ब्रह्मकृतं १ जगन्नाथस्तोत्रम्
ब्रह्मोवाच ।
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नमः ।
अहं त्वं त्वमहं सर्वं जगदेतच्चराचरम् ॥ १५॥
महदादि जगत्सर्वं मायाविलसितं तव ।
अध्यस्तं त्वयि विश्वात्मंस्त्वयैव परिणामितम् ॥ १६॥
यदेतदखिलाभासं तत्त्वदज्ञानसम्भवम् ।
ज्ञाते त्वयि विलीयेत रज्जुसर्पादिबोधवत् ॥ १७॥
अनिर्वक्तव्यमेवेदं सत्त्वात्सत्त्वविवेकतः ।
अद्वितीय जगद्भास स्वप्रकाश नमोऽस्तु ते ॥ १८॥
विषयानन्दमखिलं सहजानन्दरूपिणः ।
अंशं तवोपजीवन्ति येन जीवन्ति जन्तवः ॥ १९॥
निष्प्रपञ्च निराकार निर्विकार निराश्रय ।
स्थूलसूक्ष्माणुमहिमन्स्थौल्यसूक्ष्मविवर्जित ॥ २.२७.२०॥
गुणातीत गुणाधार त्रिगुणात्मन्नमोऽस्तु ते ॥ २१॥
त्वन्मायया मोहितोऽहं सृष्टिमात्रपरायणः ।
अद्यापि न लभे शर्म अन्तर्य्यामिन्नमोस्तु ते ॥ २२॥
त्वन्नाभिपङ्कजाज्जातो नित्यं तत्रैव संस्तुवन् ।
नातिक्रमितुमीशोऽस्मि मायां ते कोऽन्य ईश्वरः ॥ २३॥
अहं यथाण्डमध्येऽस्मिन् रचितः सृष्टिकर्मणि ।
तथानुलोमकलिता ब्रह्माण्डे ब्रह्मकोटयः ॥ २४॥
सार्द्धत्रिकोटिसङ्ख्यानां विरिञ्चीनामपि प्रभो ।
नैकोऽपि तत्त्वतो वेत्ति यथाहं त्वत्पुरः स्थितः ॥ २५॥
नमोऽचिन्त्यमहिम्ने ते चिद्रूपाय नमो नमः ।
नमो देवाधिदेवाय देवदेवाय ते नमः ॥ २६॥
दिव्यादिव्यस्वरूपाय दिव्यरूपाय ते नमः ।
जरामृत्युविहीनाय मृत्युरूपाय ते नमः ॥ २७॥
ज्वलदग्निस्वरूपाय मृत्योरपि च मृत्यवे ।
प्रपन्नमृत्युनाशाय सहजानन्दरूपिणे ।
भक्तिप्रियाय जगतां मात्रे पित्रे नमो नमः ॥ २८॥
प्रणतार्तिविनाशाय नित्योद्योगिन्नमोऽस्तु ते ।
नमो नमस्ते दीनानां कृपासहजसिन्धवे ॥ २९॥
पराय पररूपाय परम्पाराय ते नमः ।
अपारपारभूताय ब्रह्मरूपाय ते नमः ॥ २.२७.३०॥
परमार्थस्वरूपाय नमस्ते परहेतवे ।
परम्परापरिव्याप्तपरतत्त्वपराय ते ॥ ३१॥
प्रणतार्तिविनाशाय नमः स्वात्मैकभानवे ।
पुरा यत्प्रार्थितं स्वामिन्सृष्टिभारावतारणे ॥ ३२॥
तत्कुरुष्व जगन्नाथ सहजाक्तदरूपभाक् ।
त्वयि प्रसन्ने किं नाथ दुर्लभं मयि विद्यते ॥ ३३॥
त्वयैवाहं पृथग्लीलाभेदाद्भिन्नः कृपाम्बुधे ।
अज्ञानतिमिरच्छन्ने जगत्कारागृहान्तरे ॥ ३४॥
भ्राम्यन्न द्वारमाप्नोति त्वामृते मुक्तिहेतवे ॥ ३५॥
नमो नमस्ते जगदेकवन्द्य सुरासुराभ्यर्चितपादपद्म ।
नमो नमस्तापहरैकचन्द्र नमो नमः शर्मसुबोधसान्द्र ॥ ३६॥
नमो नमः कल्पकदूरभूत दुष्प्राप्यकामप्रद कल्पवृक्ष ।
दीनाशरण्यप्रणतैकदुःखसङ्घोद्धृतौ नित्यसुबद्धपक्ष ॥ ३७॥
प्रसीद जगतां नाथ मग्नानां दुःखसागरे ।
कटाक्षलीलापातेन त्रायस्व करुणाकर ॥ ३८॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
सप्तविंशाध्यायान्तर्गतं ब्रह्मकृतं जगन्नाथस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय २७/१५-३८॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 27/15-38..
Proofread by PSA Easwaran