ॥ ४१॥ ब्रह्माण्डगुह्यतो जातः केतुश्चाहं तवानुगः । भौतं मन्वतरं सृष्टं तस्मै देवाय ते नमः ॥ ४२॥ इति भविष्यपुराणे प्रतिस्गपर्वे चतुर्थखण्डे पञ्चविंशाध्यायान्तर्गतं ब्रह्मा-शिव-देवादिभिः कृतं विष्णुस्तोत्रं समाप्तम् । भविष्यपुराण । प्रतिसर्गपर्व । चतुर्थखण्ड । अध्याय २५/१९-४२॥ bhaviShyapurANa . pratisargaparva . chaturthakhaNDa . adhyAya 25/19-42.. Proofread by PSA Easwaran
% Text title            : Brahmashivadevadibhih Kritam Vishnu Stotram
% File name             : brahmAshivadevAdibhiHkRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (brahmAshivadevAdibhiHkRitaM bhaviShyapurANAntargatam mahattamA mUrtimayI tavAjA)
% engtitle              : brahmAshivadevAdibhiHkRRitaM viShNustotram
% Category              : vishhnu, vishnu, bhaviShyapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhaviShyapurANa | pratisargaparva | chaturthakhaNDa | adhyAya 25/19-42||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Hindi)
% Latest update         : October 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org