ब्रह्मकृतं १२ विष्णुस्तोत्रम्
विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च ।
विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥ ४२॥
जय विश्व महादेव जय लोकहिते रत ।
जय योगीश्वर विभो जय योगपरावर ॥ ४३॥
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर ।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ ४४॥
असङ्ख्येयगुणाजेय जय सर्वपरायण ।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ ४५॥
सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय ।
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ ४६॥
महोरग वराहाद्य हरिकेश विभो जय ।
हरिवास विशामीश विश्वावासामिताव्यय ॥ ४७॥
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय ।
असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ॥ ४८॥
अनन्त विदितप्रज्ञ नित्यं भूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ॥ ४९॥
गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूतसम्भव ।
भूतार्थतत्त्व लोकेश जय भूतविभावन ॥ ५०॥
आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर ।
उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ॥ ५१॥
निसर्गसर्गाभिरत कामेश परमेश्वर ।
अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ॥ ५२॥
प्रजापतिपते देव पद्मनाभ महाबल ।
आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ॥ ५३॥
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः ।
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ ५४॥
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो ।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः ॥ ५५॥
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ ५६॥
न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते न सम्भवम् ॥ ५७॥
त्वद्भक्तिनिरता देव नियमैस्त्वां समाहिताः ।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ ५८॥
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ ५९॥
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥ ६०॥
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ ६१॥
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ ६२॥
धर्मसंस्थापनार्थाय दैतेयानां वधाय च ।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥ ६३॥
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो ।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ ६४॥
सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् ॥ ६५॥
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ ६६॥
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ ६७॥
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।
धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ ६८॥
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥ ६९॥
स्थिताश्च सर्वे त्वयि भूतसङ्घाः कृत्वाऽऽश्रयं त्वां वरदं सुबाहो ।
अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥ ७०॥
इति महाभारते भीष्मपर्वणि ३३ अध्यायान्तर्गतं
ब्रह्मकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
महाभारत । भीष्मपर्व । अध्याय ६१/४२-७०॥
mahAbhArata . bhIShmaparva . adhyAya 61/42-70..
Proofread by PSA Easwaran