ब्रह्मणा कृतं ६ विष्णुस्तोत्रम्
ब्रह्मोवाच ।
द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा ।
त एव भवतो रूपे मूर्त्तामूर्त्तात्मिके प्रभो ॥ ३५॥
द्वे ब्रह्मणी त्वणीयोऽतिस्थूलात्मन्सर्व सर्ववित् ।
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ३६॥
ऋग्वेदस्त्वं यजुर्वेदस्सामवेदस्त्वथर्वणः ।
शिक्षा कल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ३७॥
इतिहासपुराणे च तथा व्याकरणं प्रभो ।
मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ३८॥
आत्माऽऽत्मदेहगुणवद्विचाराचारि यद्वचः ।
तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ३९॥
त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्णवत् ।
अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ४०॥
शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः ।
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं न च सर्ववेद्यः ॥ ४१॥
अणोरणीयांसमसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या ।
धीरस्य धीरस्य बिभर्त्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ४२॥
त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि ।
यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ ४३॥
एकश्चतुर्द्धा भगवान्हुताशो वर्चोविभूतिं जगतो ददासि ।
त्वं विश्वतश्चक्षुरनन्तमूर्त्ते त्रेधा पदं त्वं निदधासि धातः ॥ ४४॥
यथाग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः ।
तथा भवान्सर्वगतैकरूपी रूपाण्यश्षाण्यनुपुष्यतीश ॥ ४५॥
एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ।
त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ४६॥
व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् ।
सर्वज्ञस्सर्ववित्सर्वशक्तिज्ञानबलर्द्धिमान् ॥ ४७॥
अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी ।
क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः ॥ ४८॥
निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः ।
सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ४९॥
सकलावरणानीतनिरालम्बनभावन ।
महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५०॥
नाकारणात्कारणाद्वा कारणाकारणान्न च ।
शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ ५१॥
इति विष्णुपुराणे पञ्चमभागे प्रथमाध्यायान्तर्गतं
ब्रह्मणा कृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ५/१/३६-५१॥
viShNupurANa . adhyAya 5/1/36-51..
Proofread by PSA Easwaran